| |
|

This overlay will guide you through the buttons:

अथाष्टादशोऽध्यायः.
अथ अष्टादशः अध्यायः।
atha aṣṭādaśaḥ adhyāyaḥ.
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमं । प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ॥ १८.१ ॥
अथ वक्ष्ये विशेषेण विष्णोः अर्चनम् उत्तमम् । श्रुतिभिः विहितम् तथा ॥ १८।१ ॥
atha vakṣye viśeṣeṇa viṣṇoḥ arcanam uttamam . śrutibhiḥ vihitam tathā .. 18.1 ..
यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा । तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ॥ १८.२ ॥
यत् च उक्तम् गुरुणा सूत्रे समासेन महा-ऋषिणा । तेन एव विवृतम् शास्त्रे सार्ध-कोटी प्रमाणतः ॥ १८।२ ॥
yat ca uktam guruṇā sūtre samāsena mahā-ṛṣiṇā . tena eva vivṛtam śāstre sārdha-koṭī pramāṇataḥ .. 18.2 ..
अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः । तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ॥ १८.३ ॥
अस्माभिः तु सु संक्षिप्तम् चातुर्लक्ष-प्रमाणतः । तद्-अर्चन-क्रमम् वक्ष्ये श्रुणुध्वम् ऋषि-सत्तमाः ॥ १८।३ ॥
asmābhiḥ tu su saṃkṣiptam cāturlakṣa-pramāṇataḥ . tad-arcana-kramam vakṣye śruṇudhvam ṛṣi-sattamāḥ .. 18.3 ..
वैखानसेन सूत्रेण निषेकादि क्रियान्वितः । ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ॥ १८.४ ॥
वैखानसेन सूत्रेण निषेक-आदि क्रिया-अन्वितः । ऋत्विज् उक्त-गुण-उपेतः सु पुष्ट-अङ्गः समाहितः ॥ १८।४ ॥
vaikhānasena sūtreṇa niṣeka-ādi kriyā-anvitaḥ . ṛtvij ukta-guṇa-upetaḥ su puṣṭa-aṅgaḥ samāhitaḥ .. 18.4 ..
गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेथ् । द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः ॥ १८.५ ॥
गृहस्थः ब्रह्मचारी वा भक्त्या एव अर् चनम् आचरेथ् । द्रव्यैः अनेकैः संपाद्यम् तथा अनन्त-उपचारकैः ॥ १८।५ ॥
gṛhasthaḥ brahmacārī vā bhaktyā eva ar canam ācareth . dravyaiḥ anekaiḥ saṃpādyam tathā ananta-upacārakaiḥ .. 18.5 ..
आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनं । मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ॥ १८.६ ॥
आशक्यम् विधिवत् कर्तुम् ब्रह्म-आद्यैः अपि पूजनम् । मनुष्यैः किम् उवक्तव्यम् दरिद्रैः अदृढ-आत्मभिः ॥ १८।६ ॥
āśakyam vidhivat kartum brahma-ādyaiḥ api pūjanam . manuṣyaiḥ kim uvaktavyam daridraiḥ adṛḍha-ātmabhiḥ .. 18.6 ..
यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः । बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ॥ १८.७ ॥
यथाशक्ति ततस् कुर्यात् तस्मात् बहुभिः अर्चकैः । बहुभिः परिचारैः च वा अन्य-पदार्थिभिः ॥ १८।७ ॥
yathāśakti tatas kuryāt tasmāt bahubhiḥ arcakaiḥ . bahubhiḥ paricāraiḥ ca vā anya-padārthibhiḥ .. 18.7 ..
निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः । तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ॥ १८.८ ॥
निर्वर्त्यम् पूजनम् विष्णोः श्रद्धा-भक्ति-समन्वितैः । तस्मात् नवविधाः ग्राह्याः अर्चकाः परिचारकाः ॥ १८।८ ॥
nirvartyam pūjanam viṣṇoḥ śraddhā-bhakti-samanvitaiḥ . tasmāt navavidhāḥ grāhyāḥ arcakāḥ paricārakāḥ .. 18.8 ..
उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः । अशीतिः परिचाराणामुत्तमे मध्यमं ततः ॥ १८.९ ॥
उत्तमे तु उत्तमम् प्रोक्तम् अर्चकानाम् तु विंशतिः । अशीतिः परिचाराणाम् उत्तमे मध्यमम् ततस् ॥ १८।९ ॥
uttame tu uttamam proktam arcakānām tu viṃśatiḥ . aśītiḥ paricārāṇām uttame madhyamam tatas .. 18.9 ..
परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः । उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ॥ १८.१० ॥
परिचाराणाम् चतुःषष्टि-दर्चकाः षोडश स्मृताः । उत्तमे तु अधमम् प्रोक्तम् अर्चकाः द्वादश स्मृताः ॥ १८।१० ॥
paricārāṇām catuḥṣaṣṭi-darcakāḥ ṣoḍaśa smṛtāḥ . uttame tu adhamam proktam arcakāḥ dvādaśa smṛtāḥ .. 18.10 ..
पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः । चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ॥ १८.११ ॥
पञ्चाशत्-परिचाराः च मध्यमे च उत्तमम् पुनर् । चत्वारिंशत्-परिचराः पूजकाः च अष्ट-कीर्तिताः ॥ १८।११ ॥
pañcāśat-paricārāḥ ca madhyame ca uttamam punar . catvāriṃśat-paricarāḥ pūjakāḥ ca aṣṭa-kīrtitāḥ .. 18.11 ..
मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः । पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ॥ १८.१२ ॥
मध्यमे मध्यमम् प्रोक्तम् अचन्काः षट् उदीरिताः । पञ्चविंशत्-परिचराः मध्यमे तु अधमम् पुनर् ॥ १८।१२ ॥
madhyame madhyamam proktam acankāḥ ṣaṭ udīritāḥ . pañcaviṃśat-paricarāḥ madhyame tu adhamam punar .. 18.12 ..
चत्वारः पूजकास्तत्र परिचारास्तु षोडश । त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ॥ १८.१३ ॥
चत्वारः पूजकाः तत्र परिचाराः तु षोडश । त्रयोः अचकाः परिचराः नव स्युः अधम-उत्तमे ॥ १८।१३ ॥
catvāraḥ pūjakāḥ tatra paricārāḥ tu ṣoḍaśa . trayoḥ acakāḥ paricarāḥ nava syuḥ adhama-uttame .. 18.13 ..
पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे । एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ॥ १८.१४ ॥
पूजकौ द्वौ परिचराः चत्वारः अधम-मध्यमे । परिचरौ द्वौ प्रोक्तौ अधम-अधमे ॥ १८।१४ ॥
pūjakau dvau paricarāḥ catvāraḥ adhama-madhyame . paricarau dvau proktau adhama-adhame .. 18.14 ..
आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः । अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेथ् ॥ १८.१५ ॥
आचार्यः स्यात् उपद्रष्टा देवः सान्निध्य-कारकः । अर्चन-आदि अखिलम् कार्यम् तद्-नियोगेन ॥ १८।१५ ॥
ācāryaḥ syāt upadraṣṭā devaḥ sānnidhya-kārakaḥ . arcana-ādi akhilam kāryam tad-niyogena .. 18.15 ..
स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः । अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ॥ १८.१६ ॥
स हि कार्यस्य निर्णेता गोप्ता अधर्मस्य देशिकः । अर्चकः देवदेवस्य कुर्यात् मन्त्र-आसन-आदिषु ॥ १८।१६ ॥
sa hi kāryasya nirṇetā goptā adharmasya deśikaḥ . arcakaḥ devadevasya kuryāt mantra-āsana-ādiṣu .. 18.16 ..
उपचाराननन्तांश्च विधिना शास्त्रचोदितान् । अर्चकस्य सहायन्तु किङ्करः परिचारकः ॥ १८.१७ ॥
उपचारान् अनन्तान् च विधिना शास्त्र-चोदितान् । अर्चकस्य सहायन्तु किङ्करः परिचारकः ॥ १८।१७ ॥
upacārān anantān ca vidhinā śāstra-coditān . arcakasya sahāyantu kiṅkaraḥ paricārakaḥ .. 18.17 ..
बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः । सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ॥ १८.१८ ॥
बहु-कार्य-कराः च एते ग्राह्याः तु परिचारकाः । सम्माजन्न-करः च एव तथा स्यात् उपलेपकः ॥ १८।१८ ॥
bahu-kārya-karāḥ ca ete grāhyāḥ tu paricārakāḥ . sammājanna-karaḥ ca eva tathā syāt upalepakaḥ .. 18.18 ..
दीपोद्दीपयिता चौव पोत्रशोधनकारकः । पानीय वाहकश्चैव पुष्पापचयकारकः ॥ १८.१९ ॥
पोत्र-शोधन-कारकः । पानीय-वाहकः च एव पुष्प-अपचय-कारकः ॥ १८।१९ ॥
potra-śodhana-kārakaḥ . pānīya-vāhakaḥ ca eva puṣpa-apacaya-kārakaḥ .. 18.19 ..
धूपदीपादिकर्ता च गन्धपेषणतत्परः । तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ॥ १८.२० ॥
धूप-दीप-आदि-कर्ता च गन्ध-पेषण-तत्परः । तद्-तद्-परिच्छद-आहर्ता तथा एव बलिवाहकः ॥ १८।२० ॥
dhūpa-dīpa-ādi-kartā ca gandha-peṣaṇa-tatparaḥ . tad-tad-paricchada-āhartā tathā eva balivāhakaḥ .. 18.20 ..
एवमादीनि कार्याणि कुर्वन्ति परिचारकाः । पाचकः परिचारस्स्यात्पचनालयसंगतः ॥ १८.२१ ॥
एवमादीनि कार्याणि कुर्वन्ति परिचारकाः । पाचकः परिचारः स्यात् पचन-आलय-संगतः ॥ १८।२१ ॥
evamādīni kāryāṇi kurvanti paricārakāḥ . pācakaḥ paricāraḥ syāt pacana-ālaya-saṃgataḥ .. 18.21 ..
हविष्पाकविधानज्ञश्शौचाचारपरायणः । एतान्वैखानसानेव वृणेत्सर्वान्पदार्थिनः ॥ १८.२२ ॥
हविष्पाक-विधान-ज्ञः शौच-आचार-परायणः । एतान् वैखानसान् एव वृणेत् सर्वान् पदार्थिनः ॥ १८।२२ ॥
haviṣpāka-vidhāna-jñaḥ śauca-ācāra-parāyaṇaḥ . etān vaikhānasān eva vṛṇet sarvān padārthinaḥ .. 18.22 ..
अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः । वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ॥ १८.२३ ॥
अलाभे तत्र सर्वेषाम् आचार्यम् च अर्चकान् पुसः । वैखानसान् एव वृणन् नकिर् उदर्यात् अन्य-सूत्रिणः ॥ १८।२३ ॥
alābhe tatra sarveṣām ācāryam ca arcakān pusaḥ . vaikhānasān eva vṛṇan nakir udaryāt anya-sūtriṇaḥ .. 18.23 ..
अवैखानस विप्रस्तु पूजयेदालये हरिं । स वै देवलको नाम सर्व कर्मबहिष्कृतः ॥ १८.२४ ॥
विप्रः तु पूजयेत् आलये हरिम् । स वै देवलकः नाम सर्व-कर्म-बहिष्कृतः ॥ १८।२४ ॥
vipraḥ tu pūjayet ālaye harim . sa vai devalakaḥ nāma sarva-karma-bahiṣkṛtaḥ .. 18.24 ..
परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः । दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ॥ १८.२५ ॥
परिचारान् तु वृणुयात् अलाभे तु अन्य-सूत्रिणः । दीक्षित-अनेव-सत्-वृत्तान् आगम-उक्त-विधानतः ॥ १८।२५ ॥
paricārān tu vṛṇuyāt alābhe tu anya-sūtriṇaḥ . dīkṣita-aneva-sat-vṛttān āgama-ukta-vidhānataḥ .. 18.25 ..
यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः । धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ॥ १८.२६ ॥
यजमानः सदा अध्यात्म-रतः मोक्ष-अर्थ-चिन्तकः । धनी सर्व-समः त्यागी भक्ति-युक्तः प्रसन्न-धीः ॥ १८।२६ ॥
yajamānaḥ sadā adhyātma-rataḥ mokṣa-artha-cintakaḥ . dhanī sarva-samaḥ tyāgī bhakti-yuktaḥ prasanna-dhīḥ .. 18.26 ..
शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः । देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ॥ १८.२७ ॥
शास्त्र-उक्तेन विधानेन विष्णु-लाञ्छन-लाञ्छितः । देवस्य नित्य-पूजा-अर्थम् उत्सव-अर्थम् विशेषतः ॥ १८।२७ ॥
śāstra-uktena vidhānena viṣṇu-lāñchana-lāñchitaḥ . devasya nitya-pūjā-artham utsava-artham viśeṣataḥ .. 18.27 ..
तथान्यविभवार्थं च दापयेद्धनसंचयं । आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ॥ १८.२८ ॥
तथा अन्य-विभव-अर्थम् च दापयेत् धन-संचयम् । आचार्य-आज्ञा-प्रतीक्षः स्यात् ॠजके हित-चिन्तकः ॥ १८।२८ ॥
tathā anya-vibhava-artham ca dāpayet dhana-saṃcayam . ācārya-ājñā-pratīkṣaḥ syāt ṝjake hita-cintakaḥ .. 18.28 ..
परिचारे प्रसन्नश्च किङ्करेषु दयापरः । तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ॥ १८.२९ ॥
परिचारे प्रसन्नः च किङ्करेषु दया-परः । तीर्थ-प्रसाद-सेवी च निर्माल्येषु कृत-आदरः ॥ १८।२९ ॥
paricāre prasannaḥ ca kiṅkareṣu dayā-paraḥ . tīrtha-prasāda-sevī ca nirmālyeṣu kṛta-ādaraḥ .. 18.29 ..
इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने । अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ॥ १८.३० ॥
इति लक्षण-संपन्नाः प्रभवन्ति आलय-अर्चने । ॥ १८।३० ॥
iti lakṣaṇa-saṃpannāḥ prabhavanti ālaya-arcane . .. 18.30 ..
ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेथ् । कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ॥ १८.३१ ॥
ब्राह्मे मुहूर्ते च उद्थाय नारायणम् अनुस्मरेथ् । कृत्वा सूत्र-उक्त-विधिना शौच-आदीनि यथाविधि ॥ १८।३१ ॥
brāhme muhūrte ca udthāya nārāyaṇam anusmareth . kṛtvā sūtra-ukta-vidhinā śauca-ādīni yathāvidhi .. 18.31 ..
स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः । ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः ॥ १८.३२ ॥
स्नात्वा स्नान-विधानेन धृत्वा धौत-अंबरे पुनर् । ऊर्ध्व-पुण्ड्राणि संधार्य विधिना केशव-आदिभिः ॥ १८।३२ ॥
snātvā snāna-vidhānena dhṛtvā dhauta-aṃbare punar . ūrdhva-puṇḍrāṇi saṃdhārya vidhinā keśava-ādibhiḥ .. 18.32 ..
धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः । धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ॥ १८.३३ ॥
धृत्वा पवित्र-पद्म-अक्ष-तुलसी-मणि-मालिकाः । धृत्वा उभय-पवित्रे च तथा सन्ध्याम् उपास्य च ॥ १८।३३ ॥
dhṛtvā pavitra-padma-akṣa-tulasī-maṇi-mālikāḥ . dhṛtvā ubhaya-pavitre ca tathā sandhyām upāsya ca .. 18.33 ..
उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः । समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ॥ १८.३४ ॥
उष्णीषेण च । समाप्य नित्यकर्माणि महा-मन्त्र-आदिकम् जपन् ॥ १८।३४ ॥
uṣṇīṣeṇa ca . samāpya nityakarmāṇi mahā-mantra-ādikam japan .. 18.34 ..
अरुणं तु जपित्वैव नारायणमतः परं । प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ॥ १८.३५ ॥
अरुणम् तु जपित्वा एव नारायणम् अतस् परम् । प्रणम्य यन्त्रिकान् च एव कराभ्याम् परिगृह्य च ॥ १८।३५ ॥
aruṇam tu japitvā eva nārāyaṇam atas param . praṇamya yantrikān ca eva karābhyām parigṛhya ca .. 18.35 ..
बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः । संगतः परिचारैश्च यजमानेन सादरं ॥ १८.३६ ॥
बाह्वोः शिरसि वा न्यस्य भक्त्या परमया युतः । संगतः परिचारैः च यजमानेन स आदरम् ॥ १८।३६ ॥
bāhvoḥ śirasi vā nyasya bhaktyā paramayā yutaḥ . saṃgataḥ paricāraiḥ ca yajamānena sa ādaram .. 18.36 ..
सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः । क्रममाणश्शनैर्विद्वान्देवागारं प्रति व्रजेथ् ॥ १८.३७ ॥
सर्व-वाद्य-समायुक्तः सर्व-मङ्गल-शोभितः । क्रममाणः शनैस् विद्वान् देवागारम् प्रति व्रजेथ् ॥ १८।३७ ॥
sarva-vādya-samāyuktaḥ sarva-maṅgala-śobhitaḥ . kramamāṇaḥ śanais vidvān devāgāram prati vrajeth .. 18.37 ..
प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमाथ् । युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ॥ १८.३८ ॥
प्रतत् विष्णुः इति प्रोच्य च आलयम् परितस् क्रमाथ् । युग्म-प्रदक्षिणम् कुर्यात् देव देवम् अनुस्मरन् ॥ १८।३८ ॥
pratat viṣṇuḥ iti procya ca ālayam paritas kramāth . yugma-pradakṣiṇam kuryāt deva devam anusmaran .. 18.38 ..
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकं । आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ॥ १८.३९ ॥
युग्म-प्रदक्षिणम् कुर्यात् अयुग्मम् तु आभिचारिकम् । आयुग्मम् तु परीत्य अपि तथायुग्मम् प्रणम्य च ॥ १८।३९ ॥
yugma-pradakṣiṇam kuryāt ayugmam tu ābhicārikam . āyugmam tu parītya api tathāyugmam praṇamya ca .. 18.39 ..
प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकं । छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ॥ १८.४० ॥
प्रेक्षेत उद्यन्तम् आदित्यम् जपेत् द्वादश-सूक्तकम् । न तत्र स्यात् प्रदक्षिणे ॥ १८।४० ॥
prekṣeta udyantam ādityam japet dvādaśa-sūktakam . na tatra syāt pradakṣiṇe .. 18.40 ..
देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् । द्वारदेवान्प्रणम्याथ निरस्तं रक्षमस्त्रतः ॥ १८.४१ ॥
देवागारम् प्रविश्य एव तद्-तद्-मन्त्रम् अनुस्मरन् । द्वारदेवान् प्रणम्य अथ निरस्तम् रक्षम् अस्त्रतः ॥ १८।४१ ॥
devāgāram praviśya eva tad-tad-mantram anusmaran . dvāradevān praṇamya atha nirastam rakṣam astrataḥ .. 18.41 ..
गृहीत्वा यन्त्रिकां चैव हिरण्यपाणिऽ मुच्चरन् । कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन् ॥ १८.४२ ॥
गृहीत्वा यन्त्रिकाम् च एव हिरण्यपाणि मुच्चरन् । कवाटे तु सु संयोज्य "दिवम् वीति समुच्चरन् ॥ १८।४२ ॥
gṛhītvā yantrikām ca eva hiraṇyapāṇi muccaran . kavāṭe tu su saṃyojya "divam vīti samuccaran .. 18.42 ..
कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः । अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ॥ १८.४३ ॥
कवाट-उद्घायनम् कृत्वा प्रविशेत् अन्तरम् बुधः । अतस् देवाः इति प्रोच्य देवम् वीक्ष्य प्रणम्य च ॥ १८।४३ ॥
kavāṭa-udghāyanam kṛtvā praviśet antaram budhaḥ . atas devāḥ iti procya devam vīkṣya praṇamya ca .. 18.43 ..
परिचारकमाहूय दीपानुद्दीपयेत्क्रमाथ् । प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेथ् ॥ १८.४४ ॥
परिचारकम् आहूय दीपान् उद्दीपयेत् क्रमाथ् । प्रणवम् मन्त्रम् उच्चार्य तत्र कार्यम् समाचरेथ् ॥ १८।४४ ॥
paricārakam āhūya dīpān uddīpayet kramāth . praṇavam mantram uccārya tatra kāryam samācareth .. 18.44 ..
ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् । देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ॥ १८.४६ ॥
ब्राह्मणान् वेद-विदुषः नर्तकान् च एव गायकान् । देवस्य मुखमण्डपे एव चा ॥ १८।४६ ॥
brāhmaṇān veda-viduṣaḥ nartakān ca eva gāyakān . devasya mukhamaṇḍape eva cā .. 18.46 ..
प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा । सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ॥ १८.४७ ॥
प्रच्छन्न-पटम् उद्वास्य कृत्वा नीराजनम् तथा । सर्व-वाद्य-समायुक्तम् दर्शयेत् हरये मुदा ॥ १८।४७ ॥
pracchanna-paṭam udvāsya kṛtvā nīrājanam tathā . sarva-vādya-samāyuktam darśayet haraye mudā .. 18.47 ..
धारोष्णं चैव गोक्षीरं नवनीतं सशर्करं । देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ॥ १८.४८ ॥
धारोष्णम् च एव गो-क्षीरम् नवनीतम् स शर्करम् । देवेशाय निवेद्य अथ कुर्यात् यवनिकाम् पुनर् ॥ १८।४८ ॥
dhāroṣṇam ca eva go-kṣīram navanītam sa śarkaram . deveśāya nivedya atha kuryāt yavanikām punar .. 18.48 ..
भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः । परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिं ॥ १८.४९ ॥
भूः प्रपद्ये समुच्चार्य देवेशम् प्रणमेत् मुहुर् । परम् रंऽहि इति मन्त्रेण शयन-स्थम् श्रियःपतिम् ॥ १८।४९ ॥
bhūḥ prapadye samuccārya deveśam praṇamet muhur . param raṃ'hi iti mantreṇa śayana-stham śriyaḥpatim .. 18.49 ..
भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेथ् । तस्मिन्कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमं ॥ १८.५० ॥
भूः असी भूः इति प्रोच्य जीवस्थाने निवेशयेथ् । तस्मिन् काले तु ये भक्त्या सेवन्ते पुरुषोत्तमम् ॥ १८।५० ॥
bhūḥ asī bhūḥ iti procya jīvasthāne niveśayeth . tasmin kāle tu ye bhaktyā sevante puruṣottamam .. 18.50 ..
तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । ततश्शिष्यं समाहूय विनयान्वितमादराथ् ॥ १८.५१ ॥
तेषाम् पुण्य-फलम् वक्तुम् न शक्यम् त्रिदशैः अपि । ततस् शिष्यम् समाहूय विनय-अन्वितम् आदराथ् ॥ १८।५१ ॥
teṣām puṇya-phalam vaktum na śakyam tridaśaiḥ api . tatas śiṣyam samāhūya vinaya-anvitam ādarāth .. 18.51 ..
सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेथ् । अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ॥ १८.५२ ॥
सम्मार्जन-आदि-कर्माणि गुरुः तस्मै समादिशेथ् । अव धूति इति प्रोच्य गर्भ-गेह-आदि सर्वतस् ॥ १८।५२ ॥
sammārjana-ādi-karmāṇi guruḥ tasmai samādiśeth . ava dhūti iti procya garbha-geha-ādi sarvatas .. 18.52 ..
मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै । पांस्वादीन्परिहृत्यापि प्राकारान्तं च सर्वशः ॥ १८.५३ ॥
मार्जन्या मार्जयेत् शिष्यः प्रादक्षिण्य-क्रमेण वै । पांसु-आदीन् परिहृत्य अपि प्राकार-अन्तम् च सर्वशस् ॥ १८।५३ ॥
mārjanyā mārjayet śiṣyaḥ prādakṣiṇya-krameṇa vai . pāṃsu-ādīn parihṛtya api prākāra-antam ca sarvaśas .. 18.53 ..
आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेथ् । पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेथ् ॥ १८.५४ ॥
आशा असु इति समुच्चार्य गोमयेन उपलेपयेथ् । पञ्चगव्यैः तु संप्रोक्ष्य रङ्ग-वल्लीः समाचरेथ् ॥ १८।५४ ॥
āśā asu iti samuccārya gomayena upalepayeth . pañcagavyaiḥ tu saṃprokṣya raṅga-vallīḥ samācareth .. 18.54 ..
आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः । सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ॥ १८.५५ ॥
आ मा वाजस्य मन्त्रेण यथा उक्तेन विधानतः । सर्वणि अपि च पात्राणि शोधयेत् सु मनोरमे ॥ १८।५५ ॥
ā mā vājasya mantreṇa yathā uktena vidhānataḥ . sarvaṇi api ca pātrāṇi śodhayet su manorame .. 18.55 ..
तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु । घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन् ॥ १८.५६ ॥
तु नियुक्तः पूजकेन तु । घटम् आदाय शिष्यः तु "दुहताम् दिवः अमुच्चरन् ॥ १८।५६ ॥
tu niyuktaḥ pūjakena tu . ghaṭam ādāya śiṣyaḥ tu "duhatām divaḥ amuccaran .. 18.56 ..
नदीतटाककूपानां पूर्वालाभे परं व्रजेथ् । उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीं ॥ १८.५७ ॥
नदी-तटाक-कूपानाम् पूर्व-अलाभे परम् । उपस्थाय जलम् स्मृत्वा जाह्नवीम् लोक-पावनीम् ॥ १८।५७ ॥
nadī-taṭāka-kūpānām pūrva-alābhe param . upasthāya jalam smṛtvā jāhnavīm loka-pāvanīm .. 18.57 ..
आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा । गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन्पुनः ॥ १८.५८ ॥
आज्यम् अभिगृह्णामि इति च अप्-पवित्रेण वाससा । गृहीत्वा उत्पूतम् आधावम् गायत्रीम् उच्चरन् पुनर् ॥ १८।५८ ॥
ājyam abhigṛhṇāmi iti ca ap-pavitreṇa vāsasā . gṛhītvā utpūtam ādhāvam gāyatrīm uccaran punar .. 18.58 ..
अलङ्कृत्यघटं सम्यक्क्ष्ॐएनाच्छाद्य तन्मुखं । गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतं ॥ १८.५९ ॥
अलङ्कृत्य घटम् सम्यक् क्षोंएन आच्छाद्य तद्-मुखम् । गजे शिरसि वा क्षिप्त्वा सर्व-वाद्य-समायुतम् ॥ १८।५९ ॥
alaṅkṛtya ghaṭam samyak kṣoṃena ācchādya tad-mukham . gaje śirasi vā kṣiptvā sarva-vādya-samāyutam .. 18.59 ..
पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणं । सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ॥ १८.६० ॥
पुनर् आलयम् आविश्य कृत्वा च एव प्रदक्षिणम् । सोमम् राजानम् उच्चार्य गर्भ-गेहे तु दक्षिणे ॥ १८।६० ॥
punar ālayam āviśya kṛtvā ca eva pradakṣiṇam . somam rājānam uccārya garbha-gehe tu dakṣiṇe .. 18.60 ..
विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते । एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ॥ १८.६१ ॥
विन्यसेत् च ततस् कुंभम् त्रि-पाद-उपरि शोभिते । एला-उशीर-आदि-च आहृत्य गन्ध-द्रव्यम् यथाविधि ॥ १८।६१ ॥
vinyaset ca tatas kuṃbham tri-pāda-upari śobhite . elā-uśīra-ādi-ca āhṛtya gandha-dravyam yathāvidhi .. 18.61 ..
दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः । पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेथ् ॥ १८.६२ ॥
दद्यात् अर्चक-हस्ते तु गृहीत्वा तत् तु पूजकः । पूर्ण-कुंभे तु तत् अधिवासयेथ् ॥ १८।६२ ॥
dadyāt arcaka-haste tu gṛhītvā tat tu pūjakaḥ . pūrṇa-kuṃbhe tu tat adhivāsayeth .. 18.62 ..
अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः । अभिमृश्य ततः कुंभ मिदमापश्शिवाऽइति ॥ १८.६३ ॥
अलाभे कुश-दूर्वैः वा तुलसी-दल-मिश्रितैः । अभिमृश्य ततस् कुंभम् मिदम् आपः शिवाः ऐति ॥ १८।६३ ॥
alābhe kuśa-dūrvaiḥ vā tulasī-dala-miśritaiḥ . abhimṛśya tatas kuṃbham midam āpaḥ śivāḥ aiti .. 18.63 ..
सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा । शुचि वो हव्यऽमन्त्रेण संभारान्प्रोक्षयेत्क्रमाथ् ॥ १८.६४ ॥
सूत्र-उक्त-विधिना कृत्वा पुण्याहम् विधिवत् तदा । शुचि वः हव्य-मन्त्रेण संभारान् प्रोक्षयेत् क्रमाथ् ॥ १८।६४ ॥
sūtra-ukta-vidhinā kṛtvā puṇyāham vidhivat tadā . śuci vaḥ havya-mantreṇa saṃbhārān prokṣayet kramāth .. 18.64 ..
शोधयित्वातु निर्माल्यं नश्यस्तु जगताऽमिति । अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेथ् ॥ १८.६५ ॥
शोधयित्वा तु निर्माल्यम् नश्यः तु । अहम् एव इदम् तु पीठ-पुष्पम् च ॥ १८।६५ ॥
śodhayitvā tu nirmālyam naśyaḥ tu . aham eva idam tu pīṭha-puṣpam ca .. 18.65 ..
पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेथ् । ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ॥ १८.६६ ॥
पूतः तस्य समुच्चार्य । ध्रुवस्य पाद-पुष्पः तु विष्णुगायत्रिया तथा ॥ १८।६६ ॥
pūtaḥ tasya samuccārya . dhruvasya pāda-puṣpaḥ tu viṣṇugāyatriyā tathā .. 18.66 ..
पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च । देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ॥ १८.६७ ॥
पञ्चभिः मूर्ति मन्त्रैः च द-त्वा देवम् प्रणम्य च । देव-निर्माल्य-शेषेण विष्वक्सेनम् विभूष्य च ॥ १८।६७ ॥
pañcabhiḥ mūrti mantraiḥ ca da-tvā devam praṇamya ca . deva-nirmālya-śeṣeṇa viṣvaksenam vibhūṣya ca .. 18.67 ..
अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेथ् । पूजनार्थांश्च संभारान्यथाशक्ति सुसंभरेथ् ॥ १८.६८ ॥
अन्यत् निर्माल्यम् आदाय शुचि-स्थाने अप्सु वा । पूजन-अर्थान् च संभारान् यथाशक्ति ॥ १८।६८ ॥
anyat nirmālyam ādāya śuci-sthāne apsu vā . pūjana-arthān ca saṃbhārān yathāśakti .. 18.68 ..
ततस्समाहितो भूत्वासंभारार्चनमारभेथ् । तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ॥ १८.६९ ॥
ततस् समाहितः भूत्वा अ संभार-अर्चनम् आरभेथ् । पात्राणि यथार्हम् स्थापयेत् बुधः ॥ १८।६९ ॥
tatas samāhitaḥ bhūtvā a saṃbhāra-arcanam ārabheth . pātrāṇi yathārham sthāpayet budhaḥ .. 18.69 ..
स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृतेऽपि च । पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ॥ १८.७० ॥
स्नान-अर्थम् अग्निकोणे स्यात् अर्घि-अर्थम् नैरृते अपि च । पाद्य-अर्थम् वायु-देशे स्यात् आचम-अर्थम् अथ ईशके ॥ १८।७० ॥
snāna-artham agnikoṇe syāt arghi-artham nairṛte api ca . pādya-artham vāyu-deśe syāt ācama-artham atha īśake .. 18.70 ..
शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमाथ् । त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ॥ १८.७१ ॥
शुद्धि-अर्थम् एकम् मध्ये तु पञ्च-पात्रम् इदम् । त्रि-पाद-उपरे निक्षिप्ते विशाले ताम्र-भाजने ॥ १८।७१ ॥
śuddhi-artham ekam madhye tu pañca-pātram idam . tri-pāda-upare nikṣipte viśāle tāmra-bhājane .. 18.71 ..
अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् । कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ॥ १८.७२ ॥
अग्निः शु चि इति मन्त्रेण स्थापयेत् च हरिम् स्मरन् । कुर्यात् च पात्र-संस्कारम् शोषण-आदि यथाविधि ॥ १८।७२ ॥
agniḥ śu ci iti mantreṇa sthāpayet ca harim smaran . kuryāt ca pātra-saṃskāram śoṣaṇa-ādi yathāvidhi .. 18.72 ..
उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा । निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेथ् ॥ १८.७३ ॥
उद् हरिण्याम् गृहीत्वा तु प्रणवेन जलम् तदा । निक्षिप्य तुलसीम् तस्याम् पुष्पम् वा धारणम् चरेथ् ॥ १८।७३ ॥
ud hariṇyām gṛhītvā tu praṇavena jalam tadā . nikṣipya tulasīm tasyām puṣpam vā dhāraṇam careth .. 18.73 ..
वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः । वरुणस्तु जले ध्येयस्तथै वावाहनं चरेथ् ॥ १८.७४ ॥
वारि-कुंभ-मुखे ब्रह्मा तद्-अधस् रुद्रः ईरितः । वरुणः तु जले ध्येयः तथा वा आवाहनम् चरेथ् ॥ १८।७४ ॥
vāri-kuṃbha-mukhe brahmā tad-adhas rudraḥ īritaḥ . varuṇaḥ tu jale dhyeyaḥ tathā vā āvāhanam careth .. 18.74 ..
त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने । वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ॥ १८.७५ ॥
त्रि-पादे चन्द्रम् आवाह्य च आदित्यम् च ऊर्ध्व-भाजने । वसिष्ठ-सोम-यज्ञ-अङ्गान् इन्दुम् मन्द्रम् क्रमेण वै ॥ १८।७५ ॥
tri-pāde candram āvāhya ca ādityam ca ūrdhva-bhājane . vasiṣṭha-soma-yajña-aṅgān indum mandram krameṇa vai .. 18.75 ..
आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेथ् । कर्पूरोशीरकं चैव गन्धानेलालवङ्गकं ॥ १८.७६ ॥
आग्नेय-आदि-क्रमेण एव पञ्च-पात्रेषु । कर्पूर-उशीरकम् च एव गन्धानेला-लवङ्गकम् ॥ १८।७६ ॥
āgneya-ādi-krameṇa eva pañca-pātreṣu . karpūra-uśīrakam ca eva gandhānelā-lavaṅgakam .. 18.76 ..
स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेथ् । विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ॥ १८.७७ ॥
स्नान-द्रव्यम् इदम् प्रोक्तम् स्नान-पात्रे । विष्णुपर्णम् पद्म-दलम् दूर्वाम् श्यामाकम् एव च ॥ १८।७७ ॥
snāna-dravyam idam proktam snāna-pātre . viṣṇuparṇam padma-dalam dūrvām śyāmākam eva ca .. 18.77 ..
प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेथ् । कुशाक्षततिलव्रीहियवमाषांस्तथैव च ॥ १८.७८ ॥
प्राद्य-द्रव्याणि संपाद्य पाद्य-पात्रे तु । कुश-अक्षत-तिल-व्रीहि-यव-माषान् तथा एव च ॥ १८।७८ ॥
prādya-dravyāṇi saṃpādya pādya-pātre tu . kuśa-akṣata-tila-vrīhi-yava-māṣān tathā eva ca .. 18.78 ..
प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेथ् । एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ॥ १८.७९ ॥
प्रियङ्गून् च एव सिद्धार्थान् अर्घ्य-पात्रे तु निक्षिपेथ् । एला-उशीर-लवङ्ग-आदिम् स्तक्कोलानि इति च क्रमात्, ॥ १८।७९ ॥
priyaṅgūn ca eva siddhārthān arghya-pātre tu nikṣipeth . elā-uśīra-lavaṅga-ādim stakkolāni iti ca kramāt, .. 18.79 ..
क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमाथ् । पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ॥ १८.८० ॥
क्षिपेत् आचाम-पात्रे तु शुद्ध-तोये । पुष्पाणि गन्धान् विन्यस्येत् यथालाभम् अथ अपि वा ॥ १८।८० ॥
kṣipet ācāma-pātre tu śuddha-toye . puṣpāṇi gandhān vinyasyet yathālābham atha api vā .. 18.80 ..
अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेथ् । धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेथ् ॥ १८.८१ ॥
तुलसीम् वा । धारा असु इति च मन्त्रेण पात्राणि अद्भिः ॥ १८।८१ ॥
tulasīm vā . dhārā asu iti ca mantreṇa pātrāṇi adbhiḥ .. 18.81 ..
इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च । पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेथ् ॥ १८.८२ ॥
प्रोच्य सुरभिमुद्राम् प्रदर्श्य च । पात्र-अभिमन्त्रणम् कुर्यात् दस-दिग्बन्धनम् ॥ १८।८२ ॥
procya surabhimudrām pradarśya ca . pātra-abhimantraṇam kuryāt dasa-digbandhanam .. 18.82 ..
विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेथ् । घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेथ् ॥ १८.८३ ॥
विष्णुगायत्रीम् उच्चार्य तत्रकार्यम् समाचरेथ् । घण्टायाम् च एव ब्रह्माणम् नादे वेदान् समर्चयेथ् ॥ १८।८३ ॥
viṣṇugāyatrīm uccārya tatrakāryam samācareth . ghaṇṭāyām ca eva brahmāṇam nāde vedān samarcayeth .. 18.83 ..
तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत् । ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेथ् ॥ १८.८४ ॥
तद्-जिह्वायाम् षष्-आस्यः तु सूत्रेन आगान् समर्चयेत् । च शङ्ख-अरी च शङ्ख-अरी च शङ्ख-अरी ॥ १८।८४ ॥
tad-jihvāyām ṣaṣ-āsyaḥ tu sūtrena āgān samarcayet . ca śaṅkha-arī ca śaṅkha-arī ca śaṅkha-arī .. 18.84 ..
नाले चैव महादेवमिति घण्टाधिदेवताः । त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ॥ १८.८५ ॥
नाले च एव महादेवम् इति घण्टा-अधिदेवताः । त्रिपादस्य उत्तरे स्थाप्य विमलन् तु पतद्ग्रहे ॥ १८।८५ ॥
nāle ca eva mahādevam iti ghaṇṭā-adhidevatāḥ . tripādasya uttare sthāpya vimalan tu patadgrahe .. 18.85 ..
वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा । धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेथ् ॥ १८.८६ ॥
वरुणम् शङ्ख-कुक्षौ तु मूले तु पृथिवीम् तथा । धारायाम् सर्व-तीर्थान् च शङ्खे चन्द्रम् ॥ १८।८६ ॥
varuṇam śaṅkha-kukṣau tu mūle tu pṛthivīm tathā . dhārāyām sarva-tīrthān ca śaṅkhe candram .. 18.86 ..
उद्धरिण्यां च पानीयपात्रे सोममथार्चयेथ् । आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ॥ १८.८७ ॥
उद्धरिण्याम् च पानीय-पात्रे सोमम् अथ अर्चयेथ् । आसने धर्मम् आवाह्य प्लोते त्वष्टारम् एव च ॥ १८।८७ ॥
uddhariṇyām ca pānīya-pātre somam atha arcayeth . āsane dharmam āvāhya plote tvaṣṭāram eva ca .. 18.87 ..
अंबरे सूर्यमावाह्य चोत्तरीये निशाकरं । भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरं ॥ १८.८८ ॥
अंबरे सूर्यम् आवाह्य च उत्तरीये निशाकरम् । भूषणे षण्मुखम् च एव यज्ञसूत्रे निशाकरम् ॥ १८।८८ ॥
aṃbare sūryam āvāhya ca uttarīye niśākaram . bhūṣaṇe ṣaṇmukham ca eva yajñasūtre niśākaram .. 18.88 ..
पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीं । अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेथ् ॥ १८.८९ ॥
पुष्पे पुल्लम् तथा गन्धे मुख-वासे च मेदिनीम् । अक्षते काश्यपम् धूपे बृहस्पतिम् अध आह्वायेथ् ॥ १८।८९ ॥
puṣpe pullam tathā gandhe mukha-vāse ca medinīm . akṣate kāśyapam dhūpe bṛhaspatim adha āhvāyeth .. 18.89 ..
दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेथ् । उपधाने तथाछत्रे पादुके शेषमर्चयेथ् ॥ १८.९० ॥
दीपे श्रियम् घृते साम-तैले पितॄन् समर्चयेथ् । उपधाने तथा छत्रे पादुके शेषम् अर्चयेथ् ॥ १८।९० ॥
dīpe śriyam ghṛte sāma-taile pitṝn samarcayeth . upadhāne tathā chatre pāduke śeṣam arcayeth .. 18.90 ..
यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेथ् । कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ॥ १८.९१ ॥
यन्त्रिकायाम् च मार्ताण्डम् सिद्धार्थे सोमम् अर्चयेथ् । कुश-अग्रे जाह्नवीम् च एव तिलेषु पितृ-देवताः ॥ १८।९१ ॥
yantrikāyām ca mārtāṇḍam siddhārthe somam arcayeth . kuśa-agre jāhnavīm ca eva tileṣu pitṛ-devatāḥ .. 18.91 ..
तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः । क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ॥ १८.९२ ॥
तण्डुले रविम् आवाह्य दध्नि च आवाहयेत् यजुः । क्षीरे अथर्वाणम् आवाह्य मधुपर्के ऋचम् तथा ॥ १८।९२ ॥
taṇḍule ravim āvāhya dadhni ca āvāhayet yajuḥ . kṣīre atharvāṇam āvāhya madhuparke ṛcam tathā .. 18.92 ..
मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरं । हविष्णु पद्मगर्भं च पानपात्रे निशाकरं ॥ १८.९३ ॥
मात्रायाम् शर्वम् आवाह्य हविः-पात्रे दिवाकरम् । हविष्णु पद्मगर्भम् च पान-पात्रे निशाकरम् ॥ १८।९३ ॥
mātrāyām śarvam āvāhya haviḥ-pātre divākaram . haviṣṇu padmagarbham ca pāna-pātre niśākaram .. 18.93 ..
उपहारादिपात्रेषु दिवाकरमथार्चयेथ् । ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेथ् ॥ १८.९४ ॥
उपहार-आदि-पात्रेषु दिवाकरम् अथ अर्चयेथ् । ज्येष्ठाम् आवाह्य मार्जन्याम् ॥ १८।९४ ॥
upahāra-ādi-pātreṣu divākaram atha arcayeth . jyeṣṭhām āvāhya mārjanyām .. 18.94 ..
गायके सामवेदं च नन्दीशं वादकेर्ऽचयेथ् । पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ॥ १८.९५ ॥
गायके सामवेदम् च नन्दीशम् । पाञ्चजन्यम् च शङ्खे तु ॥ १८।९५ ॥
gāyake sāmavedam ca nandīśam . pāñcajanyam ca śaṅkhe tu .. 18.95 ..
गरुडं परिचारेषु समावाह्य ततः क्रमाथ् । अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेथ् ॥ १८.९६ ॥
गरुडम् परिचारेषु समावाह्य ततस् । अन् उक्तेषु तु द्रव्येषु विष्णुम् आवाह्य ॥ १८।९६ ॥
garuḍam paricāreṣu samāvāhya tatas . an ukteṣu tu dravyeṣu viṣṇum āvāhya .. 18.96 ..
तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः । तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेथ् ॥ १८.९७ ॥
तद्-तद्-द्रव्य-अधिपे स्मृत्वा तद्-तद्-द्रव्य-समीपतः । तद्-तद्-द्रव्य-धर-त्वेन चतुर्भिः विग्रहैः ॥ १८।९७ ॥
tad-tad-dravya-adhipe smṛtvā tad-tad-dravya-samīpataḥ . tad-tad-dravya-dhara-tvena caturbhiḥ vigrahaiḥ .. 18.97 ..
तत्तत्कर्मसु काले वै यथार्हमुपयोजयेथ् । तत्काले प्यथ वावाह्यतस्मिन्कर्मणि योजयेथ् ॥ १८.९८ ॥
तत् तत् कर्मसु काले वै यथार्हम् उपयोजयेथ् । तद्-काले वा अवाह्य-तस्मिन् कर्मणि ॥ १८।९८ ॥
tat tat karmasu kāle vai yathārham upayojayeth . tad-kāle vā avāhya-tasmin karmaṇi .. 18.98 ..
ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनं । देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ॥ १८.९९ ॥
ततस् अचकः प्रसन्न-आत्मा अ ध्यात्वा आत्मानम् जनार्दनम् । देवस्य दक्षिणे-भागे कूर्मपीठे समाहितः ॥ १८।९९ ॥
tatas acakaḥ prasanna-ātmā a dhyātvā ātmānam janārdanam . devasya dakṣiṇe-bhāge kūrmapīṭhe samāhitaḥ .. 18.99 ..
बिंबार्हं संस्थितो वापि समासीनोऽथ वा पुनः । ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपरां ॥ १८.१०० ॥
बिंब-अर्हम् संस्थितः वा अपि समासीनः अथ वा पुनर् । ध्यात्वा ध्यान-विधानेन जप्त्वा आचार्य-पलंपराम् ॥ १८।१०० ॥
biṃba-arham saṃsthitaḥ vā api samāsīnaḥ atha vā punar . dhyātvā dhyāna-vidhānena japtvā ācārya-palaṃparām .. 18.100 ..
योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेथ् । भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेथ् ॥ १८.१०१ ॥
प्राणायाम-आदिकम् । भूतशुद्धिम् विधाय आदौ न्यासान् अन्यान् समाचरेथ् ॥ १८।१०१ ॥
prāṇāyāma-ādikam . bhūtaśuddhim vidhāya ādau nyāsān anyān samācareth .. 18.101 ..
अकारादिक्षकारान्तमक्षराणि यथाविधि । सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेथ् ॥ १८.१०२ ॥
अकार-आदि-क्षकार-अन्तम् अक्षराणि यथाविधि । सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासम् समाचरेथ् ॥ १८।१०२ ॥
akāra-ādi-kṣakāra-antam akṣarāṇi yathāvidhi . sarvatra sandhiṣu nyasya brahmanyāsam samācareth .. 18.102 ..
ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेथ् । द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेथ् ॥ १८.१०३ ॥
ब्रह्म ब्रह्म अन्तरात्मे अति हृदयम् च अभिमर्शयेथ् । द्यौः द्यैः असि इति च उच्चार्य मूर्धानम् च अभिमर्शयेथ् ॥ १८।१०३ ॥
brahma brahma antarātme ati hṛdayam ca abhimarśayeth . dyauḥ dyaiḥ asi iti ca uccārya mūrdhānam ca abhimarśayeth .. 18.103 ..
शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा । देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ॥ १८.१०४ ॥
शिखे उद्वर्तय अमि इति स्पृशेत् च एव शिखाम् तथा । कवचम् बन्धयेत् ततस् ॥ १८।१०४ ॥
śikhe udvartaya ami iti spṛśet ca eva śikhām tathā . kavacam bandhayet tatas .. 18.104 ..
नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेथ् । सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनं ॥ १८.१०५ ॥
नारायणाय विद्महे इति दश-दिग्भन्धनम् चरेथ् । सुदर्शनम् अभि इति उक्त्वा दक्षिणे तु सुदर्शनम् ॥ १८।१०५ ॥
nārāyaṇāya vidmahe iti daśa-digbhandhanam careth . sudarśanam abhi iti uktvā dakṣiṇe tu sudarśanam .. 18.105 ..
रविपाऽमिति वामे च शङ्खं च बिभृयात्करे । सूर्योसि च द्रोऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ॥ १८.१०६ ॥
वामे च शङ्खम् च बिभृयात् करे । सूर्यः असि च द्रः असि इति उक्त्वा नेत्रयोः दक्ष-वामयोः ॥ १८।१०६ ॥
vāme ca śaṅkham ca bibhṛyāt kare . sūryaḥ asi ca draḥ asi iti uktvā netrayoḥ dakṣa-vāmayoḥ .. 18.106 ..
सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः । अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ॥ १८.१०७ ॥
सूर्याचन्द्रमसोः च एव मण्डले सन् न्यसेत् बुधः । अहुरण्यम् विधिम् यज्ञम् ब्रह्माणम् देव-इन्द्र इति अपि ॥ १८।१०७ ॥
sūryācandramasoḥ ca eva maṇḍale san nyaset budhaḥ . ahuraṇyam vidhim yajñam brahmāṇam deva-indra iti api .. 18.107 ..
अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेथ् । अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेथ् ॥ १८.१०८ ॥
अङ्गुष्ठ-आदि-कनिष्ठा-अन्तम् कर-न्यासम् समाचरेथ् । अन्तरस्मिन् इमे इति ब्रह्माणम् च हृदि न्यसेथ् ॥ १८।१०८ ॥
aṅguṣṭha-ādi-kaniṣṭhā-antam kara-nyāsam samācareth . antarasmin ime iti brahmāṇam ca hṛdi nyaseth .. 18.108 ..
प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेथ् । ततो मन्त्रासनं विद्वान्संकल्प्य च यथाविधि ॥ १८.१०९ ॥
प्राणान् आयम्य संकल्प्य तिथि-वार-आदि-कीर्तयेथ् । ततस् मन्त्र-आसनम् विद्वान् संकल्प्य च यथाविधि ॥ १८।१०९ ॥
prāṇān āyamya saṃkalpya tithi-vāra-ādi-kīrtayeth . tatas mantra-āsanam vidvān saṃkalpya ca yathāvidhi .. 18.109 ..
प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि । पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेथ् ॥ १८.११० ॥
इति त"थास्तु आसनम् इति अपि । पुष्प-दभन् कुशेषु एकम् पीठ-अन्ते च आसनम् ॥ १८।११० ॥
iti ta"thāstu āsanam iti api . puṣpa-dabhan kuśeṣu ekam pīṭha-ante ca āsanam .. 18.110 ..
विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेथ् । मनोऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ॥ १८.१११ ॥
स्वागतम् तु समाचरेथ् । मनः-अभिमन्ता अमन्त्रेण देवेशम् अनुमान्य च ॥ १८।१११ ॥
svāgatam tu samācareth . manaḥ-abhimantā amantreṇa deveśam anumānya ca .. 18.111 ..
त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये । आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य्प्रदाय च ॥ १८.११२ ॥
त्रीणि मन्त्रेण दद्यात् पाद्यम् पद-द्वये । स्पृश्यम् अघम् न्य्प्रदाय च ॥ १८।११२ ॥
trīṇi mantreṇa dadyāt pādyam pada-dvaye . spṛśyam agham nypradāya ca .. 18.112 ..
देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते । शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकं ॥ १८.११३ ॥
देवस्य दक्षिणे हस्ते स्पृश्यम् स्सृश्य अघनी मुच्यते । प्रोच्य दद्यात् आचमनीयकम् ॥ १८।११३ ॥
devasya dakṣiṇe haste spṛśyam ssṛśya aghanī mucyate . procya dadyāt ācamanīyakam .. 18.113 ..
देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः । अन्नाद्याय समुच्चार्य दन्तधावनमाचरेथ् ॥ १८.११४ ॥
देवस्य अत्वा इति मन्त्रेण च आदर्शम् दर्शयेत् ततस् । अन्नाद्याय समुच्चार्य दन्तधावनम् आचरेथ् ॥ १८।११४ ॥
devasya atvā iti mantreṇa ca ādarśam darśayet tatas . annādyāya samuccārya dantadhāvanam ācareth .. 18.114 ..
हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलं । जौदुंबरं वा संपाद्य यथालाभं समाचरेथ् ॥ १८.११५ ॥
हिरण्मयम् वा रौप्यम् वा दन्तकाष्ठम् षष्-अङ्गुलम् । जौदुंबरम् वा संपाद्य यथालाभम् समाचरेथ् ॥ १८।११५ ॥
hiraṇmayam vā raupyam vā dantakāṣṭham ṣaṣ-aṅgulam . jauduṃbaram vā saṃpādya yathālābham samācareth .. 18.115 ..
इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेथ् । यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ॥ १८.११६ ॥
इदम् ब्रऽह्म इति मन्त्रेण जिह्मा-शोधनम् आचरेथ् । यत् मे गर्भे अ समुच्चार्य गण्डूषम् क्षालनम् तथा ॥ १८।११६ ॥
idam bra'hma iti mantreṇa jihmā-śodhanam ācareth . yat me garbhe a samuccārya gaṇḍūṣam kṣālanam tathā .. 18.116 ..
शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः । विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेथ् ॥ १८.११७ ॥
प्रोच्य दद्यात् आचमनम् ततस् । विचक्रमे नम् उच्चार्य मुख-वासम् प्रदापयेथ् ॥ १८।११७ ॥
procya dadyāt ācamanam tatas . vicakrame nam uccārya mukha-vāsam pradāpayeth .. 18.117 ..
पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा । ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादराथ् ॥ १८.११८ ॥
पूर्व-वस्त्रम् विसृज्य एव परिधाप्य अन्य-वाससा । ग्रीवायाः पृष्ठतस् कुर्यात् अवकुण्ठनम् आदराथ् ॥ १८।११८ ॥
pūrva-vastram visṛjya eva paridhāpya anya-vāsasā . grīvāyāḥ pṛṣṭhatas kuryāt avakuṇṭhanam ādarāth .. 18.118 ..
केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः । उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेथ् ॥ १८.११९ ॥
केशान् विकीर्य मन्त्र-ज्ञः वाम-भागे च सुस्थितः । प्रोच्य पुरस्तात् पादुके न्यसेथ् ॥ १८।११९ ॥
keśān vikīrya mantra-jñaḥ vāma-bhāge ca susthitaḥ . procya purastāt pāduke nyaseth .. 18.119 ..
भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिं । पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकं ॥ १८.१२० ॥
भूः प्रपद्ये समुच्चार्य प्रणम्य जगताम् पतिम् । पर ब्रऽह्म इति मन्त्रेण समादाय तु कौतुकम् ॥ १८।१२० ॥
bhūḥ prapadye samuccārya praṇamya jagatām patim . para bra'hma iti mantreṇa samādāya tu kautukam .. 18.120 ..
स्वस्तिसूक्तं ततो जप्त्वा प्रतद्विष्णुऽरिति ब्रुवन् । स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेथ् ॥ १८.१२१ ॥
स्वस्ति-सूक्तम् ततस् जप्त्वा ब्रुवन् । स्नान-पीठे सु संस्थाप्य पाद्यम् आचमनम् ॥ १८।१२१ ॥
svasti-sūktam tatas japtvā bruvan . snāna-pīṭhe su saṃsthāpya pādyam ācamanam .. 18.121 ..
अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि । तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेथ् ॥ १८.१२२ ॥
अतस् देव-आदि-मन्त्रैः तु तैलम् आलिप्य मूर्धनि । तथा एव विष्णुगायत्षा सर्व-अंगाणि अनुलेपयेथ् ॥ १८।१२२ ॥
atas deva-ādi-mantraiḥ tu tailam ālipya mūrdhani . tathā eva viṣṇugāyatṣā sarva-aṃgāṇi anulepayeth .. 18.122 ..
परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेथ् । आम्लेन खण्डशीकेन शर्कराभिर्यथोचितं ॥ १८.१२३ ॥
मन्त्रेण सर्व-अङ्गम् अपि । आम्लेन खण्डशीकेन शर्कराभिः यथोचितम् ॥ १८।१२३ ॥
mantreṇa sarva-aṅgam api . āmlena khaṇḍaśīkena śarkarābhiḥ yathocitam .. 18.123 ..
अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना । शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेथ् ॥ १८.१२४ ॥
अला-शोधनम् कुर्यात् श्री-पत्र-आमलक-अम्बुना । शालि-पिष्टेन गन्ध-आद्यैः अङ्ग-शोधनम् आचरेथ् ॥ १८।१२४ ॥
alā-śodhanam kuryāt śrī-patra-āmalaka-ambunā . śāli-piṣṭena gandha-ādyaiḥ aṅga-śodhanam ācareth .. 18.124 ..
विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा । वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेथ् ॥ १८.१२५ ॥
विशदम् शोधयित्वा तु संस्नाप्य उष्णेन वारिणा । वारीः चतस्रः इति उक्त्वा शुद्ध-उदैः अभिषेचयेथ् ॥ १८।१२५ ॥
viśadam śodhayitvā tu saṃsnāpya uṣṇena vāriṇā . vārīḥ catasraḥ iti uktvā śuddha-udaiḥ abhiṣecayeth .. 18.125 ..
नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेथ् । भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ॥ १८.१२६ ॥
नमः वरुण इति उक्त्वा गो-क्षीरैः अभिषेचयेथ् । स्नापयेत् गन्ध-वारिणा ॥ १८।१२६ ॥
namaḥ varuṇa iti uktvā go-kṣīraiḥ abhiṣecayeth . snāpayet gandha-vāriṇā .. 18.126 ..
अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेथ् । सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनं ॥ १८.१२७ ॥
मधुना स्नानम् आचरेथ् । सीनीवा अलि इति मन्त्रेण हारिद्र-उदक-सेचनम् ॥ १८।१२७ ॥
madhunā snānam ācareth . sīnīvā ali iti mantreṇa hāridra-udaka-secanam .. 18.127 ..
तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः । पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च ॥ १८.१२८ ॥
तद्-तद्-द्रव्य-अन्तरे च एव भवेत् शुद्ध-उदक-आप्लपः । पुनर् गन्ध-उदकेन एव "च ॥ १८।१२८ ॥
tad-tad-dravya-antare ca eva bhavet śuddha-udaka-āplapaḥ . punar gandha-udakena eva "ca .. 18.128 ..
स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरं । चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ॥ १८.१२९ ॥
स्नापयेत् देवदेवेशम् तूर्य-घोष-पुरस्सरम् । चतुर्-वेद-आदि-मन्त्रैः च शुद्धोदैः स्नापयेत् पुनर् ॥ १८।१२९ ॥
snāpayet devadeveśam tūrya-ghoṣa-purassaram . catur-veda-ādi-mantraiḥ ca śuddhodaiḥ snāpayet punar .. 18.129 ..
मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना । पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरथ् ॥ १८.१३० ॥
मित्रः सुपर्णः इति उक्त्वा विमृज्य प्लोत-वासना । पूर्व-वस्त्रम् विसृज्य एप परीधाप्य तथा इतरथ् ॥ १८।१३० ॥
mitraḥ suparṇaḥ iti uktvā vimṛjya plota-vāsanā . pūrva-vastram visṛjya epa parīdhāpya tathā itarath .. 18.130 ..
पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः । प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ॥ १८.१३१ ॥
पाद्यम् आचमनम् दद्यात् पूर्व-उक्तेन विधानतः । प्रणम्य देवदेवेशम् ततस् ॥ १८।१३१ ॥
pādyam ācamanam dadyāt pūrva-uktena vidhānataḥ . praṇamya devadeveśam tatas .. 18.131 ..
भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेथ् । त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेथ् ॥ १८.१३२ ।
भूः असि भूः इति उच्चार्य जीवस्थाने निवेशयेथ् । त्रिस् देव-मन्त्रम् उच्चार्य समर्पयेथ् ॥ १८।१३२ ।
bhūḥ asi bhūḥ iti uccārya jīvasthāne niveśayeth . tris deva-mantram uccārya samarpayeth .. 18.132 .
ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् । संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ॥ १८.१३३ ॥
ततस् प्रोक्ष्य ध्रुव-स्थानम् गायत्री-मन्त्रम् उच्चरन् । संयुक्तम् एत त् उच्चार्य ॥ १८।१३३ ॥
tatas prokṣya dhruva-sthānam gāyatrī-mantram uccaran . saṃyuktam eta t uccārya .. 18.133 ..
संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः । गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ॥ १८.१३४ ॥
संबन्ध-अर्थम् न्यसेत् कूर्चम् कौतुक-अग्रम् विधानतः । प्रोक्ष्य शुद्धेन वारिणा ॥ १८।१३४ ॥
saṃbandha-artham nyaset kūrcam kautuka-agram vidhānataḥ . prokṣya śuddhena vāriṇā .. 18.134 ..
विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् । ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेथ् ॥ १८.१३५ ॥
विष्णवे नमः इति उक्त्वा देवदेवम् अनुस्मरन् । ध्रुवस्य पादयोः मध्ये पुष्प-न्यासम् समाचरेथ् ॥ १८।१३५ ॥
viṣṇave namaḥ iti uktvā devadevam anusmaran . dhruvasya pādayoḥ madhye puṣpa-nyāsam samācareth .. 18.135 ..
प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै । चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतं ॥ १८.१३६ ॥
प्राच्-आदि च न्यसेत् तत्र पाद-क्षिण्य-क्रमेण वै । चतुर्थी-अन्तेन पुष्पाणि पुरुषम् सत्यम् अच्युतम् ॥ १८।१३६ ॥
prāc-ādi ca nyaset tatra pāda-kṣiṇya-krameṇa vai . caturthī-antena puṣpāṇi puruṣam satyam acyutam .. 18.136 ..
अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च । आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ॥ १८.१३७ ॥
अनिरुद्धम् इति रोच्य महा-दिक्षु चतुर्षु च । आग्नेय-आदि तथा न्यन्येत् विदिक्षु च क्रमेण वै ॥ १८।१३७ ॥
aniruddham iti rocya mahā-dikṣu caturṣu ca . āgneya-ādi tathā nyanyet vidikṣu ca krameṇa vai .. 18.137 ..
कपिलं चैव यज्ञं च नारायणं पुण्यमेव च । प्रथमावरणं चैतद्द्वितीयावरणे ततः ॥ १८.१३८ ॥
कपिलम् च एव यज्ञम् च नारायणम् पुण्यम् एव च । प्रथम-आवरणम् च एतत् द्वितीय-आवरणे ततस् ॥ १८।१३८ ॥
kapilam ca eva yajñam ca nārāyaṇam puṇyam eva ca . prathama-āvaraṇam ca etat dvitīya-āvaraṇe tatas .. 18.138 ..
पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकं । वामनं त्रिविक्रमं चैव सुभद्रं च ततः परं ॥ १८.१३९ ॥
पूर्व-उक्तेन क्रमेण एव वाराहम् नारसिंहकम् । वामनम् त्रिविक्रमम् च एव सुभद्रम् च ततस् परम् ॥ १८।१३९ ॥
pūrva-uktena krameṇa eva vārāham nārasiṃhakam . vāmanam trivikramam ca eva subhadram ca tatas param .. 18.139 ..
ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परं । सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ॥ १८.१४० ॥
ईशिता आत्मानम् इति उक्त्वा सर्व-उद्वहम् अतस् परम् । सर्व-विद् वा ईश्वरम् च इति समभ्यर्च्येत् बहिर्मुखान् ॥ १८।१४० ॥
īśitā ātmānam iti uktvā sarva-udvaham atas param . sarva-vid vā īśvaram ca iti samabhyarcyet bahirmukhān .. 18.140 ..
तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेथ् । श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेथ् ॥ १८.१४१ ॥
तृतीय-आवरणे तद्-तद्-दिगीशान् च । श्री-फूम्योः मूर्ति-मन्त्रैः च देव्योः अपि समाचरेथ् ॥ १८।१४१ ॥
tṛtīya-āvaraṇe tad-tad-digīśān ca . śrī-phūmyoḥ mūrti-mantraiḥ ca devyoḥ api samācareth .. 18.141 ..
एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः । अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ॥ १८.१४२ ॥
एवम् ध्रुवस्य पीठे तु पुष्प-न्यासः उदाहृतः । अथ कौतुकपीठे तु पूर्व-उक्तेन क्रमेण वै ॥ १८।१४२ ॥
evam dhruvasya pīṭhe tu puṣpa-nyāsaḥ udāhṛtaḥ . atha kautukapīṭhe tu pūrva-uktena krameṇa vai .. 18.142 ..
प्राच्यां सुभद्रमावाह्य हयात्मकमतः परं । रामदेवं पुण्यदेवं सर्वं चैव सुखावहं ॥ १८.१४३ ॥
प्राच्याम् सुभद्रम् आवाह्य हय-आत्मकम् अतस् परम् । रामदेवम् पुण्य-देवम् सर्वम् च एव सुख-आवहम् ॥ १८।१४३ ॥
prācyām subhadram āvāhya haya-ātmakam atas param . rāmadevam puṇya-devam sarvam ca eva sukha-āvaham .. 18.143 ..
संवहं सुवहं चेति प्रथमावरणेर्ऽचयेथ् । द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ॥ १८.१४४ ॥
संवहम् सुवहम् च इति प्रथम-आवरणेः अचयेथ् । द्वितीय-आवरणे तद्वत् मित्र मत्रिम् शिवम् ततस् ॥ १८।१४४ ॥
saṃvaham suvaham ca iti prathama-āvaraṇeḥ acayeth . dvitīya-āvaraṇe tadvat mitra matrim śivam tatas .. 18.144 ..
विश्वं सनातनं चैव सनर्थनमतः परं । सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ॥ १८.१४५ ॥
विश्वम् सनातनम् च एव सनर्थनम् अतस् परम् । सनत्कुमारम् सनकम् अर्चयेत् च बहिर्मुखान् ॥ १८।१४५ ॥
viśvam sanātanam ca eva sanarthanam atas param . sanatkumāram sanakam arcayet ca bahirmukhān .. 18.145 ..
तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेथ् । प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते ॥ १८.१४६ ॥
तृतीय-आवरणे तद्वत् लोकपालान् समर्चयेथ् । प्रणव-आदि नमः-अन्तम् स्यात् अर्चनम् न्यासः उच्यते ॥ १८।१४६ ॥
tṛtīya-āvaraṇe tadvat lokapālān samarcayeth . praṇava-ādi namaḥ-antam syāt arcanam nyāsaḥ ucyate .. 18.146 ..
एकादशभिरष्टाभिरुपचारैस्तथार्चयेथ् । तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेथ् ॥ १८.१४७ ॥
एकादशभिः अष्टाभिः उपचारैः तथा अर्चयेथ् । तत्र देव्योः च विधिना ॥ १८।१४७ ॥
ekādaśabhiḥ aṣṭābhiḥ upacāraiḥ tathā arcayeth . tatra devyoḥ ca vidhinā .. 18.147 ..
मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः । ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेथ् ॥ १८.१४८ ॥
मार्कण्डेयम् भृगुम् च एव देव-दक्षिण-वामयोः । ब्रह्माणम् शङ्करम् तद्वत् भित्ति-पार्श्वे ॥ १८।१४८ ॥
mārkaṇḍeyam bhṛgum ca eva deva-dakṣiṇa-vāmayoḥ . brahmāṇam śaṅkaram tadvat bhitti-pārśve .. 18.148 ..
देवेशाभिमुखानेतान्यथाविधि समर्चयेथ् । द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ॥ १८.१४९ ॥
देवेश-अभिमुखान् एतान् यथाविधि । द्वार-अर्चनम् समारभ्य शिष्यः कुर्यात् गुरु-उदितः ॥ १८।१४९ ॥
deveśa-abhimukhān etān yathāvidhi . dvāra-arcanam samārabhya śiṣyaḥ kuryāt guru-uditaḥ .. 18.149 ..
द्वारे द्वारे द्वारदेवान्द्वारपालान्त्समर्चयेथ् । विमानपालान्लोकेशांस्तथा चैवऽनपायिनः ॥ १८.१५० ॥
द्वारे द्वारे द्वार-देवान् द्वारपालान् समर्चयेथ् । विमानपालान् लोकेशान् तथा च एव अनपायिनः ॥ १८।१५० ॥
dvāre dvāre dvāra-devān dvārapālān samarcayeth . vimānapālān lokeśān tathā ca eva anapāyinaḥ .. 18.150 ..
परिवारांस्तथान्यांश्च विष्णुभूतान्तमेव च । तत्तन्नाम्ना समभ्यर्च्य भूरानिलयऽ मन्त्रतः ॥ १८.१५१ ॥
परिवारान् तथा अन्यान् च विष्णु-भूत-अन्तम् एव च । तद्-तद्-नाम्ना समभ्यर्च्य मन्त्रतः ॥ १८।१५१ ॥
parivārān tathā anyān ca viṣṇu-bhūta-antam eva ca . tad-tad-nāmnā samabhyarcya mantrataḥ .. 18.151 ..
द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः । धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेथ् ॥ १८.१५२ ॥
द्वार-प्रक्षालनम् कृत्वा दक्षिणे मध्य-वामयोः । धर्मम् ज्ञानम् अथ ऐश्वर्य मा आवाह्य ॥ १८।१५२ ॥
dvāra-prakṣālanam kṛtvā dakṣiṇe madhya-vāmayoḥ . dharmam jñānam atha aiśvarya mā āvāhya .. 18.152 ..
सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेथ् । ततो यवनिकां कुर्याद्द्वारे क्ष्ॐआदिनिर्मितां ॥ १८.१५३ ॥
सर्वत्र द्वार-वामे तु रक्षा-अर्थम् शान्तम् अर्चयेथ् । ततस् यवनिकाम् कुर्यात् द्वारे क्षों आदि-निर्मिताम् ॥ १८।१५३ ॥
sarvatra dvāra-vāme tu rakṣā-artham śāntam arcayeth . tatas yavanikām kuryāt dvāre kṣoṃ ādi-nirmitām .. 18.153 ..
स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः । देवतान्तर भक्ताश्च पापरोगादिपीडिताः ॥ १८.१५४ ॥
पतिताः पाषण्डाः वेद-निन्दकाः । देवता-अन्तर-भक्ताः च पाप-रोग-आदि-पीडिताः ॥ १८।१५४ ॥
patitāḥ pāṣaṇḍāḥ veda-nindakāḥ . devatā-antara-bhaktāḥ ca pāpa-roga-ādi-pīḍitāḥ .. 18.154 ..
अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः । पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययं ॥ १८.१५५ ॥
अभिशस्ताः च ये पापाः शास्त्रेषु तु विनिन्दिताः । पूजा-काले तु न अर्हन्ति सेवितुम् हरिम् अव्ययम् ॥ १८।१५५ ॥
abhiśastāḥ ca ye pāpāḥ śāstreṣu tu vininditāḥ . pūjā-kāle tu na arhanti sevitum harim avyayam .. 18.155 ..
ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः । आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेथ् ॥ १८.१५६ ॥
ध्यानम् आविश्य तद्-काले पूजकः सु समाहितः । आत्म-सूक्तम् जपित्वा एव साक्षात् नारायणः ॥ १८।१५६ ॥
dhyānam āviśya tad-kāle pūjakaḥ su samāhitaḥ . ātma-sūktam japitvā eva sākṣāt nārāyaṇaḥ .. 18.156 ..
विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयं । रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहं ॥ १८.१५७ ॥
विष्णुम् व्यापिनम् आत्मानम् अखण्ड-आनन्द-चित्-मयम् । रुक्म-आभम् रक्त-नेत्र-आस्य-पाणि-पादम् सुख-उद्वहम् ॥ १८।१५७ ॥
viṣṇum vyāpinam ātmānam akhaṇḍa-ānanda-cit-mayam . rukma-ābham rakta-netra-āsya-pāṇi-pādam sukha-udvaham .. 18.157 ..
किरीटहारकेयूरकुण्डलाङ्गदभूषितं । शङ्खचक्रधरं देवं वरदाभयचिह्नितं ॥ १८.१५८ ॥
किरीट-हार-केयूर-कुण्डल-अङ्गद-भूषितम् । शङ्ख-चक्र-धरम् देवम् वर-द-अभय-चिह्नितम् ॥ १८।१५८ ॥
kirīṭa-hāra-keyūra-kuṇḍala-aṅgada-bhūṣitam . śaṅkha-cakra-dharam devam vara-da-abhaya-cihnitam .. 18.158 ..
श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसं । शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणं ॥ १८.१५९ ॥
श्रीवत्स-अंकम् महा-बाहुम् कौस्तुभ-उद्भासित-उरसम् । शुक-पिञ्छ-अंबर-धरम् प्रलंब-ब्रह्मसूत्रिणम् ॥ १८।१५९ ॥
śrīvatsa-aṃkam mahā-bāhum kaustubha-udbhāsita-urasam . śuka-piñcha-aṃbara-dharam pralaṃba-brahmasūtriṇam .. 18.159 ..
दिव्यायुधपरीवारं दिव्यभूषाविभूषितं । देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिं ॥ १८.१६० ॥
दिव्य-आयुध-परीवारम् दिव्य-भूषा-विभूषितम् । देवीभ्याम् परिवारैः च सेव्यमानम् जगत्पतिम् ॥ १८।१६० ॥
divya-āyudha-parīvāram divya-bhūṣā-vibhūṣitam . devībhyām parivāraiḥ ca sevyamānam jagatpatim .. 18.160 ..
ध्यायेत्सन्निहितं बिंबे नारायणमनामयं । यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेथ् ॥ १८.१६१ ॥
ध्यायेत् सन्निहितम् बिंबे नारायणम् अनामयम् । यथा बेरम् तथा न्यास-कर्म ततस् चरेथ् ॥ १८।१६१ ॥
dhyāyet sannihitam biṃbe nārāyaṇam anāmayam . yathā beram tathā nyāsa-karma tatas careth .. 18.161 ..
सुवर्भुवर्भूरित्युक्त्वा मूर्ध्नि नाभौ च सादयोः । बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ॥ १८.१६२ ॥
सुवर् भुवर्भूः इति उक्त्वा मूर्ध्नि नाभौ च सादयोः । बिंबस्य व्याहृतीः न्यस्येत् व्याहृतिन्यासः उच्यते ॥ १८।१६२ ॥
suvar bhuvarbhūḥ iti uktvā mūrdhni nābhau ca sādayoḥ . biṃbasya vyāhṛtīḥ nyasyet vyāhṛtinyāsaḥ ucyate .. 18.162 ..
पादयोरन्तरे पीठे यकारं च ततोन्यसेथ् । अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ॥ १८.१६३ ॥
पादयोः अन्तरे पीठे यकारम् च । अकारम् हृदये न्यस्य च आदि-बीजम् ततस् पुनर् ॥ १८।१६३ ॥
pādayoḥ antare pīṭhe yakāram ca . akāram hṛdaye nyasya ca ādi-bījam tatas punar .. 18.163 ..
आवेष्ट्य प्रणवेनैतान्प्रणामं पुनराचरेथ् । पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ॥ १८.१६४ ॥
आवेष्ट्य प्रणवेन एतान् प्रणामम् पुनर् आचरेथ् । पुष्प-गन्ध-अक्षतैः युक्तम् शुद्ध-उदैः अभिपूरितम् ॥ १८।१६४ ॥
āveṣṭya praṇavena etān praṇāmam punar ācareth . puṣpa-gandha-akṣataiḥ yuktam śuddha-udaiḥ abhipūritam .. 18.164 ..
प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमाथ् । इदं विष्णुरितिऽप्रोच्य चायातु भगवाऽनिति ॥ १८.१६५ ॥
प्रणिधिम् च ऊर्ध्वम् उद्धृत्य दीपात् दीपम् इव क्रमाथ् । इदम् विष्णुः इति प्रोच्य च आयातु भगवान् इति ॥ १८।१६५ ॥
praṇidhim ca ūrdhvam uddhṛtya dīpāt dīpam iva kramāth . idam viṣṇuḥ iti procya ca āyātu bhagavān iti .. 18.165 ..
प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहं । ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिं ॥ १८.१६६ ॥
प्रणव-आत्मकम् अव्यक्तम् दिव्य-मङ्गल-विग्रहम् । ध्रुवात् प्रणिधि-तोये तु कूर्चा इव आवाहयेत् हरिम् ॥ १८।१६६ ॥
praṇava-ātmakam avyaktam divya-maṅgala-vigraham . dhruvāt praṇidhi-toye tu kūrcā iva āvāhayet harim .. 18.166 ..
तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि । प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ॥ १८.१६७ ॥
तत् व्याप्तम् यम् आदाय कौतुकस्य तु मूर्ध । प्रणवेन समास्राव्य कूर्चा इव आवाहयेत् गुरुः ॥ १८।१६७ ॥
tat vyāptam yam ādāya kautukasya tu mūrdha . praṇavena samāsrāvya kūrcā iva āvāhayet guruḥ .. 18.167 ..
मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेथ् । देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ॥ १८.१६८ ॥
मूर्ति-मन्त्रान् समुच्चार्य तत्र कार्यम् समाचरेथ् । देव्यौ च एव तथा आवाह्य सम्यक् अभ्यर्चयेत् बुधः ॥ १८।१६८ ॥
mūrti-mantrān samuccārya tatra kāryam samācareth . devyau ca eva tathā āvāhya samyak abhyarcayet budhaḥ .. 18.168 ..
तथैवावाहयेद्विद्वान्विधिना चोत्सवादिषु । कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ॥ १८.१६९ ॥
तथा एव आवाहयेत् विद्वान् विधिना च उत्सव-आदिषु । कैतुकात् बलिबेरस्य केचिद् आवाहनम् विदुः ॥ १८।१६९ ॥
tathā eva āvāhayet vidvān vidhinā ca utsava-ādiṣu . kaitukāt baliberasya kecid āvāhanam viduḥ .. 18.169 ..
अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि । असनं मन्त्रवद्दद्याद्देवेशमनुमानयेथ् ॥ १८.१७० ॥
अलङ्कार-आसनम् पश्चात् संकल्स्य च यथाविधि । असनम् मन्त्रवत् दद्यात् देवेशम् अनुमानयेथ् ॥ १८।१७० ॥
alaṅkāra-āsanam paścāt saṃkalsya ca yathāvidhi . asanam mantravat dadyāt deveśam anumānayeth .. 18.170 ..
पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः । तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्ष्ॐआदिचार्पयेथ् ॥ १८.१७१ ॥
पाद्यम् आचमनम् च अपि दद्यात् पूर्व-उक्त-मन्त्रतः । वस्त्रम् ॥ १८।१७१ ॥
pādyam ācamanam ca api dadyāt pūrva-ukta-mantrataḥ . vastram .. 18.171 ..
भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च । सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकं ॥ १८.१७२ ॥
भूतः भूतेषु मन्त्रेण भूषणैः च विभूष्य च । सोमस्य तनूः असि इति उक्त्वा आधारयेत् उत्तरीयकम् ॥ १८।१७२ ॥
bhūtaḥ bhūteṣu mantreṇa bhūṣaṇaiḥ ca vibhūṣya ca . somasya tanūḥ asi iti uktvā ādhārayet uttarīyakam .. 18.172 ..
अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेथ् । अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेथ् ॥ १८.१७३ ॥
अष्ट-अक्षरेण मन्त्रेण च ऊर्ध्व-पुण्ड्रम् च । अग्निम् दूतम् इति प्रोच्य यज्ञ-सूत्रम् समर्पयेथ् ॥ १८।१७३ ॥
aṣṭa-akṣareṇa mantreṇa ca ūrdhva-puṇḍram ca . agnim dūtam iti procya yajña-sūtram samarpayeth .. 18.173 ..
तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः । मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ॥ १८.१७४ ॥
तत् विष्णोः इति मन्त्रेण पुष्प-आद्यैः पूजयेत् ततस् । मूर्ति-मन्त्रान् समुच्चार्य केशव-आदिभिः एव वा ॥ १८।१७४ ॥
tat viṣṇoḥ iti mantreṇa puṣpa-ādyaiḥ pūjayet tatas . mūrti-mantrān samuccārya keśava-ādibhiḥ eva vā .. 18.174 ..
अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः । अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान्हरिः ॥ १८.१७५ ॥
अष्टोत्तरशतैः तद्वत् अष्टोत्तरसहस्रकैः । पूज्यः अनन्त-नामा भवान् हरिः ॥ १८।१७५ ॥
aṣṭottaraśataiḥ tadvat aṣṭottarasahasrakaiḥ . pūjyaḥ ananta-nāmā bhavān hariḥ .. 18.175 ..
तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेथ् । परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ॥ १८.१७६ ॥
तत् विप्रास इति प्रोच्य चन्दनेन अनुलेपयेथ् । परोमात्रऽया इति उच्चार्य धूपम् आघ्रापयेत् ततस् ॥ १८।१७६ ॥
tat viprāsa iti procya candanena anulepayeth . paromātra'yā iti uccārya dhūpam āghrāpayet tatas .. 18.176 ..
विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेथ् । त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववथ् ॥ १८.१७७ ॥
विष्णोः कर्माणि मन्त्रेण दीपम् तस्मै प्रदर्शयेथ् । त्रिस् देवः इति मन्त्रेण दद्यात् अघम् च ॥ १८।१७७ ॥
viṣṇoḥ karmāṇi mantreṇa dīpam tasmai pradarśayeth . tris devaḥ iti mantreṇa dadyāt agham ca .. 18.177 ..
उपचारेषु सर्वेषु प्रियमघंन्य्हरेस्स्मृतं । तस्मान्निवेदयेद्धीमान्मधुपकोन्पमं शुभं ॥ १८.१७८ ॥
उपचारेषु सर्वेषु प्रियम् अघम् न्य्हरेः स्मृतम् । तस्मात् निवेदयेत् धीमान् मधुपक-उन्पमम् शुभम् ॥ १८।१७८ ॥
upacāreṣu sarveṣu priyam agham nyhareḥ smṛtam . tasmāt nivedayet dhīmān madhupaka-unpamam śubham .. 18.178 ..
अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेथ् । द्रोणतण्डुलमादाय तदर्धं पादमेववा ॥ १८.१७९ ॥
तस्य अन्ते पूर्व-मन्त्रेण । द्रोण-तण्डुलम् आदाय तद्-अर्धम् पादम् एव वा ॥ १८।१७९ ॥
tasya ante pūrva-mantreṇa . droṇa-taṇḍulam ādāya tad-ardham pādam eva vā .. 18.179 ..
तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितं । गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ॥ १८.१८० ॥
तण्डुल-अर्थ-तिलैः युक्तम् मुख-वास-फल-अन्वितम् । गृहीत्वा कांस्य-पात्रे तु देवस्य अग्रे निधाय च ॥ १८।१८० ॥
taṇḍula-artha-tilaiḥ yuktam mukha-vāsa-phala-anvitam . gṛhītvā kāṃsya-pātre tu devasya agre nidhāya ca .. 18.180 ..
दशन्येद्देवदेवस्य सोमं राजानऽमुच्चरन् । देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ॥ १८.१८१ ॥
सोमम् । देव-अर्पितैः तु निर्माल्यैः पूजयित्वा ऋचकम् ततस् ॥ १८।१८१ ॥
somam . deva-arpitaiḥ tu nirmālyaiḥ pūjayitvā ṛcakam tatas .. 18.181 ..
घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः । अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतं ॥ १८.१८२ ॥
मन्त्रेण हरेः । अर्चकाय प्रदेयम् स्यात् मात्रादानम् इति स्मृतम् ॥ १८।१८२ ॥
mantreṇa hareḥ . arcakāya pradeyam syāt mātrādānam iti smṛtam .. 18.182 ..
बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये । देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ॥ १८.१८३ ॥
बहुशस् दक्षिणाम् दद्यात् दान-साद्गुण्य-सिद्धये । देवस्य अत्वा इति मन्त्रेण परिगृह्य तद्-अर्चकः ॥ १८।१८३ ॥
bahuśas dakṣiṇām dadyāt dāna-sādguṇya-siddhaye . devasya atvā iti mantreṇa parigṛhya tad-arcakaḥ .. 18.183 ..
उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः । देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ॥ १८.१८४ ॥
उपयुञ्ज्यात् कुटुम्ब-अर्थे स हि दाय-हरः हरेः । देव-द्रव्य-उवभोगे तु ईरितः ॥ १८।१८४ ॥
upayuñjyāt kuṭumba-arthe sa hi dāya-haraḥ hareḥ . deva-dravya-uvabhoge tu īritaḥ .. 18.184 ..
वैखानसानां तद्दोषा नास्ति देवप्रसादतः । प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः ॥ १८.१८५ ॥
वैखानसानाम् तद्-दोषा न अस्ति देव-प्रसादतः । प्रणम्य देवदेवेशम् मन्त्रैः वेद-आदि-संभवैः ॥ १८।१८५ ॥
vaikhānasānām tad-doṣā na asti deva-prasādataḥ . praṇamya devadeveśam mantraiḥ veda-ādi-saṃbhavaiḥ .. 18.185 ..
स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेथ् । दशन्येद्विविधाकारान्दीपान्मन्त्रेण तत्र तु ॥ १८.१८६ ॥
स्त्रोत्रैः च विविधैः सुत्वा पादे पुष्प-अञ्जलिम् क्षिपेथ् । दशन्येत् विविध-आकारान् दीपान् मन्त्रेण तत्र तु ॥ १८।१८६ ॥
strotraiḥ ca vividhaiḥ sutvā pāde puṣpa-añjalim kṣipeth . daśanyet vividha-ākārān dīpān mantreṇa tatra tu .. 18.186 ..
कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेथ् । वाराहं नारसिंहं च चामनं च त्रिविक्रमं ॥ १८.१८७ ॥
कुंभ-दीपम् समादाय देव-अग्रे तु विनिक्षिपेथ् । वाराहम् नारसिंहम् च चामनम् च त्रि-विक्रमम् ॥ १८।१८७ ॥
kuṃbha-dīpam samādāya deva-agre tu vinikṣipeth . vārāham nārasiṃham ca cāmanam ca tri-vikramam .. 18.187 ..
दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेथ् । वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा ॥ १८.१८८ ॥
दलेषु अभ्यर्च्य विधिना दीपे लक्ष्मीम् । वर्तिकायाम् श्रियम् च एव धूमे अभ्यर्च्य-भवम् तथा ॥ १८।१८८ ॥
daleṣu abhyarcya vidhinā dīpe lakṣmīm . vartikāyām śriyam ca eva dhūme abhyarcya-bhavam tathā .. 18.188 ..
प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमाथ् । "शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ॥ १८.१८९ ॥
प्रोक्ष्य उपचारैः अभ्यर्छ्य पुष्प-गन्ध-आदिभिः । "शुभ्रा प्रोच्य कराभ्याम् परिगृह्य च, ॥ १८।१८९ ॥
prokṣya upacāraiḥ abhyarchya puṣpa-gandha-ādibhiḥ . "śubhrā procya karābhyām parigṛhya ca, .. 18.189 ..
प्रदक्षिणं त्रिवारं तु दर्शयन्भ्रामयेद्धरिं । सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ॥ १८.१९० ॥
प्रदक्षिणम् त्रि-वारम् तु दर्शयन् भ्रामयेत् हरिम् । सर्व-वाद्य-समायुक्तम् तम् दीपम् परिगृह्य च ॥ १८।१९० ॥
pradakṣiṇam tri-vāram tu darśayan bhrāmayet harim . sarva-vādya-samāyuktam tam dīpam parigṛhya ca .. 18.190 ..
शिष्यो वा गणिका वापि देवागारं परीत्य च । विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ॥ १८.१९१ ॥
शिष्यः वा गणिका वा अपि देवागारम् परीत्य च । विसृजेत् च एव तम् दीपम् पृष्ठे यूथ-अधिपस्य च ॥ १८।१९१ ॥
śiṣyaḥ vā gaṇikā vā api devāgāram parītya ca . visṛjet ca eva tam dīpam pṛṣṭhe yūtha-adhipasya ca .. 18.191 ..
तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः । संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तथ् ॥ १८.१९२ ॥
तद्-दीप-दर्शनात् नॄणाम् आयुः-श्री-पुत्र-संवदः । संभवन्ति न सन्देहः ॥ १८।१९२ ॥
tad-dīpa-darśanāt nṝṇām āyuḥ-śrī-putra-saṃvadaḥ . saṃbhavanti na sandehaḥ .. 18.192 ..
चित्रैश्चवालव्यजनैस्तत्काले वीजयेद्गुरुः । दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकं ॥ १८.१९३ ॥
चित्रैः चवाल-व्यजनैः तद्-काले वीजयेत् गुरुः । दर्बणम् चामरम् छत्रम् व्यजनम् चतुरङ्गकम् ॥ १८।१९३ ॥
citraiḥ cavāla-vyajanaiḥ tad-kāle vījayet guruḥ . darbaṇam cāmaram chatram vyajanam caturaṅgakam .. 18.193 ..
नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् । देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेथ् ॥ १८.१९४ ॥
नृत्तम् गीतम् च वाद्यम् च वैष्णवम् मन्त्रम् उच्चरन् । देवस्य दर्शयित्वा तु स्तोत्रम् वेदैः क्रमात् चरेथ् ॥ १८।१९४ ॥
nṛttam gītam ca vādyam ca vaiṣṇavam mantram uccaran . devasya darśayitvā tu stotram vedaiḥ kramāt careth .. 18.194 ..
तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिं । अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेथ् ॥ १८.१९५ ॥
तथा नानाविधैः स्तोत्रैः श्रावयेत् अच्युतम् हरिम् । अनुक्तम् च एव यत् सर्वम् ऊहयित्वा समाचरेथ् ॥ १८।१९५ ॥
tathā nānāvidhaiḥ stotraiḥ śrāvayet acyutam harim . anuktam ca eva yat sarvam ūhayitvā samācareth .. 18.195 ..
श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् । तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमाथ् ॥ १८.१९६ ॥
श्री-भूम्योः हृद्-दये न्यस्य तत् तत् बीज-अक्षरम् पृथक् । तद्-सूक्ताभ्याम् षोडश-उपचारैः अभ्यर्चयेत् क्रमात् ॥ १८।१९६ ॥
śrī-bhūmyoḥ hṛd-daye nyasya tat tat bīja-akṣaram pṛthak . tad-sūktābhyām ṣoḍaśa-upacāraiḥ abhyarcayet kramāt .. 18.196 ..
उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेथ् । ततोभोज्याननं चैव संकल्प्य च यथाविधि ॥ १८.१९७ ॥
उत्चव-आदेः च पूर्व-उक्तम् सर्वम् अर्चनम् आचरेथ् । ततस् भोज्य-आननम् च एव संकल्प्य च यथाविधि ॥ १८।१९७ ॥
utcava-ādeḥ ca pūrva-uktam sarvam arcanam ācareth . tatas bhojya-ānanam ca eva saṃkalpya ca yathāvidhi .. 18.197 ..
घृतं मधु गुडं चैव पयो दधि समन्वितं । प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते ॥ १८.१९८ ॥
घृतम् मधु गुडम् च एव पयः दधि समन्वितम् । प्रस्थ-मात्रम् तु संग्राव्याम् ॥ १८।१९८ ॥
ghṛtam madhu guḍam ca eva payaḥ dadhi samanvitam . prastha-mātram tu saṃgrāvyām .. 18.198 ..
यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेथ् । पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेथ् ॥ १८.१९९ ॥
यत् मधुना इति मन्त्रेण मधु-पाकम् निवेदयेथ् । पश्चात् आचमनम् द-त्वा शिष्यम् कार्ये ॥ १८।१९९ ॥
yat madhunā iti mantreṇa madhu-pākam nivedayeth . paścāt ācamanam da-tvā śiṣyam kārye .. 18.199 ..
अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः । मण्डलं चतुरश्रं च कारयेत्बरिचारकः ॥ १८.२०० ॥
अथ अवनीद-मन्त्रेण शोधयित्वा स्थलम् ततस् । मण्डलम् चतुरश्रम् च कारयेत् बरिचारकः ॥ १८।२०० ॥
atha avanīda-mantreṇa śodhayitvā sthalam tatas . maṇḍalam caturaśram ca kārayet baricārakaḥ .. 18.200 ..
हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै । अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेथ् ॥ १८.२०१ ॥
हविः पात्राणि संशोध्य रविम् अभ्यर्छ्य तेषु वै । अभिघार्य घृतेन एव हविः तत्र तु निक्षिपेथ् ॥ १८।२०१ ॥
haviḥ pātrāṇi saṃśodhya ravim abhyarchya teṣu vai . abhighārya ghṛtena eva haviḥ tatra tu nikṣipeth .. 18.201 ..
अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेथ् । उपदंशादिकं तत्र गुडं दधि फलानि च ॥ १८.२०२ ॥
अमृतोपस्तरणम् असि इति अत्र कार्यम् समाचरेथ् । उपदंश-आदिकम् तत्र गुडम् दधि फलानि च ॥ १८।२०२ ॥
amṛtopastaraṇam asi iti atra kāryam samācareth . upadaṃśa-ādikam tatra guḍam dadhi phalāni ca .. 18.202 ..
निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरं । यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ॥ १८.२०३ ॥
निक्षिप्य विष्णु-गायत्षा पृथक् पात्रेषु असंकरम् । यत् ते सु सीम मन्त्रेण गो-घृतेन अभिघार्य च ॥ १८।२०३ ॥
nikṣipya viṣṇu-gāyatṣā pṛthak pātreṣu asaṃkaram . yat te su sīma mantreṇa go-ghṛtena abhighārya ca .. 18.203 ..
देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८.२०४ ॥
देवस्य अग्रे तु निक्षिप्य त्रि-पादेषु यथाविधि । हविः-अर्पण-काले तु न सेव्यः हरिः उच्यते ॥ १८।२०४ ॥
devasya agre tu nikṣipya tri-pādeṣu yathāvidhi . haviḥ-arpaṇa-kāle tu na sevyaḥ hariḥ ucyate .. 18.204 ..
तस्माद्वैखानसान्हित्वा ब्राह्मणा अन्यसूत्रिणः । न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरं ॥ १८.२०५ ॥
तस्मात् वैखानसान् हित्वा ब्राह्मणाः अन्य-सूत्रिणः । न विशेयुः तथा अन्ये च तद्-काले विष्णु-मन्दिरम् ॥ १८।२०५ ॥
tasmāt vaikhānasān hitvā brāhmaṇāḥ anya-sūtriṇaḥ . na viśeyuḥ tathā anye ca tad-kāle viṣṇu-mandiram .. 18.205 ..
कवाटं बन्धयेत्पश्चात्घण्टानादं च कारयेथ् । तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ॥ १८.२०६ ॥
कवाटम् बन्धयेत् पश्चात् घण्टा-नादम् च । तूर्य-घोष-आदिकम् कुर्यात् मृडु-वाद्य-प्रियः हरिः ॥ १८।२०६ ॥
kavāṭam bandhayet paścāt ghaṇṭā-nādam ca . tūrya-ghoṣa-ādikam kuryāt mṛḍu-vādya-priyaḥ hariḥ .. 18.206 ..
ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् । हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ॥ १८.२०७ ॥
ततस् अचकः प्रसन्न-आत्मा देवदेवम् अनुस्मरन् । हविः-पात्रेषु तुलसीम् निक्षिप्य अष्ट-अक्षरेण तु ॥ १८।२०७ ॥
tatas acakaḥ prasanna-ātmā devadevam anusmaran . haviḥ-pātreṣu tulasīm nikṣipya aṣṭa-akṣareṇa tu .. 18.207 ..
पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च । अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ॥ १८.२०८ ॥
पुष्पैः अभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च । अभिमृश्य अन्न-सूक्तेन सुरभि-मुद्राम् प्रदर्श्य च ॥ १८।२०८ ॥
puṣpaiḥ abhyarcya saṃprokṣya praṇavaiḥ pariṣicya ca . abhimṛśya anna-sūktena surabhi-mudrām pradarśya ca .. 18.208 ..
देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८.२०४ ॥
देवस्य अग्रे तु निक्षिप्य त्रि-पादेषु यथाविधि । हविः-अर्पण-काले तु न सेव्यः हरिः उच्यते ॥ १८।२०४ ॥
devasya agre tu nikṣipya tri-pādeṣu yathāvidhi . haviḥ-arpaṇa-kāle tu na sevyaḥ hariḥ ucyate .. 18.204 ..
तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेथ् । सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेथ् ॥ १८.२०९ ॥
तत् अस्य प्रियम् इति उक्त्वा हविः उष्णम् निवेदयेथ् । सुभूः स्वयंभूम् अति उक्त्वा अपूपम् च ॥ १८।२०९ ॥
tat asya priyam iti uktvā haviḥ uṣṇam nivedayeth . subhūḥ svayaṃbhūm ati uktvā apūpam ca .. 18.209 ..
पृथुकादीनि चान्यानि विश्वभेषजऽमन्त्रतः । अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ॥ १८.२१० ॥
पृथुक-आदीनि च अन्यानि । अपक्वानि च वस्तूनि सर्वम् अष्ट-अक्षरेण तु ॥ १८।२१० ॥
pṛthuka-ādīni ca anyāni . apakvāni ca vastūni sarvam aṣṭa-akṣareṇa tu .. 18.210 ..
इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलं । निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ॥ १८.२११ ॥
इदम् विष्णुः समुच्चार्य पानीयम् स्वादु शीतलम् । निवेदयित्वा गण्डूषम् पाद्यम् आचमनम् ददेत्, ॥ १८।२११ ॥
idam viṣṇuḥ samuccārya pānīyam svādu śītalam . nivedayitvā gaṇḍūṣam pādyam ācamanam dadet, .. 18.211 ..
घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेथ् । विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ॥ १८.२१२ ॥
मन्त्रेण मुख-वासम् प्रदापयेथ् । विष्णुगायत्रीम् उच्चार्य दद्यात् पुष्प-अञ्जलिम् ततस् ॥ १८।२१२ ॥
mantreṇa mukha-vāsam pradāpayeth . viṣṇugāyatrīm uccārya dadyāt puṣpa-añjalim tatas .. 18.212 ..
नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकं । चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ॥ १८.२१३ ॥
नित्य-अग्निकुण्डे छुल्ल्याम् वा परिषिच्य च पावकम् । चरुणा आज्येन जुहुयाः मूर्ति-मन्त्रैः क्रमात् बुधः ॥ १८।२१३ ॥
nitya-agnikuṇḍe chullyām vā pariṣicya ca pāvakam . caruṇā ājyena juhuyāḥ mūrti-mantraiḥ kramāt budhaḥ .. 18.213 ..
देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमाथ् । पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ॥ १८.२१४ ॥
देवी-आदिभ्यः तथा हुत्वा वैष्णवम् च यजेत् क्रमाथ् । पुष्प-न्यास-उक्त-देवेभ्यः पाषन्दानाम् तथा एव च ॥ १८।२१४ ॥
devī-ādibhyaḥ tathā hutvā vaiṣṇavam ca yajet kramāth . puṣpa-nyāsa-ukta-devebhyaḥ pāṣandānām tathā eva ca .. 18.214 ..
त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि । प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणं ॥ १८.२१५ ॥
त्रि-कालेषु उत्तमम् प्रोक्तम् अधमम् प्रातर् एव हि । प्रातर् मध्याह्नयोः च एव मध्यमम् होम-लक्षणम् ॥ १८।२१५ ॥
tri-kāleṣu uttamam proktam adhamam prātar eva hi . prātar madhyāhnayoḥ ca eva madhyamam homa-lakṣaṇam .. 18.215 ..
रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितं । समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेथ् ॥ १८.२१६ ॥
रक्षेत् अग्निम् अविच्छिन्नम् अशक्तः यः च रक्षितम् । समिध्य आत्मनि वा आरोप्य प्रणीय अहर् अहर् यजेथ् ॥ १८।२१६ ॥
rakṣet agnim avicchinnam aśaktaḥ yaḥ ca rakṣitam . samidhya ātmani vā āropya praṇīya ahar ahar yajeth .. 18.216 ..
ततोयात्रासनं विद्वान्संकल्प्य विधिना बुधः । प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरं ॥ १८.२१७ ॥
ततस् यात्रा-आसनम् विद्वान् संकल्प्य विधिना बुधः । प्रोक्ष्य अलङ्कृत्य च आदाय रथम् वा चतुर्-अन्तरम् ॥ १८।२१७ ॥
tatas yātrā-āsanam vidvān saṃkalpya vidhinā budhaḥ . prokṣya alaṅkṛtya ca ādāya ratham vā catur-antaram .. 18.217 ..
बलिबेरं समारोप्य सर्वालङ्कारसंयुतं । रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेथ् ॥ १८.२१८ ॥
बलिबेरम् समारोप्य सर्व-अलङ्कार-संयुतम् । रथन्तरम् समुच्चार्य तत्र कार्यम् समाचरेथ् ॥ १८।२१८ ॥
baliberam samāropya sarva-alaṅkāra-saṃyutam . rathantaram samuccārya tatra kāryam samācareth .. 18.218 ..
योगेशं परंब्रह्माणं परमात्मानमित्यपि । भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिं ॥ १८.२१९ ॥
योगेशम् परंब्रह्माणम् परमात्मानम् इति अपि । भक्त-वत्सल इति उक्त्वा मूर्ति-मन्त्रैः तथा हरिम् ॥ १८।२१९ ॥
yogeśam paraṃbrahmāṇam paramātmānam iti api . bhakta-vatsala iti uktvā mūrti-mantraiḥ tathā harim .. 18.219 ..
नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमाथ् । विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ॥ १८.२२० ॥
नाराच-रज्ज्वा बन्धयेत् रहसि क्रमाथ् । विष्णुः त्वा अम् इति मन्त्रेण पादौ सृष्ट्वा नमेत् मुहुर् ॥ १८।२२० ॥
nārāca-rajjvā bandhayet rahasi kramāth . viṣṇuḥ tvā am iti mantreṇa pādau sṛṣṭvā namet muhur .. 18.220 ..
सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेथ् । मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेथ् ॥ १८.२२१ ॥
सोमम् राजानम् उच्चार्य छत्रम् मूर्धनि । मरुतः परमा आत्मा इति पार्श्वयोः चामरे ॥ १८।२२१ ॥
somam rājānam uccārya chatram mūrdhani . marutaḥ paramā ātmā iti pārśvayoḥ cāmare .. 18.221 ..
वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिं । तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ॥ १८.२२२ ॥
मन्त्रेण व्यजनैः वीजयेत् हरिम् । तथा अन्यैः सु महा-हैन्श्च युक्तः दिव्य-परिच्छदैः ॥ १८।२२२ ॥
mantreṇa vyajanaiḥ vījayet harim . tathā anyaiḥ su mahā-hainśca yuktaḥ divya-paricchadaiḥ .. 18.222 ..
घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः । भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ॥ १८.२२३ ॥
घण्टा-रवेण संयुक्तम् शङ्ख-भेरी-निनादितैः । भेरी-मृदङ्ग-पणव-निस्सालैः काहलैः अपि ॥ १८।२२३ ॥
ghaṇṭā-raveṇa saṃyuktam śaṅkha-bherī-nināditaiḥ . bherī-mṛdaṅga-paṇava-nissālaiḥ kāhalaiḥ api .. 18.223 ..
मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः । उपतिष्ठेज्जगद्योनिं नारायणमनामयं ॥ १८.२२४ ॥
मर्दलैः दिव्य-वाद्यैः च लय-श्रुति-समन्वितैः । उपतिष्ठेत् जगद्योनिम् नारायणम् अनामयम् ॥ १८।२२४ ॥
mardalaiḥ divya-vādyaiḥ ca laya-śruti-samanvitaiḥ . upatiṣṭhet jagadyonim nārāyaṇam anāmayam .. 18.224 ..
शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकरं । ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ॥ १८.२२५ ॥
शिष्यम् आहूय तद्-काले स उष्णिषम् स उत्तरीय-करम् । ऊर्ध्वे पुष्पम् च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ॥ १८।२२५ ॥
śiṣyam āhūya tad-kāle sa uṣṇiṣam sa uttarīya-karam . ūrdhve puṣpam ca sannyasya prokṣayitvā ca mantrataḥ .. 18.225 ..
तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः । अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेथ् ॥ १८.२२६ ॥
तस्य उष्णीष-उपरि स्थाप्य बलि-पात्रम् विचक्षणः । अलङ्कृत्य च माल्य-आद्यैः पूजयेत् ताक्षनी-वत् स्मरेथ् ॥ १८।२२६ ॥
tasya uṣṇīṣa-upari sthāpya bali-pātram vicakṣaṇaḥ . alaṅkṛtya ca mālya-ādyaiḥ pūjayet tākṣanī-vat smareth .. 18.226 ..
वाहयित्वा बलिं तेन बलिपात्रेण चैव हि । सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ॥ १८.२२७ ॥
वाहयित्वा बलिम् तेन बलि-पात्रेण च एव हि । सर्व-द्वारेषु सर्वत्र पुष्प-न्यास-उक्तम् आगन्तः ॥ १८।२२७ ॥
vāhayitvā balim tena bali-pātreṇa ca eva hi . sarva-dvāreṣu sarvatra puṣpa-nyāsa-uktam āgantaḥ .. 18.227 ..
पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमाथ् । तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ॥ १८.२२८ ॥
पूर्व-अन्तम् उत्तर-अन्तम् च निक्षिपेत् तु बलिम् । तोयम् पुष्पम् बलिम् तोयम् चत्वारः तत्र विग्रहाः ॥ १८।२२८ ॥
pūrva-antam uttara-antam ca nikṣipet tu balim . toyam puṣpam balim toyam catvāraḥ tatra vigrahāḥ .. 18.228 ..
ततो देवं समानीय क्रममाणाश्शनैश्सनैः । वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरं ॥ १८.२२९ ॥
ततस् देवम् समानीय क्रममाणाः शनैस् सनैः । वाहकाः वाहयेयुः तम् रथम् सर्व-अङ्ग-सुन्दरम् ॥ १८।२२९ ॥
tatas devam samānīya kramamāṇāḥ śanais sanaiḥ . vāhakāḥ vāhayeyuḥ tam ratham sarva-aṅga-sundaram .. 18.229 ..
क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमाथ् । बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ॥ १८.२३० ॥
क्रमेण नम्र-कायः तु क्षिपेत् शिष्यः बलिम् । बलिम् दत्प-अग्रतस् गच्छेत् देवेन सह वा पृथक् ॥ १८।२३० ॥
krameṇa namra-kāyaḥ tu kṣipet śiṣyaḥ balim . balim datpa-agratas gacchet devena saha vā pṛthak .. 18.230 ..
ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै । तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ॥ १८.२३१ ॥
ततस् देवम् क्रमात् नीत्वा प्रादक्षिण्य-क्रमेण वै । तद्-काले तु बलिः देयः स्-क्रमः तु प्रवक्ष्यते ॥ १८।२३१ ॥
tatas devam kramāt nītvā prādakṣiṇya-krameṇa vai . tad-kāle tu baliḥ deyaḥ s-kramaḥ tu pravakṣyate .. 18.231 ..
मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ । तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ॥ १८.२३२ ॥
मणिकम् च ततस् सन्ध्याम् प्रधम-द्वारपालकौ । तापसम् सिद्धिदम् च एव द्वितीय-द्वारपालकौ ॥ १८।२३२ ॥
maṇikam ca tatas sandhyām pradhama-dvārapālakau . tāpasam siddhidam ca eva dvitīya-dvārapālakau .. 18.232 ..
न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेथ् । प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ॥ १८.२३३ ॥
न्यक्ष-इन्द्रौ अन्तराले च यथाविधि । प्रथम-आवरण-द्वारे किष्किन्धम् तीर्धम् एव च ॥ १८।२३३ ॥
nyakṣa-indrau antarāle ca yathāvidhi . prathama-āvaraṇa-dvāre kiṣkindham tīrdham eva ca .. 18.233 ..
द्दितीयावरणद्वारे गणेशं शेषमर्चयेथ् । तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ॥ १८.२३४ ॥
द्दितीय-आवरण-द्वारे गणेशम् शेषम् अर्चयेथ् । तृतीय-आवरण-द्वारे शङ्ख-पद्म-निधी तथा ॥ १८।२३४ ॥
dditīya-āvaraṇa-dvāre gaṇeśam śeṣam arcayeth . tṛtīya-āvaraṇa-dvāre śaṅkha-padma-nidhī tathā .. 18.234 ..
तुहिणं च बलिन्दं च चतुर्थावरणे तथा । पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेथ् ॥ १८.२३५ ॥
तुहिणम् च बलिन्दम् च चतुर्थ-आवरणे तथा । पञ्चम-आवरणे च एव खड्गम् शाङ्खम् ॥ १८।२३५ ॥
tuhiṇam ca balindam ca caturtha-āvaraṇe tathā . pañcama-āvaraṇe ca eva khaḍgam śāṅkham .. 18.235 ..
षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेथ् । चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेथ् ॥ १८.२३६ ॥
षष्ठे शङ्ख-चक्र-चूडौ समर्चयेथ् । चण्डम् तथा प्रचण्डम् च ॥ १८।२३६ ॥
ṣaṣṭhe śaṅkha-cakra-cūḍau samarcayeth . caṇḍam tathā pracaṇḍam ca .. 18.236 ..
सोपानमध्ये श्रीभूतं गरुडं च समर्चयेथ् । हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेथ् ॥ १८.२३७ ॥
सोपान-मध्ये श्री-भूतम् गरुडम् च । हवीरक्षकम् अग्निम् च आग्नेय्याम् ॥ १८।२३७ ॥
sopāna-madhye śrī-bhūtam garuḍam ca . havīrakṣakam agnim ca āgneyyām .. 18.237 ..
विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा । नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेथ् ॥ १८.२३८ ॥
विमान-दक्षिणे पार्श्वे विवस्वन्तम् यमम् तथा । नैरृत्याम् च निरृतिम् च समर्चयेथ् ॥ १८।२३८ ॥
vimāna-dakṣiṇe pārśve vivasvantam yamam tathā . nairṛtyām ca nirṛtim ca samarcayeth .. 18.238 ..
पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च । वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ॥ १८.२३९ ॥
पश्चिमे मित्रम् अभ्यर्च्येत् तथा वरुणम् एव च । वायव्याम् अर्चयेत् च एव पुष्पेश-मरुतौ तथा ॥ १८।२३९ ॥
paścime mitram abhyarcyet tathā varuṇam eva ca . vāyavyām arcayet ca eva puṣpeśa-marutau tathā .. 18.239 ..
उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेथ् । ईशानं भास्करं चैव तथैशान्ये समर्चयेथ् ॥ १८.२४० ॥
उत्तरस्याम् तु क्षत्तारम् कुबेरम् च । ईशानम् भास्करम् च एव तथा ऐशान्ये ॥ १८।२४० ॥
uttarasyām tu kṣattāram kuberam ca . īśānam bhāskaram ca eva tathā aiśānye .. 18.240 ..
भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा । शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेथ् ॥ १८.२४१ ॥
भूतपीठे समभ्यर्च्य चक्रम् च एव ध्वजम् तथा । शङ्खम् यूथाधिपम् च एव अक्षहन्तम् तथा अर्चयेथ् ॥ १८।२४१ ॥
bhūtapīṭhe samabhyarcya cakram ca eva dhvajam tathā . śaṅkham yūthādhipam ca eva akṣahantam tathā arcayeth .. 18.241 ..
पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः । भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेथ् ॥ १८.२४२ ॥
पीठस्य दक्षिणे भागे "ये भूताः इति मन्त्रतः । भूत-यक्ष-पिशाचेभ्यः बलि-शेषम् तु ॥ १८।२४२ ॥
pīṭhasya dakṣiṇe bhāge "ye bhūtāḥ iti mantrataḥ . bhūta-yakṣa-piśācebhyaḥ bali-śeṣam tu .. 18.242 ..
पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेथ् । नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितं ॥ १८.२४३ ॥
पादौ प्रक्षाल्य च आचम्य तत्र कार्यम् समाचरेथ् । नृत्त-गेय-आदि-युक्तम् तु दिव्य-स्तोत्रैः समन्वितम् ॥ १८।२४३ ॥
pādau prakṣālya ca ācamya tatra kāryam samācareth . nṛtta-geya-ādi-yuktam tu divya-stotraiḥ samanvitam .. 18.243 ..
प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुं । सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ॥ १८.२४४ ॥
प्रदक्षिण-त्रयम् कृत्वा भ्रामयित्वा जगद्गुरुम् । सोपान-मध्ये संस्थाप्य रज्जु-बन्धम् विसृज्य च ॥ १८।२४४ ॥
pradakṣiṇa-trayam kṛtvā bhrāmayitvā jagadgurum . sopāna-madhye saṃsthāpya rajju-bandham visṛjya ca .. 18.244 ..
जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः । ततो देवं समादाय स्वस्थाने तु निवेशयेथ् ॥ १८.२४५ ॥
जय-शब्दैः तथा मन्त्रैः दद्यात् नी राजनम् ततस् । ततस् देवम् समादाय स्व-स्थाने तु ॥ १८।२४५ ॥
jaya-śabdaiḥ tathā mantraiḥ dadyāt nī rājanam tatas . tatas devam samādāya sva-sthāne tu .. 18.245 ..
विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेथ् । दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ॥ १८.२४६ ॥
विष्णुसूक्तम् समुच्चार्य प्रणामम् मुहुर् आचरेथ् । दद्यात् पुष्प-अञ्जलिम् च एव द्वादश-अष्ट-षष्-अक्षरैः ॥ १८।२४६ ॥
viṣṇusūktam samuccārya praṇāmam muhur ācareth . dadyāt puṣpa-añjalim ca eva dvādaśa-aṣṭa-ṣaṣ-akṣaraiḥ .. 18.246 ..
पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् । मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेथ् ॥ १८.२४७ ॥
पौरुषम् सूक्तम् उच्चार्य प्रणवम् च समुच्चरन् । मुख-वासम् समर्प्य एव शक्तितस् दक्षिणाम् ॥ १८।२४७ ॥
pauruṣam sūktam uccārya praṇavam ca samuccaran . mukha-vāsam samarpya eva śaktitas dakṣiṇām .. 18.247 ..
ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः । त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेथ् ॥ १८.२४८ ॥
ततस् पतत्-ग्रहात् तीर्थम् आदाय एव तु पूजकः । त्रिस् पिबेत् नियतः भूत्वा तुलसीम् अपि ॥ १८।२४८ ॥
tatas patat-grahāt tīrtham ādāya eva tu pūjakaḥ . tris pibet niyataḥ bhūtvā tulasīm api .. 18.248 ..
प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः । सायङ्कालो निशीथश्च पूजाकालान्तु षट्स्मृताः ॥ १८.२४९ ॥
प्रत्यूषः च प्रभातः च मध्याह्नः च अपराह्मकः । सायङ्कालः निशीथः च षट् स्मृताः ॥ १८।२४९ ॥
pratyūṣaḥ ca prabhātaḥ ca madhyāhnaḥ ca aparāhmakaḥ . sāyaṅkālaḥ niśīthaḥ ca ṣaṭ smṛtāḥ .. 18.249 ..
प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये । राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ॥ १८.२५० ॥
प्रातःकाल-ईर्चनम् कुर्यात् जप-होम-अभिवृद्धये । राज-राष्ट्र-अभिवृद्धि-अर्थम् मध्याह्न-अर्चनम् इष्यते ॥ १८।२५० ॥
prātaḥkāla-īrcanam kuryāt japa-homa-abhivṛddhaye . rāja-rāṣṭra-abhivṛddhi-artham madhyāhna-arcanam iṣyate .. 18.250 ..
सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये । उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ॥ १८.२५१ ॥
सायङ्कालेः अचनम् च एव सर्व-सस्य-अभिवृद्धये । उषःकाल-अर्ऽचनम् प्रोक्तम् प्रजा-पशु-विवृद्धये ॥ १८।२५१ ॥
sāyaṅkāleḥ acanam ca eva sarva-sasya-abhivṛddhaye . uṣaḥkāla-ar'canam proktam prajā-paśu-vivṛddhaye .. 18.251 ..
अपराह्णार्चनं चैव दैत्यनाशनहेतवे । अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ॥ १८.२५२ ॥
अपराह्ण-अर्चनम् च एव दैत्य-नाशन-हेतवे । अर्धरात्र-अर्ऽचनम् प्रोक्तम् चतुष्पाद्-अभिवृद्धये ॥ १८।२५२ ॥
aparāhṇa-arcanam ca eva daitya-nāśana-hetave . ardharātra-ar'canam proktam catuṣpād-abhivṛddhaye .. 18.252 ..
एवं षट्कालपूजायां फलमुक्तं विशेषतः । षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ॥ १८.२५३ ॥
एवम् षष्-काल-पूजायाम् फलम् उक्तम् विशेषतः । षष्-कालम् वा त्रि-कालम् वा द्वि-कालम् कालम् एव वा ॥ १८।२५३ ॥
evam ṣaṣ-kāla-pūjāyām phalam uktam viśeṣataḥ . ṣaṣ-kālam vā tri-kālam vā dvi-kālam kālam eva vā .. 18.253 ..
पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदं । षट्काल पूजने कुर्यादादावाहनंबुधः ॥ १८.२५४ ॥
पूजनम् देवदेवस्य तु ऐहिक-आमुष्मिक-प्रदम् । षट्काल-पूजने कुर्यात् आदावाहनम् बुधः ॥ १८।२५४ ॥
pūjanam devadevasya tu aihika-āmuṣmika-pradam . ṣaṭkāla-pūjane kuryāt ādāvāhanam budhaḥ .. 18.254 ..
तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परं । उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ॥ १८.२५५ ॥
तथा अन्त्य-वेला-अर्चनायाम् कुर्यात् उद्वासनम् परम् । उपसन्ध्यासु देवेशम् आसन-आदि-अष्ट-विग्रहैः ॥ १८।२५५ ॥
tathā antya-velā-arcanāyām kuryāt udvāsanam param . upasandhyāsu deveśam āsana-ādi-aṣṭa-vigrahaiḥ .. 18.255 ..
समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा । पुष्पन्यासं च होमं च परिवारार्चनं बलिं ॥ १८.२५६ ॥
समभ्यर्च्य हविः दद्यात् विना होमम् बलिम् तथा । पुष्प-न्यासम् च होमम् च परिवार-अर्चनम् बलिम् ॥ १८।२५६ ॥
samabhyarcya haviḥ dadyāt vinā homam balim tathā . puṣpa-nyāsam ca homam ca parivāra-arcanam balim .. 18.256 ..
नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेथ् । त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही ॥ १८.२५७ ॥
नित्य-यात्रा-उत्सवम् च एव इति उपसन्ध्यासु । त्रि-कालम् अर्चने अन्यत्र म्नपनम् प्रातर् एव हि ॥ १८।२५७ ॥
nitya-yātrā-utsavam ca eva iti upasandhyāsu . tri-kālam arcane anyatra mnapanam prātar eva hi .. 18.257 ..
प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनं । शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ॥ १८.२५८ ॥
प्रोक्षणम् च अन्य-काले तु मन्त्रेण इति आह पूजनम् । शिष्याणाम् अपि अभावे तु वर्ष-आदि-उपहतौ तथा ॥ १८।२५८ ॥
prokṣaṇam ca anya-kāle tu mantreṇa iti āha pūjanam . śiṣyāṇām api abhāve tu varṣa-ādi-upahatau tathā .. 18.258 ..
तथा वाद्याद्यभावे वा बलिकाले समागते । तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिं ॥ १८.२५९ ॥
तथा वाद्य-आदि-अभावे वा बलि-काले समागते । तदा देवान् समावाह्य द्वार-अग्रे निक्षिपेत् बलिम् ॥ १८।२५९ ॥
tathā vādya-ādi-abhāve vā bali-kāle samāgate . tadā devān samāvāhya dvāra-agre nikṣipet balim .. 18.259 ..
सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः । मध्याह्ने चैव सायाह्ने काले काले तथाचरेथ् ॥ १८.२६० ॥
सूर्यः तु आमन्त्रम् उच्चार्य कवाटम् बन्धयेत् ततस् । मध्याह्ने च एव सायाह्ने काले काले तथा आचरेथ् ॥ १८।२६० ॥
sūryaḥ tu āmantram uccārya kavāṭam bandhayet tatas . madhyāhne ca eva sāyāhne kāle kāle tathā ācareth .. 18.260 ..
तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनं । पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेथ् ॥ १८.२६१ ॥
तथा एव उद्घटयेत् काले सर्वम् पूर्ववत् अर्चनम् । पुष्पम् द्वार-अर्चितम् शोध्य पुनर् द्वारे समर्चयेथ् ॥ १८।२६१ ॥
tathā eva udghaṭayet kāle sarvam pūrvavat arcanam . puṣpam dvāra-arcitam śodhya punar dvāre samarcayeth .. 18.261 ..
ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः । तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ॥ १८.२६२ ॥
ध्रुव-पीठे तु पुष्पाणि न शोध्यानि पुनर् पुनर् । तानि पुष्पाणि अन् उद्धृत्य तद्-ऊर्ध्वे न्यासम् आचरेत्, ॥ १८।२६२ ॥
dhruva-pīṭhe tu puṣpāṇi na śodhyāni punar punar . tāni puṣpāṇi an uddhṛtya tad-ūrdhve nyāsam ācaret, .. 18.262 ..
सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः । कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ॥ १८.२६३ ॥
साय-अर्चने तु तानि स्युः इन्र्माल्यानि न च अन्यतस् । कौतुक-आदि-अर्चितम् पुष्पम् आदाय विधिना बुधः ॥ १८।२६३ ॥
sāya-arcane tu tāni syuḥ inrmālyāni na ca anyatas . kautuka-ādi-arcitam puṣpam ādāya vidhinā budhaḥ .. 18.263 ..
पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः । अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनं ॥ १८.२६४ ॥
पीठे पार्श्वे निधाय अन्यैः अर्चयेत् तु नवैः नवैः । अन्त्य-वेला-अर्चन-अन्ते तु संकल्ब्य शयन-आसनम् ॥ १८।२६४ ॥
pīṭhe pārśve nidhāya anyaiḥ arcayet tu navaiḥ navaiḥ . antya-velā-arcana-ante tu saṃkalbya śayana-āsanam .. 18.264 ..
विमुच्य वस्त्रमाल्यादीन्सूक्ष्मवस्त्रं समर्प्य च । अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिं ॥ १८.२६५ ॥
विमुच्य वस्त्र-माल्य-आदीन् सूक्ष्म-वस्त्रम् समर्प्य च । अभ्यर्च्य पुष्ब-गन्ध-आद्यैः देवदेवम् श्रियःपतिम् ॥ १८।२६५ ॥
vimucya vastra-mālya-ādīn sūkṣma-vastram samarpya ca . abhyarcya puṣba-gandha-ādyaiḥ devadevam śriyaḥpatim .. 18.265 ..
सर्वौषधिविमिश्रं च कषायं तोयमेव च । निवेद्य देवदेवस्य मुखवासंप्रदापयेथ् ॥ १८.२६६ ॥
सर्व-ओषधि-विमिश्रम् च कषायम् तोयम् एव च । निवेद्य देवदेवस्य ॥ १८।२६६ ॥
sarva-oṣadhi-vimiśram ca kaṣāyam toyam eva ca . nivedya devadevasya .. 18.266 ..
यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः । दिव्योपधानसहिते दिव्यालङ्कारशोभिते ॥ १८.२६७ ॥
यत् वैष्णवम् इति प्रोच्य मृदु-वाद्यैः मनोरमैः । दिव्य-उपधान-सहिते दिव्य-अलङ्कार-शोभिते ॥ १८।२६७ ॥
yat vaiṣṇavam iti procya mṛdu-vādyaiḥ manoramaiḥ . divya-upadhāna-sahite divya-alaṅkāra-śobhite .. 18.267 ..
परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते । महाहान्स्तरणोपेते शयने शाययेद्धरिं ॥ १८.२६८ ॥
परिष्कृते वितान-अद्वैः दिव्य-धूपैः सु धूपिते । शयने शाययेत् हरिम् ॥ १८।२६८ ॥
pariṣkṛte vitāna-advaiḥ divya-dhūpaiḥ su dhūpite . śayane śāyayet harim .. 18.268 ..
श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः । शाययेद्देवपाशेन्व्तु ध्रुवन्तऽइति चोच्चरेथ् ॥ १८.२६९ ॥
श्री-भूम्यौ च समादाय तद्-मन्त्राभ्याम् क्रमात् गुरुः । शाययेत् देव-पाशेन नु तु ध्रुवन्तः इति च उच्चरेथ् ॥ १८।२६९ ॥
śrī-bhūmyau ca samādāya tad-mantrābhyām kramāt guruḥ . śāyayet deva-pāśena nu tu dhruvantaḥ iti ca uccareth .. 18.269 ..
अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज । चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ ॥ १८.२७० ॥
अरिचितः सुष्टुतः च असि सुपर्ण-गरुडध्वज । चक्रपाणे महा-बाहो यथेष्टम् वस ओम् नमः ॥ १८।२७० ॥
aricitaḥ suṣṭutaḥ ca asi suparṇa-garuḍadhvaja . cakrapāṇe mahā-bāho yatheṣṭam vasa om namaḥ .. 18.270 ..
इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः । प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेथ् ॥ १८.२७१ ॥
इति मन्त्रम् समुच्चार्य भक्त्या परमायाः युतः । प्रातर् आवाहिताम् शक्तिम् ध्रुवबेरे अवरोपयेथ् ॥ १८।२७१ ॥
iti mantram samuccārya bhaktyā paramāyāḥ yutaḥ . prātar āvāhitām śaktim dhruvabere avaropayeth .. 18.271 ..
प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः । स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ॥ १८.२७२ ॥
प्रदक्षिणम् प्रणामम् च कृत्वा मन्त्रेण देशिकः । स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ॥ १८।२७२ ॥
pradakṣiṇam praṇāmam ca kṛtvā mantreṇa deśikaḥ . stutvā puruṣasūktena viṣṇugāyatriyā tathā .. 18.272 ..
व्यापकत्रयमन्त्रैश्च तथा विष्णोर्नुकाऽदिभिः । अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ॥ १८.२७३ ॥
व्यापक-त्रय-मन्त्रैः च तथा । अतस् देव-आदिभिः मन्त्रैः मन्त्रैः अन्यैः च वैष्णवैः ॥ १८।२७३ ॥
vyāpaka-traya-mantraiḥ ca tathā . atas deva-ādibhiḥ mantraiḥ mantraiḥ anyaiḥ ca vaiṣṇavaiḥ .. 18.273 ..
एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः । मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयं ॥ १८.२७४ ॥
एक-अक्षर-आदि-सूक्तैः च द्वादश-अष्ट-षष्-अक्षरैः । मुहुर् पुष्प-अजलिम् द-त्वा क्षामयेत् दोष-संचयम् ॥ १८।२७४ ॥
eka-akṣara-ādi-sūktaiḥ ca dvādaśa-aṣṭa-ṣaṣ-akṣaraiḥ . muhur puṣpa-ajalim da-tvā kṣāmayet doṣa-saṃcayam .. 18.274 ..
अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु । ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितं ॥ १८.२७५ ॥
अथ वक्ष्ये विशेषेण पूजनम् च औत्सव-आदिषु । ब्रह्मस्थानम् कौतुकस्य पूर्वम् एव समीरितम् ॥ १८।२७५ ॥
atha vakṣye viśeṣeṇa pūjanam ca autsava-ādiṣu . brahmasthānam kautukasya pūrvam eva samīritam .. 18.275 ..
पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ । उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ॥ १८.२७६ ॥
स्थापयेत् स्नापन-औत्सवौ । उत्तरे कौतुकस्य एव बलिबेरस्य संस्थितिः ॥ १८।२७६ ॥
sthāpayet snāpana-autsavau . uttare kautukasya eva baliberasya saṃsthitiḥ .. 18.276 ..
गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे । अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ॥ १८.२७७ ॥
गर्भ-आलयस्य संकोचे तु अथ वा मुखमण्डपे । अन्तराले अथ वा स्थाप्य पूजयेत् स्नापन-औत्सवौ ॥ १८।२७७ ॥
garbha-ālayasya saṃkoce tu atha vā mukhamaṇḍape . antarāle atha vā sthāpya pūjayet snāpana-autsavau .. 18.277 ..
स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमं । आसनाद्युपचारांश्च कल्पयेत्षोडशाथ वा ॥ १८.२७८ ॥
स्नापन-औत्सवयोः कुर्यात् पूर्व-उक्त-अर्चनम् उत्तमम् । आसन-आदि-उपचारान् च कल्पयेत् षोडश अथ वा ॥ १८।२७८ ॥
snāpana-autsavayoḥ kuryāt pūrva-ukta-arcanam uttamam . āsana-ādi-upacārān ca kalpayet ṣoḍaśa atha vā .. 18.278 ..
त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेथ् । नवोपचारैरभ्यर्च्येदनपायिगणांस्तथा ॥ १८.२७९ ॥
त्रयोदश-उपचारैः च शान्तम् सम्यक् समर्चयेथ् । नव-उपचारैः अभ्यर्च्येत् अनपायि-गणान् तथा ॥ १८।२७९ ॥
trayodaśa-upacāraiḥ ca śāntam samyak samarcayeth . nava-upacāraiḥ abhyarcyet anapāyi-gaṇān tathā .. 18.279 ..
द्वारदेवान्द्वारपालान्लोकपालांस्तथैव च । अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेथ् ॥ १८.२८० ॥
द्वारदेवान् द्वारपालान् लोकपालान् तथा एव च । अष्ट-उपचारैः अभ्यर्च्येत् मूर्तिमन्त्रैः समाचरेथ् ॥ १८।२८० ॥
dvāradevān dvārapālān lokapālān tathā eva ca . aṣṭa-upacāraiḥ abhyarcyet mūrtimantraiḥ samācareth .. 18.280 ..
इतरान्परीवारांश्च यजेत्षोडशविग्रहैः । तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेथ् ॥ १८.२८१ ॥
इतरान् परीवारान् च यजेत् षोडश-विग्रहैः । तथा एव पाक-लक्ष्म्याः च द्वार-लक्ष्म्याः च कारयेथ् ॥ १८।२८१ ॥
itarān parīvārān ca yajet ṣoḍaśa-vigrahaiḥ . tathā eva pāka-lakṣmyāḥ ca dvāra-lakṣmyāḥ ca kārayeth .. 18.281 ..
श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेथ् । अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेथ् ॥ १८.२८२ ॥
श्रीवत्स-लक्ष्म्याः च तथा देवेन सह । अवतार-प्रतिष्ठायाम् ध्रुव-ऋचाम् वा अथ ॥ १८।२८२ ॥
śrīvatsa-lakṣmyāḥ ca tathā devena saha . avatāra-pratiṣṭhāyām dhruva-ṛcām vā atha .. 18.282 ..
त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ॥ १८.२८३ ॥
त्रिविक्रम-प्रतिष्ठायाम् ध्रुव-अर्चाम् अर्चयेत् ततस् ॥ १८।२८३ ॥
trivikrama-pratiṣṭhāyām dhruva-arcām arcayet tatas .. 18.283 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टादशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे अष्टादशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre aṣṭādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In