| |
|

This overlay will guide you through the buttons:

अथाष्टादशोऽध्यायः.
athāṣṭādaśo'dhyāyaḥ.
भगवदर्चनम्
अथ वक्ष्ये विशेषेण विष्णोरर्चनमुत्तमं । प्रवः पान्तमऽन्धेत्यादि श्रुतिभिर्विहितं तथा ॥ १८.१ ॥
atha vakṣye viśeṣeṇa viṣṇorarcanamuttamaṃ . pravaḥ pāntama'ndhetyādi śrutibhirvihitaṃ tathā .. 18.1 ..
यच्चोक्तं गुरुणा सूत्रे समासेन महर्षिणा । तेनैव विवृतं शास्त्रे सार्धकोटी प्रमाणतः ॥ १८.२ ॥
yaccoktaṃ guruṇā sūtre samāsena maharṣiṇā . tenaiva vivṛtaṃ śāstre sārdhakoṭī pramāṇataḥ .. 18.2 ..
अस्माभिस्तु सुसंक्षिप्तं चातुर्लक्षप्रमाणतः । तदर्चनक्रमं वक्ष्ये श्रुणुध्वमृषिसत्तमाः ॥ १८.३ ॥
asmābhistu susaṃkṣiptaṃ cāturlakṣapramāṇataḥ . tadarcanakramaṃ vakṣye śruṇudhvamṛṣisattamāḥ .. 18.3 ..
वैखानसेन सूत्रेण निषेकादि क्रियान्वितः । ऋत्विगुक्तगुणोपेतस्सुपुष्टाङ्गस्समाहितः ॥ १८.४ ॥
vaikhānasena sūtreṇa niṣekādi kriyānvitaḥ . ṛtviguktaguṇopetassupuṣṭāṅgassamāhitaḥ .. 18.4 ..
गृहस्थो ब्रह्मचारी वा भक्त्यैवार्ऽचनमाचरेथ् । द्रव्यैरनेकैस्संपाद्यं तथानन्तोपचारकैः ॥ १८.५ ॥
gṛhastho brahmacārī vā bhaktyaivār'canamācareth . dravyairanekaissaṃpādyaṃ tathānantopacārakaiḥ .. 18.5 ..
आशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनं । मनुष्यैःकिमुवक्तव्यं दरिद्रैरदृढात्मभिः ॥ १८.६ ॥
āśakyaṃ vidhivatkartuṃ brahmādyairapi pūjanaṃ . manuṣyaiḥkimuvaktavyaṃ daridrairadṛḍhātmabhiḥ .. 18.6 ..
यथाशक्ति ततः कुर्यात्तस्माद्बहुभिरर्चकैः । बहुभिः परिचारैश्च तथै वान्यपदार्थिभिः ॥ १८.७ ॥
yathāśakti tataḥ kuryāttasmādbahubhirarcakaiḥ . bahubhiḥ paricāraiśca tathai vānyapadārthibhiḥ .. 18.7 ..
निर्वर्त्यं पूजनं विष्णोश्श्रद्धाभक्तिसमन्वितैः । तस्मान्नवविधा ग्राह्या अर्चकाः परिचारकाः ॥ १८.८ ॥
nirvartyaṃ pūjanaṃ viṣṇośśraddhābhaktisamanvitaiḥ . tasmānnavavidhā grāhyā arcakāḥ paricārakāḥ .. 18.8 ..
उत्तमे तूत्तमं प्रोक्तमर्चकानान्तु विंशतिः । अशीतिः परिचाराणामुत्तमे मध्यमं ततः ॥ १८.९ ॥
uttame tūttamaṃ proktamarcakānāntu viṃśatiḥ . aśītiḥ paricārāṇāmuttame madhyamaṃ tataḥ .. 18.9 ..
परिचाराणां चतुष्षष्टिदर्चकाष्षोडश स्मृताः । उत्तमे त्वधमं प्रोक्तमर्चका द्वादश स्मृताः ॥ १८.१० ॥
paricārāṇāṃ catuṣṣaṣṭidarcakāṣṣoḍaśa smṛtāḥ . uttame tvadhamaṃ proktamarcakā dvādaśa smṛtāḥ .. 18.10 ..
पञ्चाशत्परिचाराश्च मध्यमे चोत्तमं पुनः । चत्वारिंशत्परिचराः पूजकाश्चाष्टकीर्तिताः ॥ १८.११ ॥
pañcāśatparicārāśca madhyame cottamaṃ punaḥ . catvāriṃśatparicarāḥ pūjakāścāṣṭakīrtitāḥ .. 18.11 ..
मध्यमे मध्यमं प्रोक्तमचन्काष्षडुदीरिताः । पञ्चविंशत्परिचरा मध्यमे त्वधमं पुनः ॥ १८.१२ ॥
madhyame madhyamaṃ proktamacankāṣṣaḍudīritāḥ . pañcaviṃśatparicarā madhyame tvadhamaṃ punaḥ .. 18.12 ..
चत्वारः पूजकास्तत्र परिचारास्तु षोडश । त्रयोर्ऽचकाः परिचरा नव स्युरधमोत्तमे ॥ १८.१३ ॥
catvāraḥ pūjakāstatra paricārāstu ṣoḍaśa . trayor'cakāḥ paricarā nava syuradhamottame .. 18.13 ..
पूजकौ द्वौपरिचराश्चत्वारोऽधममध्यमे । एकोर्ऽचकः परिचरौ द्वौप्रोक्तावधमाधमे ॥ १८.१४ ॥
pūjakau dvauparicarāścatvāro'dhamamadhyame . ekor'cakaḥ paricarau dvauproktāvadhamādhame .. 18.14 ..
आचार्यस्स्यादुपद्रष्टा देवस्सान्निध्यकारकः । अर्चनाद्यखिलं कार्यं तन्नियोगेन कारयेथ् ॥ १८.१५ ॥
ācāryassyādupadraṣṭā devassānnidhyakārakaḥ . arcanādyakhilaṃ kāryaṃ tanniyogena kārayeth .. 18.15 ..
स हि कार्यस्य निर्णेता गोप्ताधर्मस्यदेशिकः । अर्चको देवदेवस्य कुर्यान्मन्त्रासनादिषु ॥ १८.१६ ॥
sa hi kāryasya nirṇetā goptādharmasyadeśikaḥ . arcako devadevasya kuryānmantrāsanādiṣu .. 18.16 ..
उपचाराननन्तांश्च विधिना शास्त्रचोदितान् । अर्चकस्य सहायन्तु किङ्करः परिचारकः ॥ १८.१७ ॥
upacārānanantāṃśca vidhinā śāstracoditān . arcakasya sahāyantu kiṅkaraḥ paricārakaḥ .. 18.17 ..
बहुकार्यकराश्चैते ग्राह्यास्तु परिचारकाः । सम्माजन्नकरश्चैव तथा स्यादुपलेपकः ॥ १८.१८ ॥
bahukāryakarāścaite grāhyāstu paricārakāḥ . sammājannakaraścaiva tathā syādupalepakaḥ .. 18.18 ..
दीपोद्दीपयिता चौव पोत्रशोधनकारकः । पानीय वाहकश्चैव पुष्पापचयकारकः ॥ १८.१९ ॥
dīpoddīpayitā cauva potraśodhanakārakaḥ . pānīya vāhakaścaiva puṣpāpacayakārakaḥ .. 18.19 ..
धूपदीपादिकर्ता च गन्धपेषणतत्परः । तत्तत्परिच्छदाहर्ता तथैव बलिवाहकः ॥ १८.२० ॥
dhūpadīpādikartā ca gandhapeṣaṇatatparaḥ . tattatparicchadāhartā tathaiva balivāhakaḥ .. 18.20 ..
एवमादीनि कार्याणि कुर्वन्ति परिचारकाः । पाचकः परिचारस्स्यात्पचनालयसंगतः ॥ १८.२१ ॥
evamādīni kāryāṇi kurvanti paricārakāḥ . pācakaḥ paricārassyātpacanālayasaṃgataḥ .. 18.21 ..
हविष्पाकविधानज्ञश्शौचाचारपरायणः । एतान्वैखानसानेव वृणेत्सर्वान्पदार्थिनः ॥ १८.२२ ॥
haviṣpākavidhānajñaśśaucācāraparāyaṇaḥ . etānvaikhānasāneva vṛṇetsarvānpadārthinaḥ .. 18.22 ..
अलाभे तत्र सर्वेषामाचार्यं चार्चकान्पुसः । वैखानसानेव वृणन्नक्युदर्यादन्यसूत्रिणः ॥ १८.२३ ॥
alābhe tatra sarveṣāmācāryaṃ cārcakānpusaḥ . vaikhānasāneva vṛṇannakyudaryādanyasūtriṇaḥ .. 18.23 ..
अवैखानस विप्रस्तु पूजयेदालये हरिं । स वै देवलको नाम सर्व कर्मबहिष्कृतः ॥ १८.२४ ॥
avaikhānasa viprastu pūjayedālaye hariṃ . sa vai devalako nāma sarva karmabahiṣkṛtaḥ .. 18.24 ..
परिचारांन्तु वृणुयादलाभे त्वन्यसूत्रिणः । दीक्षितानेवसद्वृत्तानागमोक्तविधानतः ॥ १८.२५ ॥
paricārāṃntu vṛṇuyādalābhe tvanyasūtriṇaḥ . dīkṣitānevasadvṛttānāgamoktavidhānataḥ .. 18.25 ..
यजमानस्सदाध्यात्मरतो मोक्षार्थचिन्तकः । धनी सर्वसमस्त्यागी भक्तियुक्तः प्रसन्नधीः ॥ १८.२६ ॥
yajamānassadādhyātmarato mokṣārthacintakaḥ . dhanī sarvasamastyāgī bhaktiyuktaḥ prasannadhīḥ .. 18.26 ..
शास्त्रोक्तेन विधानेन विष्णुलाञ्छनलाञ्छितः । देवस्य नित्यपूजार्थमुत्सवार्थं विशेषतः ॥ १८.२७ ॥
śāstroktena vidhānena viṣṇulāñchanalāñchitaḥ . devasya nityapūjārthamutsavārthaṃ viśeṣataḥ .. 18.27 ..
तथान्यविभवार्थं च दापयेद्धनसंचयं । आचार्याज्ञाप्रतीक्षस्स्यातॄजके हितचिन्तकः ॥ १८.२८ ॥
tathānyavibhavārthaṃ ca dāpayeddhanasaṃcayaṃ . ācāryājñāpratīkṣassyātṝjake hitacintakaḥ .. 18.28 ..
परिचारे प्रसन्नश्च किङ्करेषु दयापरः । तीर्थप्रसादसेवी च निर्माल्येषु कृतादरः ॥ १८.२९ ॥
paricāre prasannaśca kiṅkareṣu dayāparaḥ . tīrthaprasādasevī ca nirmālyeṣu kṛtādaraḥ .. 18.29 ..
इति लक्षणसंपन्नाः प्रभवन्त्यालयार्चने । अथार्चकः प्रमन्नात्मा पञ्चकालपरायणः ॥ १८.३० ॥
iti lakṣaṇasaṃpannāḥ prabhavantyālayārcane . athārcakaḥ pramannātmā pañcakālaparāyaṇaḥ .. 18.30 ..
ब्राह्मेमुहूर्ते चोद्थाय नारायणमनुस्मरेथ् । कृत्वा सूत्रोक्तविधिना शौचादीनि यथाविधि ॥ १८.३१ ॥
brāhmemuhūrte codthāya nārāyaṇamanusmareth . kṛtvā sūtroktavidhinā śaucādīni yathāvidhi .. 18.31 ..
स्नात्वा स्नानविधानेन धृत्वा धौतांबरे पुनः । ऊर्ध्वपुण्ड्राणि संधार्य विधिना केशवादिभिः ॥ १८.३२ ॥
snātvā snānavidhānena dhṛtvā dhautāṃbare punaḥ . ūrdhvapuṇḍrāṇi saṃdhārya vidhinā keśavādibhiḥ .. 18.32 ..
धृत्वा पवित्रपद्माक्षतुलसीमणिमालिकाः । धृत्वोभयपवित्रे च तथा सन्ध्यामुपास्य च ॥ १८.३३ ॥
dhṛtvā pavitrapadmākṣatulasīmaṇimālikāḥ . dhṛtvobhayapavitre ca tathā sandhyāmupāsya ca .. 18.33 ..
उष्णीषेण च पञ्चागभूषणैन्सुविभूषितः । समाप्य नित्यकर्माणि महामन्त्रादिकं जपन् ॥ १८.३४ ॥
uṣṇīṣeṇa ca pañcāgabhūṣaṇainsuvibhūṣitaḥ . samāpya nityakarmāṇi mahāmantrādikaṃ japan .. 18.34 ..
अरुणं तु जपित्वैव नारायणमतः परं । प्रणम्य यन्त्रिकाञ्चैव कराभ्यां परिगृह्य च ॥ १८.३५ ॥
aruṇaṃ tu japitvaiva nārāyaṇamataḥ paraṃ . praṇamya yantrikāñcaiva karābhyāṃ parigṛhya ca .. 18.35 ..
बाह्वोश्शिरसि वा न्यस्य भक्त्या परमया युतः । संगतः परिचारैश्च यजमानेन सादरं ॥ १८.३६ ॥
bāhvośśirasi vā nyasya bhaktyā paramayā yutaḥ . saṃgataḥ paricāraiśca yajamānena sādaraṃ .. 18.36 ..
सर्ववाद्य समायुक्तः सर्वमङ्गलशोभितः । क्रममाणश्शनैर्विद्वान्देवागारं प्रति व्रजेथ् ॥ १८.३७ ॥
sarvavādya samāyuktaḥ sarvamaṅgalaśobhitaḥ . kramamāṇaśśanairvidvāndevāgāraṃ prati vrajeth .. 18.37 ..
प्रतद्विष्णुऽरिति प्रोच्य चालयं परितःक्रमाथ् । युग्मप्रदक्षिणं कुर्याद्देव देवमनुस्मरन् ॥ १८.३८ ॥
pratadviṣṇu'riti procya cālayaṃ paritaḥkramāth . yugmapradakṣiṇaṃ kuryāddeva devamanusmaran .. 18.38 ..
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकं । आयुग्मं तु परीत्यापि तथायुग्मं प्रणम्य च ॥ १८.३९ ॥
yugmapradakṣiṇaṃ kuryādayugmaṃ tvābhicārikaṃ . āyugmaṃ tu parītyāpi tathāyugmaṃ praṇamya ca .. 18.39 ..
प्रेक्षेतोद्यन्तमादित्यं जपेद्द्वादशसूक्तकं । छायालङ्घनदोषन्तु न तत्र स्यात्प्रदक्षिणे ॥ १८.४० ॥
prekṣetodyantamādityaṃ japeddvādaśasūktakaṃ . chāyālaṅghanadoṣantu na tatra syātpradakṣiṇe .. 18.40 ..
देवागारं प्रविश्यैव तत्तन्मन्त्रमनुस्मरन् । द्वारदेवान्प्रणम्याथ निरस्तं रक्षमस्त्रतः ॥ १८.४१ ॥
devāgāraṃ praviśyaiva tattanmantramanusmaran . dvāradevānpraṇamyātha nirastaṃ rakṣamastrataḥ .. 18.41 ..
गृहीत्वा यन्त्रिकां चैव हिरण्यपाणिऽ मुच्चरन् । कवाटे तु सुसंयोज्य "दिवंऽ वीति समुच्चरन् ॥ १८.४२ ॥
gṛhītvā yantrikāṃ caiva hiraṇyapāṇi' muccaran . kavāṭe tu susaṃyojya "divaṃ' vīti samuccaran .. 18.42 ..
कवाटोद्घायनं कृत्वा प्रविशेदन्तरं बुधः । अतो देवाऽ इतिप्रोच्य देवं वीक्ष्यप्रणम्य च ॥ १८.४३ ॥
kavāṭodghāyanaṃ kṛtvā praviśedantaraṃ budhaḥ . ato devā' itiprocya devaṃ vīkṣyapraṇamya ca .. 18.43 ..
परिचारकमाहूय दीपानुद्दीपयेत्क्रमाथ् । प्रणवं मन्त्रमुच्चार्य तत्र कार्यं समाचरेथ् ॥ १८.४४ ॥
paricārakamāhūya dīpānuddīpayetkramāth . praṇavaṃ mantramuccārya tatra kāryaṃ samācareth .. 18.44 ..
ब्राह्मणान्वेदविदुषो नर्तकांश्चैव गायकान् । देवस्य पुरतस्थ्साप्य मुखमण्डप एवचा ॥ १८.४६ ॥
brāhmaṇānvedaviduṣo nartakāṃścaiva gāyakān . devasya puratasthsāpya mukhamaṇḍapa evacā .. 18.46 ..
प्रच्छन्न पटमुद्वास्य कृत्वा नीराजनं तथा । सर्ववाद्यसमायुक्तं दर्शयेद्धरये मुदा ॥ १८.४७ ॥
pracchanna paṭamudvāsya kṛtvā nīrājanaṃ tathā . sarvavādyasamāyuktaṃ darśayeddharaye mudā .. 18.47 ..
धारोष्णं चैव गोक्षीरं नवनीतं सशर्करं । देवेशाय निवेद्याथ कुर्याद्यवनिकां पुनः ॥ १८.४८ ॥
dhāroṣṇaṃ caiva gokṣīraṃ navanītaṃ saśarkaraṃ . deveśāya nivedyātha kuryādyavanikāṃ punaḥ .. 18.48 ..
भूः प्रपद्येऽ समुच्चार्य देवेशं प्रणमेन्मुहुः । परं रंऽहीति मन्त्रेण शयनस्थं श्रियःपतिं ॥ १८.४९ ॥
bhūḥ prapadye' samuccārya deveśaṃ praṇamenmuhuḥ . paraṃ raṃ'hīti mantreṇa śayanasthaṃ śriyaḥpatiṃ .. 18.49 ..
भूरसी भूऽरिति प्रोच्य जीवस्थाने निवेशयेथ् । तस्मिन्कालेतु ये भक्त्या सेवन्ते पुरुषोत्तमं ॥ १८.५० ॥
bhūrasī bhū'riti procya jīvasthāne niveśayeth . tasminkāletu ye bhaktyā sevante puruṣottamaṃ .. 18.50 ..
तेषां पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । ततश्शिष्यं समाहूय विनयान्वितमादराथ् ॥ १८.५१ ॥
teṣāṃ puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi . tataśśiṣyaṃ samāhūya vinayānvitamādarāth .. 18.51 ..
सम्मार्जनादिकर्माणि गुरुस्तस्मै समादिशेथ् । अव धूतिऽमिति प्रोच्य गर्भगेहादि सर्वतः ॥ १८.५२ ॥
sammārjanādikarmāṇi gurustasmai samādiśeth . ava dhūti'miti procya garbhagehādi sarvataḥ .. 18.52 ..
मार्जन्या मार्जयेच्छिष्यः प्रादक्षिण्यक्रमेण वै । पांस्वादीन्परिहृत्यापि प्राकारान्तं च सर्वशः ॥ १८.५३ ॥
mārjanyā mārjayecchiṣyaḥ prādakṣiṇyakrameṇa vai . pāṃsvādīnparihṛtyāpi prākārāntaṃ ca sarvaśaḥ .. 18.53 ..
आशाऽस्विति समुच्चार्य गोमयेनोपलेपयेथ् । पञ्चगव्यैस्तु संप्रोक्ष्य रङ्गवल्लीस्समाचरेथ् ॥ १८.५४ ॥
āśā'sviti samuccārya gomayenopalepayeth . pañcagavyaistu saṃprokṣya raṅgavallīssamācareth .. 18.54 ..
आ मा वाजस्यऽ मन्त्रेण यथोक्तेन विधानतः । सर्वण्यपि च पात्राणि शोधयेत्सुमनोरमे ॥ १८.५५ ॥
ā mā vājasya' mantreṇa yathoktena vidhānataḥ . sarvaṇyapi ca pātrāṇi śodhayetsumanorame .. 18.55 ..
तो यसंग्रहणार्थं तु नियुक्तः पूजकेन तु । घटमादाय शिष्यस्तु "दुहतां दिवऽमुच्चरन् ॥ १८.५६ ॥
to yasaṃgrahaṇārthaṃ tu niyuktaḥ pūjakena tu . ghaṭamādāya śiṣyastu "duhatāṃ diva'muccaran .. 18.56 ..
नदीतटाककूपानां पूर्वालाभे परं व्रजेथ् । उपस्थाय जलं स्मृत्वा जाह्नवीं लोकपावनीं ॥ १८.५७ ॥
nadītaṭākakūpānāṃ pūrvālābhe paraṃ vrajeth . upasthāya jalaṃ smṛtvā jāhnavīṃ lokapāvanīṃ .. 18.57 ..
आज्यमभिगृह्णाऽमीति चाप्पवित्रेण वाससा । गृहीत्वोत्पूतमाधावं गायत्रीमुच्चरन्पुनः ॥ १८.५८ ॥
ājyamabhigṛhṇā'mīti cāppavitreṇa vāsasā . gṛhītvotpūtamādhāvaṃ gāyatrīmuccaranpunaḥ .. 18.58 ..
अलङ्कृत्यघटं सम्यक्क्ष्ॐएनाच्छाद्य तन्मुखं । गजे शिरसि वा क्षिप्त्वा सर्ववाद्यसमायुतं ॥ १८.५९ ॥
alaṅkṛtyaghaṭaṃ samyakkṣ_oṃenācchādya tanmukhaṃ . gaje śirasi vā kṣiptvā sarvavādyasamāyutaṃ .. 18.59 ..
पुनरालयमाविश्य कृत्वा चैव प्रदक्षिणं । सोमं राजानमुच्चार्य गर्भगेहे तु दक्षिणे ॥ १८.६० ॥
punarālayamāviśya kṛtvā caiva pradakṣiṇaṃ . somaṃ rājānamuccārya garbhagehe tu dakṣiṇe .. 18.60 ..
विन्यसेच्च ततः कुंभं त्रिपादोपरि शोभिते । एलोशीरादिचाहृत्य गन्धद्रव्यं यथाविधि ॥ १८.६१ ॥
vinyasecca tataḥ kuṃbhaṃ tripādopari śobhite . elośīrādicāhṛtya gandhadravyaṃ yathāvidhi .. 18.61 ..
दद्यादर्चकहस्ते तु गृहीत्वा तत्तु पूजकः । पूर्णकुंभे तु निक्षिप्यतोयं तदधिवासयेथ् ॥ १८.६२ ॥
dadyādarcakahaste tu gṛhītvā tattu pūjakaḥ . pūrṇakuṃbhe tu nikṣipyatoyaṃ tadadhivāsayeth .. 18.62 ..
अलाभे कुशदूर्वैर्वा तुलसीदलमिश्रितैः । अभिमृश्य ततः कुंभ मिदमापश्शिवाऽइति ॥ १८.६३ ॥
alābhe kuśadūrvairvā tulasīdalamiśritaiḥ . abhimṛśya tataḥ kuṃbha midamāpaśśivā'iti .. 18.63 ..
सूत्रोक्तविधिना कृत्वा पुण्याहं विधिवत्तदा । शुचि वो हव्यऽमन्त्रेण संभारान्प्रोक्षयेत्क्रमाथ् ॥ १८.६४ ॥
sūtroktavidhinā kṛtvā puṇyāhaṃ vidhivattadā . śuci vo havya'mantreṇa saṃbhārānprokṣayetkramāth .. 18.64 ..
शोधयित्वातु निर्माल्यं नश्यस्तु जगताऽमिति । अहमेवेदऽमुक्त्वा तु पीठपुष्पं च शोधयेथ् ॥ १८.६५ ॥
śodhayitvātu nirmālyaṃ naśyastu jagatā'miti . ahameveda'muktvā tu pīṭhapuṣpaṃ ca śodhayeth .. 18.65 ..
पूतस्तस्यऽ समुच्चार्य वेदिमद्भिस्सुशोधयेथ् । ध्रुवस्य पादपुष्पस्तु विष्णुगायत्रिया तथा ॥ १८.६६ ॥
pūtastasya' samuccārya vedimadbhissuśodhayeth . dhruvasya pādapuṣpastu viṣṇugāyatriyā tathā .. 18.66 ..
पञ्चभिर्मूर्ति मन्त्रैश्च दत्वा देवं प्रणम्य च । देवनिर्माल्यशेषेण विष्वक्सेनं विभूष्य च ॥ १८.६७ ॥
pañcabhirmūrti mantraiśca datvā devaṃ praṇamya ca . devanirmālyaśeṣeṇa viṣvaksenaṃ vibhūṣya ca .. 18.67 ..
अन्यन्निर्माल्यमादाय शुचिस्थानेऽप्सु वा क्षिवेथ् । पूजनार्थांश्च संभारान्यथाशक्ति सुसंभरेथ् ॥ १८.६८ ॥
anyannirmālyamādāya śucisthāne'psu vā kṣiveth . pūjanārthāṃśca saṃbhārānyathāśakti susaṃbhareth .. 18.68 ..
ततस्समाहितो भूत्वासंभारार्चनमारभेथ् । तत्तत्थ्सानेषु पात्राणि यथार्हं स्थापयेद्बुधः ॥ १८.६९ ॥
tatassamāhito bhūtvāsaṃbhārārcanamārabheth . tattatthsāneṣu pātrāṇi yathārhaṃ sthāpayedbudhaḥ .. 18.69 ..
स्नानार्थमग्निकोणे स्यादर्घ्यर्थं नैरृतेऽपि च । पाद्यार्थं वायुदेशे स्यादाचमार्थमथेशके ॥ १८.७० ॥
snānārthamagnikoṇe syādarghyarthaṃ nairṛte'pi ca . pādyārthaṃ vāyudeśe syādācamārthamatheśake .. 18.70 ..
शुद्ध्यर्थमेकं मध्ये तु पञ्चपात्रमिदं क्रमाथ् । त्रिपादोपरे निक्षिप्ते विशाले ताम्रभाजने ॥ १८.७१ ॥
śuddhyarthamekaṃ madhye tu pañcapātramidaṃ kramāth . tripādopare nikṣipte viśāle tāmrabhājane .. 18.71 ..
अग्निश्शुऽचीति मन्त्रेण स्थापयेच्च हरिं स्मरन् । कुर्याच्च पात्रसंस्कारं शोषणादि यथाविधि ॥ १८.७२ ॥
agniśśu'cīti mantreṇa sthāpayecca hariṃ smaran . kuryācca pātrasaṃskāraṃ śoṣaṇādi yathāvidhi .. 18.72 ..
उद्धरिण्यां गृहीत्वातु प्रणवेन जलं तदा । निक्षिप्य तुलसीं तस्यां पुष्पं वा धारणं चरेथ् ॥ १८.७३ ॥
uddhariṇyāṃ gṛhītvātu praṇavena jalaṃ tadā . nikṣipya tulasīṃ tasyāṃ puṣpaṃ vā dhāraṇaṃ careth .. 18.73 ..
वारिकुंभमुखे ब्रह्मा तदधो रुद्र ईरितः । वरुणस्तु जले ध्येयस्तथै वावाहनं चरेथ् ॥ १८.७४ ॥
vārikuṃbhamukhe brahmā tadadho rudra īritaḥ . varuṇastu jale dhyeyastathai vāvāhanaṃ careth .. 18.74 ..
त्रिपादे चन्द्रमावाह्य चादित्यं चोर्ध्वभाजने । वसिष्ठसोमयज्ञाङ्गानिन्दुं मन्द्रं क्रमेणवै ॥ १८.७५ ॥
tripāde candramāvāhya cādityaṃ cordhvabhājane . vasiṣṭhasomayajñāṅgāninduṃ mandraṃ krameṇavai .. 18.75 ..
आग्नेयादिक्रमेणैव पञ्चपात्रेषु चाह्वयेथ् । कर्पूरोशीरकं चैव गन्धानेलालवङ्गकं ॥ १८.७६ ॥
āgneyādikrameṇaiva pañcapātreṣu cāhvayeth . karpūrośīrakaṃ caiva gandhānelālavaṅgakaṃ .. 18.76 ..
स्नानद्रव्यमिदं प्रोक्तं स्नानपात्रे तुनिक्षिपेथ् । विष्णुपर्णं पद्मदलं दूर्वां श्यामाकमेव च ॥ १८.७७ ॥
snānadravyamidaṃ proktaṃ snānapātre tunikṣipeth . viṣṇuparṇaṃ padmadalaṃ dūrvāṃ śyāmākameva ca .. 18.77 ..
प्राद्यद्रव्याणिसंपाद्य पाद्यपात्रे तु निक्षिपेथ् । कुशाक्षततिलव्रीहियवमाषांस्तथैव च ॥ १८.७८ ॥
prādyadravyāṇisaṃpādya pādyapātre tu nikṣipeth . kuśākṣatatilavrīhiyavamāṣāṃstathaiva ca .. 18.78 ..
प्रियङ्गूंश्चैव सिद्धार्थानर्घ्यपात्रे तु निक्षिपेथ् । एलोशीरलवङ्गादिं स्तक्कोलानीति च क्रमात्, ॥ १८.७९ ॥
priyaṅgūṃścaiva siddhārthānarghyapātre tu nikṣipeth . elośīralavaṅgādiṃ stakkolānīti ca kramāt, .. 18.79 ..
क्षिपेदाचामपात्रे तु शुद्धतोये ततःक्रमाथ् । पुष्पाणि गन्धान्विन्यस्येद्यथालाभमथापिवा ॥ १८.८० ॥
kṣipedācāmapātre tu śuddhatoye tataḥkramāth . puṣpāṇi gandhānvinyasyedyathālābhamathāpivā .. 18.80 ..
अलाभेतत्तदुच्चार्य तुलसीं वा विनिक्षिपेथ् । धाराऽस्विति च मन्त्रेण पात्राण्यद्भिः प्रपूरयेथ् ॥ १८.८१ ॥
alābhetattaduccārya tulasīṃ vā vinikṣipeth . dhārā'sviti ca mantreṇa pātrāṇyadbhiḥ prapūrayeth .. 18.81 ..
इदमापश्शिवाःऽ प्रोच्य सुरभिमुद्रां प्रदर्श्य च । पात्राभिमन्त्रणं कुर्याद्दसदिग्बन्धनं चरेथ् ॥ १८.८२ ॥
idamāpaśśivāḥ' procya surabhimudrāṃ pradarśya ca . pātrābhimantraṇaṃ kuryāddasadigbandhanaṃ careth .. 18.82 ..
विष्णुगायत्रीमुच्चार्य तत्रकार्यं समाचरेथ् । घण्टायां चैव ब्रह्माणं नादे वेदान्समर्चयेथ् ॥ १८.८३ ॥
viṣṇugāyatrīmuccārya tatrakāryaṃ samācareth . ghaṇṭāyāṃ caiva brahmāṇaṃ nāde vedānsamarcayeth .. 18.83 ..
तज्जिह्वायां षडास्यस्तुसूत्रेनागान्त्समर्चयेत् । ऊर्ध्वेवीशं च शङ्खारी पार्श्वयोस्तस्यचार्चयेथ् ॥ १८.८४ ॥
tajjihvāyāṃ ṣaḍāsyastusūtrenāgāntsamarcayet . ūrdhvevīśaṃ ca śaṅkhārī pārśvayostasyacārcayeth .. 18.84 ..
नाले चैव महादेवमिति घण्टाधिदेवताः । त्रिपादस्योत्तरेस्थाप्य विमलन्तु पतद्ग्रहे ॥ १८.८५ ॥
nāle caiva mahādevamiti ghaṇṭādhidevatāḥ . tripādasyottaresthāpya vimalantu patadgrahe .. 18.85 ..
वरुणं शङ्खकुक्षौ तु मूले तु पृथिवीं तथा । धारायां सर्वतीर्थांश्च शङ्खे चन्द्रं समर्चयेथ् ॥ १८.८६ ॥
varuṇaṃ śaṅkhakukṣau tu mūle tu pṛthivīṃ tathā . dhārāyāṃ sarvatīrthāṃśca śaṅkhe candraṃ samarcayeth .. 18.86 ..
उद्धरिण्यां च पानीयपात्रे सोममथार्चयेथ् । आसने धर्ममावाह्यप्लोते त्वष्टारमेव च ॥ १८.८७ ॥
uddhariṇyāṃ ca pānīyapātre somamathārcayeth . āsane dharmamāvāhyaplote tvaṣṭārameva ca .. 18.87 ..
अंबरे सूर्यमावाह्य चोत्तरीये निशाकरं । भूषणे षण्मुखं चैव यज्ञसूत्रे निशाकरं ॥ १८.८८ ॥
aṃbare sūryamāvāhya cottarīye niśākaraṃ . bhūṣaṇe ṣaṇmukhaṃ caiva yajñasūtre niśākaraṃ .. 18.88 ..
पुष्पे पुल्लं तथा गन्धे मुखवासे च मेदिनीं । अक्षते काश्यपं धूपे बृहस्पतिमधाह्वायेथ् ॥ १८.८९ ॥
puṣpe pullaṃ tathā gandhe mukhavāse ca medinīṃ . akṣate kāśyapaṃ dhūpe bṛhaspatimadhāhvāyeth .. 18.89 ..
दीपे श्रियं घृते सामतैले पितॄन्त्समर्चयेथ् । उपधाने तथाछत्रे पादुके शेषमर्चयेथ् ॥ १८.९० ॥
dīpe śriyaṃ ghṛte sāmataile pitṝntsamarcayeth . upadhāne tathāchatre pāduke śeṣamarcayeth .. 18.90 ..
यन्त्रिकायां च मार्ताण्डं सिद्धार्थे सोममर्चयेथ् । कुशाग्रे जाह्नवीं चैव तिलेषु पितृदेवताः ॥ १८.९१ ॥
yantrikāyāṃ ca mārtāṇḍaṃ siddhārthe somamarcayeth . kuśāgre jāhnavīṃ caiva tileṣu pitṛdevatāḥ .. 18.91 ..
तण्डुले रविमावाह्य दध्नि चावाहयेद्यजुः । क्षीरेऽथर्वाणमावाह्य मधुपर्के ऋचं तथा ॥ १८.९२ ॥
taṇḍule ravimāvāhya dadhni cāvāhayedyajuḥ . kṣīre'tharvāṇamāvāhya madhuparke ṛcaṃ tathā .. 18.92 ..
मात्रायां शर्वमावाह्य हविःपात्रे दिवाकरं । हविष्णु पद्मगर्भं च पानपात्रे निशाकरं ॥ १८.९३ ॥
mātrāyāṃ śarvamāvāhya haviḥpātre divākaraṃ . haviṣṇu padmagarbhaṃ ca pānapātre niśākaraṃ .. 18.93 ..
उपहारादिपात्रेषु दिवाकरमथार्चयेथ् । ज्येष्ठामावाह्य मार्जन्यां नर्तकेशर्वमर्चयेथ् ॥ १८.९४ ॥
upahārādipātreṣu divākaramathārcayeth . jyeṣṭhāmāvāhya mārjanyāṃ nartakeśarvamarcayeth .. 18.94 ..
गायके सामवेदं च नन्दीशं वादकेर्ऽचयेथ् । पाञ्चजन्यं च शङ्खे तु गणिकास्वप्चरस्त्स्रियः ॥ १८.९५ ॥
gāyake sāmavedaṃ ca nandīśaṃ vādaker'cayeth . pāñcajanyaṃ ca śaṅkhe tu gaṇikāsvapcarastsriyaḥ .. 18.95 ..
गरुडं परिचारेषु समावाह्य ततः क्रमाथ् । अनुक्तेषु तु द्रव्येषु विष्णुमावाह्य कारयेथ् ॥ १८.९६ ॥
garuḍaṃ paricāreṣu samāvāhya tataḥ kramāth . anukteṣu tu dravyeṣu viṣṇumāvāhya kārayeth .. 18.96 ..
तत्तद्द्रव्याधिपे स्मृत्वातत्तद्द्रव्यसमीपतः । तत्तद्द्रव्यधरत्वेन चतुर्भिर्विग्रहैर्यजेथ् ॥ १८.९७ ॥
tattaddravyādhipe smṛtvātattaddravyasamīpataḥ . tattaddravyadharatvena caturbhirvigrahairyajeth .. 18.97 ..
तत्तत्कर्मसु काले वै यथार्हमुपयोजयेथ् । तत्काले प्यथ वावाह्यतस्मिन्कर्मणि योजयेथ् ॥ १८.९८ ॥
tattatkarmasu kāle vai yathārhamupayojayeth . tatkāle pyatha vāvāhyatasminkarmaṇi yojayeth .. 18.98 ..
ततोर्ऽचकः प्रसन्नात्माध्यात्वात्मानं जनार्दनं । देवस्य दक्षिणेभागे कूर्मपीठे समाहितः ॥ १८.९९ ॥
tator'cakaḥ prasannātmādhyātvātmānaṃ janārdanaṃ . devasya dakṣiṇebhāge kūrmapīṭhe samāhitaḥ .. 18.99 ..
बिंबार्हं संस्थितो वापि समासीनोऽथ वा पुनः । ध्यात्वा ध्यानविधानेन जप्त्वाचार्यपलंपरां ॥ १८.१०० ॥
biṃbārhaṃ saṃsthito vāpi samāsīno'tha vā punaḥ . dhyātvā dhyānavidhānena japtvācāryapalaṃparāṃ .. 18.100 ..
योगशास्त्रोक्तमागेन्ण प्राणायामादिकं चरेथ् । भूतशुद्धिं विधायादौ न्यासानन्यान्त्समाचरेथ् ॥ १८.१०१ ॥
yogaśāstroktamāgenṇa prāṇāyāmādikaṃ careth . bhūtaśuddhiṃ vidhāyādau nyāsānanyāntsamācareth .. 18.101 ..
अकारादिक्षकारान्तमक्षराणि यथाविधि । सर्वत्र सन्धिषु न्यस्य ब्रह्मन्यासं समाचरेथ् ॥ १८.१०२ ॥
akārādikṣakārāntamakṣarāṇi yathāvidhi . sarvatra sandhiṣu nyasya brahmanyāsaṃ samācareth .. 18.102 ..
ब्रह्म ब्रह्मन्तरात्मेऽति हृदयं चाभिमर्शयेथ् । द्यौर्द्यैरऽसीति चोच्चार्य मूर्धानं चाभिमर्शयेथ् ॥ १८.१०३ ॥
brahma brahmantarātme'ti hṛdayaṃ cābhimarśayeth . dyaurdyaira'sīti coccārya mūrdhānaṃ cābhimarśayeth .. 18.103 ..
शिखे उद्वर्तयाऽमीति स्पृशेच्चैव शिखां तथा । देवानामायुधैऽरुक्त्वा कवचं बन्धयेत्ततः ॥ १८.१०४ ॥
śikhe udvartayā'mīti spṛśeccaiva śikhāṃ tathā . devānāmāyudhai'ruktvā kavacaṃ bandhayettataḥ .. 18.104 ..
नारायणाय विद्महऽ इति दशदिग्भन्धनं चरेथ् । सुदर्शनमऽभीत्युक्त्वा दक्षिणे तु सुदर्शनं ॥ १८.१०५ ॥
nārāyaṇāya vidmaha' iti daśadigbhandhanaṃ careth . sudarśanama'bhītyuktvā dakṣiṇe tu sudarśanaṃ .. 18.105 ..
रविपाऽमिति वामे च शङ्खं च बिभृयात्करे । सूर्योसि च द्रोऽसीऽत्युक्त्वा नेत्रयोर्दक्षवामयोः ॥ १८.१०६ ॥
ravipā'miti vāme ca śaṅkhaṃ ca bibhṛyātkare . sūryosi ca dro'sī'tyuktvā netrayordakṣavāmayoḥ .. 18.106 ..
सूर्याचन्द्रमसोश्चैव मण्डले सन्न्यसेद्बुधः । अहुरण्यं विधिं यज्ञं ब्रह्माणं देवेन्द्रऽमित्यपि ॥ १८.१०७ ॥
sūryācandramasoścaiva maṇḍale sannyasedbudhaḥ . ahuraṇyaṃ vidhiṃ yajñaṃ brahmāṇaṃ devendra'mityapi .. 18.107 ..
अङ्गुष्ठादिकनिष्ठान्तं करन्यासं समाचरेथ् । अन्तरस्मिन्निमऽइति ब्रह्माणं च हृदि न्यसेथ् ॥ १८.१०८ ॥
aṅguṣṭhādikaniṣṭhāntaṃ karanyāsaṃ samācareth . antarasminnima'iti brahmāṇaṃ ca hṛdi nyaseth .. 18.108 ..
प्राणानायम्य संकल्प्य तिथिवारादिकीर्तयेथ् । ततो मन्त्रासनं विद्वान्संकल्प्य च यथाविधि ॥ १८.१०९ ॥
prāṇānāyamya saṃkalpya tithivārādikīrtayeth . tato mantrāsanaṃ vidvānsaṃkalpya ca yathāvidhi .. 18.109 ..
प्रतद्विष्मुस्सवतऽइति इति त"थास्त्वासनऽमित्यपि । पुष्पदभन्कुशेष्वेकं पीठान्ते चासनं ददेथ् ॥ १८.११० ॥
pratadviṣmussavata'iti iti ta"thāstvāsana'mityapi . puṣpadabhankuśeṣvekaṃ pīṭhānte cāsanaṃ dadeth .. 18.110 ..
विश्वाधिकानाऽमित्युक्त्वा स्वागतं तु समाचरेथ् । मनोऽभिमन्ताऽमन्त्रेण देवेशमनुमान्य च ॥ १८.१११ ॥
viśvādhikānā'mityuktvā svāgataṃ tu samācareth . mano'bhimantā'mantreṇa deveśamanumānya ca .. 18.111 ..
त्रीणि पऽदेति मन्त्रेण दद्यात्पाद्यं पदद्वये । आमावाजस्यऽमन्त्रेण स्पृश्यमघंन्य्प्रदाय च ॥ १८.११२ ॥
trīṇi pa'deti mantreṇa dadyātpādyaṃ padadvaye . āmāvājasya'mantreṇa spṛśyamaghaṃnypradāya ca .. 18.112 ..
देवस्य दक्षिणे हस्ते स्पृश्यं स्सृश्याघन्य्मुच्यते । शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनीयकं ॥ १८.११३ ॥
devasya dakṣiṇe haste spṛśyaṃ ssṛśyāghanymucyate . śannodevī'riti procya dadyādācamanīyakaṃ .. 18.113 ..
देवस्यऽत्वेति मन्त्रेण चादर्शं दर्शयेत्ततः । अन्नाद्याय समुच्चार्य दन्तधावनमाचरेथ् ॥ १८.११४ ॥
devasya'tveti mantreṇa cādarśaṃ darśayettataḥ . annādyāya samuccārya dantadhāvanamācareth .. 18.114 ..
हिरण्मयं वा रौप्यं वा दन्तकाष्ठं षडङ्गुलं । जौदुंबरं वा संपाद्य यथालाभं समाचरेथ् ॥ १८.११५ ॥
hiraṇmayaṃ vā raupyaṃ vā dantakāṣṭhaṃ ṣaḍaṅgulaṃ . jauduṃbaraṃ vā saṃpādya yathālābhaṃ samācareth .. 18.115 ..
इदं ब्रऽह्मेति मन्त्रेण जिह्माशोधनमाचरेथ् । यन्मे गर्भेऽसमुच्चार्य गण्डूषं क्षालनं तथा ॥ १८.११६ ॥
idaṃ bra'hmeti mantreṇa jihmāśodhanamācareth . yanme garbhe'samuccārya gaṇḍūṣaṃ kṣālanaṃ tathā .. 18.116 ..
शन्नोदेवीऽरिति प्रोच्य दद्यादाचमनं ततः । विचक्रमेऽ नमुच्चार्य मुखवासं प्रदापयेथ् ॥ १८.११७ ॥
śannodevī'riti procya dadyādācamanaṃ tataḥ . vicakrame' namuccārya mukhavāsaṃ pradāpayeth .. 18.117 ..
पूर्ववस्त्रं विसृज्यैव परिधाप्यान्यवाससा । ग्रीवायाः पृष्ठतः कुर्यादवकुण्ठनमादराथ् ॥ १८.११८ ॥
pūrvavastraṃ visṛjyaiva paridhāpyānyavāsasā . grīvāyāḥ pṛṣṭhataḥ kuryādavakuṇṭhanamādarāth .. 18.118 ..
केशान्विकीर्य मन्त्रज्ञो वामभागे च सुस्थितः । उवानहाऽविति प्रोच्य पुरस्तात्पादुकेन्यसेथ् ॥ १८.११९ ॥
keśānvikīrya mantrajño vāmabhāge ca susthitaḥ . uvānahā'viti procya purastātpādukenyaseth .. 18.119 ..
भूःप्रपद्येऽ समुच्चार्य प्रणम्य जगतां पतिं । पर ब्रऽह्मेति मन्त्रेण समादाय तु कौतुकं ॥ १८.१२० ॥
bhūḥprapadye' samuccārya praṇamya jagatāṃ patiṃ . para bra'hmeti mantreṇa samādāya tu kautukaṃ .. 18.120 ..
स्वस्तिसूक्तं ततो जप्त्वा प्रतद्विष्णुऽरिति ब्रुवन् । स्नानपीठे सुसंस्थाप्य पाद्यमाचमनं ददेथ् ॥ १८.१२१ ॥
svastisūktaṃ tato japtvā pratadviṣṇu'riti bruvan . snānapīṭhe susaṃsthāpya pādyamācamanaṃ dadeth .. 18.121 ..
अतो देवादिमन्त्रैस्तु तैलमालिप्य मूर्धनि । तथैव विष्णुगायत्षा सर्वांगाण्यनुलेपयेथ् ॥ १८.१२२ ॥
ato devādimantraistu tailamālipya mūrdhani . tathaiva viṣṇugāyatṣā sarvāṃgāṇyanulepayeth .. 18.122 ..
परिलिखितऽमिति मन्त्रेण सर्वाङ्गमपि शोधयेथ् । आम्लेन खण्डशीकेन शर्कराभिर्यथोचितं ॥ १८.१२३ ॥
parilikhita'miti mantreṇa sarvāṅgamapi śodhayeth . āmlena khaṇḍaśīkena śarkarābhiryathocitaṃ .. 18.123 ..
अलाशोधनं कुर्याच्छ्रीपत्रामलकांबुना । शालिपिष्टेन गन्धाद्यैरङ्गशोधनमाचरेथ् ॥ १८.१२४ ॥
alāśodhanaṃ kuryācchrīpatrāmalakāṃbunā . śālipiṣṭena gandhādyairaṅgaśodhanamācareth .. 18.124 ..
विशदं शोधयित्वातु संस्नाप्योष्णेन वारिणा । वारीश्चतस्रऽइत्युक्त्वा शुद्धोदैरभिषेचयेथ् ॥ १८.१२५ ॥
viśadaṃ śodhayitvātu saṃsnāpyoṣṇena vāriṇā . vārīścatasra'ityuktvā śuddhodairabhiṣecayeth .. 18.125 ..
नमो वरुणऽइत्युक्त्वा गोक्षीरैरभिषेचयेथ् । भूरानिलयऽमन्त्रेण स्नापयेद्गन्धवारिणा ॥ १८.१२६ ॥
namo varuṇa'ityuktvā gokṣīrairabhiṣecayeth . bhūrānilaya'mantreṇa snāpayedgandhavāriṇā .. 18.126 ..
अग्निमीलेऽसमुच्चार्य मधुना स्नानमाचरेथ् । सीनीवाऽलीति मन्त्रेण हारिद्रोदकसेचनं ॥ १८.१२७ ॥
agnimīle'samuccārya madhunā snānamācareth . sīnīvā'līti mantreṇa hāridrodakasecanaṃ .. 18.127 ..
तत्तद्द्रव्यान्तरे चैव भवेच्छुद्धोदकाप्लपः । पुनर्गन्धोदकेनैव "गन्धद्वाराऽ मुदीर्य च ॥ १८.१२८ ॥
tattaddravyāntare caiva bhavecchuddhodakāplapaḥ . punargandhodakenaiva "gandhadvārā' mudīrya ca .. 18.128 ..
स्नापयेद्देवदेवेशं तूर्यघोषपुरस्सरं । चतुर्वेदादिमन्त्रैश्च शुद्धोदैस्स्नापयेत्पुनः ॥ १८.१२९ ॥
snāpayeddevadeveśaṃ tūryaghoṣapurassaraṃ . caturvedādimantraiśca śuddhodaissnāpayetpunaḥ .. 18.129 ..
मित्रस्सुपर्णऽइत्युक्त्वा विमृज्य प्लोतवासना । पूर्ववस्त्रं विसृज्यैप परीधाप्य तथेतरथ् ॥ १८.१३० ॥
mitrassuparṇa'ityuktvā vimṛjya plotavāsanā . pūrvavastraṃ visṛjyaipa parīdhāpya tathetarath .. 18.130 ..
पाद्यमाचमनं दद्यात्पूर्वोक्तेन विधानतः । प्रणम्य देवदेवेशं दत्वापुष्बाञ्जलिं ततः ॥ १८.१३१ ॥
pādyamācamanaṃ dadyātpūrvoktena vidhānataḥ . praṇamya devadeveśaṃ datvāpuṣbāñjaliṃ tataḥ .. 18.131 ..
भूरसि भूऽरित्युच्चार्य जीवस्थाने निवेशयेथ् । त्रिर्देवऽमन्त्रमुच्चार्य दृश्याघन्य्न्तु समर्पयेथ् ॥ १८.१३२ ।
bhūrasi bhū'rityuccārya jīvasthāne niveśayeth . trirdeva'mantramuccārya dṛśyāghanyntu samarpayeth .. 18.132 .
ततःप्रोक्ष्य ध्रुवस्थानं गायत्रीमन्त्रमुच्चरन् । संयुक्तमेतऽदुच्चार्य ध्रुवकौतुकयोन्ततः ॥ १८.१३३ ॥
tataḥprokṣya dhruvasthānaṃ gāyatrīmantramuccaran . saṃyuktameta'duccārya dhruvakautukayontataḥ .. 18.133 ..
संबन्धार्थं न्यसेत्कूर्चं कौतुकाग्रं विधानतः । गायत्षा ध्रुवपीठन्तु प्रोक्ष्य शुद्धेन वारिणा ॥ १८.१३४ ॥
saṃbandhārthaṃ nyasetkūrcaṃ kautukāgraṃ vidhānataḥ . gāyatṣā dhruvapīṭhantu prokṣya śuddhena vāriṇā .. 18.134 ..
विष्णवे नमऽइत्युक्त्वा देवदेवमनुस्मरन् । ध्रुवस्य पादयोर्मध्ये पुष्पन्यासं समाचरेथ् ॥ १८.१३५ ॥
viṣṇave nama'ityuktvā devadevamanusmaran . dhruvasya pādayormadhye puṣpanyāsaṃ samācareth .. 18.135 ..
प्रागादि च न्यसेत्तत्र पादक्षिण्यक्रमेण वै । चतुर्थ्यन्तेन पुष्पाणिपुरुषं सत्यमच्युतं ॥ १८.१३६ ॥
prāgādi ca nyasettatra pādakṣiṇyakrameṇa vai . caturthyantena puṣpāṇipuruṣaṃ satyamacyutaṃ .. 18.136 ..
अनिरुद्धमिति रोच्य महादिक्षु चतुर्षु च । आग्नेयादि तथा न्यन्येद्विदिक्षु च क्रमेण वै ॥ १८.१३७ ॥
aniruddhamiti rocya mahādikṣu caturṣu ca . āgneyādi tathā nyanyedvidikṣu ca krameṇa vai .. 18.137 ..
कपिलं चैव यज्ञं च नारायणं पुण्यमेव च । प्रथमावरणं चैतद्द्वितीयावरणे ततः ॥ १८.१३८ ॥
kapilaṃ caiva yajñaṃ ca nārāyaṇaṃ puṇyameva ca . prathamāvaraṇaṃ caitaddvitīyāvaraṇe tataḥ .. 18.138 ..
पूर्वोक्तेन क्रमेणैव वाराहं नारसिंहकं । वामनं त्रिविक्रमं चैव सुभद्रं च ततः परं ॥ १८.१३९ ॥
pūrvoktena krameṇaiva vārāhaṃ nārasiṃhakaṃ . vāmanaṃ trivikramaṃ caiva subhadraṃ ca tataḥ paraṃ .. 18.139 ..
ईशितात्मानमित्युक्त्वा सर्वोद्वहमतः परं । सर्वविद्वेश्वरं चेति समभ्यर्च्येद्बहिर्मुखान् ॥ १८.१४० ॥
īśitātmānamityuktvā sarvodvahamataḥ paraṃ . sarvavidveśvaraṃ ceti samabhyarcyedbahirmukhān .. 18.140 ..
तृतीयावरणे तत्तद्दिगीशांश्च समर्चयेथ् । श्रीफूम्योर्मूर्तिमन्त्रैश्च देव्योरपि समाचरेथ् ॥ १८.१४१ ॥
tṛtīyāvaraṇe tattaddigīśāṃśca samarcayeth . śrīphūmyormūrtimantraiśca devyorapi samācareth .. 18.141 ..
एवं ध्रुवस्य पीठे तु पुष्पन्यास उदाहृतः । अथ कौतुकपीठे तु पूर्वोक्तेन क्रमेण वै ॥ १८.१४२ ॥
evaṃ dhruvasya pīṭhe tu puṣpanyāsa udāhṛtaḥ . atha kautukapīṭhe tu pūrvoktena krameṇa vai .. 18.142 ..
प्राच्यां सुभद्रमावाह्य हयात्मकमतः परं । रामदेवं पुण्यदेवं सर्वं चैव सुखावहं ॥ १८.१४३ ॥
prācyāṃ subhadramāvāhya hayātmakamataḥ paraṃ . rāmadevaṃ puṇyadevaṃ sarvaṃ caiva sukhāvahaṃ .. 18.143 ..
संवहं सुवहं चेति प्रथमावरणेर्ऽचयेथ् । द्वितीयावरणे तद्वन्मित्र मत्रिं शिवं ततः ॥ १८.१४४ ॥
saṃvahaṃ suvahaṃ ceti prathamāvaraṇer'cayeth . dvitīyāvaraṇe tadvanmitra matriṃ śivaṃ tataḥ .. 18.144 ..
विश्वं सनातनं चैव सनर्थनमतः परं । सनत्कुमारं सनकमर्चयेच्च बहिर्मुखान् ॥ १८.१४५ ॥
viśvaṃ sanātanaṃ caiva sanarthanamataḥ paraṃ . sanatkumāraṃ sanakamarcayecca bahirmukhān .. 18.145 ..
तृतीयावरणे तद्वल्लोकपालान्त्समर्चयेथ् । प्रणवादि नमोऽन्तं स्यादर्चनं न्यास उच्यते ॥ १८.१४६ ॥
tṛtīyāvaraṇe tadvallokapālāntsamarcayeth . praṇavādi namo'ntaṃ syādarcanaṃ nyāsa ucyate .. 18.146 ..
एकादशभिरष्टाभिरुपचारैस्तथार्चयेथ् । तत्र देव्योश्च विधिना ध्रुवतेव्योरिवाचरेथ् ॥ १८.१४७ ॥
ekādaśabhiraṣṭābhirupacāraistathārcayeth . tatra devyośca vidhinā dhruvatevyorivācareth .. 18.147 ..
मार्कण्डेयं भृगुं चैव देवदक्षिणवामयोः । ब्रह्माणं शङ्करं तद्वद्भित्तिपार्श्वे समर्चयेथ् ॥ १८.१४८ ॥
mārkaṇḍeyaṃ bhṛguṃ caiva devadakṣiṇavāmayoḥ . brahmāṇaṃ śaṅkaraṃ tadvadbhittipārśve samarcayeth .. 18.148 ..
देवेशाभिमुखानेतान्यथाविधि समर्चयेथ् । द्वारार्चनं समारभ्य शिष्यः कुर्याद्गुरूदितः ॥ १८.१४९ ॥
deveśābhimukhānetānyathāvidhi samarcayeth . dvārārcanaṃ samārabhya śiṣyaḥ kuryādgurūditaḥ .. 18.149 ..
द्वारे द्वारे द्वारदेवान्द्वारपालान्त्समर्चयेथ् । विमानपालान्लोकेशांस्तथा चैवऽनपायिनः ॥ १८.१५० ॥
dvāre dvāre dvāradevāndvārapālāntsamarcayeth . vimānapālānlokeśāṃstathā caiva'napāyinaḥ .. 18.150 ..
परिवारांस्तथान्यांश्च विष्णुभूतान्तमेव च । तत्तन्नाम्ना समभ्यर्च्य भूरानिलयऽ मन्त्रतः ॥ १८.१५१ ॥
parivārāṃstathānyāṃśca viṣṇubhūtāntameva ca . tattannāmnā samabhyarcya bhūrānilaya' mantrataḥ .. 18.151 ..
द्वारप्रक्षालनं कृत्वा दक्षिणे मध्यवामयोः । धर्मं ज्ञानमथैश्वर्य मावाह्य सुसमर्चयेथ् ॥ १८.१५२ ॥
dvāraprakṣālanaṃ kṛtvā dakṣiṇe madhyavāmayoḥ . dharmaṃ jñānamathaiśvarya māvāhya susamarcayeth .. 18.152 ..
सर्वत्र द्वारवामे तु रक्षार्थं शान्तमर्चयेथ् । ततो यवनिकां कुर्याद्द्वारे क्ष्ॐआदिनिर्मितां ॥ १८.१५३ ॥
sarvatra dvāravāme tu rakṣārthaṃ śāntamarcayeth . tato yavanikāṃ kuryāddvāre kṣ_oṃādinirmitāṃ .. 18.153 ..
स्त्रियश्शूद्रान्तु पतिताः पाषण्डा वेदनिन्दकाः । देवतान्तर भक्ताश्च पापरोगादिपीडिताः ॥ १८.१५४ ॥
striyaśśūdrāntu patitāḥ pāṣaṇḍā vedanindakāḥ . devatāntara bhaktāśca pāparogādipīḍitāḥ .. 18.154 ..
अभिशस्ताश्च ये पापाश्शास्त्रेषु तु विनिन्दिताः । पूजाकाले तु नार्हन्ति सेवितुं हरिमव्ययं ॥ १८.१५५ ॥
abhiśastāśca ye pāpāśśāstreṣu tu vininditāḥ . pūjākāle tu nārhanti sevituṃ harimavyayaṃ .. 18.155 ..
ध्यानमाविश्य तत्काले पूजकस्सुसमाहितः । आत्मसूक्तं जपित्वैव साक्षान्नारायणो भवेथ् ॥ १८.१५६ ॥
dhyānamāviśya tatkāle pūjakassusamāhitaḥ . ātmasūktaṃ japitvaiva sākṣānnārāyaṇo bhaveth .. 18.156 ..
विष्णुं व्यापिनमात्मान मखण्डानन्दचिन्मयं । रुक्माभं रक्तनेत्रास्यपाणिपादं सुखोद्वहं ॥ १८.१५७ ॥
viṣṇuṃ vyāpinamātmāna makhaṇḍānandacinmayaṃ . rukmābhaṃ raktanetrāsyapāṇipādaṃ sukhodvahaṃ .. 18.157 ..
किरीटहारकेयूरकुण्डलाङ्गदभूषितं । शङ्खचक्रधरं देवं वरदाभयचिह्नितं ॥ १८.१५८ ॥
kirīṭahārakeyūrakuṇḍalāṅgadabhūṣitaṃ . śaṅkhacakradharaṃ devaṃ varadābhayacihnitaṃ .. 18.158 ..
श्रीवत्सांकं महाबाहुं कौस्तुभोद्भासितोरसं । शुकपिञ्छांबरधरं प्रलंबब्रह्मसूत्रिणं ॥ १८.१५९ ॥
śrīvatsāṃkaṃ mahābāhuṃ kaustubhodbhāsitorasaṃ . śukapiñchāṃbaradharaṃ pralaṃbabrahmasūtriṇaṃ .. 18.159 ..
दिव्यायुधपरीवारं दिव्यभूषाविभूषितं । देवीभ्यां परिवारैश्च सेव्यमानं जगत्पतिं ॥ १८.१६० ॥
divyāyudhaparīvāraṃ divyabhūṣāvibhūṣitaṃ . devībhyāṃ parivāraiśca sevyamānaṃ jagatpatiṃ .. 18.160 ..
ध्यायेत्सन्निहितं बिंबे नारायणमनामयं । यथाबेरं तथा थात्वा न्यासकर्म ततश्चरेथ् ॥ १८.१६१ ॥
dhyāyetsannihitaṃ biṃbe nārāyaṇamanāmayaṃ . yathāberaṃ tathā thātvā nyāsakarma tataścareth .. 18.161 ..
सुवर्भुवर्भूरित्युक्त्वा मूर्ध्नि नाभौ च सादयोः । बिंबस्य व्याहृतीर्न्यस्येद्व्याहृतिन्यास उच्यते ॥ १८.१६२ ॥
suvarbhuvarbhūrityuktvā mūrdhni nābhau ca sādayoḥ . biṃbasya vyāhṛtīrnyasyedvyāhṛtinyāsa ucyate .. 18.162 ..
पादयोरन्तरे पीठे यकारं च ततोन्यसेथ् । अकारं हृदयेन्यस्य चादिबीजं ततःपुनः ॥ १८.१६३ ॥
pādayorantare pīṭhe yakāraṃ ca tatonyaseth . akāraṃ hṛdayenyasya cādibījaṃ tataḥpunaḥ .. 18.163 ..
आवेष्ट्य प्रणवेनैतान्प्रणामं पुनराचरेथ् । पुष्पगन्धाक्षतैर्युक्तं शुद्धोदैरभिपूरितं ॥ १८.१६४ ॥
āveṣṭya praṇavenaitānpraṇāmaṃ punarācareth . puṣpagandhākṣatairyuktaṃ śuddhodairabhipūritaṃ .. 18.164 ..
प्रणिधिं चौर्ध्वमुद्धृत्य दीपाद्दीपमिवक्रमाथ् । इदं विष्णुरितिऽप्रोच्य चायातु भगवाऽनिति ॥ १८.१६५ ॥
praṇidhiṃ caurdhvamuddhṛtya dīpāddīpamivakramāth . idaṃ viṣṇuriti'procya cāyātu bhagavā'niti .. 18.165 ..
प्रणवात्मकमव्यक्तं दिव्यमङ्गलविग्रहं । ध्रुवात्प्रणिधितोये तु कूर्चेवावाहयेद्धरिं ॥ १८.१६६ ॥
praṇavātmakamavyaktaṃ divyamaṅgalavigrahaṃ . dhruvātpraṇidhitoye tu kūrcevāvāhayeddhariṃ .. 18.166 ..
तद्व्याप्तं तो यमादाय कौतुकस्य तु मूर्ध नि । प्रणवेन समास्राव्य कूर्चेवावाहयेद्गुरुः ॥ १८.१६७ ॥
tadvyāptaṃ to yamādāya kautukasya tu mūrdha ni . praṇavena samāsrāvya kūrcevāvāhayedguruḥ .. 18.167 ..
मूर्तिमन्त्रान्त्समुच्चार्य तत्र कार्यं समाचरेथ् । देव्यौ चैव तथावाह्य सम्यगभ्यर्चयेद्बुधः ॥ १८.१६८ ॥
mūrtimantrāntsamuccārya tatra kāryaṃ samācareth . devyau caiva tathāvāhya samyagabhyarcayedbudhaḥ .. 18.168 ..
तथैवावाहयेद्विद्वान्विधिना चोत्सवादिषु । कैतुकाद्बलिबेरस्य केचिदावाहनं विदुः ॥ १८.१६९ ॥
tathaivāvāhayedvidvānvidhinā cotsavādiṣu . kaitukādbaliberasya kecidāvāhanaṃ viduḥ .. 18.169 ..
अलङ्कारासनं पश्चात्संकल्स्य च यथाविधि । असनं मन्त्रवद्दद्याद्देवेशमनुमानयेथ् ॥ १८.१७० ॥
alaṅkārāsanaṃ paścātsaṃkalsya ca yathāvidhi . asanaṃ mantravaddadyāddeveśamanumānayeth .. 18.170 ..
पाद्यमाचमनं चापि दद्यात्पूर्वोक्तमन्त्रतः । तेजोवत्क्यावऽवमन्त्रेण वस्त्रं क्ष्ॐआदिचार्पयेथ् ॥ १८.१७१ ॥
pādyamācamanaṃ cāpi dadyātpūrvoktamantrataḥ . tejovatkyāva'vamantreṇa vastraṃ kṣ_oṃādicārpayeth .. 18.171 ..
भूतो भूतेषुऽ मन्त्रेण भूषणैश्च विभूष्य च । सोमस्य तनूरऽसीत्युक्त्वाधारयेदुत्तरीयकं ॥ १८.१७२ ॥
bhūto bhūteṣu' mantreṇa bhūṣaṇaiśca vibhūṣya ca . somasya tanūra'sītyuktvādhārayeduttarīyakaṃ .. 18.172 ..
अष्टाक्षरेण मन्त्रेण चोर्ध्वपुण्ड्रं च धारयेथ् । अग्निं दूतमिऽति प्रोच्य यज्ञसूत्रं समर्पयेथ् ॥ १८.१७३ ॥
aṣṭākṣareṇa mantreṇa cordhvapuṇḍraṃ ca dhārayeth . agniṃ dūtami'ti procya yajñasūtraṃ samarpayeth .. 18.173 ..
तद्विष्णोरिति मन्त्रेण पुष्पाद्यैः पूजयेत्ततः । मूर्तिमन्त्रान्त्समुच्चार्य केशवादिभिरेव वा ॥ १८.१७४ ॥
tadviṣṇoriti mantreṇa puṣpādyaiḥ pūjayettataḥ . mūrtimantrāntsamuccārya keśavādibhireva vā .. 18.174 ..
अष्टोत्तरशतैस्तद्वदष्टोत्तरसहस्रकैः । अनन्तैनान्मभिः पूज्योऽनन्तनामा भवान्हरिः ॥ १८.१७५ ॥
aṣṭottaraśataistadvadaṣṭottarasahasrakaiḥ . anantainānmabhiḥ pūjyo'nantanāmā bhavānhariḥ .. 18.175 ..
तद्विप्रासऽ इति प्रोच्य चन्दनेनानुलेपयेथ् । परोमात्रऽयेत्युच्चार्य धूपमाघ्रापयेत्ततः ॥ १८.१७६ ॥
tadviprāsa' iti procya candanenānulepayeth . paromātra'yetyuccārya dhūpamāghrāpayettataḥ .. 18.176 ..
विष्णोः कर्माणिऽ मन्त्रेण दीपं तस्मै प्रदर्शयेथ् । त्रिर्देवऽइति मन्त्रेण दद्यादघं च पूर्ववथ् ॥ १८.१७७ ॥
viṣṇoḥ karmāṇi' mantreṇa dīpaṃ tasmai pradarśayeth . trirdeva'iti mantreṇa dadyādaghaṃ ca pūrvavath .. 18.177 ..
उपचारेषु सर्वेषु प्रियमघंन्य्हरेस्स्मृतं । तस्मान्निवेदयेद्धीमान्मधुपकोन्पमं शुभं ॥ १८.१७८ ॥
upacāreṣu sarveṣu priyamaghaṃnyharessmṛtaṃ . tasmānnivedayeddhīmānmadhupakonpamaṃ śubhaṃ .. 18.178 ..
अचमनन्तु तस्यान्ते पूर्वमन्त्रेण कारयेथ् । द्रोणतण्डुलमादाय तदर्धं पादमेववा ॥ १८.१७९ ॥
acamanantu tasyānte pūrvamantreṇa kārayeth . droṇataṇḍulamādāya tadardhaṃ pādamevavā .. 18.179 ..
तण्डुलार्थतिलैर्युक्तं मुखवासफलान्वितं । गृहीत्वा कांस्यपात्रेतु देवस्याग्रे निधाय च ॥ १८.१८० ॥
taṇḍulārthatilairyuktaṃ mukhavāsaphalānvitaṃ . gṛhītvā kāṃsyapātretu devasyāgre nidhāya ca .. 18.180 ..
दशन्येद्देवदेवस्य सोमं राजानऽमुच्चरन् । देवार्पितैस्तु निर्माल्यैः पूजयित्वार्ऽचकं ततः ॥ १८.१८१ ॥
daśanyeddevadevasya somaṃ rājāna'muccaran . devārpitaistu nirmālyaiḥ pūjayitvār'cakaṃ tataḥ .. 18.181 ..
घृतात्पऽरीति मन्त्रेण दशन्यित्वाकरं हरेः । अर्चकाय प्रदेयं स्यान्मात्रादानमिति स्मृतं ॥ १८.१८२ ॥
ghṛtātpa'rīti mantreṇa daśanyitvākaraṃ hareḥ . arcakāya pradeyaṃ syānmātrādānamiti smṛtaṃ .. 18.182 ..
बहुशो दक्षिणां दद्याद्दानसाद्गुण्यसिद्धये । देवस्यऽत्वेति मन्त्रेण परिगृह्य तदर्चकः ॥ १८.१८३ ॥
bahuśo dakṣiṇāṃ dadyāddānasādguṇyasiddhaye . devasya'tveti mantreṇa parigṛhya tadarcakaḥ .. 18.183 ..
उपयुञ्ज्यात्कुटुंबार्थे स हि दायहरो हरेः । देवद्रव्योवभोगे तु यश्शास्त्रैदोन्ष ईरितः ॥ १८.१८४ ॥
upayuñjyātkuṭuṃbārthe sa hi dāyaharo hareḥ . devadravyovabhoge tu yaśśāstraidonṣa īritaḥ .. 18.184 ..
वैखानसानां तद्दोषा नास्ति देवप्रसादतः । प्रणम्य देवदेवेशं मन्त्रैर्वेदादिसंभवैः ॥ १८.१८५ ॥
vaikhānasānāṃ taddoṣā nāsti devaprasādataḥ . praṇamya devadeveśaṃ mantrairvedādisaṃbhavaiḥ .. 18.185 ..
स्त्रोत्रैश्च विविधैन्त्सुत्वा पादे पुष्पाञ्जलिं क्षिपेथ् । दशन्येद्विविधाकारान्दीपान्मन्त्रेण तत्र तु ॥ १८.१८६ ॥
strotraiśca vividhaintsutvā pāde puṣpāñjaliṃ kṣipeth . daśanyedvividhākārāndīpānmantreṇa tatra tu .. 18.186 ..
कुंभदीपं समादाय देवाग्रे तु विनिक्षिपेथ् । वाराहं नारसिंहं च चामनं च त्रिविक्रमं ॥ १८.१८७ ॥
kuṃbhadīpaṃ samādāya devāgre tu vinikṣipeth . vārāhaṃ nārasiṃhaṃ ca cāmanaṃ ca trivikramaṃ .. 18.187 ..
दलेष्वभ्यर्च्य विधिना दीपे लक्ष्मीं समर्चयेथ् । वर्तिकायां श्रियं चैव धूमेऽभ्यर्च्यभवं तथा ॥ १८.१८८ ॥
daleṣvabhyarcya vidhinā dīpe lakṣmīṃ samarcayeth . vartikāyāṃ śriyaṃ caiva dhūme'bhyarcyabhavaṃ tathā .. 18.188 ..
प्रोक्ष्योपचारैरभ्यर्छ्य पुष्पगन्धादिभिः क्रमाथ् । "शुभ्रा ज्योतिऽरिति प्रोच्य कराभ्यां परिगृह्य च, ॥ १८.१८९ ॥
prokṣyopacārairabhyarchya puṣpagandhādibhiḥ kramāth . "śubhrā jyoti'riti procya karābhyāṃ parigṛhya ca, .. 18.189 ..
प्रदक्षिणं त्रिवारं तु दर्शयन्भ्रामयेद्धरिं । सर्ववाद्यसमायुक्तं तं दीपं परिगृह्य च ॥ १८.१९० ॥
pradakṣiṇaṃ trivāraṃ tu darśayanbhrāmayeddhariṃ . sarvavādyasamāyuktaṃ taṃ dīpaṃ parigṛhya ca .. 18.190 ..
शिष्यो वा गणिका वापि देवागारं परीत्य च । विसृजेच्चैव तं दीपं पृष्ठे यूथाधिपस्य च ॥ १८.१९१ ॥
śiṣyo vā gaṇikā vāpi devāgāraṃ parītya ca . visṛjeccaiva taṃ dīpaṃ pṛṣṭhe yūthādhipasya ca .. 18.191 ..
तद्दीपदर्शनान्नॄणामायुश्श्रीपुत्रसंवदः । संभवन्ति न सन्देहो विष्णोर्नी राजनं ही तथ् ॥ १८.१९२ ॥
taddīpadarśanānnṝṇāmāyuśśrīputrasaṃvadaḥ . saṃbhavanti na sandeho viṣṇornī rājanaṃ hī tath .. 18.192 ..
चित्रैश्चवालव्यजनैस्तत्काले वीजयेद्गुरुः । दर्बणं चामरं छत्रं व्यजनं चतुरङ्गकं ॥ १८.१९३ ॥
citraiścavālavyajanaistatkāle vījayedguruḥ . darbaṇaṃ cāmaraṃ chatraṃ vyajanaṃ caturaṅgakaṃ .. 18.193 ..
नृत्तं गीतं च वाद्यं च वैष्णवं मन्त्रमुच्चरन् । देवस्य दर्शयित्वातु स्तोत्रं वेदैःक्रमाच्चरेथ् ॥ १८.१९४ ॥
nṛttaṃ gītaṃ ca vādyaṃ ca vaiṣṇavaṃ mantramuccaran . devasya darśayitvātu stotraṃ vedaiḥkramāccareth .. 18.194 ..
तथा नानाविधैस्तोत्रैश्श्रावयेदच्युतं हरिं । अनुक्तं चैव यत्सर्वमूहयित्वा समाचरेथ् ॥ १८.१९५ ॥
tathā nānāvidhaistotraiśśrāvayedacyutaṃ hariṃ . anuktaṃ caiva yatsarvamūhayitvā samācareth .. 18.195 ..
श्रीभूम्योहृन्दये न्यस्य तत्तद्बीजाक्षरं पृथक् । तत्सूक्ताभ्यां षोडशोपचारैरभ्यर्चयेत्क्रमाथ् ॥ १८.१९६ ॥
śrībhūmyohṛndaye nyasya tattadbījākṣaraṃ pṛthak . tatsūktābhyāṃ ṣoḍaśopacārairabhyarcayetkramāth .. 18.196 ..
उत्चवादेश्च पूर्वोक्तं सर्वमर्चनमाचरेथ् । ततोभोज्याननं चैव संकल्प्य च यथाविधि ॥ १८.१९७ ॥
utcavādeśca pūrvoktaṃ sarvamarcanamācareth . tatobhojyānanaṃ caiva saṃkalpya ca yathāvidhi .. 18.197 ..
घृतं मधु गुडं चैव पयो दधि समन्वितं । प्रस्थमात्रं तु संग्राव्यां मधुपकन्मिहोच्यते ॥ १८.१९८ ॥
ghṛtaṃ madhu guḍaṃ caiva payo dadhi samanvitaṃ . prasthamātraṃ tu saṃgrāvyāṃ madhupakanmihocyate .. 18.198 ..
यन्मधुनेति मन्त्रेण मधुपाकं निवेदयेथ् । पश्चादाचमनं दत्वाशिष्यं कार्ये नियोजयेथ् ॥ १८.१९९ ॥
yanmadhuneti mantreṇa madhupākaṃ nivedayeth . paścādācamanaṃ datvāśiṣyaṃ kārye niyojayeth .. 18.199 ..
अथावनीदऽमन्त्रेण शोधयित्वा स्थलं ततः । मण्डलं चतुरश्रं च कारयेत्बरिचारकः ॥ १८.२०० ॥
athāvanīda'mantreṇa śodhayitvā sthalaṃ tataḥ . maṇḍalaṃ caturaśraṃ ca kārayetbaricārakaḥ .. 18.200 ..
हविः पात्राणि संशोध्य रविमभ्यर्छ्य तेषु वै । अभिघार्य घृतेनैव हविस्तत्र तु निक्षिपेथ् ॥ १८.२०१ ॥
haviḥ pātrāṇi saṃśodhya ravimabhyarchya teṣu vai . abhighārya ghṛtenaiva havistatra tu nikṣipeth .. 18.201 ..
अमृतोपस्तरणमऽसीत्यत्र कार्यं समाचरेथ् । उपदंशादिकं तत्र गुडं दधि फलानि च ॥ १८.२०२ ॥
amṛtopastaraṇama'sītyatra kāryaṃ samācareth . upadaṃśādikaṃ tatra guḍaṃ dadhi phalāni ca .. 18.202 ..
निक्षिप्य विष्णुगायत्षा पृथक्पात्रेष्वसंकरं । यत्ते सुसीमऽ मन्त्रेण गोघृतेनाभिघार्य च ॥ १८.२०३ ॥
nikṣipya viṣṇugāyatṣā pṛthakpātreṣvasaṃkaraṃ . yatte susīma' mantreṇa goghṛtenābhighārya ca .. 18.203 ..
देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८.२०४ ॥
devasyāgre tu nikṣipya tripādeṣu yathāvidhi . havirarpaṇakāle tu na sevyo harirucyate .. 18.204 ..
तस्माद्वैखानसान्हित्वा ब्राह्मणा अन्यसूत्रिणः । न विशेयुस्तथान्ये च तत्काले विष्णुमन्दिरं ॥ १८.२०५ ॥
tasmādvaikhānasānhitvā brāhmaṇā anyasūtriṇaḥ . na viśeyustathānye ca tatkāle viṣṇumandiraṃ .. 18.205 ..
कवाटं बन्धयेत्पश्चात्घण्टानादं च कारयेथ् । तूर्यघोषादिकं कुर्यान्मृडुवाद्यप्रियो हरिः ॥ १८.२०६ ॥
kavāṭaṃ bandhayetpaścātghaṇṭānādaṃ ca kārayeth . tūryaghoṣādikaṃ kuryānmṛḍuvādyapriyo hariḥ .. 18.206 ..
ततोर्ऽचकः प्रसन्नात्मा देवदेवमनुस्मरन् । हविःपात्रेषु तुलसीं निक्षिप्याष्टाक्षरेण तु ॥ १८.२०७ ॥
tator'cakaḥ prasannātmā devadevamanusmaran . haviḥpātreṣu tulasīṃ nikṣipyāṣṭākṣareṇa tu .. 18.207 ..
पुष्पैरभ्यर्च्य संप्रोक्ष्य प्रणवैः परिषिच्य च । अभिमृश्यान्नसूक्तेन सुरभिमुद्रां प्रदर्श्य च ॥ १८.२०८ ॥
puṣpairabhyarcya saṃprokṣya praṇavaiḥ pariṣicya ca . abhimṛśyānnasūktena surabhimudrāṃ pradarśya ca .. 18.208 ..
देवस्याग्रे तु निक्षिप्य त्रिपादेषु यथाविधि । हविरर्पणकाले तु न सेव्यो हरिरुच्यते ॥ १८.२०४ ॥
devasyāgre tu nikṣipya tripādeṣu yathāvidhi . havirarpaṇakāle tu na sevyo harirucyate .. 18.204 ..
तदस्य प्रियऽमित्युक्त्वा हविरुष्णं निवेदयेथ् । सुभूस्स्वयंभूंऽत्युक्त्वा अपूपं च निवेदयेथ् ॥ १८.२०९ ॥
tadasya priya'mityuktvā haviruṣṇaṃ nivedayeth . subhūssvayaṃbhūṃ'tyuktvā apūpaṃ ca nivedayeth .. 18.209 ..
पृथुकादीनि चान्यानि विश्वभेषजऽमन्त्रतः । अपक्वानि च वस्तूनि सर्वमष्टाक्षरेण तु ॥ १८.२१० ॥
pṛthukādīni cānyāni viśvabheṣaja'mantrataḥ . apakvāni ca vastūni sarvamaṣṭākṣareṇa tu .. 18.210 ..
इदं विष्णुऽस्समुच्चार्य पानीयं स्वादु शीतलं । निवेदयित्वा गण्डूषं पाद्यमाचमनं ददेत्, ॥ १८.२११ ॥
idaṃ viṣṇu'ssamuccārya pānīyaṃ svādu śītalaṃ . nivedayitvā gaṇḍūṣaṃ pādyamācamanaṃ dadet, .. 18.211 ..
घृतात्बऽरीति मन्त्रेण मुखवासं प्रदापयेथ् । विष्णुगायत्रीमुच्चार्य दद्यात्पुष्पाञ्जलिं ततः ॥ १८.२१२ ॥
ghṛtātba'rīti mantreṇa mukhavāsaṃ pradāpayeth . viṣṇugāyatrīmuccārya dadyātpuṣpāñjaliṃ tataḥ .. 18.212 ..
नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकं । चरुणाज्येन जुहुयास्मूर्तिमन्त्रैःक्रमाद्बुधः ॥ १८.२१३ ॥
nityāgnikuṇḍe chullyāṃ vā pariṣicya ca pāvakaṃ . caruṇājyena juhuyāsmūrtimantraiḥkramādbudhaḥ .. 18.213 ..
देव्यादिभ्यस्तथा हुत्वा वैष्णवं च यजेत्क्रमाथ् । पुष्पन्यासोक्तदेवेभ्यः पाषन्दानां तथैव च ॥ १८.२१४ ॥
devyādibhyastathā hutvā vaiṣṇavaṃ ca yajetkramāth . puṣpanyāsoktadevebhyaḥ pāṣandānāṃ tathaiva ca .. 18.214 ..
त्रिकालेषूत्तमं प्रोक्तमधमं प्रातरेवहि । प्रातर्मध्याह्नयोश्चैव मध्यमं होमलक्षणं ॥ १८.२१५ ॥
trikāleṣūttamaṃ proktamadhamaṃ prātarevahi . prātarmadhyāhnayoścaiva madhyamaṃ homalakṣaṇaṃ .. 18.215 ..
रक्षेदग्निमविच्छिन्नमशक्तो यश्च रक्षितं । समिध्यात्मनि वारोप्य प्रणीयाहरहर्यजेथ् ॥ १८.२१६ ॥
rakṣedagnimavicchinnamaśakto yaśca rakṣitaṃ . samidhyātmani vāropya praṇīyāharaharyajeth .. 18.216 ..
ततोयात्रासनं विद्वान्संकल्प्य विधिना बुधः । प्रोक्ष्यालङ्कृत्य चादाय रथं वा चतुरन्तरं ॥ १८.२१७ ॥
tatoyātrāsanaṃ vidvānsaṃkalpya vidhinā budhaḥ . prokṣyālaṅkṛtya cādāya rathaṃ vā caturantaraṃ .. 18.217 ..
बलिबेरं समारोप्य सर्वालङ्कारसंयुतं । रथन्तरंऽ समुच्चार्य तत्र कार्यं समाचरेथ् ॥ १८.२१८ ॥
baliberaṃ samāropya sarvālaṅkārasaṃyutaṃ . rathantaraṃ' samuccārya tatra kāryaṃ samācareth .. 18.218 ..
योगेशं परंब्रह्माणं परमात्मानमित्यपि । भक्तवत्सलऽमित्युक्त्वा मूर्तिमन्त्रैस्तथा हरिं ॥ १८.२१९ ॥
yogeśaṃ paraṃbrahmāṇaṃ paramātmānamityapi . bhaktavatsala'mityuktvā mūrtimantraistathā hariṃ .. 18.219 ..
नाराचरज्ज्वा नुदृढं बन्धयेद्रहसिक्रमाथ् । विष्णुस्त्वाऽमिति मन्त्रेण पादौ सृष्ट्वा नमेन्मुहुः ॥ १८.२२० ॥
nārācarajjvā nudṛḍhaṃ bandhayedrahasikramāth . viṣṇustvā'miti mantreṇa pādau sṛṣṭvā namenmuhuḥ .. 18.220 ..
सोमं राजानऽमुच्चार्य छत्रं मूर्धनि धारयेथ् । मरुतः परमाऽत्मेति पार्श्वयोश्चामरे ददेथ् ॥ १८.२२१ ॥
somaṃ rājāna'muccārya chatraṃ mūrdhani dhārayeth . marutaḥ paramā'tmeti pārśvayoścāmare dadeth .. 18.221 ..
वायुपऽरीति मन्त्रेण व्यजनैर्वीजयेद्धरिं । तथान्यैस्सुमहाहैन्श्च युक्तोदिव्यपरिच्छदैः ॥ १८.२२२ ॥
vāyupa'rīti mantreṇa vyajanairvījayeddhariṃ . tathānyaissumahāhainśca yuktodivyaparicchadaiḥ .. 18.222 ..
घण्टारवेण संयुक्तं शङ्खभेरीनिनादितैः । भेरीमृदङ्गपणवनिस्सालैः काहलैरपि ॥ १८.२२३ ॥
ghaṇṭāraveṇa saṃyuktaṃ śaṅkhabherīnināditaiḥ . bherīmṛdaṅgapaṇavanissālaiḥ kāhalairapi .. 18.223 ..
मर्दलैर्दिव्यवाद्यैश्च लयश्रुतिसमन्वितैः । उपतिष्ठेज्जगद्योनिं नारायणमनामयं ॥ १८.२२४ ॥
mardalairdivyavādyaiśca layaśrutisamanvitaiḥ . upatiṣṭhejjagadyoniṃ nārāyaṇamanāmayaṃ .. 18.224 ..
शिष्यमाहूय तत्काले सोष्णिषं सोत्तरीयकरं । ऊर्ध्वेपुष्पं च सन्न्यस्य प्रोक्षयित्वा च मन्त्रतः ॥ १८.२२५ ॥
śiṣyamāhūya tatkāle soṣṇiṣaṃ sottarīyakaraṃ . ūrdhvepuṣpaṃ ca sannyasya prokṣayitvā ca mantrataḥ .. 18.225 ..
तस्योष्णीषोपरिस्थाप्य बलिपात्रं विचक्षणः । अलङ्कृत्य च माल्याद्यैःपूजयेत्ताक्षन्य्वत्स्मरेथ् ॥ १८.२२६ ॥
tasyoṣṇīṣoparisthāpya balipātraṃ vicakṣaṇaḥ . alaṅkṛtya ca mālyādyaiḥpūjayettākṣanyvatsmareth .. 18.226 ..
वाहयित्वा बलिं तेन बलिपात्रेण चैव हि । सर्वद्वारेषु सर्वत्र पुष्पन्यासोक्तमागन्तः ॥ १८.२२७ ॥
vāhayitvā baliṃ tena balipātreṇa caiva hi . sarvadvāreṣu sarvatra puṣpanyāsoktamāgantaḥ .. 18.227 ..
पूर्वान्तमुत्तरान्तं च निक्षिपेत्तु बलिं क्रमाथ् । तोयं पुष्पं बलिं तोयं चत्वारस्तत्र विग्रहाः ॥ १८.२२८ ॥
pūrvāntamuttarāntaṃ ca nikṣipettu baliṃ kramāth . toyaṃ puṣpaṃ baliṃ toyaṃ catvārastatra vigrahāḥ .. 18.228 ..
ततो देवं समानीय क्रममाणाश्शनैश्सनैः । वाहका वाहयेयुस्तं रथं सर्वङ्गसुन्दरं ॥ १८.२२९ ॥
tato devaṃ samānīya kramamāṇāśśanaiśsanaiḥ . vāhakā vāhayeyustaṃ rathaṃ sarvaṅgasundaraṃ .. 18.229 ..
क्रमेण नम्रकायस्तु क्षिपेच्छिष्यो बलिं क्रमाथ् । बलिं दत्पाग्रतो गच्छेद्देवेन सह वा पृथक् ॥ १८.२३० ॥
krameṇa namrakāyastu kṣipecchiṣyo baliṃ kramāth . baliṃ datpāgrato gaccheddevena saha vā pṛthak .. 18.230 ..
ततो देवं क्रमान्नीत्वा प्रादक्षिण्यक्रमेण वै । तत्काले तु बलिर्देय स्तत्क्रमस्तुप्रवक्ष्यते ॥ १८.२३१ ॥
tato devaṃ kramānnītvā prādakṣiṇyakrameṇa vai . tatkāle tu balirdeya statkramastupravakṣyate .. 18.231 ..
मणिकं च ततस्सन्ध्यां प्रधमद्वारपालकौ । तापसं सिद्धिदं चैव द्वितीय द्वारपालकौ ॥ १८.२३२ ॥
maṇikaṃ ca tatassandhyāṃ pradhamadvārapālakau . tāpasaṃ siddhidaṃ caiva dvitīya dvārapālakau .. 18.232 ..
न्यक्षेन्द्रावन्तराले च यथाविधि समर्चयेथ् । प्रथमावरणद्वारे किष्किन्धं तीर्धमेव च ॥ १८.२३३ ॥
nyakṣendrāvantarāle ca yathāvidhi samarcayeth . prathamāvaraṇadvāre kiṣkindhaṃ tīrdhameva ca .. 18.233 ..
द्दितीयावरणद्वारे गणेशं शेषमर्चयेथ् । तृतीयावरणद्वारे शङ्खपद्मनिधी तथा ॥ १८.२३४ ॥
dditīyāvaraṇadvāre gaṇeśaṃ śeṣamarcayeth . tṛtīyāvaraṇadvāre śaṅkhapadmanidhī tathā .. 18.234 ..
तुहिणं च बलिन्दं च चतुर्थावरणे तथा । पञ्चमावरणे चैव खड्गं शाङ्खं समर्चयेथ् ॥ १८.२३५ ॥
tuhiṇaṃ ca balindaṃ ca caturthāvaraṇe tathā . pañcamāvaraṇe caiva khaḍgaṃ śāṅkhaṃ samarcayeth .. 18.235 ..
षष्ठे चावरण शङ्खचक्रचूडौ समर्चयेथ् । चण्डं तथा प्रचण्डं च सप्तमावरणेर्ऽचयेथ् ॥ १८.२३६ ॥
ṣaṣṭhe cāvaraṇa śaṅkhacakracūḍau samarcayeth . caṇḍaṃ tathā pracaṇḍaṃ ca saptamāvaraṇer'cayeth .. 18.236 ..
सोपानमध्ये श्रीभूतं गरुडं च समर्चयेथ् । हवीरक्षकमग्निं च आग्नेय्यां सम्यगर्चयेथ् ॥ १८.२३७ ॥
sopānamadhye śrībhūtaṃ garuḍaṃ ca samarcayeth . havīrakṣakamagniṃ ca āgneyyāṃ samyagarcayeth .. 18.237 ..
विमानदक्षिणे पार्श्वे विवस्वन्तं यमं तथा । नैरृत्यां वाद्यऽरक्षं च निरृतिं च समर्चयेथ् ॥ १८.२३८ ॥
vimānadakṣiṇe pārśve vivasvantaṃ yamaṃ tathā . nairṛtyāṃ vādya'rakṣaṃ ca nirṛtiṃ ca samarcayeth .. 18.238 ..
पश्चिमे मित्रमभ्यर्च्येत्तथा वरुणमेव च । वायव्यामर्चयेच्चैव पुष्पेशमरुतौ तथा ॥ १८.२३९ ॥
paścime mitramabhyarcyettathā varuṇameva ca . vāyavyāmarcayeccaiva puṣpeśamarutau tathā .. 18.239 ..
उत्तरस्यां तु क्षत्तारं कुबेरं च समर्चयेथ् । ईशानं भास्करं चैव तथैशान्ये समर्चयेथ् ॥ १८.२४० ॥
uttarasyāṃ tu kṣattāraṃ kuberaṃ ca samarcayeth . īśānaṃ bhāskaraṃ caiva tathaiśānye samarcayeth .. 18.240 ..
भूतपीठे समभ्यर्च्य चक्रं चैव ध्वजं तथा । शङ्खं यूथाधिपं चैव अक्षहन्तं तथार्चयेथ् ॥ १८.२४१ ॥
bhūtapīṭhe samabhyarcya cakraṃ caiva dhvajaṃ tathā . śaṅkhaṃ yūthādhipaṃ caiva akṣahantaṃ tathārcayeth .. 18.241 ..
पीठस्य दक्षिणे भागे "ये भूताऽ इति मन्त्रतः । भूतयक्षपिशाचेभ्यो बलिशेषं तु निर्वपेथ् ॥ १८.२४२ ॥
pīṭhasya dakṣiṇe bhāge "ye bhūtā' iti mantrataḥ . bhūtayakṣapiśācebhyo baliśeṣaṃ tu nirvapeth .. 18.242 ..
पादौ प्रक्षाल्य चाचम्य तत्र कार्यं समाचरेथ् । नृत्तगेयादियुक्तं तु दिव्यस्तोत्रैस्समन्वितं ॥ १८.२४३ ॥
pādau prakṣālya cācamya tatra kāryaṃ samācareth . nṛttageyādiyuktaṃ tu divyastotraissamanvitaṃ .. 18.243 ..
प्रदक्षिणत्रयं कृत्वा भ्रामयित्वा जगद्गुरुं । सोपानमध्ये संस्थाप्य रज्जुबन्धं विसृज्य च ॥ १८.२४४ ॥
pradakṣiṇatrayaṃ kṛtvā bhrāmayitvā jagadguruṃ . sopānamadhye saṃsthāpya rajjubandhaṃ visṛjya ca .. 18.244 ..
जयशब्दैस्तथामन्त्रैर्दद्यान्नी राजनं ततः । ततो देवं समादाय स्वस्थाने तु निवेशयेथ् ॥ १८.२४५ ॥
jayaśabdaistathāmantrairdadyānnī rājanaṃ tataḥ . tato devaṃ samādāya svasthāne tu niveśayeth .. 18.245 ..
विष्णुसूक्तं समुच्चार्य प्रणामं मुहुराचरेथ् । दद्यात्पुष्पाञ्जलिं चैव द्वादशाष्टषडक्षरैः ॥ १८.२४६ ॥
viṣṇusūktaṃ samuccārya praṇāmaṃ muhurācareth . dadyātpuṣpāñjaliṃ caiva dvādaśāṣṭaṣaḍakṣaraiḥ .. 18.246 ..
पौरुषं सूक्तमुच्चार्य प्रणवं च समुच्चरन् । मुखवासं समर्प्यैव शक्तितो दक्षिणां ददेथ् ॥ १८.२४७ ॥
pauruṣaṃ sūktamuccārya praṇavaṃ ca samuccaran . mukhavāsaṃ samarpyaiva śaktito dakṣiṇāṃ dadeth .. 18.247 ..
ततःपतद्ग्रहात्तीर्थमादायैव तु पूजकः । त्रिःपिबेन्नियतो भूत्वा तुलसीमपि भक्षयेथ् ॥ १८.२४८ ॥
tataḥpatadgrahāttīrthamādāyaiva tu pūjakaḥ . triḥpibenniyato bhūtvā tulasīmapi bhakṣayeth .. 18.248 ..
प्रत्यूषश्च प्रभातश्च मध्याह्नश्चापराह्मकः । सायङ्कालो निशीथश्च पूजाकालान्तु षट्स्मृताः ॥ १८.२४९ ॥
pratyūṣaśca prabhātaśca madhyāhnaścāparāhmakaḥ . sāyaṅkālo niśīthaśca pūjākālāntu ṣaṭsmṛtāḥ .. 18.249 ..
प्रातःकालेर्चनं कुर्याज्जपहोमाभिवृद्धये । राजराष्ट्राभिवृद्ध्यर्थं मध्याह्नार्चनमिष्यते ॥ १८.२५० ॥
prātaḥkālercanaṃ kuryājjapahomābhivṛddhaye . rājarāṣṭrābhivṛddhyarthaṃ madhyāhnārcanamiṣyate .. 18.250 ..
सायङ्कालेर्ऽचनं चैव सर्वसस्याभिवृद्धये । उषःकालार्ऽचनं प्रोक्तं प्रजापशुविवृद्धये ॥ १८.२५१ ॥
sāyaṅkāler'canaṃ caiva sarvasasyābhivṛddhaye . uṣaḥkālār'canaṃ proktaṃ prajāpaśuvivṛddhaye .. 18.251 ..
अपराह्णार्चनं चैव दैत्यनाशनहेतवे । अर्धरात्रार्ऽचनं प्रोक्तं चतुष्पादभिवृद्धये ॥ १८.२५२ ॥
aparāhṇārcanaṃ caiva daityanāśanahetave . ardharātrār'canaṃ proktaṃ catuṣpādabhivṛddhaye .. 18.252 ..
एवं षट्कालपूजायां फलमुक्तं विशेषतः । षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा ॥ १८.२५३ ॥
evaṃ ṣaṭkālapūjāyāṃ phalamuktaṃ viśeṣataḥ . ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā .. 18.253 ..
पूजनं देवदेवस्य त्वैहिकामुष्मिकप्रदं । षट्काल पूजने कुर्यादादावाहनंबुधः ॥ १८.२५४ ॥
pūjanaṃ devadevasya tvaihikāmuṣmikapradaṃ . ṣaṭkāla pūjane kuryādādāvāhanaṃbudhaḥ .. 18.254 ..
तथान्त्य वेलार्चनायां कुर्यादुद्वासनं परं । उपसन्ध्यासु देवेशमासनाद्यष्टविग्रहैः ॥ १८.२५५ ॥
tathāntya velārcanāyāṃ kuryādudvāsanaṃ paraṃ . upasandhyāsu deveśamāsanādyaṣṭavigrahaiḥ .. 18.255 ..
समभ्यर्च्य हविर्दद्याद्विना होमं बलिं तथा । पुष्पन्यासं च होमं च परिवारार्चनं बलिं ॥ १८.२५६ ॥
samabhyarcya havirdadyādvinā homaṃ baliṃ tathā . puṣpanyāsaṃ ca homaṃ ca parivārārcanaṃ baliṃ .. 18.256 ..
नित्ययात्रोत्सवं चैवेत्युपसन्ध्यासु वर्जयेथ् । त्रिकालमर्चनेऽन्यत्र म्नपनं प्रातरेव ही ॥ १८.२५७ ॥
nityayātrotsavaṃ caivetyupasandhyāsu varjayeth . trikālamarcane'nyatra mnapanaṃ prātareva hī .. 18.257 ..
प्रोक्षणं चान्यकाले तु मन्त्रेणेत्याह पूजनं । शिष्याणामप्यभावे तु वर्षाद्युपहतौ तथा ॥ १८.२५८ ॥
prokṣaṇaṃ cānyakāle tu mantreṇetyāha pūjanaṃ . śiṣyāṇāmapyabhāve tu varṣādyupahatau tathā .. 18.258 ..
तथा वाद्याद्यभावे वा बलिकाले समागते । तदा देवान्त्समावाह्य द्वाराग्रे निक्षिपेद्बलिं ॥ १८.२५९ ॥
tathā vādyādyabhāve vā balikāle samāgate . tadā devāntsamāvāhya dvārāgre nikṣipedbaliṃ .. 18.259 ..
सूर्यस्त्वामन्त्रमुच्चार्य कवाटं बन्धयेत्ततः । मध्याह्ने चैव सायाह्ने काले काले तथाचरेथ् ॥ १८.२६० ॥
sūryastvāmantramuccārya kavāṭaṃ bandhayettataḥ . madhyāhne caiva sāyāhne kāle kāle tathācareth .. 18.260 ..
तथैवोद्घटयेत्काले सर्वं पूर्ववदर्चनं । पुष्पं द्वारार्चितं शोध्य पुनर्द्वारे समर्चयेथ् ॥ १८.२६१ ॥
tathaivodghaṭayetkāle sarvaṃ pūrvavadarcanaṃ . puṣpaṃ dvārārcitaṃ śodhya punardvāre samarcayeth .. 18.261 ..
ध्रुवपीठेतु पुष्पाणि न शोध्यानि पुनःपुनः । तानि पुष्पाण्यनुद्धृत्य तदूर्ध्वे न्यासमाचरेत्, ॥ १८.२६२ ॥
dhruvapīṭhetu puṣpāṇi na śodhyāni punaḥpunaḥ . tāni puṣpāṇyanuddhṛtya tadūrdhve nyāsamācaret, .. 18.262 ..
सायार्चने तु तानि स्युनिन्र्माल्यानि न चान्यतः । कौतुकाद्यर्चितं पुष्पमादाय विधिना बुधः ॥ १८.२६३ ॥
sāyārcane tu tāni syuninrmālyāni na cānyataḥ . kautukādyarcitaṃ puṣpamādāya vidhinā budhaḥ .. 18.263 ..
पीठे पार्श्वे निधायान्यैरर्चयेत्तु नवैर्नवैः । अन्त्यवेलार्चनान्ते तु संकल्ब्य शयनासनं ॥ १८.२६४ ॥
pīṭhe pārśve nidhāyānyairarcayettu navairnavaiḥ . antyavelārcanānte tu saṃkalbya śayanāsanaṃ .. 18.264 ..
विमुच्य वस्त्रमाल्यादीन्सूक्ष्मवस्त्रं समर्प्य च । अभ्यर्च्य पुष्बगन्धाद्यैर्देवदेवं श्रियःपतिं ॥ १८.२६५ ॥
vimucya vastramālyādīnsūkṣmavastraṃ samarpya ca . abhyarcya puṣbagandhādyairdevadevaṃ śriyaḥpatiṃ .. 18.265 ..
सर्वौषधिविमिश्रं च कषायं तोयमेव च । निवेद्य देवदेवस्य मुखवासंप्रदापयेथ् ॥ १८.२६६ ॥
sarvauṣadhivimiśraṃ ca kaṣāyaṃ toyameva ca . nivedya devadevasya mukhavāsaṃpradāpayeth .. 18.266 ..
यद्वैष्णवऽमिति प्रोच्य मृदुवाद्यैर्मनोरमैः । दिव्योपधानसहिते दिव्यालङ्कारशोभिते ॥ १८.२६७ ॥
yadvaiṣṇava'miti procya mṛduvādyairmanoramaiḥ . divyopadhānasahite divyālaṅkāraśobhite .. 18.267 ..
परिष्कृते वितानाद्वैर्दिव्यधूपैः सुधूपिते । महाहान्स्तरणोपेते शयने शाययेद्धरिं ॥ १८.२६८ ॥
pariṣkṛte vitānādvairdivyadhūpaiḥ sudhūpite . mahāhānstaraṇopete śayane śāyayeddhariṃ .. 18.268 ..
श्रीभूम्यौ च समादाय तन्मन्त्राभ्यां क्रमाद्गुरुः । शाययेद्देवपाशेन्व्तु ध्रुवन्तऽइति चोच्चरेथ् ॥ १८.२६९ ॥
śrībhūmyau ca samādāya tanmantrābhyāṃ kramādguruḥ . śāyayeddevapāśenvtu dhruvanta'iti coccareth .. 18.269 ..
अरिचितस्सुष्टुतश्चासि सुपर्णगरुडध्वज । चक्रपाणे महाबाहो यथेष्टं वस ओं नमःऽ ॥ १८.२७० ॥
aricitassuṣṭutaścāsi suparṇagaruḍadhvaja . cakrapāṇe mahābāho yatheṣṭaṃ vasa oṃ namaḥ' .. 18.270 ..
इति मन्त्रं समुच्चार्य भक्त्या परमाया युतः । प्रातरावाहितां शक्तिं ध्रुवबेरेऽवरोपयेथ् ॥ १८.२७१ ॥
iti mantraṃ samuccārya bhaktyā paramāyā yutaḥ . prātarāvāhitāṃ śaktiṃ dhruvabere'varopayeth .. 18.271 ..
प्रदक्षिणं प्रणामं च कृत्वा मन्त्रेण देशिकः । स्तुत्वा पुरुषसूक्तेन विष्णुगायत्रिया तथा ॥ १८.२७२ ॥
pradakṣiṇaṃ praṇāmaṃ ca kṛtvā mantreṇa deśikaḥ . stutvā puruṣasūktena viṣṇugāyatriyā tathā .. 18.272 ..
व्यापकत्रयमन्त्रैश्च तथा विष्णोर्नुकाऽदिभिः । अतो देवाऽदिभिर्मन्त्रैर्मन्त्रैरन्यैश्च वैष्णवैः ॥ १८.२७३ ॥
vyāpakatrayamantraiśca tathā viṣṇornukā'dibhiḥ . ato devā'dibhirmantrairmantrairanyaiśca vaiṣṇavaiḥ .. 18.273 ..
एकाक्षरादिसूक्तैश्च द्वादशाष्टषडक्षरैः । मुहुःपुष्पाजलिं दत्वाक्षामयेद्दोषसंचयं ॥ १८.२७४ ॥
ekākṣarādisūktaiśca dvādaśāṣṭaṣaḍakṣaraiḥ . muhuḥpuṣpājaliṃ datvākṣāmayeddoṣasaṃcayaṃ .. 18.274 ..
अथ वक्ष्ये विशेषेण पूजनं चौत्सवादिषु । ब्रह्मस्थानं कौतुकस्य पूर्वमेव समीरितं ॥ १८.२७५ ॥
atha vakṣye viśeṣeṇa pūjanaṃ cautsavādiṣu . brahmasthānaṃ kautukasya pūrvameva samīritaṃ .. 18.275 ..
पाशन्व्योःकौतुकस्याथ स्थापयेत्स्नापनौत्सवौ । उत्तरे कौतुकस्यैव बलिबेरस्य संस्थितिः ॥ १८.२७६ ॥
pāśanvyoḥkautukasyātha sthāpayetsnāpanautsavau . uttare kautukasyaiva baliberasya saṃsthitiḥ .. 18.276 ..
गर्भालयस्य संकोचे त्वथ वा मुखमण्डपे । अन्तरालेऽथ वा स्थाप्य पूजयेत्स्नापनौत्सवौ ॥ १८.२७७ ॥
garbhālayasya saṃkoce tvatha vā mukhamaṇḍape . antarāle'tha vā sthāpya pūjayetsnāpanautsavau .. 18.277 ..
स्नापनौत्सवयोःकुर्यात्पूर्वोक्तार्चनमुत्तमं । आसनाद्युपचारांश्च कल्पयेत्षोडशाथ वा ॥ १८.२७८ ॥
snāpanautsavayoḥkuryātpūrvoktārcanamuttamaṃ . āsanādyupacārāṃśca kalpayetṣoḍaśātha vā .. 18.278 ..
त्रयोदशोपचारैश्च शान्तं सम्यक्समर्चयेथ् । नवोपचारैरभ्यर्च्येदनपायिगणांस्तथा ॥ १८.२७९ ॥
trayodaśopacāraiśca śāntaṃ samyaksamarcayeth . navopacārairabhyarcyedanapāyigaṇāṃstathā .. 18.279 ..
द्वारदेवान्द्वारपालान्लोकपालांस्तथैव च । अष्टोपचारैरभ्यर्च्येन्मूर्तिमन्त्रैः समाचरेथ् ॥ १८.२८० ॥
dvāradevāndvārapālānlokapālāṃstathaiva ca . aṣṭopacārairabhyarcyenmūrtimantraiḥ samācareth .. 18.280 ..
इतरान्परीवारांश्च यजेत्षोडशविग्रहैः । तथैव पाकलक्ष्म्याश्च द्वारलक्ष्म्याश्च कारयेथ् ॥ १८.२८१ ॥
itarānparīvārāṃśca yajetṣoḍaśavigrahaiḥ . tathaiva pākalakṣmyāśca dvāralakṣmyāśca kārayeth .. 18.281 ..
श्रीवत्सलक्ष्म्याश्च तथा देवेन सह चाचरेथ् । अवतारप्रतिष्ठायां ध्रुवर्चां वाथ कारयेथ् ॥ १८.२८२ ॥
śrīvatsalakṣmyāśca tathā devena saha cācareth . avatārapratiṣṭhāyāṃ dhruvarcāṃ vātha kārayeth .. 18.282 ..
त्रिविक्रमप्रतिष्ठायां ध्रुवार्चामर्चयेत्ततः ॥ १८.२८३ ॥
trivikramapratiṣṭhāyāṃ dhruvārcāmarcayettataḥ .. 18.283 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टादशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre'ṣṭādaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In