| |
|

This overlay will guide you through the buttons:

अथाष्टमोऽध्यायः.
अथ अष्टमः अध्यायः।
atha aṣṭamaḥ adhyāyaḥ.
पीठमानम्
अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः । भुवङ्गस्य समं वाथ अध्यर्थं त्रिगुणं तु वा ॥ ८.१ ॥
अथ पीठ-उदयम् विशेषतः । भुवङ्गस्य समम् वा अथ अध्यर्थम् त्रिगुणम् तु वा ॥ ८।१ ॥
atha pīṭha-udayam viśeṣataḥ . bhuvaṅgasya samam vā atha adhyartham triguṇam tu vā .. 8.1 ..
परितः पावयोरस्य नीत्वावै भागमङ्गुलं । ध्रुवार्चायामशेषेण षण्मानसहितं शुभं ॥ ८.२ ॥
परितस् भागम् अङ्गुलम् । ध्रुव-अर्चायाम् अशेषेण षष्-मान-सहितम् शुभम् ॥ ८।२ ॥
paritas bhāgam aṅgulam . dhruva-arcāyām aśeṣeṇa ṣaṣ-māna-sahitam śubham .. 8.2 ..
वक्ष्यामि देव्योर्मानं तत्कण्ठान्तं नासिकान्तकं । हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाध कारयेथ् ॥ ८.३ ॥
वक्ष्यामि देव्योः मानम् तद्-कण्ठ-अन्तम् नासिका-अन्तकम् । हनु-अस्तम् बाहु-सीमान्तम् नाभि-अन्तम् वा अध कारयेथ् ॥ ८।३ ॥
vakṣyāmi devyoḥ mānam tad-kaṇṭha-antam nāsikā-antakam . hanu-astam bāhu-sīmāntam nābhi-antam vā adha kārayeth .. 8.3 ..
चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा । ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेथ् ॥ ८.४ ॥
चतुर्धा एक-अंशकम् वा अपि तृतीय-एक-अंशकम् तु वा । ध्रुव-अर्चायाम् विशेषेण पीठम् एवम् ॥ ८।४ ॥
caturdhā eka-aṃśakam vā api tṛtīya-eka-aṃśakam tu vā . dhruva-arcāyām viśeṣeṇa pīṭham evam .. 8.4 ..
चतुरश्रं सुवृत्तं वा दलैष्षोडशभिर्युतं । स्थानकं चासनं वापि यानकं वा समाचरेथ् ॥ ८.५ ॥
चतुरश्रम् सु वृत्तम् वा दलैः षोडशभिः युतम् । स्थानकम् च आसनम् वा अपि यानकम् वा समाचरेथ् ॥ ८।५ ॥
caturaśram su vṛttam vā dalaiḥ ṣoḍaśabhiḥ yutam . sthānakam ca āsanam vā api yānakam vā samācareth .. 8.5 ..
गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलं । तस्योर्ध्ववेदिविस्तारं चतुरङ्गुलमेव हि ॥ ८.६ ॥
गर्भागार-त्रि-भाग-एकम् चतुर्-अश्रम् त्रि-मेखलम् । तस्य ऊर्ध्व-वेदि-विस्तारम् चतुर्-अङ्गुलम् एव हि ॥ ८।६ ॥
garbhāgāra-tri-bhāga-ekam catur-aśram tri-mekhalam . tasya ūrdhva-vedi-vistāram catur-aṅgulam eva hi .. 8.6 ..
उत्सेधं तस्य चार्धन्तुपरितश्चतुरङ्गुलं । विस्तारोत्सेधमानन्तु मध्येनिम्नं षडङ्गुलं ॥ ८.७ ॥
उत्सेधम् तस्य च अर्ध-न्तु-परितस् चतुर्-अङ्गुलम् । विस्तार-उत्सेध-मानम् तु मध्येनिम्नम् षष्-अङ्गुलम् ॥ ८।७ ॥
utsedham tasya ca ardha-ntu-paritas catur-aṅgulam . vistāra-utsedha-mānam tu madhyenimnam ṣaṣ-aṅgulam .. 8.7 ..
उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेथ् । प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेथ् ॥ ८.८ ॥
उदीच्यान्तु प्रतीच्यान्तु कारयेथ् । प्राच्-मुख-उदक्-मुखम् सूत्रम् दश सप्त समर्चयेथ् ॥ ८।८ ॥
udīcyāntu pratīcyāntu kārayeth . prāc-mukha-udak-mukham sūtram daśa sapta samarcayeth .. 8.8 ..
मध्ये कलापदं ब्राह्मं परितो दैविकं तथा । वैदाथिकाशीतिपदं मानुषं च तथैव च ॥ ८.९ ॥
मध्ये कला-पदम् ब्राह्मम् परितस् दैविकम् तथा । वैदाथिक-अशीति-पदम् मानुषम् च तथा एव च ॥ ८।९ ॥
madhye kalā-padam brāhmam paritas daivikam tathā . vaidāthika-aśīti-padam mānuṣam ca tathā eva ca .. 8.9 ..
पदं स्यात्षण्नवतिकं षष्टिःपैशाचिकं भवेथ् । अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकं ॥ ८.१० ॥
पदम् स्यात् षण्नवतिकम् षष्टिः पैशाचिकम् । अर्चा-स्थानम् तु ब्रह्म-अंशम् त्रिधा कृत्य च दैविकम् ॥ ८।१० ॥
padam syāt ṣaṇnavatikam ṣaṣṭiḥ paiśācikam . arcā-sthānam tu brahma-aṃśam tridhā kṛtya ca daivikam .. 8.10 ..
तथैव पश्चिमे भागे मध्ये वा स्थानकाय च । असनं वापि च तधा देवमानुषमध्यमे ॥ ८.११ ॥
तथा एव पश्चिमे भागे मध्ये वा स्थानकाय च । असनम् वा अपि च तधा देव-मानुष-मध्यमे ॥ ८।११ ॥
tathā eva paścime bhāge madhye vā sthānakāya ca . asanam vā api ca tadhā deva-mānuṣa-madhyame .. 8.11 ..
शयानं मानुषे पीठे स्थापयित्वा विशेषतः । ध्रुवार्चने विशेषेण नागसूत्रान्समर्प्य च ॥ ८.१२ ॥
शयानम् मानुषे पीठे स्थापयित्वा विशेषतः । ध्रुव-अर्चने विशेषेण नाग-सूत्रान् समर्प्य च ॥ ८।१२ ॥
śayānam mānuṣe pīṭhe sthāpayitvā viśeṣataḥ . dhruva-arcane viśeṣeṇa nāga-sūtrān samarpya ca .. 8.12 ..
कोष्टमेकान पञ्चाशद्भवति ब्राह्ममन्दिरं । दैविकं चाष्टभागन्तु मानुषं चार्त्विजं पदं ॥ ८.१३ ॥
पञ्चाशत् भवति ब्राह्म-मन्दिरम् । दैविकम् च अष्ट-भागन्तु मानुषम् च आर्त्विजम् पदम् ॥ ८।१३ ॥
pañcāśat bhavati brāhma-mandiram . daivikam ca aṣṭa-bhāgantu mānuṣam ca ārtvijam padam .. 8.13 ..
शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकं । ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ ॥ ८.१४ ॥
शेषम् पैशाचम् एवम् स्यात् शान्ति-पौष्टिक-दैविकम् । ब्रह्मस्थाने स्थापयेत् योग-वीरकौ ॥ ८।१४ ॥
śeṣam paiśācam evam syāt śānti-pauṣṭika-daivikam . brahmasthāne sthāpayet yoga-vīrakau .. 8.14 ..
भोगमेव ध्रुवार्चायां देवमानुषमध्यमे । वीरकं स्थापयेद्विद्वान्पैशाचे क्रमशस्सुधीः ॥ ८.१५ ॥
भोगम् एव ध्रुव-अर्चायाम् देव-मानुष-मध्यमे । वीरकम् स्थापयेत् विद्वान् पैशाचे क्रमशस् सुधीः ॥ ८।१५ ॥
bhogam eva dhruva-arcāyām deva-mānuṣa-madhyame . vīrakam sthāpayet vidvān paiśāce kramaśas sudhīḥ .. 8.15 ..
ग्राममध्ये ध्रुवार्चायां स्थापयेद्भोगमेव तु । योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेथ् ॥ ८.१६ ॥
ग्राम-मध्ये ध्रुव-अर्चायाम् स्थापयेत् भोगम् एव तु । योगपीठे ध्रुव-अर्चा चेद् तद्-ग्रामस्य ॥ ८।१६ ॥
grāma-madhye dhruva-arcāyām sthāpayet bhogam eva tu . yogapīṭhe dhruva-arcā ced tad-grāmasya .. 8.16 ..
अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा । आलयोद्दक्षिणे वापि वूर्वे वापि प्रपां तथा ॥ ८.१७ ॥
अन्येषाम् तु ध्रुव-अर्चायाम् भोगम् वा योगम् एव वा । आलय-उद्दक्षिणे वा अपि वूर्वे वा अपि प्रपाम् तथा ॥ ८।१७ ॥
anyeṣām tu dhruva-arcāyām bhogam vā yogam eva vā . ālaya-uddakṣiṇe vā api vūrve vā api prapām tathā .. 8.17 ..
वेदिं तन्मध्यमे कुर्याद्बिंबाध्यर्धप्रमाणतः । सभ्याग्निकुण्डं तत्प्राच्यां स्नानवेदिं तथोत्तरे ॥ ८.१८ ॥
वेदिम् तद्-मध्यमे कुर्यात् बिंब-अध्यर्ध-प्रमाणतः । सभ्य-अग्निकुण्डम् तद्-प्राच्याम् स्नान-वेदिम् तथा उत्तरे ॥ ८।१८ ॥
vedim tad-madhyame kuryāt biṃba-adhyardha-pramāṇataḥ . sabhya-agnikuṇḍam tad-prācyām snāna-vedim tathā uttare .. 8.18 ..
भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेथ् । कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा ॥ ८.१९ ॥
भूमि-यज्ञम् च पर्यग्नि प्रोक्षणम् चरेथ् । कलशैः सप्तभिः स्नाप्य वेद्याम् आरोपयेत् तथा ॥ ८।१९ ॥
bhūmi-yajñam ca paryagni prokṣaṇam careth . kalaśaiḥ saptabhiḥ snāpya vedyām āropayet tathā .. 8.19 ..
आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा । प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि ॥ ८.२० ॥
आच्छाद्य नव-वस्त्रेण कौतुकम् बर्धयेत् तथा । प्राक्-क्षीरः शाययेत् तत्र श्री-भूम्योः उभयोः अपि ॥ ८।२० ॥
ācchādya nava-vastreṇa kautukam bardhayet tathā . prāk-kṣīraḥ śāyayet tatra śrī-bhūmyoḥ ubhayoḥ api .. 8.20 ..
महाकायकृते बेरे प्रोक्षयेत्पञ्चगव्यकैः । अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेथ् ॥ ८.२१ ॥
महाकाय-कृते बेरे प्रोक्षयेत् पञ्चगव्यकैः । अन्यत् सर्व-क्रियाम् कृत्वा अ हौत्र-शंसनम् आचरेथ् ॥ ८।२१ ॥
mahākāya-kṛte bere prokṣayet pañcagavyakaiḥ . anyat sarva-kriyām kṛtvā a hautra-śaṃsanam ācareth .. 8.21 ..
आदिमूर्त्यादि सर्वास्तमावाहनमथाचरेथ् । अवाहनक्रमेणैव निरुप्याज्याहुतीर्यतेथ् ॥ ८.२२ ॥
आदि-मूर्ति-आदि सर्वाः तम् आवाहनम् अथ आचरेथ् । अवाहन-क्रमेण एव निरुप्य आज्य-आहुतिः ईर्यते ॥ ८।२२ ॥
ādi-mūrti-ādi sarvāḥ tam āvāhanam atha ācareth . avāhana-krameṇa eva nirupya ājya-āhutiḥ īryate .. 8.22 ..
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च । श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रन्तथैवच ॥ ८.२३ ॥
वैष्णवम् पौरुषम् सूक्तम् विष्णुसूक्तम् तथा एव च । श्री-भूसूक्तम् ततस् हुत्वा ब्राह्मम् रौद्रम् तथा एव च ॥ ८।२३ ॥
vaiṣṇavam pauruṣam sūktam viṣṇusūktam tathā eva ca . śrī-bhūsūktam tatas hutvā brāhmam raudram tathā eva ca .. 8.23 ..
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च । स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादराथ् ॥ ८.२४ ॥
नृत्तैः गेयैः च वाद्यैः च रात्रि-शेषम् विनीय च । स्नात्वा प्रभाते तु आचार्यः देवम् उत्थाप्य च आदराथ् ॥ ८।२४ ॥
nṛttaiḥ geyaiḥ ca vādyaiḥ ca rātri-śeṣam vinīya ca . snātvā prabhāte tu ācāryaḥ devam utthāpya ca ādarāth .. 8.24 ..
गर्भागारं प्रविश्यैव स्थापिते विहितेऽपि वा । न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा ॥ ८.२५ ॥
गर्भागारम् प्रविश्य एव स्थापिते विहिते अपि वा । न्यस्य पीठम् तु तद्-मध्ये रत्न-आदीन् विन्यसेत् तदा ॥ ८।२५ ॥
garbhāgāram praviśya eva sthāpite vihite api vā . nyasya pīṭham tu tad-madhye ratna-ādīn vinyaset tadā .. 8.25 ..
ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन् । तत्तन्मन्त्रेण देव्यादीन्स्थापयेद्विहिते पदे ॥ ८.२६ ॥
ध्रुवसूक्तेन संस्थाप्य अतस् देव-आदिम् उच्चरन् । तद्-तद्-मन्त्रेण देवी-आदीन् स्थापयेत् विहिते पदे ॥ ८।२६ ॥
dhruvasūktena saṃsthāpya atas deva-ādim uccaran . tad-tad-mantreṇa devī-ādīn sthāpayet vihite pade .. 8.26 ..
विधिना चाष्टबन्धन्तु संयोज्यैव तु पूरयेथ् । अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणां ॥ ८.२७ ॥
विधिना संयोज्य एव तु । अन्त-होमम् ततस् हुत्वा दद्यात् आचार्य-दक्षिणाम् ॥ ८।२७ ॥
vidhinā saṃyojya eva tu . anta-homam tatas hutvā dadyāt ācārya-dakṣiṇām .. 8.27 ..
शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमाथ् । शिलाप्रतिष्ठा चैवं स्याद्दारुसंग्रहणं ततः ॥ ८.२८ ॥
शिल्बिनम् च समाहूय शर्कराम् लेपयेत् क्रमाथ् । शिला-प्रतिष्ठा च एवम् स्यात् दारु-संग्रहणम् ततस् ॥ ८।२८ ॥
śilbinam ca samāhūya śarkarām lepayet kramāth . śilā-pratiṣṭhā ca evam syāt dāru-saṃgrahaṇam tatas .. 8.28 ..
दारुसंग्रहणं चन्दनं खदिरं तालमसनं । रक्तचन्दनम् राजानं चिरिबिल्वञ्च अशोकं स्तिमितं तथा ॥ ८.२९ ॥
दारु-संग्रहणम् चन्दनम् खदिरम् तालम् असनम् । रक्तचन्दनम् राजानम् चिरिबिल्वम् च अशोकम् स्तिमितम् तथा ॥ ८।२९ ॥
dāru-saṃgrahaṇam candanam khadiram tālam asanam . raktacandanam rājānam ciribilvam ca aśokam stimitam tathā .. 8.29 ..
खादिरं धन्विनं चैवशिरीषं पद्मकं तथा । इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि ॥ ८.३० ॥
खादिरम् धन्विनम् च एव शिरीषम् पद्मकम् तथा । इति एवमादयः वृक्षाः गृह्यन्ते बेर-कर्मणि ॥ ८।३० ॥
khādiram dhanvinam ca eva śirīṣam padmakam tathā . iti evamādayaḥ vṛkṣāḥ gṛhyante bera-karmaṇi .. 8.30 ..
चण्डालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते । मातृस्थानसमुद्बूते? श्मशाने देवमन्दिरे ॥ ८.३१ ॥
चण्डाल-स्थान-पार्श्वे तु दुष्ट-प्राणि-निषेविते । मातृ-स्थान-समुद्बूते? श्मशाने देवमन्दिरे ॥ ८।३१ ॥
caṇḍāla-sthāna-pārśve tu duṣṭa-prāṇi-niṣevite . mātṛ-sthāna-samudbūte? śmaśāne devamandire .. 8.31 ..
कूपवापीतटाकान्ते मुनिवासे सहालये । योगस्थानपदे धर्मशालायां मार्गमध्यमे ॥ ८.३२ ॥
कूप-वापी-तटाक-अन्ते मुनि-वासे सह आलये । योगस्थानपदे धर्मशालायाम् मार्ग-मध्यमे ॥ ८।३२ ॥
kūpa-vāpī-taṭāka-ante muni-vāse saha ālaye . yogasthānapade dharmaśālāyām mārga-madhyame .. 8.32 ..
प्रेतभूतालये चोरसत्त्वानां च निषेविते । प्रस्थानशलभस्थाने कल्पास्धिनिलयेऽपि च? ॥ ८.३३ ॥
प्रेत-भूत-आलये चोर-सत्त्वानाम् च निषेविते । प्रस्थान-शलभ-स्थाने कल्प-अस्धि-निलये अपि च? ॥ ८।३३ ॥
preta-bhūta-ālaye cora-sattvānām ca niṣevite . prasthāna-śalabha-sthāne kalpa-asdhi-nilaye api ca? .. 8.33 ..
सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके । एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः ॥ ८.३४ ॥
सौष्टाभूत-समुद्भूत-देशे? रौणिक-देशके । एवम् स्थाने समुद्भूतम् न गृह्णन्ति द्रुमम् ततस् ॥ ८।३४ ॥
sauṣṭābhūta-samudbhūta-deśe? rauṇika-deśake . evam sthāne samudbhūtam na gṛhṇanti drumam tatas .. 8.34 ..
पादानपावनं तर्धि मशनेर्यातिपीडनं । असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतं ॥ ८.३५ ॥
पादान पावनम् तर्धि । असाक्षिकम् सर्प-निलयम् बहु-वल्मीक-संयुतम् ॥ ८।३५ ॥
pādāna pāvanam tardhi . asākṣikam sarpa-nilayam bahu-valmīka-saṃyutam .. 8.35 ..
सुजनं तरुणं रूक्षं बहुपक्षसमाकुलं । अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनं ॥ ८.३६ ॥
सु जनम् तरुणम् रूक्षम् बहु-पक्ष-समाकुलम् । अस्थिरम् बहु-चक्रम् च सु शाखम् च एकशाखिनम् ॥ ८।३६ ॥
su janam taruṇam rūkṣam bahu-pakṣa-samākulam . asthiram bahu-cakram ca su śākham ca ekaśākhinam .. 8.36 ..
कर्मान्तरगृहितं च कर्मान्तरप्रयोजनं । एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि ॥ ८.३७ ॥
कर्मान्तर-गृहितम् च कर्मान्तर-प्रयोजनम् । एवम् ईदृग्विधम् वृक्षम् वर्जयेत् बेर-कर्मणि ॥ ८।३७ ॥
karmāntara-gṛhitam ca karmāntara-prayojanam . evam īdṛgvidham vṛkṣam varjayet bera-karmaṇi .. 8.37 ..
आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणं । विस्तारयामसंपन्नं शुभायैव समायुतं ॥ ८.३८ ॥
आ मूल-अग्रम् समम् वृत्तम् ऋजुम् च एव प्रदक्षिणम् । विस्तार-याम-संपन्नम् शुभाय एव समायुतम् ॥ ८।३८ ॥
ā mūla-agram samam vṛttam ṛjum ca eva pradakṣiṇam . vistāra-yāma-saṃpannam śubhāya eva samāyutam .. 8.38 ..
सुमध्यवयसोपेतं कालपुष्पफलप्रदं । ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते ॥ ८.३९ ॥
काल-पुष्प-फल-प्रदम् । ईदृग्विधम् महा-वृक्षम् शूल-अर्थम् परिगृह्णते ॥ ८।३९ ॥
kāla-puṣpa-phala-pradam . īdṛgvidham mahā-vṛkṣam śūla-artham parigṛhṇate .. 8.39 ..
एवं लक्षण संपन्नं द्रुमं गत्वा प्रसन्नधीः । तन्मूले गोमयेनापि लेपयेच्चतुरश्रकं ॥ ८.४० ॥
एवम् लक्षण-संपन्नम् द्रुमम् गत्वा प्रसन्न-धीः । तद्-मूले गोमयेन अपि लेपयेत् चतुरश्रकम् ॥ ८।४० ॥
evam lakṣaṇa-saṃpannam drumam gatvā prasanna-dhīḥ . tad-mūle gomayena api lepayet caturaśrakam .. 8.40 ..
दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणं । रथेवा शकटे वाथस्कन्थे वा क्षिप्य वेशयेथ् ॥ ८.४९ ॥
दिव्य-लक्षण-संयुक्तम् द्रुमम् कृत्वा प्रदक्षिणम् । शकटे वा अथ स्कन्थे वा क्षिप्य वेशयेथ् ॥ ८।४९ ॥
divya-lakṣaṇa-saṃyuktam drumam kṛtvā pradakṣiṇam . śakaṭe vā atha skanthe vā kṣipya veśayeth .. 8.49 ..
ग्रामं प्रदक्षिणङ्कृत्या स्वस्तिसूक्तं समुच्चरन् । शिष्टच्छायेसमे देशेतालुकोपरिशाययेथ् ॥ ८.५० ॥
ग्रामम् प्रदक्षिणङ्कृत्य आ स्वस्ति-सूक्तम् समुच्चरन् । शिष्ट-छाये समे देशे तालुका-उपरि ॥ ८।५० ॥
grāmam pradakṣiṇaṅkṛtya ā svasti-sūktam samuccaran . śiṣṭa-chāye same deśe tālukā-upari .. 8.50 ..
हेमरूप्यकृतं शूलं सर्वसंपत्समृद्धिदं । लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणं ॥ ८.५१ ॥
हेम-रूप्य-कृतम् शूलम् सर्व-संपद्-समृद्धि-दम् । लोहैः अन्यैः न कर्तव्यम् मभिचारस्य कारणम् ॥ ८।५१ ॥
hema-rūpya-kṛtam śūlam sarva-saṃpad-samṛddhi-dam . lohaiḥ anyaiḥ na kartavyam mabhicārasya kāraṇam .. 8.51 ..
विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च । ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयं ॥ ८.५२ ॥
विष्णुशूलम् तु केशानाम् श्रेष्ठम् पट्टिकम् एव च । ध्येयम् मेढ्र-आदयः ऊर्ध्वम् समम् भागस्य यत् त्रयम् ॥ ८।५२ ॥
viṣṇuśūlam tu keśānām śreṣṭham paṭṭikam eva ca . dhyeyam meḍhra-ādayaḥ ūrdhvam samam bhāgasya yat trayam .. 8.52 ..
ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखं । सरन्ध्रयवकं चोर्ध्वे मानशूलं शिरोधरं ॥ ८.५३ ॥
ऊरु-केशान्त-पर्यन्तम् तस्य अर्थम् च तकम् मुखम् । स रन्ध्र-यवकम् च ऊर्ध्वे मान-शूलम् शिरोधरम् ॥ ८।५३ ॥
ūru-keśānta-paryantam tasya artham ca takam mukham . sa randhra-yavakam ca ūrdhve māna-śūlam śirodharam .. 8.53 ..
हिक्कायां षड्यवं पञ्चाङ्गुलं नाभ्यन्तकं मतं । त्रयोदशाङ्गुलयवं ततो मेढ्रन्तु नाभ्यधः ॥ ८.५४ ॥
हिक्कायाम् षष्-यवम् पञ्च-अङ्गुलम् नाभ्यन्तकम् मतम् । त्रयोदश-अङ्गुल-यवम् ततस् मेढ्रम् तु नाभि-अधस् ॥ ८।५४ ॥
hikkāyām ṣaṣ-yavam pañca-aṅgulam nābhyantakam matam . trayodaśa-aṅgula-yavam tatas meḍhram tu nābhi-adhas .. 8.54 ..
योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्ट्ॐअतं ततः । हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांशकं ॥ ८.५५ ॥
ब्राह्मम् अष्टोंअतम् ततस् । हिक्काः तम् वैष्णवम् भागम् ततस् वृत्तम् शिव-अंशकम् ॥ ८।५५ ॥
brāhmam aṣṭoṃatam tatas . hikkāḥ tam vaiṣṇavam bhāgam tatas vṛttam śiva-aṃśakam .. 8.55 ..
उष्णीषं मातृकं शूलं स्थानादीनां सनातनं । स्थानासनशयानानां चतुरश्राष्टवर्तुलं ॥ ८.५६ ॥
उष्णीषम् मातृकम् शूलम् स्थान-आदीनाम् सनातनम् । स्थान-आसन-शयानानाम् चतुरश्र-अष्ट-वर्तुलम् ॥ ८।५६ ॥
uṣṇīṣam mātṛkam śūlam sthāna-ādīnām sanātanam . sthāna-āsana-śayānānām caturaśra-aṣṭa-vartulam .. 8.56 ..
यथाक्रमेण युञ्जीयादेवं वा पूर्वमुक्तवथ् । सर्वेषां देवतानां च सामान्यं च तुरश्रकं ॥ ८.५७ ॥
यथाक्रमेण युञ्जीयात् एवम् वा । सर्वेषाम् देवतानाम् च सामान्यम् च तुरश्रकम् ॥ ८।५७ ॥
yathākrameṇa yuñjīyāt evam vā . sarveṣām devatānām ca sāmānyam ca turaśrakam .. 8.57 ..
चतुर्मात्रार्धविस्तारं शूलमूलविशालकं । अग्रतारं चतुर्मात्रमष्टांशोनमथापि वा ॥ ८.५८ ॥
चतुर्-मात्रा-अर्ध-विस्तारम् शूल-मूल-विशालकम् । अग्र-तारम् चतुर्-मात्रम् अष्ट-अंश-ऊनम् अथ अपि वा ॥ ८।५८ ॥
catur-mātrā-ardha-vistāram śūla-mūla-viśālakam . agra-tāram catur-mātram aṣṭa-aṃśa-ūnam atha api vā .. 8.58 ..
द्वात्रिंशदङ्गुलायामं वक्षोदण्डस्य चोच्यते । तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः ॥ ८.५९ ॥
द्वात्रिंशत्-अङ्गुल-आयामम् वक्षोदण्डस्य च उच्यते । तर्म? विस्तृतयोः बाह्ये मातृ-सूत्र-सम-ऊर्धयोः ॥ ८।५९ ॥
dvātriṃśat-aṅgula-āyāmam vakṣodaṇḍasya ca ucyate . tarma? vistṛtayoḥ bāhye mātṛ-sūtra-sama-ūrdhayoḥ .. 8.59 ..
अङ्कुरार्पणम्
वक्षोदण्डायतं स्वेन मुखेन द्विगुणं मतं । उक्त्वासमन्तु बाह्यग्रेतत्सप्तांशविहीनकं ॥ ८.६० ॥
वक्षः-दण्ड-आयतम् स्वेन मुखेन द्विगुणम् मतम् । बाहि-अग्रे तद्-सप्त-अंश-विहीनकम् ॥ ८।६० ॥
vakṣaḥ-daṇḍa-āyatam svena mukhena dviguṇam matam . bāhi-agre tad-sapta-aṃśa-vihīnakam .. 8.60 ..
तारं सप्ताङ्गुलं तेषां येन सार्थं त्रिमात्रकं । षोढशाष्ट चतुर्मात्रायामतारसमन्वितं ॥ ८.६१ ॥
तारम् सप्त-अङ्गुलम् तेषाम् येन सार्थम् त्रि-मात्रकम् । षोढश-अष्ट-चतुर्-मात्र-आयाम-तार-समन्वितम् ॥ ८।६१ ॥
tāram sapta-aṅgulam teṣām yena sārtham tri-mātrakam . ṣoḍhaśa-aṣṭa-catur-mātra-āyāma-tāra-samanvitam .. 8.61 ..
कटिदण्डं भवेत्तस्य पार्श्वमध्यमनिम्नकं । कृत्वैव निम्नकं वक्षोदण्डमध्ये प्रकल्पयेथ् ॥ ८.६२ ॥
कटिदण्डम् भवेत् तस्य पार्श्व-मध्यम-निम्नकम् । कृत्वा एव निम्नकम् वक्षः-दण्ड-मध्ये ॥ ८।६२ ॥
kaṭidaṇḍam bhavet tasya pārśva-madhyama-nimnakam . kṛtvā eva nimnakam vakṣaḥ-daṇḍa-madhye .. 8.62 ..
शेषयोर्वंशदण्डे तु नाभ्यन्तं निम्नमध्यकं । दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि ॥ ८.६३ ॥
शेषयोः वंश-दण्डे तु नाभि-अन्तम् निम्न-मध्यकम् । दक्षिणे मूल-मध्ये तु अग्रम् कुर्यात् द्वयोः अपि ॥ ८।६३ ॥
śeṣayoḥ vaṃśa-daṇḍe tu nābhi-antam nimna-madhyakam . dakṣiṇe mūla-madhye tu agram kuryāt dvayoḥ api .. 8.63 ..
वक्षोदण्डस्यमूलाग्रे शिखा सूदस्रदायतं । कालाङ्गुलकलातारं कलार्धविपुलं मतं ॥ ८.६४ ॥
शिखा । ॥ ८।६४ ॥
śikhā . .. 8.64 ..
एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा । चतस्रश्शिबिका स्तस्मात्तस्या मेवाष्टबाहुके ॥ ८.६५ ॥
एवम् चतुर्-भुजम् कृत्वा द्वि-भुजे द्वि-शिखम् तथा । चतस्रः शिबिकाः स्तस्मात् तस्याः मेव अष्ट-बाहुके ॥ ८।६५ ॥
evam catur-bhujam kṛtvā dvi-bhuje dvi-śikham tathā . catasraḥ śibikāḥ stasmāt tasyāḥ meva aṣṭa-bāhuke .. 8.65 ..
यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः । अध्यर्धाङ्गुलविस्तारं शिखायामं तदेव हि ॥ ८.६६ ॥
यावन्तः बाहवः तस्मिन् स्तावत्यः च शिखाः मताः । अध्यर्ध-अङ्गुल-विस्तारम् शिखा-आयामम् तत् एव हि ॥ ८।६६ ॥
yāvantaḥ bāhavaḥ tasmin stāvatyaḥ ca śikhāḥ matāḥ . adhyardha-aṅgula-vistāram śikhā-āyāmam tat eva hi .. 8.66 ..
कटिदण्डं शिखायामं तारे द्वित्षङ्गुले क्रमाथ् । विन?द्विमात्रमेव स्याद्द्विशिखं कटिदण्डकं ॥ ८.६७ ॥
कटि-दण्डम् शिखा-आयामम् तारे द्वि-त्षङ्गुले । विन?द्वि-मात्रम् एव स्यात् द्वि-शिखम् कटि-दण्डकम् ॥ ८।६७ ॥
kaṭi-daṇḍam śikhā-āyāmam tāre dvi-tṣaṅgule . vina?dvi-mātram eva syāt dvi-śikham kaṭi-daṇḍakam .. 8.67 ..
श्रोणिभागादधस्तेन शेषयेद्वंशदण्डकं । ऊरुदण्डालयं सप्तविंशदङ्गुलमुच्यते ॥ ८.६८ ॥
श्रोणि-भागात् अधस् तेन शेषयेत् वंश-दण्डकम् । ऊरुदण्ड-आलयम् सप्तविंशत्-अङ्गुलम् उच्यते ॥ ८।६८ ॥
śroṇi-bhāgāt adhas tena śeṣayet vaṃśa-daṇḍakam . ūrudaṇḍa-ālayam saptaviṃśat-aṅgulam ucyate .. 8.68 ..
जानुभागं ततो जङ्घा प्यूर्ध्वदण्डसमायता । पादभागाभवे दूरुर्जङ्घयोर्झानुमानकं ॥ ८.६९ ॥
जानु-भागम् ततस् जङ्घा पि ऊर्ध्व-दण्ड-समायता । पादभाग-आभवे दूरुः जङ्घयोः झानु-मानकम् ॥ ८।६९ ॥
jānu-bhāgam tatas jaṅghā pi ūrdhva-daṇḍa-samāyatā . pādabhāga-ābhave dūruḥ jaṅghayoḥ jhānu-mānakam .. 8.69 ..
आरोप्य मानयेज्जानुदण्डस्यासंभवादपि । पाददण्डे समारोप्य मानयेत्तलतुङ्गकं ॥ ८.७० ॥
आरोप्य मानयेत् जानु-दण्डस्य असंभवात् अपि । पाद-दण्डे समारोप्य मानयेत् तल-तुङ्गकम् ॥ ८।७० ॥
āropya mānayet jānu-daṇḍasya asaṃbhavāt api . pāda-daṇḍe samāropya mānayet tala-tuṅgakam .. 8.70 ..
ऊरुदण्डविशालं स्यान्मूलेभागं तदश्रके । कलाङ्गुलं तदेकं स्याज्जङ्घामूलविशालकं ॥ ८.७१ ॥
ऊरु-दण्ड-विशालम् स्यात् मूलेभागम् तद्-अश्रके । कला-अङ्गुलम् तत् एकम् स्यात् जङ्घा-मूल-विशालकम् ॥ ८।७१ ॥
ūru-daṇḍa-viśālam syāt mūlebhāgam tad-aśrake . kalā-aṅgulam tat ekam syāt jaṅghā-mūla-viśālakam .. 8.71 ..
कलाविशालं जङ्घाग्रं कलायामं दशाङ्गुलं । त्रिमात्रकलमूलस्य तारमग्रेऽधिकांगुलं ॥ ८.७२ ॥
कला-विशालम् जङ्घा-अग्रम् कला-आयामम् दश-अङ्गुलम् । तारम् अग्रे अधिक-अङ्गुलम् ॥ ८।७२ ॥
kalā-viśālam jaṅghā-agram kalā-āyāmam daśa-aṅgulam . tāram agre adhika-aṅgulam .. 8.72 ..
सप्तविंशति वाग्रोषं दण्डदीर्घं ततः कला । कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलाङ्गुलं ॥ ८.७३ ॥
सप्तविंशति वाग्रोषम् दण्ड-दीर्घम् ततस् कला । कोर्परः स्यात् प्रकोष्ठस्य दीर्घम् दश-कला-अङ्गुलम् ॥ ८।७३ ॥
saptaviṃśati vāgroṣam daṇḍa-dīrgham tatas kalā . korparaḥ syāt prakoṣṭhasya dīrgham daśa-kalā-aṅgulam .. 8.73 ..
प्रकोष्ठबाह्वैरारोप्य कोर्परं जानुवद्भवेथ् । त्षङ्गुलं द्व्यङ्गुलं बाहुदण्डमूलाग्रविस्तरं ॥ ८.७४ ॥
प्रकोष्ठ-बाह्वैः आरोप्य कोर्परम् जानु-वत् । द्वि-अङ्गुलम् बाहु-दण्ड-मूल-अग्र-विस्तरम् ॥ ८।७४ ॥
prakoṣṭha-bāhvaiḥ āropya korparam jānu-vat . dvi-aṅgulam bāhu-daṇḍa-mūla-agra-vistaram .. 8.74 ..
वक्षोदण्डशिखामध्ये बाहुमूलगते शिखे । बाहुमूलगताभ्यां तु वक्षोदण्डशिखागतां ॥ ८.७६ ॥
वक्षः-दण्ड-शिखा-मध्ये बाहुमूल-गते शिखे । बाहुमूल-गताभ्याम् तु वक्षः-दण्ड-शिखा-गताम् ॥ ८।७६ ॥
vakṣaḥ-daṇḍa-śikhā-madhye bāhumūla-gate śikhe . bāhumūla-gatābhyām tu vakṣaḥ-daṇḍa-śikhā-gatām .. 8.76 ..
शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः । प्रकोष्ठमूलगाभ्यां तु वक्षोदण्डशिखागतां ॥ ८.७७ ॥
शेषयेत् अग्र-भागेभ्यः कोर्परे शेषयेत् ततस् । प्रकोष्ठ-मूल-गाभ्याम् तु वक्षः-दण्ड-शिखा-गताम् ॥ ८।७७ ॥
śeṣayet agra-bhāgebhyaḥ korpare śeṣayet tatas . prakoṣṭha-mūla-gābhyām tu vakṣaḥ-daṇḍa-śikhā-gatām .. 8.77 ..
कटिदण्डोरुदण्डाभ्यां तच्छेषं बाहुदण्डवथ् । जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतं ॥ ८.७८ ॥
कटि-दण्ड-ऊरु-दण्डाभ्याम् तद्-शेषम् बाहु-दण्ड-वथ् । जानुकोर्परम् उद्दिष्टम् तस्य तु ॥ ८।७८ ॥
kaṭi-daṇḍa-ūru-daṇḍābhyām tad-śeṣam bāhu-daṇḍa-vath . jānukorparam uddiṣṭam tasya tu .. 8.78 ..
शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः । प्रसारितानां पादानां जानुसन्धौतु गृह्यतां ॥ ८.७९ ॥
शेषयेत् नलकानाम् तु प्रकोष्ठे तु भवेत् बुधाः । प्रसारितानाम् पादानाम् जानु-सन्धौ तु गृह्यताम् ॥ ८।७९ ॥
śeṣayet nalakānām tu prakoṣṭhe tu bhavet budhāḥ . prasāritānām pādānām jānu-sandhau tu gṛhyatām .. 8.79 ..
तथैव विसृजानां च बुधानां कोर्परं मतं । स्थानादीनां क्रमास्छूलसंघातं वक्ष्यतेऽपि च ॥ ८.८० ॥
तथा एव विसृजानाम् च बुधानाम् कोर्परम् मतम् । स्थान-आदीनाम् वक्ष्यते अपि च ॥ ८।८० ॥
tathā eva visṛjānām ca budhānām korparam matam . sthāna-ādīnām vakṣyate api ca .. 8.80 ..
वंशदण्डं तथा वक्ष्ये दण्डं च कटिदण्डकं । जानुदण्डद्वयं चैव पाददण्डद्वयं तथा ॥ ८.८१ ॥
वंश-दण्डम् तथा वक्ष्ये दण्डम् च कटि-दण्डकम् । जानु-दण्ड-द्वयम् च एव पाद-दण्ड-द्वयम् तथा ॥ ८।८१ ॥
vaṃśa-daṇḍam tathā vakṣye daṇḍam ca kaṭi-daṇḍakam . jānu-daṇḍa-dvayam ca eva pāda-daṇḍa-dvayam tathā .. 8.81 ..
बाहुदण्डाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः । तथा चरणदण्डौ द्वौ दण्डास्सप्त दश स्मृताः ॥ ८.८२ ॥
बाहु-दण्डाः च चत्वारः श्चत्वारः च प्रकोष्ठकाः । तथा चरण-दण्डौ द्वौ दण्डाः सप्त दश स्मृताः ॥ ८।८२ ॥
bāhu-daṇḍāḥ ca catvāraḥ ścatvāraḥ ca prakoṣṭhakāḥ . tathā caraṇa-daṇḍau dvau daṇḍāḥ sapta daśa smṛtāḥ .. 8.82 ..
कटिदण्डार्धमारभ्य यावदासीनरपि । तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेथ् ॥ ८.८३ ॥
कटि-दण्ड-अर्धम् आरभ्य यावत् आसीनः अपि । तारः स्यात् पृष्ठफलका तारम् ऊरौ च ॥ ८।८३ ॥
kaṭi-daṇḍa-ardham ārabhya yāvat āsīnaḥ api . tāraḥ syāt pṛṣṭhaphalakā tāram ūrau ca .. 8.83 ..
कटिदण्डादधस्ताच्च वक्षोदण्डधरस्तथा । योजयेदुपयानीलं? पृष्ठतो वृत्तमेव वा ॥ ८.८४ ॥
कटि-दण्डात् अधस्तात् च वक्षः-दण्ड-धरः तथा । योजयेत् उपयानीलम्? पृष्ठतस् वृत्तम् एव वा ॥ ८।८४ ॥
kaṭi-daṇḍāt adhastāt ca vakṣaḥ-daṇḍa-dharaḥ tathā . yojayet upayānīlam? pṛṣṭhatas vṛttam eva vā .. 8.84 ..
वंशदण्डं तथा तेन क्लेशयेद्विशिखेन तु । शिखाग्रसुषीरे कीलं लोहं वा स्कामथापि वा ॥ ८.८५ ॥
वंश-दण्डम् तथा तेन क्लेशयेत् विशिखेन तु । शिखा-अग्र-सुषीरे कीलम् लोहम् वा वा ॥ ८।८५ ॥
vaṃśa-daṇḍam tathā tena kleśayet viśikhena tu . śikhā-agra-suṣīre kīlam loham vā vā .. 8.85 ..
दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि । अन्यत्कीलं तु सुषिरं कर्तव्यं कथञ्चन ॥ ८.८६ ॥
दार्ढ्य-अर्थम् योजयेत् शूलम् स्थितम् वै शूलकर्मणि । अन्यत् कीलम् तु सुषिरम् कर्तव्यम् कथञ्चन ॥ ८।८६ ॥
dārḍhya-artham yojayet śūlam sthitam vai śūlakarmaṇi . anyat kīlam tu suṣiram kartavyam kathañcana .. 8.86 ..
एवं स्थानस्य संप्रोक्तमासनस्य प्रवक्ष्यते । मेढ्रमूलादधोमूलं नाहमष्टांगुलं भवेथ् ॥ ८.८७ ॥
एवम् स्थानस्य संप्रोक्तम् आसनस्य प्रवक्ष्यते । मेढ्र-मूलात् अधस् मूलम् नाहम् अष्ट-अंगुलम् ॥ ८।८७ ॥
evam sthānasya saṃproktam āsanasya pravakṣyate . meḍhra-mūlāt adhas mūlam nāham aṣṭa-aṃgulam .. 8.87 ..
भागमासनमानस्य भागं श्वभ्रप्रवेशनं । मेढ्रसूत्रसमे सम्यक्शेषयेत्कटिदण्डकं ॥ ८.८८ ॥
भागम् आसन-मानस्य भागम् श्वभ्र-प्रवेशनम् । मेढ्र-सूत्र-समे सम्यक् शेषयेत् कटि-दण्डकम् ॥ ८।८८ ॥
bhāgam āsana-mānasya bhāgam śvabhra-praveśanam . meḍhra-sūtra-same samyak śeṣayet kaṭi-daṇḍakam .. 8.88 ..
कटिदण्डशिखाह्यूरु दण्डमूलशिखानि च । आसने शयने चैव जानुसन्धिः प्रशस्यते ॥ ८.८९ ॥
कटि-दण्ड-शिखा-हि ऊरु दण्ड-मूल-शिखानि च । आसने शयने च एव जानु-सन्धिः प्रशस्यते ॥ ८।८९ ॥
kaṭi-daṇḍa-śikhā-hi ūru daṇḍa-mūla-śikhāni ca . āsane śayane ca eva jānu-sandhiḥ praśasyate .. 8.89 ..
एकोनविंशतिश्शूलदण्डानां तु समाकृतिः । नेष्यते कोर्परे संधिशयने दण्डहस्तके ॥ ८.९० ॥
एकोनविंशतिः शूल-दण्डानाम् तु सम-आकृतिः । न इष्यते कोर्परे संधिशयने दण्डहस्तके ॥ ८।९० ॥
ekonaviṃśatiḥ śūla-daṇḍānām tu sama-ākṛtiḥ . na iṣyate korpare saṃdhiśayane daṇḍahastake .. 8.90 ..
तस्मादथ दश प्रोक्ता शूलसंख्या चतुर्भुजे । पञ्चान्ये द्विभुजे दण्ड दण्डा हस्ते चतुर्दश ॥ ८.९१ ॥
तस्मात् अथ दश प्रोक्ता शूल-संख्या चतुर्भुजे । पञ्च अन्ये द्वि-भुजे दण्ड-दण्डाः हस्ते चतुर्दश ॥ ८।९१ ॥
tasmāt atha daśa proktā śūla-saṃkhyā caturbhuje . pañca anye dvi-bhuje daṇḍa-daṇḍāḥ haste caturdaśa .. 8.91 ..
दक्षिणे वक्षोदण्डस्यायतमेकादशांगुलं । शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखान्विता ॥ ८.९२ ॥
दक्षिणे वक्षोदण्डस्य आयतम् एकादश-अंगुलम् । शिखा पूर्ववत् उद्दिष्टा बाहुमूल-शिखा-अन्विता ॥ ८।९२ ॥
dakṣiṇe vakṣodaṇḍasya āyatam ekādaśa-aṃgulam . śikhā pūrvavat uddiṣṭā bāhumūla-śikhā-anvitā .. 8.92 ..
तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः । कटीडण्डद्वयादन्यत्स्थानस्योक्तवदाचरेथ् ॥ ८.९३ ॥
तयोः उपरि च आभोगम् छाययेत् शास्त्र-वित्तमः । कटी-डण्ड-द्वयात् अन्यत् स्थानस्य उक्त-वत् आचरेथ् ॥ ८।९३ ॥
tayoḥ upari ca ābhogam chāyayet śāstra-vittamaḥ . kaṭī-ḍaṇḍa-dvayāt anyat sthānasya ukta-vat ācareth .. 8.93 ..
उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमं । उद्दण्डस्योरुदण्डस्य शिखा भागायते स्मृते ॥ ८.९४ ॥
उक्तम् हि शयने याने त्रिविक्रमम् । उद्दण्डस्य ऊरुदण्डस्य शिखा भागायते स्मृते ॥ ८।९४ ॥
uktam hi śayane yāne trivikramam . uddaṇḍasya ūrudaṇḍasya śikhā bhāgāyate smṛte .. 8.94 ..
तावत्यः कटिदण्डस्य शिखायास्सम्यगन्वये । तदायतं तु कार्यार्थं तलदण्डं तु तद्द्वितं ॥ ८.९५ ॥
तावत्यः कटिदण्डस्य शिखायाः सम्यक् अन्वये । तद्-आयतम् तु कार्य-अर्थम् तलदण्डम् तु तद्-द्वितम् ॥ ८।९५ ॥
tāvatyaḥ kaṭidaṇḍasya śikhāyāḥ samyak anvaye . tad-āyatam tu kārya-artham taladaṇḍam tu tad-dvitam .. 8.95 ..
स्थिताङ्घ्रिस्थ्सितिमान्प्रोक्तश्शेषं चेदं शयानवथ् । एवमष्टभुजोपेतं चतुर्भुजसमन्विते ॥ ८.९६ ॥
स्थित-अङ्घ्रि-स्थ्सितिमान् प्रोक्तः शेषम् च इदम् । एवम् अष्ट-भुज-उपेतम् चतुर्-भुज-समन्विते ॥ ८।९६ ॥
sthita-aṅghri-sthsitimān proktaḥ śeṣam ca idam . evam aṣṭa-bhuja-upetam catur-bhuja-samanvite .. 8.96 ..
द्विभुजं
शूलसंख्यानुरूपेण योजयेत्तु विचक्षणः । शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेथ् ॥ ८.९७ ॥
शूल-संख्या-अनुरूपेण योजयेत् तु विचक्षणः । शूलम् चक्र-तनौ वक्रम् अवक्रे वक्र-ताम् नयेथ् ॥ ८।९७ ॥
śūla-saṃkhyā-anurūpeṇa yojayet tu vicakṣaṇaḥ . śūlam cakra-tanau vakram avakre vakra-tām nayeth .. 8.97 ..
स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते । नासामानविभागं च शूलदण्डायतं मतं ॥ ८.९८ ॥
स्त्रीणाम् शूल-विभागम् तु लक्ष्मी-आदीनाम् प्रवक्ष्यते । नासा-मान-विभागम् च शूल-दण्ड-आयतम् मतम् ॥ ८।९८ ॥
strīṇām śūla-vibhāgam tu lakṣmī-ādīnām pravakṣyate . nāsā-māna-vibhāgam ca śūla-daṇḍa-āyatam matam .. 8.98 ..
भागतारं भवेद्वंशं दण्डं तच्चतुरश्रकं । यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः ॥ ८.९९ ॥
भाग-तारम् भवेत् वंशम् दण्डम् तद्-चतुरश्रकम् । यत् उक्तम् बाहु-पर्यन्तम् तारम् तस्मात् द्वि-पार्श्वयोः ॥ ८।९९ ॥
bhāga-tāram bhavet vaṃśam daṇḍam tad-caturaśrakam . yat uktam bāhu-paryantam tāram tasmāt dvi-pārśvayoḥ .. 8.99 ..
बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरं । तावत्तु परमं वक्षोदण्डस्यायाममुच्यते ॥ ८.१०० ॥
बाहुमूल-विशाल-अर्धम् त्यक्त्वा यावत् तत् अन्तरम् । तावत् तु परमम् वक्षोदण्डस्य आयामम् उच्यते ॥ ८।१०० ॥
bāhumūla-viśāla-ardham tyaktvā yāvat tat antaram . tāvat tu paramam vakṣodaṇḍasya āyāmam ucyate .. 8.100 ..
कच्छांशोनं कराकारं कटिदण्डायतं मतं । ऊरुतारं तु तुर्यांशा दूरुदण्डविशालकं ॥ ८.१०१ ॥
। ऊरु-तारम् तु तुर्य-अंशाः दूरु-दण्ड-विशालकम् ॥ ८।१०१ ॥
. ūru-tāram tu turya-aṃśāḥ dūru-daṇḍa-viśālakam .. 8.101 ..
जङ्घादण्डं त्रिभागैकं तावश्चे?दष्टांशदण्डकं । मूलमेव मतं चैषामग्रमष्टांशहीनकं ॥ ८.१०२ ॥
जङ्घा-दण्डम् त्रि-भाग-एकम्?दष्ट-अंश-दण्डकम् । मूलम् एव मतम् च एषाम् अग्रम् अष्ट-अंश-हीनकम् ॥ ८।१०२ ॥
jaṅghā-daṇḍam tri-bhāga-ekam?daṣṭa-aṃśa-daṇḍakam . mūlam eva matam ca eṣām agram aṣṭa-aṃśa-hīnakam .. 8.102 ..
पार्श्वदण्डं न योक्तव्यं स्त्रीणां शूले कथं चन । पुरुषाणां प्रयोक्तव्य मध्यर्धाङ्गुलिविस्तरं ॥ ८.१०३ ॥
पार्श्व-दण्डम् न योक्तव्यम् स्त्रीणाम् शूले कथम् चन । पुरुषाणाम् मध्यर्ध-अङ्गुलि-विस्तरम् ॥ ८।१०३ ॥
pārśva-daṇḍam na yoktavyam strīṇām śūle katham cana . puruṣāṇām madhyardha-aṅguli-vistaram .. 8.103 ..
सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः । भुवङ्गस्य समं प्रोक्तं स्थानके पीठकोन्नतं ॥ ८.१०४ ॥
सर्वेषाम् असि तालानाम् शूलम् एवम् विदुः बुधाः । भुवङ्गस्य समम् प्रोक्तम् स्थानके पीठक-उन्नतम् ॥ ८।१०४ ॥
sarveṣām asi tālānām śūlam evam viduḥ budhāḥ . bhuvaṅgasya samam proktam sthānake pīṭhaka-unnatam .. 8.104 ..
भुवङ्गोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः । ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलं ॥ ८.१०५ ॥
भुवङ्ग-उपरि तालम् स्यात् ध्रुव-पीठस्य च उन्नतिः । ध्रुवबेरस्य पादस्य प्रतिदिश्-चतुर्-अङ्गुलम् ॥ ८।१०५ ॥
bhuvaṅga-upari tālam syāt dhruva-pīṭhasya ca unnatiḥ . dhruvaberasya pādasya pratidiś-catur-aṅgulam .. 8.105 ..
विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलैर्युतं । मण्डलं चतुरश्रं वा पीठं कुर्यात्तदर्हकं ॥ ८.१०६ ॥
विस्तारम् ऊर्ध्व-वेद्याः यान्तु पद्म-पत्र-दलैः युतम् । मण्डलम् चतुरश्रम् वा पीठम् कुर्यात् तद्-अर्हकम् ॥ ८।१०६ ॥
vistāram ūrdhva-vedyāḥ yāntu padma-patra-dalaiḥ yutam . maṇḍalam caturaśram vā pīṭham kuryāt tad-arhakam .. 8.106 ..
दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेथ् । अपरे स्थानकं स्थाप्य मध्यभागेऽथ वा पुलः ॥ ८.१०७ ॥
दैविकम् तु त्रिधा कृत्वा द्वि-भागम् पुरतस् त्यजेथ् । अपरे स्थानकम् स्थाप्य मध्य-भागे अथ वा पुलः ॥ ८।१०७ ॥
daivikam tu tridhā kṛtvā dvi-bhāgam puratas tyajeth . apare sthānakam sthāpya madhya-bhāge atha vā pulaḥ .. 8.107 ..
देवमानुषयार्मध्ये वाऽसनं संप्रकल्पयेथ् । किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतं ॥ ८.१०८ ॥
देव-मानुषयाः मध्ये वा आसनम् । किम् चित् दैविक-संयुक्ते मानुषे शयनम् स्मृतम् ॥ ८।१०८ ॥
deva-mānuṣayāḥ madhye vā āsanam . kim cit daivika-saṃyukte mānuṣe śayanam smṛtam .. 8.108 ..
एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते । ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयं ॥ ८.१०९ ॥
एवम् सम्यक् विदित्वा एव मा आसने च प्रवक्ष्यते । ध्रुव-बेरम् तथा कृत्वा च ऊर्ध्वम् सिंहासन-उच्छ्रयम् ॥ ८।१०९ ॥
evam samyak viditvā eva mā āsane ca pravakṣyate . dhruva-beram tathā kṛtvā ca ūrdhvam siṃhāsana-ucchrayam .. 8.109 ..
तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतं । पादाश्रयेण पीठेन पद्माकारौ? च संयुतं ॥ ८.११० ॥
तद्-अर्ह-विस्तृतम् प्रोक्तम् उपधानेन संयुतम् । पाद-आश्रयेण पीठेन पद्म-आकारौ? च संयुतम् ॥ ८।११० ॥
tad-arha-vistṛtam proktam upadhānena saṃyutam . pāda-āśrayeṇa pīṭhena padma-ākārau? ca saṃyutam .. 8.110 ..
यथासैन्दर्यकं कृत्वा शेषं युक्त्या समाचरेथ् । बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते ॥ ८.१११ ॥
यथा अ सैन्दर्यकम् कृत्वा शेषम् युक्त्या समाचरेथ् । बेर-आयामम् चतुर्-भागम् शयन-उच्छ्रायम् उच्यते ॥ ८।१११ ॥
yathā a saindaryakam kṛtvā śeṣam yuktyā samācareth . bera-āyāmam catur-bhāgam śayana-ucchrāyam ucyate .. 8.111 ..
तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः । पादयोरुभयोश्चैव समं तत्रैव मूह्य च ॥ ८.११२ ॥
तद्-तुरीय-अंशक-उत्सेधम् शिरः-भागे विशेषतः । पादयोः उभयोः च एव समम् तत्र एव च ॥ ८।११२ ॥
tad-turīya-aṃśaka-utsedham śiraḥ-bhāge viśeṣataḥ . pādayoḥ ubhayoḥ ca eva samam tatra eva ca .. 8.112 ..
शेषभोगं त्रिरावेष्ट्य पञ्चवर्णसमायुतं । अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते ॥ ८.११३ ॥
शेष-भोगम् त्रिस् आवेष्ट्य पञ्च-वर्ण-समायुतम् । अधस् पुच्छम् शिरः च ऊर्ध्वम् सर्प-देहे तु वेष्टिते ॥ ८।११३ ॥
śeṣa-bhogam tris āveṣṭya pañca-varṇa-samāyutam . adhas puccham śiraḥ ca ūrdhvam sarpa-dehe tu veṣṭite .. 8.113 ..
तदुत्संगगतं देवं शयानं संप्रचक्षते । फणानां पञ्चकं कुर्याद्विषवेगसमन्वितं ॥ ८.११४ ॥
तद्-उत्संग-गतम् देवम् शयानम् संप्रचक्षते । फणानाम् पञ्चकम् कुर्यात् विष-वेग-समन्वितम् ॥ ८।११४ ॥
tad-utsaṃga-gatam devam śayānam saṃpracakṣate . phaṇānām pañcakam kuryāt viṣa-vega-samanvitam .. 8.114 ..
एवमेव प्रकुर्वीत स्थानासनशयानकान् । पीठं कृत्वा प्रयत्नेन स्थापनारंभमाचरेथ् ॥ ८.११५ ॥
एवम् एव प्रकुर्वीत स्थान-आसन-शयानकान् । पीठम् कृत्वा प्रयत्नेन स्थापन-आरंभम् आचरेथ् ॥ ८।११५ ॥
evam eva prakurvīta sthāna-āsana-śayānakān . pīṭham kṛtvā prayatnena sthāpana-āraṃbham ācareth .. 8.115 ..
अङ्कुरानर्पयित्वैव यागशालां प्रकल्पयेथ् । शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः ॥ ८.११६ ॥
अङ्कुरान् अर्पयित्वा एव याग-शालाम् । शिला-स्थापन-सार्गेण सर्वम् कृत्वा अप्रयत्नतः ॥ ८।११६ ॥
aṅkurān arpayitvā eva yāga-śālām . śilā-sthāpana-sārgeṇa sarvam kṛtvā aprayatnataḥ .. 8.116 ..
अथाचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च । यजमानसमायुक्तो गर्भगेहं प्रविश्य च ॥ ८.११७ ॥
अथ आचार्यः प्रभाते तु स्नात्वा नित्यम् समाप्य च । यजमान-समायुक्तः गर्भ-गेहम् प्रविश्य च ॥ ८।११७ ॥
atha ācāryaḥ prabhāte tu snātvā nityam samāpya ca . yajamāna-samāyuktaḥ garbha-geham praviśya ca .. 8.117 ..
स्थानासनशयानानां पदमुक्तं विचार्य च । पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः ॥ ८.११८ ॥
स्थान-आसन-शयानानाम् पदम् उक्तम् विचार्य च । पीठम् तद्-अर्हकम् कुर्यात् युक्तेन एव विधानतः ॥ ८।११८ ॥
sthāna-āsana-śayānānām padam uktam vicārya ca . pīṭham tad-arhakam kuryāt yuktena eva vidhānataḥ .. 8.118 ..
प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेथ् । आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेथ् ॥ ८.११९ ॥
प्रतिष्ठा-उक्त-क्रमेण एव रत्न-न्यासम् समाचरेथ् । आचार्य-स्थापक-आदीनाम् ऋत्विजाम् दक्षिणाम् ॥ ८।११९ ॥
pratiṣṭhā-ukta-krameṇa eva ratna-nyāsam samācareth . ācārya-sthāpaka-ādīnām ṛtvijām dakṣiṇām .. 8.119 ..
शूले सार्थं समादाय गायत्रीं वैष्णवं जपन् । स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमाथ् ॥ ८.१२० ॥
शूले सार्थम् समादाय गायत्रीम् वैष्णवम् जपन् । स्थापयेत् देवदेवस्य शूलम् देव्योः ततस् क्रमात् ॥ ८।१२० ॥
śūle sārtham samādāya gāyatrīm vaiṣṇavam japan . sthāpayet devadevasya śūlam devyoḥ tatas kramāt .. 8.120 ..
आधारदण्डयोः पश्चाच्छिष्टदण्डान्नियोजयेथ् । पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च ॥ ८.१२१ ॥
आधार-दण्डयोः पश्चात् शिष्ट-दण्डान् नियोजयेथ् । पुण्याहम् वाचयित्वा तु सभ्यम् अग्निम् विसृज्य च ॥ ८।१२१ ॥
ādhāra-daṇḍayoḥ paścāt śiṣṭa-daṇḍān niyojayeth . puṇyāham vācayitvā tu sabhyam agnim visṛjya ca .. 8.121 ..
ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्? । वस्त्रैराभरणैश्चापि पूजयित्वान्ववेक्ष्य च ॥ ८.१२२ ॥
ततस् शिल्पिनम् आहूय शास्त्रीयम् प्रियदर्शनम्? । वस्त्रैः आभरणैः च अपि पूजयित्वा अन्ववेक्ष्य च ॥ ८।१२२ ॥
tatas śilpinam āhūya śāstrīyam priyadarśanam? . vastraiḥ ābharaṇaiḥ ca api pūjayitvā anvavekṣya ca .. 8.122 ..
रज्जुबन्धादिकं कर्म बेरोक्तं तत्र कारयेथ् । अत्रानुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः ॥ ८.१२३ ॥
रज्जुबन्ध-आदिकम् कर्म बेर-उक्तम् तत्र । अत्र अनुक्तम् ततस् कुर्यात् शिल्प-शास्त्र-उक्त-मार्गतः ॥ ८।१२३ ॥
rajjubandha-ādikam karma bera-uktam tatra . atra anuktam tatas kuryāt śilpa-śāstra-ukta-mārgataḥ .. 8.123 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारेऽष्टमोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृसु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे अष्टमः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛsu-proktāyām saṃhitāyām prakīrṇa-adhikāre aṣṭamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In