| |
|

This overlay will guide you through the buttons:

अथ चतुर्दशोऽध्यायः.
atha caturdaśo'dhyāyaḥ.
अथातस्संप्रवक्ष्यामि वामनस्य क्रमं यथा । वैरोचनसुतोह्युग्रो बली च बलिनां वरः ॥ १४.१ ॥
athātassaṃpravakṣyāmi vāmanasya kramaṃ yathā . vairocanasutohyugro balī ca balināṃ varaḥ .. 14.1 ..
दशावतारकल्पः (वामनः)
तद्बलस्यापहारार्थं काश्यपाज्जायते हरिः । हरिर्वामनरूपोऽभूच्छत्री दण्डी च वेदविथ् ॥ १४.२ ॥
tadbalasyāpahārārthaṃ kāśyapājjāyate hariḥ . harirvāmanarūpo'bhūcchatrī daṇḍī ca vedavith .. 14.2 ..
वटबीजेन सदृशः केवलं सूत्रदण्डभृथ् । वर्तमाने महायज्ञे बलेर्वैरोचनेः पुरा ॥ १४.३ ॥
vaṭabījena sadṛśaḥ kevalaṃ sūtradaṇḍabhṛth . vartamāne mahāyajñe balervairocaneḥ purā .. 14.3 ..
तद्यज्ञशालां संप्राप्य वटुरूपो महाहरिः । त्वं देहि त्रिपदीं मह्यं गामित्यूचे स्वमायया ॥ १४.४ ॥
tadyajñaśālāṃ saṃprāpya vaṭurūpo mahāhariḥ . tvaṃ dehi tripadīṃ mahyaṃ gāmityūce svamāyayā .. 14.4 ..
बलिश्च त्रिपदं तस्मैप्रादात्तोयसमन्वितं । हस्तेजले पतत्याशु भद्रं रूपमवाप्य च ॥ १४.५ ॥
baliśca tripadaṃ tasmaiprādāttoyasamanvitaṃ . hastejale patatyāśu bhadraṃ rūpamavāpya ca .. 14.5 ..
देवस्त्रैविक्रमं रूपं सर्वं लोकं तदाग्रहीथ् । त्रिविक्रमप्रतिष्ठायां विशेषस्संप्रवक्ष्यते ॥ १४.६ ॥
devastraivikramaṃ rūpaṃ sarvaṃ lokaṃ tadāgrahīth . trivikramapratiṣṭhāyāṃ viśeṣassaṃpravakṣyate .. 14.6 ..
वसन्त्विमाने वा भद्रके हस्तिभद्रके (?) । दीर्घशारे महाकूटे स्थापनं सर्वसिद्धिदं ॥ १४.७ ॥
vasantvimāne vā bhadrake hastibhadrake (?) . dīrghaśāre mahākūṭe sthāpanaṃ sarvasiddhidaṃ .. 14.7 ..
दशतालेन मानेन देवदेवं प्रकल्पयेथ् । सव्यं पादं स्थितं कुर्याद्दक्षिणं चोद्थितं भवेथ् ॥ १४.८ ॥
daśatālena mānena devadevaṃ prakalpayeth . savyaṃ pādaṃ sthitaṃ kuryāddakṣiṇaṃ codthitaṃ bhaveth .. 14.8 ..
चतुर्भुजं प्रकुर्वीत संयुतं वाष्टभिर्भुजैः । दक्षिणे शार्ङ्गमालंब्य भूम्यां चैव प्रस्र्य च ॥ १४.९ ॥
caturbhujaṃ prakurvīta saṃyutaṃ vāṣṭabhirbhujaiḥ . dakṣiṇe śārṅgamālaṃbya bhūmyāṃ caiva prasrya ca .. 14.9 ..
शरं च दक्षिणे हस्ते खड्गं चैव तथा भवेथ् । गदा वामकरे प्रोक्ता तथा खेटकमेव च ॥ १४.१० ॥
śaraṃ ca dakṣiṇe haste khaḍgaṃ caiva tathā bhaveth . gadā vāmakare proktā tathā kheṭakameva ca .. 14.10 ..
चक्रशङ्खेतथा कुर्यादूर्ध्वबाहोर्विचक्षणः । एवमेव प्रकुर्वीत वसुहस्तं प्रकल्पयन् ॥ १४.११ ॥
cakraśaṅkhetathā kuryādūrdhvabāhorvicakṣaṇaḥ . evameva prakurvīta vasuhastaṃ prakalpayan .. 14.11 ..
सस्यश्यामनिभं कुर्याद्धर्ष वेगसमन्वितं । सर्वाभरण संयुक्तं कीरीटादिविभूषितं ॥ १४.१२ ॥
sasyaśyāmanibhaṃ kuryāddharṣa vegasamanvitaṃ . sarvābharaṇa saṃyuktaṃ kīrīṭādivibhūṣitaṃ .. 14.12 ..
इन्द्रं सस्यनिभं कुर्याद्वामपार्श्वे च सुस्थितं । दक्षिणे धर्मराजं च पुष्पमालाधरं पुनः ॥ १४.१३ ॥
indraṃ sasyanibhaṃ kuryādvāmapārśve ca susthitaṃ . dakṣiṇe dharmarājaṃ ca puṣpamālādharaṃ punaḥ .. 14.13 ..
दक्षिणे भित्तिपोर्श्वे तु ब्रह्माणं च प्रकल्बयेथ् । हस्ताभ्यां कुंभयोश्चैव पादप्रक्षालनं चरेथ् ॥ १४.१४ ॥
dakṣiṇe bhittiporśve tu brahmāṇaṃ ca prakalbayeth . hastābhyāṃ kuṃbhayoścaiva pādaprakṣālanaṃ careth .. 14.14 ..
तस्यपादांबुजे चैव जातां गङ्गां च सुन्दरीं । प्राञ्जलीकृत्य हस्ताभ्यां नाभेरूल्रावं शरीरगौ ॥ १४.१५ ॥
tasyapādāṃbuje caiva jātāṃ gaṅgāṃ ca sundarīṃ . prāñjalīkṛtya hastābhyāṃ nābherūlrāvaṃ śarīragau .. 14.15 ..
पार्श्वयोरुभयोश्चापि चन्द्रादित्यौ च पूर्ववथ् । जांबवन्तं तथा भेरीं ताडयस्तं नराकृतिं ॥ १४.१६ ॥
pārśvayorubhayoścāpi candrādityau ca pūrvavath . jāṃbavantaṃ tathā bherīṃ tāḍayastaṃ narākṛtiṃ .. 14.16 ..
इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभं । आदित्यं चाग्नि वर्णं च चन्द्रं श्तेतं तथा चरेथ् ॥ १४.१७ ॥
indraṃ śyāmanibhaṃ kuryādyamamañjanasannibhaṃ . ādityaṃ cāgni varṇaṃ ca candraṃ śtetaṃ tathā careth .. 14.17 ..
पीतवर्णं बलिं कुर्यान्नीलाभं जांबवन्तकं । ब्रह्माणं पीतवर्णं च श्यामवर्णां च जाह्नवीं ॥ १४.१८ ॥
pītavarṇaṃ baliṃ kuryānnīlābhaṃ jāṃbavantakaṃ . brahmāṇaṃ pītavarṇaṃ ca śyāmavarṇāṃ ca jāhnavīṃ .. 14.18 ..
एवं वर्णक्रमेणैव चित्राभासं च कारयेथ् । पूजकौ तु प्रकुर्वीत तथा शक्रबृहस्पती ॥ १४.१९ ॥
evaṃ varṇakrameṇaiva citrābhāsaṃ ca kārayeth . pūjakau tu prakurvīta tathā śakrabṛhaspatī .. 14.19 ..
शङ्खं दक्षिणतः कुर्याच्चक्रं वामे समर्चयेथ् । अमूर्तं वा समूर्तं वा कल्पयित्वा यथाक्रमं ॥ १४.२० ॥
śaṅkhaṃ dakṣiṇataḥ kuryāccakraṃ vāme samarcayeth . amūrtaṃ vā samūrtaṃ vā kalpayitvā yathākramaṃ .. 14.20 ..
शुक्रं शुक्लनिभं कुर्यात्पीतवर्णं बृहस्पतिं । महीं दक्षिणतः पार्श्वेस्थितामेवं प्रकल्पयेथ् ॥ १४.२१ ॥
śukraṃ śuklanibhaṃ kuryātpītavarṇaṃ bṛhaspatiṃ . mahīṃ dakṣiṇataḥ pārśvesthitāmevaṃ prakalpayeth .. 14.21 ..
उदङ्मुखीं च कुर्दीत पद्महस्तां च दक्षिणे । वामे प्रसारितां चैव सर्वरत्न विभूषितां ॥ १४.२२ ॥
udaṅmukhīṃ ca kurdīta padmahastāṃ ca dakṣiṇe . vāme prasāritāṃ caiva sarvaratna vibhūṣitāṃ .. 14.22 ..
तस्याःपूर्वे तथा कुर्यात्प्रह्लादं चोत्तरामुखं । जटामुकुटसंयुक्तं सर्वाभरणभूषितं ॥ १४.२३ ॥
tasyāḥpūrve tathā kuryātprahlādaṃ cottarāmukhaṃ . jaṭāmukuṭasaṃyuktaṃ sarvābharaṇabhūṣitaṃ .. 14.23 ..
हृदयेंजलिसंयुक्तं शुकवत्रनिभांबरं । तस्यचोत्तरपार्श्वे तु ब्रह्मासूत्रस्य दक्षिणे ॥ १४.२४ ॥
hṛdayeṃjalisaṃyuktaṃ śukavatranibhāṃbaraṃ . tasyacottarapārśve tu brahmāsūtrasya dakṣiṇe .. 14.24 ..
असुरेन्द्रं तथासीनं विनतं पश्चिमामुखं । ब्रह्माञ्जलि समायुक्तं कीरीटादिविभूषितं ॥ १४.२५ ॥
asurendraṃ tathāsīnaṃ vinataṃ paścimāmukhaṃ . brahmāñjali samāyuktaṃ kīrīṭādivibhūṣitaṃ .. 14.25 ..
एवं वैरोचनिं कुर्यात्पुष्पांबरधरंपरं । नमुचिं च समासीनं पादपीठावलंबिनं ॥ १४.२६ ॥
evaṃ vairocaniṃ kuryātpuṣpāṃbaradharaṃparaṃ . namuciṃ ca samāsīnaṃ pādapīṭhāvalaṃbinaṃ .. 14.26 ..
वामपार्श्वे समासीनं पूर्वभित्तिसमाश्रयं । कल्पयित्वा यथामार्गं शुक्रं चैव समागतं ॥ १४.२७ ॥
vāmapārśve samāsīnaṃ pūrvabhittisamāśrayaṃ . kalpayitvā yathāmārgaṃ śukraṃ caiva samāgataṃ .. 14.27 ..
वामपादं समासीनं दक्षिणं कुञ्चितं तथा । अभयं दक्षिणं हस्तं वामं कट्यवलंबितं ॥ १४.२८ ॥
vāmapādaṃ samāsīnaṃ dakṣiṇaṃ kuñcitaṃ tathā . abhayaṃ dakṣiṇaṃ hastaṃ vāmaṃ kaṭyavalaṃbitaṃ .. 14.28 ..
सर्वाभरण संयुक्तं पश्चिमामुखमेव च । तस्य चोत्तरपार्श्वेतु पक्षिराजं प्रकल्पयेथ् ॥ १४.२९ ॥
sarvābharaṇa saṃyuktaṃ paścimāmukhameva ca . tasya cottarapārśvetu pakṣirājaṃ prakalpayeth .. 14.29 ..
दक्षिणामुखसंयुक्तं शुक्रेमुष्टिप्रहारिणं । एवं गर्भगृहे प्रोक्तं विधिना कारयेद्बुधः ॥ १४.३० ॥
dakṣiṇāmukhasaṃyuktaṃ śukremuṣṭiprahāriṇaṃ . evaṃ garbhagṛhe proktaṃ vidhinā kārayedbudhaḥ .. 14.30 ..
मण्डपे निम्नितस्थाने अनन्तं चोत्तरामुखं । हृदयेंजलिसंयुक्तं स्थितमेवं प्रकल्पयेथ् ॥ १४.३१ ॥
maṇḍape nimnitasthāne anantaṃ cottarāmukhaṃ . hṛdayeṃjalisaṃyuktaṃ sthitamevaṃ prakalpayeth .. 14.31 ..
फणैस्तु पञ्चभिर्युक्तं सर्वाभरणभूषितं । उत्तरे भित्तिपार्श्वेतु वासुकीं च प्रकल्पयेथ् ॥ १४.३२ ॥
phaṇaistu pañcabhiryuktaṃ sarvābharaṇabhūṣitaṃ . uttare bhittipārśvetu vāsukīṃ ca prakalpayeth .. 14.32 ..
अन न्तवत्तथा कुर्याद्धर्ष वेगसमन्वितं । एवमेव विधानेन कल्पयित्वा यथाक्रमं ॥ १४.३३ ॥
ana ntavattathā kuryāddharṣa vegasamanvitaṃ . evameva vidhānena kalpayitvā yathākramaṃ .. 14.33 ..
श्यामवर्णां तथा देवीं प्रह्गादं पीतमेव च । कनकाभं बलिञ्चैव नमुचिं च तथै व च ॥ १४.३४ ॥
śyāmavarṇāṃ tathā devīṃ prahgādaṃ pītameva ca . kanakābhaṃ baliñcaiva namuciṃ ca tathai va ca .. 14.34 ..
शक्रं तु पूर्ववत्कुर्यात्पञ्चवर्णं खगाधिपं । अनन्तं पीतवर्णं च वासुकिं श्याममेव च ॥ १४.३५ ॥
śakraṃ tu pūrvavatkuryātpañcavarṇaṃ khagādhipaṃ . anantaṃ pītavarṇaṃ ca vāsukiṃ śyāmameva ca .. 14.35 ..
एवं स्थानक्रमेणैव कूटयुक्तेन कारयेथ् । अथ वा भित्तिपार्श्वे तु चित्राभासेऽधमाधमं ॥ १४.३६ ॥
evaṃ sthānakrameṇaiva kūṭayuktena kārayeth . atha vā bhittipārśve tu citrābhāse'dhamādhamaṃ .. 14.36 ..
त्रिविक्रमं प्रवक्ष्यामि यथा कुर्याज्जगत्त्रये । एकं जानुसमं कुर्याद्द्वितीयं नाभितस्समं ॥ १४.३७ ॥
trivikramaṃ pravakṣyāmi yathā kuryājjagattraye . ekaṃ jānusamaṃ kuryāddvitīyaṃ nābhitassamaṃ .. 14.37 ..
तृतीयं तु ललाटान्तं त्रिविधं स्यात्त्रिविक्रमं । महीं देवीं तथा चैव प्रह्लादं तु बलिं तथा ॥ १४.३८ ॥
tṛtīyaṃ tu lalāṭāntaṃ trividhaṃ syāttrivikramaṃ . mahīṃ devīṃ tathā caiva prahlādaṃ tu baliṃ tathā .. 14.38 ..
नमुचिं च तथा शुक्रं गरुडं च तथा चरेथ् । अनन्तं वासुकीं चैव मष्टांगस्थापनं चरेथ् ॥ १४.३९ ॥
namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā careth . anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ careth .. 14.39 ..
विष्णुं त्रिविक्रमं चेति त्रिलोकेशमतः परं । विश्वेश्वरं त्रिमूर्ति च सर्पाधारऽ मितीरयेथ् ॥ १४.४० ॥
viṣṇuṃ trivikramaṃ ceti trilokeśamataḥ paraṃ . viśveśvaraṃ trimūrti ca sarpādhāra' mitīrayeth .. 14.40 ..
पीतवर्णं गुरुं चैव तैष्यं चैव बृहस्पतिम्ऽ । समुचिं कनकाभं च पीतवाससमित्यपि ॥ १४.४१ ॥
pītavarṇaṃ guruṃ caiva taiṣyaṃ caiva bṛhaspatim' . samuciṃ kanakābhaṃ ca pītavāsasamityapi .. 14.41 ..
श्यामलाङ्गमिति प्रोक्तंऽ मूर्तिमन्त्रं यथाक्रमं । हरिणीं च तथा पौष्णीं क्षौणीञ्चैव तथा महीम्.ऽ ॥ १४.४२ ॥
śyāmalāṅgamiti proktaṃ' mūrtimantraṃ yathākramaṃ . hariṇīṃ ca tathā pauṣṇīṃ kṣauṇīñcaiva tathā mahīm.' .. 14.42 ..
प्रह्लादं वीर्यवित्तं च विष्णु भक्तं महाबलम्ऽ । असुरेन्द्रं बलिं चेति वदान्यं वीरऽमेव च ॥ १४.४३ ॥
prahlādaṃ vīryavittaṃ ca viṣṇu bhaktaṃ mahābalam' . asurendraṃ baliṃ ceti vadānyaṃ vīra'meva ca .. 14.43 ..
शुक्रस्य पूर्वमेवोक्तं गरुडस्य विधानतः । काश्यपं गरुडं चैव वैनतेयं खगाधिपं ॥ १४.४४ ॥
śukrasya pūrvamevoktaṃ garuḍasya vidhānataḥ . kāśyapaṃ garuḍaṃ caiva vainateyaṃ khagādhipaṃ .. 14.44 ..
सहस्रशीर्षं शेषं च नागराजमितीर्य च । अनस्तंऽ च समुच्चार्य शेषस्यावाहनं चरेथ् ॥ १४.४५ ॥
sahasraśīrṣaṃ śeṣaṃ ca nāgarājamitīrya ca . anastaṃ' ca samuccārya śeṣasyāvāhanaṃ careth .. 14.45 ..
वासुकीं नागराजं च काद्रवेयं मनोरमं । एवं मूर्तिक्रमश्चैव मष्टांगस्थापने चरेथ् ॥ १४.४६ ॥
vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramaṃ . evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane careth .. 14.46 ..
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । त्रिविक्रमप्रतिष्ठायामन्वाहार्ये विशेषतः ॥ १४.४७ ॥
pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācareth . trivikramapratiṣṭhāyāmanvāhārye viśeṣataḥ .. 14.47 ..
तथा हौत्रं प्रशंस्यैव मूर्त्यावाहनमाचरेथ् । जुष्टाकारं च कृत्वैव पूर्ववत्सर्वमाचरेथ् ॥ १४.४८ ॥
tathā hautraṃ praśaṃsyaiva mūrtyāvāhanamācareth . juṣṭākāraṃ ca kṛtvaiva pūrvavatsarvamācareth .. 14.48 ..
यो वा त्रिमूर्तिऽरित्येवं शतमष्टाधिकं यजेथ् । कर्षणादिप्रतिष्ठान्तं पूर्ववत्सम्यगाचरेथ् ॥ १४.४९ ॥
yo vā trimūrti'rityevaṃ śatamaṣṭādhikaṃ yajeth . karṣaṇādipratiṣṭhāntaṃ pūrvavatsamyagācareth .. 14.49 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्दशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturdaśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In