| |
|

This overlay will guide you through the buttons:

अथ चतुर्दशोऽध्यायः.
अथ चतुर्दशः अध्यायः।
atha caturdaśaḥ adhyāyaḥ.
अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा । वैरोचनसुतोह्युग्रो बली च बलिनां वरः ॥ १४.१ ॥
अथ अतस् संप्रवक्ष्यामि वामनस्य क्रमम् यथा । वैरोचन-सुतः हि उग्रः बली च बलिनाम् वरः ॥ १४।१ ॥
atha atas saṃpravakṣyāmi vāmanasya kramam yathā . vairocana-sutaḥ hi ugraḥ balī ca balinām varaḥ .. 14.1 ..
दशावतारकल्पः (वामनः)
तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः । हरिर्वामनरूपोऽभूच्छत्री दण्डी च वेदविथ् ॥ १४.२ ॥
तद्-बलस्य अपहार-अर्थम् काश्यपात् जायते हरिः । हरिः वामन-रूपः अभूत् छत्री दण्डी च ॥ १४।२ ॥
tad-balasya apahāra-artham kāśyapāt jāyate hariḥ . hariḥ vāmana-rūpaḥ abhūt chatrī daṇḍī ca .. 14.2 ..
वटबीजेन सदृशः केवलं सूत्रदण्डभृथ् । वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ॥ १४.३ ॥
वट-बीजेन सदृशः केवलम् सूत्र-दण्ड-भृथ् । वर्तमाने महा-यज्ञे बलेः वैरोचनेः पुरा ॥ १४।३ ॥
vaṭa-bījena sadṛśaḥ kevalam sūtra-daṇḍa-bhṛth . vartamāne mahā-yajñe baleḥ vairocaneḥ purā .. 14.3 ..
तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः । त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ॥ १४.४ ॥
तद्-यज्ञ-शालाम् संप्राप्य वटु-रूपः महा-हरिः । त्वम् देहि त्रिपदीम् मह्यम् गाम् इति ऊचे स्व-मायया ॥ १४।४ ॥
tad-yajña-śālām saṃprāpya vaṭu-rūpaḥ mahā-hariḥ . tvam dehi tripadīm mahyam gām iti ūce sva-māyayā .. 14.4 ..
बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितं । हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ॥ १४.५ ॥
बलिः च त्रिपदम् तस्मै प्रादात् तोय-समन्वितम् । पतति आशु भद्रम् रूपम् अवाप्य च ॥ १४।५ ॥
baliḥ ca tripadam tasmai prādāt toya-samanvitam . patati āśu bhadram rūpam avāpya ca .. 14.5 ..
देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीथ् । त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते ॥ १४.६ ॥
देवः त्रैविक्रमम् रूपम् सर्वम् लोकम् तदा अग्रहीथ् । त्रिविक्रम-प्रतिष्ठायाम् विशेषः संप्रवक्ष्यते ॥ १४।६ ॥
devaḥ traivikramam rūpam sarvam lokam tadā agrahīth . trivikrama-pratiṣṭhāyām viśeṣaḥ saṃpravakṣyate .. 14.6 ..
वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) । दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदं ॥ १४.७ ॥
वसन्तु इमाने वा भद्रके हस्ति-भद्रके (?) । दीर्घशारे महा-कूटे स्थापनम् सर्व-सिद्धि-दम् ॥ १४।७ ॥
vasantu imāne vā bhadrake hasti-bhadrake (?) . dīrghaśāre mahā-kūṭe sthāpanam sarva-siddhi-dam .. 14.7 ..
दशतालेन मानेन देवदेवं प्रकल्पयेथ् । सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेथ् ॥ १४.८ ॥
दश-तालेन मानेन देवदेवम् । सव्यम् पादम् स्थितम् कुर्यात् दक्षिणम् च उद्थितम् ॥ १४।८ ॥
daśa-tālena mānena devadevam . savyam pādam sthitam kuryāt dakṣiṇam ca udthitam .. 14.8 ..
चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः । दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च ॥ १४.९ ॥
चतुर्-भुजम् प्रकुर्वीत संयुतम् वा अष्टभिः भुजैः । दक्षिणे शार्ङ्गम् आलंब्य भूम्याम् च एव प्रस्र्य च ॥ १४।९ ॥
catur-bhujam prakurvīta saṃyutam vā aṣṭabhiḥ bhujaiḥ . dakṣiṇe śārṅgam ālaṃbya bhūmyām ca eva prasrya ca .. 14.9 ..
शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेथ् । गदा वामकरे प्रोक्ता तथा खेटकमेव च ॥ १४.१० ॥
शरम् च दक्षिणे हस्ते खड्गम् च एव तथा । गदा वाम-करे प्रोक्ता तथा खेटकम् एव च ॥ १४।१० ॥
śaram ca dakṣiṇe haste khaḍgam ca eva tathā . gadā vāma-kare proktā tathā kheṭakam eva ca .. 14.10 ..
चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः । एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ॥ १४.११ ॥
चक्र-शङ्खे तथा कुर्यात् ऊर्ध्वबाहोः विचक्षणः । एवम् एव प्रकुर्वीत वसु-हस्तम् प्रकल्पयन् ॥ १४।११ ॥
cakra-śaṅkhe tathā kuryāt ūrdhvabāhoḥ vicakṣaṇaḥ . evam eva prakurvīta vasu-hastam prakalpayan .. 14.11 ..
सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितं । सर्वाभरण संयुक्तं कीरीटादिविभूषितं ॥ १४.१२ ॥
सस्य-श्याम-निभम् कुर्यात् हर्ष वेग-समन्वितम् । सर्व-आभरण-संयुक्तम् कीरीट-आदि-विभूषितम् ॥ १४।१२ ॥
sasya-śyāma-nibham kuryāt harṣa vega-samanvitam . sarva-ābharaṇa-saṃyuktam kīrīṭa-ādi-vibhūṣitam .. 14.12 ..
इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितं । दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ॥ १४.१३ ॥
इन्द्रम् सस्य-निभम् कुर्यात् वाम-पार्श्वे च सुस्थितम् । दक्षिणे धर्मराजम् च पुष्प-माला-धरम् पुनर् ॥ १४।१३ ॥
indram sasya-nibham kuryāt vāma-pārśve ca susthitam . dakṣiṇe dharmarājam ca puṣpa-mālā-dharam punar .. 14.13 ..
दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेथ् । हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेथ् ॥ १४.१४ ॥
दक्षिणे भित्ति-पोर्श्वे तु ब्रह्माणम् च । हस्ताभ्याम् कुंभयोः च एव पाद-प्रक्षालनम् चरेथ् ॥ १४।१४ ॥
dakṣiṇe bhitti-porśve tu brahmāṇam ca . hastābhyām kuṃbhayoḥ ca eva pāda-prakṣālanam careth .. 14.14 ..
तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीं । प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ॥ १४.१५ ॥
तस्य पाद-अंबुजे च एव जाताम् गङ्गाम् च सुन्दरीम् । प्राञ्जलीकृत्य हस्ताभ्याम् शरीर-गौ ॥ १४।१५ ॥
tasya pāda-aṃbuje ca eva jātām gaṅgām ca sundarīm . prāñjalīkṛtya hastābhyām śarīra-gau .. 14.15 ..
पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववथ् । जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिं ॥ १४.१६ ॥
पार्श्वयोः उभयोः च अपि चन्द्र-आदित्यौ च । जांबवन्तम् तथा भेरीम् ताडयः तम् नर-आकृतिम् ॥ १४।१६ ॥
pārśvayoḥ ubhayoḥ ca api candra-ādityau ca . jāṃbavantam tathā bherīm tāḍayaḥ tam nara-ākṛtim .. 14.16 ..
इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभं । आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेथ् ॥ १४.१७ ॥
इन्द्रम् श्याम-निभम् कुर्यात् यमम् अञ्जन-सन्निभम् । आदित्यम् च अग्नि वर्णम् च चन्द्रम् श्तेतम् तथा चरेथ् ॥ १४।१७ ॥
indram śyāma-nibham kuryāt yamam añjana-sannibham . ādityam ca agni varṇam ca candram śtetam tathā careth .. 14.17 ..
पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकं । ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीं ॥ १४.१८ ॥
पीत-वर्णम् बलिम् कुर्यात् नील-आभम् जांबवन्तकम् । ब्रह्माणम् पीत-वर्णम् च श्याम-वर्णाम् च जाह्नवीम् ॥ १४।१८ ॥
pīta-varṇam balim kuryāt nīla-ābham jāṃbavantakam . brahmāṇam pīta-varṇam ca śyāma-varṇām ca jāhnavīm .. 14.18 ..
एवं वर्णक्रमेणैव चित्राभासं च कारयेथ् । पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ॥ १४.१९ ॥
एवम् वर्ण-क्रमेण एव चित्र-आभासम् च । पूजकौ तु प्रकुर्वीत तथा शक्र-बृहस्पती ॥ १४।१९ ॥
evam varṇa-krameṇa eva citra-ābhāsam ca . pūjakau tu prakurvīta tathā śakra-bṛhaspatī .. 14.19 ..
शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेथ् । अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमं ॥ १४.२० ॥
शङ्खम् दक्षिणतस् कुर्यात् चक्रम् वामे । अमूर्तम् वा स मूर्तम् वा कल्पयित्वा यथाक्रमम् ॥ १४।२० ॥
śaṅkham dakṣiṇatas kuryāt cakram vāme . amūrtam vā sa mūrtam vā kalpayitvā yathākramam .. 14.20 ..
शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिं । महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेथ् ॥ १४.२१ ॥
शुक्रम् शुक्ल-निभम् कुर्यात् पीत-वर्णम् बृहस्पतिम् । महीम् दक्षिणतस् ॥ १४।२१ ॥
śukram śukla-nibham kuryāt pīta-varṇam bṛhaspatim . mahīm dakṣiṇatas .. 14.21 ..
उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे । वामे प्रसारितां चैव सर्वरत्न विभूषितां ॥ १४.२२ ॥
उदक्-मुखीम् च कुर्दीत पद्म-हस्ताम् च दक्षिणे । वामे प्रसारिताम् च एव सर्व-रत्न-विभूषिताम् ॥ १४।२२ ॥
udak-mukhīm ca kurdīta padma-hastām ca dakṣiṇe . vāme prasāritām ca eva sarva-ratna-vibhūṣitām .. 14.22 ..
तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखं । जटामुकुटसंयुक्तं सर्वाभरणभूषितं ॥ १४.२३ ॥
तस्याः पूर्वे तथा कुर्यात् प्रह्लादम् च उत्तरा-मुखम् । जटा-मुकुट-संयुक्तम् सर्व-आभरण-भूषितम् ॥ १४।२३ ॥
tasyāḥ pūrve tathā kuryāt prahlādam ca uttarā-mukham . jaṭā-mukuṭa-saṃyuktam sarva-ābharaṇa-bhūṣitam .. 14.23 ..
हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरं । तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ॥ १४.२४ ॥
हृदय-इंजलि-संयुक्तम् शुक-वत्र-निभ-अंबरम् । तस्य च उत्तर-पार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ॥ १४।२४ ॥
hṛdaya-iṃjali-saṃyuktam śuka-vatra-nibha-aṃbaram . tasya ca uttara-pārśve tu brahmāsūtrasya dakṣiṇe .. 14.24 ..
असुरेन्द्रं तथासीनं विनतं पश्चिमामुखं । ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितं ॥ १४.२५ ॥
असुर-इन्द्रम् तथा आसीनम् विनतम् पश्चिमा-मुखम् । ब्रह्माञ्जलि समायुक्तम् कीरीट-आदि-विभूषितम् ॥ १४।२५ ॥
asura-indram tathā āsīnam vinatam paścimā-mukham . brahmāñjali samāyuktam kīrīṭa-ādi-vibhūṣitam .. 14.25 ..
एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरं । नमुचिं च समासीनं पादपीठावलंबिनं ॥ १४.२६ ॥
एवम् वैरोचनिम् कुर्यात् पुष्प-अंबर-धरम् परम् । नमुचिम् च समासीनम् पाद-पीठ-अवलंबिनम् ॥ १४।२६ ॥
evam vairocanim kuryāt puṣpa-aṃbara-dharam param . namucim ca samāsīnam pāda-pīṭha-avalaṃbinam .. 14.26 ..
वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयं । कल्पयित्वा यथामार्गं शुक्रं चैव समागतं ॥ १४.२७ ॥
वाम-पार्श्वे समासीनम् पूर्व-भित्ति-समाश्रयम् । कल्पयित्वा यथामार्गम् शुक्रम् च एव समागतम् ॥ १४।२७ ॥
vāma-pārśve samāsīnam pūrva-bhitti-samāśrayam . kalpayitvā yathāmārgam śukram ca eva samāgatam .. 14.27 ..
वामपादं समासीनं दक्षिणं कुञ्चितं तथा । अभयं दक्षिणं हस्तं वामं कट्यवलंबितं ॥ १४.२८ ॥
वाम-पादम् समासीनम् दक्षिणम् कुञ्चितम् तथा । अभयम् दक्षिणम् हस्तम् वामम् कटि-अवलंबितम् ॥ १४।२८ ॥
vāma-pādam samāsīnam dakṣiṇam kuñcitam tathā . abhayam dakṣiṇam hastam vāmam kaṭi-avalaṃbitam .. 14.28 ..
सर्वाभरण संयुक्तं पश्चिमामुखमेव च । तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेथ् ॥ १४.२९ ॥
सर्व-आभरण-संयुक्तम् पश्चिमा-मुखम् एव च । तस्य च उत्तर-पार्श्वे तु पक्षिराजम् ॥ १४।२९ ॥
sarva-ābharaṇa-saṃyuktam paścimā-mukham eva ca . tasya ca uttara-pārśve tu pakṣirājam .. 14.29 ..
दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणं । एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ॥ १४.३० ॥
दक्षिणा-मुख-संयुक्तम् शुक्रेमुष्टि-प्रहारिणम् । एवम् गर्भगृहे प्रोक्तम् विधिना कारयेत् बुधः ॥ १४।३० ॥
dakṣiṇā-mukha-saṃyuktam śukremuṣṭi-prahāriṇam . evam garbhagṛhe proktam vidhinā kārayet budhaḥ .. 14.30 ..
मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखं । हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेथ् ॥ १४.३१ ॥
मण्डपे निम्नित-स्थाने अनन्तम् च उत्तरा-मुखम् । हृदय-इंजलि-संयुक्तम् स्थितम् एवम् ॥ १४।३१ ॥
maṇḍape nimnita-sthāne anantam ca uttarā-mukham . hṛdaya-iṃjali-saṃyuktam sthitam evam .. 14.31 ..
फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितं । उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेथ् ॥ १४.३२ ॥
फणैः तु पञ्चभिः युक्तम् सर्व-आभरण-भूषितम् । उत्तरे वासुकीम् च ॥ १४।३२ ॥
phaṇaiḥ tu pañcabhiḥ yuktam sarva-ābharaṇa-bhūṣitam . uttare vāsukīm ca .. 14.32 ..
अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितं । एवमेव विधानेन कल्पयित्वा यथाक्रमं ॥ १४.३३ ॥
कुर्यात् हर्ष-वेग-समन्वितम् । एवम् एव विधानेन कल्पयित्वा यथाक्रमम् ॥ १४।३३ ॥
kuryāt harṣa-vega-samanvitam . evam eva vidhānena kalpayitvā yathākramam .. 14.33 ..
श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च । कनकाभं बलिञ्चैव नमुचिं च तथै व च ॥ १४.३४ ॥
श्याम-वर्णाम् तथा देवीम् प्रह्गादम् पीतम् एव च । कनक-आभम् बलिम् च एव नमुचिम् च च ॥ १४।३४ ॥
śyāma-varṇām tathā devīm prahgādam pītam eva ca . kanaka-ābham balim ca eva namucim ca ca .. 14.34 ..
शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपं । अनन्तं पीतवर्णं च वासुकिं श्याममेव च ॥ १४.३५ ॥
शक्रम् तु पूर्ववत् कुर्यात् पञ्च-वर्णम् खग-अधिपम् । अनन्तम् पीत-वर्णम् च वासुकिम् श्यामम् एव च ॥ १४।३५ ॥
śakram tu pūrvavat kuryāt pañca-varṇam khaga-adhipam . anantam pīta-varṇam ca vāsukim śyāmam eva ca .. 14.35 ..
एवं स्थानक्रमेणैव कूटयुक्तेन कारयेथ् । अथ वा भित्तिपार्श्वे तु चित्राभासेऽधमाधमं ॥ १४.३६ ॥
एवम् स्थान-क्रमेण एव कूट-युक्तेन कारयेथ् । अथ वा भित्ति-पार्श्वे तु चित्र-आभासे अधम-अधमम् ॥ १४।३६ ॥
evam sthāna-krameṇa eva kūṭa-yuktena kārayeth . atha vā bhitti-pārśve tu citra-ābhāse adhama-adhamam .. 14.36 ..
त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये । एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समं ॥ १४.३७ ॥
त्रिविक्रमम् प्रवक्ष्यामि यथा कुर्यात् जगत्त्रये । एकम् जानु-समम् कुर्यात् द्वितीयम् नाभितस् समम् ॥ १४।३७ ॥
trivikramam pravakṣyāmi yathā kuryāt jagattraye . ekam jānu-samam kuryāt dvitīyam nābhitas samam .. 14.37 ..
तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमं । महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ॥ १४.३८ ॥
तृतीयम् तु ललाट-अन्तम् त्रिविधम् स्यात् त्रि-विक्रमम् । महीम् देवीम् तथा च एव प्रह्लादम् तु बलिम् तथा ॥ १४।३८ ॥
tṛtīyam tu lalāṭa-antam trividham syāt tri-vikramam . mahīm devīm tathā ca eva prahlādam tu balim tathā .. 14.38 ..
नमुचिं च तथा शुक्रं गरुडं च तथा चरेथ् । अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेथ् ॥ १४.३९ ॥
namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā careth | anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ careth || 14.39 ||
namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā careth | anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ careth || 14.39 ||
विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परं । विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेथ् ॥ १४.४० ॥
विष्णुम् त्रिविक्रमम् च इति त्रिलोक-ईशम् अतस् परम् । विश्वेश्वरम् त्रिमूर्ति च सर्पाधारम् मिति ईरयेथ् ॥ १४।४० ॥
viṣṇum trivikramam ca iti triloka-īśam atas param . viśveśvaram trimūrti ca sarpādhāram miti īrayeth .. 14.40 ..
पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ । समुचिं कनकाभं च पीतवाससमित्यपि ॥ १४.४१ ॥
पीत-वर्णम् गुरुम् च एव तैष्यम् च एव बृहस्पतिम् । समुचिम् कनक-आभम् च पीतवाससम् इति अपि ॥ १४।४१ ॥
pīta-varṇam gurum ca eva taiṣyam ca eva bṛhaspatim . samucim kanaka-ābham ca pītavāsasam iti api .. 14.41 ..
श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमं । हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ ॥ १४.४२ ॥
श्यामल-अङ्गम् इति प्रोक्तम् मूर्ति-मन्त्रम् यथाक्रमम् । हरिणीम् च तथा पौष्णीम् क्षौणीम् च एव तथा महीम्। ॥ १४।४२ ॥
śyāmala-aṅgam iti proktam mūrti-mantram yathākramam . hariṇīm ca tathā pauṣṇīm kṣauṇīm ca eva tathā mahīm. .. 14.42 ..
प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ । असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ॥ १४.४३ ॥
प्रह्लादम् वीर्य-वित्तम् च विष्णु भक्तम् महाबलम् । असुर-इन्द्रम् बलिम् च इति वदान्यम् च ॥ १४।४३ ॥
prahlādam vīrya-vittam ca viṣṇu bhaktam mahābalam . asura-indram balim ca iti vadānyam ca .. 14.43 ..
शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः । काश्यपं गरुडं चैव वैनतेयं खगाधिपं ॥ १४.४४ ॥
शुक्रस्य पूर्वम् एव उक्तम् गरुडस्य विधानतः । काश्यपम् गरुडम् च एव वैनतेयम् खग-अधिपम् ॥ १४।४४ ॥
śukrasya pūrvam eva uktam garuḍasya vidhānataḥ . kāśyapam garuḍam ca eva vainateyam khaga-adhipam .. 14.44 ..
सहस्रशीर्षं शेषं च नागराजमितीर्य च । अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेथ् ॥ १४.४५ ॥
सहस्र-शीर्षम् शेषम् च नाग-राजम् इति ईर्य च । च समुच्चार्य शेषस्य आवाहनम् चरेथ् ॥ १४।४५ ॥
sahasra-śīrṣam śeṣam ca nāga-rājam iti īrya ca . ca samuccārya śeṣasya āvāhanam careth .. 14.45 ..
वासुकीं नागराजं च काद्रवेयं मनोरमं । एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेथ् ॥ १४.४६ ॥
vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramaṃ | evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane careth || 14.46 ||
vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramaṃ | evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane careth || 14.46 ||
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ॥ १४.४७ ॥
प्रतिष्ठा-उक्त-क्रमेण एव सर्वम् पूर्ववत् आचरेथ् । त्रिविक्रम-प्रतिष्ठायाम् अन्वाहार्ये विशेषतः ॥ १४।४७ ॥
pratiṣṭhā-ukta-krameṇa eva sarvam pūrvavat ācareth . trivikrama-pratiṣṭhāyām anvāhārye viśeṣataḥ .. 14.47 ..
तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेथ् । जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेथ् ॥ १४.४८ ॥
तथा हौत्रम् प्रशंस्य एव मूर्ति-आवाहनम् आचरेथ् । जुष्ट-आकारम् च कृत्वा एव पूर्ववत् सर्वम् आचरेथ् ॥ १४।४८ ॥
tathā hautram praśaṃsya eva mūrti-āvāhanam ācareth . juṣṭa-ākāram ca kṛtvā eva pūrvavat sarvam ācareth .. 14.48 ..
यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेथ् । कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेथ् ॥ १४.४९ ॥
यः वा त्रिमूर्तिः इति एवम् शतम् अष्ट-अधिकम् यजेथ् । कर्षण-आदि-प्रतिष्ठा-अन्तम् पूर्ववत् सम्यक् आचरेथ् ॥ १४।४९ ॥
yaḥ vā trimūrtiḥ iti evam śatam aṣṭa-adhikam yajeth . karṣaṇa-ādi-pratiṣṭhā-antam pūrvavat samyak ācareth .. 14.49 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्दशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे चतुर्दशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre caturdaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In