This overlay will guide you through the buttons:

| |
|
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम् ॥ १॥
श्रुत्वा तम् भीम-निर्ह्रादम् शक्र-अशनि-सम-स्वनम् । वीक्षमाणाः दिशः सर्वाः दुद्रुवुः वानराः भृशम् ॥ १॥
śrutvā tam bhīma-nirhrādam śakra-aśani-sama-svanam . vīkṣamāṇāḥ diśaḥ sarvāḥ dudruvuḥ vānarāḥ bhṛśam .. 1..
तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २॥
तान् उवाच ततस् सर्वान् हनूमान् मारुतात्मजः । विषण्ण-वदनान् दीनान् त्रस्तान् विद्रवतः पृथक् ॥ २॥
tān uvāca tatas sarvān hanūmān mārutātmajaḥ . viṣaṇṇa-vadanān dīnān trastān vidravataḥ pṛthak .. 2..
कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः । त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥ ३॥
कस्मात् विषण्ण-वदनाः विद्रवध्वम् प्लवङ्गमाः । त्यक्त-युद्ध-समुत्साहाः शूर-त्वम् क्व नु वः गतम् ॥ ३॥
kasmāt viṣaṇṇa-vadanāḥ vidravadhvam plavaṅgamāḥ . tyakta-yuddha-samutsāhāḥ śūra-tvam kva nu vaḥ gatam .. 3..
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे । शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४॥
पृष्ठतस् अनुव्रजध्वम् माम् अग्रतस् यान्तम् आहवे । शूरैः अभिजन-उपेतैः अयुक्तम् हि निवर्तितुम् ॥ ४॥
pṛṣṭhatas anuvrajadhvam mām agratas yāntam āhave . śūraiḥ abhijana-upetaiḥ ayuktam hi nivartitum .. 4..
एवमुक्ताः सुसङ्क्रुद्धा वायुपुत्रेण धीमता । शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥ ५॥
एवम् उक्ताः सु सङ्क्रुद्धाः वायुपुत्रेण धीमता । शैल-शृङ्गान् द्रुमान् च एव जगृहुः हृष्ट-मानसाः ॥ ५॥
evam uktāḥ su saṅkruddhāḥ vāyuputreṇa dhīmatā . śaila-śṛṅgān drumān ca eva jagṛhuḥ hṛṣṭa-mānasāḥ .. 5..
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः । परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६॥
अभिपेतुः च गर्जन्तः राक्षसान् वानर-ऋषभाः । परिवार्य हनूमन्तम् अन्वयुः च महा-आहवे ॥ ६॥
abhipetuḥ ca garjantaḥ rākṣasān vānara-ṛṣabhāḥ . parivārya hanūmantam anvayuḥ ca mahā-āhave .. 6..
स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः । हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७॥
स तैः वानर-मुख्यैः तु हनूमान् सर्वतस् वृतः । हुताशनः इव अर्चिष्मान् अदहत् शत्रु-वाहिनीम् ॥ ७॥
sa taiḥ vānara-mukhyaiḥ tu hanūmān sarvatas vṛtaḥ . hutāśanaḥ iva arciṣmān adahat śatru-vāhinīm .. 7..
स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८॥
स राक्षसानाम् कदनम् चकार सु महा-कपिः । वृतः वानर-सैन्येन काल-अन्तक-यम-उपमः ॥ ८॥
sa rākṣasānām kadanam cakāra su mahā-kapiḥ . vṛtaḥ vānara-sainyena kāla-antaka-yama-upamaḥ .. 8..
स तु शोकेन चाविष्टः कोपेन महता कपिः । हनूमान्रावणि रथे महतीं पातयच्छिलाम् ॥ ९॥
स तु शोकेन च आविष्टः कोपेन महता कपिः । हनूमान् रावणि रथे महतीम् पातयत् शिलाम् ॥ ९॥
sa tu śokena ca āviṣṭaḥ kopena mahatā kapiḥ . hanūmān rāvaṇi rathe mahatīm pātayat śilām .. 9..
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा । विधेयाश्व समायुक्तः सुदूरमपवाहितः ॥ १०॥
ताम् आपतन्तीम् दृष्ट्वा एव रथः सारथिना तदा । विधेय-अश्व समायुक्तः सु दूरम् अपवाहितः ॥ १०॥
tām āpatantīm dṛṣṭvā eva rathaḥ sārathinā tadā . vidheya-aśva samāyuktaḥ su dūram apavāhitaḥ .. 10..
तमिन्द्रजितमप्राप्य रथथं सहसारथिम् । विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ॥ ११॥
तम् इन्द्रजितम् अ प्राप्य रथथम् सह सारथिम् । विवेश धरणीम् भित्त्वा सा शिला-व्यर्थम् उद्यता ॥ ११॥
tam indrajitam a prāpya rathatham saha sārathim . viveśa dharaṇīm bhittvā sā śilā-vyartham udyatā .. 11..
पतितायां शिलायां तु व्यथिता रक्षसां चमूः । निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ 12 ॥
पतितायाम् शिलायाम् तु व्यथिता रक्षसाम् चमूः । निपतन्त्या च शिलया राक्षसाः मथिताः भृशम् ॥ १२ ॥
patitāyām śilāyām tu vyathitā rakṣasām camūḥ . nipatantyā ca śilayā rākṣasāḥ mathitāḥ bhṛśam .. 12 ..
तमभ्यधावञ्शतशो नदन्तः काननौकसः । ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ॥ 13 ॥
तम् अभ्यधावन् शतशस् नदन्तः काननौकसः । ते द्रुमान् च महा-कायाः गिरि-शृङ्गाणि च उद्यताः ॥ १३ ॥
tam abhyadhāvan śataśas nadantaḥ kānanaukasaḥ . te drumān ca mahā-kāyāḥ giri-śṛṅgāṇi ca udyatāḥ .. 13 ..
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः । वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ॥ 14 ॥
क्षिपन्ति इन्द्रजितम् संख्ये वानराः भीम-विक्रमाः । वृक्ष-शैल-महा-वर्षम् विसृजन्तः प्लवङ्गमाः ॥ १४ ॥
kṣipanti indrajitam saṃkhye vānarāḥ bhīma-vikramāḥ . vṛkṣa-śaila-mahā-varṣam visṛjantaḥ plavaṅgamāḥ .. 14 ..
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः । वानरैस्तैर्महाभीर्घोररूपा निशाचराः ॥ 15 ॥
शत्रूणाम् कदनम् चक्रुः नेदुः च विविधैः स्वनैः । वानरैः तैः महा-भीः घोर-रूपाः निशाचराः ॥ १५ ॥
śatrūṇām kadanam cakruḥ neduḥ ca vividhaiḥ svanaiḥ . vānaraiḥ taiḥ mahā-bhīḥ ghora-rūpāḥ niśācarāḥ .. 15 ..
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ । स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥ 16 ॥
वीर्यात् अभिहताः वृक्षैः व्यवेष्टन्त रण-क्षितौ । स सैन्यम् अभिवीक्ष्य अथ वानर-अर्दितम् इन्द्रजित् ॥ १६ ॥
vīryāt abhihatāḥ vṛkṣaiḥ vyaveṣṭanta raṇa-kṣitau . sa sainyam abhivīkṣya atha vānara-arditam indrajit .. 16 ..
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ । स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ॥ 17 ॥
प्रगृहीत-आयुधः क्रुद्धः परान् अभिमुखः ययौ । स शर-ओघान् अवसृजन् स्व-सैन्येन अभिसंवृतः ॥ १७ ॥
pragṛhīta-āyudhaḥ kruddhaḥ parān abhimukhaḥ yayau . sa śara-oghān avasṛjan sva-sainyena abhisaṃvṛtaḥ .. 17 ..
जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः । शूलैरशनिभिः खङ्गै: पट्टशै: कूटमुद्गरैः ॥ 18 ॥
जघान कपि-शार्दूलान् सु बहून् दृष्ट-विक्रमः । शूलैः अशनिभिः खङ्गैः पट्टशैः कूटमुद्गरैः ॥ १८ ॥
jaghāna kapi-śārdūlān su bahūn dṛṣṭa-vikramaḥ . śūlaiḥ aśanibhiḥ khaṅgaiḥ paṭṭaśaiḥ kūṭamudgaraiḥ .. 18 ..
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे । सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ॥ 19 ॥
ते च अपि अनुचरान् तस्य वानराः जघ्नुः आहवे । स स्कन्ध-विटपैः सालैः शिलाभिः च महा-बलैः ॥ १९ ॥
te ca api anucarān tasya vānarāḥ jaghnuḥ āhave . sa skandha-viṭapaiḥ sālaiḥ śilābhiḥ ca mahā-balaiḥ .. 19 ..
हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् । स निवार्य परानीकमब्रवीत्तान्वनौकसः ॥ 20 ॥
हनूमान् कदनम् चक्रे रक्षसाम् भीम-कर्मणाम् । स निवार्य पर-अनीकम् अब्रवीत् तान् वनौकसः ॥ २० ॥
hanūmān kadanam cakre rakṣasām bhīma-karmaṇām . sa nivārya para-anīkam abravīt tān vanaukasaḥ .. 20 ..
हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् । त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः ॥ 21 ॥
हनूमान् संनिवर्तध्वम् न नः साध्यम् इदम् बलम् । त्यक्त्वा प्राणान् विचेष्टन्तः राम प्रिय-चिकीर्षवः ॥ २१ ॥
hanūmān saṃnivartadhvam na naḥ sādhyam idam balam . tyaktvā prāṇān viceṣṭantaḥ rāma priya-cikīrṣavaḥ .. 21 ..
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा । इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ॥ 22 ॥
यद्-निमित्तम् हि युध्यामः हता सा जनकात्मजा । इमम् अर्थम् हि विज्ञाप्य रामम् सुग्रीवम् एव च ॥ २२ ॥
yad-nimittam hi yudhyāmaḥ hatā sā janakātmajā . imam artham hi vijñāpya rāmam sugrīvam eva ca .. 22 ..
तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् । इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ॥ 23 ॥
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् । इति उक्त्वा वानर-श्रेष्ठः वारयन् सर्व-वानरान् ॥ २३ ॥
tau yat pratividhāsyete tat kariṣyāmahe vayam . iti uktvā vānara-śreṣṭhaḥ vārayan sarva-vānarān .. 23 ..
शनैः शनैरसन्त्रस्तः सबलः स न्यवर्तत । ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ॥ 24 ॥
शनैस् शनैस् असन्त्रस्तः स बलः स न्यवर्तत । ततस् प्रेक्ष्य हनूमन्तम् व्रजन्तम् यत्र राघवः ॥ २४ ॥
śanais śanais asantrastaḥ sa balaḥ sa nyavartata . tatas prekṣya hanūmantam vrajantam yatra rāghavaḥ .. 24 ..
स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम् । निकुम्भिलामधिष्ठाय पावकं जुहुवेन्द्रजित् ॥ 25 ॥
स होतु-कामः दुष्ट-आत्मा गतः चैत्यम् निकुम्भिलाम् । निकुम्भिलाम् अधिष्ठाय पावकम् ॥ २५ ॥
sa hotu-kāmaḥ duṣṭa-ātmā gataḥ caityam nikumbhilām . nikumbhilām adhiṣṭhāya pāvakam .. 25 ..
यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा । हूयमानः प्रजज्वाल होमशोणितभुक्तदा ॥ 26 ॥
यज्ञ-भूम्याम् ततस् गत्वा पावकः तेन रक्षसा । हूयमानः प्रजज्वाल होम-शोणित-भुक्त-दा ॥ २६ ॥
yajña-bhūmyām tatas gatvā pāvakaḥ tena rakṣasā . hūyamānaḥ prajajvāla homa-śoṇita-bhukta-dā .. 26 ..
सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः । सन्ध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ॥ 27 ॥
सः अर्चिः पिनद्धः ददृशे होम-शोणित-तर्पितः । सन्ध्या-गतः इव आदित्यः स तीव्र-अग्निः समुत्थितः ॥ २७ ॥
saḥ arciḥ pinaddhaḥ dadṛśe homa-śoṇita-tarpitaḥ . sandhyā-gataḥ iva ādityaḥ sa tīvra-agniḥ samutthitaḥ .. 27 ..
अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवत् । दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ 28 ॥
अथा इन्द्रजित् राक्षस-भूतये तु जुहाव हव्यम् विधिना विधान-वत् । दृष्ट्वा व्यतिष्ठन्त च राक्षसाः ते महा-समूहेषु नय-अनय-ज्ञाः ॥ २८ ॥
athā indrajit rākṣasa-bhūtaye tu juhāva havyam vidhinā vidhāna-vat . dṛṣṭvā vyatiṣṭhanta ca rākṣasāḥ te mahā-samūheṣu naya-anaya-jñāḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In