This overlay will guide you through the buttons:

| |
|
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः। इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा॥ १॥
स हत-अश्वः महा-तेजाः भूमौ तिष्ठन् निशाचरः। इन्द्रजित् परम-क्रुद्धः सम्प्रजज्वाल तेजसा॥ १॥
sa hata-aśvaḥ mahā-tejāḥ bhūmau tiṣṭhan niśācaraḥ. indrajit parama-kruddhaḥ samprajajvāla tejasā.. 1..
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव॥ २॥
तौ धन्विनौ जिघांसन्तौ अन्योन्यम् इषुभिः भृशम्। विजयेन अभिनिष्क्रान्तौ वने गज-वृषौ इव॥ २॥
tau dhanvinau jighāṃsantau anyonyam iṣubhiḥ bhṛśam. vijayena abhiniṣkrāntau vane gaja-vṛṣau iva.. 2..
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः॥ ३॥
निबर्हयन्तः च अन्योन्यम् ते राक्षस-वनौकसः। भर्तारम् न जहुः युद्धे सम्पतन्तः ततस् ततस्॥ ३॥
nibarhayantaḥ ca anyonyam te rākṣasa-vanaukasaḥ. bhartāram na jahuḥ yuddhe sampatantaḥ tatas tatas.. 3..
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः। स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत्॥ ४॥
ततस् तान् राक्षसान् सर्वान् हर्षयन् रावण-आत्मजः। स्तुन्वानः हर्षमाणः च इदम् वचनम् अब्रवीत्॥ ४॥
tatas tān rākṣasān sarvān harṣayan rāvaṇa-ātmajaḥ. stunvānaḥ harṣamāṇaḥ ca idam vacanam abravīt.. 4..
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः॥ ५॥
तमसा बहुलेन इमाः संसक्ताः सर्वतस् दिशः। न इह विज्ञायते स्वः वा परः वा राक्षस-उत्तमाः॥ ५॥
tamasā bahulena imāḥ saṃsaktāḥ sarvatas diśaḥ. na iha vijñāyate svaḥ vā paraḥ vā rākṣasa-uttamāḥ.. 5..
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै। अहं तु रथमास्थाय आगमिष्यामि संयुगे॥ ६॥
धृष्टम् भवन्तः युध्यन्तु हरीणाम् मोहनाय वै। अहम् तु रथम् आस्थाय आगमिष्यामि संयुगे॥ ६॥
dhṛṣṭam bhavantaḥ yudhyantu harīṇām mohanāya vai. aham tu ratham āsthāya āgamiṣyāmi saṃyuge.. 6..
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः। न युध्येयुर्महात्मानः प्रविष्टे नगरं मयि॥ ७॥
तथा भवन्तः कुर्वन्तु यथा इमे हि वनौकसः। न युध्येयुः महात्मानः प्रविष्टे नगरम् मयि॥ ७॥
tathā bhavantaḥ kurvantu yathā ime hi vanaukasaḥ. na yudhyeyuḥ mahātmānaḥ praviṣṭe nagaram mayi.. 7..
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा॥ ८॥
इति उक्त्वा रावण-सुतः वञ्चयित्वा वनौकसः। प्रविवेश पुरीम् लङ्काम् रथ-हेतोः अमित्र-हा॥ ८॥
iti uktvā rāvaṇa-sutaḥ vañcayitvā vanaukasaḥ. praviveśa purīm laṅkām ratha-hetoḥ amitra-hā.. 8..
स रथं भूषयित्वाथ रुचिरं हेमभूषितम्। प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः॥ ९॥
स रथम् भूषयित्वा अथ रुचिरम् हेम-भूषितम्। प्रास-असि-शर-संयुक्तम् युक्तम् परम-वाजिभिः॥ ९॥
sa ratham bhūṣayitvā atha ruciram hema-bhūṣitam. prāsa-asi-śara-saṃyuktam yuktam parama-vājibhiḥ.. 9..
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणिः समितिंजयः॥ १०॥
अधिष्ठितम् ह यज्ञेन सूतेन आप्त-उपदेशिना। आरुरोह महा-तेजाः रावणिः समितिंजयः॥ १०॥
adhiṣṭhitam ha yajñena sūtena āpta-upadeśinā. āruroha mahā-tejāḥ rāvaṇiḥ samitiṃjayaḥ.. 10..
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगराद् वीरः कृतान्तबलचोदितः॥ ११॥
स राक्षस-गणैः मुख्यैः वृतः मन्दोदरी-सुतः। निर्ययौ नगरात् वीरः कृतान्त-बल-चोदितः॥ ११॥
sa rākṣasa-gaṇaiḥ mukhyaiḥ vṛtaḥ mandodarī-sutaḥ. niryayau nagarāt vīraḥ kṛtānta-bala-coditaḥ.. 11..
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परमौजसा। अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम्॥ १२॥
सः अभिनिष्क्रम्य नगरात् इन्द्रजित् परम-ओजसा। अभ्ययात् जवनैः अश्वैः लक्ष्मणम् स विभीषणम्॥ १२॥
saḥ abhiniṣkramya nagarāt indrajit parama-ojasā. abhyayāt javanaiḥ aśvaiḥ lakṣmaṇam sa vibhīṣaṇam.. 12..
ततो रथस्थमालोक्य सौमित्री रावणात्मजम्। वानराश्च महावीर्या राक्षसश्च विभीषणः॥ १३॥
ततस् रथ-स्थम् आलोक्य सौमित्रिः रावण-आत्मजम्। वानराः च महा-वीर्याः राक्षसः च विभीषणः॥ १३॥
tatas ratha-stham ālokya saumitriḥ rāvaṇa-ātmajam. vānarāḥ ca mahā-vīryāḥ rākṣasaḥ ca vibhīṣaṇaḥ.. 13..
विस्मयं परमं जग्मुर्लाघवात् तस्य धीमतः। रावणिश्चापि संक्रुद्धो रणे वानरयूथपान्॥ १४॥
विस्मयम् परमम् जग्मुः लाघवात् तस्य धीमतः। रावणिः च अपि संक्रुद्धः रणे वानर-यूथपान्॥ १४॥
vismayam paramam jagmuḥ lāghavāt tasya dhīmataḥ. rāvaṇiḥ ca api saṃkruddhaḥ raṇe vānara-yūthapān.. 14..
पातयामास बाणौघैः शतशोऽथ सहस्रशः। स मण्डलीकृतधनू रावणिः समितिंजयः॥ १५॥
पातयामास बाण-ओघैः शतशस् अथ सहस्रशस्। स मण्डलीकृत-धनूः रावणिः समितिंजयः॥ १५॥
pātayāmāsa bāṇa-oghaiḥ śataśas atha sahasraśas. sa maṇḍalīkṛta-dhanūḥ rāvaṇiḥ samitiṃjayaḥ.. 15..
हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः। ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः॥ १६॥
हरीन् अभ्यहनत् क्रुद्धः परम् लाघवम् आस्थितः। ते वध्यमानाः हरयः नाराचैः भीम-विक्रमाः॥ १६॥
harīn abhyahanat kruddhaḥ param lāghavam āsthitaḥ. te vadhyamānāḥ harayaḥ nārācaiḥ bhīma-vikramāḥ.. 16..
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः। ततः समरकोपेन ज्वलितो रघुनन्दनः। चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम्॥ १७॥
सौमित्रिम् शरणम् प्राप्ताः प्रजापतिम् इव प्रजाः। ततस् समर-कोपेन ज्वलितः रघुनन्दनः। चिच्छेद कार्मुकम् तस्य दर्शयन् पाणि-लाघवम्॥ १७॥
saumitrim śaraṇam prāptāḥ prajāpatim iva prajāḥ. tatas samara-kopena jvalitaḥ raghunandanaḥ. ciccheda kārmukam tasya darśayan pāṇi-lāghavam.. 17..
सोऽन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव। तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत॥ १८॥
सः अन्यत् कार्मुकम् आदाय सज्यम् चक्रे त्वरन् इव। तत् अपि अस्य त्रिभिः बाणैः लक्ष्मणः निरकृन्तत॥ १८॥
saḥ anyat kārmukam ādāya sajyam cakre tvaran iva. tat api asya tribhiḥ bāṇaiḥ lakṣmaṇaḥ nirakṛntata.. 18..
अथैनं छिन्नधन्वानमाशीविषविषोपमैः। विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः॥ १९॥
अथा एनम् छिन्न-धन्वानम् आशीविष-विष-उपमैः। विव्याध उरसि सौमित्रिः रावणिम् पञ्चभिः शरैः॥ १९॥
athā enam chinna-dhanvānam āśīviṣa-viṣa-upamaiḥ. vivyādha urasi saumitriḥ rāvaṇim pañcabhiḥ śaraiḥ.. 19..
ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः। निपेतुर्धरणीं बाणा रक्ता इव महोरगाः॥ २०॥
ते तस्य कायम् निर्भिद्य महा-कार्मुक-निःसृताः। निपेतुः धरणीम् बाणाः रक्ताः इव महा-उरगाः॥ २०॥
te tasya kāyam nirbhidya mahā-kārmuka-niḥsṛtāḥ. nipetuḥ dharaṇīm bāṇāḥ raktāḥ iva mahā-uragāḥ.. 20..
स च्छिन्नधन्वा रुधिरं वमन् वक्त्रेण रावणिः। जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम्॥ २१॥
स छिन्न-धन्वा रुधिरम् वमन् वक्त्रेण रावणिः। जग्राह कार्मुक-श्रेष्ठम् दृढ-ज्यम् बलवत्तरम्॥ २१॥
sa chinna-dhanvā rudhiram vaman vaktreṇa rāvaṇiḥ. jagrāha kārmuka-śreṣṭham dṛḍha-jyam balavattaram.. 21..
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः। ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः॥ २२॥
स लक्ष्मणम् समुद्दिश्य परम् लाघवम् आस्थितः। ववर्ष शर-वर्षाणि वर्षाणि इव पुरंदरः॥ २२॥
sa lakṣmaṇam samuddiśya param lāghavam āsthitaḥ. vavarṣa śara-varṣāṇi varṣāṇi iva puraṃdaraḥ.. 22..
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः। आवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम्॥ २३॥
मुक्तम् इन्द्रजिता तत् तु शर-वर्षम् अरिंदमः। आवारयत् असम्भ्रान्तः लक्ष्मणः सु दुरासदम्॥ २३॥
muktam indrajitā tat tu śara-varṣam ariṃdamaḥ. āvārayat asambhrāntaḥ lakṣmaṇaḥ su durāsadam.. 23..
संदर्शयामास तदा रावणिं रघुनन्दनः। असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत्॥ २४॥
संदर्शयामास तदा रावणिम् रघुनन्दनः। असम्भ्रान्तः महा-तेजाः तत् अद्भुतम् इव अभवत्॥ २४॥
saṃdarśayāmāsa tadā rāvaṇim raghunandanaḥ. asambhrāntaḥ mahā-tejāḥ tat adbhutam iva abhavat.. 24..
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे। अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्। राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत्॥ २५॥
ततस् तान् राक्षसान् सर्वान् त्रिभिः एकैकम् आहवे। अविध्यत् परम-क्रुद्धः शीघ्र-अस्त्रम् सम्प्रदर्शयन्। राक्षस-इन्द्र-सुतम् च अपि बाण-ओघैः समताडयत्॥ २५॥
tatas tān rākṣasān sarvān tribhiḥ ekaikam āhave. avidhyat parama-kruddhaḥ śīghra-astram sampradarśayan. rākṣasa-indra-sutam ca api bāṇa-oghaiḥ samatāḍayat.. 25..
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान्॥ २६॥
सः अतिविद्धः बलवता शत्रुणा शत्रु-घातिना। असक्तम् प्रेषयामास लक्ष्मणाय बहून् शरान्॥ २६॥
saḥ atividdhaḥ balavatā śatruṇā śatru-ghātinā. asaktam preṣayāmāsa lakṣmaṇāya bahūn śarān.. 26..
तानप्राप्तान् शितैर्बाणैश्चिच्छेद परवीरहा। सारथेरस्य च रणे रथिनो रथसत्तमः॥ २७॥
तान् अप्राप्तान् शितैः बाणैः चिच्छेद पर-वीर-हा। सारथेः अस्य च रणे रथिनः रथ-सत्तमः॥ २७॥
tān aprāptān śitaiḥ bāṇaiḥ ciccheda para-vīra-hā. sāratheḥ asya ca raṇe rathinaḥ ratha-sattamaḥ.. 27..
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा। असूतास्ते हयास्तत्र रथमूहुरविक्लवाः॥ २८॥
शिरः जहार धर्म-आत्मा भल्लेन आनत-पर्वणा। अ सूताः ते हयाः तत्र रथम् ऊहुः अविक्लवाः॥ २८॥
śiraḥ jahāra dharma-ātmā bhallena ānata-parvaṇā. a sūtāḥ te hayāḥ tatra ratham ūhuḥ aviklavāḥ.. 28..
मण्डलान्यभिधावन्ति तदद्भुतमिवाभवत्। अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः॥ २९॥
मण्डलानि अभिधावन्ति तत् अद्भुतम् इव अभवत्। अमर्ष-वशम् आपन्नः सौमित्रिः दृढ-विक्रमः॥ २९॥
maṇḍalāni abhidhāvanti tat adbhutam iva abhavat. amarṣa-vaśam āpannaḥ saumitriḥ dṛḍha-vikramaḥ.. 29..
प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे। अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे॥ ३०॥
प्रत्यविध्यत् हयान् तस्य शरैः वित्रासयन् रणे। अमर्षमाणः तत् कर्म रावणस्य सुतः रणे॥ ३०॥
pratyavidhyat hayān tasya śaraiḥ vitrāsayan raṇe. amarṣamāṇaḥ tat karma rāvaṇasya sutaḥ raṇe.. 30..
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम्। ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।
विव्याध दशभिः बाणैः सौमित्रिम् तम् अमर्षणम्। ते तस्य वज्र-प्रतिमाः शराः सर्प-विष-उपमाः।
vivyādha daśabhiḥ bāṇaiḥ saumitrim tam amarṣaṇam. te tasya vajra-pratimāḥ śarāḥ sarpa-viṣa-upamāḥ.
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः। ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्॥ ३२॥
अभेद्य-कवचम् मत्वा लक्ष्मणम् रावण-आत्मजः। ललाटे लक्ष्मणम् बाणैः सु पुङ्खैः त्रिभिः इन्द्रजित्॥ ३२॥
abhedya-kavacam matvā lakṣmaṇam rāvaṇa-ātmajaḥ. lalāṭe lakṣmaṇam bāṇaiḥ su puṅkhaiḥ tribhiḥ indrajit.. 32..
अविध्यत् परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्। तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः॥ ३३॥
अविध्यत् परम-क्रुद्धः शीघ्रम् अस्त्रम् प्रदर्शयन्। तैः पृषत्कैः ललाट-स्थैः शुशुभे रघुनन्दनः॥ ३३॥
avidhyat parama-kruddhaḥ śīghram astram pradarśayan. taiḥ pṛṣatkaiḥ lalāṭa-sthaiḥ śuśubhe raghunandanaḥ.. 33..
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः। स तथाप्यर्दितो बाणै राक्षसेन तदा मृधे॥ ३४॥
रण-अग्रे समर-श्लाघी त्रिशृङ्गः इव पर्वतः। स तथा अपि अर्दितः बाणैः राक्षसेन तदा मृधे॥ ३४॥
raṇa-agre samara-ślāghī triśṛṅgaḥ iva parvataḥ. sa tathā api arditaḥ bāṇaiḥ rākṣasena tadā mṛdhe.. 34..
तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः। विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले॥ ३५॥
तम् आशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः। विकृष्य इन्द्रजितः युद्धे वदने शुभ-कुण्डले॥ ३५॥
tam āśu prativivyādha lakṣmaṇaḥ pañcabhiḥ śaraiḥ. vikṛṣya indrajitaḥ yuddhe vadane śubha-kuṇḍale.. 35..
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ। अन्योन्यं जघ्नतुर्वीरौ विशिखैर्भीमविक्रमौ॥ ३६॥
लक्ष्मण-इन्द्रजितौ वीरौ महा-बल-शरासनौ। अन्योन्यम् जघ्नतुः वीरौ विशिखैः भीम-विक्रमौ॥ ३६॥
lakṣmaṇa-indrajitau vīrau mahā-bala-śarāsanau. anyonyam jaghnatuḥ vīrau viśikhaiḥ bhīma-vikramau.. 36..
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ। रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ॥ ३७॥
ततस् शोणित-दिग्ध-अङ्गौ लक्ष्मण-इन्द्रजितौ उभौ। रणे तौ रेजतुः वीरौ पुष्पितौ इव किंशुकौ॥ ३७॥
tatas śoṇita-digdha-aṅgau lakṣmaṇa-indrajitau ubhau. raṇe tau rejatuḥ vīrau puṣpitau iva kiṃśukau.. 37..
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ। घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये॥ ३८॥
तौ परस्परम् अभ्येत्य सर्व-गात्रेषु धन्विनौ। घोरैः विव्यधतुः बाणैः कृत-भावौ उभौ जये॥ ३८॥
tau parasparam abhyetya sarva-gātreṣu dhanvinau. ghoraiḥ vivyadhatuḥ bāṇaiḥ kṛta-bhāvau ubhau jaye.. 38..
ततः समरकोपेन संयुतो रावणात्मजः। विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे॥ ३९॥
ततस् समर-कोपेन संयुतः रावण-आत्मजः। विभीषणम् त्रिभिः बाणैः विव्याध वदने शुभे॥ ३९॥
tatas samara-kopena saṃyutaḥ rāvaṇa-ātmajaḥ. vibhīṣaṇam tribhiḥ bāṇaiḥ vivyādha vadane śubhe.. 39..
अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्। एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान्॥ ४०॥
अयोमुखैः त्रिभिः विद्ध्वा राक्षस-इन्द्रम् विभीषणम्। एकैकेन अभिविव्याध तान् सर्वान् हरि-यूथपान्॥ ४०॥
ayomukhaiḥ tribhiḥ viddhvā rākṣasa-indram vibhīṣaṇam. ekaikena abhivivyādha tān sarvān hari-yūthapān.. 40..
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्। विभीषणो महातेजा रावणेः स दुरात्मनः॥ ४१॥
तस्मै दृढतरम् क्रुद्धः जघान गदया हयान्। विभीषणः महा-तेजाः रावणेः स दुरात्मनः॥ ४१॥
tasmai dṛḍhataram kruddhaḥ jaghāna gadayā hayān. vibhīṣaṇaḥ mahā-tejāḥ rāvaṇeḥ sa durātmanaḥ.. 41..
स हताश्वादवप्लुत्य रथान्निहतसारथेः। अथ शक्तिं महातेजाः पितृव्याय मुमोच ह॥ ४२॥
स हत-अश्वात् अवप्लुत्य रथात् निहत-सारथेः। अथ शक्तिम् महा-तेजाः पितृव्याय मुमोच ह॥ ४२॥
sa hata-aśvāt avaplutya rathāt nihata-sāratheḥ. atha śaktim mahā-tejāḥ pitṛvyāya mumoca ha.. 42..
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः। चिच्छेद निशितैर्बाणैर्दशधापातयद् भुवि॥ ४३॥
ताम् आपतन्तीम् सम्प्रेक्ष्य सुमित्रा-आनन्द-वर्धनः। चिच्छेद निशितैः बाणैः दशधा अपातयत् भुवि॥ ४३॥
tām āpatantīm samprekṣya sumitrā-ānanda-vardhanaḥ. ciccheda niśitaiḥ bāṇaiḥ daśadhā apātayat bhuvi.. 43..
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः। वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्॥ ४४॥
तस्मै दृढ-धनुः क्रुद्धः हत-अश्वाय विभीषणः। वज्र-स्पर्श-समान् पञ्च ससर्ज उरसि मार्गणान्॥ ४४॥
tasmai dṛḍha-dhanuḥ kruddhaḥ hata-aśvāya vibhīṣaṇaḥ. vajra-sparśa-samān pañca sasarja urasi mārgaṇān.. 44..
ते तस्य कायं भित्त्वा तु रुक्मपुङ्खा निमित्तगाः। बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः॥ ४५॥
ते तस्य कायम् भित्त्वा तु रुक्म-पुङ्खाः निमित्त-गाः। बभूवुः लोहित-आदिग्धाः रक्ताः इव महा-उरगाः॥ ४५॥
te tasya kāyam bhittvā tu rukma-puṅkhāḥ nimitta-gāḥ. babhūvuḥ lohita-ādigdhāḥ raktāḥ iva mahā-uragāḥ.. 45..
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे। उत्तमं रक्षसां मध्ये यमदत्तं महाबलः॥ ४६॥
स पितृव्यस्य संक्रुद्धः इन्द्रजित् शरम् आददे। उत्तमम् रक्षसाम् मध्ये यमदत्तम् महा-बलः॥ ४६॥
sa pitṛvyasya saṃkruddhaḥ indrajit śaram ādade. uttamam rakṣasām madhye yamadattam mahā-balaḥ.. 46..
तं समीक्ष्य महातेजा महेषुं तेन संहितम्। लक्ष्मणोऽप्याददे बाणमन्यद् भीमपराक्रमः॥ ४७॥
तम् समीक्ष्य महा-तेजाः महा-इषुम् तेन संहितम्। लक्ष्मणः अपि आददे बाणम् अन्यत् भीम-पराक्रमः॥ ४७॥
tam samīkṣya mahā-tejāḥ mahā-iṣum tena saṃhitam. lakṣmaṇaḥ api ādade bāṇam anyat bhīma-parākramaḥ.. 47..
कुबेरेण स्वयं स्वप्ने यद् दत्तममितात्मना। दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः॥ ४८॥
कुबेरेण स्वयम् स्वप्ने यत् दत्तम् अमित-आत्मना। दुर्जयम् दुर्विषह्यम् च स इन्द्रैः अपि सुर-असुरैः॥ ४८॥
kubereṇa svayam svapne yat dattam amita-ātmanā. durjayam durviṣahyam ca sa indraiḥ api sura-asuraiḥ.. 48..
तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः। विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः॥ ४९॥
तयोः तु धनुषी श्रेष्ठे बाहुभिः परिघ-उपमैः। विकृष्यमाणे बलवत् क्रौञ्चौ इव चुकूजतुः॥ ४९॥
tayoḥ tu dhanuṣī śreṣṭhe bāhubhiḥ parigha-upamaiḥ. vikṛṣyamāṇe balavat krauñcau iva cukūjatuḥ.. 49..
ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ। विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया॥ ५०॥
ताभ्याम् तु धनुषि श्रेष्ठे संहितौ सायक-उत्तमौ। विकृष्यमाणौ वीराभ्याम् भृशम् जज्वलतुः श्रिया॥ ५०॥
tābhyām tu dhanuṣi śreṣṭhe saṃhitau sāyaka-uttamau. vikṛṣyamāṇau vīrābhyām bhṛśam jajvalatuḥ śriyā.. 50..
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ। मुखेन मुखमाहत्य संनिपेततुरोजसा॥ ५१॥
तौ भासयन्तौ आकाशम् धनुर्भ्याम् विशिखौ च्युतौ। मुखेन मुखम् आहत्य संनिपेततुः ओजसा॥ ५१॥
tau bhāsayantau ākāśam dhanurbhyām viśikhau cyutau. mukhena mukham āhatya saṃnipetatuḥ ojasā.. 51..
संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः। सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत्॥ ५२॥
संनिपातः तयोः च आसीत् शरयोः घोर-रूपयोः। स धूम-विस्फुलिङ्गः च तद्-जः अग्निः दारुणः अभवत्॥ ५२॥
saṃnipātaḥ tayoḥ ca āsīt śarayoḥ ghora-rūpayoḥ. sa dhūma-visphuliṅgaḥ ca tad-jaḥ agniḥ dāruṇaḥ abhavat.. 52..
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च। संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः॥ ५३॥
तौ महा-ग्रह-संकाशौ अन्योन्यम् संनिपत्य च। संग्रामे शतधा यातौ मेदिन्याम् च एव पेततुः॥ ५३॥
tau mahā-graha-saṃkāśau anyonyam saṃnipatya ca. saṃgrāme śatadhā yātau medinyām ca eva petatuḥ.. 53..
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि। व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा॥ ५४॥
शरौ प्रतिहतौ दृष्ट्वा तौ उभौ रण-मूर्धनि। व्रीडितौ जात-रोषौ च लक्ष्मण-इन्द्रजितौ तदा॥ ५४॥
śarau pratihatau dṛṣṭvā tau ubhau raṇa-mūrdhani. vrīḍitau jāta-roṣau ca lakṣmaṇa-indrajitau tadā.. 54..
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे। रौद्रं महेन्द्रजिद् युद्धेऽप्यसृजद् युधि निष्ठितः॥ ५५॥
सु संरब्धः तु सौमित्रिः अस्त्रम् वारुणम् आददे। रौद्रम् महा-इन्द्रजित् युद्धे अपि असृजत् युधि निष्ठितः॥ ५५॥
su saṃrabdhaḥ tu saumitriḥ astram vāruṇam ādade. raudram mahā-indrajit yuddhe api asṛjat yudhi niṣṭhitaḥ.. 55..
तेन तद्विहितं शस्त्रं वारुणं परमाद्भुतम्। ततः क्रुद्धो महातेजा इन्द्रजित् समितिंजयः। आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव॥ ५६॥
तेन तत् विहितम् शस्त्रम् वारुणम् परम-अद्भुतम्। ततस् क्रुद्धः महा-तेजाः इन्द्रजित् समितिंजयः। आग्नेयम् संदधे दीप्तम् स लोकम् संक्षिपन् इव॥ ५६॥
tena tat vihitam śastram vāruṇam parama-adbhutam. tatas kruddhaḥ mahā-tejāḥ indrajit samitiṃjayaḥ. āgneyam saṃdadhe dīptam sa lokam saṃkṣipan iva.. 56..
सौरेणास्त्रेण तद् वीरो लक्ष्मणः पर्यवारयत्। अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः॥ ५७॥
सौरेण अस्त्रेण तत् वीरः लक्ष्मणः पर्यवारयत्। अस्त्रम् निवारितम् दृष्ट्वा रावणिः क्रोध-मूर्च्छितः॥ ५७॥
saureṇa astreṇa tat vīraḥ lakṣmaṇaḥ paryavārayat. astram nivāritam dṛṣṭvā rāvaṇiḥ krodha-mūrcchitaḥ.. 57..
आददे निशितं बाणमासुरं शत्रुदारणम्। तस्माच्चापाद् विनिष्पेतुर्भास्वराः कूटमुद्गराः॥ ५८॥
आददे निशितम् बाणम् आसुरम् शत्रु-दारणम्। तस्मात् चापात् विनिष्पेतुः भास्वराः कूटमुद्गराः॥ ५८॥
ādade niśitam bāṇam āsuram śatru-dāraṇam. tasmāt cāpāt viniṣpetuḥ bhāsvarāḥ kūṭamudgarāḥ.. 58..
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः। तद् दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रमथासुरम्॥ ५९॥
शूलानि च भुशुण्ड्यः च गदाः खड्गाः परश्वधाः। तत् दृष्ट्वा लक्ष्मणः संख्ये घोरम् अस्त्रम् अथ असुरम्॥ ५९॥
śūlāni ca bhuśuṇḍyaḥ ca gadāḥ khaḍgāḥ paraśvadhāḥ. tat dṛṣṭvā lakṣmaṇaḥ saṃkhye ghoram astram atha asuram.. 59..
अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम्। माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत्॥ ६०॥
अवार्यम् सर्व-भूतानाम् सर्व-शस्त्र-विदारणम्। माहेश्वरेण द्युतिमान् तत् अस्त्रम् प्रत्यवारयत्॥ ६०॥
avāryam sarva-bhūtānām sarva-śastra-vidāraṇam. māheśvareṇa dyutimān tat astram pratyavārayat.. 60..
तयोः समभवद् युद्धमद्भुतं रोमहर्षणम्। गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्॥ ६१॥
तयोः समभवत् युद्धम् अद्भुतम् रोम-हर्षणम्। गगन-स्थानि भूतानि लक्ष्मणम् पर्यवारयन्॥ ६१॥
tayoḥ samabhavat yuddham adbhutam roma-harṣaṇam. gagana-sthāni bhūtāni lakṣmaṇam paryavārayan.. 61..
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्। भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ॥ ६२॥
भैरव-अभिरुते भीमे युद्धे वानर-रक्षसाम्। भूतैः बहुभिः आकाशम् विस्मितैः आवृतम् बभौ॥ ६२॥
bhairava-abhirute bhīme yuddhe vānara-rakṣasām. bhūtaiḥ bahubhiḥ ākāśam vismitaiḥ āvṛtam babhau.. 62..
ऋषयः पितरो देवा गन्धर्वगरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे॥ ६३॥
ऋषयः पितरः देवाः गन्धर्व-गरुड-उरगाः। शतक्रतुम् पुरस्कृत्य ररक्षुः लक्ष्मणम् रणे॥ ६३॥
ṛṣayaḥ pitaraḥ devāḥ gandharva-garuḍa-uragāḥ. śatakratum puraskṛtya rarakṣuḥ lakṣmaṇam raṇe.. 63..
अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः। हुताशनसमस्पर्शं रावणात्मजदारणम्॥ ६४॥
अथ अन्यम् मार्गण-श्रेष्ठम् संदधे राघव-अनुजः। हुताशन-सम-स्पर्शम् रावण-आत्मज-दारणम्॥ ६४॥
atha anyam mārgaṇa-śreṣṭham saṃdadhe rāghava-anujaḥ. hutāśana-sama-sparśam rāvaṇa-ātmaja-dāraṇam.. 64..
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्। सुवर्णविकृतं वीरः शरीरान्तकरं शरम्॥ ६५॥
सु पत्रम् अनुवृत्त-अङ्गम् सु पर्वाणम् सु संस्थितम्। सुवर्ण-विकृतम् वीरः शरीर-अन्त-करम् शरम्॥ ६५॥
su patram anuvṛtta-aṅgam su parvāṇam su saṃsthitam. suvarṇa-vikṛtam vīraḥ śarīra-anta-karam śaram.. 65..
दुरावारं दुर्विषहं राक्षसानां भयावहम्। आशीविषविषप्रख्यं देवसंघैः समर्चितम्॥ ६६॥
दुरावारम् दुर्विषहम् राक्षसानाम् भय-आवहम्। आशीविष-विष-प्रख्यम् देव-संघैः समर्चितम्॥ ६६॥
durāvāram durviṣaham rākṣasānām bhaya-āvaham. āśīviṣa-viṣa-prakhyam deva-saṃghaiḥ samarcitam.. 66..
येन शक्रो महातेजा दानवानजयत् प्रभुः। पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः॥ ६७॥
येन शक्रः महा-तेजाः दानवान् अजयत् प्रभुः। पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः॥ ६७॥
yena śakraḥ mahā-tejāḥ dānavān ajayat prabhuḥ. purā devāsure yuddhe vīryavān harivāhanaḥ.. 67..
अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्। शरश्रेष्ठं धनुश्रेष्ठे विकर्षन्निदमब्रवीत्॥ ६८॥
अथ ऐन्द्रम् अस्त्रम् सौमित्रिः संयुगेषु अपराजितम्। शर-श्रेष्ठम् धनु-श्रेष्ठे विकर्षन् इदम् अब्रवीत्॥ ६८॥
atha aindram astram saumitriḥ saṃyugeṣu aparājitam. śara-śreṣṭham dhanu-śreṣṭhe vikarṣan idam abravīt.. 68..
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः। धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम्॥ ६९॥
लक्ष्मीवान् लक्ष्मणः वाक्यम् अर्थ-साधकम् आत्मनः। धर्म-आत्मा सत्य-संधः च रामः दाशरथिः यदि। पौरुषे च अप्रतिद्वन्द्वः तदा एनम् जहि रावणिम्॥ ६९॥
lakṣmīvān lakṣmaṇaḥ vākyam artha-sādhakam ātmanaḥ. dharma-ātmā satya-saṃdhaḥ ca rāmaḥ dāśarathiḥ yadi. pauruṣe ca apratidvandvaḥ tadā enam jahi rāvaṇim.. 69..
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति। ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा॥ ७०॥
इति उक्त्वा बाणम् आकर्णम् विकृष्य तम् अजिह्मगम्। लक्ष्मणः समरे वीरः ससर्ज इन्द्रजितम् प्रति। ऐन्द्र-अस्त्रेण समायुज्य लक्ष्मणः पर-वीर-हा॥ ७०॥
iti uktvā bāṇam ākarṇam vikṛṣya tam ajihmagam. lakṣmaṇaḥ samare vīraḥ sasarja indrajitam prati. aindra-astreṇa samāyujya lakṣmaṇaḥ para-vīra-hā.. 70..
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्। प्रमथ्येन्द्रजितः कायात् पातयामास भूतले॥ ७१॥
तद्-शिरः स शिरस्त्राणम् श्रीमत् ज्वलित-कुण्डलम्। प्रमथ्य इन्द्रजितः कायात् पातयामास भू-तले॥ ७१॥
tad-śiraḥ sa śirastrāṇam śrīmat jvalita-kuṇḍalam. pramathya indrajitaḥ kāyāt pātayāmāsa bhū-tale.. 71..
तद् राक्षसतनूजस्य भिन्नस्कन्धं शिरो महत्। तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्॥ ७२॥
तत् राक्षस-तनूजस्य भिन्न-स्कन्धम् शिरः महत्। तपनीय-निभम् भूमौ ददृशे रुधिर-उक्षितम्॥ ७२॥
tat rākṣasa-tanūjasya bhinna-skandham śiraḥ mahat. tapanīya-nibham bhūmau dadṛśe rudhira-ukṣitam.. 72..
हतः स निपपाताथ धरण्यां रावणात्मजः। कवची सशिरस्त्राणो विप्रविद्धशरासनः॥ ७३॥
हतः स निपपात अथ धरण्याम् रावण-आत्मजः। कवची स शिरस्त्राणः विप्रविद्ध-शरासनः॥ ७३॥
hataḥ sa nipapāta atha dharaṇyām rāvaṇa-ātmajaḥ. kavacī sa śirastrāṇaḥ vipraviddha-śarāsanaḥ.. 73..
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः। हृष्यन्ते निहते तस्मिन् देवा वृत्रवधे यथा॥ ७४॥
चुक्रुशुः ते ततस् सर्वे वानराः स विभीषणाः। हृष्यन्ते निहते तस्मिन् देवाः वृत्र-वधे यथा॥ ७४॥
cukruśuḥ te tatas sarve vānarāḥ sa vibhīṣaṇāḥ. hṛṣyante nihate tasmin devāḥ vṛtra-vadhe yathā.. 74..
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्। जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसामपि॥ ७५॥
अथ अन्तरिक्षे देवानाम् ऋषीणाम् च महात्मनाम्। जज्ञे अथ जय-संनादः गन्धर्व-अप्सरसाम् अपि॥ ७५॥
atha antarikṣe devānām ṛṣīṇām ca mahātmanām. jajñe atha jaya-saṃnādaḥ gandharva-apsarasām api.. 75..
पतितं समभिज्ञाय राक्षसी सा महाचमूः। वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः॥ ७६॥
पतितम् समभिज्ञाय राक्षसी सा महा-चमूः। वध्यमानाः दिशः भेजे हरिभिः जित-काशिभिः॥ ७६॥
patitam samabhijñāya rākṣasī sā mahā-camūḥ. vadhyamānāḥ diśaḥ bheje haribhiḥ jita-kāśibhiḥ.. 76..
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः। लङ्कामभिमुखाः सस्रुर्भ्रष्टसंज्ञाः प्रधाविताः॥ ७७॥
वानरैः वध्यमानाः ते शस्त्राणि उत्सृज्य राक्षसाः। लङ्काम् अभिमुखाः सस्रुः भ्रष्ट-संज्ञाः प्रधाविताः॥ ७७॥
vānaraiḥ vadhyamānāḥ te śastrāṇi utsṛjya rākṣasāḥ. laṅkām abhimukhāḥ sasruḥ bhraṣṭa-saṃjñāḥ pradhāvitāḥ.. 77..
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः। त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान्॥ ७८॥
दुद्रुवुः बहुधा भीताः राक्षसाः शतशस् दिशः। त्यक्त्वा प्रहरणान् सर्वे पट्टिश-असि-परश्वधान्॥ ७८॥
dudruvuḥ bahudhā bhītāḥ rākṣasāḥ śataśas diśaḥ. tyaktvā praharaṇān sarve paṭṭiśa-asi-paraśvadhān.. 78..
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः। समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः॥ ७९॥
केचिद् लङ्काम् परित्रस्ताः प्रविष्टाः वानर-अर्दिताः। समुद्रे पतिताः केचिद् केचिद् पर्वतम् आश्रिताः॥ ७९॥
kecid laṅkām paritrastāḥ praviṣṭāḥ vānara-arditāḥ. samudre patitāḥ kecid kecid parvatam āśritāḥ.. 79..
हतमिन्द्रजितं दृष्ट्वा शयानं च रणक्षितौ। राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत॥ ८०॥
हतम् इन्द्रजितम् दृष्ट्वा शयानम् च रण-क्षितौ। राक्षसानाम् सहस्रेषु न कश्चिद् प्रत्यदृश्यत॥ ८०॥
hatam indrajitam dṛṣṭvā śayānam ca raṇa-kṣitau. rākṣasānām sahasreṣu na kaścid pratyadṛśyata.. 80..
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः। तथा तस्मिन् निपतिते राक्षसास्ते गता दिशः॥ ८१॥
यथा अस्तम् गते आदित्ये न अवतिष्ठन्ति रश्मयः। तथा तस्मिन् निपतिते राक्षसाः ते गताः दिशः॥ ८१॥
yathā astam gate āditye na avatiṣṭhanti raśmayaḥ. tathā tasmin nipatite rākṣasāḥ te gatāḥ diśaḥ.. 81..
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः। बभूव स महाबाहुर्व्यपास्तगतजीवितः॥ ८२॥
शान्त-रश्मिः इव आदित्यः निर्वाणः इव पावकः। बभूव स महा-बाहुः व्यपास्त-गत-जीवितः॥ ८२॥
śānta-raśmiḥ iva ādityaḥ nirvāṇaḥ iva pāvakaḥ. babhūva sa mahā-bāhuḥ vyapāsta-gata-jīvitaḥ.. 82..
प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान्। बभूव लोकः पतिते राक्षसेन्द्रसुते तदा॥ ८३॥
प्रशान्त-पीडा-बहुलः विनष्ट-अरिः प्रहर्षवान्। बभूव लोकः पतिते राक्षस-इन्द्र-सुते तदा॥ ८३॥
praśānta-pīḍā-bahulaḥ vinaṣṭa-ariḥ praharṣavān. babhūva lokaḥ patite rākṣasa-indra-sute tadā.. 83..
हर्षं च शक्रो भगवान् सह सर्वैर्महर्षिभिः। जगाम निहते तस्मिन् राक्षसे पापकर्मणि॥ ८४॥
हर्षम् च शक्रः भगवान् सह सर्वैः महा-ऋषिभिः। जगाम निहते तस्मिन् राक्षसे पाप-कर्मणि॥ ८४॥
harṣam ca śakraḥ bhagavān saha sarvaiḥ mahā-ṛṣibhiḥ. jagāma nihate tasmin rākṣase pāpa-karmaṇi.. 84..
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः। नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः॥ ८५॥
आकाशे च अपि देवानाम् शुश्रुवे दुन्दुभि-स्वनः। नृत्यद्भिः अप्सरोभिः च गन्धर्वैः च महात्मभिः॥ ८५॥
ākāśe ca api devānām śuśruve dundubhi-svanaḥ. nṛtyadbhiḥ apsarobhiḥ ca gandharvaiḥ ca mahātmabhiḥ.. 85..
ववर्षुः पुष्पवर्षाणि तदद्भुतमिवाभवत्। प्रशशाम हते तस्मिन् राक्षसे क्रूरकर्मणि॥ ८६॥
ववर्षुः पुष्प-वर्षाणि तत् अद्भुतम् इव अभवत्। प्रशशाम हते तस्मिन् राक्षसे क्रूर-कर्मणि॥ ८६॥
vavarṣuḥ puṣpa-varṣāṇi tat adbhutam iva abhavat. praśaśāma hate tasmin rākṣase krūra-karmaṇi.. 86..
शुद्धा आपो नभश्चैव जहृषुर्देवदानवाः। आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे॥ ८७॥
शुद्धाः आपः नभः च एव जहृषुः देव-दानवाः। आजग्मुः पतिते तस्मिन् सर्व-लोक-भय-आवहे॥ ८७॥
śuddhāḥ āpaḥ nabhaḥ ca eva jahṛṣuḥ deva-dānavāḥ. ājagmuḥ patite tasmin sarva-loka-bhaya-āvahe.. 87..
ऊचुश्च सहितास्तुष्टा देवगन्धर्वदानवाः। विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति॥ ८८॥
ऊचुः च सहिताः तुष्टाः देव-गन्धर्व-दानवाः। विज्वराः शान्त-कलुषाः ब्राह्मणाः विचरन्तु इति॥ ८८॥
ūcuḥ ca sahitāḥ tuṣṭāḥ deva-gandharva-dānavāḥ. vijvarāḥ śānta-kaluṣāḥ brāhmaṇāḥ vicarantu iti.. 88..
ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः। तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम्॥ ८९॥
ततस् अभ्यनन्दन् संहृष्टाः समरे हरि-यूथपाः। तम् अप्रतिबलम् दृष्ट्वा हतम् नैरृत-पुङ्गवम्॥ ८९॥
tatas abhyanandan saṃhṛṣṭāḥ samare hari-yūthapāḥ. tam apratibalam dṛṣṭvā hatam nairṛta-puṅgavam.. 89..
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः। विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्॥ ९०॥
विभीषणः हनूमान् च जाम्बवान् च ऋक्ष-यूथपः। विजयेन अभिनन्दन्तः तुष्टुवुः च अपि लक्ष्मणम्॥ ९०॥
vibhīṣaṇaḥ hanūmān ca jāmbavān ca ṛkṣa-yūthapaḥ. vijayena abhinandantaḥ tuṣṭuvuḥ ca api lakṣmaṇam.. 90..
क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे॥ ९१॥
क्ष्वेडन्तः च प्लवन्तः च गर्जन्तः च प्लवंगमाः। लब्धलक्षाः रघु-सुतम् परिवार्य उपतस्थिरे॥ ९१॥
kṣveḍantaḥ ca plavantaḥ ca garjantaḥ ca plavaṃgamāḥ. labdhalakṣāḥ raghu-sutam parivārya upatasthire.. 91..
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः। लक्ष्मणो जयतीत्येव वाक्यं विश्रावयंस्तदा॥ ९२॥
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तः च वानराः। लक्ष्मणः जयति इति एव वाक्यम् विश्रावयन् तदा॥ ९२॥
lāṅgūlāni pravidhyantaḥ sphoṭayantaḥ ca vānarāḥ. lakṣmaṇaḥ jayati iti eva vākyam viśrāvayan tadā.. 92..
अन्योन्यं च समाश्लिष्य हरयो हृष्टमानसाः। चक्रुरुच्चावचगुणा राघवाश्रयसत्कथाः॥ ९३॥
अन्योन्यम् च समाश्लिष्य हरयः हृष्ट-मानसाः। चक्रुः उच्चावच-गुणाः राघव-आश्रय-सत्-कथाः॥ ९३॥
anyonyam ca samāśliṣya harayaḥ hṛṣṭa-mānasāḥ. cakruḥ uccāvaca-guṇāḥ rāghava-āśraya-sat-kathāḥ.. 93..
तदसुकरमथाभिवीक्ष्य हृष्टाःप्रियसुहृदो युधि लक्ष्मणस्य कर्म। परममुपलभन्मनः प्रहर्षंविनिहतमिन्द्ररिपुं निशम्य देवाः॥ ९४॥
तत् असुकरम् अथ अभिवीक्ष्य हृष्टाः प्रिय-सुहृदः युधि लक्ष्मणस्य कर्म। परमम् उपलभन् मनः प्रहर्षम् विनिहतम् इन्द्र-रिपुम् निशम्य देवाः॥ ९४॥
tat asukaram atha abhivīkṣya hṛṣṭāḥ priya-suhṛdaḥ yudhi lakṣmaṇasya karma. paramam upalabhan manaḥ praharṣam vinihatam indra-ripum niśamya devāḥ.. 94..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In