| |
|

This overlay will guide you through the buttons:

अथ चतुर्विंशोऽध्यायः.
atha caturviṃśo'dhyāyaḥ.
उत्सवः
अतःपरं प्रवक्ष्यामि देवेशस्योत्सवक्रमं । वर्षदं सर्वलोकस्य शान्तिदं सर्वपुष्टिदं ॥ २४.१ ॥
ataḥparaṃ pravakṣyāmi deveśasyotsavakramaṃ . varṣadaṃ sarvalokasya śāntidaṃ sarvapuṣṭidaṃ .. 24.1 ..
राज्ञां विजयदानाय शत्रूणां नाशहेतवे । व्याधिदुर्भिक्षशा न्त्यर्थमुत्सवं कारयेद्बुधः ॥ २४.२ ॥
rājñāṃ vijayadānāya śatrūṇāṃ nāśahetave . vyādhidurbhikṣaśā ntyarthamutsavaṃ kārayedbudhaḥ .. 24.2 ..
कालश्रद्धानिमित्तार्था(ख्या)उत्सवास्त्रिविधास्स्मृताः । मासेतु यस्मिन्कस्मिंश्छित्प्रतिसंवत्सरं चरेथ् ॥ २४.३ ॥
kālaśraddhānimittārthā(khyā)utsavāstrividhāssmṛtāḥ . māsetu yasminkasmiṃśchitpratisaṃvatsaraṃ careth .. 24.3 ..
एकस्मिन्समयेचैव स तु कालोत्सवो भवेथ् । इष्टमासे दिने चेष्टे श्रद्धया क्रियते तु यः ॥ २४.४ ॥
ekasminsamayecaiva sa tu kālotsavo bhaveth . iṣṭamāse dine ceṣṭe śraddhayā kriyate tu yaḥ .. 24.4 ..
स तु श्रद्धोत्सवोज्ञेय स्तस्मात्कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथानावृष्टिकादिषु ॥ २४.५ ॥
sa tu śraddhotsavojñeya stasmātkālotsavo guruḥ . bhayapradanimitteṣu tathānāvṛṣṭikādiṣu .. 24.5 ..
क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवस्स्मृतः । प्रतिष्ठादिवसे तीर्थं प्रति संवत्करं चरेत्, ॥ २४.६ ॥
kriyate tatra śāntyarthaṃ sa nimittotsavassmṛtaḥ . pratiṣṭhādivase tīrthaṃ prati saṃvatkaraṃ caret, .. 24.6 ..
कालोत्सव इतिज्ञेयश्शान्त्यर्थं सप्रकीर्तितः । राजराष्ट्राभिवृद्ध्यर्थं राज्ञां चैवाभिवृद्धये ॥ २४.७ ॥
kālotsava itijñeyaśśāntyarthaṃ saprakīrtitaḥ . rājarāṣṭrābhivṛddhyarthaṃ rājñāṃ caivābhivṛddhaye .. 24.7 ..
अत्मनश्चैव पुत्राणां कुर्यादुक्तेषु मङ्गलं । राज्ञो जन्मदिने चैव यस्स श्रद्धोत्सवो भवेथ् ॥ २४.८ ॥
atmanaścaiva putrāṇāṃ kuryādukteṣu maṅgalaṃ . rājño janmadine caiva yassa śraddhotsavo bhaveth .. 24.8 ..
अद्भुताद्युद्भवेशान्तिस्सतु नैमित्तिकोत्सवः । ग्रामादौ चोत्सवस्स्याच्चेत्क्रमेणैवं तु कारयेथ् ॥ २४.९ ॥
adbhutādyudbhaveśāntissatu naimittikotsavaḥ . grāmādau cotsavassyāccetkrameṇaivaṃ tu kārayeth .. 24.9 ..
सर्वदुःखार्तिशान्त्यर्थमादौ काल्युत्सवं चरेथ् । अन्वेषां क्रूरदेवानां शिष्टभूतगणस्य च ॥ २४.१० ॥
sarvaduḥkhārtiśāntyarthamādau kālyutsavaṃ careth . anveṣāṃ krūradevānāṃ śiṣṭabhūtagaṇasya ca .. 24.10 ..
शान्त्यर्थं कारयेत्पश्छास्त्रोक्तं शङ्करोत्सवं । विशस्त्रिगणसान्त्यर्थं स्ॐयमार्गेण वास्तुषु ॥ २४.११ ॥
śāntyarthaṃ kārayetpaśchāstroktaṃ śaṅkarotsavaṃ . viśastrigaṇasāntyarthaṃ s_oṃyamārgeṇa vāstuṣu .. 24.11 ..
चक्रसेनेश संयुक्तं कुर्याद्दुर्गोत्सवं पुनः । सर्वेषामपि देवानां मुनीनामपि सर्वशः ॥ २४.१२ ॥
cakraseneśa saṃyuktaṃ kuryāddurgotsavaṃ punaḥ . sarveṣāmapi devānāṃ munīnāmapi sarvaśaḥ .. 24.12 ..
पितॄणां च ग्रहाणां च तत्पत्नीनां च सर्वशः । द्विजानामपि शान्त्यर्थं लोकानामपि सर्वशः ॥ २४.१३ ॥
pitṝṇāṃ ca grahāṇāṃ ca tatpatnīnāṃ ca sarvaśaḥ . dvijānāmapi śāntyarthaṃ lokānāmapi sarvaśaḥ .. 24.13 ..
पुष्ट्यर्थं कारयेत्पश्चाद्देवेशस्योत्सवं क्रमाथ् । अन्यधा चेद्विनाशस्स्यात्सर्वेषां च न संशयः ॥ २४.१४ ॥
puṣṭyarthaṃ kārayetpaścāddeveśasyotsavaṃ kramāth . anyadhā cedvināśassyātsarveṣāṃ ca na saṃśayaḥ .. 24.14 ..
तस्मात्परिहरेद्विद्वान्ग्रामादौतं विशेषतः । विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ २४.१५ ॥
tasmātpariharedvidvāngrāmādautaṃ viśeṣataḥ . viṣuvāyanabhūparkṣapratiṣṭhākartṛbheṣu ca .. 24.15 ..
ग्रहणेमासनक्षत्रे विष्णुपञ्चदिनेषु च । उत्सवस्यान्तदिवसे तेषु तीर्थं प्रकल्पयेथ् ॥ २४.१६ ॥
grahaṇemāsanakṣatre viṣṇupañcadineṣu ca . utsavasyāntadivase teṣu tīrthaṃ prakalpayeth .. 24.16 ..
एतेष्वेकं परिग्राह्यं यजमानस्य चेच्छया । विषुवे चायने चैव ग्रहणे सोमसूर्ययोः ॥ २४.१७ ॥
eteṣvekaṃ parigrāhyaṃ yajamānasya cecchayā . viṣuve cāyane caiva grahaṇe somasūryayoḥ .. 24.17 ..
तत्तत्काले प्रकुर्वीत तीर्थस्नारन्तु नान्यधा । अन्यर्क्षेष्वथ पूर्वाह्णेमध्याह्ने वा गुणान्विते ॥ २४.१८ ॥
tattatkāle prakurvīta tīrthasnārantu nānyadhā . anyarkṣeṣvatha pūrvāhṇemadhyāhne vā guṇānvite .. 24.18 ..
एकस्मिन्नेव मासेतु यदि तीर्थदिनद्वयं । तयोरन्त्यदिने तीर्थमिति पूर्वजदर्शनं ॥ २४.१९ ॥
ekasminneva māsetu yadi tīrthadinadvayaṃ . tayorantyadine tīrthamiti pūrvajadarśanaṃ .. 24.19 ..
तदेव यदि सूर्यस्य विद्धं चेत्संक्रमादिभिः । वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते ॥ २४.२० ॥
tadeva yadi sūryasya viddhaṃ cetsaṃkramādibhiḥ . varjanīyaṃ tathā pūrvaṃ praśastamabhidhīyate .. 24.20 ..
वारद्वयानुषक्ते चेत्तिथौ स्यात्तुपरे तथा । अधिमासः परित्याज्यः कालोत्सवविधौहरेः ॥ २४.२१ ॥
vāradvayānuṣakte cettithau syāttupare tathā . adhimāsaḥ parityājyaḥ kālotsavavidhauhareḥ .. 24.21 ..
अर्कवारर्क्ष संयोगस्सर्वदा संप्रशस्यते । श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ २४.२२ ॥
arkavārarkṣa saṃyogassarvadā saṃpraśasyate . śravaṇadvādaśīyogassarvakarmaphalapradaḥ .. 24.22 ..
योगाश्च सुप्रशस्तास्स्युस्सिद्धामृतवराह्वयाः । तिथिद्वयानुषक्तं चेऽन्नक्षत्रं स्यात्परेऽहनि ॥ २४.२३ ॥
yogāśca supraśastāssyussiddhāmṛtavarāhvayāḥ . tithidvayānuṣaktaṃ ce'nnakṣatraṃ syātpare'hani .. 24.23 ..
परस्मिन्दिवसे स्याच्चेद्यावच्च दशनाडिकाः । हीनं चेत्पूर्वदिवसे संकल्प्यावभृथं चरेथ् ॥ २४.२४ ॥
parasmindivase syāccedyāvacca daśanāḍikāḥ . hīnaṃ cetpūrvadivase saṃkalpyāvabhṛthaṃ careth .. 24.24 ..
उत्तमं तु त्रिसप्ताहं मध्यमं स्याच्चतुर्दश । नवाहं वाथसप्ताहं अधमं परिचक्षते ॥ २४.२५ ॥
uttamaṃ tu trisaptāhaṃ madhyamaṃ syāccaturdaśa . navāhaṃ vāthasaptāhaṃ adhamaṃ paricakṣate .. 24.25 ..
त्रिगुणान्युत्सवाहानि कृत्वादौ घोषणं चरेथ् । मध्यमे द्विगुणादौ स्यादुत्सवादि दिनेऽधमे ॥ २४.२६ ॥
triguṇānyutsavāhāni kṛtvādau ghoṣaṇaṃ careth . madhyame dviguṇādau syādutsavādi dine'dhame .. 24.26 ..
अथवावभृथात्पूर्वमेकविंशतिके दिने । ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेथ् ॥ २४.२७ ॥
athavāvabhṛthātpūrvamekaviṃśatike dine . dhvajasyārohaṇaṃ kṛtvā sarvamutsavamācareth .. 24.27 ..
राहुदर्शनसंक्रान्त्योः स्नानं श्रेष्ठं निशास्वपि । क्रियां समाप्य मध्याह्ने रात्रौचेत्सकलं बुधः ॥ २४.२८ ॥
rāhudarśanasaṃkrāntyoḥ snānaṃ śreṣṭhaṃ niśāsvapi . kriyāṃ samāpya madhyāhne rātraucetsakalaṃ budhaḥ .. 24.28 ..
तावत्कालं विनोदेव नीत्वा तत्तीर्थमाचरेथ् । पक्षन्त्रयोदशाहं वा दिनान्येकादश क्रमाथ् ॥ २४.२९ ॥
tāvatkālaṃ vinodeva nītvā tattīrthamācareth . pakṣantrayodaśāhaṃ vā dinānyekādaśa kramāth .. 24.29 ..
नवाहं वाथ सप्ताहं पञ्चाहमथ वा पुनः । त्रिदिनं द्विदिनं चैव कुर्यादेकाहमेव वा ॥ २४.३० ॥
navāhaṃ vātha saptāhaṃ pañcāhamatha vā punaḥ . tridinaṃ dvidinaṃ caiva kuryādekāhameva vā .. 24.30 ..
न ध्वजारोहणं कुर्यात्त्षहादौतु विशेषतः । उत्सवस्य दिनादौतु घोषये द्विधिपूर्वकं ॥ २४.३१ ॥
na dhvajārohaṇaṃ kuryāttṣahādautu viśeṣataḥ . utsavasya dinādautu ghoṣaye dvidhipūrvakaṃ .. 24.31 ..
घोषणादिवसात्पूर्यं कालयेदङ्कुरार्ऽपणं । ध्वजदण्डं ततोवक्ष्ये विप्रादीनां यथाक्रमं ॥ २४.३२ ॥
ghoṣaṇādivasātpūryaṃ kālayedaṅkurār'paṇaṃ . dhvajadaṇḍaṃ tatovakṣye viprādīnāṃ yathākramaṃ .. 24.32 ..
वेणुं च जातिवृक्षं च चंपकं क्रमुकं तथा । ध्वजदण्डार्थमाहृत्य सर्वेषां क्रमुकं तु वा ॥ २४.३३ ॥
veṇuṃ ca jātivṛkṣaṃ ca caṃpakaṃ kramukaṃ tathā . dhvajadaṇḍārthamāhṛtya sarveṣāṃ kramukaṃ tu vā .. 24.33 ..
अन्यैर्वाशुभवृक्षैर्वाकारयेदिति के च न । चतुर्विंशाङ्गुलं नाहं ध्वजदण्डमथोत्तमं ॥ २४.३४ ॥
anyairvāśubhavṛkṣairvākārayediti ke ca na . caturviṃśāṅgulaṃ nāhaṃ dhvajadaṇḍamathottamaṃ .. 24.34 ..
तस्मात्तु द्व्यङ्गुलं हीनं ध्वजदण्डन्तु मध्यमं । विंशत्यङ्गुलनाहे तदधमं दण्डमुच्यते ॥ २४.३५ ॥
tasmāttu dvyaṅgulaṃ hīnaṃ dhvajadaṇḍantu madhyamaṃ . viṃśatyaṅgulanāhe tadadhamaṃ daṇḍamucyate .. 24.35 ..
यथालाभपरीणाहमवक्रं परिगृह्य च । ध्वजदण्डमृजुं कुर्वाद्विमानसमयायतं ॥ २४.३६ ॥
yathālābhaparīṇāhamavakraṃ parigṛhya ca . dhvajadaṇḍamṛjuṃ kurvādvimānasamayāyataṃ .. 24.36 ..
विमानस्याधिकं कुर्यात्पादहीन मथार्ऽधकं । अध्यर्थं वाधिपादं वा मूलादग्रं क्रमात्कृशं ॥ २४.३७ ॥
vimānasyādhikaṃ kuryātpādahīna mathār'dhakaṃ . adhyarthaṃ vādhipādaṃ vā mūlādagraṃ kramātkṛśaṃ .. 24.37 ..
वेणुकं यदि संग्राह्यं भूतवेदांगुलायतं । षडङ्गुलपरीणाहं वेणुदण्डं सुसंस्थितं ॥ २४.३८ ॥
veṇukaṃ yadi saṃgrāhyaṃ bhūtavedāṃgulāyataṃ . ṣaḍaṅgulaparīṇāhaṃ veṇudaṇḍaṃ susaṃsthitaṃ .. 24.38 ..
तन्मध्ये द्वियमं हित्वा तन्मध्ये वलयं दृढं । तालद्वयमथायामं यममात्रन्तु विस्तृतं ॥ २४.३९ ॥
tanmadhye dviyamaṃ hitvā tanmadhye valayaṃ dṛḍhaṃ . tāladvayamathāyāmaṃ yamamātrantu vistṛtaṃ .. 24.39 ..
उत्सेधं भागमुद्दिष्टं दारुभिर्याज्ञिकैस्तुवा । तच्चतुर्थांशकं कृत्वा मूलेऽग्रेद्व्यंशकन्त्यजेथ् ॥ २४.४० ॥
utsedhaṃ bhāgamuddiṣṭaṃ dārubhiryājñikaistuvā . taccaturthāṃśakaṃ kṛtvā mūle'gredvyaṃśakantyajeth .. 24.40 ..
मध्ये द्व्यंशं तु कर्तव्यं सुषिरद्वयसंयुतं । शकलानि त्रीणियोज्य मूलमध्याग्रतःक्रमाथ् ॥ २४.४१ ॥
madhye dvyaṃśaṃ tu kartavyaṃ suṣiradvayasaṃyutaṃ . śakalāni trīṇiyojya mūlamadhyāgrataḥkramāth .. 24.41 ..
प्रक्षाल्यमूलमन्त्रेण तन्मन्त्रैःप्रोक्षणं चरेथ् । दशदर्भयुतं कूर्चमग्रेचैव तु योजयेथ् ॥ २४.४२ ॥
prakṣālyamūlamantreṇa tanmantraiḥprokṣaṇaṃ careth . daśadarbhayutaṃ kūrcamagrecaiva tu yojayeth .. 24.42 ..
दर्भमालान्तरावेष्ट्य दण्डोचाश्वद्थपत्रयुक् । मध्याङ्गुलिपरीणाहं दण्डद्विगुणमायतं ॥ २४.४३ ॥
darbhamālāntarāveṣṭya daṇḍocāśvadthapatrayuk . madhyāṅguliparīṇāhaṃ daṇḍadviguṇamāyataṃ .. 24.43 ..
दण्डाग्रे तत्र संयोज्य रज्जुं तत्रैव बन्धयेथ् । संव्यपोह्य चतुस्तालं पृष्ठे यूधाधिपस्यतु ॥ २४.४४ ॥
daṇḍāgre tatra saṃyojya rajjuṃ tatraiva bandhayeth . saṃvyapohya catustālaṃ pṛṣṭhe yūdhādhipasyatu .. 24.44 ..
खानयित्वा ध्वजस्थानं त्रितालं गाढयेव च । मेदिनीं तु समभ्यर्च्य रत्नं बीजानि च क्षिपेथ् ॥ २४.४५ ॥
khānayitvā dhvajasthānaṃ tritālaṃ gāḍhayeva ca . medinīṃ tu samabhyarcya ratnaṃ bījāni ca kṣipeth .. 24.45 ..
स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रविथ् । देवदेवं समीक्ष्यैव यष्टिं तत्प्र मुखे न्यसेथ् ॥ २४.४६ ॥
sthāpayitvā dhvajaṃ tatra dhvajamantreṇa mantravith . devadevaṃ samīkṣyaiva yaṣṭiṃ tatpra mukhe nyaseth .. 24.46 ..
ध्वजदण्डमृजुं कुर्याद्दृढं तत्रैव कारयेथ् । मूलं त्रितालमुत्सेधं तदध्यर्धन्तु विस्तृतं ॥ २४.४७ ॥
dhvajadaṇḍamṛjuṃ kuryāddṛḍhaṃ tatraiva kārayeth . mūlaṃ tritālamutsedhaṃ tadadhyardhantu vistṛtaṃ .. 24.47 ..
तदूर्ध्वे रत्निमात्रन्तु साष्टपत्रं सकर्णिकं । शुद्धकार्पासवस्त्रन्तु समाहृत्य नवं दृढं ॥ २४.४८ ॥
tadūrdhve ratnimātrantu sāṣṭapatraṃ sakarṇikaṃ . śuddhakārpāsavastrantu samāhṛtya navaṃ dṛḍhaṃ .. 24.48 ..
उत्तमं षोडशं हस्तं मध्यमं तिथिहस्तकं । अधमं चतुर्दशं हस्तं त्रिविधं वस्त्रमुच्यते ॥ २४.४९ ॥
uttamaṃ ṣoḍaśaṃ hastaṃ madhyamaṃ tithihastakaṃ . adhamaṃ caturdaśaṃ hastaṃ trividhaṃ vastramucyate .. 24.49 ..
पञ्चतालं चतुस्तालं त्रितालं विस्तृतं क्रमाथ् । अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ॥ २४.५० ॥
pañcatālaṃ catustālaṃ tritālaṃ vistṛtaṃ kramāth . agraṃ pādaṃ viditvā tu mukhaṃ pṛṣṭhaṃ tathaiva ca .. 24.50 ..
चतुर्भागं पटं कुर्यादेकभागं शिरो भवेथ् । वीशस्थानं द्विभागं तु पुच्छमेकांशमुच्यते ॥ २४.५१ ॥
caturbhāgaṃ paṭaṃ kuryādekabhāgaṃ śiro bhaveth . vīśasthānaṃ dvibhāgaṃ tu pucchamekāṃśamucyate .. 24.51 ..
मध्यमस्याग्रमूलं च यष्टिं सम्यक्प्रयोजयेथ् । तन्मध्ये तु लिखेद्वीशं पञ्चवर्णैरलङ्कृतं ॥ २४.५२ ॥
madhyamasyāgramūlaṃ ca yaṣṭiṃ samyakprayojayeth . tanmadhye tu likhedvīśaṃ pañcavarṇairalaṅkṛtaṃ .. 24.52 ..
ध्रुवबेरस्य कण्ठास्त मुत्तमे चोत्तमं भवेथ् । अधमेऽन्त्यन्तु नाभ्यन्तं तयोर्मध्येष्टधा भवेथ् ॥ २४.५३ ॥
dhruvaberasya kaṇṭhāsta muttame cottamaṃ bhaveth . adhame'ntyantu nābhyantaṃ tayormadhyeṣṭadhā bhaveth .. 24.53 ..
एकै मगथमान्तं च नवधा मानमुच्यते । ध्वजदण्डस्य वीशस्य षट्शुभानि निरीक्षयेथ् ॥ २४.५४ ॥
ekai magathamāntaṃ ca navadhā mānamucyate . dhvajadaṇḍasya vīśasya ṣaṭśubhāni nirīkṣayeth .. 24.54 ..
यजमानानुकूले च नक्षत्रे च विशेषतः । नवार्धतालमानं वा नवतालमथापि वा ॥ २४.५५ ॥
yajamānānukūle ca nakṣatre ca viśeṣataḥ . navārdhatālamānaṃ vā navatālamathāpi vā .. 24.55 ..
अतिभङ्गं नतं चैव भङ्गत्रयसमन्वितं । वामपादे समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ २४.५६ ॥
atibhaṅgaṃ nataṃ caiva bhaṅgatrayasamanvitaṃ . vāmapāde samākuñcya dakṣiṇaṃ saṃprasārya ca .. 24.56 ..
किञ्चित्संकुचितं पीठात्पर्ष्णीपार्श्वं समुद्धृतं । पक्षद्वयसमायुक्तं करण्डमुकुटान्वितं ॥ २४.५७ ॥
kiñcitsaṃkucitaṃ pīṭhātparṣṇīpārśvaṃ samuddhṛtaṃ . pakṣadvayasamāyuktaṃ karaṇḍamukuṭānvitaṃ .. 24.57 ..
श्यामं श्वेतं तथा कृष्णं रक्तं पीतं तथैव तु । एतैस्तु पञ्चभिर्वर्णैरनुरूपैस्तु शोभनैः ॥ २४.५८ ॥
śyāmaṃ śvetaṃ tathā kṛṣṇaṃ raktaṃ pītaṃ tathaiva tu . etaistu pañcabhirvarṇairanurūpaistu śobhanaiḥ .. 24.58 ..
गरुडं प्राञ्जलिं कुर्यात्किञ्चित्कं प्रेक्षयेद्बुधः । भूषणैरष्टनागैश्च वामहस्ते त्वनन्तकः ॥ २४.५९ ॥
garuḍaṃ prāñjaliṃ kuryātkiñcitkaṃ prekṣayedbudhaḥ . bhūṣaṇairaṣṭanāgaiśca vāmahaste tvanantakaḥ .. 24.59 ..
वासुकिर्यज्ञ सूत्रन्तु कटीसूत्रन्तु तक्षकं । हारं कर्कोटकं चैव पद्मं दक्षिणकर्णके ॥ २४.६० ॥
vāsukiryajña sūtrantu kaṭīsūtrantu takṣakaṃ . hāraṃ karkoṭakaṃ caiva padmaṃ dakṣiṇakarṇake .. 24.60 ..
महापद्मं वामकर्णे शङ्ख च शिरसि क्रमाथ् । गुलिकं दक्षिणे हस्ते क्रमात्सर्वविभूषणं ॥ २४.६१ ॥
mahāpadmaṃ vāmakarṇe śaṅkha ca śirasi kramāth . gulikaṃ dakṣiṇe haste kramātsarvavibhūṣaṇaṃ .. 24.61 ..
मूर्ध्नश्चोपरि कर्तव्यं श्वेतछत्रं तु सुन्दरं । पार्श्वयोरुभयोश्चापि चामरद्वय संयुतं ॥ २४.६२ ॥
mūrdhnaścopari kartavyaṃ śvetachatraṃ tu sundaraṃ . pārśvayorubhayoścāpi cāmaradvaya saṃyutaṃ .. 24.62 ..
पादपार्श्वद्वयेचैव दीपद्वय समन्वितं । पूर्णकुंभं तयोर्मध्ये लिखित्वा तु विशेषतः, ॥ २४.६३ ॥
pādapārśvadvayecaiva dīpadvaya samanvitaṃ . pūrṇakuṃbhaṃ tayormadhye likhitvā tu viśeṣataḥ, .. 24.63 ..
तस्याधस्शङ्खचक्रे च समालिख्य विशेषतः । मुक्तादामाद्यलङ्कृत्य पार्श्वयोः कदलीकृतं ॥ २४.६४ ॥
tasyādhasśaṅkhacakre ca samālikhya viśeṣataḥ . muktādāmādyalaṅkṛtya pārśvayoḥ kadalīkṛtaṃ .. 24.64 ..
पूर्वस्मिन्नेव दिवसे कृत्वा नयनमोक्षणं । देवालयस्याभिमुखे प्रपायां मण्डपे-थ वा ॥ २४.६५ ॥
pūrvasminneva divase kṛtvā nayanamokṣaṇaṃ . devālayasyābhimukhe prapāyāṃ maṇḍape-tha vā .. 24.65 ..
पञ्चवर्णैरलङ्कृत्य वितानस्तंभवेष्टनैः । शालिराशिं च कृत्वैव तत्पटन्तु सुसन्न्यसेथ् ॥ २४.६६ ॥
pañcavarṇairalaṅkṛtya vitānastaṃbhaveṣṭanaiḥ . śālirāśiṃ ca kṛtvaiva tatpaṭantu susannyaseth .. 24.66 ..
वास्तुहोमं ततःकृत्वा पर्यग्नीकरणं चरेथ् । पुण्याहं वाचयित्वैव प्रोक्षयेत्पञ्चगव्यकैः ॥ २४.६७ ॥
vāstuhomaṃ tataḥkṛtvā paryagnīkaraṇaṃ careth . puṇyāhaṃ vācayitvaiva prokṣayetpañcagavyakaiḥ .. 24.67 ..
ऐशान्यामग्निकुण्डे तु चौवासन विधानतः । आघारं विधिवद्धुत्वा वैष्णवं च सुहूयते ॥ २४.६८ ॥
aiśānyāmagnikuṇḍe tu cauvāsana vidhānataḥ . āghāraṃ vidhivaddhutvā vaiṣṇavaṃ ca suhūyate .. 24.68 ..
हैमपात्रस्थवर्णेन हैमतूल्या विशेषतः । तन्मन्त्रं च समुच्चार्य नयनोन्मिलनं चरेथ् ॥ २४.६९ ॥
haimapātrasthavarṇena haimatūlyā viśeṣataḥ . tanmantraṃ ca samuccārya nayanonmilanaṃ careth .. 24.69 ..
अङ्गहोमं ततःकृत्वा दर्शनीयैश्च दर्शयेथ् । विष्णुसूक्तं च हुत्वातु तथा पुरुषसूक्तकैः ॥ २४.७० ॥
aṅgahomaṃ tataḥkṛtvā darśanīyaiśca darśayeth . viṣṇusūktaṃ ca hutvātu tathā puruṣasūktakaiḥ .. 24.70 ..
व्याहृत्यंन्तं च हुत्वातु ततः कुंभं प्रगृह्यच । तन्तुना परिवेष्टै व कूर्चयुक्तं सहाक्षतं ॥ २४.७१ ॥
vyāhṛtyaṃntaṃ ca hutvātu tataḥ kuṃbhaṃ pragṛhyaca . tantunā pariveṣṭai va kūrcayuktaṃ sahākṣataṃ .. 24.71 ..
वदन्वै विष्णुगायत्रीं गायत्रीं गरुडस्य च । इषे त्वोर्ज्येऽत्वादि जपन्आप उन्दन्त्विऽति क्रमाथ् ॥ २४.७२ ॥
vadanvai viṣṇugāyatrīṃ gāyatrīṃ garuḍasya ca . iṣe tvorjye'tvādi japanāpa undantvi'ti kramāth .. 24.72 ..
ततः पुरुषसूक्तं च मन्त्रानपि च वैष्मवान् । कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ २४.७३ ॥
tataḥ puruṣasūktaṃ ca mantrānapi ca vaiṣmavān . kūrcenaiva tu tattoyamabhimṛśya samāhitaḥ .. 24.73 ..
तदंबुना कुशाग्रेण प्रोक्षणैः प्रोक्षणं चरेथ् । अपो हिरण्यवर्णाभिः पवमानादिभिस्त्रिभिः ॥ २४.७४ ॥
tadaṃbunā kuśāgreṇa prokṣaṇaiḥ prokṣaṇaṃ careth . apo hiraṇyavarṇābhiḥ pavamānādibhistribhiḥ .. 24.74 ..
शन्नो देवीऽरभीत्युक्त्वा पुरुषसूक्तेन वैष्णपैः । शुद्ध्यर्थं प्रोक्षयित्वा तु पुण्याहमपि वाचयेथ् ॥ २४.७५ ॥
śanno devī'rabhītyuktvā puruṣasūktena vaiṣṇapaiḥ . śuddhyarthaṃ prokṣayitvā tu puṇyāhamapi vācayeth .. 24.75 ..
परिषिच्य पावकं पश्चात्तन्मन्त्रेण सुहूयतां । सायमर्चावसाने तु कुंभपूजां समाचरेथ् ॥ २४.७६ ॥
pariṣicya pāvakaṃ paścāttanmantreṇa suhūyatāṃ . sāyamarcāvasāne tu kuṃbhapūjāṃ samācareth .. 24.76 ..
कलशैस्सप्तभिः प्रोक्ष्य बद्ध्वाप्रतिसरं ततः । अण्डजादीनि पञ्चैव धान्यान्यास्तीर्य वस्त्रयुक् ॥ २४.७७ ॥
kalaśaissaptabhiḥ prokṣya baddhvāpratisaraṃ tataḥ . aṇḍajādīni pañcaiva dhānyānyāstīrya vastrayuk .. 24.77 ..
शयने शाययेच्चैव देववादे शिरस्तथा । हौत्रं प्रशंस्य तत्काले होता हौत्रक्रमेण वै ॥ २४.७८ ॥
śayane śāyayeccaiva devavāde śirastathā . hautraṃ praśaṃsya tatkāle hotā hautrakrameṇa vai .. 24.78 ..
वैनतेयस्य मन्त्रेण तन्मूर्त्यावाहनं चरेथ् । मूर्तिमन्त्रैस्समावाह्य निरुप्याज्याहुतीर्यजेथ् ॥ २४.७९ ॥
vainateyasya mantreṇa tanmūrtyāvāhanaṃ careth . mūrtimantraissamāvāhya nirupyājyāhutīryajeth .. 24.79 ..
शतधारं कदाऽवीति वीशमन्त्रमुदाहृतं । तथाद्वादशपर्यायं वैष्णवं च सुहूयतां ॥ २४.८० ॥
śatadhāraṃ kadā'vīti vīśamantramudāhṛtaṃ . tathādvādaśaparyāyaṃ vaiṣṇavaṃ ca suhūyatāṃ .. 24.80 ..
व्याहृत्यन्तं च कृत्वा तु रात्रिशेषं व्यपोह्य च । आग्नेय्यां न्यस्य भेर्यां च नन्दिकेश्वरमाह्वयेथ् ॥ २४.८१ ॥
vyāhṛtyantaṃ ca kṛtvā tu rātriśeṣaṃ vyapohya ca . āgneyyāṃ nyasya bheryāṃ ca nandikeśvaramāhvayeth .. 24.81 ..
पुनः प्रभाते धर्मात्वास्नात्मास्नानविधानतः । मुहूर्ते समनुप्राप्ते हृदि बीजाक्षरं न्यसेथ् ॥ २४.८२ ॥
punaḥ prabhāte dharmātvāsnātmāsnānavidhānataḥ . muhūrte samanuprāpte hṛdi bījākṣaraṃ nyaseth .. 24.82 ..
कुंभाच्छक्तिं समावाह्यचार्ऽचयित्वा विधानतः । पुण्याहं वाचयित्वैव समभ्यर्च विवेदयेथ् ॥ २४.८३ ॥
kuṃbhācchaktiṃ samāvāhyacār'cayitvā vidhānataḥ . puṇyāhaṃ vācayitvaiva samabhyarca vivedayeth .. 24.83 ..
अग्निं प्रज्वाल्य तन्मन्त्रैर्जुहुयाद्दशशःक्रमाथ् । अन्तहोमं वाचयित्वैव समभ्यर्च्य निवेदयेथ् ॥ २४.८४ ॥
agniṃ prajvālya tanmantrairjuhuyāddaśaśaḥkramāth . antahomaṃ vācayitvaiva samabhyarcya nivedayeth .. 24.84 ..
उपलिप्य पटं पश्चात्पञ्चवर्णैरलङ्कृतं । धूपदीपैरलङ्कृत्य शालिपीधं प्रकल्पयेथ् ॥ २४.८५ ॥
upalipya paṭaṃ paścātpañcavarṇairalaṅkṛtaṃ . dhūpadīpairalaṅkṛtya śālipīdhaṃ prakalpayeth .. 24.85 ..
चतुरश्रं समं कृत्वा विस्तारं चैकभागकं । शाल्यर्धं तण्डुलं प्रोक्तं तदर्धं तिलमाहरेथ् ॥ २४.८६ ॥
caturaśraṃ samaṃ kṛtvā vistāraṃ caikabhāgakaṃ . śālyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ tilamāhareth .. 24.86 ..
चक्रं पश्चिमतो न्यस्य धान्यपीठोपरि स्थितं । तस्यैवोत्तरतः पार्श्वेविष्वक्सेनं तथैव च ॥ २४.८७ ॥
cakraṃ paścimato nyasya dhānyapīṭhopari sthitaṃ . tasyaivottarataḥ pārśveviṣvaksenaṃ tathaiva ca .. 24.87 ..
धान्यपीठे सुसंस्थाप्य गरुडं पश्चिमामुखं । न्यस्य भेरीं च पार्श्वे यष्टिं सुसन्न्यसेथ् ॥ २४.८८ ॥
dhānyapīṭhe susaṃsthāpya garuḍaṃ paścimāmukhaṃ . nyasya bherīṃ ca pārśve yaṣṭiṃ susannyaseth .. 24.88 ..
देवदेवं सुसंपूज्य द्विगुणं पूजयेत्ततः । द्विगुणं हविरेवोक्तं देवीभ्यां च तथा भवेथ् ॥ २४.८९ ॥
devadevaṃ susaṃpūjya dviguṇaṃ pūjayettataḥ . dviguṇaṃ havirevoktaṃ devībhyāṃ ca tathā bhaveth .. 24.89 ..
चक्रादीनां पृथक्कुर्यादासनादीन्पृथक्पृथक् । नन्दीश्वरं तथाभ्यर्च्य हविर्भिश्च निवेदयेथ् ॥ २४.९० ॥
cakrādīnāṃ pṛthakkuryādāsanādīnpṛthakpṛthak . nandīśvaraṃ tathābhyarcya havirbhiśca nivedayeth .. 24.90 ..
आचार्यो यष्टिमादाय "भूर्भुवस्सुवऽ रीरयन् । उप श्वासयऽ मन्त्रं च जप्त्वा भेरीं सुताडयेथ् ॥ २४.९१ ॥
ācāryo yaṣṭimādāya "bhūrbhuvassuva' rīrayan . upa śvāsaya' mantraṃ ca japtvā bherīṃ sutāḍayeth .. 24.91 ..
वादकस्तु शुचिर्भूत्वा वस्त्रमाल्याद्यलङ्कृतः । सर्ववाद्यसमायुक्तं भेरीमादाय शास्त्रविथ् ॥ २४.९२ ॥
vādakastu śucirbhūtvā vastramālyādyalaṅkṛtaḥ . sarvavādyasamāyuktaṃ bherīmādāya śāstravith .. 24.92 ..
शास्त्रोक्तेन विधानेन चक्राग्रेताडयेत्तदा । द्रोणैर्द्रेणार्धकैर्वापि आढकैर्वाथ तण्डुलैः ॥ २४.९३ ॥
śāstroktena vidhānena cakrāgretāḍayettadā . droṇairdreṇārdhakairvāpi āḍhakairvātha taṇḍulaiḥ .. 24.93 ..
पाचयित्वा कटाहेतु प्रक्षिपेद्बलिमुत्तमं । मुद्गनिष्पावतिल्वांश्च लाजापूपौप्रगृह्य च ॥ २४.९४ ॥
pācayitvā kaṭāhetu prakṣipedbalimuttamaṃ . mudganiṣpāvatilvāṃśca lājāpūpaupragṛhya ca .. 24.94 ..
कटाहे तु सुसन्न्यस्य शिष्यस्तं शिरसा वहेथ् । अभिवन्द्य ध्वचं पूर्वमादाय समलङ्कृतं ॥ २४.९५ ॥
kaṭāhe tu susannyasya śiṣyastaṃ śirasā vaheth . abhivandya dhvacaṃ pūrvamādāya samalaṅkṛtaṃ .. 24.95 ..
रथे वा शिबिकायां वा मन्त्रेणारोप्य मङ्गलैः । सह पुष्पं बलिं पात्रे संगृह्यानुगतं पुनः ॥ २४.९६ ॥
rathe vā śibikāyāṃ vā mantreṇāropya maṅgalaiḥ . saha puṣpaṃ baliṃ pātre saṃgṛhyānugataṃ punaḥ .. 24.96 ..
चक्रवीशामितान्पश्चान्नाथवद्गमयेत्तदा । आचार्यः पुरतो गत्वा सर्ववाद्यसमायुतं ॥ २४.९७ ॥
cakravīśāmitānpaścānnāthavadgamayettadā . ācāryaḥ purato gatvā sarvavādyasamāyutaṃ .. 24.97 ..
गर्भगेहस्थदेवानां ब्रह्मादीनां यथाक्रमं । द्वारेषु द्वारपालेभ्यो धामपालेभ्य एव च ॥ २४.९८ ॥
garbhagehasthadevānāṃ brahmādīnāṃ yathākramaṃ . dvāreṣu dvārapālebhyo dhāmapālebhya eva ca .. 24.98 ..
अन्येषां परिवाराणां स्वेस्वेस्थाने बलिं क्षिपेथ् । आलयस्य बहिर्गत्वा ग्रामे सर्वत्र घोषयेथ् ॥ २४.९९ ॥
anyeṣāṃ parivārāṇāṃ svesvesthāne baliṃ kṣipeth . ālayasya bahirgatvā grāme sarvatra ghoṣayeth .. 24.99 ..
मध्यमे चालयं यत्र ब्रह्मादीशान्तमाचरेथ् । यस्यां दिशि भवेद्धाम तद्दिगादि बलिं क्षिपेथ् ॥ २४.१०० ॥
madhyame cālayaṃ yatra brahmādīśāntamācareth . yasyāṃ diśi bhaveddhāma taddigādi baliṃ kṣipeth .. 24.100 ..
उत्सवभ्रमणं कुर्यात्प्रादक्षिण्यक्रमेण नै । ग्रामं गत्वातु संप्राप्य संधौ संधौ विशेषतः ॥ २४.१०१ ॥
utsavabhramaṇaṃ kuryātprādakṣiṇyakrameṇa nai . grāmaṃ gatvātu saṃprāpya saṃdhau saṃdhau viśeṣataḥ .. 24.101 ..
ध्यात्वा बुद्ध्वाधिपान्मन्त्री भूम्यामावाह्य पूर्ववथ् । अर्घ्यान्तं च समभ्यर्च्य मुष्ट्यन्नं नामभिर्ददेथ् ॥ २४.१०२ ॥
dhyātvā buddhvādhipānmantrī bhūmyāmāvāhya pūrvavath . arghyāntaṃ ca samabhyarcya muṣṭyannaṃ nāmabhirdadeth .. 24.102 ..
संधौ तत्संधिमादाय प्राच्यां भूतेभ्यऽइत्यपि । देवेभ्यो दक्षिणे पश्चा द्राक्षनेभ्यश्च पश्चिमे ॥ २४.१०३ ॥
saṃdhau tatsaṃdhimādāya prācyāṃ bhūtebhya'ityapi . devebhyo dakṣiṇe paścā drākṣanebhyaśca paścime .. 24.103 ..
नागेभ्यश्चोत्तरे चाथ ऊर्ध्वायां दिशि चक्रमाथ् । ये भूताऽइति मन्त्रेण पूर्वं दद्याज्जलं पुनः ॥ २४.१०४ ॥
nāgebhyaścottare cātha ūrdhvāyāṃ diśi cakramāth . ye bhūtā'iti mantreṇa pūrvaṃ dadyājjalaṃ punaḥ .. 24.104 ..
पुष्पं बलिं तथाधावं संदद्याच्चक्रसन्निधौ । यस्यां दिशि विमानं वा ब्रह्माद्येव बलिं ददेथ् ॥ २४.१०५ ॥
puṣpaṃ baliṃ tathādhāvaṃ saṃdadyāccakrasannidhau . yasyāṃ diśi vimānaṃ vā brahmādyeva baliṃ dadeth .. 24.105 ..
आचरेदथ वा तस्य दिगीशाद्यं बलिं क्रमाथ् । पश्चिमस्थ विमानं चेद्वरुणादि बलिं क्षिपेथ् ॥ २४.१०६ ॥
ācaredatha vā tasya digīśādyaṃ baliṃ kramāth . paścimastha vimānaṃ cedvaruṇādi baliṃ kṣipeth .. 24.106 ..
अथ वा ग्राममध्ये चेद्दत्वा ब्रह्मबलिं पुरः । ततोदिक्पालकानां च तथा भूतबलिं क्षिपेथ् ॥ २४.१०७ ॥
atha vā grāmamadhye ceddatvā brahmabaliṃ puraḥ . tatodikpālakānāṃ ca tathā bhūtabaliṃ kṣipeth .. 24.107 ..
दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः । संधिर्यदि भवेत्तत्र भूतानां च बलिं क्षिपेथ् ॥ २४.१०८ ॥
digīśayordvayormadhye mahāvīthyāṃ viśeṣataḥ . saṃdhiryadi bhavettatra bhūtānāṃ ca baliṃ kṣipeth .. 24.108 ..
संध्यन्तरगतां संधिमाचरेद्यदि मोहतः । कर्मणो वास्तुजातानामनर्धं भवति ध्रुवं ॥ २४.१०९ ॥
saṃdhyantaragatāṃ saṃdhimācaredyadi mohataḥ . karmaṇo vāstujātānāmanardhaṃ bhavati dhruvaṃ .. 24.109 ..
प्रागन्तं पश्चिमाद्यं च एकवीथिं च दण्डकं । कुर्यात्तत्रैव चक्राद्यैः पश्चिमाद्यं बलिं ततः ॥ २४.११० ॥
prāgantaṃ paścimādyaṃ ca ekavīthiṃ ca daṇḍakaṃ . kuryāttatraiva cakrādyaiḥ paścimādyaṃ baliṃ tataḥ .. 24.110 ..
वरुणनिरृति वायुभ्यः पश्चिमे तु बलिं तथा । धात्रे यमकुबेराभ्यां सधौ मध्ये बलिं क्षिपेथ् ॥ २४.१११ ॥
varuṇanirṛti vāyubhyaḥ paścime tu baliṃ tathā . dhātre yamakuberābhyāṃ sadhau madhye baliṃ kṣipeth .. 24.111 ..
इन्द्रवापकरुद्रेभ्यः प्राच्यां दद्यात्ततः क्रमाथ् । उदगन्तैकवीथिश्चेद्दक्षिणाद्यं बलिं क्षिपेथ् ॥ २४.११२ ॥
indravāpakarudrebhyaḥ prācyāṃ dadyāttataḥ kramāth . udagantaikavīthiśceddakṣiṇādyaṃ baliṃ kṣipeth .. 24.112 ..
यमनीलानलेभ्यश्च दक्षिणे मध्यमेऽपि च । ब्रह्मवारुण शक्रेभ्यश्चोत्तरे च बलिं तथा ॥ २४.११३ ॥
yamanīlānalebhyaśca dakṣiṇe madhyame'pi ca . brahmavāruṇa śakrebhyaścottare ca baliṃ tathā .. 24.113 ..
कुबिल पवने शेभ्यो बलिं दद्यात्क्रमेण च । नद्यादिषु विमानं चेत्परितः प्राङ्गणे ददेथ् ॥ २४.११४ ॥
kubila pavane śebhyo baliṃ dadyātkrameṇa ca . nadyādiṣu vimānaṃ cetparitaḥ prāṅgaṇe dadeth .. 24.114 ..
पूर्वं क्षिप्त्वा बलिं धीमान्पुनस्तस्य च तस्य च । मन्त्रमुच्चार्य पूर्वोक्तं गद्यपद्यैश्च घोषयेथ् ॥ २४.११५ ॥
pūrvaṃ kṣiptvā baliṃ dhīmānpunastasya ca tasya ca . mantramuccārya pūrvoktaṃ gadyapadyaiśca ghoṣayeth .. 24.115 ..
नगरादौ तु गद्यैश्च प्रशंस्योपांशुना बुधः । तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः ॥ २४.११६ ॥
nagarādau tu gadyaiśca praśaṃsyopāṃśunā budhaḥ . tattanmantraṃ samuccārya ghoṣayetpaṭahādibhiḥ .. 24.116 ..
प्रियतां भगवान्विष्णुस्सर्वलोकेश्वरो हरिः । ब्रह्मेशाभ्यां च सहितश्चोत्सवे नः प्रसीदतु ॥ २४.११७ ॥
priyatāṃ bhagavānviṣṇussarvalokeśvaro hariḥ . brahmeśābhyāṃ ca sahitaścotsave naḥ prasīdatu .. 24.117 ..
देवाश्च ऋषयस्सर्वे पितरश्च ग्रहादयः । विष्णुलोकगतास्सर्वेनानालोकनिवासिनः ॥ २४.११८ ॥
devāśca ṛṣayassarve pitaraśca grahādayaḥ . viṣṇulokagatāssarvenānālokanivāsinaḥ .. 24.118 ..
सर्वेन्ये देवतास्सर्वाः परिवारगणैस्सह । विश्वे ते विष्णुयागेऽर्स्मि समागच्छन्तु सादराः ॥ २४.११९ ॥
sarvenye devatāssarvāḥ parivāragaṇaissaha . viśve te viṣṇuyāge'rsmi samāgacchantu sādarāḥ .. 24.119 ..
हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनःऽ । इत्युक्त्वा घोषयेत्संधौ चक्रस्याभिमुखे पुनः ॥ २४.१२० ॥
havyaṃ baliṃ samādāya bhuñjantu śubhadāyinaḥ' . ityuktvā ghoṣayetsaṃdhau cakrasyābhimukhe punaḥ .. 24.120 ..
ब्रह्माद्यान्स्वस्वतालैश्च घोषयेद्वादकः पुनः । बलिमेवं च निर्वाप्य प्रदक्षिणव शेन तु, ॥ २४.१२१ ॥
brahmādyānsvasvatālaiśca ghoṣayedvādakaḥ punaḥ . balimevaṃ ca nirvāpya pradakṣiṇava śena tu, .. 24.121 ..
जपन्वै शाकुनं सूक्तं प्रविशेदालयं पुनः । बलिशिष्टं भूतपीठे "सर्वभूतेभ्यऽ इत्यपि ॥ २४.१२२ ॥
japanvai śākunaṃ sūktaṃ praviśedālayaṃ punaḥ . baliśiṣṭaṃ bhūtapīṭhe "sarvabhūtebhya' ityapi .. 24.122 ..
बलिं तत्तोयशेषं च प्रक्षिपेच्चक्रसन्निधौ । धामप्रदक्षिणं कृत्वा ध्वजाद्यैरनपायिभिः ॥ २४.१२३ ॥
baliṃ tattoyaśeṣaṃ ca prakṣipeccakrasannidhau . dhāmapradakṣiṇaṃ kṛtvā dhvajādyairanapāyibhiḥ .. 24.123 ..
शान्तं चक्रं च चत्स्थाने स्थापयेन्मतिमान्पुनः । ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रविथ् ॥ २४.१२४ ॥
śāntaṃ cakraṃ ca catsthāne sthāpayenmatimānpunaḥ . dhvajasthānaṃ praviśyaiva dhvajamādāya mantravith .. 24.124 ..
स्वस्ति दाऽइति मन्त्रेण बध्नीयाद्रज्जुना सह । मन्त्रेण मतिमान्पश्चात्प्राङ्मुखो वा प्युदङ्मुखः ॥ २४.१२५ ॥
svasti dā'iti mantreṇa badhnīyādrajjunā saha . mantreṇa matimānpaścātprāṅmukho vā pyudaṅmukhaḥ .. 24.125 ..
दण्डाग्रे योजयेत्पश्चाच्छङ्खकाहलसंयुतं । समाबद्ध्य पुनस्स्निग्धं भूरिऽसीति जपं स्ततः ॥ २४.१२६ ॥
daṇḍāgre yojayetpaścācchaṅkhakāhalasaṃyutaṃ . samābaddhya punassnigdhaṃ bhūri'sīti japaṃ stataḥ .. 24.126 ..
अभिमन्त्ष ध्वजं पश्चादासनाद्यैस्समर्चयेथ् । पुण्याहं वाचयेत्पश्चान्मुद्गान्नं तु ध्वजस्य च ॥ २४.१२७ ॥
abhimantṣa dhvajaṃ paścādāsanādyaissamarcayeth . puṇyāhaṃ vācayetpaścānmudgānnaṃ tu dhvajasya ca .. 24.127 ..
निवेद्य मुखवासं च प्रणाममपि कारयेथ् । तत्काले मौद्गिकं चान्नं गरुडस्य निवेदितं ॥ २४.१२८ ॥
nivedya mukhavāsaṃ ca praṇāmamapi kārayeth . tatkāle maudgikaṃ cānnaṃ garuḍasya niveditaṃ .. 24.128 ..
स्त्रियस्सत्बुत्रकामा स्तदश्नीयुर्भक्तिसंयुताः । आयष्मन्तं बलारोग्यवन्तं दान्तं सुलक्षणं ॥ २४.१२९ ॥
striyassatbutrakāmā stadaśnīyurbhaktisaṃyutāḥ . āyaṣmantaṃ balārogyavantaṃ dāntaṃ sulakṣaṇaṃ .. 24.129 ..
बुद्धिमन्तं यशोवन्तं प्रसूयेयुस्सुतं ध्रुवं । (ततन्तु तोषयेद्वीशं स्तोत्रैर्ध्यानयुतो गुरुः ॥ २४.१३० ॥
buddhimantaṃ yaśovantaṃ prasūyeyussutaṃ dhruvaṃ . (tatantu toṣayedvīśaṃ stotrairdhyānayuto guruḥ .. 24.130 ..
नमो नमस्ते पक्षीन्द्र स्वाऽध्यायवपुषे नमः । वाहनाय महाविष्णोस्तार्क्ष्यायामित तेजसे ॥ २४.१३१ ॥
namo namaste pakṣīndra svā'dhyāyavapuṣe namaḥ . vāhanāya mahāviṣṇostārkṣyāyāmita tejase .. 24.131 ..
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे । वैनतेय महाबाहो महाबल वयोऽधिप ॥ २४.१३२ ॥
garuḍāya namastubhyaṃ sarvasarpendramṛtyave . vainateya mahābāho mahābala vayo'dhipa .. 24.132 ..
विहगेन्द्र नमस्तेऽस्तु समुत्पाटीतकल्पक । आहृतामृतकुंभाय जननीदास्यमोचिने ॥ २४.१३३ ॥
vihagendra namaste'stu samutpāṭītakalpaka . āhṛtāmṛtakuṃbhāya jananīdāsyamocine .. 24.133 ..
सुरासुरेन्द्रजयिने नागेन्द्राबरणाय ते । यदाधारमिदं सर्वं तदाधाराय ते नमः ॥ २४.१३४ ॥
surāsurendrajayine nāgendrābaraṇāya te . yadādhāramidaṃ sarvaṃ tadādhārāya te namaḥ .. 24.134 ..
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयं । अक्षिणी चापि गायत्री त्रिवृत्साम शिरस्स्वयं ॥ २४.१३५ ॥
pakṣau yasya bṛhatsāma rathantaramapi dvayaṃ . akṣiṇī cāpi gāyatrī trivṛtsāma śirassvayaṃ .. 24.135 ..
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे । नमःप्राणादिवायूनामीशाय गरुडात्मने ॥ २४.१३६ ॥
stoma ātmā namastasmai vāmadevyāṅgasampade . namaḥprāṇādivāyūnāmīśāya garuḍātmane .. 24.136 ..
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसंपदा । निरस्तासुरसन्नाह समरे शत्रुसूदन ॥ २४.१३७ ॥
pakṣīndra pakṣavikṣepataraṅgānilasaṃpadā . nirastāsurasannāha samare śatrusūdana .. 24.137 ..
प्रतिष्ठितः पटे तुभ्यं नमःप्रणवमूर्तये । कर्मणां सिद्धिमाहूतः कुरुष्व विहगेश्वर ॥ २४.१३८ ॥
pratiṣṭhitaḥ paṭe tubhyaṃ namaḥpraṇavamūrtaye . karmaṇāṃ siddhimāhūtaḥ kuruṣva vihageśvara .. 24.138 ..
दोषानपनयास्माकं गुणानावह सर्वशः । विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि.ऽ ॥ २४.१३९ ॥
doṣānapanayāsmākaṃ guṇānāvaha sarvaśaḥ . vighnāni jahi sarvāṇi ātmasātkuru māmapi.' .. 24.139 ..
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः) । ध्वजस्यारोहणे यावत्तावस्मूर्त्या विशेषतः ॥ २४.१४० ॥
stutvaivaṃ gāruḍaṃ mantraṃ japedekāgramānasaḥ) . dhvajasyārohaṇe yāvattāvasmūrtyā viśeṣataḥ .. 24.140 ..
त्रिकालं वा द्विकालं वा एक कालमधापि वा । हविस्सम्यङ्निवेद्यैव सप्तविंशति विग्रहैः ॥ २४.१४१ ॥
trikālaṃ vā dvikālaṃ vā eka kālamadhāpi vā . havissamyaṅnivedyaiva saptaviṃśati vigrahaiḥ .. 24.141 ..
पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेथ् । जियमत्युच्छ्रयं धन्यं ध्वजंचेति ध्वजं तथा ॥ २४.१४२ ॥
pūjayitvā dhvajaṃ paścādrātrau bhūtabaliṃ kṣipeth . jiyamatyucchrayaṃ dhanyaṃ dhvajaṃceti dhvajaṃ tathā .. 24.142 ..
ध्वजमूले तथेन्द्रादीन्दण्डे ब्रह्माणमित्यपि । सूर्येन्द्वग्नींस्तु फलकत्रये यष्ट्यां सुदर्शनं ॥ २४.१४३ ॥
dhvajamūle tathendrādīndaṇḍe brahmāṇamityapi . sūryendvagnīṃstu phalakatraye yaṣṭyāṃ sudarśanaṃ .. 24.143 ..
वलये वानुकिं रज्ज्वां त्रिमूर्तीरर्चयेत्ततः । घण्टायां चैव ब्रह्माणं दर्भदाम्नि सरस्वतीं ॥ २४.१४४ ॥
valaye vānukiṃ rajjvāṃ trimūrtīrarcayettataḥ . ghaṇṭāyāṃ caiva brahmāṇaṃ darbhadāmni sarasvatīṃ .. 24.144 ..
इतिक्रमेण चावाह्य तन्मन्त्रैरर्चनं चरेथ् । ध्वजारोहणमारभ्य चोत्सवादिदिनादधः ॥ २४.१४५ ॥
itikrameṇa cāvāhya tanmantrairarcanaṃ careth . dhvajārohaṇamārabhya cotsavādidinādadhaḥ .. 24.145 ..
सायं प्रातश्च वूजान्ते ध्वजारोहणवद्बलिं । शिष्येण गुरुणा चाथ चक्रस्याभिमुखे तथा ॥ २४.१४६ ॥
sāyaṃ prātaśca vūjānte dhvajārohaṇavadbaliṃ . śiṣyeṇa guruṇā cātha cakrasyābhimukhe tathā .. 24.146 ..
नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेथ् । वीशामितौ विना धीमान्तीर्थान्तं सर्वरात्रिषु ॥ २४.१४७ ॥
nityaṃ rātrau viśeṣeṇa tathā bhūtabaliṃ kṣipeth . vīśāmitau vinā dhīmāntīrthāntaṃ sarvarātriṣu .. 24.147 ..
चक्रमेव नयेद्विद्वान्बलिरक्षणहेतवे । ध्वजस्यारोपणं यावत्तावन्नित्यं समाहितः ॥ २४.१४८ ॥
cakrameva nayedvidvānbalirakṣaṇahetave . dhvajasyāropaṇaṃ yāvattāvannityaṃ samāhitaḥ .. 24.148 ..
त्रिकालं वा द्विकालं वाप्येककालमथापि वा । पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेथ् ॥ २४.१४९ ॥
trikālaṃ vā dvikālaṃ vāpyekakālamathāpi vā . pūrvoktena krameṇaiva samabhyarcya nivedayeth .. 24.149 ..
ध्वजस्यारोहणं रात्रावपि कुर्वन्ति के च न । उत्सवारंभदिवसात्तत्र ये ग्रामवासिनः ॥ २४.१५० ॥
dhvajasyārohaṇaṃ rātrāvapi kurvanti ke ca na . utsavāraṃbhadivasāttatra ye grāmavāsinaḥ .. 24.150 ..
अन्यकार्यसमासक्तान गच्छेयुस्थ्सलान्तरं । गच्छेयुरथ वा तीर्थे निवर्तेयुरसंशयं ॥ २४.१५१ ॥
anyakāryasamāsaktāna gaccheyusthsalāntaraṃ . gaccheyuratha vā tīrthe nivarteyurasaṃśayaṃ .. 24.151 ..
बहिर्वीथ्यां तु तद्ग्रामे जनास्सर्वे तथैव च । तावान्न तेषां निर्बन्धस्समीपस्थेषु यस्स्मृतः ॥ २४.१५२ ॥
bahirvīthyāṃ tu tadgrāme janāssarve tathaiva ca . tāvānna teṣāṃ nirbandhassamīpastheṣu yassmṛtaḥ .. 24.152 ..
अहूतव्या उत्सवार्थे देवास्सम्यक्प्रकीर्तिताः । देवादीनां च सर्वेषां तेषां स्थानं प्रवक्ष्यते ॥ २४.१५३ ॥
ahūtavyā utsavārthe devāssamyakprakīrtitāḥ . devādīnāṃ ca sarveṣāṃ teṣāṃ sthānaṃ pravakṣyate .. 24.153 ..
इन्द्रादयो महादिक्षु विदिक्षु च समाश्रिताः । तथैकादश रुद्राश्च द्वादशाहस्करा अपि ॥ २४.१५४ ॥
indrādayo mahādikṣu vidikṣu ca samāśritāḥ . tathaikādaśa rudrāśca dvādaśāhaskarā api .. 24.154 ..
वसवस्स्युरथाष्टौ च ओङ्कारश्च वषट्कृतं । एते देवास्त्रयस्त्रिंशाः कथिता ब्रह्मणा पुरा ॥ २४.१५५ ॥
vasavassyurathāṣṭau ca oṅkāraśca vaṣaṭkṛtaṃ . ete devāstrayastriṃśāḥ kathitā brahmaṇā purā .. 24.155 ..
अश्विनावपि तत्रेति केचिदाहुर्मनीषिणः । त्रयस्त्रिंशद्देवतानां स्थानमैशान्यमुच्यते ॥ २४.१५६ ॥
aśvināvapi tatreti kecidāhurmanīṣiṇaḥ . trayastriṃśaddevatānāṃ sthānamaiśānyamucyate .. 24.156 ..
अपरे चापि कर्तव्या नदीपार्श्वे विशेषतः । अष्टादशगणानान्तु भुतपीठस्य दक्षिणे ॥ २४.१५७ ॥
apare cāpi kartavyā nadīpārśve viśeṣataḥ . aṣṭādaśagaṇānāntu bhutapīṭhasya dakṣiṇe .. 24.157 ..
देवाश्च ऋषयस्सर्वे पितरो दैत्यदानवाः । असुराश्चैव गन्धर्वा स्तथैवाप्सरपाङ्गणाः ॥ २४.१५८ ॥
devāśca ṛṣayassarve pitaro daityadānavāḥ . asurāścaiva gandharvā stathaivāpsarapāṅgaṇāḥ .. 24.158 ..
यक्षाश्च राक्षसाश्चैव नागाभूताः पिशाचकाः । अनावृष्टिगणाश्चैव तथामृतमुचां गणाः ॥ २४.१५९ ॥
yakṣāśca rākṣasāścaiva nāgābhūtāḥ piśācakāḥ . anāvṛṣṭigaṇāścaiva tathāmṛtamucāṃ gaṇāḥ .. 24.159 ..
मातरश्चैव रोहिण्यः सूर्या अष्टादश स्मृताः । अष्टादशगणाश्चैते प्रोक्ता वै देवयोनयः ॥ २४.१६० ॥
mātaraścaiva rohiṇyaḥ sūryā aṣṭādaśa smṛtāḥ . aṣṭādaśagaṇāścaite proktā vai devayonayaḥ .. 24.160 ..
अनुक्तानन्यदेवांश्च इन्द्रपार्श्वे समर्चयेथ् । देवानां चैव पत्नीश्च तत्तत्पार्श्वे समर्चयेथ् ॥ २४.१६१ ॥
anuktānanyadevāṃśca indrapārśve samarcayeth . devānāṃ caiva patnīśca tattatpārśve samarcayeth .. 24.161 ..
स्कन्दो विघ्नश्च दुर्गा च ज्येष्ठा चैव सरस्वती । तदालये बलिं दद्यात्प्राकारे चोत्तरेऽपि वा ॥ २४.१६२ ॥
skando vighnaśca durgā ca jyeṣṭhā caiva sarasvatī . tadālaye baliṃ dadyātprākāre cottare'pi vā .. 24.162 ..
परिवारोक्तदेशे तु रोहिण्यो मातरस्तथा । ऋषिपत्नीश्च तास्सप्त ऋषिभिस्सह चार्ऽचयेथ् ॥ २४.१६३ ॥
parivāroktadeśe tu rohiṇyo mātarastathā . ṛṣipatnīśca tāssapta ṛṣibhissaha cār'cayeth .. 24.163 ..
सिद्धान्विद्याधरांश्चैव गरुडगन्धर्वकिन्नरान् । किपूरुषांश्चारणान्देवान्महादिक्षु समर्चयेथ् ॥ २४.१६४ ॥
siddhānvidyādharāṃścaiva garuḍagandharvakinnarān . kipūruṣāṃścāraṇāndevānmahādikṣu samarcayeth .. 24.164 ..
भूतेभ्यश्चाथ यक्षेभ्यः पिशाचेभ्य स्तथैव च । राक्षसेभ्यश्च नागेभ्यस्संधौ संधौ बलिं ददेथ् ॥ २४.१६५ ॥
bhūtebhyaścātha yakṣebhyaḥ piśācebhya stathaiva ca . rākṣasebhyaśca nāgebhyassaṃdhau saṃdhau baliṃ dadeth .. 24.165 ..
राजवेश्माङ्गणे मध्ये इन्द्रं चैव समर्चयेथ् । तस्य दक्षिणपार्श्वे तु जयश्रीकीर्तीस्समर्चयेथ् ॥ २४.१६६ ॥
rājaveśmāṅgaṇe madhye indraṃ caiva samarcayeth . tasya dakṣiṇapārśve tu jayaśrīkīrtīssamarcayeth .. 24.166 ..
उत्सवार्थं विशेषेण संभारानाहरेत्ततः । रथं च शिबिकां चैव यन्त्रडोलादिकांस्तथा ॥ २४.१६७ ॥
utsavārthaṃ viśeṣeṇa saṃbhārānāharettataḥ . rathaṃ ca śibikāṃ caiva yantraḍolādikāṃstathā .. 24.167 ..
कारयित्वा च शिल्पोक्तं दीपानन्यान्प्रगृह्य च । भेर्यादीन्यपि वाद्यानि शङ्खकाहलकानि च ॥ २४.१६८ ॥
kārayitvā ca śilpoktaṃ dīpānanyānpragṛhya ca . bheryādīnyapi vādyāni śaṅkhakāhalakāni ca .. 24.168 ..
तालवृन्तं ध्वजानन्यान्छत्रचामरबर्हिणः । नर्तकान्गायकानन्यान्यथोक्तं पूर्वमाहरेथ् ॥ २४.१६९ ॥
tālavṛntaṃ dhvajānanyānchatracāmarabarhiṇaḥ . nartakāngāyakānanyānyathoktaṃ pūrvamāhareth .. 24.169 ..
आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च । परिचारान्समाहूय स्वस्वकर्म निवेदयेथ् ॥ २४.१७० ॥
ālayaṃ samalaṅkṛtya toraṇādyairvibhūṣya ca . paricārānsamāhūya svasvakarma nivedayeth .. 24.170 ..
मण्टपादीनि सर्वाणि प्रपादीनि च सर्वशः । आस्तानार्थं च नृत्यार्थं कारयेच्छिल्पशास्त्रविथ् ॥ २४.१७१ ॥
maṇṭapādīni sarvāṇi prapādīni ca sarvaśaḥ . āstānārthaṃ ca nṛtyārthaṃ kārayecchilpaśāstravith .. 24.171 ..
अव धूऽतेति मन्त्रेण ग्रामवीथीर्विशेषतः । विप्रा वेदविदश्शुद्धाश्शोधयेयुर्मनोरमं ॥ २४.१७२ ॥
ava dhū'teti mantreṇa grāmavīthīrviśeṣataḥ . viprā vedavidaśśuddhāśśodhayeyurmanoramaṃ .. 24.172 ..
आशासु सप्तऽइत्युक्त्वा गव्याद्यैः सर्वतश्शुभं । समभ्युक्ष्योपलिप्यैव तण्डुलानवकीरयेथ् ॥ २४.१७३ ॥
āśāsu sapta'ityuktvā gavyādyaiḥ sarvataśśubhaṃ . samabhyukṣyopalipyaiva taṇḍulānavakīrayeth .. 24.173 ..
कदलीपूगकुंभाद्यैरलङ्कुर्याद्गृहांगणं । वितानाद्यैर्विशेषेण फूषयेत्सर्वतश्शुभं ॥ २४.१७४ ॥
kadalīpūgakuṃbhādyairalaṅkuryādgṛhāṃgaṇaṃ . vitānādyairviśeṣeṇa phūṣayetsarvataśśubhaṃ .. 24.174 ..
तद्ग्रामवासिनः सर्वेऽलङ्कृता नान्यतत्पराः । नैमित्तिकादिकं हित्वा ध्यायेयुर्मनसा हरिं ॥ २४.१७५ ॥
tadgrāmavāsinaḥ sarve'laṅkṛtā nānyatatparāḥ . naimittikādikaṃ hitvā dhyāyeyurmanasā hariṃ .. 24.175 ..
तद्ग्रामसीमन्यन्तस्थ्सा नित्यकर्मक्रियां विना । नैमित्तिकानि काम्यानि तीर्थान्तं नाचरेद्बुधाः ॥ २४.१७६ ॥
tadgrāmasīmanyantasthsā nityakarmakriyāṃ vinā . naimittikāni kāmyāni tīrthāntaṃ nācaredbudhāḥ .. 24.176 ..
प्रवृत्ते चोत्सवे विष्णोस्स्ॐयमार्गेण वास्तुषु । अन्यदेवोत्सवं तत्र नाचरेदिति शासनं ॥ २४.१७७ ॥
pravṛtte cotsave viṣṇoss_oṃyamārgeṇa vāstuṣu . anyadevotsavaṃ tatra nācarediti śāsanaṃ .. 24.177 ..
अस्मिन्देवोत्सवे यागे तद्वास्तुषु विशेषतः । संकल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाचरेथ् ॥ २४.१७८ ॥
asmindevotsave yāge tadvāstuṣu viśeṣataḥ . saṃkalpya cottarāṃ vediṃ pravṛtte'nyāni nācareth .. 24.178 ..
यदि चेत्सर्वनाशस्स्यात्कर्ताभर्ता विनश्यति । तस्मात्परिहरेद्धीमान्तीर्थान्तं तेषु वान्तुषु ॥ २४.१७९ ॥
yadi cetsarvanāśassyātkartābhartā vinaśyati . tasmātparihareddhīmāntīrthāntaṃ teṣu vāntuṣu .. 24.179 ..
उत्सवादिदिनात्पूर्वं सप्तमे पञ्चमेऽथ वा । संस्नाप्य देवदेवेशमङ्कुरार्ऽपणमाचरेथ् ॥ २४.१८० ॥
utsavādidinātpūrvaṃ saptame pañcame'tha vā . saṃsnāpya devadeveśamaṅkurār'paṇamācareth .. 24.180 ..
इति श्रीवैखानसे भगवच्छास्ते भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्विंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāste bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In