| |
|

This overlay will guide you through the buttons:

अथाष्टाविंशोऽध्यायः.प्रायश्चित्तम्
अथ अष्टाविंशः अध्यायः।प्रायश्चित्तम्
atha aṣṭāviṃśaḥ adhyāyaḥ.prāyaścittam
अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते । सर्पमूषकमण्डूकमार्जारनकुलादिषु ॥ २८.१ ॥
अथ अस्पृश्य-स्पर्श-नेतु-प्रायश्चित्तम् प्रवक्ष्यते । सर्प-मूषक-मण्डूक-मार्जार-नकुल-आदिषु ॥ २८।१ ॥
atha aspṛśya-sparśa-netu-prāyaścittam pravakṣyate . sarpa-mūṣaka-maṇḍūka-mārjāra-nakula-ādiṣu .. 28.1 ..
गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने । व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ॥ २८.२ ॥
गर्भागारम् प्रविष्टेषु विष्-मूत्र-आदि-विसर्जने । व्यपोह्य तत् पञ्चगव्यैः तथा अप्-लिङ्गाभिः एव च ॥ २८।२ ॥
garbhāgāram praviṣṭeṣu viṣ-mūtra-ādi-visarjane . vyapohya tat pañcagavyaiḥ tathā ap-liṅgābhiḥ eva ca .. 28.2 ..
वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेथ् । ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ॥ २८.३ ॥
वैष्णवम् विष्णुगायत्रीम् शतम् अष्ट-उत्तरम् जपेथ् । ध्रुवम् च ए वा अधितिष्ठत्सु विष्-मूत्र-आदि-विसर्जने ॥ २८।३ ॥
vaiṣṇavam viṣṇugāyatrīm śatam aṣṭa-uttaram japeth . dhruvam ca e vā adhitiṣṭhatsu viṣ-mūtra-ādi-visarjane .. 28.3 ..
क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च । आपो हिरण्यवर्णाऽभिः "पापमानीऽभिरेव च ॥ २८.४ ॥
क्षिप्रम् वस्त्रेण संशोद्य मार्जयित्वा कुशेन च । आपः हिरण्य-वर्णाः अभिः "च ॥ २८।४ ॥
kṣipram vastreṇa saṃśodya mārjayitvā kuśena ca . āpaḥ hiraṇya-varṇāḥ abhiḥ "ca .. 28.4 ..
संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृथ् । स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः ॥ २८.५ ॥
संस्रोक्ष्य च अर्चयेत् देवम् अन्यता । स्पर्श-एतैः एव बिंबानाम् शुद्धः उदैः स्नापयेत् विधिः ॥ २८।५ ॥
saṃsrokṣya ca arcayet devam anyatā . sparśa-etaiḥ eva biṃbānām śuddhaḥ udaiḥ snāpayet vidhiḥ .. 28.5 ..
उदक्यया सूतिकया रजकेनान्त्यजातिभिः । प्रथमावरणे विष्टे चार्चास्थाने च पर्षदां ॥ २८.६ ॥
उदक्यया सूतिकया रजकेन अन्त्य-जातिभिः । प्रथम-आवरणे विष्टे च अर्चा-स्थाने च पर्षदाम् ॥ २८।६ ॥
udakyayā sūtikayā rajakena antya-jātibhiḥ . prathama-āvaraṇe viṣṭe ca arcā-sthāne ca parṣadām .. 28.6 ..
प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना । हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ॥ २८.७ ॥
प्रविष्टे च अथ संस्पृष्टे दार्भेण उद्दीप्य वह्निना । हुत्वा च वास्तु यज्ञ-इव पञ्चगव्यैः समुक्ष्य च ॥ २८।७ ॥
praviṣṭe ca atha saṃspṛṣṭe dārbheṇa uddīpya vahninā . hutvā ca vāstu yajña-iva pañcagavyaiḥ samukṣya ca .. 28.7 ..
कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः । दौवारिकमनुं चैव द्वारपालं च वैष्णवं ॥ २८.८ ॥
कृत्वा पुण्याहम् अन्ते तु नित्य-अग्नौ जुहुयात् ततस् । दौवारिक-मनुम् च एव द्वारपालम् च वैष्णवम् ॥ २८।८ ॥
kṛtvā puṇyāham ante tu nitya-agnau juhuyāt tatas . dauvārika-manum ca eva dvārapālam ca vaiṣṇavam .. 28.8 ..
बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः । प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ॥ २८.९ ॥
बाङ्या आवरण-पक्षे तु मार्जनेन उपलेपनैः । प्रोक्षणैः वास्तु-यज्ञा इव शुद्धिः भवति सर्वतस् ॥ २८।९ ॥
bāṅyā āvaraṇa-pakṣe tu mārjanena upalepanaiḥ . prokṣaṇaiḥ vāstu-yajñā iva śuddhiḥ bhavati sarvatas .. 28.9 ..
अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिं । संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ॥ २८.१० ॥
तु दृष्टेषु च एतेषु विधिना हरिम् । संस्नाप्य शुद्धः दैः स्नाप्य ॥ २८।१० ॥
tu dṛṣṭeṣu ca eteṣu vidhinā harim . saṃsnāpya śuddhaḥ daiḥ snāpya .. 28.10 ..
प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः । एतेषु संप्रविष्टेषु चालयाभ्यन्तरे तथा ॥ २८.११ ॥
प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववत् शा अर्चयेत् ततस् । एतेषु संप्रविष्टेषु च आलय-अभ्यन्तरे तथा ॥ २८।११ ॥
prokṣaṇaiḥ prokṣya hutvā tu pūrvavat śā arcayet tatas . eteṣu saṃpraviṣṭeṣu ca ālaya-abhyantare tathā .. 28.11 ..
तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने । शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ॥ २८.१२ ॥
तद्-स्पृष्ट-हविषाम् च एव प्रमादात् तु निवेदने । शोधयित्वा अथ तत् द्रव्यम् यथाविधि विशेषतः ॥ २८।१२ ॥
tad-spṛṣṭa-haviṣām ca eva pramādāt tu nivedane . śodhayitvā atha tat dravyam yathāvidhi viśeṣataḥ .. 28.12 ..
वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेथ् । पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेथ् ॥ २८.१३ ॥
वास्तु-होमम् च हुत्वा अथ पर्यग्निकरणम् चरेथ् । पञ्चगव्यैः समभ्युक्ष्य पुण्याहम् अपि वाचयेथ् ॥ २८।१३ ॥
vāstu-homam ca hutvā atha paryagnikaraṇam careth . pañcagavyaiḥ samabhyukṣya puṇyāham api vācayeth .. 28.13 ..
संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः । वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ॥ २८.१४ ॥
संस्नाप्य कलशैः देवम् हुत्वा नित्य-अनले ततस् । वैष्णवम् विष्णुसूक्तम् च नृसूक्तम् रौद्रम् एव च ॥ २८।१४ ॥
saṃsnāpya kalaśaiḥ devam hutvā nitya-anale tatas . vaiṣṇavam viṣṇusūktam ca nṛsūktam raudram eva ca .. 28.14 ..
ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान्भोजयेत्ततः । स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः ॥ २८.१५ ॥
ब्राह्मम् च श्री-महीसूक्ते ब्राह्मणान् भोजयेत् ततस् । च एतैः बिंबेषु ध्रुव-आदिषु विशेषतः ॥ २८।१५ ॥
brāhmam ca śrī-mahīsūkte brāhmaṇān bhojayet tatas . ca etaiḥ biṃbeṣu dhruva-ādiṣu viśeṣataḥ .. 28.15 ..
कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेथ् । पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरं ॥ २८.१६ ॥
कृत्वा तु पूर्ववत् शुद्धिम् वास्तु-होमम् च कारयेथ् । पर्यग्नि-पञ्चगव्याभ्याम् शोधयित्वा ततस् परम् ॥ २८।१६ ॥
kṛtvā tu pūrvavat śuddhim vāstu-homam ca kārayeth . paryagni-pañcagavyābhyām śodhayitvā tatas param .. 28.16 ..
संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा । महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेथ् ॥ २८.१७ ॥
संस्नाप्य कलशैः देवम् अब्ज-अग्नौ विधिवत् तदा । महाशान्तिम् च हुत्वा एव प्रतिष्ठाम् पुनर् आचरेथ् ॥ २८।१७ ॥
saṃsnāpya kalaśaiḥ devam abja-agnau vidhivat tadā . mahāśāntim ca hutvā eva pratiṣṭhām punar ācareth .. 28.17 ..
शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः । पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादराथ् ॥ २८.१८ ॥
शूद्र-आद्यैः अनुलोमैः च स्पृष्टम् द-त्वा हविः ततस् । पञ्च गव्यैः च शुद्धोदैः देवम् संस्नाप्य च आदराथ् ॥ २८।१८ ॥
śūdra-ādyaiḥ anulomaiḥ ca spṛṣṭam da-tvā haviḥ tatas . pañca gavyaiḥ ca śuddhodaiḥ devam saṃsnāpya ca ādarāth .. 28.18 ..
पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेथ् । महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ॥ २८.१९ ॥
पुण्याहम् कारयेत् पश्छात् द्विगुणम् तु । महापातकिभिः च एव चण्डालैः पुल्कस-आदिभिः ॥ २८।१९ ॥
puṇyāham kārayet paśchāt dviguṇam tu . mahāpātakibhiḥ ca eva caṇḍālaiḥ pulkasa-ādibhiḥ .. 28.19 ..
आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते । सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ॥ २८.२० ॥
आलये संप्रविष्टे तु तद्-स्पृष्ठे विनिवेदिते । सप्त-अहम् महतीम् शान्तिम् हुत्वा अब्ज-अग्नौ विधानतः ॥ २८।२० ॥
ālaye saṃpraviṣṭe tu tad-spṛṣṭhe vinivedite . sapta-aham mahatīm śāntim hutvā abja-agnau vidhānataḥ .. 28.20 ..
संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेथ् । पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मन्दिरे ॥ २८.२१ ॥
संस्नाप्य कलशैः देवम् प्रतिष्ठाम् पुनर् आचरेथ् । पुनर् च ध्रुव-बेरे वा बिंबेषु अन्येषु मन्दिरे ॥ २८।२१ ॥
saṃsnāpya kalaśaiḥ devam pratiṣṭhām punar ācareth . punar ca dhruva-bere vā biṃbeṣu anyeṣu mandire .. 28.21 ..
स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च । हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुं ॥ २८.२२ ॥
स्पृष्टेषु पूर्ववत् शुद्धिम् कृत्वा द्विगुणम् एव च । हुत्वा तु महतीम् शान्तिम् संस्नाप्य कलशैः विभुम् ॥ २८।२२ ॥
spṛṣṭeṣu pūrvavat śuddhim kṛtvā dviguṇam eva ca . hutvā tu mahatīm śāntim saṃsnāpya kalaśaiḥ vibhum .. 28.22 ..
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेथ् । पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ॥ २८.२३ ॥
प्रतिष्ठा-उक्त-क्रमेण एव प्रतिष्ठाम् पुनर् आचरेथ् । पतिते च एव पाषण्डे च अन्य-तन्त्रेण दीक्षिते ॥ २८।२३ ॥
pratiṣṭhā-ukta-krameṇa eva pratiṣṭhām punar ācareth . patite ca eva pāṣaṇḍe ca anya-tantreṇa dīkṣite .. 28.23 ..
प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च । हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेथ् ॥ २८.२४ ॥
प्रविष्टे गर्भ-गेहे तु वास्तुशुद्धिम् विधाय च । हुत्वा तु महतीम् शान्तिम् प्रतिष्ठाम् पुनर् आचरेथ् ॥ २८।२४ ॥
praviṣṭe garbha-gehe tu vāstuśuddhim vidhāya ca . hutvā tu mahatīm śāntim pratiṣṭhām punar ācareth .. 28.24 ..
उक्तेष्वेतेषु सततं प्रथमावरणे तथा । द्वितीये वा संचरत्सु मासेऽतीते विशेषतः ॥ २८.२५ ॥
उक्तेषु एतेषु सततम् प्रथम-आवरणे तथा । द्वितीये वा संचरत्सु मासे अतीते विशेषतः ॥ २८।२५ ॥
ukteṣu eteṣu satatam prathama-āvaraṇe tathā . dvitīye vā saṃcaratsu māse atīte viśeṣataḥ .. 28.25 ..
मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः । कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेथ् ॥ २८.२६ ॥
मासम् एकम् महाशान्तिम् हुत्वा कृत्वा विधानतः । कर्षण-आदि पुनर् कृत्वा प्रतिष्ठाम् पुनर् आचरेथ् ॥ २८।२६ ॥
māsam ekam mahāśāntim hutvā kṛtvā vidhānataḥ . karṣaṇa-ādi punar kṛtvā pratiṣṭhām punar ācareth .. 28.26 ..
तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकं । कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ॥ २८.२७ ॥
तथा संवत्सरे अतीते त्यक्त्वा च आवाहन-आदिकम् । कौतुक-आदीन् सु संरक्ष्य गर्भागार-आदि सर्वतस् ॥ २८।२७ ॥
tathā saṃvatsare atīte tyaktvā ca āvāhana-ādikam . kautuka-ādīn su saṃrakṣya garbhāgāra-ādi sarvatas .. 28.27 ..
वासयेद्गा विशेषेण मासेऽतीते विशेषतः । सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ॥ २८.२८ ॥
वासयेत् गाः विशेषेण मासे अतीते विशेषतः । सर्वत्र शुद्धिम् कृत्वा तु हुत्वा मास-त्रयम् ततस् ॥ २८।२८ ॥
vāsayet gāḥ viśeṣeṇa māse atīte viśeṣataḥ . sarvatra śuddhim kṛtvā tu hutvā māsa-trayam tatas .. 28.28 ..
महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः । बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेथ् ॥ २८.२९ ॥
महाशान्तिम् तथा कृत्वा कर्षण-आदि पुनःक्रियाः । बाल-आलयम् च संकल्प्य बिंब-शुद्धिम् आथ आचरेथ् ॥ २८।२९ ॥
mahāśāntim tathā kṛtvā karṣaṇa-ādi punaḥkriyāḥ . bāla-ālayam ca saṃkalpya biṃba-śuddhim ātha ācareth .. 28.29 ..
जलाधिवासनाद्यैश्च तथा वित्तानुसारतः । अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविं ॥ २८.३० ॥
जल-अधिवासन-आद्यैः च तथा वित्त-अनुसारतः । अशीति-अधिक-साहस्रैः संस्नाप्य कलशैः हरिविं ॥ २८।३० ॥
jala-adhivāsana-ādyaiḥ ca tathā vitta-anusārataḥ . aśīti-adhika-sāhasraiḥ saṃsnāpya kalaśaiḥ hariviṃ .. 28.30 ..
ब्राह्मणान्भोजयित्वैव संपूज्यापि च वैष्णवान् । बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ॥ २८.३१ ॥
ब्राह्मणान् भोजयित्वा एव संपूज्य अपि च वैष्णवान् । बाल-आलये प्रतिष्ठाप्य देवेशम् विधिवत् ततस् ॥ २८।३१ ॥
brāhmaṇān bhojayitvā eva saṃpūjya api ca vaiṣṇavān . bāla-ālaye pratiṣṭhāpya deveśam vidhivat tatas .. 28.31 ..
आलयं चैव सर्वत्र नवीकृत्य विशेषतः । महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेथ् ॥ २८.३२ ॥
आलयम् च एव सर्वत्र नवीकृत्य विशेषतः । महा-प्रतिष्ठाम् कृत्वा एव देवदेवम् समर्चयेथ् ॥ २८।३२ ॥
ālayam ca eva sarvatra navīkṛtya viśeṣataḥ . mahā-pratiṣṭhām kṛtvā eva devadevam samarcayeth .. 28.32 ..
एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः । स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ॥ २८.३३ ॥
एतैः संसर्गिणाम् स्पर्शे सूतिका-अक्ता एव निष्कृतिः । स्पर्शे तद्-संसर्गिणाम् च शुद्धिः स्यात् स्नपन-आदिना ॥ २८।३३ ॥
etaiḥ saṃsargiṇām sparśe sūtikā-aktā eva niṣkṛtiḥ . sparśe tad-saṃsargiṇām ca śuddhiḥ syāt snapana-ādinā .. 28.33 ..
ततस्संसर्गिणां चैव न दोषः परिकथ्यते । अश्ॐअवद्द्विजस्पृष्टहविषां च निवेदने ॥ २८.३४ ॥
ततस् संसर्गिणाम् च एव न दोषः परिकथ्यते । च निवेदने ॥ २८।३४ ॥
tatas saṃsargiṇām ca eva na doṣaḥ parikathyate . ca nivedane .. 28.34 ..
एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः । पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेथ् ॥ २८.३५ ॥
एक-अहम् तु महाशान्तिम् हुत्वा संस्नाप्य च औदकैः । पुण्याहम् वाचयित्वा एव पूर्ववत् च ॥ २८।३५ ॥
eka-aham tu mahāśāntim hutvā saṃsnāpya ca audakaiḥ . puṇyāham vācayitvā eva pūrvavat ca .. 28.35 ..
स्पृष्टेषु चाथ बिंबेषु कौतुकादिषु वा ध्रुवे । पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ॥ २८.३६ ॥
स्पृष्टेषु च अथ बिंबेषु कौतुक-आदिषु वा ध्रुवे । पूर्ववत् महतीम् शान्तिम् हुत्वा संस्थापयेत् पुनर् ॥ २८।३६ ॥
spṛṣṭeṣu ca atha biṃbeṣu kautuka-ādiṣu vā dhruve . pūrvavat mahatīm śāntim hutvā saṃsthāpayet punar .. 28.36 ..
प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकं । गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेथ् ॥ २८.३७ ॥
प्रविष्टे सर्वत्र च यथार्हकम् । गौरवम् लाघवम् ज्ञात्वा सर्वम् ऊह्य एव ॥ २८।३७ ॥
praviṣṭe sarvatra ca yathārhakam . gauravam lāghavam jñātvā sarvam ūhya eva .. 28.37 ..
खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे । स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववथ् ॥ २८.३८ ॥
खद्यैत-पक्षि-जात-आदि-प्रवेशे च आलय-अन्तरे । स्पर्शने च एव बिंबानाम् कृत्वा पर्यग्नि ॥ २८।३८ ॥
khadyaita-pakṣi-jāta-ādi-praveśe ca ālaya-antare . sparśane ca eva biṃbānām kṛtvā paryagni .. 28.38 ..
संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च । प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेथ् ॥ २८.३९ ॥
संशोद्य पञ्चगव्यैः तु शुद्धोदैः अभिषिच्य च । प्रोक्षणैः छुल्ल्याम् वा वैष्णवम् ॥ २८।३९ ॥
saṃśodya pañcagavyaiḥ tu śuddhodaiḥ abhiṣicya ca . prokṣaṇaiḥ chullyām vā vaiṣṇavam .. 28.39 ..
बिंबादीन्तत्समीपस्थान्संशोध्यैव च पूर्ववथ् । शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेथ् ॥ २८.४० ॥
बिंब-आदीन् तद्-समीप-स्थान् संशोध्य एव च । शुद्धोदैः स्नाप्य पुण्याहम् कृत्वा उक्तम् होमम् आचरेथ् ॥ २८।४० ॥
biṃba-ādīn tad-samīpa-sthān saṃśodhya eva ca . śuddhodaiḥ snāpya puṇyāham kṛtvā uktam homam ācareth .. 28.40 ..
पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि । छेदने ताडने चैव रक्तस्रावे मृतौ तथा ॥ २८.४१ ॥
पूर्वम् उक्तेषु देशेषु श्व-आदीनाम् वा नृणाम् अपि । छेदने ताडने च एव रक्त-स्रावे मृतौ तथा ॥ २८।४१ ॥
pūrvam ukteṣu deśeṣu śva-ādīnām vā nṛṇām api . chedane tāḍane ca eva rakta-srāve mṛtau tathā .. 28.41 ..
तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः । वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ॥ २८.४२ ॥
तत् व्यपौह्य च तद्-देश-शुद्धिम् कृत्वा विधानतः । वास्तु-होमम् च हुत्वा एव कलशैः स्नाप्य सप्तभिः ॥ २८।४२ ॥
tat vyapauhya ca tad-deśa-śuddhim kṛtvā vidhānataḥ . vāstu-homam ca hutvā eva kalaśaiḥ snāpya saptabhiḥ .. 28.42 ..
तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः । अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेथ् ॥ २८.४३ ॥
तद्-दोष-शमन-अर्थम् च महाशान्तिम् हुनेत् ततस् । अभ्यर्च्य पूर्ववत् देवम् हविः सम्यक् नि वेदयेथ् ॥ २८।४३ ॥
tad-doṣa-śamana-artham ca mahāśāntim hunet tatas . abhyarcya pūrvavat devam haviḥ samyak ni vedayeth .. 28.43 ..
संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववथ् । देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ॥ २८.४४ ॥
संभूते तु आलयात् बाह्ये कृत्वा पर्यग्नि । देवम् शुद्ध-उदकैः स्नाप्य शान्तिम् हुत्वा विधानतः ॥ २८।४४ ॥
saṃbhūte tu ālayāt bāhye kṛtvā paryagni . devam śuddha-udakaiḥ snāpya śāntim hutvā vidhānataḥ .. 28.44 ..
संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेथ् । देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिं ॥ २८.४५ ॥
संपूज्य वैष्णवान् च एव पूर्ववत् सम्यक् अर्चयेथ् । देवेशस्य शवे दृष्टे संस्नाप्य कलशैः हरिम् ॥ २८।४५ ॥
saṃpūjya vaiṣṇavān ca eva pūrvavat samyak arcayeth . deveśasya śave dṛṣṭe saṃsnāpya kalaśaiḥ harim .. 28.45 ..
वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः । गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ॥ २८.४६ ॥
वैष्णवम् विष्णुसूक्तम् च पौरुषम् जुहुयात् ततस् । गज-अश्व-पशु-मुखेषु प्रथम-आवरणे पुनर्, ॥ २८।४६ ॥
vaiṣṇavam viṣṇusūktam ca pauruṣam juhuyāt tatas . gaja-aśva-paśu-mukheṣu prathama-āvaraṇe punar, .. 28.46 ..
मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलं । वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ॥ २८.४७ ॥
मृतेषु तत् व्यपोह्य एव खनित्वा तादृशम् स्थलम् । वास्तु-होमम् च हुत्वा तु शद्धोदैः अभिषिच्य च ॥ २८।४७ ॥
mṛteṣu tat vyapohya eva khanitvā tādṛśam sthalam . vāstu-homam ca hutvā tu śaddhodaiḥ abhiṣicya ca .. 28.47 ..
वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः । प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ॥ २८.४८ ॥
वैष्णपम् विष्णुसूक्तम् च पौरुषम् जुहुयात् विधिः । प्रस्वेदे रुधिर-स्रावे रोदने जल्पने तथा ॥ २८।४८ ॥
vaiṣṇapam viṣṇusūktam ca pauruṣam juhuyāt vidhiḥ . prasvede rudhira-srāve rodane jalpane tathā .. 28.48 ..
हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः । आलयाभिमुखेऽब्जाग्निं साधयित्वाथ वैष्णवं ॥ २८.४९ ॥
हासे दृष्टे महा-बेरे सत्सु धूम-आदिषु स्वतस् । आलय-अभिमुखे अब्ज-अग्निम् साधयित्वा अथ वैष्णवम् ॥ २८।४९ ॥
hāse dṛṣṭe mahā-bere satsu dhūma-ādiṣu svatas . ālaya-abhimukhe abja-agnim sādhayitvā atha vaiṣṇavam .. 28.49 ..
विष्णुसूक्तं नृसूक्तं चरिङ्कारान्पारमात्मिकं । हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमाथ् ॥ २८.५० ॥
विष्णुसूक्तम् नृसूक्तम् च रिङ्कारान् पारमात्मिकम् । हुत्वा संस्नाप्य देवेशम् कलशैः सप्तभिः ॥ २८।५० ॥
viṣṇusūktam nṛsūktam ca riṅkārān pāramātmikam . hutvā saṃsnāpya deveśam kalaśaiḥ saptabhiḥ .. 28.50 ..
समभ्यर्च्य हविर्दत्वा ब्राह्मणान्भोज्य सादरं । वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणां ॥ २८.५१ ॥
समभ्यर्च्य हविः द-त्वा ब्राह्मणान् भोज्य स आदरम् । वैष्णवान् च सु संपूज्य दद्यात् आयार्य-दक्षिणाम् ॥ २८।५१ ॥
samabhyarcya haviḥ da-tvā brāhmaṇān bhojya sa ādaram . vaiṣṇavān ca su saṃpūjya dadyāt āyārya-dakṣiṇām .. 28.51 ..
तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववथ् । शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ॥ २८.५२ ॥
तृण-वल्मीक-कीट-आदौ उत्पन्ने तत्र । शान्तिम् पूर्व-उदिताम् हुत्वा अ भोजयित्वा अपि ब्राह्मणान् ॥ २८।५२ ॥
tṛṇa-valmīka-kīṭa-ādau utpanne tatra . śāntim pūrva-uditām hutvā a bhojayitvā api brāhmaṇān .. 28.52 ..
देवं बालालये स्थाप्य नवीकरणमाचरेथ् । विमाने तु हठाद्भिन्ने पतिते वा विधानतः ॥ २८.५३ ॥
देवम् बाल-आलये स्थाप्य नवीकरणम् आचरेथ् । विमाने तु हठात् भिन्ने पतिते वा विधानतः ॥ २८।५३ ॥
devam bāla-ālaye sthāpya navīkaraṇam ācareth . vimāne tu haṭhāt bhinne patite vā vidhānataḥ .. 28.53 ..
शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च । बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनं ॥ २८.५४ ॥
शान्तिम् मास-त्रयम् हुत्वा कर्षण-आदि विधाय च । बाल-आलयम् च संकल्प्य कृत्वा च अप्सु अधिवासनम् ॥ २८।५४ ॥
śāntim māsa-trayam hutvā karṣaṇa-ādi vidhāya ca . bāla-ālayam ca saṃkalpya kṛtvā ca apsu adhivāsanam .. 28.54 ..
बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिं । अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरं ॥ २८.५५ ॥
बिंब-शुद्धिम् तु कृत्वा एव संस्नाप्य कलशैः हरिम् । अशीति-अधिक-स्राहस्रैः यथा विभव-विस्तरम् ॥ २८।५५ ॥
biṃba-śuddhim tu kṛtvā eva saṃsnāpya kalaśaiḥ harim . aśīti-adhika-srāhasraiḥ yathā vibhava-vistaram .. 28.55 ..
ब्राह्मणान्भोजयित्वैव संपूज्यैव तु वैष्णवान् । देवं बालालये स्थाप्य नवीकृत्यालयादिकं ॥ २८.५६ ॥
ब्राह्मणान् भोजयित्वा एव संपूज्य एव तु वैष्णवान् । देवम् बाल-आलये स्थाप्य नवीकृत्य आलय-आदिकम् ॥ २८।५६ ॥
brāhmaṇān bhojayitvā eva saṃpūjya eva tu vaiṣṇavān . devam bāla-ālaye sthāpya navīkṛtya ālaya-ādikam .. 28.56 ..
सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेथ् । तत्राशनिहते चैव मक्षिकादिफिरावृते ॥ २८.५७ ॥
सर्वत्र च अविशेषेण प्रतिष्ठाम् पुनर् आचरेथ् । तत्र अशनि-हते च एव मक्षिका-आदि-फिर-आवृते ॥ २८।५७ ॥
sarvatra ca aviśeṣeṇa pratiṣṭhām punar ācareth . tatra aśani-hate ca eva makṣikā-ādi-phira-āvṛte .. 28.57 ..
संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः । प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ॥ २८.५८ ॥
संस्नाप्य कलशैः देवम् पूजाम् कृत्वा विशेषतः । प्रभूतम् तु निवेद्य एव हुत्वा शान्तिम् विधानतः ॥ २८।५८ ॥
saṃsnāpya kalaśaiḥ devam pūjām kṛtvā viśeṣataḥ . prabhūtam tu nivedya eva hutvā śāntim vidhānataḥ .. 28.58 ..
ब्राह्मणान्भौजयित्वैव पुनस्संधानमाचरेथ् । स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ॥ २८.५९ ॥
ब्राह्मणान् भौजयित्वा एव पुनर् संधानम् आचरेथ् । स्थूपि-कीले विनष्टे तु विमान-उपरि संस्थिते ॥ २८।५९ ॥
brāhmaṇān bhaujayitvā eva punar saṃdhānam ācareth . sthūpi-kīle vinaṣṭe tu vimāna-upari saṃsthite .. 28.59 ..
विमानकल्पवत्कृत्वा पुनस्संधानमाचरेथ् । अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ॥ २८.६० ॥
विमान-कल्प-वत् कृत्वा पुनर् संधानम् आचरेथ् । अकाशे प्रतिसूर्यस्य दर्शने वैष्णवम् तथा ॥ २८।६० ॥
vimāna-kalpa-vat kṛtvā punar saṃdhānam ācareth . akāśe pratisūryasya darśane vaiṣṇavam tathā .. 28.60 ..
सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः । दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ॥ २८.६१ ॥
सौरम् च दश-कृत्वन्तु हुत्वा अभ्यर्च्य विशेषतः । दिग्दाहे वैष्णवम् दिश्-दैवत्यम् आग्नेयम् एव च ॥ २८।६१ ॥
sauram ca daśa-kṛtvantu hutvā abhyarcya viśeṣataḥ . digdāhe vaiṣṇavam diś-daivatyam āgneyam eva ca .. 28.61 ..
शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता । अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ॥ २८.६२ ॥
शिला-वर्षे वारुणम् च वैष्णवम् त्रिस् चत्रिंशता । अकाले शशिनः पूर्तौ क्षये वा प्रतिदर्शने ॥ २८।६२ ॥
śilā-varṣe vāruṇam ca vaiṣṇavam tris catriṃśatā . akāle śaśinaḥ pūrtau kṣaye vā pratidarśane .. 28.62 ..
महोत्पाते च महतीं हुत्वा शान्तिं विधानतः । देवं विशेषतोऽभ्यर्च ब्राह्मणान्भोजयेत्ततः ॥ २८.६३ ॥
महोत्पाते च महतीम् हुत्वा शान्तिम् विधानतः । देवम् विशेषतः अभ्यर्च ब्राह्मणान् भोजयेत् ततस् ॥ २८।६३ ॥
mahotpāte ca mahatīm hutvā śāntim vidhānataḥ . devam viśeṣataḥ abhyarca brāhmaṇān bhojayet tatas .. 28.63 ..
आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः । रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ॥ २८.६४ ॥
आलय-अभ्यन्तरे बाह्य-प्राकारे वा विशेषतः । रक्त-स्त्री-दर्शने इच एवम् तम् देशम् परिशोध्य च ॥ २८।६४ ॥
ālaya-abhyantare bāhya-prākāre vā viśeṣataḥ . rakta-strī-darśane ica evam tam deśam pariśodhya ca .. 28.64 ..
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेथ् । ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदितां ॥ २८.६५ ॥
देवम् विशेषतः अभ्यर्च्य हविः सम्यक् निवेदयेथ् । ध्रुव-बेरे कौतुक-आदौ स्पृष्टे च एव ध्रुव-उदिताम् ॥ २८।६५ ॥
devam viśeṣataḥ abhyarcya haviḥ samyak nivedayeth . dhruva-bere kautuka-ādau spṛṣṭe ca eva dhruva-uditām .. 28.65 ..
शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः । गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ॥ २८.६६ ॥
शुद्धिम् जल-अधिवासम् च कृत्वा संस्थापयेत् पुनर् । गर्भ-आलये तु सर्प-आदि-दर्शने तत् व्यपोह्य च ॥ २८।६६ ॥
śuddhim jala-adhivāsam ca kṛtvā saṃsthāpayet punar . garbha-ālaye tu sarpa-ādi-darśane tat vyapohya ca .. 28.66 ..
गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः । औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेथ् ॥ २८.६७ ॥
गोमयेन उपलिप्य एव गव्यैः अभ्युक्ष्य पञ्चभिः । औपासन-अग्निम् आधाय वैष्णवम् शान्तिम् आचरेथ् ॥ २८।६७ ॥
gomayena upalipya eva gavyaiḥ abhyukṣya pañcabhiḥ . aupāsana-agnim ādhāya vaiṣṇavam śāntim ācareth .. 28.67 ..
पुण्याहं वाचयित्वैव ब्राह्मणान्भोजयेत्ततः । सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ॥ २८.६८ ॥
पुण्याहम् वाचयित्वा एव ब्राह्मणान् भोजयेत् ततस् । सर्प-आदौ तु मृते तत्र तत् व्यपौह्य उपलिप्य च ॥ २८।६८ ॥
puṇyāham vācayitvā eva brāhmaṇān bhojayet tatas . sarpa-ādau tu mṛte tatra tat vyapauhya upalipya ca .. 28.68 ..
पञ्चगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च । संस्नाप्य कलशैर्देवं चतुर्विंशतिभिस्तदा ॥ २८.६९ ॥
संप्रोक्ष्य वास्तु-शुद्धिम् विधाय च । संस्नाप्य कलशैः देवम् चतुर्विंशतिभिः तदा ॥ २८।६९ ॥
saṃprokṣya vāstu-śuddhim vidhāya ca . saṃsnāpya kalaśaiḥ devam caturviṃśatibhiḥ tadā .. 28.69 ..
एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च । ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा ॥ २८.७० ॥
एक-अहम् पैण्डरीक-अग्नौ महाशान्तिम् विधाय च । ध्रुव-आदिषु तु बिंबेषु मुहुर् स्पृष्टेषु तैः तथा ॥ २८।७० ॥
eka-aham paiṇḍarīka-agnau mahāśāntim vidhāya ca . dhruva-ādiṣu tu biṃbeṣu muhur spṛṣṭeṣu taiḥ tathā .. 28.70 ..
देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च । पुण्याहं वाचयित्वैव विशेषार्चनमाचरेथ् ॥ २८.७१ ॥
देवम् शुद्ध-उदकैः स्नाप्य महाशान्तिम् विधाय च । पुण्याहम् वाचयित्वा एव विशेष-अर्चनम् आचरेथ् ॥ २८।७१ ॥
devam śuddha-udakaiḥ snāpya mahāśāntim vidhāya ca . puṇyāham vācayitvā eva viśeṣa-arcanam ācareth .. 28.71 ..
मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववथ् । प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदं ॥ २८.७२ ॥
मृते प्रासाद-बाह्ये तु तत् व्यपोह्य च । प्रोक्षणैः प्रोक्ष्य च हुनेत् दिग्दैवत्यम् च वैष्णदम् ॥ २८।७२ ॥
mṛte prāsāda-bāhye tu tat vyapohya ca . prokṣaṇaiḥ prokṣya ca hunet digdaivatyam ca vaiṣṇadam .. 28.72 ..
पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च । उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ॥ २८.७३ ॥
पाकस्थाने गोपुर-आदौ मृते सर्पे व्यपोह्य च । उपलिप्य च नित्य-अग्नौ वैष्णवम् च विशेषतः ॥ २८।७३ ॥
pākasthāne gopura-ādau mṛte sarpe vyapohya ca . upalipya ca nitya-agnau vaiṣṇavam ca viśeṣataḥ .. 28.73 ..
तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः । आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा ॥ २८.७४ ॥
दशशस् जुहुयात् विधिः । आलय-अभ्यन्तरे च एव सर्पत्र-आवरणे अपि वा ॥ २८।७४ ॥
daśaśas juhuyāt vidhiḥ . ālaya-abhyantare ca eva sarpatra-āvaraṇe api vā .. 28.74 ..
महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे । संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ॥ २८.७५ ॥
महा-वाते अविवृष्टौ वा शत्रु-चोर-आदि-उपप्लवे । संस्माप्य कलशैः देवम् वास्तु-होमम् विधाय च ॥ २८।७५ ॥
mahā-vāte avivṛṣṭau vā śatru-cora-ādi-upaplave . saṃsmāpya kalaśaiḥ devam vāstu-homam vidhāya ca .. 28.75 ..
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः । पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकं ॥ २८.७६ ॥
पर्यग्नि पञ्चगव्याभ्याम् शोधयित्वा विधानतः । पुण्याहम् वाचयित्वा एव वैष्णवम् विष्णुसूक्तकम् ॥ २८।७६ ॥
paryagni pañcagavyābhyām śodhayitvā vidhānataḥ . puṇyāham vācayitvā eva vaiṣṇavam viṣṇusūktakam .. 28.76 ..
नृसूक्तं श्रीमहीमन्त्रान्ब्राह्मं रौद्रं विशेषतः । प्राजापत्यं च हुत्वैव ब्राह्मणान्भोजयेद्विधिः ॥ २८.७७ ॥
नृ-सूक्तम् श्री-मही-मन्त्रान् ब्राह्मम् रौद्रम् विशेषतः । प्राजापत्यम् च हुत्वा एव ब्राह्मणान् भोजयेत् विधिः ॥ २८।७७ ॥
nṛ-sūktam śrī-mahī-mantrān brāhmam raudram viśeṣataḥ . prājāpatyam ca hutvā eva brāhmaṇān bhojayet vidhiḥ .. 28.77 ..
अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिं । चोरैरमित्रैरथ वा परचक्रेण संकुले ॥ २८.७८ ॥
अथ वक्ष्ये विशेषेण भय-रक्षा-अर्थ-निष्कृतिम् । चोरैः अमित्रैः अथ वा पर-चक्रेण संकुले ॥ २८।७८ ॥
atha vakṣye viśeṣeṇa bhaya-rakṣā-artha-niṣkṛtim . coraiḥ amitraiḥ atha vā para-cakreṇa saṃkule .. 28.78 ..
लोहजप्रतिमानां च तिरोधानं प्रकल्पयेथ् । शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनं ॥ २८.७९ ॥
लोह-ज-प्रतिमानाम् च तिरोधानम् । शुचौ देशे सु गुप्ते तु खनित्वा च अवटम् घनम् ॥ २८।७९ ॥
loha-ja-pratimānām ca tirodhānam . śucau deśe su gupte tu khanitvā ca avaṭam ghanam .. 28.79 ..
सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि । अवटेऽभ्यर्च्य भूदेवी "मपो हिऽष्ठेति प्रोक्ष्य च ॥ २८.८० ॥
सिकताभिः प्रपूर्य एव कुशान् आस्तीर्य च उपरि । अवटे अभ्यर्च्य भूदेवी "मपः हि अस्थ इति प्रोक्ष्य च ॥ २८।८० ॥
sikatābhiḥ prapūrya eva kuśān āstīrya ca upari . avaṭe abhyarcya bhūdevī "mapaḥ hi astha iti prokṣya ca .. 28.80 ..
देवागारं प्रविश्यैव यजमानयुतो गुरुः । देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ॥ २८.८१ ॥
देवागारम् प्रविश्य एव यजमान-युतः गुरुः । देवदेवम् प्रणम्य एव समभ्यर्च्य अनुमान्य च ॥ २८।८१ ॥
devāgāram praviśya eva yajamāna-yutaḥ guruḥ . devadevam praṇamya eva samabhyarcya anumānya ca .. 28.81 ..
यावत्कालं भयं भूयात्तावदीश जनार्दन । हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुं ॥ २८.८२ ॥
यावत्कालम् भयम् भूयात् तावत् ईश जनार्दन । इति सत्-मनुम् ॥ २८।८२ ॥
yāvatkālam bhayam bhūyāt tāvat īśa janārdana . iti sat-manum .. 28.82 ..
वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेथ् । बेराभावे तु हृदये समारोप्य विधानतः ॥ २८.८३ ॥
शक्तिम् बिंब-स्थाम् ध्रुव-बेरे अवरोपयेथ् । बेर-अभावे तु हृदये समारोप्य विधानतः ॥ २८।८३ ॥
śaktim biṃba-sthām dhruva-bere avaropayeth . bera-abhāve tu hṛdaye samāropya vidhānataḥ .. 28.83 ..
परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः । प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितं ॥ २८.८४ ॥
परम् रंहः इति प्रोच्य पीठात् आदाय चात्वरः । प्रतत् विष्णु स्तवते इति अवटे न्यस्य रक्षितम् ॥ २८।८४ ॥
param raṃhaḥ iti procya pīṭhāt ādāya cātvaraḥ . pratat viṣṇu stavate iti avaṭe nyasya rakṣitam .. 28.84 ..
यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः । अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ॥ २८.८५ ॥
यत् वैष्णवम् इति प्रोच्य प्राच्-शिरः शाययेत् ततस् । अवटम् सिकताभिः वा मृदा वा यत्नतः ॥ २८।८५ ॥
yat vaiṣṇavam iti procya prāc-śiraḥ śāyayet tatas . avaṭam sikatābhiḥ vā mṛdā vā yatnataḥ .. 28.85 ..
अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितं । पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ॥ २८.८६ ॥
अच्छिद्रम् सु दृढम् कुर्यात् अवटम् परिरक्षितम् । पश्चात् अभ्यन्तरम् गत्वा देवदेवम् प्रणम्य च ॥ २८।८६ ॥
acchidram su dṛḍham kuryāt avaṭam parirakṣitam . paścāt abhyantaram gatvā devadevam praṇamya ca .. 28.86 ..
ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च । द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ॥ २८.८७ ॥
ग्रथितम् पञ्चदशभिः दर्भैः कूर्चम् प्रगह्य च । द्वादश-अंगुल-दीर्घम् तु जीव-स्थाने निधाय च ॥ २८।८७ ॥
grathitam pañcadaśabhiḥ darbhaiḥ kūrcam pragahya ca . dvādaśa-aṃgula-dīrgham tu jīva-sthāne nidhāya ca .. 28.87 ..
ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेथ् । बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ॥ २८.८८ ॥
ध्रुव-बेरात् समादाय तद्-कूर्चेः अचनम् आचरेथ् । बाल-आलयम् भवेत् छेत् तु अर्चा-पीठे विशेषतः ॥ २८।८८ ॥
dhruva-berāt samādāya tad-kūrceḥ acanam ācareth . bāla-ālayam bhavet chet tu arcā-pīṭhe viśeṣataḥ .. 28.88 ..
कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच । कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ॥ २८.८९ ॥
कूर्चम् सन् न्यस्य हृदयात् प्रणिध्याम् विनिवेश्य च । कूर्चम् तु बिंब-वत् स्मृत्वा मनसा एव अक्षराणि तु ॥ २८।८९ ॥
kūrcam san nyasya hṛdayāt praṇidhyām viniveśya ca . kūrcam tu biṃba-vat smṛtvā manasā eva akṣarāṇi tu .. 28.89 ..
तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेथ् । स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः ॥ २८.९० ॥
तु संस्कृत्य सन्न्यस्य आवाह्य च अर्चयेथ् । स्नपन-आदौ तु संप्राप्ते कुर्यात् अभ्युक्षणम् बुधः ॥ २८।९० ॥
tu saṃskṛtya sannyasya āvāhya ca arcayeth . snapana-ādau tu saṃprāpte kuryāt abhyukṣaṇam budhaḥ .. 28.90 ..
मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेथ् । काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा ॥ २८.९१ ॥
मासात् ऊर्ध्वम् तु तत् कूर्चम् व्यपोह्य अन्यम् । काले तु बिंबम् उद्धृत्य संशोध्य अम्ल-आदिभिः तदा ॥ २८।९१ ॥
māsāt ūrdhvam tu tat kūrcam vyapohya anyam . kāle tu biṃbam uddhṛtya saṃśodhya amla-ādibhiḥ tadā .. 28.91 ..
पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितं । कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकं ॥ २८.९२ ॥
पुण्य-अह-अन्ते कृते अ स्पृश्य स्पर्शने तु अविलंबितम् । कृत्वा जल-अधिवास-आदीन् अङ्कुर-अर्पण-पूर्वकम् ॥ २८।९२ ॥
puṇya-aha-ante kṛte a spṛśya sparśane tu avilaṃbitam . kṛtvā jala-adhivāsa-ādīn aṅkura-arpaṇa-pūrvakam .. 28.92 ..
आलयाभिमुखे वापि दक्षिणे वा मनोरमे । प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ॥ २८.९३ ॥
आलय-अभिमुखे वा अपि दक्षिणे वा मनोरमे । प्रपायाम् मण्डपे कूटे यत्वा अब्ज-अग्निम् विधाय च ॥ २८।९३ ॥
ālaya-abhimukhe vā api dakṣiṇe vā manorame . prapāyām maṇḍape kūṭe yatvā abja-agnim vidhāya ca .. 28.93 ..
तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः । पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ॥ २८.९४ ॥
तद्-उत्तरे वास्त-होमम् हुत्वा आ बिंब-समीपतः । पर्यग्निकरणम् कृत्वा गव्यैः संशोध्य पञ्चभिः ॥ २८।९४ ॥
tad-uttare vāsta-homam hutvā ā biṃba-samīpataḥ . paryagnikaraṇam kṛtvā gavyaiḥ saṃśodhya pañcabhiḥ .. 28.94 ..
अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृतां । भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ॥ २८.९५ ॥
अब्ज-अग्नौ पश्चिमे भागे बिंब-अर्ध-अधिक-विस्तृताम् । भाग-उन्नताम् यथा लोभ-उन्न ताम् धान्यैः विधाय च ॥ २८।९५ ॥
abja-agnau paścime bhāge biṃba-ardha-adhika-vistṛtām . bhāga-unnatām yathā lobha-unna tām dhānyaiḥ vidhāya ca .. 28.95 ..
वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च । संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ॥ २८.९६ ॥
वेदिम् मनोहराम् च एव वासांसि आस्तीर्य पञ्च च । संस्नाप्य कलशैः दिव्यैः चतुर्दशभिः एव च ॥ २८।९६ ॥
vedim manoharām ca eva vāsāṃsi āstīrya pañca ca . saṃsnāpya kalaśaiḥ divyaiḥ caturdaśabhiḥ eva ca .. 28.96 ..
पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकं । बेराणि देवीसहितं शाययेच्छयने शुभे ॥ २८.९७ ॥
पुण्याह-अन्ते प्रतिसरम् बद्ध्वा कौतुक-पूर्वकम् । बेराणि देवी-सहितम् शाययेत् शयने शुभे ॥ २८।९७ ॥
puṇyāha-ante pratisaram baddhvā kautuka-pūrvakam . berāṇi devī-sahitam śāyayet śayane śubhe .. 28.97 ..
अवताराणां तु शयनं पृथगेव विधीयते । परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेथ् ॥ २८.९८ ॥
अवताराणाम् तु शयनम् पृथक् एव विधीयते । परिषिच्य च पद्म-अग्नौ हौत्र-शंसनम् आचरेथ् ॥ २८।९८ ॥
avatārāṇām tu śayanam pṛthak eva vidhīyate . pariṣicya ca padma-agnau hautra-śaṃsanam ācareth .. 28.98 ..
देवेशस्य च देव्याश्च अवतारगणस्य च । दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ॥ २८.९९ ॥
देवेशस्य च देव्याः च अवतार-गणस्य च । दक्षिण-प्रणिधौ च एव पार्षदानाम् अथ उत्तरे ॥ २८।९९ ॥
deveśasya ca devyāḥ ca avatāra-gaṇasya ca . dakṣiṇa-praṇidhau ca eva pārṣadānām atha uttare .. 28.99 ..
आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमाथ् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २८.१०० ॥
आवाह्य कृत्वा निर्वापम् हुनेत् आज्य-आहुतीः क्रमान् । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तथा एव च ॥ २८।१०० ॥
āvāhya kṛtvā nirvāpam hunet ājya-āhutīḥ kramān . vaiṣṇavam viṣṇusūktam ca puruṣasūktam tathā eva ca .. 28.100 ..
गायत्री वैष्णवी चैव द्वादशाक्षरमेव च । प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयं ॥ २८.१०१ ॥
गायत्री वैष्णवी च एव द्वादश-अक्षरम् एव च । प्राजापत्यम् मिन्दाहुती विच्छिन्नम् जुहुयात् अयम् ॥ २८।१०१ ॥
gāyatrī vaiṣṇavī ca eva dvādaśa-akṣaram eva ca . prājāpatyam mindāhutī vicchinnam juhuyāt ayam .. 28.101 ..
शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे । षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ॥ २८.१०२ ॥
शान्ति-होमः इति प्रोक्ताः महाशान्तिम् जगुः परे । षष्-माने समतीते तु हुत्वा शान्तिम् विशेषतः ॥ २८।१०२ ॥
śānti-homaḥ iti proktāḥ mahāśāntim jaguḥ pare . ṣaṣ-māne samatīte tu hutvā śāntim viśeṣataḥ .. 28.102 ..
सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवं । विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ॥ २८.१०३ ॥
सक्तु-लाज-तिल-अपूपैः आज्य-मिश्रैः तु वैष्णवम् । विष्णुसूक्तम् च प्रत्येकम् शतशस् जुहुयात् विधिः ॥ २८।१०३ ॥
saktu-lāja-tila-apūpaiḥ ājya-miśraiḥ tu vaiṣṇavam . viṣṇusūktam ca pratyekam śataśas juhuyāt vidhiḥ .. 28.103 ..
श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदं । घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ॥ २८.१०४ ॥
श्वेतम् रक्तम् सरः-जातम् अलाभे बिल्वक-छदम् । घृत-आप्लुतम् तु वैष्णव्या गायत् सा आजुहुयात् तथा ॥ २८।१०४ ॥
śvetam raktam saraḥ-jātam alābhe bilvaka-chadam . ghṛta-āplutam tu vaiṣṇavyā gāyat sā ājuhuyāt tathā .. 28.104 ..
सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकं । एनमेके महाशान्तिहोममाचक्षते बुधाः ॥ २८.१०५ ॥
सर्वदैवत्यम् अन्ते च जुहुयात् पारमात्मिकम् । एनम् एके महाशान्ति-होमम् आचक्षते बुधाः ॥ २८।१०५ ॥
sarvadaivatyam ante ca juhuyāt pāramātmikam . enam eke mahāśānti-homam ācakṣate budhāḥ .. 28.105 ..
पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः । पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ॥ २८.१०६ ॥
पश्चात् अपि अवताराणाम् तत् तत् मन्त्रम् विशेषतः । पृथक् अष्टोत्तरशतम् हुत्वा रात्रिम् नयेत् ततस् ॥ २८।१०६ ॥
paścāt api avatārāṇām tat tat mantram viśeṣataḥ . pṛthak aṣṭottaraśatam hutvā rātrim nayet tatas .. 28.106 ..
स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु । बोधयित्वाभिवन्द्यैव "करुणाब्धे क्षमस्य मे ॥ २८.१०७ ॥
स्नात्वा प्रभाते देवेशम् प्रणम्य प्रणवेन तु । बोधयित्वा अभिवन्द्य एव "करुणा-अब्धे क्षमस्य मे ॥ २८।१०७ ॥
snātvā prabhāte deveśam praṇamya praṇavena tu . bodhayitvā abhivandya eva "karuṇā-abdhe kṣamasya me .. 28.107 ..
शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः । कृतानामपराधानाऽमिति संप्रार्थ्य भक्तितः ॥ २८.१०८ ॥
शतम् सहस्रम् अयुतम् असंख्येयम् मुहुर् मुहुर् । कृतानाम् अपराधानाम् आम् इति संप्रार्थ्य भक्तितः ॥ २८।१०८ ॥
śatam sahasram ayutam asaṃkhyeyam muhur muhur . kṛtānām aparādhānām ām iti saṃprārthya bhaktitaḥ .. 28.108 ..
प्राचीन वस्त्रमाल्यादीन्द्यपोह्यन्यैर्विभूष्य च । सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ॥ २८.१०९ ॥
च । सर्व-वाद्य-समायुक्तम् शाकुनम् सूक्तम् उच्चरन् ॥ २८।१०९ ॥
ca . sarva-vādya-samāyuktam śākunam sūktam uccaran .. 28.109 ..
तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः । स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणं ॥ २८.११० ॥
तोय-धाराम् पुरस्कृत्य गच्छेत् तु पुरतस् गुरुः । स्थापकाः कृत्वा धाम-प्रदक्षिणम् ॥ २८।११० ॥
toya-dhārām puraskṛtya gacchet tu puratas guruḥ . sthāpakāḥ kṛtvā dhāma-pradakṣiṇam .. 28.110 ..
अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववथ् । देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकं ॥ २८.१११ ॥
अभ्यन्तरम् प्रविश्य एव स्थापयेयुः च । देव-पादौ गुरुः स्पष्ट्वा वैष्णवम् विष्णुसूक्तकम् ॥ २८।१११ ॥
abhyantaram praviśya eva sthāpayeyuḥ ca . deva-pādau guruḥ spaṣṭvā vaiṣṇavam viṣṇusūktakam .. 28.111 ..
पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः । ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ॥ २८.११२ ॥
पौरुषम् च आत्म-सूक्तम् च जप्त्वा ध्यात्वा विधानतः । ध्रुवात् वा हृदयात् शक्तिम् प्रणिध्याम् तु निवेश्य च ॥ २८।११२ ॥
pauruṣam ca ātma-sūktam ca japtvā dhyātvā vidhānataḥ . dhruvāt vā hṛdayāt śaktim praṇidhyām tu niveśya ca .. 28.112 ..
कृत्वाक्षराणां विन्यासमावाहनमथाचरेथ् । तदालयगतांश्चैव देवानन्यां त्समाह्वयेथ् ॥ २८.११३ ॥
कृत्वा अक्षराणाम् विन्यासम् आवाहनम् अथ आचरेथ् । तद्-आलय-गतान् च एव देवान् अन्याम् ॥ २८।११३ ॥
kṛtvā akṣarāṇām vinyāsam āvāhanam atha ācareth . tad-ālaya-gatān ca eva devān anyām .. 28.113 ..
पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेथ् । यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणां ॥ २८.११४ ॥
पुण्याहम् वाचयेत् पश्चात् यथोक्तम् पूर्वम् आचरेथ् । यजमानः अपि शुद्ध-आत्मा दद्यात् आचार्य-दक्षिणाम् ॥ २८।११४ ॥
puṇyāham vācayet paścāt yathoktam pūrvam ācareth . yajamānaḥ api śuddha-ātmā dadyāt ācārya-dakṣiṇām .. 28.114 ..
पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेथ् । यथाविभवविस्तारमुत्सवं स्नपनं चरेथ् ॥ २८.११५ ॥
पश्चात् अग्निम् परिस्तीर्य शान्ति-होमम् समाचरेथ् । यथा विभव-विस्तारम् उत्सवम् स्नपनम् चरेथ् ॥ २८।११५ ॥
paścāt agnim paristīrya śānti-homam samācareth . yathā vibhava-vistāram utsavam snapanam careth .. 28.115 ..
अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववथ् । कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेथ् ॥ २८.११६ ॥
अशक्तः स्नपनम् कुर्यात् अन्यत् सर्वम् च । कूर्च-आदौ अर्चने हीने तद्-निष्कृतिम् अथ आचरेथ् ॥ २८।११६ ॥
aśaktaḥ snapanam kuryāt anyat sarvam ca . kūrca-ādau arcane hīne tad-niṣkṛtim atha ācareth .. 28.116 ..
एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेथ् । अवतारविशेषस्य पृथक्कुर्यादितीतरे ॥ २८.११७ ॥
एवम् च एद्वत्स-रे अतीते पुनस्थ्सापनम् आचरेथ् । अवतार-विशेषस्य पृथक्कुर्यात् इति इतरे ॥ २८।११७ ॥
evam ca edvatsa-re atīte punasthsāpanam ācareth . avatāra-viśeṣasya pṛthakkuryāt iti itare .. 28.117 ..
तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन । इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ॥ २८.११८ ॥
तेषाम् पुनर् प्रतिष्ठा चेद् तद्-तद्-होमम् तु के चन । स्यात् भय-रक्षा-अर्थ-निष्कृतिः सर्व-सिद्धि-ता ॥ २८।११८ ॥
teṣām punar pratiṣṭhā ced tad-tad-homam tu ke cana . syāt bhaya-rakṣā-artha-niṣkṛtiḥ sarva-siddhi-tā .. 28.118 ..
अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः । महाबेरे विमाने च पतिते जरिते तथा ॥ २८.११९ ॥
अथ वक्ष्ये विशेषेण पुनर् बाल-आलयम् बुधाः । महाबेरे विमाने च पतिते जरिते तथा ॥ २८।११९ ॥
atha vakṣye viśeṣeṇa punar bāla-ālayam budhāḥ . mahābere vimāne ca patite jarite tathā .. 28.119 ..
भिन्नेंगहीने निहते वात्ययाशनिनाथ वा । वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ॥ २८.१२० ॥
भिन्न-इंग-हीने निहते वा अत्यय-अशनिना अथ वा । वर्ण-क्षये स्थल-भ्रंशे गर्भ-गेहस्य च अन्यथा ॥ २८।१२० ॥
bhinna-iṃga-hīne nihate vā atyaya-aśaninā atha vā . varṇa-kṣaye sthala-bhraṃśe garbha-gehasya ca anyathā .. 28.120 ..
पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने । उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ॥ २८.१२१ ॥
पीठ-गर्भ-आदि-नाशे वा अस्पृश्यैः वा प्रवेशने । उन्नत-स्थापन-इच्छायाम् कुर्यात् बाल-आलयम् हरेः ॥ २८।१२१ ॥
pīṭha-garbha-ādi-nāśe vā aspṛśyaiḥ vā praveśane . unnata-sthāpana-icchāyām kuryāt bāla-ālayam hareḥ .. 28.121 ..
बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे । चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ॥ २८.१२२ ॥
बाल-आलये अभ्यर्च्यमाने संभूते स्थान-संकटे । चण्डाल-अधिष्ठिते च एव स्थान-नाशे ह्रद-आदिभिः ॥ २८।१२२ ॥
bāla-ālaye abhyarcyamāne saṃbhūte sthāna-saṃkaṭe . caṇḍāla-adhiṣṭhite ca eva sthāna-nāśe hrada-ādibhiḥ .. 28.122 ..
अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः । कर्षणादिक्रियास्सर्वा बिंबमानीय चादराथ् ॥ २८.१२३ ॥
अन्यत्र तु उचिते देशे कृत्वा पूर्व-उक्त-मार्गतः । कर्षण-आदि-क्रियाः सर्वाः बिंबम् आनीय च आदराथ् ॥ २८।१२३ ॥
anyatra tu ucite deśe kṛtvā pūrva-ukta-mārgataḥ . karṣaṇa-ādi-kriyāḥ sarvāḥ biṃbam ānīya ca ādarāth .. 28.123 ..
प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः । बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ॥ २८.१२४ ॥
प्रतिष्ठाप्य तु तत्र एव कुर्यात् मूल-आलयम् ततस् । बाह्ये च एव विमानस्य च अङ्ग-उपाङ्ग-क्षतौ तथा ॥ २८।१२४ ॥
pratiṣṭhāpya tu tatra eva kuryāt mūla-ālayam tatas . bāhye ca eva vimānasya ca aṅga-upāṅga-kṣatau tathā .. 28.124 ..
मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने । विना बालालयस्थानं शक्तिं गृह्य विमानगां ॥ २८.१२५ ॥
मक्षिका-तृण-वल्मीक-पाद-पाद्यैः विभेदने । विना बाल-आलय-स्थानम् शक्तिम् गृह्य विमान-गाम् ॥ २८।१२५ ॥
makṣikā-tṛṇa-valmīka-pāda-pādyaiḥ vibhedane . vinā bāla-ālaya-sthānam śaktim gṛhya vimāna-gām .. 28.125 ..
तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः । नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेथ् ॥ २८.१२६ ॥
तद्-अङ्ग-देवतानाम् च समारोप्य ध्रुवे पुनर् । नवीकृत्य विमान-उक्त-प्रतिष्ठाम् पुनर् आचरेथ् ॥ २८।१२६ ॥
tad-aṅga-devatānām ca samāropya dhruve punar . navīkṛtya vimāna-ukta-pratiṣṭhām punar ācareth .. 28.126 ..
अकृत्वा देवतारोपं महाबेरे विशेषतः । विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ॥ २८.१२७ ॥
अ कृत्वा देवता-आरोपम् महाबेरे विशेषतः । विमानम् न अधितिष्ठेत सर्वत्र अयम् विधिः स्मृतः ॥ २८।१२७ ॥
a kṛtvā devatā-āropam mahābere viśeṣataḥ . vimānam na adhitiṣṭheta sarvatra ayam vidhiḥ smṛtaḥ .. 28.127 ..
विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः । कौतुकादीन्प्रतिष्ठाप्य विहाय प्रार्थनामनुं ॥ २८.१२८ ॥
विमान-ध्रुवयोः नाशे युगपद् तत्र निष्कृतिः । कौतुक-आदीन् प्रतिष्ठाप्य विहाय प्रार्थना-मनुम् ॥ २८।१२८ ॥
vimāna-dhruvayoḥ nāśe yugapad tatra niṣkṛtiḥ . kautuka-ādīn pratiṣṭhāpya vihāya prārthanā-manum .. 28.128 ..
बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेथ् । तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृथ् ॥ २८.१२९ ॥
बाल-आलयम् प्रकल्प्य एव विधिना तत्र । तस्य काले अपि अतीते तु तदा तत्र न ॥ २८।१२९ ॥
bāla-ālayam prakalpya eva vidhinā tatra . tasya kāle api atīte tu tadā tatra na .. 28.129 ..
यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेथ् । कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेथ् ॥ २८.१३० ॥
यस्य अङ्गस्य भवेत् हानिः तत्र बाल-आलयम् । कृत्वा तस्य तु संस्कारम् यथा उक्तम् तत् पुनर् चरेथ् ॥ २८।१३० ॥
yasya aṅgasya bhavet hāniḥ tatra bāla-ālayam . kṛtvā tasya tu saṃskāram yathā uktam tat punar careth .. 28.130 ..
कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा । विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ॥ २८.१३१ ॥
कौतुक-आदि-विनाशे च दोष-युक्ते ध्रुवे तथा । विमाने च तथा दुष्टे कृत्वा बाल-आलयम् पुनर् ॥ २८।१३१ ॥
kautuka-ādi-vināśe ca doṣa-yukte dhruve tathā . vimāne ca tathā duṣṭe kṛtvā bāla-ālayam punar .. 28.131 ..
यथालाभेन मानेन बिंबमाहृत्य दारवं । प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ॥ २८.१३२ ॥
यथा लाभेन मानेन बिंबम् आहृत्य दारवम् । प्रतिष्ठाप्य अद्य तरुण-आलय-उक्त-विधिना ततस् ॥ २८।१३२ ॥
yathā lābhena mānena biṃbam āhṛtya dāravam . pratiṣṭhāpya adya taruṇa-ālaya-ukta-vidhinā tatas .. 28.132 ..
कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमाथ् । अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ॥ २८.१३३ ॥
कौतुक-आदीन् च संकल्प्य प्रतिष्ठाप्य अर्चयेत् क्रमाथ् । अलाभे कौतुक-आदीनाम् दोष-युक्ते तु दारवे ॥ २८।१३३ ॥
kautuka-ādīn ca saṃkalpya pratiṣṭhāpya arcayet kramāth . alābhe kautuka-ādīnām doṣa-yukte tu dārave .. 28.133 ..
बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवं । तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ॥ २८.१३४ ॥
बिंब-मस्यम् समाहृत्य प्रतिष्ठाप्य एव दारवम् । तत् बेरम् विधिवत् त्यक्त्वा कृत्वा मूल-आलये पुनर् ॥ २८।१३४ ॥
biṃba-masyam samāhṛtya pratiṣṭhāpya eva dāravam . tat beram vidhivat tyaktvā kṛtvā mūla-ālaye punar .. 28.134 ..
विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेथ् । बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ॥ २८.१३५ ॥
विधिना मूलबेरम् तु प्रतिष्ठाप्य समर्चयेथ् । बालालयस्य संस्थानम् वक्ष्ये मूलालयस्य तु ॥ २८।१३५ ॥
vidhinā mūlaberam tu pratiṣṭhāpya samarcayeth . bālālayasya saṃsthānam vakṣye mūlālayasya tu .. 28.135 ..
मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा । द्वितीयावरणे वाथ मण्टपादौ मनोरमे ॥ २८.१३६ ॥
मध्य-सूत्रात् दक्षिणे च प्रथम-आवरणे तथा । द्वितीय-आवरणे वा अथ मण्ट-पादौ मनोरमे ॥ २८।१३६ ॥
madhya-sūtrāt dakṣiṇe ca prathama-āvaraṇe tathā . dvitīya-āvaraṇe vā atha maṇṭa-pādau manorame .. 28.136 ..
यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेथ् । द्वितीयावरणादूर्ध्वं न बालागारकल्पनं ॥ २८.१३७ ॥
यत्र अवकाशः तत्र एवम् बालागारम् । द्वितीय-आवरणात् ऊर्ध्वम् न बालागार-कल्पनम् ॥ २८।१३७ ॥
yatra avakāśaḥ tatra evam bālāgāram . dvitīya-āvaraṇāt ūrdhvam na bālāgāra-kalpanam .. 28.137 ..
एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते । अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ॥ २८.१३८ ॥
एक-आदि तु त्रि-हस्त-अन्तम् विस्तारम् तु विधीयते । अध्यर्धम् च एव पाद-ऊनम् उत्सेधम् द्विगुणम् तु वा ॥ २८।१३८ ॥
eka-ādi tu tri-hasta-antam vistāram tu vidhīyate . adhyardham ca eva pāda-ūnam utsedham dviguṇam tu vā .. 28.138 ..
उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकं । भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतं ॥ २८.१३९ ॥
उत्सेधम् पञ्चधा कृत्वा अधिष्ठानम् च एकम् अंशकम् । भित्ति-उच्चम् द्वि-अंशम् अथ च द्वि-अंशम् तु शिखरम् मतम् ॥ २८।१३९ ॥
utsedham pañcadhā kṛtvā adhiṣṭhānam ca ekam aṃśakam . bhitti-uccam dvi-aṃśam atha ca dvi-aṃśam tu śikharam matam .. 28.139 ..
लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः । भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा ॥ २८.१४० ॥
लुप-उपरे तृण-आच्छन्नम् मृण्मयम् कारयेत् सुधीः । भित्ति-विष्कंभ-मानम् स्यात् मूल-आलय-समम् तथा ॥ २८।१४० ॥
lupa-upare tṛṇa-ācchannam mṛṇmayam kārayet sudhīḥ . bhitti-viṣkaṃbha-mānam syāt mūla-ālaya-samam tathā .. 28.140 ..
द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतं । नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयं ॥ २८.१४१ ॥
द्विगुणम् चतुर्गुणम् कृत्वा यत् शिष्टम् विधिना कृतम् । नालीगृहम् भवेत् विन्द्यात् तम् एव तरुणालयम् ॥ २८।१४१ ॥
dviguṇam caturguṇam kṛtvā yat śiṣṭam vidhinā kṛtam . nālīgṛham bhavet vindyāt tam eva taruṇālayam .. 28.141 ..
मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकं । नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ॥ २८.१४२ ॥
मण्डप-आदिषु चेद् भित्त्या सह तस्य यथार्हकम् । नालीगृहम् मण्डपेन प्रमुखे रहितम् तु वा ॥ २८।१४२ ॥
maṇḍapa-ādiṣu ced bhittyā saha tasya yathārhakam . nālīgṛham maṇḍapena pramukhe rahitam tu vā .. 28.142 ..
सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा । पूर्वापरयुतं वाथ दक्षिणोत्तरमायतं ॥ २८.१४३ ॥
सहिते तु समम् कुर्यात् त्रि-पादम् च अर्धम् एव वा । पूर्व-अपर-युतम् वा अथ दक्षिण-उत्तरम् आयतम् ॥ २८।१४३ ॥
sahite tu samam kuryāt tri-pādam ca ardham eva vā . pūrva-apara-yutam vā atha dakṣiṇa-uttaram āyatam .. 28.143 ..
समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेथ् । पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ॥ २८.१४४ ॥
समम् वा तरुण-आगारम् शिल्प-शास्त्र-उक्त-वत् चरेथ् । पञ्चविंशति-भागम् तु कृत्वा गर्भ-आलयम् ततस् ॥ २८।१४४ ॥
samam vā taruṇa-āgāram śilpa-śāstra-ukta-vat careth . pañcaviṃśati-bhāgam tu kṛtvā garbha-ālayam tatas .. 28.144 ..
मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकं । मानुषं तस्य परितः पदान्यन्यानि षोडश ॥ २८.१४५ ॥
मध्ये ब्राह्मम् पदम् च एकम् परितस् अष्टौ तु दैविकम् । मानुषम् तस्य परितस् पदानि अन्यानि षोडश ॥ २८।१४५ ॥
madhye brāhmam padam ca ekam paritas aṣṭau tu daivikam . mānuṣam tasya paritas padāni anyāni ṣoḍaśa .. 28.145 ..
कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेथ् । दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेथ् ॥ २८.१४६ ॥
कौतुकम् स्थापयेत् उत्तमम् । दैविके मानुषे स्थाप्य मध्यमम् च अधमम् ॥ २८।१४६ ॥
kautukam sthāpayet uttamam . daivike mānuṣe sthāpya madhyamam ca adhamam .. 28.146 ..
त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा । अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ॥ २८.१४७ ॥
त्रीणि तु स्नपन-आदीनि बेराणि स्थापयेत् सदा । अन्त्ययोः एव न अन्यत्र स्थान-भेदः प्रशस्यते ॥ २८।१४७ ॥
trīṇi tu snapana-ādīni berāṇi sthāpayet sadā . antyayoḥ eva na anyatra sthāna-bhedaḥ praśasyate .. 28.147 ..
प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलं । यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतं ॥ २८.१४८ ॥
प्राणस्थाने तु पीठम् स्यात् रम्यम् एक-त्रि-मेखलम् । यथा लाभ-आयतम् तद्वत् विस्तार-उत्सेध-संयुतम् ॥ २८।१४८ ॥
prāṇasthāne tu pīṭham syāt ramyam eka-tri-mekhalam . yathā lābha-āyatam tadvat vistāra-utsedha-saṃyutam .. 28.148 ..
रत्नन्यासविहीनं वा कृत्वा विभवविस्तराथ् । आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः ॥ २८.१४९ ॥
रत्न-न्यास-विहीनम् वा कृत्वा विभव-विस्तरा । आलय-अग्रे अथ वा बालागार-अग्रे पूर्ववत् बुधः ॥ २८।१४९ ॥
ratna-nyāsa-vihīnam vā kṛtvā vibhava-vistarā . ālaya-agre atha vā bālāgāra-agre pūrvavat budhaḥ .. 28.149 ..
यागशालां तु कृत्वैव तोरणादीन्विधाय च । सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमाथ् ॥ २८.१५० ॥
याग-शालाम् तु कृत्वा एव तोरण-आदीन् विधाय च । सु भृत्या एव च संभारान् ऋत्विजः वरयेत् क्रमाथ् ॥ २८।१५० ॥
yāga-śālām tu kṛtvā eva toraṇa-ādīn vidhāya ca . su bhṛtyā eva ca saṃbhārān ṛtvijaḥ varayet kramāth .. 28.150 ..
शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरं । चतुरश्रां पादहीनामर्धहीनां विशेषतः ॥ २८.१५१ ॥
शाला-मध्ये प्रकल्प्य एव शय्या-वेदिम् मनोहरम् । चतुरश्राम् पाद-हीनाम् अर्ध-हीनाम् विशेषतः ॥ २८।१५१ ॥
śālā-madhye prakalpya eva śayyā-vedim manoharam . caturaśrām pāda-hīnām ardha-hīnām viśeṣataḥ .. 28.151 ..
तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्तां । पञ्चत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्. ॥ २८.१५२ ॥
तद्-भित्त्या तु समाम् तद्-तुरीय-अंश-उत्सेध-सम्मित्ताम् । पञ्च-त्रीन् अथवा एक-अग्निम् संकल्प्य एव च पूर्ववत्। ॥ २८।१५२ ॥
tad-bhittyā tu samām tad-turīya-aṃśa-utsedha-sammittām . pañca-trīn athavā eka-agnim saṃkalpya eva ca pūrvavat. .. 28.152 ..
पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः । बालागारं यज्ञशालां पुण्याहमपि वाचयेथ् ॥ २८.१५३ ॥
पर्यग्नि पञ्चगव्याभ्याम् संशोध्य विधिना ततस् । बालागारम् यज्ञशालाम् पुण्याहम् अपि वाचयेथ् ॥ २८।१५३ ॥
paryagni pañcagavyābhyām saṃśodhya vidhinā tatas . bālāgāram yajñaśālām puṇyāham api vācayeth .. 28.153 ..
हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च । गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकं ॥ २८.१५४ ॥
हुत्वा अग्निकुण्डेषु आघारम् प्रधान-अग्निम् समिन्ध्य च । गायत्रीम् वैष्णवीम् च एव वैष्णवम् विष्णुसूक्तकम् ॥ २८।१५४ ॥
hutvā agnikuṇḍeṣu āghāram pradhāna-agnim samindhya ca . gāyatrīm vaiṣṇavīm ca eva vaiṣṇavam viṣṇusūktakam .. 28.154 ..
पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणं । पञ्चमन्त्रान्जयानभ्यातानान्राष्ट्रभृतस्तथा ॥ २८.१५५ ॥
पौरुषम् च एकाक्षर-आदि श्री-भूसूक्तम् च वारुणम् । पञ्च-मन्त्रान् जयान् अभ्यातानान् राष्ट्रभृतः तथा ॥ २८।१५५ ॥
pauruṣam ca ekākṣara-ādi śrī-bhūsūktam ca vāruṇam . pañca-mantrān jayān abhyātānān rāṣṭrabhṛtaḥ tathā .. 28.155 ..
मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतं । प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरं ॥ २८.१५६ ॥
मिदाहुती च विच्छिन्नम् ऋद्धिम् वैष्णव-संयुतम् । प्रत्येकम् प्रतिमन्त्रम् च हुत्वा आम् च समनन्तरम् ॥ २८।१५६ ॥
midāhutī ca vicchinnam ṛddhim vaiṣṇava-saṃyutam . pratyekam pratimantram ca hutvā ām ca samanantaram .. 28.156 ..
श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकं । हुनेदष्टोत्तरशतं सर्वदोषविनाशनं ॥ २८.१५७ ॥
श्वेत-अब्जम् बिल्व-पत्रकम् । हुनेत् अष्टोत्तरशतम् सर्व-दोष-विनाशनम् ॥ २८।१५७ ॥
śveta-abjam bilva-patrakam . hunet aṣṭottaraśatam sarva-doṣa-vināśanam .. 28.157 ..
रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः । हविर्निवेद्य तां शक्तिं कौतुकादिषु संगतां ॥ २८.१५८ ॥
रात्रि-पूजा-अवसाने तु देवम् अभ्यर्च्य यत्नतस् । हविः निवेद्य ताम् शक्तिम् कौतुक-आदिषु संगताम् ॥ २८।१५८ ॥
rātri-pūjā-avasāne tu devam abhyarcya yatnatas . haviḥ nivedya tām śaktim kautuka-ādiṣu saṃgatām .. 28.158 ..
महाबेरे समारोप्य कुंभमाहृत्य पूर्ववथ् । तन्तुना परिवेष्ट्यैव "शुची वो हव्यऽमन्त्रतः ॥ २८.१५९ ॥
महाबेरे समारोप्य कुंभम् आहृत्य । तन्तुना परिवेष्ट्य एव "शुची वः हव्य-अ मन्त्रतः ॥ २८।१५९ ॥
mahābere samāropya kuṃbham āhṛtya . tantunā pariveṣṭya eva "śucī vaḥ havya-a mantrataḥ .. 28.159 ..
प्रक्षाल्योत्पवनं कृत्वा "धारास्विऽति च मन्त्रतः । अद्भिरापूर्याभिमृश्य "इदमापश्शिवाऽ इति ॥ २८.१६० ॥
प्रक्षाल्य उत्पवनम् कृत्वा "धारासु इति च मन्त्रतः । अद्भिः आपूर्य अभिमृश्य "इदम् आपः शिवाः इति ॥ २८।१६० ॥
prakṣālya utpavanam kṛtvā "dhārāsu iti ca mantrataḥ . adbhiḥ āpūrya abhimṛśya "idam āpaḥ śivāḥ iti .. 28.160 ..
वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेथ् । उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेथ् ॥ २८.१६१ ॥
वस्त्र-युग्मेन च आवेष्ट्य नवरत्न-आदि विन्यसेथ् । उच्चार्य-विष्णुगायत्रीम् तत्र कार्यम् समाचरेथ् ॥ २८।१६१ ॥
vastra-yugmena ca āveṣṭya navaratna-ādi vinyaseth . uccārya-viṣṇugāyatrīm tatra kāryam samācareth .. 28.161 ..
ततोऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले । सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः ॥ २८.१६२ ॥
ततस् अभ्यन्तरम् आविश्य देव-अग्रे धान्य-मण्डले । सन्न्यस्य कुंभम् आसित्वा देव-अग्रे तु उत्तरा-मुखः ॥ २८।१६२ ॥
tatas abhyantaram āviśya deva-agre dhānya-maṇḍale . sannyasya kuṃbham āsitvā deva-agre tu uttarā-mukhaḥ .. 28.162 ..
समाहितो हरिं ध्यायन्प्रार्थयेन्मन्त्रमुच्चरन् । अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ॥ २८.१६३ ॥
समाहितः हरिम् ध्यायन् प्रार्थयेत् मन्त्रम् उच्चरन् । अनर्हम् एतत् त्वद्-गेहम् जीर्णम् तूर्णम् व्यपोह्य च ॥ २८।१६३ ॥
samāhitaḥ harim dhyāyan prārthayet mantram uccaran . anarham etat tvad-geham jīrṇam tūrṇam vyapohya ca .. 28.163 ..
किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो । यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ॥ २८.१६४ ॥
किञ्चिद् कालम् च देवेश त्वया अत्र स्थीयताम् विभो । यावत् वयम् नवम् कृत्वा प्रतिष्ठाम् कारयामहे ॥ २८।१६४ ॥
kiñcid kālam ca deveśa tvayā atra sthīyatām vibho . yāvat vayam navam kṛtvā pratiṣṭhām kārayāmahe .. 28.164 ..
प्रसादं कुरु तावत्त्वमस्मिन्गेहे जगत्पतेऽ । इत्युक्त्वाब्दमथ द्वौत्रीन्संकल्प्यावधिमादराथ् ॥ २८.१६५ ॥
प्रसादम् कुरु तावत् त्वम् अस्मिन् गेहे जगत्पते । इति उक्त्वा अब्दम् अथ द्वौ त्रीन् संकल्प्य अवधिम् आदराथ् ॥ २८।१६५ ॥
prasādam kuru tāvat tvam asmin gehe jagatpate . iti uktvā abdam atha dvau trīn saṃkalpya avadhim ādarāth .. 28.165 ..
देव्यादिसहितं देवमावाह्यांभसि कुंभके । आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियाथ् ॥ २८.१६६ ॥
देवी-आदि-सहितम् देवम् आवाह्य अंभसि कुंभके । आचार्यः शिरसा कुंभम् धारयन् अग्रतस् तु इयाथ् ॥ २८।१६६ ॥
devī-ādi-sahitam devam āvāhya aṃbhasi kuṃbhake . ācāryaḥ śirasā kuṃbham dhārayan agratas tu iyāth .. 28.166 ..
तदनु स्थापकाबिंबन्यादाय स्नपनावटे । यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ॥ २८.१६७ ॥
तदनु स्नपन-अवटे । यज्ञ-आलये प्रतिष्ठाप्य चतुर्दशभिः एव च ॥ २८।१६७ ॥
tadanu snapana-avaṭe . yajña-ālaye pratiṣṭhāpya caturdaśabhiḥ eva ca .. 28.167 ..
कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच । शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ॥ २८.१६८ ॥
कलशैः स्नाप्य वस्त्र-आद्यैः अलङ्कृत्य समर्च्य च । शय्या-वेद्याम् धान्य-पीठे शयनानि तु ॥ २८।१६८ ॥
kalaśaiḥ snāpya vastra-ādyaiḥ alaṅkṛtya samarcya ca . śayyā-vedyām dhānya-pīṭhe śayanāni tu .. 28.168 ..
आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः । तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ॥ २८.१६९ ॥
आस्तीर्य च अथ वासांसि बद्ध्वा प्रतिसरम् ततस् । तथा एव शाययेत् कुर्यात् उत्तर-आच्छादनम् पुनर् ॥ २८।१६९ ॥
āstīrya ca atha vāsāṃsi baddhvā pratisaram tatas . tathā eva śāyayet kuryāt uttara-ācchādanam punar .. 28.169 ..
परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेथ् । कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववथ् ॥ २८.१७० ॥
परिषिच्य प्रधान-अग्निम् हौत्र-शंसनम् आचरेथ् । कृत्वा च आवाहन-आदीनि हुनेत् अग्निषु ॥ २८।१७० ॥
pariṣicya pradhāna-agnim hautra-śaṃsanam ācareth . kṛtvā ca āvāhana-ādīni hunet agniṣu .. 28.170 ..
प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवं । गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ॥ २८.१७१ ॥
प्रधानाग्नौ स्रुवेण आज्यम् आदाय एव तु वैष्णवम् । गायत्रीम् वैष्णपम् विष्णुसूक्तम् पौरुषम् एव च ॥ २८।१७१ ॥
pradhānāgnau sruveṇa ājyam ādāya eva tu vaiṣṇavam . gāyatrīm vaiṣṇapam viṣṇusūktam pauruṣam eva ca .. 28.171 ..
एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च । त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ॥ २८.१७२ ॥
एकाक्षर-आदि-सूक्तम् च श्री-भू-दैवत्यम् एव च । त्रिस् हुत्वा सर्व-दैवत्य-पर्षदाम् मन्त्रम् एव च ॥ २८।१७२ ॥
ekākṣara-ādi-sūktam ca śrī-bhū-daivatyam eva ca . tris hutvā sarva-daivatya-parṣadām mantram eva ca .. 28.172 ..
हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः । स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ॥ २८.१७३ ॥
हुत्वा व्यपोह्य विधिना रात्रि-शेषम् समाहितः । स्नात्वा प्रभाते देवेशम् प्रणम्य प्रमवेन तु ॥ २८।१७३ ॥
hutvā vyapohya vidhinā rātri-śeṣam samāhitaḥ . snātvā prabhāte deveśam praṇamya pramavena tu .. 28.173 ..
विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः । ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ॥ २८.१७४ ॥
विबोध्य दक्षिणाम् दद्यात् यजमानः मुदा अन्वितः । ततस् अग्निम् साधयित्वा तु गुरुः स्विष्टकृतम् तथा ॥ २८।१७४ ॥
vibodhya dakṣiṇām dadyāt yajamānaḥ mudā anvitaḥ . tatas agnim sādhayitvā tu guruḥ sviṣṭakṛtam tathā .. 28.174 ..
पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः । धारयन्शिरसा कुंभं शाकुनं सूक्तमुच्चरन् ॥ २८.१७५ ॥
पूर्णाहुतिम् च हुत्वा एव विसृज्य अग्निम् विधानतः । धारयन् शिरसा कुंभम् शाकुनम् सूक्तम् उच्चरन् ॥ २८।१७५ ॥
pūrṇāhutim ca hutvā eva visṛjya agnim vidhānataḥ . dhārayan śirasā kuṃbham śākunam sūktam uccaran .. 28.175 ..
आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरं । हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतं ॥ २८.१७६ ॥
आचार्यः । हस्ताभ्याम् देवम् आदाय सर्व-वाद्य-समायुतम् ॥ २८।१७६ ॥
ācāryaḥ . hastābhyām devam ādāya sarva-vādya-samāyutam .. 28.176 ..
सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरं । आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ॥ २८.१७७ ॥
सर्व-अलङ्कार-संयुक्तम् । आलयम् परितस् गत्वा प्रविश्य अभ्यन्तरम् पुनर् ॥ २८।१७७ ॥
sarva-alaṅkāra-saṃyuktam . ālayam paritas gatvā praviśya abhyantaram punar .. 28.177 ..
विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः । प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ॥ २८.१७८ ॥
विहाय स्थिर-राशिम् तु सु मुहूर्ते विशेषतः । प्रोच्य प्राणपीठे हरिम् स्मरन् ॥ २८।१७८ ॥
vihāya sthira-rāśim tu su muhūrte viśeṣataḥ . procya prāṇapīṭhe harim smaran .. 28.178 ..
प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः । श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमाथ् ॥ २८.१७९ ॥
प्रतिष्ठाप्य तु देवेशम् तस्य दक्षिण-वामयोः । श्रियम् भुवम् च मन्त्राभ्याम् तयोः संस्थापयेत् क्रमाथ् ॥ २८।१७९ ॥
pratiṣṭhāpya tu deveśam tasya dakṣiṇa-vāmayoḥ . śriyam bhuvam ca mantrābhyām tayoḥ saṃsthāpayet kramāth .. 28.179 ..
देवपादौ स्पृशन्पश्चाद्विष्णुसूक्तं जपन्गुरुः । कृत्वाक्षराणां न्यासादी निदं विष्णुंऽति ब्रुवन् ॥ २८.१८० ॥
देव-पादौ स्पृशन् पश्चात् विष्णुसूक्तम् जपन् गुरुः । कृत्वा अक्षराणाम् न्यास-आदी विष्णुम् अति ब्रुवन् ॥ २८।१८० ॥
deva-pādau spṛśan paścāt viṣṇusūktam japan guruḥ . kṛtvā akṣarāṇām nyāsa-ādī viṣṇum ati bruvan .. 28.180 ..
कूर्चेनादाय कुंभस्थां शक्ति"मायातुऽ मन्त्रतः । विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ॥ २८.१८१ ॥
कूर्चेन आदाय कुंभ-स्थाम् शक्ति"मा आयातु मन्त्रतः । विष्णुम् आवाहय अमि इति कौतुकस्य तु मूर्धवि ॥ २८।१८१ ॥
kūrcena ādāya kuṃbha-sthām śakti"mā āyātu mantrataḥ . viṣṇum āvāhaya ami iti kautukasya tu mūrdhavi .. 28.181 ..
श्रियंच "हरिणींऽचेति देव्यौ दक्षिणवामयोः । संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ॥ २८.१८२ ॥
श्रियम् च "देव्यौ दक्षिण-वामयोः । संस्राव्य आवाहयेत् देवान् ततस् पारिषदान् अपि ॥ २८।१८२ ॥
śriyam ca "devyau dakṣiṇa-vāmayoḥ . saṃsrāvya āvāhayet devān tatas pāriṣadān api .. 28.182 ..
कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकाथ् । संस्थाप्य तु समावाह्य तावत्कालं समर्चयेथ् ॥ २८.१८३ ॥
कौतुकात् दक्षिणे वामे स्नपन-आदीनि । संस्थाप्य तु समावाह्य तावत्कालम् समर्चयेथ् ॥ २८।१८३ ॥
kautukāt dakṣiṇe vāme snapana-ādīni . saṃsthāpya tu samāvāhya tāvatkālam samarcayeth .. 28.183 ..
स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः । हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकं ॥ २८.१८४ ॥
स्थापकैः सह पुण्याहम् कृत्वा अभ्यर्च्य आसन-आदिभिः । हविः निवेद्य देवेशम् हुत्वा होमम् च नैत्यिकम् ॥ २८।१८४ ॥
sthāpakaiḥ saha puṇyāham kṛtvā abhyarcya āsana-ādibhiḥ . haviḥ nivedya deveśam hutvā homam ca naityikam .. 28.184 ..
बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च । स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमाथ् ॥ २८.१८५ ॥
बलिम् निर्वाप्य कुर्वीत बलि-भ्रमणम् एव च । स्नपनम् च उत्सव-आदीनि पूर्ववत् कारयेत् क्रमात् ॥ २८।१८५ ॥
balim nirvāpya kurvīta bali-bhramaṇam eva ca . snapanam ca utsava-ādīni pūrvavat kārayet kramāt .. 28.185 ..
बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः । आवाहनं विसर्गं च हित्वा सर्वं समाचरेथ् ॥ २८.१८६ ॥
बाल-आलय-अर्चने कुर्यात् अर्चनम् तु ध्रुव-अर्चयोः । आवाहनम् विसर्गम् च हित्वा सर्वम् समाचरेथ् ॥ २८।१८६ ॥
bāla-ālaya-arcane kuryāt arcanam tu dhruva-arcayoḥ . āvāhanam visargam ca hitvā sarvam samācareth .. 28.186 ..
महानसादिनिर्माणं बालालयविधौ पुनः । सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेथ् ॥ २८.१८७ ॥
महानस-आदि-निर्माणम् बाल-आलय-विधौ पुनर् । सूल-आलय-उक्त-वत् कुर्यात् विपरीतम् न ॥ २८।१८७ ॥
mahānasa-ādi-nirmāṇam bāla-ālaya-vidhau punar . sūla-ālaya-ukta-vat kuryāt viparītam na .. 28.187 ..
अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति । देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतं ॥ २८.१८८ ॥
अज्ञानात् अर्थ-लोभात् वा कालस्य अतिक्रमे सति । देवम् विशेषतः अभ्यर्च्य शान्तिम् वैष्णव-संयुतम् ॥ २८।१८८ ॥
ajñānāt artha-lobhāt vā kālasya atikrame sati . devam viśeṣataḥ abhyarcya śāntim vaiṣṇava-saṃyutam .. 28.188 ..
हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा । संप्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ॥ २८.१८९ ॥
हुत्वा संपूज्य पूज्यान् च यजमानः गुरुः तथा । संप्रार्थ्य देवम् कालस्य च अवधिम् ज्ञापयेत् पुनर् ॥ २८।१८९ ॥
hutvā saṃpūjya pūjyān ca yajamānaḥ guruḥ tathā . saṃprārthya devam kālasya ca avadhim jñāpayet punar .. 28.189 ..
भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादराथ् । एवं द्वादशवर्षान्तं कारयेच्छ ततः परं ॥ २८.१९० ॥
भक्ति-नम्रः स्ततस् कुत्यात् शीघ्रम् कर्म इदम् आदराथ् । एवम् द्वादश-वर्ष-अन्तम् कारयेत् श ततस् परम् ॥ २८।१९० ॥
bhakti-namraḥ statas kutyāt śīghram karma idam ādarāth . evam dvādaśa-varṣa-antam kārayet śa tatas param .. 28.190 ..
न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेथ् । अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ॥ २८.१९१ ॥
हरिः तत्र तस्मै दुक्तम् समाचरेथ् । अशक्तः चेद् तथा कर्तुम् बालागाल-अन्तरम् पुनर् ॥ २८।१९१ ॥
hariḥ tatra tasmai duktam samācareth . aśaktaḥ ced tathā kartum bālāgāla-antaram punar .. 28.191 ..
संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा । देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ॥ २८.१९२ ॥
संकल्प्य स्थापयेत् तत्र विपरीत-कृत् अन्यथा । देहात् देह-अन्तर-प्राप्तौ यथा संस्क्रियते नरः ॥ २८।१९२ ॥
saṃkalpya sthāpayet tatra viparīta-kṛt anyathā . dehāt deha-antara-prāptau yathā saṃskriyate naraḥ .. 28.192 ..
तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः । प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते ॥ २८.१९३ ॥
तथा स्थान-अन्तन-प्राप्तौ प्रतिष्ठाम् कारयेत् हरेः । प्रथमे अथ द्वितीये ना नष्टे बाल-आलये अर्चिते ॥ २८।१९३ ॥
tathā sthāna-antana-prāptau pratiṣṭhām kārayet hareḥ . prathame atha dvitīye nā naṣṭe bāla-ālaye arcite .. 28.193 ..
दुष्टे वा येन केनापि मण्डपादौ मनोरमं । देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ॥ २८.१९४ ॥
दुष्टे वा येन केन अपि मण्डप-आदौ मनोरमम् । देशम् तु समलङ्कृत्य संशोध्य विधिवत् पुनर् ॥ २८।१९४ ॥
duṣṭe vā yena kena api maṇḍapa-ādau manoramam . deśam tu samalaṅkṛtya saṃśodhya vidhivat punar .. 28.194 ..
संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः । बालालयं नवीकृत्य तदेव त्वरितं यथा ॥ २८.१९५ ॥
संस्थाप्य कौतुक-आदीन् च समभ्यर्च्येत् विधानतः । बाल-आलयम् नवीकृत्य तत् एव त्वरितम् यथा ॥ २८।१९५ ॥
saṃsthāpya kautuka-ādīn ca samabhyarcyet vidhānataḥ . bāla-ālayam navīkṛtya tat eva tvaritam yathā .. 28.195 ..
वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेथ् । अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरं ॥ २८.१९६ ॥
वास्तुशुद्धिम् च पुण्याहम् कृत्वा संस्थाप्य च अर्चयेथ् । ततस् तस्मिन् निधाय अन्यत्र मन्दिरम् ॥ २८।१९६ ॥
vāstuśuddhim ca puṇyāham kṛtvā saṃsthāpya ca arcayeth . tatas tasmin nidhāya anyatra mandiram .. 28.196 ..
पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेथ् ॥ २८.१९७ ॥
पुनर् प्रतिष्ठा-मार्गेण प्रतिष्ठाप्य समर्चयेथ् ॥ २८।१९७ ॥
punar pratiṣṭhā-mārgeṇa pratiṣṭhāpya samarcayeth .. 28.197 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टाविंशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे अष्टाविंशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre aṣṭāviṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In