| |
|

This overlay will guide you through the buttons:

अथाष्टाविंशोऽध्यायः.प्रायश्चित्तम्
athāṣṭāviṃśo'dhyāyaḥ.prāyaścittam
अथास्पृश्यस्पर्शनेतुप्रायश्चित्तं प्रवक्ष्यते । सर्पमूषकमण्डूकमार्जारनकुलादिषु ॥ २८.१ ॥
athāspṛśyasparśanetuprāyaścittaṃ pravakṣyate . sarpamūṣakamaṇḍūkamārjāranakulādiṣu .. 28.1 ..
गर्भागारं प्रविष्टेषु विण्मूत्रादिविसर्जने । व्यपोह्य तत्पञ्चगव्यैस्तथाब्लिङ्गाभिरेव च ॥ २८.२ ॥
garbhāgāraṃ praviṣṭeṣu viṇmūtrādivisarjane . vyapohya tatpañcagavyaistathābliṅgābhireva ca .. 28.2 ..
वैष्णवं विष्णुगायत्रीं शतमष्टोत्तरं जपेथ् । ध्रुवं चै वाधितिष्ठत्सु विण्मूत्रादिविसर्जने ॥ २८.३ ॥
vaiṣṇavaṃ viṣṇugāyatrīṃ śatamaṣṭottaraṃ japeth . dhruvaṃ cai vādhitiṣṭhatsu viṇmūtrādivisarjane .. 28.3 ..
क्षिप्रं वस्त्रेण संशोद्य मार्जयित्वा कुशेन च । आपो हिरण्यवर्णाऽभिः "पापमानीऽभिरेव च ॥ २८.४ ॥
kṣipraṃ vastreṇa saṃśodya mārjayitvā kuśena ca . āpo hiraṇyavarṇā'bhiḥ "pāpamānī'bhireva ca .. 28.4 ..
संस्रोक्ष्य चार्चयेद्देवमन्यता विपरीतकृथ् । स्पर्शेतैरेव बिंबानां शुद्धोदैस्स्नापयेद्विधिः ॥ २८.५ ॥
saṃsrokṣya cārcayeddevamanyatā viparītakṛth . sparśetaireva biṃbānāṃ śuddhodaissnāpayedvidhiḥ .. 28.5 ..
उदक्यया सूतिकया रजकेनान्त्यजातिभिः । प्रथमावरणे विष्टे चार्चास्थाने च पर्षदां ॥ २८.६ ॥
udakyayā sūtikayā rajakenāntyajātibhiḥ . prathamāvaraṇe viṣṭe cārcāsthāne ca parṣadāṃ .. 28.6 ..
प्रविष्टे चाथ संस्पृष्टे दार्भेणोद्दीप्य वह्निना । हुत्वा च वास्तु यज्ञेव पञ्चगव्यैस्समुक्ष्य च ॥ २८.७ ॥
praviṣṭe cātha saṃspṛṣṭe dārbheṇoddīpya vahninā . hutvā ca vāstu yajñeva pañcagavyaissamukṣya ca .. 28.7 ..
कृत्वा पुण्याहमन्ते तु नित्याग्नौ जुहुयात्ततः । दौवारिकमनुं चैव द्वारपालं च वैष्णवं ॥ २८.८ ॥
kṛtvā puṇyāhamante tu nityāgnau juhuyāttataḥ . dauvārikamanuṃ caiva dvārapālaṃ ca vaiṣṇavaṃ .. 28.8 ..
बाङ्यावरणपक्षे तु मार्जनेनोपलेपनैः । प्रोक्षणैर्वास्तुयज्ञेव शुद्धिर्भवति सर्वतः ॥ २८.९ ॥
bāṅyāvaraṇapakṣe tu mārjanenopalepanaiḥ . prokṣaṇairvāstuyajñeva śuddhirbhavati sarvataḥ .. 28.9 ..
अर्चाकाने तु दृष्टेषु चैतेषु विधिना हरिं । संस्नाप्य पञ्चगव्यैन्तु शुद्धोदैस्स्नाप्य चात्वरः ॥ २८.१० ॥
arcākāne tu dṛṣṭeṣu caiteṣu vidhinā hariṃ . saṃsnāpya pañcagavyaintu śuddhodaissnāpya cātvaraḥ .. 28.10 ..
प्रोक्षणैः प्रोक्ष्य हुत्वा तु पूर्ववच्छार्चयेत्ततः । एतेषु संप्रविष्टेषु चालयाभ्यन्तरे तथा ॥ २८.११ ॥
prokṣaṇaiḥ prokṣya hutvā tu pūrvavacchārcayettataḥ . eteṣu saṃpraviṣṭeṣu cālayābhyantare tathā .. 28.11 ..
तत्स्पृष्टहविषां चैव प्रमादात्तु निवेदने । शोधयित्वाथ तद्द्रव्यं यथाविधि विशेषतः ॥ २८.१२ ॥
tatspṛṣṭahaviṣāṃ caiva pramādāttu nivedane . śodhayitvātha taddravyaṃ yathāvidhi viśeṣataḥ .. 28.12 ..
वास्तुहोमं च हुत्वाथ पर्यग्निकरणं चरेथ् । पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेथ् ॥ २८.१३ ॥
vāstuhomaṃ ca hutvātha paryagnikaraṇaṃ careth . pañcagavyaissamabhyukṣya puṇyāhamapi vācayeth .. 28.13 ..
संस्नाप्य कलशैर्देवं हुत्वा नित्यानले ततः । वैष्णवं विष्णुसूक्तं च नृसूक्तं रौद्रमेव च ॥ २८.१४ ॥
saṃsnāpya kalaśairdevaṃ hutvā nityānale tataḥ . vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ raudrameva ca .. 28.14 ..
ब्राह्मं च श्रीमहीसूक्ते ब्राह्मणान्भोजयेत्ततः । स्पृष्टेतु चैतैर्बिंबेषु ध्रुवादिषु विशेषतः ॥ २८.१५ ॥
brāhmaṃ ca śrīmahīsūkte brāhmaṇānbhojayettataḥ . spṛṣṭetu caitairbiṃbeṣu dhruvādiṣu viśeṣataḥ .. 28.15 ..
कृत्वातु पूर्ववच्छुद्धिं वास्तुहोमं च कारयेथ् । पर्यग्निपञ्चगव्याभ्यां शोधयित्वा ततःपरं ॥ २८.१६ ॥
kṛtvātu pūrvavacchuddhiṃ vāstuhomaṃ ca kārayeth . paryagnipañcagavyābhyāṃ śodhayitvā tataḥparaṃ .. 28.16 ..
संस्नाप्य कलशैर्देवमब्जाग्नौ विधिवत्तदा । महाशान्तिं च हुत्वैव प्रतिष्ठां पुनराचरेथ् ॥ २८.१७ ॥
saṃsnāpya kalaśairdevamabjāgnau vidhivattadā . mahāśāntiṃ ca hutvaiva pratiṣṭhāṃ punarācareth .. 28.17 ..
शूद्राद्यैरनुलोमैश्च स्पृष्टं दत्वा हविस्ततः । पञ्च गव्यैश्च शुद्धोदैर्देवं संस्नाप्य चादराथ् ॥ २८.१८ ॥
śūdrādyairanulomaiśca spṛṣṭaṃ datvā havistataḥ . pañca gavyaiśca śuddhodairdevaṃ saṃsnāpya cādarāth .. 28.18 ..
पुण्याहं कारयेत्पश्छाद्द्विगुणं तु निवेदयेथ् । महापातकिभिश्चैव चण्डालै पुल्कसादिभिः ॥ २८.१९ ॥
puṇyāhaṃ kārayetpaśchāddviguṇaṃ tu nivedayeth . mahāpātakibhiścaiva caṇḍālai pulkasādibhiḥ .. 28.19 ..
आलये संप्रविष्टे तु तत्स्पृष्ठे विनिवेदिते । सप्ताहं महतीं शान्तिं हुत्वाब्जाग्नौ विधानतः ॥ २८.२० ॥
ālaye saṃpraviṣṭe tu tatspṛṣṭhe vinivedite . saptāhaṃ mahatīṃ śāntiṃ hutvābjāgnau vidhānataḥ .. 28.20 ..
संस्नाप्य कलशैर्देवं प्रतिष्ठां पुनराचरेथ् । पुनश्चध्रुवबेरे वा बिंबेष्यन्येषु मन्दिरे ॥ २८.२१ ॥
saṃsnāpya kalaśairdevaṃ pratiṣṭhāṃ punarācareth . punaścadhruvabere vā biṃbeṣyanyeṣu mandire .. 28.21 ..
स्पृष्टेषु पूर्ववच्छुद्धिं कृत्वा द्विगुणमेव च । हुत्वा तु महतीं शान्तिं संस्नाप्य कलशैर्विभुं ॥ २८.२२ ॥
spṛṣṭeṣu pūrvavacchuddhiṃ kṛtvā dviguṇameva ca . hutvā tu mahatīṃ śāntiṃ saṃsnāpya kalaśairvibhuṃ .. 28.22 ..
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेथ् । पतिते चैव पाषण्डे चान्यतन्त्रेण दीक्षिते ॥ २८.२३ ॥
pratiṣṭhoktakrameṇaiva pratiṣṭhāṃ punarācareth . patite caiva pāṣaṇḍe cānyatantreṇa dīkṣite .. 28.23 ..
प्रविष्टे गर्भगेहे तु वास्तुशुद्धिं विधाय च । हुत्वा तु महतीं शान्तिं प्रतिष्ठां पुनराचरेथ् ॥ २८.२४ ॥
praviṣṭe garbhagehe tu vāstuśuddhiṃ vidhāya ca . hutvā tu mahatīṃ śāntiṃ pratiṣṭhāṃ punarācareth .. 28.24 ..
उक्तेष्वेतेषु सततं प्रथमावरणे तथा । द्वितीये वा संचरत्सु मासेऽतीते विशेषतः ॥ २८.२५ ॥
ukteṣveteṣu satataṃ prathamāvaraṇe tathā . dvitīye vā saṃcaratsu māse'tīte viśeṣataḥ .. 28.25 ..
मासमेकं महाशान्तिं हुत्वा कृत्वा विधानतः । कर्षणादि पुनःकृत्वा प्रतिष्ठां पुनराचरेथ् ॥ २८.२६ ॥
māsamekaṃ mahāśāntiṃ hutvā kṛtvā vidhānataḥ . karṣaṇādi punaḥkṛtvā pratiṣṭhāṃ punarācareth .. 28.26 ..
तथा संवत्सरेऽतीते त्यक्त्वा चावाहनादिकं । कौतुकादीन्त्सुसंरक्ष्य गर्भागारादि सर्वतः ॥ २८.२७ ॥
tathā saṃvatsare'tīte tyaktvā cāvāhanādikaṃ . kautukādīntsusaṃrakṣya garbhāgārādi sarvataḥ .. 28.27 ..
वासयेद्गा विशेषेण मासेऽतीते विशेषतः । सर्वत्र शुद्धिं कृत्वातु हुत्वा मासत्रयं ततः ॥ २८.२८ ॥
vāsayedgā viśeṣeṇa māse'tīte viśeṣataḥ . sarvatra śuddhiṃ kṛtvātu hutvā māsatrayaṃ tataḥ .. 28.28 ..
महाशान्तिं तथा कृत्वा कर्षणादि पुनःक्रियाः । बालालयं च संकल्प्य बिंबशुद्धिमाथाचरेथ् ॥ २८.२९ ॥
mahāśāntiṃ tathā kṛtvā karṣaṇādi punaḥkriyāḥ . bālālayaṃ ca saṃkalpya biṃbaśuddhimāthācareth .. 28.29 ..
जलाधिवासनाद्यैश्च तथा वित्तानुसारतः । अशीत्यधिकसाहस्रैस्संस्नाप्य कलशैर्हरिविं ॥ २८.३० ॥
jalādhivāsanādyaiśca tathā vittānusārataḥ . aśītyadhikasāhasraissaṃsnāpya kalaśairhariviṃ .. 28.30 ..
ब्राह्मणान्भोजयित्वैव संपूज्यापि च वैष्णवान् । बालालये प्रतिष्ठाप्य देवेशं विधिवत्ततः ॥ २८.३१ ॥
brāhmaṇānbhojayitvaiva saṃpūjyāpi ca vaiṣṇavān . bālālaye pratiṣṭhāpya deveśaṃ vidhivattataḥ .. 28.31 ..
आलयं चैव सर्वत्र नवीकृत्य विशेषतः । महाप्रतिष्ठां कृत्वैव देवदेवं समर्चयेथ् ॥ २८.३२ ॥
ālayaṃ caiva sarvatra navīkṛtya viśeṣataḥ . mahāpratiṣṭhāṃ kṛtvaiva devadevaṃ samarcayeth .. 28.32 ..
एतैस्संसर्गिणां स्पर्शे सूतिकाक्तैव निष्कृतिः । स्पर्शे तत्संसर्गिणां च शुद्धिस्स्यात्स्नपनादिना ॥ २८.३३ ॥
etaissaṃsargiṇāṃ sparśe sūtikāktaiva niṣkṛtiḥ . sparśe tatsaṃsargiṇāṃ ca śuddhissyātsnapanādinā .. 28.33 ..
ततस्संसर्गिणां चैव न दोषः परिकथ्यते । अश्ॐअवद्द्विजस्पृष्टहविषां च निवेदने ॥ २८.३४ ॥
tatassaṃsargiṇāṃ caiva na doṣaḥ parikathyate . aś_oṃavaddvijaspṛṣṭahaviṣāṃ ca nivedane .. 28.34 ..
एकाहं तु महाशान्तिं हुत्वा संस्नाप्य चौदकैः । पुण्याहं वाचयित्वैव पूर्ववच्च समर्चयेथ् ॥ २८.३५ ॥
ekāhaṃ tu mahāśāntiṃ hutvā saṃsnāpya caudakaiḥ . puṇyāhaṃ vācayitvaiva pūrvavacca samarcayeth .. 28.35 ..
स्पृष्टेषु चाथ बिंबेषु कौतुकादिषु वा ध्रुवे । पूर्ववन्महतीं शान्तिं हुत्वा संस्थापयेत्पुनः ॥ २८.३६ ॥
spṛṣṭeṣu cātha biṃbeṣu kautukādiṣu vā dhruve . pūrvavanmahatīṃ śāntiṃ hutvā saṃsthāpayetpunaḥ .. 28.36 ..
प्रविष्टे चालयाद्बाङ्ये सर्वत्र च यथार्हकं । गौरवं लाघवं ज्ञात्वा सर्वमूह्यैव कारयेथ् ॥ २८.३७ ॥
praviṣṭe cālayādbāṅye sarvatra ca yathārhakaṃ . gauravaṃ lāghavaṃ jñātvā sarvamūhyaiva kārayeth .. 28.37 ..
खद्यैतपक्षिजातादिप्रवेशे चालयान्तरे । स्पर्शने चैव बिंबानां कृत्वा पर्यग्नि पूर्ववथ् ॥ २८.३८ ॥
khadyaitapakṣijātādipraveśe cālayāntare . sparśane caiva biṃbānāṃ kṛtvā paryagni pūrvavath .. 28.38 ..
संशोद्य पञ्चगव्यैस्तु शुद्धोदैरभिषिच्य च । प्रोक्षणैः प्रोक्ष्यनित्याग्नौ छुल्ल्यां वा वैष्णवं हुनेथ् ॥ २८.३९ ॥
saṃśodya pañcagavyaistu śuddhodairabhiṣicya ca . prokṣaṇaiḥ prokṣyanityāgnau chullyāṃ vā vaiṣṇavaṃ huneth .. 28.39 ..
बिंबादीन्तत्समीपस्थान्संशोध्यैव च पूर्ववथ् । शुद्धोदैस्स्नाप्य पुण्याहं कृत्वोक्तं होममाचरेथ् ॥ २८.४० ॥
biṃbādīntatsamīpasthānsaṃśodhyaiva ca pūrvavath . śuddhodaissnāpya puṇyāhaṃ kṛtvoktaṃ homamācareth .. 28.40 ..
पूर्वमुक्तेषु देशेषु श्वादीनां वा नृणामपि । छेदने ताडने चैव रक्तस्रावे मृतौ तथा ॥ २८.४१ ॥
pūrvamukteṣu deśeṣu śvādīnāṃ vā nṛṇāmapi . chedane tāḍane caiva raktasrāve mṛtau tathā .. 28.41 ..
तद्व्यपौह्य च तद्देशशुद्धिं कृत्वा विधानतः । वास्तुहोमं च हुत्वैव कलशैस्स्नाप्य सप्तभिः ॥ २८.४२ ॥
tadvyapauhya ca taddeśaśuddhiṃ kṛtvā vidhānataḥ . vāstuhomaṃ ca hutvaiva kalaśaissnāpya saptabhiḥ .. 28.42 ..
तद्दोषशमनार्थं च महाशान्तिं हुनेत्ततः । अभ्यर्च्य पूर्ववद्देवं हविस्सम्यङ्नि वेदयेथ् ॥ २८.४३ ॥
taddoṣaśamanārthaṃ ca mahāśāntiṃ hunettataḥ . abhyarcya pūrvavaddevaṃ havissamyaṅni vedayeth .. 28.43 ..
संभूते त्वालयाद्बाह्ये कृत्वा पर्यग्नि पूर्ववथ् । देवं शुद्धोदकैस्स्नाप्य शान्तिं हुत्वा विधानतः ॥ २८.४४ ॥
saṃbhūte tvālayādbāhye kṛtvā paryagni pūrvavath . devaṃ śuddhodakaissnāpya śāntiṃ hutvā vidhānataḥ .. 28.44 ..
संपूज्य वैष्णवांश्चैव पूर्ववत्सम्यगर्चयेथ् । देवेशस्य शवे दृष्टे संस्नाप्य कलशैर्हरिं ॥ २८.४५ ॥
saṃpūjya vaiṣṇavāṃścaiva pūrvavatsamyagarcayeth . deveśasya śave dṛṣṭe saṃsnāpya kalaśairhariṃ .. 28.45 ..
वैष्णवं विष्णुसूक्तं च पौरुषं जुहुयात्ततः । गजाश्वपशुमुखेषु प्रथमावरणे पुनः, ॥ २८.४६ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyāttataḥ . gajāśvapaśumukheṣu prathamāvaraṇe punaḥ, .. 28.46 ..
मृतेषु तद्व्यपोह्यैव खनित्वा तादृशं स्थलं । वास्तुहोमं च हुत्वा तु शद्धोदैरभिषिच्य च ॥ २८.४७ ॥
mṛteṣu tadvyapohyaiva khanitvā tādṛśaṃ sthalaṃ . vāstuhomaṃ ca hutvā tu śaddhodairabhiṣicya ca .. 28.47 ..
वैष्णपं विष्णुसूक्तं च पौरुषं जुहुयाद्विधिः । प्रस्वेदे रुधिरस्रावे रोदने जल्पने तथा ॥ २८.४८ ॥
vaiṣṇapaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyādvidhiḥ . prasvede rudhirasrāve rodane jalpane tathā .. 28.48 ..
हासे दृष्टे महाबेरे सत्सु धूमादिषु स्वतः । आलयाभिमुखेऽब्जाग्निं साधयित्वाथ वैष्णवं ॥ २८.४९ ॥
hāse dṛṣṭe mahābere satsu dhūmādiṣu svataḥ . ālayābhimukhe'bjāgniṃ sādhayitvātha vaiṣṇavaṃ .. 28.49 ..
विष्णुसूक्तं नृसूक्तं चरिङ्कारान्पारमात्मिकं । हुत्वा संस्नाप्य देवेशं कलशैस्सप्तभिः क्रमाथ् ॥ २८.५० ॥
viṣṇusūktaṃ nṛsūktaṃ cariṅkārānpāramātmikaṃ . hutvā saṃsnāpya deveśaṃ kalaśaissaptabhiḥ kramāth .. 28.50 ..
समभ्यर्च्य हविर्दत्वा ब्राह्मणान्भोज्य सादरं । वैष्णवांश्च सुसंपूज्य दद्यादायार्यदक्षिणां ॥ २८.५१ ॥
samabhyarcya havirdatvā brāhmaṇānbhojya sādaraṃ . vaiṣṇavāṃśca susaṃpūjya dadyādāyāryadakṣiṇāṃ .. 28.51 ..
तृणवल्मीककीटादावुत्पन्ने तत्र पूर्ववथ् । शान्तिं पूर्वोदितां हुत्वाभोजयित्वापि ब्राह्मणान् ॥ २८.५२ ॥
tṛṇavalmīkakīṭādāvutpanne tatra pūrvavath . śāntiṃ pūrvoditāṃ hutvābhojayitvāpi brāhmaṇān .. 28.52 ..
देवं बालालये स्थाप्य नवीकरणमाचरेथ् । विमाने तु हठाद्भिन्ने पतिते वा विधानतः ॥ २८.५३ ॥
devaṃ bālālaye sthāpya navīkaraṇamācareth . vimāne tu haṭhādbhinne patite vā vidhānataḥ .. 28.53 ..
शान्तिं मासत्रयं हुत्वा कर्षणादि विधाय च । बालालयं च संकल्प्य कृत्वा चाप्स्वधिवासनं ॥ २८.५४ ॥
śāntiṃ māsatrayaṃ hutvā karṣaṇādi vidhāya ca . bālālayaṃ ca saṃkalpya kṛtvā cāpsvadhivāsanaṃ .. 28.54 ..
बिंबशुद्धिं तु कृत्वैव संस्नाप्य कलशैर्हरिं । अशीत्यधिकस्राहस्रैर्यथाविभवविस्तरं ॥ २८.५५ ॥
biṃbaśuddhiṃ tu kṛtvaiva saṃsnāpya kalaśairhariṃ . aśītyadhikasrāhasrairyathāvibhavavistaraṃ .. 28.55 ..
ब्राह्मणान्भोजयित्वैव संपूज्यैव तु वैष्णवान् । देवं बालालये स्थाप्य नवीकृत्यालयादिकं ॥ २८.५६ ॥
brāhmaṇānbhojayitvaiva saṃpūjyaiva tu vaiṣṇavān . devaṃ bālālaye sthāpya navīkṛtyālayādikaṃ .. 28.56 ..
सर्वत्र चाविशेषेण प्रतिष्ठां पुनराचरेथ् । तत्राशनिहते चैव मक्षिकादिफिरावृते ॥ २८.५७ ॥
sarvatra cāviśeṣeṇa pratiṣṭhāṃ punarācareth . tatrāśanihate caiva makṣikādiphirāvṛte .. 28.57 ..
संस्नाप्य कलशैर्देवं पूजां कृत्वा विशेषतः । प्रभूतं तु निवेद्यैव हुत्वा शान्तिं विधानतः ॥ २८.५८ ॥
saṃsnāpya kalaśairdevaṃ pūjāṃ kṛtvā viśeṣataḥ . prabhūtaṃ tu nivedyaiva hutvā śāntiṃ vidhānataḥ .. 28.58 ..
ब्राह्मणान्भौजयित्वैव पुनस्संधानमाचरेथ् । स्थूपिकीले विनष्टे तु विमानोपरि संस्थिते ॥ २८.५९ ॥
brāhmaṇānbhaujayitvaiva punassaṃdhānamācareth . sthūpikīle vinaṣṭe tu vimānopari saṃsthite .. 28.59 ..
विमानकल्पवत्कृत्वा पुनस्संधानमाचरेथ् । अकाशे प्रतिसूर्यस्य दर्शने वैष्णवं तथा ॥ २८.६० ॥
vimānakalpavatkṛtvā punassaṃdhānamācareth . akāśe pratisūryasya darśane vaiṣṇavaṃ tathā .. 28.60 ..
सौरं च दशकृत्वन्तु हुत्वाभ्यर्च्य विशेषतः । दिग्दाहे वैष्णवं दिग्दैवत्यमाग्नेयमेव च ॥ २८.६१ ॥
sauraṃ ca daśakṛtvantu hutvābhyarcya viśeṣataḥ . digdāhe vaiṣṇavaṃ digdaivatyamāgneyameva ca .. 28.61 ..
शिलावर्षे वारुणं च वैष्णवं त्रिश्चत्रिंशता । अकाले शशिनः पूर्तौक्षये वा प्रतिदर्शने ॥ २८.६२ ॥
śilāvarṣe vāruṇaṃ ca vaiṣṇavaṃ triścatriṃśatā . akāle śaśinaḥ pūrtaukṣaye vā pratidarśane .. 28.62 ..
महोत्पाते च महतीं हुत्वा शान्तिं विधानतः । देवं विशेषतोऽभ्यर्च ब्राह्मणान्भोजयेत्ततः ॥ २८.६३ ॥
mahotpāte ca mahatīṃ hutvā śāntiṃ vidhānataḥ . devaṃ viśeṣato'bhyarca brāhmaṇānbhojayettataḥ .. 28.63 ..
आलयाभ्यन्तरे बाह्यप्राकारे वा विशेषतः । रक्तस्त्रीदर्शनेचैवं तं देशं परिशोध्य च ॥ २८.६४ ॥
ālayābhyantare bāhyaprākāre vā viśeṣataḥ . raktastrīdarśanecaivaṃ taṃ deśaṃ pariśodhya ca .. 28.64 ..
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेथ् । ध्रुवबेरे कौतुकादौ स्पृष्टे चैव ध्रुवोदितां ॥ २८.६५ ॥
devaṃ viśeṣato'bhyarcya havissamyaṅnivedayeth . dhruvabere kautukādau spṛṣṭe caiva dhruvoditāṃ .. 28.65 ..
शुद्धिं जलाधिवासं च कृत्वा संस्थापयेत्पुनः । गर्भालये तु सर्पादिदर्शने तद्व्यपोह्य च ॥ २८.६६ ॥
śuddhiṃ jalādhivāsaṃ ca kṛtvā saṃsthāpayetpunaḥ . garbhālaye tu sarpādidarśane tadvyapohya ca .. 28.66 ..
गोमयेनोपलिप्यैव गव्यैरभ्युक्ष्य पञ्चभिः । औपासनाग्निमाधाय वैष्णवं शान्तिमाचरेथ् ॥ २८.६७ ॥
gomayenopalipyaiva gavyairabhyukṣya pañcabhiḥ . aupāsanāgnimādhāya vaiṣṇavaṃ śāntimācareth .. 28.67 ..
पुण्याहं वाचयित्वैव ब्राह्मणान्भोजयेत्ततः । सर्पादौ तु मृते तत्र तद्व्यपौह्योपलिप्य च ॥ २८.६८ ॥
puṇyāhaṃ vācayitvaiva brāhmaṇānbhojayettataḥ . sarpādau tu mṛte tatra tadvyapauhyopalipya ca .. 28.68 ..
पञ्चगव्यैन्तु संप्रोक्ष्य वास्तुशुद्धिं विधाय च । संस्नाप्य कलशैर्देवं चतुर्विंशतिभिस्तदा ॥ २८.६९ ॥
pañcagavyaintu saṃprokṣya vāstuśuddhiṃ vidhāya ca . saṃsnāpya kalaśairdevaṃ caturviṃśatibhistadā .. 28.69 ..
एकाहं पैण्डरीकाग्नौ महाशान्तिं विधाय च । ध्रुवादिषु तु बिंबेषु मुहुस्स्पृष्टेषु तैस्तथा ॥ २८.७० ॥
ekāhaṃ paiṇḍarīkāgnau mahāśāntiṃ vidhāya ca . dhruvādiṣu tu biṃbeṣu muhusspṛṣṭeṣu taistathā .. 28.70 ..
देवं शुद्धोदकैस्स्नाप्य महाशान्तिं विधाय च । पुण्याहं वाचयित्वैव विशेषार्चनमाचरेथ् ॥ २८.७१ ॥
devaṃ śuddhodakaissnāpya mahāśāntiṃ vidhāya ca . puṇyāhaṃ vācayitvaiva viśeṣārcanamācareth .. 28.71 ..
मृते प्रासादबाह्ये तु तद्व्यपोह्य च पूर्ववथ् । प्रोक्षणैः प्रोक्ष्य च हुनेद्दिग्दैवत्यं च वैष्णदं ॥ २८.७२ ॥
mṛte prāsādabāhye tu tadvyapohya ca pūrvavath . prokṣaṇaiḥ prokṣya ca huneddigdaivatyaṃ ca vaiṣṇadaṃ .. 28.72 ..
पाकस्थाने गोपुरादौ मृते सर्पे व्यपोह्य च । उपलिप्य च नित्याग्नौ वैष्णवं च विशेषतः ॥ २८.७३ ॥
pākasthāne gopurādau mṛte sarpe vyapohya ca . upalipya ca nityāgnau vaiṣṇavaṃ ca viśeṣataḥ .. 28.73 ..
तत्थ्सानाधिपदैवत्यं दशशो जुहुयाद्विधिः । आलयाभ्यन्तरे चैव सर्पत्रावरणेऽपि वा ॥ २८.७४ ॥
tatthsānādhipadaivatyaṃ daśaśo juhuyādvidhiḥ . ālayābhyantare caiva sarpatrāvaraṇe'pi vā .. 28.74 ..
महावातेऽविवृष्टौ वा शत्रुचोराद्युपप्लवे । संस्माप्य कलशैर्देवं वास्तुहोमं विधाय च ॥ २८.७५ ॥
mahāvāte'vivṛṣṭau vā śatrucorādyupaplave . saṃsmāpya kalaśairdevaṃ vāstuhomaṃ vidhāya ca .. 28.75 ..
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा विधानतः । पुण्याहं वाचयित्वैव वैष्णवं विष्णुसूक्तकं ॥ २८.७६ ॥
paryagni pañcagavyābhyāṃ śodhayitvā vidhānataḥ . puṇyāhaṃ vācayitvaiva vaiṣṇavaṃ viṣṇusūktakaṃ .. 28.76 ..
नृसूक्तं श्रीमहीमन्त्रान्ब्राह्मं रौद्रं विशेषतः । प्राजापत्यं च हुत्वैव ब्राह्मणान्भोजयेद्विधिः ॥ २८.७७ ॥
nṛsūktaṃ śrīmahīmantrānbrāhmaṃ raudraṃ viśeṣataḥ . prājāpatyaṃ ca hutvaiva brāhmaṇānbhojayedvidhiḥ .. 28.77 ..
अथ वक्ष्ये विशेषेण भयरक्षार्थनिष्कृतिं । चोरैरमित्रैरथ वा परचक्रेण संकुले ॥ २८.७८ ॥
atha vakṣye viśeṣeṇa bhayarakṣārthaniṣkṛtiṃ . corairamitrairatha vā paracakreṇa saṃkule .. 28.78 ..
लोहजप्रतिमानां च तिरोधानं प्रकल्पयेथ् । शुचौ देशे सुगुप्ते तु खनित्वा चावटं घनं ॥ २८.७९ ॥
lohajapratimānāṃ ca tirodhānaṃ prakalpayeth . śucau deśe sugupte tu khanitvā cāvaṭaṃ ghanaṃ .. 28.79 ..
सिकताभिः प्रपूर्यैव कुशानास्तीर्य चोपरि । अवटेऽभ्यर्च्य भूदेवी "मपो हिऽष्ठेति प्रोक्ष्य च ॥ २८.८० ॥
sikatābhiḥ prapūryaiva kuśānāstīrya copari . avaṭe'bhyarcya bhūdevī "mapo hi'ṣṭheti prokṣya ca .. 28.80 ..
देवागारं प्रविश्यैव यजमानयुतो गुरुः । देवदेवं प्रणम्यैव समभ्यर्च्यानुमान्य च ॥ २८.८१ ॥
devāgāraṃ praviśyaiva yajamānayuto guruḥ . devadevaṃ praṇamyaiva samabhyarcyānumānya ca .. 28.81 ..
यावत्कालं भयं भूयात्तावदीश जनार्दन । हरिश्या सहित स्तत्र शयीधाऽ इति सन्मनुं ॥ २८.८२ ॥
yāvatkālaṃ bhayaṃ bhūyāttāvadīśa janārdana . hariśyā sahita statra śayīdhā' iti sanmanuṃ .. 28.82 ..
वीज्ञाप्य शक्तिं बिंबस्थां ध्रुवबेरेऽवरोपयेथ् । बेराभावे तु हृदये समारोप्य विधानतः ॥ २८.८३ ॥
vījñāpya śaktiṃ biṃbasthāṃ dhruvabere'varopayeth . berābhāve tu hṛdaye samāropya vidhānataḥ .. 28.83 ..
परं रंहऽ इति प्रोच्य पीठादादाय चात्वरः । प्रतद्विष्णु स्तवतऽ इत्यवटे न्यस्य रक्षितं ॥ २८.८४ ॥
paraṃ raṃha' iti procya pīṭhādādāya cātvaraḥ . pratadviṣṇu stavata' ityavaṭe nyasya rakṣitaṃ .. 28.84 ..
यद्वैष्णवऽमिति प्रोच्य प्राक्छिरश्शाययेत्ततः । अवटं सिकताभिर्वा मृदा वा पूर्व यत्नतः ॥ २८.८५ ॥
yadvaiṣṇava'miti procya prākchiraśśāyayettataḥ . avaṭaṃ sikatābhirvā mṛdā vā pūrva yatnataḥ .. 28.85 ..
अच्छिद्रं सुदृढं कुर्यादवटं परिरक्षितं । पश्चादभ्यन्तरं गत्वा देवदेवं प्रणम्य च ॥ २८.८६ ॥
acchidraṃ sudṛḍhaṃ kuryādavaṭaṃ parirakṣitaṃ . paścādabhyantaraṃ gatvā devadevaṃ praṇamya ca .. 28.86 ..
ग्रथितं पञ्चदशभिर्दर्भैः कूर्चं प्रगह्य च । द्वादशांगुलदीर्घन्तु जीवस्थाने निधाय च ॥ २८.८७ ॥
grathitaṃ pañcadaśabhirdarbhaiḥ kūrcaṃ pragahya ca . dvādaśāṃguladīrghantu jīvasthāne nidhāya ca .. 28.87 ..
ध्रुवबेरात्समादाय तत्कूर्चेर्ऽचनमाचरेथ् । बालालयं भवेच्छेत्तु अर्चापीठे विशेषतः ॥ २८.८८ ॥
dhruvaberātsamādāya tatkūrcer'canamācareth . bālālayaṃ bhavecchettu arcāpīṭhe viśeṣataḥ .. 28.88 ..
कूर्चं सन्न्यस्य हृदयात्प्रणिध्यां विनिवेश्यच । कूर्चं तु बिंबवत्स्मृत्वा मनसैवाक्षराणि तु ॥ २८.८९ ॥
kūrcaṃ sannyasya hṛdayātpraṇidhyāṃ viniveśyaca . kūrcaṃ tu biṃbavatsmṛtvā manasaivākṣarāṇi tu .. 28.89 ..
तत्तत्थ्साने तु संस्कृत्य सन्न्यस्यावाह्य चार्चयेथ् । स्नपनादौ तु संप्राप्ते कुर्यादभ्युक्षणं बुधः ॥ २८.९० ॥
tattatthsāne tu saṃskṛtya sannyasyāvāhya cārcayeth . snapanādau tu saṃprāpte kuryādabhyukṣaṇaṃ budhaḥ .. 28.90 ..
मासादूर्ध्वं तु तत्कूर्चं व्यपोह्यान्यं निधापयेथ् । काले तु बिंबमुद्धृत्य संशोध्याम्लादिभिस्तदा ॥ २८.९१ ॥
māsādūrdhvaṃ tu tatkūrcaṃ vyapohyānyaṃ nidhāpayeth . kāle tu biṃbamuddhṛtya saṃśodhyāmlādibhistadā .. 28.91 ..
पुण्याहान्तेकृतेऽस्पृश्य स्पर्शने त्वविलंबितं । कृत्वा जलाधिवासादीनङ्कुरार्पणपूर्वकं ॥ २८.९२ ॥
puṇyāhāntekṛte'spṛśya sparśane tvavilaṃbitaṃ . kṛtvā jalādhivāsādīnaṅkurārpaṇapūrvakaṃ .. 28.92 ..
आलयाभिमुखे वापि दक्षिणे वा मनोरमे । प्रपायां मण्डपेकूटे यत्वाब्जाग्निं विधायच ॥ २८.९३ ॥
ālayābhimukhe vāpi dakṣiṇe vā manorame . prapāyāṃ maṇḍapekūṭe yatvābjāgniṃ vidhāyaca .. 28.93 ..
तदुत्तरे वास्तहोमं हुत्वाबिंबसमीपतः । पर्यग्निकरणं कृत्वा गव्यैस्संशोध्य पञ्चभिः ॥ २८.९४ ॥
taduttare vāstahomaṃ hutvābiṃbasamīpataḥ . paryagnikaraṇaṃ kṛtvā gavyaissaṃśodhya pañcabhiḥ .. 28.94 ..
अब्जाग्नौ पश्चिमे भागे बिंबार्धाधिकविस्तृतां । भागोन्नतां यथालोभोन्न तां धान्यैर्विधाय च ॥ २८.९५ ॥
abjāgnau paścime bhāge biṃbārdhādhikavistṛtāṃ . bhāgonnatāṃ yathālobhonna tāṃ dhānyairvidhāya ca .. 28.95 ..
वेदिं मनोहरां चैव वासांस्यास्तीर्य पञ्च च । संस्नाप्य कलशैर्दिव्यैश्चतुर्दशभिरेव च ॥ २८.९६ ॥
vediṃ manoharāṃ caiva vāsāṃsyāstīrya pañca ca . saṃsnāpya kalaśairdivyaiścaturdaśabhireva ca .. 28.96 ..
पुण्याहान्ते प्रतिसरं बद्ध्वा कौतुकपूर्वकं । बेराणि देवीसहितं शाययेच्छयने शुभे ॥ २८.९७ ॥
puṇyāhānte pratisaraṃ baddhvā kautukapūrvakaṃ . berāṇi devīsahitaṃ śāyayecchayane śubhe .. 28.97 ..
अवताराणां तु शयनं पृथगेव विधीयते । परिषिच्य च पद्माग्नौ हौत्रशंसनमाचरेथ् ॥ २८.९८ ॥
avatārāṇāṃ tu śayanaṃ pṛthageva vidhīyate . pariṣicya ca padmāgnau hautraśaṃsanamācareth .. 28.98 ..
देवेशस्य च देव्याश्च अवतारगणस्य च । दक्षिणप्रणिधौ चैव पार्षदानामथोत्तरे ॥ २८.९९ ॥
deveśasya ca devyāśca avatāragaṇasya ca . dakṣiṇapraṇidhau caiva pārṣadānāmathottare .. 28.99 ..
आवाह्य कृत्वा निर्वापं हुनेदाज्याहुतीःक्रमाथ् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २८.१०० ॥
āvāhya kṛtvā nirvāpaṃ hunedājyāhutīḥkramāth . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca .. 28.100 ..
गायत्री वैष्णवी चैव द्वादशाक्षरमेव च । प्राजापत्यं मिन्दाहुती विच्छिन्नं जुहुयादयं ॥ २८.१०१ ॥
gāyatrī vaiṣṇavī caiva dvādaśākṣarameva ca . prājāpatyaṃ mindāhutī vicchinnaṃ juhuyādayaṃ .. 28.101 ..
शान्तिहोम इति प्रोक्ता महाशान्तिं जगुःपरे । षण्माने समतीते तु हुत्वा शान्तिं विशेषतः ॥ २८.१०२ ॥
śāntihoma iti proktā mahāśāntiṃ jaguḥpare . ṣaṇmāne samatīte tu hutvā śāntiṃ viśeṣataḥ .. 28.102 ..
सक्तुलाजतिलापूपैराज्यमिश्रैस्तु वैष्णवं । विष्णुसूक्तं च प्रत्येकं शतशो जुहुयाद्विधिः ॥ २८.१०३ ॥
saktulājatilāpūpairājyamiśraistu vaiṣṇavaṃ . viṣṇusūktaṃ ca pratyekaṃ śataśo juhuyādvidhiḥ .. 28.103 ..
श्वेतं रक्तं सरोजातमलाभे बिल्वकच्छदं । घृताप्लुतं तु वैष्णव्या गायत्षाजुहुयात्तथा ॥ २८.१०४ ॥
śvetaṃ raktaṃ sarojātamalābhe bilvakacchadaṃ . ghṛtāplutaṃ tu vaiṣṇavyā gāyatṣājuhuyāttathā .. 28.104 ..
सर्वदैवत्यमन्ते च जुहुयात्पारमात्मिकं । एनमेके महाशान्तिहोममाचक्षते बुधाः ॥ २८.१०५ ॥
sarvadaivatyamante ca juhuyātpāramātmikaṃ . enameke mahāśāntihomamācakṣate budhāḥ .. 28.105 ..
पश्चादप्यवताराणां तत्तन्मन्त्रं विशेषतः । पृथगष्टोत्तरशतं हुत्वा रात्रिं नयेत्ततः ॥ २८.१०६ ॥
paścādapyavatārāṇāṃ tattanmantraṃ viśeṣataḥ . pṛthagaṣṭottaraśataṃ hutvā rātriṃ nayettataḥ .. 28.106 ..
स्नात्वा प्रभाते देवेशं प्रणम्य प्रणवेन तु । बोधयित्वाभिवन्द्यैव "करुणाब्धे क्षमस्य मे ॥ २८.१०७ ॥
snātvā prabhāte deveśaṃ praṇamya praṇavena tu . bodhayitvābhivandyaiva "karuṇābdhe kṣamasya me .. 28.107 ..
शतं सहस्रमयुतमसंख्येयं मुहुर्मुहुः । कृतानामपराधानाऽमिति संप्रार्थ्य भक्तितः ॥ २८.१०८ ॥
śataṃ sahasramayutamasaṃkhyeyaṃ muhurmuhuḥ . kṛtānāmaparādhānā'miti saṃprārthya bhaktitaḥ .. 28.108 ..
प्राचीन वस्त्रमाल्यादीन्द्यपोह्यन्यैर्विभूष्य च । सर्ववाद्य समायुक्तं शाकुनं सूक्तमुच्चरन् ॥ २८.१०९ ॥
prācīna vastramālyādīndyapohyanyairvibhūṣya ca . sarvavādya samāyuktaṃ śākunaṃ sūktamuccaran .. 28.109 ..
तोयधारां पुरस्कृत्य गच्छेत्तु पुरतो गुरुः । स्थापका देवमुद्धृत कृत्वा धामप्रदक्षिणं ॥ २८.११० ॥
toyadhārāṃ puraskṛtya gacchettu purato guruḥ . sthāpakā devamuddhṛta kṛtvā dhāmapradakṣiṇaṃ .. 28.110 ..
अभ्यन्तरं प्रविश्यैव स्थापयेयुश्च पूर्ववथ् । देवपादौ गुरुस्स्पष्ट्वा वैष्णवं विष्णुसूक्तकं ॥ २८.१११ ॥
abhyantaraṃ praviśyaiva sthāpayeyuśca pūrvavath . devapādau gurusspaṣṭvā vaiṣṇavaṃ viṣṇusūktakaṃ .. 28.111 ..
पौरुषं चात्मसूक्तं च जप्त्वा ध्यात्वा विधानतः । ध्रुवाद्वा हृदयाच्छक्तिं प्रणिध्यां तु निवेश्य च ॥ २८.११२ ॥
pauruṣaṃ cātmasūktaṃ ca japtvā dhyātvā vidhānataḥ . dhruvādvā hṛdayācchaktiṃ praṇidhyāṃ tu niveśya ca .. 28.112 ..
कृत्वाक्षराणां विन्यासमावाहनमथाचरेथ् । तदालयगतांश्चैव देवानन्यां त्समाह्वयेथ् ॥ २८.११३ ॥
kṛtvākṣarāṇāṃ vinyāsamāvāhanamathācareth . tadālayagatāṃścaiva devānanyāṃ tsamāhvayeth .. 28.113 ..
पुण्याहं वाचयेत्पश्चाद्यथोक्तं पूर्वमाचरेथ् । यजमानोपि शुद्धात्मा दद्यादाचार्यदक्षिणां ॥ २८.११४ ॥
puṇyāhaṃ vācayetpaścādyathoktaṃ pūrvamācareth . yajamānopi śuddhātmā dadyādācāryadakṣiṇāṃ .. 28.114 ..
पश्चादग्निं परिस्तीर्य शान्तिहोमं समाचरेथ् । यथाविभवविस्तारमुत्सवं स्नपनं चरेथ् ॥ २८.११५ ॥
paścādagniṃ paristīrya śāntihomaṃ samācareth . yathāvibhavavistāramutsavaṃ snapanaṃ careth .. 28.115 ..
अशक्तस्स्नपनं कुर्यादन्यत्सर्वं च पूर्ववथ् । कूर्चादावर्चने हीने तन्निष्कृतिमथाचरेथ् ॥ २८.११६ ॥
aśaktassnapanaṃ kuryādanyatsarvaṃ ca pūrvavath . kūrcādāvarcane hīne tanniṣkṛtimathācareth .. 28.116 ..
एवं चैद्वत्स रेऽतीते पुनस्थ्सापनमाचरेथ् । अवतारविशेषस्य पृथक्कुर्यादितीतरे ॥ २८.११७ ॥
evaṃ caidvatsa re'tīte punasthsāpanamācareth . avatāraviśeṣasya pṛthakkuryāditītare .. 28.117 ..
तेषां पुनःप्रतिष्ठा चेत्तत्तद्धोमं तु के चन । इद्थं स्याद्भयरक्षार्थनिष्कृतिस्सर्वसिद्धिता ॥ २८.११८ ॥
teṣāṃ punaḥpratiṣṭhā cettattaddhomaṃ tu ke cana . idthaṃ syādbhayarakṣārthaniṣkṛtissarvasiddhitā .. 28.118 ..
अथ वक्ष्ये विशेषेण पुनर्बालालयं बुधाः । महाबेरे विमाने च पतिते जरिते तथा ॥ २८.११९ ॥
atha vakṣye viśeṣeṇa punarbālālayaṃ budhāḥ . mahābere vimāne ca patite jarite tathā .. 28.119 ..
भिन्नेंगहीने निहते वात्ययाशनिनाथ वा । वर्णक्षये स्थलभ्रंशे गर्भगेहस्य चान्यथा ॥ २८.१२० ॥
bhinneṃgahīne nihate vātyayāśaninātha vā . varṇakṣaye sthalabhraṃśe garbhagehasya cānyathā .. 28.120 ..
पीठगर्भादिनाशे वा अस्पृश्यैर्वा प्रवेशने । उन्नतस्थापनेच्छायां कुर्याद्बालालयं हरेः ॥ २८.१२१ ॥
pīṭhagarbhādināśe vā aspṛśyairvā praveśane . unnatasthāpanecchāyāṃ kuryādbālālayaṃ hareḥ .. 28.121 ..
बालालयेऽभ्यर्च्यमाने संभूते स्थानसंकटे । चण्डालाधिष्ठिते चैव स्थाननाशे ह्रदादिभिः ॥ २८.१२२ ॥
bālālaye'bhyarcyamāne saṃbhūte sthānasaṃkaṭe . caṇḍālādhiṣṭhite caiva sthānanāśe hradādibhiḥ .. 28.122 ..
अन्यत्र तूचिते देशे कृत्वा पूर्वोक्तमार्गतः । कर्षणादिक्रियास्सर्वा बिंबमानीय चादराथ् ॥ २८.१२३ ॥
anyatra tūcite deśe kṛtvā pūrvoktamārgataḥ . karṣaṇādikriyāssarvā biṃbamānīya cādarāth .. 28.123 ..
प्रतिष्ठाप्य तु तत्रैव कुर्यान्मूलालयं ततः । बाह्ये चैव विमानस्य चाङ्गोपाङ्गक्षतौ तथा ॥ २८.१२४ ॥
pratiṣṭhāpya tu tatraiva kuryānmūlālayaṃ tataḥ . bāhye caiva vimānasya cāṅgopāṅgakṣatau tathā .. 28.124 ..
मक्षिकातृणवल्मीकपादपाद्यैर्विभेदने । विना बालालयस्थानं शक्तिं गृह्य विमानगां ॥ २८.१२५ ॥
makṣikātṛṇavalmīkapādapādyairvibhedane . vinā bālālayasthānaṃ śaktiṃ gṛhya vimānagāṃ .. 28.125 ..
तदङ्गदेवतानां च समारोप्य ध्रुवे पुनः । नवीकृत्य विमानोक्तप्रतिष्ठां पुनराचरेथ् ॥ २८.१२६ ॥
tadaṅgadevatānāṃ ca samāropya dhruve punaḥ . navīkṛtya vimānoktapratiṣṭhāṃ punarācareth .. 28.126 ..
अकृत्वा देवतारोपं महाबेरे विशेषतः । विमानं नाधितिष्ठेत सर्वत्रायं विधिस्स्मृतः ॥ २८.१२७ ॥
akṛtvā devatāropaṃ mahābere viśeṣataḥ . vimānaṃ nādhitiṣṭheta sarvatrāyaṃ vidhissmṛtaḥ .. 28.127 ..
विमानध्रुवयोर्नाशे युगपत्तत्रनिष्कृतिः । कौतुकादीन्प्रतिष्ठाप्य विहाय प्रार्थनामनुं ॥ २८.१२८ ॥
vimānadhruvayornāśe yugapattatraniṣkṛtiḥ . kautukādīnpratiṣṭhāpya vihāya prārthanāmanuṃ .. 28.128 ..
बालालयं प्रकल्प्यैव विधिना तत्र चार्चयेथ् । तस्य कालेऽप्यतीते तु तदा तत्र न दोषकृथ् ॥ २८.१२९ ॥
bālālayaṃ prakalpyaiva vidhinā tatra cārcayeth . tasya kāle'pyatīte tu tadā tatra na doṣakṛth .. 28.129 ..
यस्याङ्गस्य भवेद्धानिस्तत्र बालालयं भवेथ् । कृत्वा तस्य तु संस्कारं यथोक्तं तत्पुनश्चरेथ् ॥ २८.१३० ॥
yasyāṅgasya bhaveddhānistatra bālālayaṃ bhaveth . kṛtvā tasya tu saṃskāraṃ yathoktaṃ tatpunaścareth .. 28.130 ..
कौतुकादिविनाशे च दोषयुक्ते ध्रुवे तथा । विमाने च तथा दुष्टे कृत्वा बालालयं पुनः ॥ २८.१३१ ॥
kautukādivināśe ca doṣayukte dhruve tathā . vimāne ca tathā duṣṭe kṛtvā bālālayaṃ punaḥ .. 28.131 ..
यथालाभेन मानेन बिंबमाहृत्य दारवं । प्रतिष्ठाप्याद्यतरुणालयोक्तविधिना ततः ॥ २८.१३२ ॥
yathālābhena mānena biṃbamāhṛtya dāravaṃ . pratiṣṭhāpyādyataruṇālayoktavidhinā tataḥ .. 28.132 ..
कौतुकादींश्च संकल्प्य प्रतिष्ठाप्यार्चयेत्क्रमाथ् । अलाभे कौतुकादीनां दोषयुक्ते तु दारवे ॥ २८.१३३ ॥
kautukādīṃśca saṃkalpya pratiṣṭhāpyārcayetkramāth . alābhe kautukādīnāṃ doṣayukte tu dārave .. 28.133 ..
बिंबमस्यं समाहृत्य प्रतिष्ठाप्यैव दारवं । तद्बेरं विधिवत्त्यक्त्वा कृत्वा मूलालये पुनः ॥ २८.१३४ ॥
biṃbamasyaṃ samāhṛtya pratiṣṭhāpyaiva dāravaṃ . tadberaṃ vidhivattyaktvā kṛtvā mūlālaye punaḥ .. 28.134 ..
विधिना मूलबेरं तु प्रतिष्ठाप्य समर्चयेथ् । बालालयस्य संस्थानं वक्ष्ये मूलालयस्य तु ॥ २८.१३५ ॥
vidhinā mūlaberaṃ tu pratiṣṭhāpya samarcayeth . bālālayasya saṃsthānaṃ vakṣye mūlālayasya tu .. 28.135 ..
मध्यसूत्राद्दक्षिणे च प्रथमावरणे तथा । द्वितीयावरणे वाथ मण्टपादौ मनोरमे ॥ २८.१३६ ॥
madhyasūtrāddakṣiṇe ca prathamāvaraṇe tathā . dvitīyāvaraṇe vātha maṇṭapādau manorame .. 28.136 ..
यत्रावकाशस्तत्रैवं बालागारं प्रकल्पयेथ् । द्वितीयावरणादूर्ध्वं न बालागारकल्पनं ॥ २८.१३७ ॥
yatrāvakāśastatraivaṃ bālāgāraṃ prakalpayeth . dvitīyāvaraṇādūrdhvaṃ na bālāgārakalpanaṃ .. 28.137 ..
एकादि तु त्रिहस्तान्तं विस्तारं तु विधीयते । अध्यर्धं चैव पादोनमुत्सेधं द्विगुणं तु वा ॥ २८.१३८ ॥
ekādi tu trihastāntaṃ vistāraṃ tu vidhīyate . adhyardhaṃ caiva pādonamutsedhaṃ dviguṇaṃ tu vā .. 28.138 ..
उत्सेधं पञ्चधा कृत्वाधिष्ठानं चैकमंशकं । भित्त्युच्चं द्व्यंशमथ च द्व्यंशं तु शिखरं मतं ॥ २८.१३९ ॥
utsedhaṃ pañcadhā kṛtvādhiṣṭhānaṃ caikamaṃśakaṃ . bhittyuccaṃ dvyaṃśamatha ca dvyaṃśaṃ tu śikharaṃ mataṃ .. 28.139 ..
लुपोपरे तृणाच्छन्नं मृण्मयं कारयेत्सुधीः । भित्तिविष्कंभमानं स्यान्मूलालयसमं तथा ॥ २८.१४० ॥
lupopare tṛṇācchannaṃ mṛṇmayaṃ kārayetsudhīḥ . bhittiviṣkaṃbhamānaṃ syānmūlālayasamaṃ tathā .. 28.140 ..
द्विगुणं चतुर्गुणं कृत्वा यच्छिष्टं विधिना कृतं । नालीगृहं भवेद्विन्द्यात्तमेव तरुणालयं ॥ २८.१४१ ॥
dviguṇaṃ caturguṇaṃ kṛtvā yacchiṣṭaṃ vidhinā kṛtaṃ . nālīgṛhaṃ bhavedvindyāttameva taruṇālayaṃ .. 28.141 ..
मण्डपादिषु चेद्भित्त्या सह तस्य यथार्हकं । नालीगृहं मण्डपेन प्रमुखे रहितं तु वा ॥ २८.१४२ ॥
maṇḍapādiṣu cedbhittyā saha tasya yathārhakaṃ . nālīgṛhaṃ maṇḍapena pramukhe rahitaṃ tu vā .. 28.142 ..
सहिते तु समं कुर्यात्त्रिपादं चार्धमेव वा । पूर्वापरयुतं वाथ दक्षिणोत्तरमायतं ॥ २८.१४३ ॥
sahite tu samaṃ kuryāttripādaṃ cārdhameva vā . pūrvāparayutaṃ vātha dakṣiṇottaramāyataṃ .. 28.143 ..
समं वा तरुणागारं शिल्पशास्त्रोक्तवच्चरेथ् । पञ्चविंशतिभागं तु कृत्वा गर्भालयं ततः ॥ २८.१४४ ॥
samaṃ vā taruṇāgāraṃ śilpaśāstroktavaccareth . pañcaviṃśatibhāgaṃ tu kṛtvā garbhālayaṃ tataḥ .. 28.144 ..
मध्ये ब्राह्मं पदं चैकं परितोऽष्टौ तु दैविकं । मानुषं तस्य परितः पदान्यन्यानि षोडश ॥ २८.१४५ ॥
madhye brāhmaṃ padaṃ caikaṃ parito'ṣṭau tu daivikaṃ . mānuṣaṃ tasya paritaḥ padānyanyāni ṣoḍaśa .. 28.145 ..
कौतुकं ब्रह्मणस्थ्साने स्थापयेदुत्तमं भवेथ् । दैविके मानुषे स्थाप्य मध्यमं चाधमं भवेथ् ॥ २८.१४६ ॥
kautukaṃ brahmaṇasthsāne sthāpayeduttamaṃ bhaveth . daivike mānuṣe sthāpya madhyamaṃ cādhamaṃ bhaveth .. 28.146 ..
त्रीणि तु स्नपनादीनि बेराणि स्थापयेत्सदा । अन्त्ययोरेव नान्यत्र स्थानभेदः प्रशस्यते ॥ २८.१४७ ॥
trīṇi tu snapanādīni berāṇi sthāpayetsadā . antyayoreva nānyatra sthānabhedaḥ praśasyate .. 28.147 ..
प्राणस्थानेतु पीठं स्याद्रम्यमेकत्रिमेखलं । यथालाभायतं तद्वद्विस्तारो त्सेधसंयुतं ॥ २८.१४८ ॥
prāṇasthānetu pīṭhaṃ syādramyamekatrimekhalaṃ . yathālābhāyataṃ tadvadvistāro tsedhasaṃyutaṃ .. 28.148 ..
रत्नन्यासविहीनं वा कृत्वा विभवविस्तराथ् । आलयाग्रेऽथ वा बालागाराग्रे पूर्ववद्बुधः ॥ २८.१४९ ॥
ratnanyāsavihīnaṃ vā kṛtvā vibhavavistarāth . ālayāgre'tha vā bālāgārāgre pūrvavadbudhaḥ .. 28.149 ..
यागशालां तु कृत्वैव तोरणादीन्विधाय च । सुभृत्यैव च संभारानृत्विजोवरयेत्क्रमाथ् ॥ २८.१५० ॥
yāgaśālāṃ tu kṛtvaiva toraṇādīnvidhāya ca . subhṛtyaiva ca saṃbhārānṛtvijovarayetkramāth .. 28.150 ..
शालामध्ये प्रकल्प्यैव शय्यावेदिं मनोहरं । चतुरश्रां पादहीनामर्धहीनां विशेषतः ॥ २८.१५१ ॥
śālāmadhye prakalpyaiva śayyāvediṃ manoharaṃ . caturaśrāṃ pādahīnāmardhahīnāṃ viśeṣataḥ .. 28.151 ..
तद्भित्त्यातु समां तत्तुरीयांशोत्सेधसम्मित्तां । पञ्चत्रीनथवै काग्निं संकल्प्यैव च पूर्ववत्. ॥ २८.१५२ ॥
tadbhittyātu samāṃ tatturīyāṃśotsedhasammittāṃ . pañcatrīnathavai kāgniṃ saṃkalpyaiva ca pūrvavat. .. 28.152 ..
पर्यग्नि पञ्चगव्याभ्यां संशोध्य विधिना ततः । बालागारं यज्ञशालां पुण्याहमपि वाचयेथ् ॥ २८.१५३ ॥
paryagni pañcagavyābhyāṃ saṃśodhya vidhinā tataḥ . bālāgāraṃ yajñaśālāṃ puṇyāhamapi vācayeth .. 28.153 ..
हुत्वाग्निकुण्डेष्वाघारं प्रधानाग्निं समिन्ध्य च । गायत्रीं वैष्णवीं चैव वैष्णवं विष्णुसूक्तकं ॥ २८.१५४ ॥
hutvāgnikuṇḍeṣvāghāraṃ pradhānāgniṃ samindhya ca . gāyatrīṃ vaiṣṇavīṃ caiva vaiṣṇavaṃ viṣṇusūktakaṃ .. 28.154 ..
पौरुषं चैकाक्षरादि श्रीभूसूक्तं च वारुणं । पञ्चमन्त्रान्जयानभ्यातानान्राष्ट्रभृतस्तथा ॥ २८.१५५ ॥
pauruṣaṃ caikākṣarādi śrībhūsūktaṃ ca vāruṇaṃ . pañcamantrānjayānabhyātānānrāṣṭrabhṛtastathā .. 28.155 ..
मिदाहुती च विच्छिन्नमृद्धिं वैष्णवसंयुतं । प्रत्येकं प्रतिमन्त्रं च हुत्वां च समनन्तरं ॥ २८.१५६ ॥
midāhutī ca vicchinnamṛddhiṃ vaiṣṇavasaṃyutaṃ . pratyekaṃ pratimantraṃ ca hutvāṃ ca samanantaraṃ .. 28.156 ..
श्वेताब्जं विष्णुगायत्षाघृताक्तं बिल्वपत्रकं । हुनेदष्टोत्तरशतं सर्वदोषविनाशनं ॥ २८.१५७ ॥
śvetābjaṃ viṣṇugāyatṣāghṛtāktaṃ bilvapatrakaṃ . hunedaṣṭottaraśataṃ sarvadoṣavināśanaṃ .. 28.157 ..
रात्रिपूजावसाने तु देवमभ्यर्च्य यत्नतः । हविर्निवेद्य तां शक्तिं कौतुकादिषु संगतां ॥ २८.१५८ ॥
rātripūjāvasāne tu devamabhyarcya yatnataḥ . havirnivedya tāṃ śaktiṃ kautukādiṣu saṃgatāṃ .. 28.158 ..
महाबेरे समारोप्य कुंभमाहृत्य पूर्ववथ् । तन्तुना परिवेष्ट्यैव "शुची वो हव्यऽमन्त्रतः ॥ २८.१५९ ॥
mahābere samāropya kuṃbhamāhṛtya pūrvavath . tantunā pariveṣṭyaiva "śucī vo havya'mantrataḥ .. 28.159 ..
प्रक्षाल्योत्पवनं कृत्वा "धारास्विऽति च मन्त्रतः । अद्भिरापूर्याभिमृश्य "इदमापश्शिवाऽ इति ॥ २८.१६० ॥
prakṣālyotpavanaṃ kṛtvā "dhārāsvi'ti ca mantrataḥ . adbhirāpūryābhimṛśya "idamāpaśśivā' iti .. 28.160 ..
वस्त्रयुग्मेन चावेष्ट्य नवरत्नादि विन्यसेथ् । उच्चार्यविष्णुगायत्रीं तत्र कार्यं समाचरेथ् ॥ २८.१६१ ॥
vastrayugmena cāveṣṭya navaratnādi vinyaseth . uccāryaviṣṇugāyatrīṃ tatra kāryaṃ samācareth .. 28.161 ..
ततोऽभ्यन्तरमाविश्य देवाग्रे धान्यमण्डले । सन्न्यस्य कुंभमासित्वा देवाग्रे तूत्तरामुखः ॥ २८.१६२ ॥
tato'bhyantaramāviśya devāgre dhānyamaṇḍale . sannyasya kuṃbhamāsitvā devāgre tūttarāmukhaḥ .. 28.162 ..
समाहितो हरिं ध्यायन्प्रार्थयेन्मन्त्रमुच्चरन् । अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ॥ २८.१६३ ॥
samāhito hariṃ dhyāyanprārthayenmantramuccaran . anarhametattvadgehaṃ jīrṇaṃ tūrṇaṃ vyapohya ca .. 28.163 ..
किञ्चित्कालं च देवेश त्वयात्र स्थीयतां विभो । यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ॥ २८.१६४ ॥
kiñcitkālaṃ ca deveśa tvayātra sthīyatāṃ vibho . yāvadvayaṃ navaṃ kṛtvā pratiṣṭhāṃ kārayāmahe .. 28.164 ..
प्रसादं कुरु तावत्त्वमस्मिन्गेहे जगत्पतेऽ । इत्युक्त्वाब्दमथ द्वौत्रीन्संकल्प्यावधिमादराथ् ॥ २८.१६५ ॥
prasādaṃ kuru tāvattvamasmingehe jagatpate' . ityuktvābdamatha dvautrīnsaṃkalpyāvadhimādarāth .. 28.165 ..
देव्यादिसहितं देवमावाह्यांभसि कुंभके । आचार्यश्शिरसा कुंभं धारयन्नग्रतस्त्वियाथ् ॥ २८.१६६ ॥
devyādisahitaṃ devamāvāhyāṃbhasi kuṃbhake . ācāryaśśirasā kuṃbhaṃ dhārayannagratastviyāth .. 28.166 ..
तदनु स्थापकाबिंबन्यादाय स्नपनावटे । यज्ञालये प्रतिष्ठाप्य चतुर्दशभिरेव च ॥ २८.१६७ ॥
tadanu sthāpakābiṃbanyādāya snapanāvaṭe . yajñālaye pratiṣṭhāpya caturdaśabhireva ca .. 28.167 ..
कलशैस्स्नाप्य वस्त्राद्यैरलङ्कृत्य समर्च्यच । शय्यावेद्यां धान्यपीठे शयनानि तु पञ्चवै ॥ २८.१६८ ॥
kalaśaissnāpya vastrādyairalaṅkṛtya samarcyaca . śayyāvedyāṃ dhānyapīṭhe śayanāni tu pañcavai .. 28.168 ..
आस्तीर्य चाथ वासांसि बद्ध्वा प्रतिसरं ततः । तथैव शाययेत्कुर्यादुत्तराच्छादनं पुनः ॥ २८.१६९ ॥
āstīrya cātha vāsāṃsi baddhvā pratisaraṃ tataḥ . tathaiva śāyayetkuryāduttarācchādanaṃ punaḥ .. 28.169 ..
परिषिच्य प्रधानाग्निं हौत्रशंसनमाचरेथ् । कृत्वा चावाहनादीनि हुनेदग्निषु पूर्ववथ् ॥ २८.१७० ॥
pariṣicya pradhānāgniṃ hautraśaṃsanamācareth . kṛtvā cāvāhanādīni hunedagniṣu pūrvavath .. 28.170 ..
प्रधानाग्नौ स्रुवेणाज्यमादायैव तु वैष्णवं । गायत्रीं वैष्णपं विष्णुसूक्तं पौरुषमेव च ॥ २८.१७१ ॥
pradhānāgnau sruveṇājyamādāyaiva tu vaiṣṇavaṃ . gāyatrīṃ vaiṣṇapaṃ viṣṇusūktaṃ pauruṣameva ca .. 28.171 ..
एकाक्षरादिसूक्तं च श्रीभूदैवत्यमेव च । त्रिर्हुत्वा सर्वदैवत्यपर्षदां मन्त्रमेव च ॥ २८.१७२ ॥
ekākṣarādisūktaṃ ca śrībhūdaivatyameva ca . trirhutvā sarvadaivatyaparṣadāṃ mantrameva ca .. 28.172 ..
हुत्वा व्यपोह्य विधिना रात्रिशेषं समाहितः । स्नात्वा प्रभाते देवेशं प्रणम्य प्रमवेन तु ॥ २८.१७३ ॥
hutvā vyapohya vidhinā rātriśeṣaṃ samāhitaḥ . snātvā prabhāte deveśaṃ praṇamya pramavena tu .. 28.173 ..
विबोध्य दक्षिणां दद्याद्यजमानो मुदान्वितः । ततोऽग्निं साधयित्वा तु गुरुस्स्विष्टकृतं तथा ॥ २८.१७४ ॥
vibodhya dakṣiṇāṃ dadyādyajamāno mudānvitaḥ . tato'gniṃ sādhayitvā tu gurussviṣṭakṛtaṃ tathā .. 28.174 ..
पूर्णाहुतिं च हुत्वैव विसृज्याग्निं विधानतः । धारयन्शिरसा कुंभं शाकुनं सूक्तमुच्चरन् ॥ २८.१७५ ॥
pūrṇāhutiṃ ca hutvaiva visṛjyāgniṃ vidhānataḥ . dhārayanśirasā kuṃbhaṃ śākunaṃ sūktamuccaran .. 28.175 ..
आचार्यः पुरतेगच्छेत्थ्सापकास्तदनस्तरं । हस्ताभ्यां देवमादाय सर्ववाद्यसमायुतं ॥ २८.१७६ ॥
ācāryaḥ purategacchetthsāpakāstadanastaraṃ . hastābhyāṃ devamādāya sarvavādyasamāyutaṃ .. 28.176 ..
सर्वालङ्कारसंयुक्तं तो यधारापुरस्सरं । आलयं परितो गत्वा प्रविश्याभ्यन्तरं पुनः ॥ २८.१७७ ॥
sarvālaṅkārasaṃyuktaṃ to yadhārāpurassaraṃ . ālayaṃ parito gatvā praviśyābhyantaraṃ punaḥ .. 28.177 ..
विहाय स्थिरराशिं तु सुमुहूर्तेविशेषतः । प्रतद्विष्णुऽरिति प्रोच्य प्राणपीठे हरिंस्मरन् ॥ २८.१७८ ॥
vihāya sthirarāśiṃ tu sumuhūrteviśeṣataḥ . pratadviṣṇu'riti procya prāṇapīṭhe hariṃsmaran .. 28.178 ..
प्रतिष्ठाप्य तु देवेशं तस्य दक्षिणवामयोः । श्रियं भुवं च मन्त्राभ्यां तयोस्संस्थापयेत्क्रमाथ् ॥ २८.१७९ ॥
pratiṣṭhāpya tu deveśaṃ tasya dakṣiṇavāmayoḥ . śriyaṃ bhuvaṃ ca mantrābhyāṃ tayossaṃsthāpayetkramāth .. 28.179 ..
देवपादौ स्पृशन्पश्चाद्विष्णुसूक्तं जपन्गुरुः । कृत्वाक्षराणां न्यासादी निदं विष्णुंऽति ब्रुवन् ॥ २८.१८० ॥
devapādau spṛśanpaścādviṣṇusūktaṃ japanguruḥ . kṛtvākṣarāṇāṃ nyāsādī nidaṃ viṣṇuṃ'ti bruvan .. 28.180 ..
कूर्चेनादाय कुंभस्थां शक्ति"मायातुऽ मन्त्रतः । विष्णुमावाहयाऽमीति कौतुकस्य तु मूर्धवि ॥ २८.१८१ ॥
kūrcenādāya kuṃbhasthāṃ śakti"māyātu' mantrataḥ . viṣṇumāvāhayā'mīti kautukasya tu mūrdhavi .. 28.181 ..
श्रियंच "हरिणींऽचेति देव्यौ दक्षिणवामयोः । संस्राव्यावाहयेद्देवांस्ततः पारिषदानपि ॥ २८.१८२ ॥
śriyaṃca "hariṇīṃ'ceti devyau dakṣiṇavāmayoḥ . saṃsrāvyāvāhayeddevāṃstataḥ pāriṣadānapi .. 28.182 ..
कौतुकाद्दक्षिणे वामे स्नपनादीनि कौतुकाथ् । संस्थाप्य तु समावाह्य तावत्कालं समर्चयेथ् ॥ २८.१८३ ॥
kautukāddakṣiṇe vāme snapanādīni kautukāth . saṃsthāpya tu samāvāhya tāvatkālaṃ samarcayeth .. 28.183 ..
स्थापकैस्सह पुण्याहं कृत्वाभ्यर्च्यासनादिभिः । हविर्निवेद्य देवेशं हुत्वा होमं च नैत्यिकं ॥ २८.१८४ ॥
sthāpakaissaha puṇyāhaṃ kṛtvābhyarcyāsanādibhiḥ . havirnivedya deveśaṃ hutvā homaṃ ca naityikaṃ .. 28.184 ..
बलिं निर्वाप्य कुर्वीत बलिभ्रमणमेव च । स्नपनं चोत्सवादीनि पूर्ववत्कारयेत्क्रमाथ् ॥ २८.१८५ ॥
baliṃ nirvāpya kurvīta balibhramaṇameva ca . snapanaṃ cotsavādīni pūrvavatkārayetkramāth .. 28.185 ..
बालालयार्चने कुर्यादर्चनं तु ध्रुवार्चयोः । आवाहनं विसर्गं च हित्वा सर्वं समाचरेथ् ॥ २८.१८६ ॥
bālālayārcane kuryādarcanaṃ tu dhruvārcayoḥ . āvāhanaṃ visargaṃ ca hitvā sarvaṃ samācareth .. 28.186 ..
महानसादिनिर्माणं बालालयविधौ पुनः । सूलालयोक्तवत्कुर्याद्विपरीतं न कारयेथ् ॥ २८.१८७ ॥
mahānasādinirmāṇaṃ bālālayavidhau punaḥ . sūlālayoktavatkuryādviparītaṃ na kārayeth .. 28.187 ..
अज्ञानादर्थलोभाद्वा कालस्यातिक्रमे सति । देवं विशेषतोऽभ्यर्च्यशान्तिं वैष्णवसंयुतं ॥ २८.१८८ ॥
ajñānādarthalobhādvā kālasyātikrame sati . devaṃ viśeṣato'bhyarcyaśāntiṃ vaiṣṇavasaṃyutaṃ .. 28.188 ..
हुत्वा संपूज्य पूज्यांश्च यजमानो गुरुस्तथा । संप्रार्थ्य देवं कालस्य चावधिं ज्ञापयेत्पुनः ॥ २८.१८९ ॥
hutvā saṃpūjya pūjyāṃśca yajamāno gurustathā . saṃprārthya devaṃ kālasya cāvadhiṃ jñāpayetpunaḥ .. 28.189 ..
भक्तिनम्र स्ततःकुत्याच्छीघ्रङ्कर्मेदमादराथ् । एवं द्वादशवर्षान्तं कारयेच्छ ततः परं ॥ २८.१९० ॥
bhaktinamra stataḥkutyācchīghraṅkarmedamādarāth . evaṃ dvādaśavarṣāntaṃ kārayeccha tataḥ paraṃ .. 28.190 ..
न र मेत हरिस्तत्र तस्मा दुक्तं समाचरेथ् । अशक्तश्चेत्तथा कर्तुं बालागालान्तरं पुनः ॥ २८.१९१ ॥
na ra meta haristatra tasmā duktaṃ samācareth . aśaktaścettathā kartuṃ bālāgālāntaraṃ punaḥ .. 28.191 ..
संकल्प्यस्थापयेत्तत्र विपरीतकृदन्यथा । देहाद्देहान्तरप्राप्तौ यथा संस्क्रियते नरः ॥ २८.१९२ ॥
saṃkalpyasthāpayettatra viparītakṛdanyathā . dehāddehāntaraprāptau yathā saṃskriyate naraḥ .. 28.192 ..
तथा स्थानान्तनप्राप्तौ प्रतिष्ठां कारयेद्धरेः । प्रथमेऽथ द्वितीये ना नष्टे बालालयेऽर्चिते ॥ २८.१९३ ॥
tathā sthānāntanaprāptau pratiṣṭhāṃ kārayeddhareḥ . prathame'tha dvitīye nā naṣṭe bālālaye'rcite .. 28.193 ..
दुष्टे वा येन केनापि मण्डपादौ मनोरमं । देशं तु समलङ्कृत्य संशोध्य विधिवत्पुनः ॥ २८.१९४ ॥
duṣṭe vā yena kenāpi maṇḍapādau manoramaṃ . deśaṃ tu samalaṅkṛtya saṃśodhya vidhivatpunaḥ .. 28.194 ..
संस्थाप्य कौतुकादींश्च समभ्यर्च्येद्विधानतः । बालालयं नवीकृत्य तदेव त्वरितं यथा ॥ २८.१९५ ॥
saṃsthāpya kautukādīṃśca samabhyarcyedvidhānataḥ . bālālayaṃ navīkṛtya tadeva tvaritaṃ yathā .. 28.195 ..
वास्तुशुद्धिं च पुण्याहं कृत्वा संस्थाप्य चार्चयेथ् । अयुक्तेतु ततस्तस्मिन्निधायान्यत्र मन्दिरं ॥ २८.१९६ ॥
vāstuśuddhiṃ ca puṇyāhaṃ kṛtvā saṃsthāpya cārcayeth . ayuktetu tatastasminnidhāyānyatra mandiraṃ .. 28.196 ..
पुनः प्रतिष्ठामार्गेण प्रतिष्ठाप्य समर्चयेथ् ॥ २८.१९७ ॥
punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāpya samarcayeth .. 28.197 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेऽष्टाविंशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre'ṣṭāviṃśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In