| |
|

This overlay will guide you through the buttons:

अथाष्टमोऽध्यायः.
athāṣṭamo'dhyāyaḥ.
पीठमानम्
अथ पीठोदयं पश्चात्थ्सानकस्य विशेषतः । भुवङ्गस्य समं वाथ अध्यर्थं त्रिगुणं तु वा ॥ ८.१ ॥
atha pīṭhodayaṃ paścātthsānakasya viśeṣataḥ . bhuvaṅgasya samaṃ vātha adhyarthaṃ triguṇaṃ tu vā .. 8.1 ..
परितः पावयोरस्य नीत्वावै भागमङ्गुलं । ध्रुवार्चायामशेषेण षण्मानसहितं शुभं ॥ ८.२ ॥
paritaḥ pāvayorasya nītvāvai bhāgamaṅgulaṃ . dhruvārcāyāmaśeṣeṇa ṣaṇmānasahitaṃ śubhaṃ .. 8.2 ..
वक्ष्यामि देव्योर्मानं तत्कण्ठान्तं नासिकान्तकं । हन्वस्तं बाहुसीमान्तं नाभ्यन्तं वाध कारयेथ् ॥ ८.३ ॥
vakṣyāmi devyormānaṃ tatkaṇṭhāntaṃ nāsikāntakaṃ . hanvastaṃ bāhusīmāntaṃ nābhyantaṃ vādha kārayeth .. 8.3 ..
चतुर्धैकांशकं वापि तृतीयैकांशकं तु वा । ध्रुवार्चायां विशेषेण पीठमेवं प्रकल्पयेथ् ॥ ८.४ ॥
caturdhaikāṃśakaṃ vāpi tṛtīyaikāṃśakaṃ tu vā . dhruvārcāyāṃ viśeṣeṇa pīṭhamevaṃ prakalpayeth .. 8.4 ..
चतुरश्रं सुवृत्तं वा दलैष्षोडशभिर्युतं । स्थानकं चासनं वापि यानकं वा समाचरेथ् ॥ ८.५ ॥
caturaśraṃ suvṛttaṃ vā dalaiṣṣoḍaśabhiryutaṃ . sthānakaṃ cāsanaṃ vāpi yānakaṃ vā samācareth .. 8.5 ..
गर्भागारत्रिभागैकं चतुरश्रं त्रिमेखलं । तस्योर्ध्ववेदिविस्तारं चतुरङ्गुलमेव हि ॥ ८.६ ॥
garbhāgāratribhāgaikaṃ caturaśraṃ trimekhalaṃ . tasyordhvavedivistāraṃ caturaṅgulameva hi .. 8.6 ..
उत्सेधं तस्य चार्धन्तुपरितश्चतुरङ्गुलं । विस्तारोत्सेधमानन्तु मध्येनिम्नं षडङ्गुलं ॥ ८.७ ॥
utsedhaṃ tasya cārdhantuparitaścaturaṅgulaṃ . vistārotsedhamānantu madhyenimnaṃ ṣaḍaṅgulaṃ .. 8.7 ..
उदीच्यान्तु प्रतीच्यान्तु वारिमार्गन्तु कारयेथ् । प्राङ्मुखोदङ्मुखं सूत्रं दश सप्त समर्चयेथ् ॥ ८.८ ॥
udīcyāntu pratīcyāntu vārimārgantu kārayeth . prāṅmukhodaṅmukhaṃ sūtraṃ daśa sapta samarcayeth .. 8.8 ..
मध्ये कलापदं ब्राह्मं परितो दैविकं तथा । वैदाथिकाशीतिपदं मानुषं च तथैव च ॥ ८.९ ॥
madhye kalāpadaṃ brāhmaṃ parito daivikaṃ tathā . vaidāthikāśītipadaṃ mānuṣaṃ ca tathaiva ca .. 8.9 ..
पदं स्यात्षण्नवतिकं षष्टिःपैशाचिकं भवेथ् । अर्चास्थानं तु ब्रह्मांशं त्रिधा कृत्य च दैविकं ॥ ८.१० ॥
padaṃ syātṣaṇnavatikaṃ ṣaṣṭiḥpaiśācikaṃ bhaveth . arcāsthānaṃ tu brahmāṃśaṃ tridhā kṛtya ca daivikaṃ .. 8.10 ..
तथैव पश्चिमे भागे मध्ये वा स्थानकाय च । असनं वापि च तधा देवमानुषमध्यमे ॥ ८.११ ॥
tathaiva paścime bhāge madhye vā sthānakāya ca . asanaṃ vāpi ca tadhā devamānuṣamadhyame .. 8.11 ..
शयानं मानुषे पीठे स्थापयित्वा विशेषतः । ध्रुवार्चने विशेषेण नागसूत्रान्समर्प्य च ॥ ८.१२ ॥
śayānaṃ mānuṣe pīṭhe sthāpayitvā viśeṣataḥ . dhruvārcane viśeṣeṇa nāgasūtrānsamarpya ca .. 8.12 ..
कोष्टमेकान पञ्चाशद्भवति ब्राह्ममन्दिरं । दैविकं चाष्टभागन्तु मानुषं चार्त्विजं पदं ॥ ८.१३ ॥
koṣṭamekāna pañcāśadbhavati brāhmamandiraṃ . daivikaṃ cāṣṭabhāgantu mānuṣaṃ cārtvijaṃ padaṃ .. 8.13 ..
शेषं पैशाचमेवं स्याच्छान्तिपौष्टिकदैविकं । ब्रह्मस्थाने विशेषण स्थापयेद्योगवीरकौ ॥ ८.१४ ॥
śeṣaṃ paiśācamevaṃ syācchāntipauṣṭikadaivikaṃ . brahmasthāne viśeṣaṇa sthāpayedyogavīrakau .. 8.14 ..
भोगमेव ध्रुवार्चायां देवमानुषमध्यमे । वीरकं स्थापयेद्विद्वान्पैशाचे क्रमशस्सुधीः ॥ ८.१५ ॥
bhogameva dhruvārcāyāṃ devamānuṣamadhyame . vīrakaṃ sthāpayedvidvānpaiśāce kramaśassudhīḥ .. 8.15 ..
ग्राममध्ये ध्रुवार्चायां स्थापयेद्भोगमेव तु । योगपीठे ध्रुवार्चा चेत्तद्ग्रामस्य विपद्भवेथ् ॥ ८.१६ ॥
grāmamadhye dhruvārcāyāṃ sthāpayedbhogameva tu . yogapīṭhe dhruvārcā cettadgrāmasya vipadbhaveth .. 8.16 ..
अन्येषां तु ध्रुवार्चायां भोगं वा योगमेव वा । आलयोद्दक्षिणे वापि वूर्वे वापि प्रपां तथा ॥ ८.१७ ॥
anyeṣāṃ tu dhruvārcāyāṃ bhogaṃ vā yogameva vā . ālayoddakṣiṇe vāpi vūrve vāpi prapāṃ tathā .. 8.17 ..
वेदिं तन्मध्यमे कुर्याद्बिंबाध्यर्धप्रमाणतः । सभ्याग्निकुण्डं तत्प्राच्यां स्नानवेदिं तथोत्तरे ॥ ८.१८ ॥
vediṃ tanmadhyame kuryādbiṃbādhyardhapramāṇataḥ . sabhyāgnikuṇḍaṃ tatprācyāṃ snānavediṃ tathottare .. 8.18 ..
भूमियज्ञं च कृत्वातु पर्यग्नि प्रोक्षणं चरेथ् । कलशैस्सप्तभिस्स्नाप्य वेद्यामारोपयेत्तथा ॥ ८.१९ ॥
bhūmiyajñaṃ ca kṛtvātu paryagni prokṣaṇaṃ careth . kalaśaissaptabhissnāpya vedyāmāropayettathā .. 8.19 ..
आच्छाद्य नववस्त्रेण कौतुकं बर्धयेत्तथा । प्राक्षीरश्शाययेत्तत्र श्रीभूम्योरुभयोरपि ॥ ८.२० ॥
ācchādya navavastreṇa kautukaṃ bardhayettathā . prākṣīraśśāyayettatra śrībhūmyorubhayorapi .. 8.20 ..
महाकायकृते बेरे प्रोक्षयेत्पञ्चगव्यकैः । अन्यत्सर्वक्रियां कृत्वाहौत्रशंसनमाचरेथ् ॥ ८.२१ ॥
mahākāyakṛte bere prokṣayetpañcagavyakaiḥ . anyatsarvakriyāṃ kṛtvāhautraśaṃsanamācareth .. 8.21 ..
आदिमूर्त्यादि सर्वास्तमावाहनमथाचरेथ् । अवाहनक्रमेणैव निरुप्याज्याहुतीर्यतेथ् ॥ ८.२२ ॥
ādimūrtyādi sarvāstamāvāhanamathācareth . avāhanakrameṇaiva nirupyājyāhutīryateth .. 8.22 ..
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं तथैव च । श्रीभूसूक्तं ततो हुत्वा ब्राह्मं रौद्रन्तथैवच ॥ ८.२३ ॥
vaiṣṇavaṃ pauruṣaṃ sūktaṃ viṣṇusūktaṃ tathaiva ca . śrībhūsūktaṃ tato hutvā brāhmaṃ raudrantathaivaca .. 8.23 ..
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं विनीय च । स्नात्वा प्रभाते त्वाचार्यो देवमुत्थाप्य चादराथ् ॥ ८.२४ ॥
nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ vinīya ca . snātvā prabhāte tvācāryo devamutthāpya cādarāth .. 8.24 ..
गर्भागारं प्रविश्यैव स्थापिते विहितेऽपि वा । न्यस्य पीठन्तु तन्मध्ये रत्नादीन्विन्यसेत्तदा ॥ ८.२५ ॥
garbhāgāraṃ praviśyaiva sthāpite vihite'pi vā . nyasya pīṭhantu tanmadhye ratnādīnvinyasettadā .. 8.25 ..
ध्रुवसूक्तेन संस्थाप्य अतो देवादिमुच्चरन् । तत्तन्मन्त्रेण देव्यादीन्स्थापयेद्विहिते पदे ॥ ८.२६ ॥
dhruvasūktena saṃsthāpya ato devādimuccaran . tattanmantreṇa devyādīnsthāpayedvihite pade .. 8.26 ..
विधिना चाष्टबन्धन्तु संयोज्यैव तु पूरयेथ् । अन्तहोमं ततो हुत्वा दद्यादाचार्यदक्षिणां ॥ ८.२७ ॥
vidhinā cāṣṭabandhantu saṃyojyaiva tu pūrayeth . antahomaṃ tato hutvā dadyādācāryadakṣiṇāṃ .. 8.27 ..
शिल्बिनं च समाहूय शर्करां लेपयेत्क्रमाथ् । शिलाप्रतिष्ठा चैवं स्याद्दारुसंग्रहणं ततः ॥ ८.२८ ॥
śilbinaṃ ca samāhūya śarkarāṃ lepayetkramāth . śilāpratiṣṭhā caivaṃ syāddārusaṃgrahaṇaṃ tataḥ .. 8.28 ..
दारुसंग्रहणं चन्दनं खदिरं तालमसनं । रक्तचन्दनम् राजानं चिरिबिल्वञ्च अशोकं स्तिमितं तथा ॥ ८.२९ ॥
dārusaṃgrahaṇaṃ candanaṃ khadiraṃ tālamasanaṃ . raktacandanam rājānaṃ ciribilvañca aśokaṃ stimitaṃ tathā .. 8.29 ..
खादिरं धन्विनं चैवशिरीषं पद्मकं तथा । इत्येवमादयो वृक्षा गृह्यन्ते बेरकर्मणि ॥ ८.३० ॥
khādiraṃ dhanvinaṃ caivaśirīṣaṃ padmakaṃ tathā . ityevamādayo vṛkṣā gṛhyante berakarmaṇi .. 8.30 ..
चण्डालस्थानपार्श्वे तु दुष्टप्राणिनिषेविते । मातृस्थानसमुद्बूते? श्मशाने देवमन्दिरे ॥ ८.३१ ॥
caṇḍālasthānapārśve tu duṣṭaprāṇiniṣevite . mātṛsthānasamudbūte? śmaśāne devamandire .. 8.31 ..
कूपवापीतटाकान्ते मुनिवासे सहालये । योगस्थानपदे धर्मशालायां मार्गमध्यमे ॥ ८.३२ ॥
kūpavāpītaṭākānte munivāse sahālaye . yogasthānapade dharmaśālāyāṃ mārgamadhyame .. 8.32 ..
प्रेतभूतालये चोरसत्त्वानां च निषेविते । प्रस्थानशलभस्थाने कल्पास्धिनिलयेऽपि च? ॥ ८.३३ ॥
pretabhūtālaye corasattvānāṃ ca niṣevite . prasthānaśalabhasthāne kalpāsdhinilaye'pi ca? .. 8.33 ..
सौष्टाभूतसमुद्भूतदेशे? रौणिक देशके । एवं स्थाने समुद्भूतं न गृह्णन्ति द्रुमं ततः ॥ ८.३४ ॥
sauṣṭābhūtasamudbhūtadeśe? rauṇika deśake . evaṃ sthāne samudbhūtaṃ na gṛhṇanti drumaṃ tataḥ .. 8.34 ..
पादानपावनं तर्धि मशनेर्यातिपीडनं । असाक्षिकं सर्पनिलयं बहुवल्मीक संयुतं ॥ ८.३५ ॥
pādānapāvanaṃ tardhi maśaneryātipīḍanaṃ . asākṣikaṃ sarpanilayaṃ bahuvalmīka saṃyutaṃ .. 8.35 ..
सुजनं तरुणं रूक्षं बहुपक्षसमाकुलं । अस्थिरं बहुचक्रं च सुशाखं चैकशाखिनं ॥ ८.३६ ॥
sujanaṃ taruṇaṃ rūkṣaṃ bahupakṣasamākulaṃ . asthiraṃ bahucakraṃ ca suśākhaṃ caikaśākhinaṃ .. 8.36 ..
कर्मान्तरगृहितं च कर्मान्तरप्रयोजनं । एवमीदृग्विधं वृक्षं वर्जयेद्बेरकर्मणि ॥ ८.३७ ॥
karmāntaragṛhitaṃ ca karmāntaraprayojanaṃ . evamīdṛgvidhaṃ vṛkṣaṃ varjayedberakarmaṇi .. 8.37 ..
आमूलाग्रं समं वृत्तमृजुं चैव प्रदक्षिणं । विस्तारयामसंपन्नं शुभायैव समायुतं ॥ ८.३८ ॥
āmūlāgraṃ samaṃ vṛttamṛjuṃ caiva pradakṣiṇaṃ . vistārayāmasaṃpannaṃ śubhāyaiva samāyutaṃ .. 8.38 ..
सुमध्यवयसोपेतं कालपुष्पफलप्रदं । ईदृग्विधं महावृक्षं शूलार्थं परिगृह्णते ॥ ८.३९ ॥
sumadhyavayasopetaṃ kālapuṣpaphalapradaṃ . īdṛgvidhaṃ mahāvṛkṣaṃ śūlārthaṃ parigṛhṇate .. 8.39 ..
एवं लक्षण संपन्नं द्रुमं गत्वा प्रसन्नधीः । तन्मूले गोमयेनापि लेपयेच्चतुरश्रकं ॥ ८.४० ॥
evaṃ lakṣaṇa saṃpannaṃ drumaṃ gatvā prasannadhīḥ . tanmūle gomayenāpi lepayeccaturaśrakaṃ .. 8.40 ..
दिव्यलक्षणसंयुक्तं द्रुमं कृत्वा प्रदक्षिणं । रथेवा शकटे वाथस्कन्थे वा क्षिप्य वेशयेथ् ॥ ८.४९ ॥
divyalakṣaṇasaṃyuktaṃ drumaṃ kṛtvā pradakṣiṇaṃ . rathevā śakaṭe vāthaskanthe vā kṣipya veśayeth .. 8.49 ..
ग्रामं प्रदक्षिणङ्कृत्या स्वस्तिसूक्तं समुच्चरन् । शिष्टच्छायेसमे देशेतालुकोपरिशाययेथ् ॥ ८.५० ॥
grāmaṃ pradakṣiṇaṅkṛtyā svastisūktaṃ samuccaran . śiṣṭacchāyesame deśetālukopariśāyayeth .. 8.50 ..
हेमरूप्यकृतं शूलं सर्वसंपत्समृद्धिदं । लोहैरन्यैर्नकर्तव्य मभिचारस्य कारणं ॥ ८.५१ ॥
hemarūpyakṛtaṃ śūlaṃ sarvasaṃpatsamṛddhidaṃ . lohairanyairnakartavya mabhicārasya kāraṇaṃ .. 8.51 ..
विष्णुशूलं तु केशानां श्रेष्ठं पट्टिकमेव च । ध्येयं मेढ्रादयश्बोर्ध्वं समं भागस्य यत्त्रयं ॥ ८.५२ ॥
viṣṇuśūlaṃ tu keśānāṃ śreṣṭhaṃ paṭṭikameva ca . dhyeyaṃ meḍhrādayaśbordhvaṃ samaṃ bhāgasya yattrayaṃ .. 8.52 ..
ऊरुकेशान्तपर्यन्तं तस्यार्थं च तकं मुखं । सरन्ध्रयवकं चोर्ध्वे मानशूलं शिरोधरं ॥ ८.५३ ॥
ūrukeśāntaparyantaṃ tasyārthaṃ ca takaṃ mukhaṃ . sarandhrayavakaṃ cordhve mānaśūlaṃ śirodharaṃ .. 8.53 ..
हिक्कायां षड्यवं पञ्चाङ्गुलं नाभ्यन्तकं मतं । त्रयोदशाङ्गुलयवं ततो मेढ्रन्तु नाभ्यधः ॥ ८.५४ ॥
hikkāyāṃ ṣaḍyavaṃ pañcāṅgulaṃ nābhyantakaṃ mataṃ . trayodaśāṅgulayavaṃ tato meḍhrantu nābhyadhaḥ .. 8.54 ..
योनेर्नाभेस्तुर्यादश्रं ब्राह्ममष्ट्ॐअतं ततः । हिक्कास्तं वैष्णवं भागं ततो वृत्तं शिवांशकं ॥ ८.५५ ॥
yonernābhesturyādaśraṃ brāhmamaṣṭ_oṃataṃ tataḥ . hikkāstaṃ vaiṣṇavaṃ bhāgaṃ tato vṛttaṃ śivāṃśakaṃ .. 8.55 ..
उष्णीषं मातृकं शूलं स्थानादीनां सनातनं । स्थानासनशयानानां चतुरश्राष्टवर्तुलं ॥ ८.५६ ॥
uṣṇīṣaṃ mātṛkaṃ śūlaṃ sthānādīnāṃ sanātanaṃ . sthānāsanaśayānānāṃ caturaśrāṣṭavartulaṃ .. 8.56 ..
यथाक्रमेण युञ्जीयादेवं वा पूर्वमुक्तवथ् । सर्वेषां देवतानां च सामान्यं च तुरश्रकं ॥ ८.५७ ॥
yathākrameṇa yuñjīyādevaṃ vā pūrvamuktavath . sarveṣāṃ devatānāṃ ca sāmānyaṃ ca turaśrakaṃ .. 8.57 ..
चतुर्मात्रार्धविस्तारं शूलमूलविशालकं । अग्रतारं चतुर्मात्रमष्टांशोनमथापि वा ॥ ८.५८ ॥
caturmātrārdhavistāraṃ śūlamūlaviśālakaṃ . agratāraṃ caturmātramaṣṭāṃśonamathāpi vā .. 8.58 ..
द्वात्रिंशदङ्गुलायामं वक्षोदण्डस्य चोच्यते । तर्म? विस्तृतयोर्बाह्ये मातृसूत्रसमोर्धयोः ॥ ८.५९ ॥
dvātriṃśadaṅgulāyāmaṃ vakṣodaṇḍasya cocyate . tarma? vistṛtayorbāhye mātṛsūtrasamordhayoḥ .. 8.59 ..
अङ्कुरार्पणम्
वक्षोदण्डायतं स्वेन मुखेन द्विगुणं मतं । उक्त्वासमन्तु बाह्यग्रेतत्सप्तांशविहीनकं ॥ ८.६० ॥
vakṣodaṇḍāyataṃ svena mukhena dviguṇaṃ mataṃ . uktvāsamantu bāhyagretatsaptāṃśavihīnakaṃ .. 8.60 ..
तारं सप्ताङ्गुलं तेषां येन सार्थं त्रिमात्रकं । षोढशाष्ट चतुर्मात्रायामतारसमन्वितं ॥ ८.६१ ॥
tāraṃ saptāṅgulaṃ teṣāṃ yena sārthaṃ trimātrakaṃ . ṣoḍhaśāṣṭa caturmātrāyāmatārasamanvitaṃ .. 8.61 ..
कटिदण्डं भवेत्तस्य पार्श्वमध्यमनिम्नकं । कृत्वैव निम्नकं वक्षोदण्डमध्ये प्रकल्पयेथ् ॥ ८.६२ ॥
kaṭidaṇḍaṃ bhavettasya pārśvamadhyamanimnakaṃ . kṛtvaiva nimnakaṃ vakṣodaṇḍamadhye prakalpayeth .. 8.62 ..
शेषयोर्वंशदण्डे तु नाभ्यन्तं निम्नमध्यकं । दक्षिणे मूलमध्ये तु अग्रं कुर्याद्द्वयोरपि ॥ ८.६३ ॥
śeṣayorvaṃśadaṇḍe tu nābhyantaṃ nimnamadhyakaṃ . dakṣiṇe mūlamadhye tu agraṃ kuryāddvayorapi .. 8.63 ..
वक्षोदण्डस्यमूलाग्रे शिखा सूदस्रदायतं । कालाङ्गुलकलातारं कलार्धविपुलं मतं ॥ ८.६४ ॥
vakṣodaṇḍasyamūlāgre śikhā sūdasradāyataṃ . kālāṅgulakalātāraṃ kalārdhavipulaṃ mataṃ .. 8.64 ..
एवं चतुर्भुजं कृत्वाद्विभुजे द्विशिखं तथा । चतस्रश्शिबिका स्तस्मात्तस्या मेवाष्टबाहुके ॥ ८.६५ ॥
evaṃ caturbhujaṃ kṛtvādvibhuje dviśikhaṃ tathā . catasraśśibikā stasmāttasyā mevāṣṭabāhuke .. 8.65 ..
यावन्तो बाहवस्तस्मिं स्तावत्यश्च शिखा मताः । अध्यर्धाङ्गुलविस्तारं शिखायामं तदेव हि ॥ ८.६६ ॥
yāvanto bāhavastasmiṃ stāvatyaśca śikhā matāḥ . adhyardhāṅgulavistāraṃ śikhāyāmaṃ tadeva hi .. 8.66 ..
कटिदण्डं शिखायामं तारे द्वित्षङ्गुले क्रमाथ् । विन?द्विमात्रमेव स्याद्द्विशिखं कटिदण्डकं ॥ ८.६७ ॥
kaṭidaṇḍaṃ śikhāyāmaṃ tāre dvitṣaṅgule kramāth . vina?dvimātrameva syāddviśikhaṃ kaṭidaṇḍakaṃ .. 8.67 ..
श्रोणिभागादधस्तेन शेषयेद्वंशदण्डकं । ऊरुदण्डालयं सप्तविंशदङ्गुलमुच्यते ॥ ८.६८ ॥
śroṇibhāgādadhastena śeṣayedvaṃśadaṇḍakaṃ . ūrudaṇḍālayaṃ saptaviṃśadaṅgulamucyate .. 8.68 ..
जानुभागं ततो जङ्घा प्यूर्ध्वदण्डसमायता । पादभागाभवे दूरुर्जङ्घयोर्झानुमानकं ॥ ८.६९ ॥
jānubhāgaṃ tato jaṅghā pyūrdhvadaṇḍasamāyatā . pādabhāgābhave dūrurjaṅghayorjhānumānakaṃ .. 8.69 ..
आरोप्य मानयेज्जानुदण्डस्यासंभवादपि । पाददण्डे समारोप्य मानयेत्तलतुङ्गकं ॥ ८.७० ॥
āropya mānayejjānudaṇḍasyāsaṃbhavādapi . pādadaṇḍe samāropya mānayettalatuṅgakaṃ .. 8.70 ..
ऊरुदण्डविशालं स्यान्मूलेभागं तदश्रके । कलाङ्गुलं तदेकं स्याज्जङ्घामूलविशालकं ॥ ८.७१ ॥
ūrudaṇḍaviśālaṃ syānmūlebhāgaṃ tadaśrake . kalāṅgulaṃ tadekaṃ syājjaṅghāmūlaviśālakaṃ .. 8.71 ..
कलाविशालं जङ्घाग्रं कलायामं दशाङ्गुलं । त्रिमात्रकलमूलस्य तारमग्रेऽधिकांगुलं ॥ ८.७२ ॥
kalāviśālaṃ jaṅghāgraṃ kalāyāmaṃ daśāṅgulaṃ . trimātrakalamūlasya tāramagre'dhikāṃgulaṃ .. 8.72 ..
सप्तविंशति वाग्रोषं दण्डदीर्घं ततः कला । कोर्परस्स्यात्प्रकोष्ठस्य दीर्घं दशकलाङ्गुलं ॥ ८.७३ ॥
saptaviṃśati vāgroṣaṃ daṇḍadīrghaṃ tataḥ kalā . korparassyātprakoṣṭhasya dīrghaṃ daśakalāṅgulaṃ .. 8.73 ..
प्रकोष्ठबाह्वैरारोप्य कोर्परं जानुवद्भवेथ् । त्षङ्गुलं द्व्यङ्गुलं बाहुदण्डमूलाग्रविस्तरं ॥ ८.७४ ॥
prakoṣṭhabāhvairāropya korparaṃ jānuvadbhaveth . tṣaṅgulaṃ dvyaṅgulaṃ bāhudaṇḍamūlāgravistaraṃ .. 8.74 ..
वक्षोदण्डशिखामध्ये बाहुमूलगते शिखे । बाहुमूलगताभ्यां तु वक्षोदण्डशिखागतां ॥ ८.७६ ॥
vakṣodaṇḍaśikhāmadhye bāhumūlagate śikhe . bāhumūlagatābhyāṃ tu vakṣodaṇḍaśikhāgatāṃ .. 8.76 ..
शेषयेदग्रभागेभ्यः कोर्परे शेषयेत्ततः । प्रकोष्ठमूलगाभ्यां तु वक्षोदण्डशिखागतां ॥ ८.७७ ॥
śeṣayedagrabhāgebhyaḥ korpare śeṣayettataḥ . prakoṣṭhamūlagābhyāṃ tu vakṣodaṇḍaśikhāgatāṃ .. 8.77 ..
कटिदण्डोरुदण्डाभ्यां तच्छेषं बाहुदण्डवथ् । जानुकोर्परमुद्दिष्टं तस्यतु द्विशिखेमतं ॥ ८.७८ ॥
kaṭidaṇḍorudaṇḍābhyāṃ taccheṣaṃ bāhudaṇḍavath . jānukorparamuddiṣṭaṃ tasyatu dviśikhemataṃ .. 8.78 ..
शेषयेन्नलकानान्तु प्रकोष्ठे तु भवेद्बुधाः । प्रसारितानां पादानां जानुसन्धौतु गृह्यतां ॥ ८.७९ ॥
śeṣayennalakānāntu prakoṣṭhe tu bhavedbudhāḥ . prasāritānāṃ pādānāṃ jānusandhautu gṛhyatāṃ .. 8.79 ..
तथैव विसृजानां च बुधानां कोर्परं मतं । स्थानादीनां क्रमास्छूलसंघातं वक्ष्यतेऽपि च ॥ ८.८० ॥
tathaiva visṛjānāṃ ca budhānāṃ korparaṃ mataṃ . sthānādīnāṃ kramāschūlasaṃghātaṃ vakṣyate'pi ca .. 8.80 ..
वंशदण्डं तथा वक्ष्ये दण्डं च कटिदण्डकं । जानुदण्डद्वयं चैव पाददण्डद्वयं तथा ॥ ८.८१ ॥
vaṃśadaṇḍaṃ tathā vakṣye daṇḍaṃ ca kaṭidaṇḍakaṃ . jānudaṇḍadvayaṃ caiva pādadaṇḍadvayaṃ tathā .. 8.81 ..
बाहुदण्डाश्च चत्वार श्चत्वारश्च प्रकोष्ठकाः । तथा चरणदण्डौ द्वौ दण्डास्सप्त दश स्मृताः ॥ ८.८२ ॥
bāhudaṇḍāśca catvāra ścatvāraśca prakoṣṭhakāḥ . tathā caraṇadaṇḍau dvau daṇḍāssapta daśa smṛtāḥ .. 8.82 ..
कटिदण्डार्धमारभ्य यावदासीनरपि । तारस्स्यात्पृष्ठफलका तारमूरौ च बन्धयेथ् ॥ ८.८३ ॥
kaṭidaṇḍārdhamārabhya yāvadāsīnarapi . tārassyātpṛṣṭhaphalakā tāramūrau ca bandhayeth .. 8.83 ..
कटिदण्डादधस्ताच्च वक्षोदण्डधरस्तथा । योजयेदुपयानीलं? पृष्ठतो वृत्तमेव वा ॥ ८.८४ ॥
kaṭidaṇḍādadhastācca vakṣodaṇḍadharastathā . yojayedupayānīlaṃ? pṛṣṭhato vṛttameva vā .. 8.84 ..
वंशदण्डं तथा तेन क्लेशयेद्विशिखेन तु । शिखाग्रसुषीरे कीलं लोहं वा स्कामथापि वा ॥ ८.८५ ॥
vaṃśadaṇḍaṃ tathā tena kleśayedviśikhena tu . śikhāgrasuṣīre kīlaṃ lohaṃ vā skāmathāpi vā .. 8.85 ..
दार्ढ्यार्थं योजयेच्छूलं स्थितं वै शूलकर्मणि । अन्यत्कीलं तु सुषिरं कर्तव्यं कथञ्चन ॥ ८.८६ ॥
dārḍhyārthaṃ yojayecchūlaṃ sthitaṃ vai śūlakarmaṇi . anyatkīlaṃ tu suṣiraṃ kartavyaṃ kathañcana .. 8.86 ..
एवं स्थानस्य संप्रोक्तमासनस्य प्रवक्ष्यते । मेढ्रमूलादधोमूलं नाहमष्टांगुलं भवेथ् ॥ ८.८७ ॥
evaṃ sthānasya saṃproktamāsanasya pravakṣyate . meḍhramūlādadhomūlaṃ nāhamaṣṭāṃgulaṃ bhaveth .. 8.87 ..
भागमासनमानस्य भागं श्वभ्रप्रवेशनं । मेढ्रसूत्रसमे सम्यक्शेषयेत्कटिदण्डकं ॥ ८.८८ ॥
bhāgamāsanamānasya bhāgaṃ śvabhrapraveśanaṃ . meḍhrasūtrasame samyakśeṣayetkaṭidaṇḍakaṃ .. 8.88 ..
कटिदण्डशिखाह्यूरु दण्डमूलशिखानि च । आसने शयने चैव जानुसन्धिः प्रशस्यते ॥ ८.८९ ॥
kaṭidaṇḍaśikhāhyūru daṇḍamūlaśikhāni ca . āsane śayane caiva jānusandhiḥ praśasyate .. 8.89 ..
एकोनविंशतिश्शूलदण्डानां तु समाकृतिः । नेष्यते कोर्परे संधिशयने दण्डहस्तके ॥ ८.९० ॥
ekonaviṃśatiśśūladaṇḍānāṃ tu samākṛtiḥ . neṣyate korpare saṃdhiśayane daṇḍahastake .. 8.90 ..
तस्मादथ दश प्रोक्ता शूलसंख्या चतुर्भुजे । पञ्चान्ये द्विभुजे दण्ड दण्डा हस्ते चतुर्दश ॥ ८.९१ ॥
tasmādatha daśa proktā śūlasaṃkhyā caturbhuje . pañcānye dvibhuje daṇḍa daṇḍā haste caturdaśa .. 8.91 ..
दक्षिणे वक्षोदण्डस्यायतमेकादशांगुलं । शिखा पूर्ववदुद्दिष्टा बाहुमूलशिखान्विता ॥ ८.९२ ॥
dakṣiṇe vakṣodaṇḍasyāyatamekādaśāṃgulaṃ . śikhā pūrvavaduddiṣṭā bāhumūlaśikhānvitā .. 8.92 ..
तयोरुपरि चाभोगं छाययेच्छास्त्रवित्तमः । कटीडण्डद्वयादन्यत्स्थानस्योक्तवदाचरेथ् ॥ ८.९३ ॥
tayorupari cābhogaṃ chāyayecchāstravittamaḥ . kaṭīḍaṇḍadvayādanyatsthānasyoktavadācareth .. 8.93 ..
उक्तं हि शयने याने वक्ष्यतेथ त्रिविक्रमं । उद्दण्डस्योरुदण्डस्य शिखा भागायते स्मृते ॥ ८.९४ ॥
uktaṃ hi śayane yāne vakṣyatetha trivikramaṃ . uddaṇḍasyorudaṇḍasya śikhā bhāgāyate smṛte .. 8.94 ..
तावत्यः कटिदण्डस्य शिखायास्सम्यगन्वये । तदायतं तु कार्यार्थं तलदण्डं तु तद्द्वितं ॥ ८.९५ ॥
tāvatyaḥ kaṭidaṇḍasya śikhāyāssamyaganvaye . tadāyataṃ tu kāryārthaṃ taladaṇḍaṃ tu taddvitaṃ .. 8.95 ..
स्थिताङ्घ्रिस्थ्सितिमान्प्रोक्तश्शेषं चेदं शयानवथ् । एवमष्टभुजोपेतं चतुर्भुजसमन्विते ॥ ८.९६ ॥
sthitāṅghristhsitimānproktaśśeṣaṃ cedaṃ śayānavath . evamaṣṭabhujopetaṃ caturbhujasamanvite .. 8.96 ..
द्विभुजं
शूलसंख्यानुरूपेण योजयेत्तु विचक्षणः । शूलं चक्रतनौ वक्रमवक्रे वक्रतां नयेथ् ॥ ८.९७ ॥
śūlasaṃkhyānurūpeṇa yojayettu vicakṣaṇaḥ . śūlaṃ cakratanau vakramavakre vakratāṃ nayeth .. 8.97 ..
स्त्रीणां शूलविभागन्तु लक्ष्म्यादीनां प्रवक्ष्यते । नासामानविभागं च शूलदण्डायतं मतं ॥ ८.९८ ॥
strīṇāṃ śūlavibhāgantu lakṣmyādīnāṃ pravakṣyate . nāsāmānavibhāgaṃ ca śūladaṇḍāyataṃ mataṃ .. 8.98 ..
भागतारं भवेद्वंशं दण्डं तच्चतुरश्रकं । यदुक्तं बाहुपर्यन्तं तारं तस्माद्द्विपार्श्वयोः ॥ ८.९९ ॥
bhāgatāraṃ bhavedvaṃśaṃ daṇḍaṃ taccaturaśrakaṃ . yaduktaṃ bāhuparyantaṃ tāraṃ tasmāddvipārśvayoḥ .. 8.99 ..
बाहुमूलविशालार्धं त्यक्त्वा यावत्तदन्तरं । तावत्तु परमं वक्षोदण्डस्यायाममुच्यते ॥ ८.१०० ॥
bāhumūlaviśālārdhaṃ tyaktvā yāvattadantaraṃ . tāvattu paramaṃ vakṣodaṇḍasyāyāmamucyate .. 8.100 ..
कच्छांशोनं कराकारं कटिदण्डायतं मतं । ऊरुतारं तु तुर्यांशा दूरुदण्डविशालकं ॥ ८.१०१ ॥
kacchāṃśonaṃ karākāraṃ kaṭidaṇḍāyataṃ mataṃ . ūrutāraṃ tu turyāṃśā dūrudaṇḍaviśālakaṃ .. 8.101 ..
जङ्घादण्डं त्रिभागैकं तावश्चे?दष्टांशदण्डकं । मूलमेव मतं चैषामग्रमष्टांशहीनकं ॥ ८.१०२ ॥
jaṅghādaṇḍaṃ tribhāgaikaṃ tāvaśce?daṣṭāṃśadaṇḍakaṃ . mūlameva mataṃ caiṣāmagramaṣṭāṃśahīnakaṃ .. 8.102 ..
पार्श्वदण्डं न योक्तव्यं स्त्रीणां शूले कथं चन । पुरुषाणां प्रयोक्तव्य मध्यर्धाङ्गुलिविस्तरं ॥ ८.१०३ ॥
pārśvadaṇḍaṃ na yoktavyaṃ strīṇāṃ śūle kathaṃ cana . puruṣāṇāṃ prayoktavya madhyardhāṅgulivistaraṃ .. 8.103 ..
सर्वेषामसि तालानां शूलमेवं विदुर्बुधाः । भुवङ्गस्य समं प्रोक्तं स्थानके पीठकोन्नतं ॥ ८.१०४ ॥
sarveṣāmasi tālānāṃ śūlamevaṃ vidurbudhāḥ . bhuvaṅgasya samaṃ proktaṃ sthānake pīṭhakonnataṃ .. 8.104 ..
भुवङ्गोपरितालं स्याद्ध्रुवपीठस्य चोन्नतिः । ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलं ॥ ८.१०५ ॥
bhuvaṅgoparitālaṃ syāddhruvapīṭhasya connatiḥ . dhruvaberasya pādasya pratidikcaturaṅgulaṃ .. 8.105 ..
विस्तारमूर्ध्ववेद्यान्तु पद्मपत्रदलैर्युतं । मण्डलं चतुरश्रं वा पीठं कुर्यात्तदर्हकं ॥ ८.१०६ ॥
vistāramūrdhvavedyāntu padmapatradalairyutaṃ . maṇḍalaṃ caturaśraṃ vā pīṭhaṃ kuryāttadarhakaṃ .. 8.106 ..
दैविकं तु त्रिधा कृत्वा द्विभागं पुरतस्त्यजेथ् । अपरे स्थानकं स्थाप्य मध्यभागेऽथ वा पुलः ॥ ८.१०७ ॥
daivikaṃ tu tridhā kṛtvā dvibhāgaṃ puratastyajeth . apare sthānakaṃ sthāpya madhyabhāge'tha vā pulaḥ .. 8.107 ..
देवमानुषयार्मध्ये वाऽसनं संप्रकल्पयेथ् । किं चिद्दैविकसंयुक्ते मानुषे शयनं स्मृतं ॥ ८.१०८ ॥
devamānuṣayārmadhye vā'sanaṃ saṃprakalpayeth . kiṃ ciddaivikasaṃyukte mānuṣe śayanaṃ smṛtaṃ .. 8.108 ..
एवं सम्यग्विदित्वैव मासने च प्रवक्ष्यते । ध्रुवबेरं तथा कृत्वा चोर्ध्वं सिंहासनोच्छ्रयं ॥ ८.१०९ ॥
evaṃ samyagviditvaiva māsane ca pravakṣyate . dhruvaberaṃ tathā kṛtvā cordhvaṃ siṃhāsanocchrayaṃ .. 8.109 ..
तदर्हविस्तृतं प्रोक्त मुपधानेन संयुतं । पादाश्रयेण पीठेन पद्माकारौ? च संयुतं ॥ ८.११० ॥
tadarhavistṛtaṃ prokta mupadhānena saṃyutaṃ . pādāśrayeṇa pīṭhena padmākārau? ca saṃyutaṃ .. 8.110 ..
यथासैन्दर्यकं कृत्वा शेषं युक्त्या समाचरेथ् । बेरायामं चतुर्भागं शयनोच्छ्रायमुच्यते ॥ ८.१११ ॥
yathāsaindaryakaṃ kṛtvā śeṣaṃ yuktyā samācareth . berāyāmaṃ caturbhāgaṃ śayanocchrāyamucyate .. 8.111 ..
तत्तुरीयांशकोत्सेधं शिरोभागे विशेषतः । पादयोरुभयोश्चैव समं तत्रैव मूह्य च ॥ ८.११२ ॥
tatturīyāṃśakotsedhaṃ śirobhāge viśeṣataḥ . pādayorubhayoścaiva samaṃ tatraiva mūhya ca .. 8.112 ..
शेषभोगं त्रिरावेष्ट्य पञ्चवर्णसमायुतं । अधःपुच्छं शिरश्चोर्ध्वं सर्पदेहे तु वेष्टिते ॥ ८.११३ ॥
śeṣabhogaṃ trirāveṣṭya pañcavarṇasamāyutaṃ . adhaḥpucchaṃ śiraścordhvaṃ sarpadehe tu veṣṭite .. 8.113 ..
तदुत्संगगतं देवं शयानं संप्रचक्षते । फणानां पञ्चकं कुर्याद्विषवेगसमन्वितं ॥ ८.११४ ॥
tadutsaṃgagataṃ devaṃ śayānaṃ saṃpracakṣate . phaṇānāṃ pañcakaṃ kuryādviṣavegasamanvitaṃ .. 8.114 ..
एवमेव प्रकुर्वीत स्थानासनशयानकान् । पीठं कृत्वा प्रयत्नेन स्थापनारंभमाचरेथ् ॥ ८.११५ ॥
evameva prakurvīta sthānāsanaśayānakān . pīṭhaṃ kṛtvā prayatnena sthāpanāraṃbhamācareth .. 8.115 ..
अङ्कुरानर्पयित्वैव यागशालां प्रकल्पयेथ् । शिलास्थापनसार्गेण सर्वं कृत्वाप्रयत्नतः ॥ ८.११६ ॥
aṅkurānarpayitvaiva yāgaśālāṃ prakalpayeth . śilāsthāpanasārgeṇa sarvaṃ kṛtvāprayatnataḥ .. 8.116 ..
अथाचार्यःप्रभाते तु स्नात्वा नित्यं समाप्य च । यजमानसमायुक्तो गर्भगेहं प्रविश्य च ॥ ८.११७ ॥
athācāryaḥprabhāte tu snātvā nityaṃ samāpya ca . yajamānasamāyukto garbhagehaṃ praviśya ca .. 8.117 ..
स्थानासनशयानानां पदमुक्तं विचार्य च । पीठं तदर्हकं कुर्याद्युक्तेनैव विधानतः ॥ ८.११८ ॥
sthānāsanaśayānānāṃ padamuktaṃ vicārya ca . pīṭhaṃ tadarhakaṃ kuryādyuktenaiva vidhānataḥ .. 8.118 ..
प्रतिष्ठोक्तक्रमेणैव रत्नन्यासं समाचरेथ् । आचार्यस्थापकादीनामृत्विजां दक्षिणां ददेथ् ॥ ८.११९ ॥
pratiṣṭhoktakrameṇaiva ratnanyāsaṃ samācareth . ācāryasthāpakādīnāmṛtvijāṃ dakṣiṇāṃ dadeth .. 8.119 ..
शूले सार्थं समादाय गायत्रीं वैष्णवं जपन् । स्थापयेद्देवदेवस्य शूलं देव्योस्ततःक्रमाथ् ॥ ८.१२० ॥
śūle sārthaṃ samādāya gāyatrīṃ vaiṣṇavaṃ japan . sthāpayeddevadevasya śūlaṃ devyostataḥkramāth .. 8.120 ..
आधारदण्डयोः पश्चाच्छिष्टदण्डान्नियोजयेथ् । पुण्याहं वाचयित्वातु सभ्यमग्निं विसृज्य च ॥ ८.१२१ ॥
ādhāradaṇḍayoḥ paścācchiṣṭadaṇḍānniyojayeth . puṇyāhaṃ vācayitvātu sabhyamagniṃ visṛjya ca .. 8.121 ..
ततश्शिल्पिनमाहूय शास्त्रीयं प्रियदर्शनम्? । वस्त्रैराभरणैश्चापि पूजयित्वान्ववेक्ष्य च ॥ ८.१२२ ॥
tataśśilpinamāhūya śāstrīyaṃ priyadarśanam? . vastrairābharaṇaiścāpi pūjayitvānvavekṣya ca .. 8.122 ..
रज्जुबन्धादिकं कर्म बेरोक्तं तत्र कारयेथ् । अत्रानुक्तं ततः कुर्याच्छिल्पशास्त्रोक्तमार्गतः ॥ ८.१२३ ॥
rajjubandhādikaṃ karma beroktaṃ tatra kārayeth . atrānuktaṃ tataḥ kuryācchilpaśāstroktamārgataḥ .. 8.123 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारेऽष्टमोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre'ṣṭamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In