| |
|

This overlay will guide you through the buttons:

अथ चतुर्विंशोऽध्यायः.
अथ चतुर्विंशः अध्यायः।
atha caturviṃśaḥ adhyāyaḥ.
उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमं । वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदं ॥ २४.१ ॥
अतस् परम् प्रवक्ष्यामि देवेशस्य उत्सव-क्रमम् । वर्ष-दम् सर्व-लोकस्य शान्ति-दम् सर्व-पुष्टि-दम् ॥ २४।१ ॥
atas param pravakṣyāmi deveśasya utsava-kramam . varṣa-dam sarva-lokasya śānti-dam sarva-puṣṭi-dam .. 24.1 ..
राज्ञां विजयदानाय शत्रूणां नाशहेतवे । व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ॥ २४.२ ॥
राज्ञाम् विजय-दानाय शत्रूणाम् नाश-हेतवे । व्याधि-दुर्भिक्ष-शान्ति-अर्थम् उत्सवम् कारयेत् बुधः ॥ २४।२ ॥
rājñām vijaya-dānāya śatrūṇām nāśa-hetave . vyādhi-durbhikṣa-śānti-artham utsavam kārayet budhaḥ .. 24.2 ..
कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः । मासेतु यस्मिन्कस्मिंश्छित्प्रतिसंवत्सरं चरेथ् ॥ २४.३ ॥
काल-श्रद्धा-निमित्त-अर्था(उत्सवाः त्रिविधाः स्मृताः । मासे तु यस्मिन् कस्मिन् छिद् प्रतिसंवत्सरम् चरेथ् ॥ २४।३ ॥
kāla-śraddhā-nimitta-arthā(utsavāḥ trividhāḥ smṛtāḥ . māse tu yasmin kasmin chid pratisaṃvatsaram careth .. 24.3 ..
एकस्मिन्समयेचैव स तु कालोत्सवो भवेथ् । इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ॥ २४.४ ॥
स तु काल-उत्सवः । इष्ट-मासे दिने च इष्टे श्रद्धया क्रियते तु यः ॥ २४।४ ॥
sa tu kāla-utsavaḥ . iṣṭa-māse dine ca iṣṭe śraddhayā kriyate tu yaḥ .. 24.4 ..
स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ॥ २४.५ ॥
स तु श्रद्धा-उत्सवः ज्ञेयः स्तस्मात् काल-उत्सवः गुरुः । भय-प्रद-निमित्तेषु तथा अनावृष्टिक-आदिषु ॥ २४।५ ॥
sa tu śraddhā-utsavaḥ jñeyaḥ stasmāt kāla-utsavaḥ guruḥ . bhaya-prada-nimitteṣu tathā anāvṛṣṭika-ādiṣu .. 24.5 ..
क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः । प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ॥ २४.६ ॥
क्रियते तत्र शान्ति-अर्थम् स निमित्त-उत्सवः स्मृतः । प्रतिष्ठा-दिवसे तीर्थम् प्रति संवत्करम् चरेत्, ॥ २४।६ ॥
kriyate tatra śānti-artham sa nimitta-utsavaḥ smṛtaḥ . pratiṣṭhā-divase tīrtham prati saṃvatkaram caret, .. 24.6 ..
कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः । राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ॥ २४.७ ॥
काल-उत्सवः इति ज्ञेयः शान्ति-अर्थम् स प्रकीर्तितः । राज-राष्ट्र-अभिवृद्धि-अर्थम् राज्ञाम् च एव अभिवृद्धये ॥ २४।७ ॥
kāla-utsavaḥ iti jñeyaḥ śānti-artham sa prakīrtitaḥ . rāja-rāṣṭra-abhivṛddhi-artham rājñām ca eva abhivṛddhaye .. 24.7 ..
अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलं । राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेथ् ॥ २४.८ ॥
पुत्राणाम् कुर्यात् उक्तेषु मङ्गलम् । राज्ञः जन्म-दिने च एव श्रद्धा-उत्सवः ॥ २४।८ ॥
putrāṇām kuryāt ukteṣu maṅgalam . rājñaḥ janma-dine ca eva śraddhā-utsavaḥ .. 24.8 ..
अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः । ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेथ् ॥ २४.९ ॥
अद्भुत-आदि-उद्भव-ईश-शान्तिः सतु नैमित्तिक-उत्सवः । ग्राम-आदौ च उत्सवः स्यात् चेद् क्रमेण एवम् तु ॥ २४।९ ॥
adbhuta-ādi-udbhava-īśa-śāntiḥ satu naimittika-utsavaḥ . grāma-ādau ca utsavaḥ syāt ced krameṇa evam tu .. 24.9 ..
सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेथ् । अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ॥ २४.१० ॥
सर्व-दुःख-आर्ति-शान्ति-अर्थम् आदौ कालि-उत्सवम् चरेथ् । अन्वेषाम् क्रूर-देवानाम् शिष्ट-भूत-गणस्य च ॥ २४।१० ॥
sarva-duḥkha-ārti-śānti-artham ādau kāli-utsavam careth . anveṣām krūra-devānām śiṣṭa-bhūta-gaṇasya ca .. 24.10 ..
शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवं । विशस्त्रिगणसान्त्यर्थं स्ॐयमार्गेण वास्तुषु ॥ २४.११ ॥
शान्ति-अर्थम् कारयेत् पश्छास्त्र-उक्तम् शङ्कर-उत्सवम् । विशः त्रि-गण-सान्ति-अर्थम् सोंय-मार्गेण वास्तुषु ॥ २४।११ ॥
śānti-artham kārayet paśchāstra-uktam śaṅkara-utsavam . viśaḥ tri-gaṇa-sānti-artham soṃya-mārgeṇa vāstuṣu .. 24.11 ..
चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः । सर्वेषामपि देवानां मुनीनामपि सर्वशः ॥ २४.१२ ॥
चक्रसेनेश-संयुक्तम् कुर्यात् दुर्ग-उत्सवम् पुनर् । सर्वेषाम् अपि देवानाम् मुनीनाम् अपि सर्वशस् ॥ २४।१२ ॥
cakraseneśa-saṃyuktam kuryāt durga-utsavam punar . sarveṣām api devānām munīnām api sarvaśas .. 24.12 ..
पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः । द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ॥ २४.१३ ॥
पितॄणाम् च ग्रहाणाम् च तद्-पत्नीनाम् च सर्वशस् । द्विजानाम् अपि शान्ति-अर्थम् लोकानाम् अपि सर्वशस् ॥ २४।१३ ॥
pitṝṇām ca grahāṇām ca tad-patnīnām ca sarvaśas . dvijānām api śānti-artham lokānām api sarvaśas .. 24.13 ..
पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमाथ् । अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ॥ २४.१४ ॥
पुष्टि-अर्थम् कारयेत् पश्चात् देवेशस्य उत्सवम् । अन्यधा चेद् विनाशः स्यात् सर्वेषाम् च न संशयः ॥ २४।१४ ॥
puṣṭi-artham kārayet paścāt deveśasya utsavam . anyadhā ced vināśaḥ syāt sarveṣām ca na saṃśayaḥ .. 24.14 ..
तस्मात्परिहरेद्विद्वान्ग्रामादौतं विशेषतः । विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ २४.१५ ॥
तस्मात् परिहरेत् विद्वान् ग्रामात् औतम् विशेषतः । विषुव-अयन-भूप-ऋक्ष-प्रतिष्ठा-कर्तृ-भेषु च ॥ २४।१५ ॥
tasmāt pariharet vidvān grāmāt autam viśeṣataḥ . viṣuva-ayana-bhūpa-ṛkṣa-pratiṣṭhā-kartṛ-bheṣu ca .. 24.15 ..
ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च । उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेथ् ॥ २४.१६ ॥
ग्रहण-इमास-नक्षत्रे विष्णु-पञ्च-दिनेषु च । उत्सवस्य अन्त-दिवसे तेषु तीर्थम् ॥ २४।१६ ॥
grahaṇa-imāsa-nakṣatre viṣṇu-pañca-dineṣu ca . utsavasya anta-divase teṣu tīrtham .. 24.16 ..
एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया । विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ॥ २४.१७ ॥
एतेषु एकम् परिग्राह्यम् यजमानस्य च इच्छया । विषुवे च अयने च एव ग्रहणे सोम-सूर्ययोः ॥ २४।१७ ॥
eteṣu ekam parigrāhyam yajamānasya ca icchayā . viṣuve ca ayane ca eva grahaṇe soma-sūryayoḥ .. 24.17 ..
तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा । अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ॥ २४.१८ ॥
तद्-तद्-काले प्रकुर्वीत तीर्थ-स्नारम् तु न अन्यधा । अन्य-ऋक्षेषु अथ पूर्वाह्णे मध्याह्ने वा गुण-अन्विते ॥ २४।१८ ॥
tad-tad-kāle prakurvīta tīrtha-snāram tu na anyadhā . anya-ṛkṣeṣu atha pūrvāhṇe madhyāhne vā guṇa-anvite .. 24.18 ..
एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयं । तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनं ॥ २४.१९ ॥
एकस्मिन् एव मासे तु यदि तीर्थ-दिन-द्वयम् । तयोः अन्त्य-दिने तीर्थम् इति पूर्वज-दर्शनम् ॥ २४।१९ ॥
ekasmin eva māse tu yadi tīrtha-dina-dvayam . tayoḥ antya-dine tīrtham iti pūrvaja-darśanam .. 24.19 ..
तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः । वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ॥ २४.२० ॥
तत् एव यदि सूर्यस्य विद्धम् चेद् संक्रम-आदिभिः । वर्जनीयम् तथा पूर्वम् प्रशस्तम् अभिधीयते ॥ २४।२० ॥
tat eva yadi sūryasya viddham ced saṃkrama-ādibhiḥ . varjanīyam tathā pūrvam praśastam abhidhīyate .. 24.20 ..
वारद्वयानुषक्ते चेत्तिथौ स्यात्तुपरे तथा । अधिमासः परित्याज्यः कालोत्सवविधौहरेः ॥ २४.२१ ॥
वार-द्वय-अनुषक्ते चेद् तिथौ स्यात् तु परे तथा । अधिमासः परित्याज्यः काल-उत्सव-विधौ हरेः ॥ २४।२१ ॥
vāra-dvaya-anuṣakte ced tithau syāt tu pare tathā . adhimāsaḥ parityājyaḥ kāla-utsava-vidhau hareḥ .. 24.21 ..
अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते । श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ २४.२२ ॥
अर्क-वार-ऋक्ष-संयोगः सर्वदा संप्रशस्यते । श्रवणद्वादशी-योगः सर्व-कर्म-फल-प्रदः ॥ २४।२२ ॥
arka-vāra-ṛkṣa-saṃyogaḥ sarvadā saṃpraśasyate . śravaṇadvādaśī-yogaḥ sarva-karma-phala-pradaḥ .. 24.22 ..
योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः । तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि ॥ २४.२३ ॥
योगाः च सु प्रशस्ताः स्युः सिद्ध-अमृत-वर-आह्वयाः । तिथि-द्वय-अनुषक्तम् स्यात् परे अहनि ॥ २४।२३ ॥
yogāḥ ca su praśastāḥ syuḥ siddha-amṛta-vara-āhvayāḥ . tithi-dvaya-anuṣaktam syāt pare ahani .. 24.23 ..
परस्मिन्दिवसे स्याच्चेद्यावच्च दशनाडिकाः । हीनं चेत्पूर्वदिवसे संकल्प्यावभृथं चरेथ् ॥ २४.२४ ॥
परस्मिन् दिवसे स्यात् चेद् यावत् च दश-नाडिकाः । हीनम् चेद् पूर्व-दिवसे संकल्प्य अवभृथम् चरेथ् ॥ २४।२४ ॥
parasmin divase syāt ced yāvat ca daśa-nāḍikāḥ . hīnam ced pūrva-divase saṃkalpya avabhṛtham careth .. 24.24 ..
उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश । नवाहं वाथसप्ताहं अधमं परिचक्षते ॥ २४.२५ ॥
उत्तमम् तु त्रि-सप्त-अहम् मध्यमम् स्यात् चतुर्दश । नव-अहम् वा अथ सप्त-अहम् अधमम् परिचक्षते ॥ २४।२५ ॥
uttamam tu tri-sapta-aham madhyamam syāt caturdaśa . nava-aham vā atha sapta-aham adhamam paricakṣate .. 24.25 ..
त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेथ् । मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे ॥ २४.२६ ॥
त्रिगुणानि उत्सव-अहानि कृत्वा आदौ घोषणम् चरेथ् । मध्यमे द्विगुण-आदौ स्यात् उत्सव-आदि दिने अधमे ॥ २४।२६ ॥
triguṇāni utsava-ahāni kṛtvā ādau ghoṣaṇam careth . madhyame dviguṇa-ādau syāt utsava-ādi dine adhame .. 24.26 ..
अथवावभृथात्पूर्वमेकविंशतिके दिने । ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेथ् ॥ २४.२७ ॥
अथवा अवभृथात् पूर्वम् एकविंशतिके दिने । ध्वजस्य आरोहणम् कृत्वा सर्वम् उत्सवम् आचरेथ् ॥ २४।२७ ॥
athavā avabhṛthāt pūrvam ekaviṃśatike dine . dhvajasya ārohaṇam kṛtvā sarvam utsavam ācareth .. 24.27 ..
राहुदर्शनसंक्रान्त्योः स्नानं श्रेष्ठं निशास्वपि । क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ॥ २४.२८ ॥
राहु-दर्शन-संक्रान्त्योः स्नानम् श्रेष्ठम् निशासु अपि । क्रियाम् समाप्य मध्याह्ने रात्रौ चेद् सकलम् बुधः ॥ २४।२८ ॥
rāhu-darśana-saṃkrāntyoḥ snānam śreṣṭham niśāsu api . kriyām samāpya madhyāhne rātrau ced sakalam budhaḥ .. 24.28 ..
तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेथ् । पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमाथ् ॥ २४.२९ ॥
तावत्कालम् विनोद-इव नीत्वा तत् तीर्थम् आचरेथ् । वा दिनानि एकादश ॥ २४।२९ ॥
tāvatkālam vinoda-iva nītvā tat tīrtham ācareth . vā dināni ekādaśa .. 24.29 ..
नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः । त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ॥ २४.३० ॥
नव-अहम् वा अथ सप्त-अहम् पञ्च-अहम् अथ वा पुनर् । त्रि-दिनम् द्वि-दिनम् च एव कुर्यात् एक-अहम् एव वा ॥ २४।३० ॥
nava-aham vā atha sapta-aham pañca-aham atha vā punar . tri-dinam dvi-dinam ca eva kuryāt eka-aham eva vā .. 24.30 ..
न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः । उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकं ॥ २४.३१ ॥
न ध्वज-आरोहणम् कुर्यात् त्षह-आदौ तु विशेषतः । उत्सवस्य दिन-आदौ तु घोषये द्विधि-पूर्वकम् ॥ २४।३१ ॥
na dhvaja-ārohaṇam kuryāt tṣaha-ādau tu viśeṣataḥ . utsavasya dina-ādau tu ghoṣaye dvidhi-pūrvakam .. 24.31 ..
घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणं । ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमं ॥ २४.३२ ॥
घोषणा-दिवसात् पूर्यम् कालयेत् अङ्कुर-आर्ऽपणम् । ध्वज-दण्डम् ततस् वक्ष्ये विप्र-आदीनाम् यथाक्रमम् ॥ २४।३२ ॥
ghoṣaṇā-divasāt pūryam kālayet aṅkura-ār'paṇam . dhvaja-daṇḍam tatas vakṣye vipra-ādīnām yathākramam .. 24.32 ..
वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा । ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ॥ २४.३३ ॥
वेणुम् च जातिवृक्षम् च चंपकम् क्रमुकम् तथा । ध्वज-दण्ड-अर्थम् आहृत्य सर्वेषाम् क्रमुकम् तु वा ॥ २४।३३ ॥
veṇum ca jātivṛkṣam ca caṃpakam kramukam tathā . dhvaja-daṇḍa-artham āhṛtya sarveṣām kramukam tu vā .. 24.33 ..
अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न । चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमं ॥ २४.३४ ॥
अन्यैः वा अशुभ-वृक्षैः वा आकारयेत् इति के च न । चतुर्विंश-अङ्गुलम् नाहम् ध्वज-दण्डम् अथ उत्तमम् ॥ २४।३४ ॥
anyaiḥ vā aśubha-vṛkṣaiḥ vā ākārayet iti ke ca na . caturviṃśa-aṅgulam nāham dhvaja-daṇḍam atha uttamam .. 24.34 ..
तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमं । विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ॥ २४.३५ ॥
तस्मात् तु द्वि-अङ्गुलम् हीनम् ध्वज-दण्डम् तु मध्यमम् । विंशति-अङ्गुल-नाहे तद्-अधमम् दण्डम् उच्यते ॥ २४।३५ ॥
tasmāt tu dvi-aṅgulam hīnam dhvaja-daṇḍam tu madhyamam . viṃśati-aṅgula-nāhe tad-adhamam daṇḍam ucyate .. 24.35 ..
यथालाभपरीणाहमवक्रं परिगृह्य च । ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतं ॥ २४.३६ ॥
यथा लाभ-परीणाहम् अवक्रम् परिगृह्य च । ध्वज-दण्डम् ऋजुम् कुर्वात् विमान-समय-आयतम् ॥ २४।३६ ॥
yathā lābha-parīṇāham avakram parigṛhya ca . dhvaja-daṇḍam ṛjum kurvāt vimāna-samaya-āyatam .. 24.36 ..
विमानस्याधिकं कुर्यात्पादहीन मथार्ऽधकं । अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशं ॥ २४.३७ ॥
विमानस्य अधिकम् । अध्यर्थम् वा अधिपादम् वा मूलात् अग्रम् क्रमात् कृशम् ॥ २४।३७ ॥
vimānasya adhikam . adhyartham vā adhipādam vā mūlāt agram kramāt kṛśam .. 24.37 ..
वेणुकं यदि संग्राह्यं भूतवेदांगुलायतं । षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितं ॥ २४.३८ ॥
वेणुकम् यदि संग्राह्यम् भूत-वेद-अंगुल-आयतम् । षष्-अङ्गुल-परीणाहम् वेणु-दण्डम् सु संस्थितम् ॥ २४।३८ ॥
veṇukam yadi saṃgrāhyam bhūta-veda-aṃgula-āyatam . ṣaṣ-aṅgula-parīṇāham veṇu-daṇḍam su saṃsthitam .. 24.38 ..
तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढं । तालद्वयमथायामं यममात्रन्तु विस्तृतं ॥ २४.३९ ॥
तद्-मध्ये द्वि-यमम् हित्वा तद्-मध्ये वलयम् दृढम् । ताल-द्वयम् अथ आयामम् विस्तृतम् ॥ २४।३९ ॥
tad-madhye dvi-yamam hitvā tad-madhye valayam dṛḍham . tāla-dvayam atha āyāmam vistṛtam .. 24.39 ..
उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा । तच्चतुर्थांशकं कृत्वा मूलेऽग्रेद्व्यंशकन्त्यजेथ् ॥ २४.४० ॥
उत्सेधम् भागम् उद्दिष्टम् दारुभिः याज्ञिकैः तुवा । तद्-चतुर्थ-अंशकम् कृत्वा ॥ २४।४० ॥
utsedham bhāgam uddiṣṭam dārubhiḥ yājñikaiḥ tuvā . tad-caturtha-aṃśakam kṛtvā .. 24.40 ..
मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतं । शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमाथ् ॥ २४.४१ ॥
मध्ये द्वि-अंशम् तु कर्तव्यम् सुषिर-द्वय-संयुतम् । शकलानि ॥ २४।४१ ॥
madhye dvi-aṃśam tu kartavyam suṣira-dvaya-saṃyutam . śakalāni .. 24.41 ..
प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेथ् । दशदर्भयुतं कूर्चमग्रेचैव तु योजयेथ् ॥ २४.४२ ॥
प्रक्षाल्य मूलमन्त्रेण तद्-मन्त्रैः प्रोक्षणम् चरेथ् । दश-दर्भ-युतम् कूर्चम् अग्रे च एव तु ॥ २४।४२ ॥
prakṣālya mūlamantreṇa tad-mantraiḥ prokṣaṇam careth . daśa-darbha-yutam kūrcam agre ca eva tu .. 24.42 ..
दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् । मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतं ॥ २४.४३ ॥
दर्भ-माला-अन्तरा आवेष्ट्य । मध्या-अङ्गुलि-परीणाहम् दण्ड-द्विगुणम् आयतम् ॥ २४।४३ ॥
darbha-mālā-antarā āveṣṭya . madhyā-aṅguli-parīṇāham daṇḍa-dviguṇam āyatam .. 24.43 ..
दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेथ् । संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ॥ २४.४४ ॥
दण्ड-अग्रे तत्र संयोज्य रज्जुम् तत्र एव । संव्यपोह्य चतुर्-तालम् पृष्ठे यूध-अधिपस्यतु ॥ २४।४४ ॥
daṇḍa-agre tatra saṃyojya rajjum tatra eva . saṃvyapohya catur-tālam pṛṣṭhe yūdha-adhipasyatu .. 24.44 ..
खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च । मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेथ् ॥ २४.४५ ॥
खानयित्वा ध्वज-स्थानम् त्रि-तालम् गाढया इव च । मेदिनीम् तु समभ्यर्च्य रत्नम् बीजानि च क्षिपेथ् ॥ २४।४५ ॥
khānayitvā dhvaja-sthānam tri-tālam gāḍhayā iva ca . medinīm tu samabhyarcya ratnam bījāni ca kṣipeth .. 24.45 ..
स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रविथ् । देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेथ् ॥ २४.४६ ॥
स्थापयित्वा ध्वजम् तत्र ध्वज-मन्त्रेण । देवदेवम् समीक्ष्य एव यष्टिम् तद्-प्र मुखे न्यसेथ् ॥ २४।४६ ॥
sthāpayitvā dhvajam tatra dhvaja-mantreṇa . devadevam samīkṣya eva yaṣṭim tad-pra mukhe nyaseth .. 24.46 ..
ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेथ् । मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतं ॥ २४.४७ ॥
ध्वज-दण्डम् ऋजुम् कुर्यात् दृढम् तत्र एव । मूलम् त्रि-तालम् उत्सेधम् तद्-अध्यर्धम् तु विस्तृतम् ॥ २४।४७ ॥
dhvaja-daṇḍam ṛjum kuryāt dṛḍham tatra eva . mūlam tri-tālam utsedham tad-adhyardham tu vistṛtam .. 24.47 ..
तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकं । शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढं ॥ २४.४८ ॥
तद्-ऊर्ध्वे स अष्ट-पत्रम् स कर्णिकम् । शुद्ध-कार्पास-वस्त्रन् तु समाहृत्य नवम् दृढम् ॥ २४।४८ ॥
tad-ūrdhve sa aṣṭa-patram sa karṇikam . śuddha-kārpāsa-vastran tu samāhṛtya navam dṛḍham .. 24.48 ..
उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकं । अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ॥ २४.४९ ॥
उत्तमम् षोडशम् हस्तम् मध्यमम् तिथि-हस्तकम् । अधमम् चतुर्दशम् हस्तम् त्रिविधम् वस्त्रम् उच्यते ॥ २४।४९ ॥
uttamam ṣoḍaśam hastam madhyamam tithi-hastakam . adhamam caturdaśam hastam trividham vastram ucyate .. 24.49 ..
पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमाथ् । अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ॥ २४.५० ॥
पञ्च-तालम् चतुर्-तालम् त्रि-तालम् विस्तृतम् । अग्रम् पादम् विदित्वा तु मुखम् पृष्ठम् तथा एव च ॥ २४।५० ॥
pañca-tālam catur-tālam tri-tālam vistṛtam . agram pādam viditvā tu mukham pṛṣṭham tathā eva ca .. 24.50 ..
चतुर्भागं पटं कुर्यादेकभागं शिरो भवेथ् । वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ॥ २४.५१ ॥
चतुर्-भागम् पटम् कुर्यात् एक-भागम् शिरः । वीशस्थानम् द्वि-भागम् तु पुच्छम् एक-अंशम् उच्यते ॥ २४।५१ ॥
catur-bhāgam paṭam kuryāt eka-bhāgam śiraḥ . vīśasthānam dvi-bhāgam tu puccham eka-aṃśam ucyate .. 24.51 ..
मध्यमस्याग्रमूलं च यष्टिं सम्यक्प्रयोजयेथ् । तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतं ॥ २४.५२ ॥
मध्यमस्य अग्र-मूलम् च यष्टिम् सम्यक् प्रयोजयेथ् । तद्-मध्ये तु लिखेत् वीशम् पञ्च-वर्णैः अलङ्कृतम् ॥ २४।५२ ॥
madhyamasya agra-mūlam ca yaṣṭim samyak prayojayeth . tad-madhye tu likhet vīśam pañca-varṇaiḥ alaṅkṛtam .. 24.52 ..
ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेथ् । अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेथ् ॥ २४.५३ ॥
मुत्तमे च उत्तमम् । नाभि-अन्तम् तयोः मध्या इष्टधा ॥ २४।५३ ॥
muttame ca uttamam . nābhi-antam tayoḥ madhyā iṣṭadhā .. 24.53 ..
एकै मगथमान्तं च नवधा मानमुच्यते । ध्वजदण्डस्य वीशस्य षट्शुभानि निरीक्षयेथ् ॥ २४.५४ ॥
च नवधा मानम् उच्यते । ध्वज-दण्डस्य वीशस्य षड् शुभानि ॥ २४।५४ ॥
ca navadhā mānam ucyate . dhvaja-daṇḍasya vīśasya ṣaḍ śubhāni .. 24.54 ..
यजमानानुकूले च नक्षत्रे च विशेषतः । नवार्धतालमानं वा नवतालमथापि वा ॥ २४.५५ ॥
यजमान-अनुकूले च नक्षत्रे च विशेषतः । नव-अर्ध-ताल-मानम् वा नव-तालम् अथ अपि वा ॥ २४।५५ ॥
yajamāna-anukūle ca nakṣatre ca viśeṣataḥ . nava-ardha-tāla-mānam vā nava-tālam atha api vā .. 24.55 ..
अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितं । वामपादे समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ २४.५६ ॥
अति भङ्गम् नतम् च एव भङ्ग-त्रय-समन्वितम् । वाम-पादे समाकुञ्च्य दक्षिणम् संप्रसार्य च ॥ २४।५६ ॥
ati bhaṅgam natam ca eva bhaṅga-traya-samanvitam . vāma-pāde samākuñcya dakṣiṇam saṃprasārya ca .. 24.56 ..
किञ्चित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतं । पक्षद्वयसमायुक्तं करण्डमुकुटान्वितं ॥ २४.५७ ॥
किञ्चिद् संकुचितम् पीठात् पर्ष्णी-पार्श्वम् समुद्धृतम् । पक्ष-द्वय-समायुक्तम् करण्ड-मुकुट-अन्वितम् ॥ २४।५७ ॥
kiñcid saṃkucitam pīṭhāt parṣṇī-pārśvam samuddhṛtam . pakṣa-dvaya-samāyuktam karaṇḍa-mukuṭa-anvitam .. 24.57 ..
श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु । एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ॥ २४.५८ ॥
श्यामम् श्वेतम् तथा कृष्णम् रक्तम् पीतम् तथा एव तु । एतैः तु पञ्चभिः वर्णैः अनुरूपैः तु शोभनैः ॥ २४।५८ ॥
śyāmam śvetam tathā kṛṣṇam raktam pītam tathā eva tu . etaiḥ tu pañcabhiḥ varṇaiḥ anurūpaiḥ tu śobhanaiḥ .. 24.58 ..
गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः । भूषणैरष्टनागैश्च वामहस्ते त्वनन्तकः ॥ २४.५९ ॥
गरुडम् प्राञ्जलिम् कुर्यात् किञ्चिद् कम् प्रेक्षयेत् बुधः । भूषणैः अष्ट-नागैः च वाम-हस्ते तु अनन्तकः ॥ २४।५९ ॥
garuḍam prāñjalim kuryāt kiñcid kam prekṣayet budhaḥ . bhūṣaṇaiḥ aṣṭa-nāgaiḥ ca vāma-haste tu anantakaḥ .. 24.59 ..
वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकं । हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ॥ २४.६० ॥
वासुकिः यज्ञ सूत्रन्तु कटी-सूत्रन्तु तक्षकम् । हारम् कर्कोटकम् च एव पद्मम् दक्षिण-कर्णके ॥ २४।६० ॥
vāsukiḥ yajña sūtrantu kaṭī-sūtrantu takṣakam . hāram karkoṭakam ca eva padmam dakṣiṇa-karṇake .. 24.60 ..
महापद्मं वामकर्णे शङ्ख च शिरसि क्रमाथ् । गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणं ॥ २४.६१ ॥
महापद्मम् वाम-कर्णे शङ्ख च शिरसि । गुलिकम् दक्षिणे हस्ते क्रमात् सर्व-विभूषणम् ॥ २४।६१ ॥
mahāpadmam vāma-karṇe śaṅkha ca śirasi . gulikam dakṣiṇe haste kramāt sarva-vibhūṣaṇam .. 24.61 ..
मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरं । पार्श्वयोरुभयोश्चापि चामरद्वय संयुतं ॥ २४.६२ ॥
मूर्ध्नः च उपरि कर्तव्यम् श्वेत-छत्रम् तु सुन्दरम् । पार्श्वयोः उभयोः च अपि चामर-द्वय-संयुतम् ॥ २४।६२ ॥
mūrdhnaḥ ca upari kartavyam śveta-chatram tu sundaram . pārśvayoḥ ubhayoḥ ca api cāmara-dvaya-saṃyutam .. 24.62 ..
पादपार्श्वद्वयेचैव दीपद्वय समन्वितं । पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, ॥ २४.६३ ॥
दीप-द्वय-समन्वितम् । पूर्ण-कुंभम् तयोः मध्ये लिखित्वा तु विशेषतः, ॥ २४।६३ ॥
dīpa-dvaya-samanvitam . pūrṇa-kuṃbham tayoḥ madhye likhitvā tu viśeṣataḥ, .. 24.63 ..
तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः । मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतं ॥ २४.६४ ॥
तस्य अधस् शङ्ख-चक्रे च समालिख्य विशेषतः । मुक्ता-दाम-आदि अलङ्कृत्य पार्श्वयोः कदलीकृतम् ॥ २४।६४ ॥
tasya adhas śaṅkha-cakre ca samālikhya viśeṣataḥ . muktā-dāma-ādi alaṅkṛtya pārśvayoḥ kadalīkṛtam .. 24.64 ..
पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणं । देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ॥ २४.६५ ॥
पूर्वस्मिन् एव दिवसे कृत्वा नयन-मोक्षणम् । देवालयस्य अभिमुखे प्रपायाम् मण्डपे वा ॥ २४।६५ ॥
pūrvasmin eva divase kṛtvā nayana-mokṣaṇam . devālayasya abhimukhe prapāyām maṇḍape vā .. 24.65 ..
पञ्चवर्णैरलङ्कृत्य वितानस्तंभवेष्टनैः । शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेथ् ॥ २४.६६ ॥
पञ्च-वर्णैः अलङ्कृत्य वितान-स्तंभ-वेष्टनैः । शालि-राशिम् च कृत्वा एव तत् पटन्तु ॥ २४।६६ ॥
pañca-varṇaiḥ alaṅkṛtya vitāna-staṃbha-veṣṭanaiḥ . śāli-rāśim ca kṛtvā eva tat paṭantu .. 24.66 ..
वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेथ् । पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ॥ २४.६७ ॥
वास्तु-होमम् ततस् कृत्वा पर्यग्नीकरणम् चरेथ् । पुण्याहम् वाचयित्वा एव प्रोक्षयेत् पञ्चगव्यकैः ॥ २४।६७ ॥
vāstu-homam tatas kṛtvā paryagnīkaraṇam careth . puṇyāham vācayitvā eva prokṣayet pañcagavyakaiḥ .. 24.67 ..
ऐशान्यामग्निकुण्डे तु चौवासन विधानतः । आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ॥ २४.६८ ॥
ऐशान्याम् अग्निकुण्डे तु चौव-आसन-विधानतः । आघारम् विधिवत् हुत्वा वैष्णवम् च सुहूयते ॥ २४।६८ ॥
aiśānyām agnikuṇḍe tu cauva-āsana-vidhānataḥ . āghāram vidhivat hutvā vaiṣṇavam ca suhūyate .. 24.68 ..
हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः । तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेथ् ॥ २४.६९ ॥
हैम-पात्र-स्थ-वर्णेन हैमतूल्याः विशेषतः । तत् मन्त्रम् च समुच्चार्य नयन-उन्मिलनम् चरेथ् ॥ २४।६९ ॥
haima-pātra-stha-varṇena haimatūlyāḥ viśeṣataḥ . tat mantram ca samuccārya nayana-unmilanam careth .. 24.69 ..
अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेथ् । विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ॥ २४.७० ॥
अङ्ग-होमम् ततस् कृत्वा दर्शनीयैः च । विष्णुसूक्तम् च हुत्वा तु तथा पुरुषसूक्तकैः ॥ २४।७० ॥
aṅga-homam tatas kṛtvā darśanīyaiḥ ca . viṣṇusūktam ca hutvā tu tathā puruṣasūktakaiḥ .. 24.70 ..
व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच । तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतं ॥ २४.७१ ॥
व्याहृति-अन्तम् च हुत्वा तु ततस् कुंभम् प्रगृह्य च । तन्तुना कूर्च-युक्तम् सह अक्षतम् ॥ २४।७१ ॥
vyāhṛti-antam ca hutvā tu tatas kuṃbham pragṛhya ca . tantunā kūrca-yuktam saha akṣatam .. 24.71 ..
वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च । इषे त्वोर्ज्येऽत्वादि जपन्आप उन्दन्त्विऽति क्रमाथ् ॥ २४.७२ ॥
वदन् वै विष्णुगायत्रीम् गायत्रीम् गरुडस्य च । इषे त्वा ऊर्ज्ये अत्वा आदि जपन-अपः उन्दन्तु इति ॥ २४।७२ ॥
vadan vai viṣṇugāyatrīm gāyatrīm garuḍasya ca . iṣe tvā ūrjye atvā ādi japana-apaḥ undantu iti .. 24.72 ..
ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् । कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ २४.७३ ॥
ततस् पुरुषसूक्तम् च मन्त्रान् अपि च वैष्मवान् । कूर्चेन एव तु तत् तोयम् अभिमृश्य समाहितः ॥ २४।७३ ॥
tatas puruṣasūktam ca mantrān api ca vaiṣmavān . kūrcena eva tu tat toyam abhimṛśya samāhitaḥ .. 24.73 ..
तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेथ् । अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ॥ २४.७४ ॥
तद्-अंबुना कुश-अग्रेण प्रोक्षणैः प्रोक्षणम् चरेथ् । अपः हिरण्य-वर्णाभिः पवमान-आदिभिः त्रिभिः ॥ २४।७४ ॥
tad-aṃbunā kuśa-agreṇa prokṣaṇaiḥ prokṣaṇam careth . apaḥ hiraṇya-varṇābhiḥ pavamāna-ādibhiḥ tribhiḥ .. 24.74 ..
शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः । शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेथ् ॥ २४.७५ ॥
शत् नः देवी अरभि इति उक्त्वा पुरुषसूक्तेन वैष्णपैः । शुद्धि-अर्थम् प्रोक्षयित्वा तु पुण्याहम् अपि ॥ २४।७५ ॥
śat naḥ devī arabhi iti uktvā puruṣasūktena vaiṣṇapaiḥ . śuddhi-artham prokṣayitvā tu puṇyāham api .. 24.75 ..
परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयतां । सायमर्चावसाने तु कुंभपूजां समाचरेथ् ॥ २४.७६ ॥
परिषिच्य पावकम् पश्चात् तद्-मन्त्रेण । सायम् अर्चा-अवसाने तु कुंभ-पूजाम् समाचरेथ् ॥ २४।७६ ॥
pariṣicya pāvakam paścāt tad-mantreṇa . sāyam arcā-avasāne tu kuṃbha-pūjām samācareth .. 24.76 ..
कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः । अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ॥ २४.७७ ॥
कलशैः सप्तभिः प्रोक्ष्य बद्ध्वा अ प्रतिसरम् ततस् । अण्डज-आदीनि पञ्च एव धान्यानि आस्तीर्य वस्त्र-युज् ॥ २४।७७ ॥
kalaśaiḥ saptabhiḥ prokṣya baddhvā a pratisaram tatas . aṇḍaja-ādīni pañca eva dhānyāni āstīrya vastra-yuj .. 24.77 ..
शयने शाययेच्चैव देववादे शिरस्तथा । हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ॥ २४.७८ ॥
शयने शाययेत् च एव देव-वादे शिरः तथा । हौत्रम् प्रशंस्य तद्-काले होता हौत्र-क्रमेण वै ॥ २४।७८ ॥
śayane śāyayet ca eva deva-vāde śiraḥ tathā . hautram praśaṃsya tad-kāle hotā hautra-krameṇa vai .. 24.78 ..
वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेथ् । मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेथ् ॥ २४.७९ ॥
वैनतेयस्य मन्त्रेण तद्-मूर्ति-आवाहनम् चरेथ् । मूर्ति-मन्त्रैः समावाह्य निरुप्य आज्य-आहुतीः यजेथ् ॥ २४।७९ ॥
vainateyasya mantreṇa tad-mūrti-āvāhanam careth . mūrti-mantraiḥ samāvāhya nirupya ājya-āhutīḥ yajeth .. 24.79 ..
शतधारं कदाऽवीति वीशमन्त्रमुदाहृतं । तथाद्वादशपर्यायं वैष्णवं च सुहूयतां ॥ २४.८० ॥
शत-धारम् वीश-मन्त्रम् उदाहृतम् । तथा द्वादश-पर्यायम् वैष्णवम् च ॥ २४।८० ॥
śata-dhāram vīśa-mantram udāhṛtam . tathā dvādaśa-paryāyam vaiṣṇavam ca .. 24.80 ..
व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च । आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेथ् ॥ २४.८१ ॥
व्याहृति-अन्तम् च कृत्वा तु रात्रि-शेषम् व्यपोह्य च । आग्नेय्याम् न्यस्य भेर्याम् च नन्दिकेश्वरम् आह्वयेथ् ॥ २४।८१ ॥
vyāhṛti-antam ca kṛtvā tu rātri-śeṣam vyapohya ca . āgneyyām nyasya bheryām ca nandikeśvaram āhvayeth .. 24.81 ..
पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः । मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेथ् ॥ २४.८२ ॥
पुनर् प्रभाते । मुहूर्ते समनुप्राप्ते हृदि बीज-अक्षरम् न्यसेथ् ॥ २४।८२ ॥
punar prabhāte . muhūrte samanuprāpte hṛdi bīja-akṣaram nyaseth .. 24.82 ..
कुंभाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः । पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेथ् ॥ २४.८३ ॥
कुंभात् शक्तिम् विधानतः । पुण्याहम् वाचयित्वा एव समभ्यर्च ॥ २४।८३ ॥
kuṃbhāt śaktim vidhānataḥ . puṇyāham vācayitvā eva samabhyarca .. 24.83 ..
अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमाथ् । अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेथ् ॥ २४.८४ ॥
अग्निम् प्रज्वाल्य तद्-मन्त्रैः जुहुयात् दशशस् क्रमात् । अन्त-होमम् वाचयित्वा एव समभ्यर्च्य निवेदयेथ् ॥ २४।८४ ॥
agnim prajvālya tad-mantraiḥ juhuyāt daśaśas kramāt . anta-homam vācayitvā eva samabhyarcya nivedayeth .. 24.84 ..
उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतं । धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेथ् ॥ २४.८५ ॥
उपलिप्य पटम् पश्चात् पञ्च-वर्णैः अलङ्कृतम् । धूप-दीपैः अलङ्कृत्य शालिपीधम् ॥ २४।८५ ॥
upalipya paṭam paścāt pañca-varṇaiḥ alaṅkṛtam . dhūpa-dīpaiḥ alaṅkṛtya śālipīdham .. 24.85 ..
चतुरश्रं समं कृत्वा विस्तारं चैकभागकं । शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेथ् ॥ २४.८६ ॥
चतुरश्रम् समम् कृत्वा विस्तारम् च एक-भागकम् । शालि-अर्धम् तण्डुलम् प्रोक्तम् तद्-अर्धम् तिलम् आहरेथ् ॥ २४।८६ ॥
caturaśram samam kṛtvā vistāram ca eka-bhāgakam . śāli-ardham taṇḍulam proktam tad-ardham tilam āhareth .. 24.86 ..
चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितं । तस्यैवोत्तरतः पार्श्वेविष्वक्सेनं तथैव च ॥ २४.८७ ॥
चक्रम् पश्चिमतस् न्यस्य धान्य-पीठ-उपरि स्थितम् । तस्य एव उत्तरतस् पार्श्वे विष्वक्सेनम् तथा एव च ॥ २४।८७ ॥
cakram paścimatas nyasya dhānya-pīṭha-upari sthitam . tasya eva uttaratas pārśve viṣvaksenam tathā eva ca .. 24.87 ..
धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखं । न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेथ् ॥ २४.८८ ॥
धान्य-पीठे सु संस्थाप्य गरुडम् पश्चिमा-मुखम् । न्यस्य भेरीम् च पार्श्वे यष्टिम् ॥ २४।८८ ॥
dhānya-pīṭhe su saṃsthāpya garuḍam paścimā-mukham . nyasya bherīm ca pārśve yaṣṭim .. 24.88 ..
देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः । द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेथ् ॥ २४.८९ ॥
देवदेवम् सु संपूज्य द्विगुणम् पूजयेत् ततस् । द्विगुणम् हविः एव उक्तम् देवीभ्याम् च तथा ॥ २४।८९ ॥
devadevam su saṃpūjya dviguṇam pūjayet tatas . dviguṇam haviḥ eva uktam devībhyām ca tathā .. 24.89 ..
चक्रादीनां पृथक्कुर्यादासनादीन्पृथक्पृथक् । नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेथ् ॥ २४.९० ॥
चक्र-आदीनाम् पृथक्कुर्यात् आसन-आदीन् पृथक् पृथक् । नन्दीश्वरम् तथा अभ्यर्च्य हविर्भिः च ॥ २४।९० ॥
cakra-ādīnām pṛthakkuryāt āsana-ādīn pṛthak pṛthak . nandīśvaram tathā abhyarcya havirbhiḥ ca .. 24.90 ..
आचार्यो यष्टिमादाय "भूर्भुवस्सुवऽ रीरयन् । उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेथ् ॥ २४.९१ ॥
आचार्यः यष्टिम् आदाय "भूः भुवः सुवर् रीरयन् । उप श्वासय मन्त्रम् च जप्त्वा भेरीम् सु ताडयेथ् ॥ २४।९१ ॥
ācāryaḥ yaṣṭim ādāya "bhūḥ bhuvaḥ suvar rīrayan . upa śvāsaya mantram ca japtvā bherīm su tāḍayeth .. 24.91 ..
वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः । सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रविथ् ॥ २४.९२ ॥
वादकः तु शुचिः भूत्वा वस्त्र-माल्य-आदि-अलङ्कृतः । सर्व-वाद्य-समायुक्तम् भेरीम् आदाय ॥ २४।९२ ॥
vādakaḥ tu śuciḥ bhūtvā vastra-mālya-ādi-alaṅkṛtaḥ . sarva-vādya-samāyuktam bherīm ādāya .. 24.92 ..
शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा । द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ॥ २४.९३ ॥
शास्त्र-उक्तेन विधानेन चक्र-अग्रे ताडयेत् तदा । द्रोणैः द्रेण-अर्धकैः वा अपि आढकैः वा अथ तण्डुलैः ॥ २४।९३ ॥
śāstra-uktena vidhānena cakra-agre tāḍayet tadā . droṇaiḥ dreṇa-ardhakaiḥ vā api āḍhakaiḥ vā atha taṇḍulaiḥ .. 24.93 ..
पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमं । मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ॥ २४.९४ ॥
पाचयित्वा प्रक्षिपेत् बलिम् उत्तमम् । मुद्ग-निष्पाव-तिल्वान् च च ॥ २४।९४ ॥
pācayitvā prakṣipet balim uttamam . mudga-niṣpāva-tilvān ca ca .. 24.94 ..
कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेथ् । अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतं ॥ २४.९५ ॥
कटाहे तु सु सन्न्यस्य शिष्यः तम् शिरसा । अभिवन्द्य ध्वचम् पूर्वम् आदाय समलङ्कृतम् ॥ २४।९५ ॥
kaṭāhe tu su sannyasya śiṣyaḥ tam śirasā . abhivandya dhvacam pūrvam ādāya samalaṅkṛtam .. 24.95 ..
रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः । सह पुष्पं बलिं पात्रे संगृह्यानुगतं पुनः ॥ २४.९६ ॥
रथे वा शिबिकायाम् वा मन्त्रेण आरोप्य मङ्गलैः । सह पुष्पम् बलिम् पात्रे संगृह्य अनुगतम् पुनर् ॥ २४।९६ ॥
rathe vā śibikāyām vā mantreṇa āropya maṅgalaiḥ . saha puṣpam balim pātre saṃgṛhya anugatam punar .. 24.96 ..
चक्रवीशामितान्पश्चान्नाथवद्गमयेत्तदा । आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतं ॥ २४.९७ ॥
चक्रवीशा-मितान् पश्चात् नाथ-वत् गमयेत् तदा । आचार्यः पुरतस् गत्वा सर्व-वाद्य-समायुतम् ॥ २४।९७ ॥
cakravīśā-mitān paścāt nātha-vat gamayet tadā . ācāryaḥ puratas gatvā sarva-vādya-samāyutam .. 24.97 ..
गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमं । द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ॥ २४.९८ ॥
गर्भ-गेह-स्थ-देवानाम् ब्रह्म-आदीनाम् यथाक्रमम् । द्वारेषु द्वारपालेभ्यः धामपालेभ्यः एव च ॥ २४।९८ ॥
garbha-geha-stha-devānām brahma-ādīnām yathākramam . dvāreṣu dvārapālebhyaḥ dhāmapālebhyaḥ eva ca .. 24.98 ..
अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेथ् । आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेथ् ॥ २४.९९ ॥
अन्येषाम् परिवाराणाम् स्वे स्वे स्थाने बलिम् । आलयस्य बहिस् गत्वा ग्रामे सर्वत्र घोषयेथ् ॥ २४।९९ ॥
anyeṣām parivārāṇām sve sve sthāne balim . ālayasya bahis gatvā grāme sarvatra ghoṣayeth .. 24.99 ..
मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेथ् । यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेथ् ॥ २४.१०० ॥
मध्यमे च आलयम् यत्र ब्रह्म-आदि-ईश-अन्तम् आचरेथ् । यस्याम् दिशि भवेत् धाम तद्-दिश्-आदि बलिम् ॥ २४।१०० ॥
madhyame ca ālayam yatra brahma-ādi-īśa-antam ācareth . yasyām diśi bhavet dhāma tad-diś-ādi balim .. 24.100 ..
उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै । ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः ॥ २४.१०१ ॥
उत्सव-भ्रमणम् कुर्यात् प्रादक्षिण्य-क्रमेण । ग्रामम् गत्वा तु संप्राप्य संधौ संधौ विशेषतः ॥ २४।१०१ ॥
utsava-bhramaṇam kuryāt prādakṣiṇya-krameṇa . grāmam gatvā tu saṃprāpya saṃdhau saṃdhau viśeṣataḥ .. 24.101 ..
ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववथ् । अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेथ् ॥ २४.१०२ ॥
ध्यात्वा बुद्ध्वा अधिपान् मन्त्री भूम्याम् आवाह्य । अर्घ्य-अन्तम् च समभ्यर्च्य मुष्टि-अन्नम् नामभिः ददेथ् ॥ २४।१०२ ॥
dhyātvā buddhvā adhipān mantrī bhūmyām āvāhya . arghya-antam ca samabhyarcya muṣṭi-annam nāmabhiḥ dadeth .. 24.102 ..
संधौ तत्संधिमादाय प्राच्यां भूतेभ्यऽइत्यपि । देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ॥ २४.१०३ ॥
संधौ तद्-संधिम् आदाय प्राच्याम् भूतेभ्यः इति अपि । देवेभ्यः दक्षिणे पश्चा द्राक्षनेभ्यः च पश्चिमे ॥ २४।१०३ ॥
saṃdhau tad-saṃdhim ādāya prācyām bhūtebhyaḥ iti api . devebhyaḥ dakṣiṇe paścā drākṣanebhyaḥ ca paścime .. 24.103 ..
नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमाथ् । ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ॥ २४.१०४ ॥
नागेभ्यः च उत्तरे च अथ ऊर्ध्वायाम् दिशि । ये भूताः इति मन्त्रेण पूर्वम् दद्यात् जलम् पुनर् ॥ २४।१०४ ॥
nāgebhyaḥ ca uttare ca atha ūrdhvāyām diśi . ye bhūtāḥ iti mantreṇa pūrvam dadyāt jalam punar .. 24.104 ..
पुष्पं बलिं तथाधावं संदद्याच्चक्रसन्निधौ । यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेथ् ॥ २४.१०५ ॥
पुष्पम् बलिम् तथा आधावम् संदद्यात् चक्र-सन्निधौ । यस्याम् दिशि विमानम् वा ब्रह्म अद्य इव बलिम् ॥ २४।१०५ ॥
puṣpam balim tathā ādhāvam saṃdadyāt cakra-sannidhau . yasyām diśi vimānam vā brahma adya iva balim .. 24.105 ..
आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमाथ् । पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेथ् ॥ २४.१०६ ॥
आचरेत् अथ वा तस्य दिगीश-आद्यम् बलिम् । विमानम् चेद् वरुण-आदि बलिम् ॥ २४।१०६ ॥
ācaret atha vā tasya digīśa-ādyam balim . vimānam ced varuṇa-ādi balim .. 24.106 ..
अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः । ततोदिक्पालकानां च तथा भूतबलिं क्षिपेथ् ॥ २४.१०७ ॥
अथ वा ग्राम-मध्ये चेद् दत्वा ब्रह्मबलिम् पुरस् । ततस् दिक्पालकानाम् च तथा भूत-बलिम् ॥ २४।१०७ ॥
atha vā grāma-madhye ced datvā brahmabalim puras . tatas dikpālakānām ca tathā bhūta-balim .. 24.107 ..
दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः । संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेथ् ॥ २४.१०८ ॥
दिगीशयोः द्वयोः मध्ये महा-वीथ्याम् विशेषतः । संधिः यदि भवेत् तत्र भूतानाम् च बलिम् ॥ २४।१०८ ॥
digīśayoḥ dvayoḥ madhye mahā-vīthyām viśeṣataḥ . saṃdhiḥ yadi bhavet tatra bhūtānām ca balim .. 24.108 ..
संध्यन्तरगतां संधिमाचरेद्यदि मोहतः । कर्मणो वास्तुजातानामनर्धं भवति ध्रुवं ॥ २४.१०९ ॥
संधि-अन्तर-गताम् संधिम् आचरेत् यदि मोहतः । कर्मणः वास्तु-जातानाम् अनर्धम् भवति ध्रुवम् ॥ २४।१०९ ॥
saṃdhi-antara-gatām saṃdhim ācaret yadi mohataḥ . karmaṇaḥ vāstu-jātānām anardham bhavati dhruvam .. 24.109 ..
प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकं । कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ॥ २४.११० ॥
प्राच्-अन्तम् पश्चिम-आद्यम् च एक-वीथिम् च दण्डकम् । कुर्यात् तत्र एव चक्र-आद्यैः पश्चिम-आद्यम् बलिम् ततस् ॥ २४।११० ॥
prāc-antam paścima-ādyam ca eka-vīthim ca daṇḍakam . kuryāt tatra eva cakra-ādyaiḥ paścima-ādyam balim tatas .. 24.110 ..
वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा । धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेथ् ॥ २४.१११ ॥
वरुण-निरृति वायुभ्यः पश्चिमे तु बलिम् तथा । धात्रे यम-कुबेराभ्याम् सधौ मध्ये बलिम् क्षिपेथ् ॥ २४।१११ ॥
varuṇa-nirṛti vāyubhyaḥ paścime tu balim tathā . dhātre yama-kuberābhyām sadhau madhye balim kṣipeth .. 24.111 ..
इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमाथ् । उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेथ् ॥ २४.११२ ॥
इन्द्र-वापक-रुद्रेभ्यः प्राच्याम् दद्यात् ततस् । उदक्-अन्ता एक-वीथिः चेद् दक्षिण-आद्यम् बलिम् ॥ २४।११२ ॥
indra-vāpaka-rudrebhyaḥ prācyām dadyāt tatas . udak-antā eka-vīthiḥ ced dakṣiṇa-ādyam balim .. 24.112 ..
यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च । ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ॥ २४.११३ ॥
यम-नील-अनलेभ्यः च दक्षिणे मध्यमे अपि च । ब्रह्म-वारुण शक्रेभ्यः च उत्तरे च बलिम् तथा ॥ २४।११३ ॥
yama-nīla-analebhyaḥ ca dakṣiṇe madhyame api ca . brahma-vāruṇa śakrebhyaḥ ca uttare ca balim tathā .. 24.113 ..
कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च । नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेथ् ॥ २४.११४ ॥
शेभ्यः बलिम् दद्यात् क्रमेण च । नदी-आदिषु विमानम् चेद् परितस् प्राङ्गणे ॥ २४।११४ ॥
śebhyaḥ balim dadyāt krameṇa ca . nadī-ādiṣu vimānam ced paritas prāṅgaṇe .. 24.114 ..
पूर्वं क्षिप्त्वा बलिं धीमान्पुनस्तस्य च तस्य च । मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेथ् ॥ २४.११५ ॥
पूर्वम् क्षिप्त्वा बलिम् धीमान् पुनर् तस्य च तस्य च । मन्त्रम् उच्चार्य पूर्व-उक्तम् गद्य-पद्यैः च ॥ २४।११५ ॥
pūrvam kṣiptvā balim dhīmān punar tasya ca tasya ca . mantram uccārya pūrva-uktam gadya-padyaiḥ ca .. 24.115 ..
नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः । तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ॥ २४.११६ ॥
नगर-आदौ तु गद्यैः च प्रशंस्य-उपांशुना बुधः । तत् तत् मन्त्रम् समुच्चार्य घोषयेत् पटह-आदिभिः ॥ २४।११६ ॥
nagara-ādau tu gadyaiḥ ca praśaṃsya-upāṃśunā budhaḥ . tat tat mantram samuccārya ghoṣayet paṭaha-ādibhiḥ .. 24.116 ..
प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः । ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ॥ २४.११७ ॥
प्रिय-ताम् भगवान् विष्णुः सर्व-लोक-ईश्वरः हरिः । ब्रह्म-ईशाभ्याम् च सहितः च उत्सवे नः प्रसीदतु ॥ २४।११७ ॥
priya-tām bhagavān viṣṇuḥ sarva-loka-īśvaraḥ hariḥ . brahma-īśābhyām ca sahitaḥ ca utsave naḥ prasīdatu .. 24.117 ..
देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः । विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ॥ २४.११८ ॥
देवाः च ऋषयः सर्वे पितरः च ग्रह-आदयः । विष्णु-लोक-गताः सर्वे नाना लोक-निवासिनः ॥ २४।११८ ॥
devāḥ ca ṛṣayaḥ sarve pitaraḥ ca graha-ādayaḥ . viṣṇu-loka-gatāḥ sarve nānā loka-nivāsinaḥ .. 24.118 ..
सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह । विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः ॥ २४.११९ ॥
सर्वे न्ये देवताः सर्वाः परिवार-गणैः सह । विश्वे ते विष्णुयागे समागच्छन्तु सादराः ॥ २४।११९ ॥
sarve nye devatāḥ sarvāḥ parivāra-gaṇaiḥ saha . viśve te viṣṇuyāge samāgacchantu sādarāḥ .. 24.119 ..
हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ । इत्युक्त्वा घोषयेत्संधौ चक्रस्याभिमुखे पुनः ॥ २४.१२० ॥
हव्यम् बलिम् समादाय भुञ्जन्तु शुभ-दायिनः । इति उक्त्वा घोषयेत् संधौ चक्रस्य अभिमुखे पुनर् ॥ २४।१२० ॥
havyam balim samādāya bhuñjantu śubha-dāyinaḥ . iti uktvā ghoṣayet saṃdhau cakrasya abhimukhe punar .. 24.120 ..
ब्रह्माद्यान्स्वस्वतालैश्च घोषयेद्वादकः पुनः । बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ॥ २४.१२१ ॥
ब्रह्म-आद्यान् स्व-स्व-तालैः च घोषयेत् वादकः पुनर् । बलिम् एवम् च निर्वाप्य प्रदक्षिण-वशेन तु, ॥ २४।१२१ ॥
brahma-ādyān sva-sva-tālaiḥ ca ghoṣayet vādakaḥ punar . balim evam ca nirvāpya pradakṣiṇa-vaśena tu, .. 24.121 ..
जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः । बलिशिष्टं भूतपीठे "सर्वभूतेभ्यऽ इत्यपि ॥ २४.१२२ ॥
जपन् वै शाकुनम् सूक्तम् प्रविशेत् आलयम् पुनर् । बलि-शिष्टम् भूतपीठे "सर्व-भूतेभ्यः इति अपि ॥ २४।१२२ ॥
japan vai śākunam sūktam praviśet ālayam punar . bali-śiṣṭam bhūtapīṭhe "sarva-bhūtebhyaḥ iti api .. 24.122 ..
बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ । धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ॥ २४.१२३ ॥
बलिम् तद्-तोय-शेषम् च प्रक्षिपेत् चक्र-सन्निधौ । धाम-प्रदक्षिणम् कृत्वा ध्वज-आद्यैः अनपायिभिः ॥ २४।१२३ ॥
balim tad-toya-śeṣam ca prakṣipet cakra-sannidhau . dhāma-pradakṣiṇam kṛtvā dhvaja-ādyaiḥ anapāyibhiḥ .. 24.123 ..
शान्तं चक्रं च चत्स्थाने स्थापयेन्मतिमान्पुनः । ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रविथ् ॥ २४.१२४ ॥
शान्तम् चक्रम् च चत् स्थाने स्थापयेत् मतिमान् पुनर् । ध्वज-स्थानम् प्रविश्य एव ध्वजम् आदाय ॥ २४।१२४ ॥
śāntam cakram ca cat sthāne sthāpayet matimān punar . dhvaja-sthānam praviśya eva dhvajam ādāya .. 24.124 ..
स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह । मन्त्रेण मतिमान्पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ॥ २४.१२५ ॥
स्वस्ति दाः इति मन्त्रेण बध्नीयात् रज्जुना सह । मन्त्रेण मतिमान् पश्चात् प्राच्-मुखः वा पि उदक्-मुखः ॥ २४।१२५ ॥
svasti dāḥ iti mantreṇa badhnīyāt rajjunā saha . mantreṇa matimān paścāt prāc-mukhaḥ vā pi udak-mukhaḥ .. 24.125 ..
दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतं । समाबद्ध्य पुनस्स्निग्धं भूरिऽसीति जपं स्ततः ॥ २४.१२६ ॥
दण्ड-अग्रे योजयेत् पश्चात् शङ्ख-काहल-संयुतम् । समाबद्ध्य पुनर् स्निग्धम् भूरि असि इति जपम् ॥ २४।१२६ ॥
daṇḍa-agre yojayet paścāt śaṅkha-kāhala-saṃyutam . samābaddhya punar snigdham bhūri asi iti japam .. 24.126 ..
अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेथ् । पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ॥ २४.१२७ ॥
ध्वजम् पश्चात् आसन-आद्यैः समर्चयेथ् । पुण्याहम् वाचयेत् पश्चात् मुद्ग-अन्नम् तु ध्वजस्य च ॥ २४।१२७ ॥
dhvajam paścāt āsana-ādyaiḥ samarcayeth . puṇyāham vācayet paścāt mudga-annam tu dhvajasya ca .. 24.127 ..
निवेद्य मुखवासं च प्रणाममपि कारयेथ् । तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितं ॥ २४.१२८ ॥
निवेद्य मुख-वासम् च प्रणामम् अपि । तद्-काले मौद्गिकम् च अन्नम् गरुडस्य निवेदितम् ॥ २४।१२८ ॥
nivedya mukha-vāsam ca praṇāmam api . tad-kāle maudgikam ca annam garuḍasya niveditam .. 24.128 ..
स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः । आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणं ॥ २४.१२९ ॥
स्त्रियः सत्-बुत्र-कामाः स्तत् अश्नीयुः भक्ति-संयुताः । आयष्मन्तम् बल-आरोग्यवन्तम् दान्तम् सु लक्षणम् ॥ २४।१२९ ॥
striyaḥ sat-butra-kāmāḥ stat aśnīyuḥ bhakti-saṃyutāḥ . āyaṣmantam bala-ārogyavantam dāntam su lakṣaṇam .. 24.129 ..
बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवं । (ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ॥ २४.१३० ॥
बुद्धिमन्तम् यशोवन्तम् प्रसूयेयुः सुतम् ध्रुवम् । (ततन्तु तोषयेत् वीशम् स्तोत्रैः ध्यान-युतः गुरुः ॥ २४।१३० ॥
buddhimantam yaśovantam prasūyeyuḥ sutam dhruvam . (tatantu toṣayet vīśam stotraiḥ dhyāna-yutaḥ guruḥ .. 24.130 ..
नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः । वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ॥ २४.१३१ ॥
नमः नमः ते पक्षि-इन्द्र स्व-अध्याय-वपुषे नमः । वाहनाय महा-विष्णोः तार्क्ष्याय अमित तेजसे ॥ २४।१३१ ॥
namaḥ namaḥ te pakṣi-indra sva-adhyāya-vapuṣe namaḥ . vāhanāya mahā-viṣṇoḥ tārkṣyāya amita tejase .. 24.131 ..
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे । वैनतेय महाबाहो महाबल वयोऽधिप ॥ २४.१३२ ॥
गरुडाय नमः तुभ्यम् सर्व-सर्प-इन्द्र-मृत्यवे । वैनतेय महा-बाहो महा-बल वयः-अधिप ॥ २४।१३२ ॥
garuḍāya namaḥ tubhyam sarva-sarpa-indra-mṛtyave . vainateya mahā-bāho mahā-bala vayaḥ-adhipa .. 24.132 ..
विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक । आहृतामृतकुंभाय जननीदास्यमोचिने ॥ २४.१३३ ॥
विहग-इन्द्र नमः ते अस्तु समुत्पाटीत-कल्पक । आहृत-अमृत-कुंभाय जननी-दास्य-मोचिने ॥ २४।१३३ ॥
vihaga-indra namaḥ te astu samutpāṭīta-kalpaka . āhṛta-amṛta-kuṃbhāya jananī-dāsya-mocine .. 24.133 ..
सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते । यदाधारमिदं सर्वं तदाधाराय ते नमः ॥ २४.१३४ ॥
सुर-असुर-इन्द्र-जयिने नाग-इन्द्र-आबरणाय ते । यद्-आधारम् इदम् सर्वम् तद्-आधाराय ते नमः ॥ २४।१३४ ॥
sura-asura-indra-jayine nāga-indra-ābaraṇāya te . yad-ādhāram idam sarvam tad-ādhārāya te namaḥ .. 24.134 ..
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयं । अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयं ॥ २४.१३५ ॥
पक्षौ यस्य बृहत् साम रथन्तरम् अपि द्वयम् । अक्षिणी च अपि गायत्री त्रिवृत् साम शिरः स्वयम् ॥ २४।१३५ ॥
pakṣau yasya bṛhat sāma rathantaram api dvayam . akṣiṇī ca api gāyatrī trivṛt sāma śiraḥ svayam .. 24.135 ..
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे । नमःप्राणादिवायूनामीशाय गरुडात्मने ॥ २४.१३६ ॥
स्तोमः आत्मा नमः तस्मै वामदेव्य-अङ्ग-सम्पदे । नमः-प्राण-आदि-वायूनाम् ईशाय गरुड-आत्मने ॥ २४।१३६ ॥
stomaḥ ātmā namaḥ tasmai vāmadevya-aṅga-sampade . namaḥ-prāṇa-ādi-vāyūnām īśāya garuḍa-ātmane .. 24.136 ..
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसंपदा । निरस्तासुरसन्नाह समरे शत्रुसूदन ॥ २४.१३७ ॥
पक्षि-इन्द्र पक्ष-विक्षेप-तरङ्ग-अनिल-संपदा । निरस्त-असुः असन् आह समरे शत्रु-सूदन ॥ २४।१३७ ॥
pakṣi-indra pakṣa-vikṣepa-taraṅga-anila-saṃpadā . nirasta-asuḥ asan āha samare śatru-sūdana .. 24.137 ..
प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये । कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ॥ २४.१३८ ॥
प्रतिष्ठितः पटे तुभ्यम् नमः प्रणव-मूर्तये । कर्मणाम् सिद्धिम् आहूतः कुरुष्व विहग-ईश्वर ॥ २४।१३८ ॥
pratiṣṭhitaḥ paṭe tubhyam namaḥ praṇava-mūrtaye . karmaṇām siddhim āhūtaḥ kuruṣva vihaga-īśvara .. 24.138 ..
दोषानपनयास्माकं गुणानावह सर्वशः । विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि.ऽ ॥ २४.१३९ ॥
दोषान् अपनय अस्माकम् गुणान् आवह सर्वशस् । विघ्नानि जहि सर्वाणि आत्मसात् कुरु माम् अपि। ॥ २४।१३९ ॥
doṣān apanaya asmākam guṇān āvaha sarvaśas . vighnāni jahi sarvāṇi ātmasāt kuru mām api. .. 24.139 ..
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) । ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ॥ २४.१४० ॥
स्तुत्वा एवम् गारुडम् मन्त्रम् जपेत् एकाग्र-मानसः । ध्वजस्य आरोहणे यावत् तावत् मूर्त्या विशेषतः ॥ २४।१४० ॥
stutvā evam gāruḍam mantram japet ekāgra-mānasaḥ . dhvajasya ārohaṇe yāvat tāvat mūrtyā viśeṣataḥ .. 24.140 ..
त्रिकालं वा द्विकालं वा एक कालमधापि वा । हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ॥ २४.१४१ ॥
त्रि-कालम् वा द्वि-कालम् वा वा । हविः सम्यक् निवेद्य एव सप्तविंशति विग्रहैः ॥ २४।१४१ ॥
tri-kālam vā dvi-kālam vā vā . haviḥ samyak nivedya eva saptaviṃśati vigrahaiḥ .. 24.141 ..
पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेथ् । जियमत्युच्छ्रयं धन्यं ध्वजंचेति ध्वजं तथा ॥ २४.१४२ ॥
पूजयित्वा ध्वजम् पश्चात् रात्रौ भूत-बलिम् क्षिपेथ् । जियम् अत्युच्छ्रयम् धन्यम् ध्वजं च इति ध्वजम् तथा ॥ २४।१४२ ॥
pūjayitvā dhvajam paścāt rātrau bhūta-balim kṣipeth . jiyam atyucchrayam dhanyam dhvajaṃ ca iti dhvajam tathā .. 24.142 ..
ध्वजमूले तथेन्द्रादीन्दण्डे ब्रह्माणमित्यपि । सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनं ॥ २४.१४३ ॥
ध्वज-मूले तथा इन्द्र-आदीन् दण्डे ब्रह्माणम् इति अपि । सूर्य-इन्दु-अग्नीन् तु फलक-त्रये यष्ट्याम् सुदर्शनम् ॥ २४।१४३ ॥
dhvaja-mūle tathā indra-ādīn daṇḍe brahmāṇam iti api . sūrya-indu-agnīn tu phalaka-traye yaṣṭyām sudarśanam .. 24.143 ..
वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः । घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीं ॥ २४.१४४ ॥
वलये रज्ज्वाम् त्रिमूर्तीः अर्चयेत् ततस् । घण्टायाम् च एव ब्रह्माणम् दर्भ-दाम्नि सरस्वतीम् ॥ २४।१४४ ॥
valaye rajjvām trimūrtīḥ arcayet tatas . ghaṇṭāyām ca eva brahmāṇam darbha-dāmni sarasvatīm .. 24.144 ..
इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेथ् । ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ॥ २४.१४५ ॥
इति क्रमेण च आवाह्य तद्-मन्त्रैः अर्चनम् चरेथ् । ध्वज-आरोहणम् आरभ्य च उत्सव-आदि-दिनात् अधस् ॥ २४।१४५ ॥
iti krameṇa ca āvāhya tad-mantraiḥ arcanam careth . dhvaja-ārohaṇam ārabhya ca utsava-ādi-dināt adhas .. 24.145 ..
सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिं । शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ॥ २४.१४६ ॥
सायम् प्रातर् च वूज-अन्ते ध्वज-आरोहण-वत् बलिम् । शिष्येण गुरुणा च अथ चक्रस्य अभिमुखे तथा ॥ २४।१४६ ॥
sāyam prātar ca vūja-ante dhvaja-ārohaṇa-vat balim . śiṣyeṇa guruṇā ca atha cakrasya abhimukhe tathā .. 24.146 ..
नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेथ् । वीशामितौ विना धीमान्तीर्थान्तं सर्वरात्रिषु ॥ २४.१४७ ॥
नित्यम् रात्रौ विशेषेण तथा भूत-बलिम् क्षिपेथ् । वीशा-मितौ विना धीमान् तीर्थ-अन्तम् सर्व-रात्रिषु ॥ २४।१४७ ॥
nityam rātrau viśeṣeṇa tathā bhūta-balim kṣipeth . vīśā-mitau vinā dhīmān tīrtha-antam sarva-rātriṣu .. 24.147 ..
चक्रमेव नयेद्विद्वान्बलिरक्षणहेतवे । ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ॥ २४.१४८ ॥
चक्रम् एव नयेत् विद्वान् बलि-रक्षण-हेतवे । ध्वजस्य आरोपणम् यावत् तावत् नित्यम् समाहितः ॥ २४।१४८ ॥
cakram eva nayet vidvān bali-rakṣaṇa-hetave . dhvajasya āropaṇam yāvat tāvat nityam samāhitaḥ .. 24.148 ..
त्रिकालं वा द्विकालं वाप्येककालमथापि वा । पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेथ् ॥ २४.१४९ ॥
त्रि-कालम् वा द्वि-कालम् वा अपि एक-कालम् अथ अपि वा । पूर्व-उक्तेन क्रमेण एव समभ्यर्च्य निवेदयेथ् ॥ २४।१४९ ॥
tri-kālam vā dvi-kālam vā api eka-kālam atha api vā . pūrva-uktena krameṇa eva samabhyarcya nivedayeth .. 24.149 ..
ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न । उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः ॥ २४.१५० ॥
ध्वजस्य आरोहणम् रात्रौ अपि कुर्वन्ति के च न । उत्सव-आरंभ-दिवसात् तत्र ये ग्राम-वासिनः ॥ २४।१५० ॥
dhvajasya ārohaṇam rātrau api kurvanti ke ca na . utsava-āraṃbha-divasāt tatra ye grāma-vāsinaḥ .. 24.150 ..
अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरं । गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयं ॥ २४.१५१ ॥
गच्छेयुः थ्सलान्तरम् । गच्छेयुः अथ वा तीर्थे निवर्तेयुः असंशयम् ॥ २४।१५१ ॥
gaccheyuḥ thsalāntaram . gaccheyuḥ atha vā tīrthe nivarteyuḥ asaṃśayam .. 24.151 ..
बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च । तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ॥ २४.१५२ ॥
बहिस् वीथ्याम् तु तद्-ग्रामे जनाः सर्वे तथा एव च । तावान् न तेषाम् निर्बन्धः समीप-स्थेषु यः स्मृतः ॥ २४।१५२ ॥
bahis vīthyām tu tad-grāme janāḥ sarve tathā eva ca . tāvān na teṣām nirbandhaḥ samīpa-stheṣu yaḥ smṛtaḥ .. 24.152 ..
अहूतव्या उत्सवार्थे देवास्सम्यक्प्रकीर्तिताः । देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ॥ २४.१५३ ॥
अ हूतव्याः उत्सव-अर्थे देवाः सम्यक् प्रकीर्तिताः । देव-आदीनाम् च सर्वेषाम् तेषाम् स्थानम् प्रवक्ष्यते ॥ २४।१५३ ॥
a hūtavyāḥ utsava-arthe devāḥ samyak prakīrtitāḥ . deva-ādīnām ca sarveṣām teṣām sthānam pravakṣyate .. 24.153 ..
इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः । तथैकादश रुद्राश्च द्वादशाहस्करा अपि ॥ २४.१५४ ॥
इन्द्र-आदयः महा-दिक्षु विदिक्षु च समाश्रिताः । तथा एकादश रुद्राः च द्वादश-अहस्कराः अपि ॥ २४।१५४ ॥
indra-ādayaḥ mahā-dikṣu vidikṣu ca samāśritāḥ . tathā ekādaśa rudrāḥ ca dvādaśa-ahaskarāḥ api .. 24.154 ..
वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतं । एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ॥ २४.१५५ ॥
वसवः स्युः अथ अष्टौ च ओङ्कारः च वषट्कृतम् । एते देवाः त्रयस्त्रिंशाः कथिताः ब्रह्मणा पुरा ॥ २४।१५५ ॥
vasavaḥ syuḥ atha aṣṭau ca oṅkāraḥ ca vaṣaṭkṛtam . ete devāḥ trayastriṃśāḥ kathitāḥ brahmaṇā purā .. 24.155 ..
अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः । त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ॥ २४.१५६ ॥
अश्विनौ अपि तत्र इति केचिद् आहुः मनीषिणः । त्रयस्त्रिंशत्-देवतानाम् स्थानम् ऐशान्यम् उच्यते ॥ २४।१५६ ॥
aśvinau api tatra iti kecid āhuḥ manīṣiṇaḥ . trayastriṃśat-devatānām sthānam aiśānyam ucyate .. 24.156 ..
अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः । अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ॥ २४.१५७ ॥
अपरे च अपि कर्तव्याः नदी-पार्श्वे विशेषतः । अष्टादश-गणानाम् तु भुत-पीठस्य दक्षिणे ॥ २४।१५७ ॥
apare ca api kartavyāḥ nadī-pārśve viśeṣataḥ . aṣṭādaśa-gaṇānām tu bhuta-pīṭhasya dakṣiṇe .. 24.157 ..
देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः । असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ॥ २४.१५८ ॥
देवाः च ऋषयः सर्वे पितरः दैत्य-दानवाः । असुराः च एव गन्धर्वाः तथा एव अप्सरपा-अङ्गणाः ॥ २४।१५८ ॥
devāḥ ca ṛṣayaḥ sarve pitaraḥ daitya-dānavāḥ . asurāḥ ca eva gandharvāḥ tathā eva apsarapā-aṅgaṇāḥ .. 24.158 ..
यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः । अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ॥ २४.१५९ ॥
यक्षाः च राक्षसाः च एव पिशाचकाः । अनावृष्टि-गणाः च एव तथा अमृत-मुचाम् गणाः ॥ २४।१५९ ॥
yakṣāḥ ca rākṣasāḥ ca eva piśācakāḥ . anāvṛṣṭi-gaṇāḥ ca eva tathā amṛta-mucām gaṇāḥ .. 24.159 ..
मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः । अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ॥ २४.१६० ॥
मातरः च एव रोहिण्यः सूर्याः अष्टादश स्मृताः । अष्टादश-गणाः च एते प्रोक्ताः वै देवयोनयः ॥ २४।१६० ॥
mātaraḥ ca eva rohiṇyaḥ sūryāḥ aṣṭādaśa smṛtāḥ . aṣṭādaśa-gaṇāḥ ca ete proktāḥ vai devayonayaḥ .. 24.160 ..
अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेथ् । देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेथ् ॥ २४.१६१ ॥
अन् उक्तान् अन्य-देवान् च इन्द्र-पार्श्वे । देवानाम् च एव पत्नीः च तद्-तद्-पार्श्वे ॥ २४।१६१ ॥
an uktān anya-devān ca indra-pārśve . devānām ca eva patnīḥ ca tad-tad-pārśve .. 24.161 ..
स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती । तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा ॥ २४.१६२ ॥
स्कन्दः विघ्नः च दुर्गा च ज्येष्ठा च एव सरस्वती । तद्-आलये बलिम् दद्यात् प्राकारे च उत्तरे अपि वा ॥ २४।१६२ ॥
skandaḥ vighnaḥ ca durgā ca jyeṣṭhā ca eva sarasvatī . tad-ālaye balim dadyāt prākāre ca uttare api vā .. 24.162 ..
परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा । ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेथ् ॥ २४.१६३ ॥
परिवार-उक्त-देशे तु रोहिण्यः मातरः तथा । ऋषि-पत्नीः च ताः सप्त ऋषिभिः सह ॥ २४।१६३ ॥
parivāra-ukta-deśe tu rohiṇyaḥ mātaraḥ tathā . ṛṣi-patnīḥ ca tāḥ sapta ṛṣibhiḥ saha .. 24.163 ..
सिद्धान्विद्याधरांश्चैव गरुडगन्धर्वकिन्नरान् । किपूरुषांश्चारणान्देवान्महादिक्षु समर्चयेथ् ॥ २४.१६४ ॥
सिद्धान् विद्याधरान् च एव गरुड-गन्धर्व-किन्नरान् । किपूरुषान् चारणान् देवान् महा-दिक्षु ॥ २४।१६४ ॥
siddhān vidyādharān ca eva garuḍa-gandharva-kinnarān . kipūruṣān cāraṇān devān mahā-dikṣu .. 24.164 ..
भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च । राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेथ् ॥ २४.१६५ ॥
भूतेभ्यः च अथ यक्षेभ्यः पिशाचेभ्यः तथा एव च । राक्षसेभ्यः च नागेभ्यः संधौ संधौ बलिम् ॥ २४।१६५ ॥
bhūtebhyaḥ ca atha yakṣebhyaḥ piśācebhyaḥ tathā eva ca . rākṣasebhyaḥ ca nāgebhyaḥ saṃdhau saṃdhau balim .. 24.165 ..
राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेथ् । तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेथ् ॥ २४.१६६ ॥
राज-वेश्म-अङ्गणे मध्ये इन्द्रम् च एव । तस्य दक्षिण-पार्श्वे तु जय-श्री-कीर्तीः समर्चयेथ् ॥ २४।१६६ ॥
rāja-veśma-aṅgaṇe madhye indram ca eva . tasya dakṣiṇa-pārśve tu jaya-śrī-kīrtīḥ samarcayeth .. 24.166 ..
उत्सवार्थं विशेषेण संभारानाहरेत्ततः । रथं च शिबिकां चैव यन्त्रडोलादिकांस्तथा ॥ २४.१६७ ॥
उत्सव-अर्थम् विशेषेण संभारान् आहरेत् ततस् । रथम् च शिबिकाम् च एव यन्त्र-डोला-आदिकान् तथा ॥ २४।१६७ ॥
utsava-artham viśeṣeṇa saṃbhārān āharet tatas . ratham ca śibikām ca eva yantra-ḍolā-ādikān tathā .. 24.167 ..
कारयित्वा च शिल्पोक्तं दीपानन्यान्प्रगृह्य च । भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ॥ २४.१६८ ॥
कारयित्वा च शिल्प-उक्तम् दीपान् अन्यान् प्रगृह्य च । भेरी-आदीनि अपि वाद्यानि शङ्ख-काहलकानि च ॥ २४।१६८ ॥
kārayitvā ca śilpa-uktam dīpān anyān pragṛhya ca . bherī-ādīni api vādyāni śaṅkha-kāhalakāni ca .. 24.168 ..
तालवृन्तं ध्वजानन्यान्छत्रचामरबर्हिणः । नर्तकान्गायकानन्यान्यथोक्तं पूर्वमाहरेथ् ॥ २४.१६९ ॥
तालवृन्तम् ध्वजान् अन्यान् छत्र-चामर-बर्हिणः । नर्तकान् गायकान् अन्यान् यथोक्तम् पूर्वम् ॥ २४।१६९ ॥
tālavṛntam dhvajān anyān chatra-cāmara-barhiṇaḥ . nartakān gāyakān anyān yathoktam pūrvam .. 24.169 ..
आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च । परिचारान्समाहूय स्वस्वकर्म निवेदयेथ् ॥ २४.१७० ॥
आलयम् समलङ्कृत्य तोरण-आद्यैः विभूष्य च । परिचारान् समाहूय स्व-स्व-कर्म निवेदयेथ् ॥ २४।१७० ॥
ālayam samalaṅkṛtya toraṇa-ādyaiḥ vibhūṣya ca . paricārān samāhūya sva-sva-karma nivedayeth .. 24.170 ..
मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः । आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रविथ् ॥ २४.१७१ ॥
मण्टप-आदीनि सर्वाणि प्रपादीनि च सर्वशस् । आस्तान-अर्थम् च नृत्य-अर्थम् कारयेत् शिल्प-शास्त्र-विथ् ॥ २४।१७१ ॥
maṇṭapa-ādīni sarvāṇi prapādīni ca sarvaśas . āstāna-artham ca nṛtya-artham kārayet śilpa-śāstra-vith .. 24.171 ..
अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः । विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमं ॥ २४.१७२ ॥
अव मन्त्रेण ग्राम-वीथीः विशेषतः । विप्राः वेद-विदः शुद्धाः शोधयेयुः मनोरमम् ॥ २४।१७२ ॥
ava mantreṇa grāma-vīthīḥ viśeṣataḥ . viprāḥ veda-vidaḥ śuddhāḥ śodhayeyuḥ manoramam .. 24.172 ..
आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभं । समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेथ् ॥ २४.१७३ ॥
आशासु सप्त इति उक्त्वा गव्य-आद्यैः सर्वतस् शुभम् । समभ्युक्ष्य उपलिप्य एव तण्डुलान् अवकीरयेथ् ॥ २४।१७३ ॥
āśāsu sapta iti uktvā gavya-ādyaiḥ sarvatas śubham . samabhyukṣya upalipya eva taṇḍulān avakīrayeth .. 24.173 ..
कदलीपूगकुंभाद्यैरलङ्कुर्याद्गृहांगणं । वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभं ॥ २४.१७४ ॥
कदली-पूग-कुंभ-आद्यैः अलङ्कुर्यात् गृह-अङ्गणम् । वितान-आद्यैः विशेषेण फूषयेत् सर्वतस् शुभम् ॥ २४।१७४ ॥
kadalī-pūga-kuṃbha-ādyaiḥ alaṅkuryāt gṛha-aṅgaṇam . vitāna-ādyaiḥ viśeṣeṇa phūṣayet sarvatas śubham .. 24.174 ..
तद्ग्रामवासिनः सर्वेऽलङ्कृता नान्यतत्पराः । नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिं ॥ २४.१७५ ॥
तद्-ग्राम-वासिनः सर्वे अलङ्कृताः न अन्य-तत्पराः । नैमित्तिक-आदिकम् हित्वा ध्यायेयुः मनसा हरिम् ॥ २४।१७५ ॥
tad-grāma-vāsinaḥ sarve alaṅkṛtāḥ na anya-tatparāḥ . naimittika-ādikam hitvā dhyāyeyuḥ manasā harim .. 24.175 ..
तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना । नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ॥ २४.१७६ ॥
तद्-ग्राम-सीमनि अन्तस्थ्सा नित्यकर्म-क्रियाम् विना । नैमित्तिकानि काम्यानि तीर्थ-अन्तम् न आचरेत् बुधाः ॥ २४।१७६ ॥
tad-grāma-sīmani antasthsā nityakarma-kriyām vinā . naimittikāni kāmyāni tīrtha-antam na ācaret budhāḥ .. 24.176 ..
प्रवृत्ते चोत्सवे विष्णोस्स्ॐयमार्गेण वास्तुषु । अन्यदेवोत्सवं तत्र नाचरेदिति शासनं ॥ २४.१७७ ॥
प्रवृत्ते च उत्सवे विष्णोः सोंय-मार्गेण वास्तुषु । अन्यत् एव उत्सवम् तत्र न आचरेत् इति शासनम् ॥ २४।१७७ ॥
pravṛtte ca utsave viṣṇoḥ soṃya-mārgeṇa vāstuṣu . anyat eva utsavam tatra na ācaret iti śāsanam .. 24.177 ..
अस्मिन्देवोत्सवे यागे तद्वास्तुषु विशेषतः । संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेथ् ॥ २४.१७८ ॥
अस्मिन् देव-उत्सवे यागे तद्-वास्तुषु विशेषतः । संकल्प्य च उत्तराम् वेदिम् प्रवृत्ते अन्यानि न आचरेथ् ॥ २४।१७८ ॥
asmin deva-utsave yāge tad-vāstuṣu viśeṣataḥ . saṃkalpya ca uttarām vedim pravṛtte anyāni na ācareth .. 24.178 ..
यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति । तस्मात्परिहरेद्धीमान्तीर्थान्तं तेषु वान्तुषु ॥ २४.१७९ ॥
यदि चेद् सर्व-नाशः स्यात् कर्ता अ भर्ता विनश्यति । तस्मात् परिहरेत् धीमान् तीर्थ-अन्तम् तेषु वान्तुषु ॥ २४।१७९ ॥
yadi ced sarva-nāśaḥ syāt kartā a bhartā vinaśyati . tasmāt pariharet dhīmān tīrtha-antam teṣu vāntuṣu .. 24.179 ..
उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमेऽथ वा । संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेथ् ॥ २४.१८० ॥
उत्सव-आदि-दिनात् पूर्वम् सप्तमे पञ्चमे अथ वा । संस्नाप्य देवदेवेशम् अङ्कुर-आर्ऽपणम् आचरेथ् ॥ २४।१८० ॥
utsava-ādi-dināt pūrvam saptame pañcame atha vā . saṃsnāpya devadeveśam aṅkura-ār'paṇam ācareth .. 24.180 ..
इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्ते भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे चतुर्विंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāste bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre caturviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In