| |
|

This overlay will guide you through the buttons:

अथ चतुस्त्रिंशोऽध्यायः
अथ चतुस्त्रिंशः अध्यायः
atha catustriṃśaḥ adhyāyaḥ
स्वयंव्यक्तादि स्थानपञ्चकम्.
अत ऊर्ध्वं प्रवक्ष्यामि स्थलपञ्चककल्पनं । देवदेवो महाबाहुर्हरिर्नारायणस्स्वयं ॥ ३४.१ ॥
अतस् ऊर्ध्वम् प्रवक्ष्यामि स्थल-पञ्चक-कल्पनम् । देवदेवः महा-बाहुः हरिः नारायणः स्वयम् ॥ ३४।१ ॥
atas ūrdhvam pravakṣyāmi sthala-pañcaka-kalpanam . devadevaḥ mahā-bāhuḥ hariḥ nārāyaṇaḥ svayam .. 34.1 ..
येन येन प्रकारेण आविरास्तेधरातले । अर्चावताररूपेण भक्तसौलभ्यहेतवे ॥ ३४.२ ॥
येन येन प्रकारेण आविरास्ते धरा-तले । अर्चा-अवतार-रूपेण भक्त-सौलभ्य-हेतवे ॥ ३४।२ ॥
yena yena prakāreṇa āvirāste dharā-tale . arcā-avatāra-rūpeṇa bhakta-saulabhya-hetave .. 34.2 ..
स्वयंव्यक्तं च दिव्यं च सैद्धं पौराणमेव च । पौरुषं चेति कथितं स्थलानां पञ्चकं बुधैः ॥ ३४.३ ॥
स्वयम् व्यक्तम् च दिव्यम् च सैद्धम् पौराणम् एव च । पौरुषम् च इति कथितम् स्थलानाम् पञ्चकम् बुधैः ॥ ३४।३ ॥
svayam vyaktam ca divyam ca saiddham paurāṇam eva ca . pauruṣam ca iti kathitam sthalānām pañcakam budhaiḥ .. 34.3 ..
स्वयंव्यक्तं तु तत्प्रोक्तं यत्रासौ हरिव्ययः । स्वेच्छया लोकरक्षाये भूम्यामाविर्भवेत्स्वयं ॥ ३४.४ ॥
स्वयम् व्यक्तम् तु तत् प्रोक्तम् यत्र असौ हरि-व्ययः । स्व-इच्छया लोक-रक्षाये भूम्याम् आविर्भवेत् स्वयम् ॥ ३४।४ ॥
svayam vyaktam tu tat proktam yatra asau hari-vyayaḥ . sva-icchayā loka-rakṣāye bhūmyām āvirbhavet svayam .. 34.4 ..
न तत्र देवदेवस्य प्रतिष्ठा विधिसम्मता । न चापि कर्षणं नापि बिंबशुद्ध्यादिकाः क्रियाः ॥ ३४.५ ॥
न तत्र देवदेवस्य प्रतिष्ठा विधि-सम्मता । न च अपि कर्षणम् ना अपि बिंबशुद्धि-आदिकाः क्रियाः ॥ ३४।५ ॥
na tatra devadevasya pratiṣṭhā vidhi-sammatā . na ca api karṣaṇam nā api biṃbaśuddhi-ādikāḥ kriyāḥ .. 34.5 ..
बिंबेन सह देवेशस्सन्निधत्ते यतस्स्वयं । यानदिच्छा वसेद्भूमौ तावत्कालं समर्चितः ॥ ३४.६ ॥
बिंबेन सह देवेशः सन्निधत्ते यतस् स्वयम् । वसेत् भूमौ तावत्-कालम् समर्चितः ॥ ३४।६ ॥
biṃbena saha deveśaḥ sannidhatte yatas svayam . vaset bhūmau tāvat-kālam samarcitaḥ .. 34.6 ..
स्वयंव्यक्तस्थले पूजा सर्वलोकशुभप्रदा । स्वयंव्यक्तस्थलान्यत्र चत्वार्यासत भूतले ॥ ३४.७ ॥
सर्व । स्वयम् व्यक्त-स्थलानि अत्र चत्वारि आसत भू-तले ॥ ३४।७ ॥
sarva . svayam vyakta-sthalāni atra catvāri āsata bhū-tale .. 34.7 ..
यत्र वैखानसं शास्त्रमाश्रित्य परमं शुभं । अर्चयामो जगद्योनिमहमन्ये च ते त्रयः ॥ ३४.८ ॥
यत्र वैखानसम् शास्त्रम् आश्रित्य परमम् शुभम् । अर्चयामः जगद्योनिम् अहम् अन्ये च ते त्रयः ॥ ३४।८ ॥
yatra vaikhānasam śāstram āśritya paramam śubham . arcayāmaḥ jagadyonim aham anye ca te trayaḥ .. 34.8 ..
मरीचिर्मन्धरे विष्णुमर्चयामास केशवं । सर्वदेवोत्तमं देवं श्रीनिवासेऽत्रिरर्चयथ् ॥ ३४.९ ॥
मरीचिः मन्धरे विष्णुम् अर्चयामास केशवम् । सर्व-देव-उत्तमम् देवम् श्रीनिवासे अत्रिः अर्चयथ् ॥ ३४।९ ॥
marīciḥ mandhare viṣṇum arcayāmāsa keśavam . sarva-deva-uttamam devam śrīnivāse atriḥ arcayath .. 34.9 ..
काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रेऽप्यहं भृगुः । यादृशीवर्तते पूजा या बिंबानां च संस्थितिः ॥ ३४.१० ॥
काश्यपः विष्णु-अधिष्ठाने शुभ-क्षेत्रे अपि अहम् भृगुः । पूजा या बिंबानाम् च संस्थितिः ॥ ३४।१० ॥
kāśyapaḥ viṣṇu-adhiṣṭhāne śubha-kṣetre api aham bhṛguḥ . pūjā yā biṃbānām ca saṃsthitiḥ .. 34.10 ..
न किं चित्तामतिक्रम्य पूर्वोक्तां तु समाचरेथ् । स्वयमाविरभूद्देवो यत्र भक्तानुकंपया ॥ ३४.११ ॥
न किम् चित् ताम् अतिक्रम्य पूर्व-उक्ताम् तु समाचरेथ् । स्वयम् आविरभूत् देवः यत्र भक्त-अनुकंपया ॥ ३४।११ ॥
na kim cit tām atikramya pūrva-uktām tu samācareth . svayam āvirabhūt devaḥ yatra bhakta-anukaṃpayā .. 34.11 ..
कर्तव्यमखिलं तत्र तन्निदेशेन कल्प्यते । न वाप्युच्छास्त्रकरणं प्रवर्तयति माधवं ॥ ३४.१२ ॥
कर्तव्यम् अखिलम् तत्र तद्-निदेशेन कल्प्यते । न वा अपि उच्छास्त्र-करणम् प्रवर्तयति माधवम् ॥ ३४।१२ ॥
kartavyam akhilam tatra tad-nideśena kalpyate . na vā api ucchāstra-karaṇam pravartayati mādhavam .. 34.12 ..
तस्मात्सर्वप्रयत्नेन पूर्वैराचरितं चरेथ् । अन्यथा चेत्तु कुर्वाणो देवायैवापराध्यति ॥ ३४.१३ ॥
तस्मात् सर्व-प्रयत्नेन पूर्वैः आचरितम् चरेथ् । अन्यथा चेद् तु कुर्वाणः देवाय एव अपराध्यति ॥ ३४।१३ ॥
tasmāt sarva-prayatnena pūrvaiḥ ācaritam careth . anyathā ced tu kurvāṇaḥ devāya eva aparādhyati .. 34.13 ..
यन्मायामोहितं सर्वं यस्यान्तं केऽपि नो विदुः । तस्य देवस्य माहात्म्यं वक्तुं शक्नोति को भुवि ॥ ३४.१४ ॥
यत् माया-मोहितम् सर्वम् यस्य अन्तम् के अपि नो विदुः । तस्य देवस्य माहात्म्यम् वक्तुम् शक्नोति कः भुवि ॥ ३४।१४ ॥
yat māyā-mohitam sarvam yasya antam ke api no viduḥ . tasya devasya māhātmyam vaktum śaknoti kaḥ bhuvi .. 34.14 ..
यद्यदा चरितं तत्र तत्सर्वं शास्त्रमेव हि । तत्रापि च विशेषोऽस्ति प्रायश्चित्तादिदर्शने ॥ ३४.१५ ॥
यत् यदा चरितम् तत्र तत् सर्वम् शास्त्रम् एव हि । तत्र अपि च विशेषः अस्ति प्रायश्चित्त-आदि-दर्शने ॥ ३४।१५ ॥
yat yadā caritam tatra tat sarvam śāstram eva hi . tatra api ca viśeṣaḥ asti prāyaścitta-ādi-darśane .. 34.15 ..
सर्वं प्रामादिकं कुर्यात्तत्र शास्त्रं प्रवर्तकं । श्रुतिस्मृती उभेतस्य परमाज्ञां वदन्ति ही ॥ ३४.१६ ॥
सर्वम् प्रामादिकम् कुर्यात् तत्र शास्त्रम् प्रवर्तकम् । श्रुति-स्मृती उभा इतस्य परम-आज्ञाम् वदन्ति ही ॥ ३४।१६ ॥
sarvam prāmādikam kuryāt tatra śāstram pravartakam . śruti-smṛtī ubhā itasya parama-ājñām vadanti hī .. 34.16 ..
स्वयंव्यक्तस्थले पूजा सर्वलोकशूभावहा । स्वयं व्यक्तो जगन्नाथस्तादात्म्येन शिलादिषु ॥ ३४.१७ ॥
सर्व । स्वयम् व्यक्तः जगन्नाथः तादात्म्येन शिला-आदिषु ॥ ३४।१७ ॥
sarva . svayam vyaktaḥ jagannāthaḥ tādātmyena śilā-ādiṣu .. 34.17 ..
स्वयं भक्तजनाभीष्टान्विचार्यैव प्रयच्छति । न ह्यत्र साधनापेक्षा स्वयंन्यक्तस्ततो वरः ॥ ३४.१८ ॥
स्वयम् भक्त-जन-अभीष्टान् विचार्य एव प्रयच्छति । न हि अत्र साधन-अपेक्षा स्वयम् न्यक्तः ततस् वरः ॥ ३४।१८ ॥
svayam bhakta-jana-abhīṣṭān vicārya eva prayacchati . na hi atra sādhana-apekṣā svayam nyaktaḥ tatas varaḥ .. 34.18 ..
देवैः प्रतिष्ठितो यत्र हरिराविर्बभूव हि । तद्दिद्यस्थलमुद्दिष्टं देवो दिव्य उदीर्यते ॥ ३४.१९ ॥
देवैः प्रतिष्ठितः यत्र हरिः आविर्बभूव हि । तत् दिद्यस्थलम् उद्दिष्टम् देवः दिव्यः उदीर्यते ॥ ३४।१९ ॥
devaiḥ pratiṣṭhitaḥ yatra hariḥ āvirbabhūva hi . tat didyasthalam uddiṣṭam devaḥ divyaḥ udīryate .. 34.19 ..
स्मृता देवास्त्रयस्त्रिंशत्तावत्कोटीमिता अपि । सर्वे ते फलकामास्स्युर्वे प्रपद्यन्ते यथा हरिं ॥ ३४.२० ॥
स्मृताः देवाः त्रयस्त्रिंशत् तावत्-कोटी-मिताः अपि । सर्वे ते फल-कामाः स्युः वे प्रपद्यन्ते यथा हरिम् ॥ ३४।२० ॥
smṛtāḥ devāḥ trayastriṃśat tāvat-koṭī-mitāḥ api . sarve te phala-kāmāḥ syuḥ ve prapadyante yathā harim .. 34.20 ..
तांस्तथा भजते देवो यतोऽसौ करुणानिधिः । फलार्थिनो यदा देवाः प्रतिष्ठ्याप्य हरिं क्रमाथ् ॥ ३४.२१ ॥
तान् तथा भजते देवः यतस् असौ करुणा-निधिः । फल-अर्थिनः यदा देवाः हरिम् ॥ ३४।२१ ॥
tān tathā bhajate devaḥ yatas asau karuṇā-nidhiḥ . phala-arthinaḥ yadā devāḥ harim .. 34.21 ..
समभ्यर्च्य च संप्राप्य वांभितं तदनन्तरं । लोकानुग्रहहेतोर्वै तादृशं देवमन्दिरं ॥ ३४.२२ ॥
समभ्यर्च्य च संप्राप्य वांभितम् तद्-अनन्तरम् । लोक-अनुग्रह-हेतोः वै तादृशम् देव-मन्दिरम् ॥ ३४।२२ ॥
samabhyarcya ca saṃprāpya vāṃbhitam tad-anantaram . loka-anugraha-hetoḥ vai tādṛśam deva-mandiram .. 34.22 ..
चिरस्थायि च संकल्प्य यथार्हं समपूजयन् । दिव्यस्थलस्थदेवो हि देवानां सन्निधापनाथ् ॥ ३४.२३ ॥
चिर-स्थायि च संकल्प्य यथार्हम् समपूजयन् । दिव्य-स्थल-स्थ-देवः हि देवानाम् सन्निधापनाथ् ॥ ३४।२३ ॥
cira-sthāyi ca saṃkalpya yathārham samapūjayan . divya-sthala-stha-devaḥ hi devānām sannidhāpanāth .. 34.23 ..
अत्यन्तं पुष्टिवः प्रोक्तस्सर्वशान्तिकरस्सृतः । दिव्यस्थलस्थपूजा तु शतयोजनविस्तृतं ॥ ३४.२४ ॥
अत्यन्तम् पुष्टिवः प्रोक्तः सर्व-शान्ति-करः सृतः । तु शत-योजन-विस्तृतम् ॥ ३४।२४ ॥
atyantam puṣṭivaḥ proktaḥ sarva-śānti-karaḥ sṛtaḥ . tu śata-yojana-vistṛtam .. 34.24 ..
पुनाति परितो देशं नात्र संदेह इष्यते । दिव्यस्थलानि कथितान्यसंख्येयानि भूतले ॥ ३४.२५ ॥
पुनाति परितस् देशम् न अत्र संदेहः इष्यते । दिव्य-स्थलानि कथितानि असंख्येयानि भू-तले ॥ ३४।२५ ॥
punāti paritas deśam na atra saṃdehaḥ iṣyate . divya-sthalāni kathitāni asaṃkhyeyāni bhū-tale .. 34.25 ..
न हि देवास्स्वयं भूमाववतीर्य कलौ क्वचिथ् । प्रतिष्ठां देवदेवस्य कुर्वन्ति कुहिचिद्ध्रुवं ॥ ३४.२६ ॥
न हि देवाः स्वयम् भूमौ अवतीर्य कलौ । प्रतिष्ठाम् देवदेवस्य कुर्वन्ति कुहिचिद् ध्रुवम् ॥ ३४।२६ ॥
na hi devāḥ svayam bhūmau avatīrya kalau . pratiṣṭhām devadevasya kurvanti kuhicid dhruvam .. 34.26 ..
दिव्यस्थलानि भूभागे कलौ तु विरलानि वै । भविष्यन्ति बहून्यत्र लुप्तबूजानि सत्तमाः ॥ ३४.२७ ॥
दिव्य-स्थलानि भू-भागे कलौ तु विरलानि वै । भविष्यन्ति बहूनि अत्र लुप्त-बूजानि सत्तमाः ॥ ३४।२७ ॥
divya-sthalāni bhū-bhāge kalau tu viralāni vai . bhaviṣyanti bahūni atra lupta-būjāni sattamāḥ .. 34.27 ..
दिव्यस्थलकृता पूजा शास्त्रसिद्धा न संशयः । नोच्छास्त्रं तु प्रतिष्ठादि कुर्वन्तिदिवि देवताः ॥ ३४.२८ ॥
दिव्य-स्थल-कृता पूजा शास्त्र-सिद्धा न संशयः । न उच्छास्त्रम् तु प्रतिष्ठा-आदि कुर्वन्ति दिवि देवताः ॥ ३४।२८ ॥
divya-sthala-kṛtā pūjā śāstra-siddhā na saṃśayaḥ . na ucchāstram tu pratiṣṭhā-ādi kurvanti divi devatāḥ .. 34.28 ..
देवाश्च देवलोकेऽपि कृत्वा वैष्णवमन्दिरं । आराध्य च जगन्नाथं प्राप्नुवन्ति फलं बहु ॥ ३४.२९ ॥
देवाः च देव-लोके अपि कृत्वा वैष्णव-मन्दिरम् । आराध्य च जगन्नाथम् प्राप्नुवन्ति फलम् बहु ॥ ३४।२९ ॥
devāḥ ca deva-loke api kṛtvā vaiṣṇava-mandiram . ārādhya ca jagannātham prāpnuvanti phalam bahu .. 34.29 ..
या तु भूमितले पूजा तादृशी दिविजा न वै । कर्मभूमिस्तु संप्रोक्ता भूमिर्द्यैर्न हि तत्समा ॥ ३४.३० ॥
या तु भूमि-तले पूजा तादृशी दिविजाः न वै । कर्म-भूमिः तु संप्रोक्ता भूमिः द्यैः न हि तद्-समा ॥ ३४।३० ॥
yā tu bhūmi-tale pūjā tādṛśī divijāḥ na vai . karma-bhūmiḥ tu saṃproktā bhūmiḥ dyaiḥ na hi tad-samā .. 34.30 ..
संचिन्त्य पुण्यं पापं वा भूमौ लोकान्तरेनराः । गमिष्यन्तिततो ज्यायान्भूभागस्सर्वकर्मसु ॥ ३४.३१ ॥
संचिन्त्य पुण्यम् पापम् वा भूमौ लोक-अन्तरे नराः । गमिष्यन्ति ततस् ज्यायान् भू-भागः सर्व-कर्मसु ॥ ३४।३१ ॥
saṃcintya puṇyam pāpam vā bhūmau loka-antare narāḥ . gamiṣyanti tatas jyāyān bhū-bhāgaḥ sarva-karmasu .. 34.31 ..
ततो देवाः प्रतिष्ठाप्य चार्चयित्वा रमापतिं । अर्चावताररूपेण स्वयं तीर्णाः पुनः पुनः ॥ ३४.३२ ॥
ततस् देवाः प्रतिष्ठाप्य च अर्चयित्वा रमापतिम् । अर्चा-अवतार-रूपेण स्वयम् तीर्णाः पुनर् पुनर् ॥ ३४।३२ ॥
tatas devāḥ pratiṣṭhāpya ca arcayitvā ramāpatim . arcā-avatāra-rūpeṇa svayam tīrṇāḥ punar punar .. 34.32 ..
भूमिस्थानखिलान्जन्तून्तार्ययिष्यन्त्यनुग्रहाथ् । अतो विप्रास्सदा यज्ञैर्दानैश्च तपसा मुहुः ॥ ३४.३३ ॥
भूमि-स्थान् अखिलान् जन्तून् तार्ययिष्यन्ति अनुग्रहाः । अतस् विप्राः सदा यज्ञैः दानैः च तपसा मुहुर् ॥ ३४।३३ ॥
bhūmi-sthān akhilān jantūn tāryayiṣyanti anugrahāḥ . atas viprāḥ sadā yajñaiḥ dānaiḥ ca tapasā muhur .. 34.33 ..
तोषयिष्यन्ति देवान्वै तेषामानृण्यहेतवे । देवा निसर्गरिपवो मनुष्येषु भवन्त्यपि ॥ ३४.३४ ॥
तोषयिष्यन्ति देवान् वै तेषाम् आनृण्य-हेतवे । देवाः निसर्ग-रिपवः मनुष्येषु भवन्ति अपि ॥ ३४।३४ ॥
toṣayiṣyanti devān vai teṣām ānṛṇya-hetave . devāḥ nisarga-ripavaḥ manuṣyeṣu bhavanti api .. 34.34 ..
आराधनेन देवस्य चोपकुर्वन्ति मानवान् । इदमेव हरेः पूजाबलं संपादितं फलं ॥ ३४.३५ ॥
आराधनेन देवस्य च उपकुर्वन्ति मानवान् । इदम् एव हरेः पूजा-बलम् संपादितम् फलम् ॥ ३४।३५ ॥
ārādhanena devasya ca upakurvanti mānavān . idam eva hareḥ pūjā-balam saṃpāditam phalam .. 34.35 ..
सर्वेऽपि सात्त्विका यान्ति तुष्यन्ति स्वार्जितैः फलैः । न द्विष्यन्ति रिपून्वापि तत्रो दाहरणं सुराः ॥ ३४.३६ ॥
सर्वे अपि सात्त्विकाः यान्ति तुष्यन्ति स्व-अर्जितैः फलैः । न द्विष्यन्ति रिपून् वा अपि तत्र उ दाह-रणम् सुराः ॥ ३४।३६ ॥
sarve api sāttvikāḥ yānti tuṣyanti sva-arjitaiḥ phalaiḥ . na dviṣyanti ripūn vā api tatra u dāha-raṇam surāḥ .. 34.36 ..
यथा च्यवनधर्मा स्यात्स्वर्गस्स्वर्गाश्रितोऽथ वा । तथादिन्यस्थलानिह न स्युश्शाश्वतिकानि तु ॥ ३४.३७ ॥
यथा च्यवन-धर्मा स्यात् स्वर्गः स्वर्ग-आश्रितः अथ वा । न स्युः शाश्वतिकानि तु ॥ ३४।३७ ॥
yathā cyavana-dharmā syāt svargaḥ svarga-āśritaḥ atha vā . na syuḥ śāśvatikāni tu .. 34.37 ..
दिव्यस्थलेषु सर्वत्र दिव्येनैवागमेन तु । वैखानसेन पूजासीत्साहि श्रौती च सम्मता ॥ ३४.३८ ॥
दिव्य-स्थलेषु सर्वत्र दिव्येन एव आगमेन तु । वैखानसेन पूजा आसीत् सा हि श्रौती च सम्मता ॥ ३४।३८ ॥
divya-sthaleṣu sarvatra divyena eva āgamena tu . vaikhānasena pūjā āsīt sā hi śrautī ca sammatā .. 34.38 ..
प्रायश्चित्तोचितान्यत्र निमित्तानि यदातदा । शास्त्रोक्तं कारयेदेव नान्यथा कारयेद्विधिः ॥ ३४.३९ ॥
प्रायश्चित्त-उचितानि अत्र निमित्तानि यदा तदा । शास्त्र-उक्तम् कारयेत् एव न अन्यथा कारयेत् विधिः ॥ ३४।३९ ॥
prāyaścitta-ucitāni atra nimittāni yadā tadā . śāstra-uktam kārayet eva na anyathā kārayet vidhiḥ .. 34.39 ..
ये तु पूर्वार्जितैरेव तपोभिः परमात्मनि । रक्तात्मानस्तपस्सिद्धास्संकल्प्य स्वतपःफलं ॥ ३४.४० ॥
ये तु पूर्व-अर्जितैः एव तपोभिः परमात्मनि । रक्त-आत्मानः तपः-सिद्धाः संकल्प्य स्व-तपः-फलम् ॥ ३४।४० ॥
ye tu pūrva-arjitaiḥ eva tapobhiḥ paramātmani . rakta-ātmānaḥ tapaḥ-siddhāḥ saṃkalpya sva-tapaḥ-phalam .. 34.40 ..
देवदेवं जगन्नाथं नारायणमनायं । प्रतिष्ठाप्य क्वचिद्बिंबे समभ्यर्च्य विशेषतः ॥ ३४.४१ ॥
देवदेवम् जगन्नाथम् नारायणम् अनायम् । प्रतिष्ठाप्य क्वचिद् बिंबे समभ्यर्च्य विशेषतः ॥ ३४।४१ ॥
devadevam jagannātham nārāyaṇam anāyam . pratiṣṭhāpya kvacid biṃbe samabhyarcya viśeṣataḥ .. 34.41 ..
उज्जीवनाय लाकानां प्रदास्यन्तीह पूजनं । स देशस्सैद्ध इत्युक्तस्सैद्धा तत्रार्चनोच्यते ॥ ३४.४२ ॥
उज्जीवनाय लाकानाम् प्रदास्यन्ति इह पूजनम् । स देशः सैद्धः इति उक्तः सैद्धा तत्र अर्चना उच्यते ॥ ३४।४२ ॥
ujjīvanāya lākānām pradāsyanti iha pūjanam . sa deśaḥ saiddhaḥ iti uktaḥ saiddhā tatra arcanā ucyate .. 34.42 ..
न हि सिद्धास्तपस्सिद्धिं कुर्वन्ति विभलां क्वचिथ् । यस्यानुग्रहमिच्छन्तस्तपस्यन्तीह साधवः ॥ ३४.४३ ॥
न हि सिद्धाः तपः-सिद्धिम् कुर्वन्ति । यस्य अनुग्रहम् इच्छन्तः तपस्यन्ति इह साधवः ॥ ३४।४३ ॥
na hi siddhāḥ tapaḥ-siddhim kurvanti . yasya anugraham icchantaḥ tapasyanti iha sādhavaḥ .. 34.43 ..
यं प्रसादयितुं विप्रा यज्ञदानादि कुर्वते । तस्यैवाराधनं हित्वा किं सिद्धास्संप्रकुर्वते ॥ ३४.४४ ॥
यम् प्रसादयितुम् विप्राः यज्ञ-दान-आदि कुर्वते । तस्य एव आराधनम् हित्वा किम् सिद्धाः संप्रकुर्वते ॥ ३४।४४ ॥
yam prasādayitum viprāḥ yajña-dāna-ādi kurvate . tasya eva ārādhanam hitvā kim siddhāḥ saṃprakurvate .. 34.44 ..
ते सिद्धास्ते महात्मानस्ते सन्त न्ते तपस्विनः । ये स्वकर्मफलं देवं विदित्वा श्रीपतिं हरिं ॥ ३४.४५ ॥
ते सिद्धाः ते महात्मानः ते तपस्विनः । ये स्व-कर्म-फलम् देवम् विदित्वा श्रीपतिम् हरिम् ॥ ३४।४५ ॥
te siddhāḥ te mahātmānaḥ te tapasvinaḥ . ye sva-karma-phalam devam viditvā śrīpatim harim .. 34.45 ..
प्रतिष्ठाप्य तु तद्रूपमर्चयन्ति निरन्तरं । न ह्यन्यः प्रापणे हेतुरर्चनान्मुक्तिहेतवे ॥ ३४.४६ ॥
प्रतिष्ठाप्य तु तद्-रूपम् अर्चयन्ति निरन्तरम् । न हि अन्यः प्रापणे हेतुः अर्चनात् मुक्ति-हेतवे ॥ ३४।४६ ॥
pratiṣṭhāpya tu tad-rūpam arcayanti nirantaram . na hi anyaḥ prāpaṇe hetuḥ arcanāt mukti-hetave .. 34.46 ..
सैद्धस्थले तु या पूजा सर्वशान्तिकरी स्मृता । पञ्चाशद्योजनं तस्य परितः पावयेन्महीं ॥ ३४.४७ ॥
सैद्धस्थले तु या पूजा सर्व-शान्ति-करी स्मृता । पञ्चाशत्-योजनम् तस्य परितस् पावयेत् महीम् ॥ ३४।४७ ॥
saiddhasthale tu yā pūjā sarva-śānti-karī smṛtā . pañcāśat-yojanam tasya paritas pāvayet mahīm .. 34.47 ..
सिद्धप्रतिष्ठिता देशा बहवो विदिताः पुरा । उत्पद्यन्ते भविष्यन्ति सन्तिसिद्धा धरातले ॥ ३४.४८ ॥
सिद्ध-प्रतिष्ठिताः देशाः बहवः विदिताः पुरा । उत्पद्यन्ते भविष्यन्ति सन्ति सिद्धाः धरा-तले ॥ ३४।४८ ॥
siddha-pratiṣṭhitāḥ deśāḥ bahavaḥ viditāḥ purā . utpadyante bhaviṣyanti santi siddhāḥ dharā-tale .. 34.48 ..
सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च । सिद्धा वैखानसं शास्त्रमाश्रित्यैव स्वनिर्मितं ॥ ३४.४९ ॥
सैद्धस्थलानि भूयांसि भविष्यन्ति च सन्ति च । सिद्धाः वैखानसम् शास्त्रम् आश्रित्य एव स्व-निर्मितम् ॥ ३४।४९ ॥
saiddhasthalāni bhūyāṃsi bhaviṣyanti ca santi ca . siddhāḥ vaikhānasam śāstram āśritya eva sva-nirmitam .. 34.49 ..
देवं संपूजयन्तीह तत्प्रायः प्रचलत्यपि । न हि सिद्धाः प्रकुर्वन्तिकिञ्चिदुच्छास्त्रमापदि ॥ ३४.५० ॥
देवम् संपूजयन्ति इह तत् प्रायस् प्रचलति अपि । न हि सिद्धाः प्रकुर्वन्ति किञ्चिद् उच्छास्त्रम् आपदि ॥ ३४।५० ॥
devam saṃpūjayanti iha tat prāyas pracalati api . na hi siddhāḥ prakurvanti kiñcid ucchāstram āpadi .. 34.50 ..
तस्मात्सर्वप्रयत्नेन सर्वं सिद्धाश्रितस्थले । कुर्याद्वैखानसं शास्त्रमाश्रित्य सकलाः क्रियाः ॥ ३४.५१ ॥
तस्मात् सर्व-प्रयत्नेन सर्वम् सिद्ध-आश्रित-स्थले । कुर्यात् वैखानसम् शास्त्रम् आश्रित्य सकलाः क्रियाः ॥ ३४।५१ ॥
tasmāt sarva-prayatnena sarvam siddha-āśrita-sthale . kuryāt vaikhānasam śāstram āśritya sakalāḥ kriyāḥ .. 34.51 ..
सिद्धा जानन्ति शास्त्रार्थान्सिद्धा जानन्ति चागमान् । सिद्धास्समर्चयन्त्येव वैखानसविधानतः ॥ ३४.५२ ॥
सिद्धाः जानन्ति शास्त्र-अर्थान् सिद्धाः जानन्ति च आगमान् । सिद्धाः समर्चयन्ति एव वैखानस-विधानतः ॥ ३४।५२ ॥
siddhāḥ jānanti śāstra-arthān siddhāḥ jānanti ca āgamān . siddhāḥ samarcayanti eva vaikhānasa-vidhānataḥ .. 34.52 ..
यदि सिद्धाश्रितो देशःपूज्यतेऽन्यैः प्रमादतः । राजा तं तु विचार्यैव पुनर्वैखानसैःक्रमाथ् ॥ ३४.५३ ॥
यदि सिद्ध-आश्रितः देशः पूज्यते अन्यैः प्रमादतः । राजा तम् तु विचार्य एव पुनर् वैखानसैः क्रमथ् ॥ ३४।५३ ॥
yadi siddha-āśritaḥ deśaḥ pūjyate anyaiḥ pramādataḥ . rājā tam tu vicārya eva punar vaikhānasaiḥ kramath .. 34.53 ..
सत्वरं याजयेत्कृत्वा प्रायश्चित्तं यथाविधि । सैद्धमेके स्थलं प्राहुरार्षमेतच्च सम्मतं ॥ ३४.५४ ॥
सत्वरम् याजयेत् कृत्वा प्रायश्चित्तम् यथाविधि । सैद्धम् एके स्थलम् प्राहुः आर्षम् एतत् च सम्मतम् ॥ ३४।५४ ॥
satvaram yājayet kṛtvā prāyaścittam yathāvidhi . saiddham eke sthalam prāhuḥ ārṣam etat ca sammatam .. 34.54 ..
अथ पौराणिको देशः कथ्यते यत्र यत्र वै । गाधा पौराणिकी भूयात्तत्पुराणस्थलं मतं ॥ ३४.५५ ॥
अथ पौराणिकः देशः कथ्यते यत्र यत्र वै । गाधा पौराणिकी भूयात् तत् पुराण-स्थलम् मतम् ॥ ३४।५५ ॥
atha paurāṇikaḥ deśaḥ kathyate yatra yatra vai . gādhā paurāṇikī bhūyāt tat purāṇa-sthalam matam .. 34.55 ..
अज्ञातकर्तृकाण्यत्र स्मर्यन्ते प्रायशो बहु । स्थलानीमानितत्तानि?पुराणानि प्रचक्षते ॥ ३४.५६ ॥
अज्ञात-कर्तृकाणि अत्र स्मर्यन्ते प्रायशस् बहु । स्थलानि इमानि तत्तानि?पुराणानि प्रचक्षते ॥ ३४।५६ ॥
ajñāta-kartṛkāṇi atra smaryante prāyaśas bahu . sthalāni imāni tattāni?purāṇāni pracakṣate .. 34.56 ..
पुराणानि त्वनन्तानि स्थलानि पृथिवीतले । भवन्त्यथ कलौ प्राप्ते लुप्यन्ते तान्यनेकशः ॥ ३४.५७ ॥
पुराणानि तु अनन्तानि स्थलानि पृथिवी-तले । भवन्ति अथ कलौ प्राप्ते लुप्यन्ते तानि अनेकशस् ॥ ३४।५७ ॥
purāṇāni tu anantāni sthalāni pṛthivī-tale . bhavanti atha kalau prāpte lupyante tāni anekaśas .. 34.57 ..
दशयोजनपर्यन्तां भूमिं तु परितस्सकृथ् । पुनाति देशः पौराणस्तत्र किं चिन्न हीयते ॥ ३४.५८ ॥
दश-योजन-पर्यन्ताम् भूमिम् तु । पुनाति देशः पौराणः तत्र किम् चित् न हीयते ॥ ३४।५८ ॥
daśa-yojana-paryantām bhūmim tu . punāti deśaḥ paurāṇaḥ tatra kim cit na hīyate .. 34.58 ..
स्वयंव्यक्तादयस्सर्वे पौराणाः कीर्तिता अपि । स्वयंव्यक्तादिभेदेन व्यवहारस्य दर्शनाथ् ॥ ३४.५९ ॥
स्वयम् व्यक्त-आदयः सर्वे पौराणाः कीर्तिताः अपि । स्वयम् व्यक्त-आदि-भेदेन व्यवहारस्य दर्शनात् ॥ ३४।५९ ॥
svayam vyakta-ādayaḥ sarve paurāṇāḥ kīrtitāḥ api . svayam vyakta-ādi-bhedena vyavahārasya darśanāt .. 34.59 ..
पुराणत्वं च तेषां स्यादन्यत्पौराणमुच्यते । पुराणस्थलदेवस्य प्रतिष्ठा विधिसम्मता ॥ ३४.६० ॥
पुराण-त्वम् च तेषाम् स्यात् अन्यत् पौराणम् उच्यते । पुराण-स्थलदेवस्य प्रतिष्ठा विधि-सम्मता ॥ ३४।६० ॥
purāṇa-tvam ca teṣām syāt anyat paurāṇam ucyate . purāṇa-sthaladevasya pratiṣṭhā vidhi-sammatā .. 34.60 ..
प्रतिष्ठिते त्वविधिना स्थरे नैव रमेद्धरिः । न हि वृद्धास्समर्चन्ति बिंबमुच्छास्त्रनिर्मितं ॥ ३४.६१ ॥
प्रतिष्ठिते तु अविधिना स्थरे ना एव रमेत् हरिः । न हि वृद्धाः समर्चन्ति बिंबम् उद् शास्त्र-निर्मितम् ॥ ३४।६१ ॥
pratiṣṭhite tu avidhinā sthare nā eva ramet hariḥ . na hi vṛddhāḥ samarcanti biṃbam ud śāstra-nirmitam .. 34.61 ..
न हि पौराणिके देशे यजमानस्य गौरवं । अर्थस्य गौरवं चापि दर्शनीयं महात्मभिः? ॥ ३४.६२ ॥
न हि पौराणिके देशे यजमानस्य गौरवम् । अर्थस्य गौरवम् च अपि दर्शनीयम् महात्मभिः? ॥ ३४।६२ ॥
na hi paurāṇike deśe yajamānasya gauravam . arthasya gauravam ca api darśanīyam mahātmabhiḥ? .. 34.62 ..
यदि पश्येद्विसूढात्मा रौरवं नरकंव्रजेथ् । एष एव विशेषस्स्यादन्यत्सैद्धवदाचरेथ् ॥ ३४.६३ ॥
यदि पश्येत् विसूढ-आत्मा रौरवम् नरकम् व्रजेथ् । एषः एव विशेषः स्यात् अन्यत् सैद्ध-वत् आचरेथ् ॥ ३४।६३ ॥
yadi paśyet visūḍha-ātmā rauravam narakam vrajeth . eṣaḥ eva viśeṣaḥ syāt anyat saiddha-vat ācareth .. 34.63 ..
पुराणस्थलपूजा तु शास्त्रदृष्टेन वर्त्मना । प्रमादेतु समीकार्यान तेन स्याद्व्यतिक्रमः ॥ ३४.६४ ॥
पुराण-स्थल-पूजा तु शास्त्र-दृष्टेन वर्त्मना । तेन स्यात् व्यतिक्रमः ॥ ३४।६४ ॥
purāṇa-sthala-pūjā tu śāstra-dṛṣṭena vartmanā . tena syāt vyatikramaḥ .. 34.64 ..
मानुषं पञ्चमं प्रोक्तं स्थलं यत्र विशेषतः । ग्रामे वा नगरे वापि शास्त्रोक्ते सुमनोरमे ॥ ३४.६५ ॥
मानुषम् पञ्चमम् प्रोक्तम् स्थलम् यत्र विशेषतः । ग्रामे वा नगरे वा अपि शास्त्र-उक्ते सु मनोरमे ॥ ३४।६५ ॥
mānuṣam pañcamam proktam sthalam yatra viśeṣataḥ . grāme vā nagare vā api śāstra-ukte su manorame .. 34.65 ..
प्रतिष्टाप्यार्चके विष्णुस्सर्वदेवेश्वरेश्वरः । ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैर्वान्यैर्नरोत्तमैः ॥ ३४.६६ ॥
प्रतिष्टाप्य अर्चके विष्णुः सर्व-देव-ईश्वर-ईश्वरः । ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैः वा अन्यैः नर-उत्तमैः ॥ ३४।६६ ॥
pratiṣṭāpya arcake viṣṇuḥ sarva-deva-īśvara-īśvaraḥ . brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ śūdraiḥ vā anyaiḥ nara-uttamaiḥ .. 34.66 ..
वैखानसेन शास्त्रेण पञ्चरात्रेण वा पुनः । मानुषस्थलपूजा तु योजनं परितस्थ्सलं ॥ ३४.६७ ॥
वैखानसेन शास्त्रेण पञ्चरात्रेण वा पुनर् । मानुषस्थल-पूजा तु योजनम् ॥ ३४।६७ ॥
vaikhānasena śāstreṇa pañcarātreṇa vā punar . mānuṣasthala-pūjā tu yojanam .. 34.67 ..
पापयेत्तस्य तु प्रोक्ताशक्तिरन्यातु तावती । मनुष्याः पुण्यकर्माणस्तत्र तत्र दिने दिने ॥ ३४.६८ ॥
पापयेत् तस्य तु प्रोक्ता अशक्तिः अन्या तु तावती । मनुष्याः पुण्य-कर्माणः तत्र तत्र दिने दिने ॥ ३४।६८ ॥
pāpayet tasya tu proktā aśaktiḥ anyā tu tāvatī . manuṣyāḥ puṇya-karmāṇaḥ tatra tatra dine dine .. 34.68 ..
प्रेरिता भगवद्भक्त्याधनिनो निर्धना अपि । निर्माय भगवद्गेहं प्रतिष्ठाप्य श्रियःपतिं ॥ ३४.६९ ॥
प्रेरिताः भगवत्-भक्त्या अधनिनः निर्धनाः अपि । निर्माय भगवत्-गेहम् प्रतिष्ठाप्य श्रियःपतिम् ॥ ३४।६९ ॥
preritāḥ bhagavat-bhaktyā adhaninaḥ nirdhanāḥ api . nirmāya bhagavat-geham pratiṣṭhāpya śriyaḥpatim .. 34.69 ..
अर्चयन्ति विशेषेण वैखानसविधानतः । विशालः पृथिवीभागः कालोऽनादिरन्तकः ॥ ३४.७० ॥
अर्चयन्ति विशेषेण वैखानस-विधानतः । ॥ ३४।७० ॥
arcayanti viśeṣeṇa vaikhānasa-vidhānataḥ . .. 34.70 ..
शास्त्रं चाप्यतिगंभीरं भक्ताश्च बहवो हरौ । तस्मात्सर्वप्रयत्नेन सर्वस्याप्यनुशासनं ॥ ३४.७१ ॥
शास्त्रम् च अपि अति गंभीरम् भक्ताः च बहवः हरौ । तस्मात् सर्व-प्रयत्नेन सर्वस्य अपि अनुशासनम् ॥ ३४।७१ ॥
śāstram ca api ati gaṃbhīram bhaktāḥ ca bahavaḥ harau . tasmāt sarva-prayatnena sarvasya api anuśāsanam .. 34.71 ..
प्रोक्तं विखनसा पूर्वं भगवच्छास्त्रमुत्तमं । अनेनैव प्रकारेण सर्वत्राराधयेद्धरिं ॥ ३४.७२ ॥
प्रोक्तम् विखनसा पूर्वम् भगवत्-शास्त्रम् उत्तमम् । अनेन एव प्रकारेण सर्वत्र आराधयेत् हरिम् ॥ ३४।७२ ॥
proktam vikhanasā pūrvam bhagavat-śāstram uttamam . anena eva prakāreṇa sarvatra ārādhayet harim .. 34.72 ..
भक्ताश्च बहुधा शास्त्रं प्रशंसन्तीदमेव ही । तदुक्तेनैव विधिना कल्पयेदालयादिकं ॥ ३४.७३ ॥
भक्ताः च बहुधा शास्त्रम् प्रशंसन्ति इदम् एव हि । तद्-उक्तेन एव विधिना कल्पयेत् आलय-आदिकम् ॥ ३४।७३ ॥
bhaktāḥ ca bahudhā śāstram praśaṃsanti idam eva hi . tad-uktena eva vidhinā kalpayet ālaya-ādikam .. 34.73 ..
यथा मानाधिकरणे मया प्रोक्तस्स विस्तरः । यत्र वा दृश्यते भेदो भगवच्छास्त्रशिल्पयोः ॥ ३४.७४ ॥
यथा मान-अधिकरणे मया प्रोक्तः स विस्तरः । यत्र वा दृश्यते भेदः भगवत्-शास्त्र-शिल्पयोः ॥ ३४।७४ ॥
yathā māna-adhikaraṇe mayā proktaḥ sa vistaraḥ . yatra vā dṛśyate bhedaḥ bhagavat-śāstra-śilpayoḥ .. 34.74 ..
शिल्पशास्त्रं परित्यज्य भगवच्छास्त्रतश्चरेथ् । प्रधानमेतच्छास्त्रं स्याद्भगवद्गेहकल्पने ॥ ३४.७५ ॥
शिल्प-शास्त्रम् परित्यज्य भगवत्-शास्त्रतः चरेथ् । प्रधानम् एतत् शास्त्रम् स्यात् भगवत्-गेह-कल्पने ॥ ३४।७५ ॥
śilpa-śāstram parityajya bhagavat-śāstrataḥ careth . pradhānam etat śāstram syāt bhagavat-geha-kalpane .. 34.75 ..
न तच्छास्त्रमनादृत्य कार्यं किं चित्समाचरेथ् । लोभान्मोहादथाज्ञानाच्छास्त्रेऽस्मिन्न धृतं चरेथ् ॥ ३४.७६ ॥
न तत् शास्त्रम् अन् आदृत्य कार्यम् किम् चित् समाचरेथ् । लोभात् मोहात् अथ अज्ञानात् शास्त्रे अस्मिन् न धृतम् चरेथ् ॥ ३४।७६ ॥
na tat śāstram an ādṛtya kāryam kim cit samācareth . lobhāt mohāt atha ajñānāt śāstre asmin na dhṛtam careth .. 34.76 ..
अतिक्रम्यापि शास्त्रं तत्पूजा निष्भला भवेथ् । यजमानो विपद्येत तस्मादत्रोक्तमाचरेथ् ॥ ३४.७७ ॥
अतिक्रम्य अपि शास्त्रम् तद्-पूजा निष्भला । यजमानः विपद्येत तस्मात् अत्र उक्तम् आचरेथ् ॥ ३४।७७ ॥
atikramya api śāstram tad-pūjā niṣbhalā . yajamānaḥ vipadyeta tasmāt atra uktam ācareth .. 34.77 ..
तेनैव तु विधानेन प्रतिष्ठादिकमाचरेथ् । ऐहिकामुष्मिकं यस्मात्फलद्वयमवाप्यते ॥ ३४.७८ ॥
तेन एव तु विधानेन प्रतिष्ठा-आदिकम् आचरेथ् । ऐहिक-आमुष्मिकम् यस्मात् फल-द्वयम् अवाप्यते ॥ ३४।७८ ॥
tena eva tu vidhānena pratiṣṭhā-ādikam ācareth . aihika-āmuṣmikam yasmāt phala-dvayam avāpyate .. 34.78 ..
ग्रामे विष्ण्वर्चनाहीने विष्ण्वर्चाहीनवेश्मनि । तीर्थपानं सुरापानमन्नं गोमांसभक्षणं ॥ ३४.७९ ॥
ग्रामे विष्णु-अर्चन-अहीने विष्णु-अर्चा-हीन-वेश्मनि । तीर्थ-पानम् सुरा-पानम् अन्नम् गो-मांस-भक्षणम् ॥ ३४।७९ ॥
grāme viṣṇu-arcana-ahīne viṣṇu-arcā-hīna-veśmani . tīrtha-pānam surā-pānam annam go-māṃsa-bhakṣaṇam .. 34.79 ..
देवधामविहीनं तु श्मशानं ग्राम उच्यते । गृहं च चितितुल्यं स्याद्यत्र नाराध्यते हरिः ॥ ३४.८० ॥
देव-धाम-विहीनम् तु श्मशानम् ग्रामः उच्यते । गृहम् च चिति-तुल्यम् स्यात् यत्र ना आराध्यते हरिः ॥ ३४।८० ॥
deva-dhāma-vihīnam tu śmaśānam grāmaḥ ucyate . gṛham ca citi-tulyam syāt yatra nā ārādhyate hariḥ .. 34.80 ..
यो मोहादथ वालस्यादकृत्वा देवतार्चनं । भुङ्क्ते स याति नरकान्सूकरेष्वसि जायते ॥ ३४.८१ ॥
यः मोहात् अथ वा आलस्यात् अ कृत्वा देवता-अर्चनम् । भुङ्क्ते स याति नरकान् सूकरेषु असि जायते ॥ ३४।८१ ॥
yaḥ mohāt atha vā ālasyāt a kṛtvā devatā-arcanam . bhuṅkte sa yāti narakān sūkareṣu asi jāyate .. 34.81 ..
केशवार्चागृहे यस्य न तिष्ठति शूभप्रदा । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तथ् ॥ ३४.८२ ॥
केशव-अर्चा-गृहे यस्य न तिष्ठति शूभ-प्रदा । तस्य अन्नम् ना एव भोक्तव्यम् अभक्ष्येण समम् हि ॥ ३४।८२ ॥
keśava-arcā-gṛhe yasya na tiṣṭhati śūbha-pradā . tasya annam nā eva bhoktavyam abhakṣyeṇa samam hi .. 34.82 ..
बिंबशुद्ध्यादिकं कृत्वा शास्त्रोक्तविधिना पुनः । कलान्यासादिकं सर्वं विधाय परमेश्वरः ॥ ३४.८३ ॥
बिंबशुद्धि-आदिकम् कृत्वा शास्त्र-उक्त-विधिना पुनर् । कला-न्यास-आदिकम् सर्वम् विधाय परमेश्वरः ॥ ३४।८३ ॥
biṃbaśuddhi-ādikam kṛtvā śāstra-ukta-vidhinā punar . kalā-nyāsa-ādikam sarvam vidhāya parameśvaraḥ .. 34.83 ..
प्रतिष्ठाप्यार्च्यते यत्र परितो योजनावधि । पूयतेऽनुग्रहाद्विष्णोः स देशोऽप्राकृतस्स्मृतः ॥ ३४.८४ ॥
प्रतिष्ठाप्य अर्च्यते यत्र परितस् योजन-अवधि । पूयते अनुग्रहात् विष्णोः स देशः अप्राकृतः स्मृतः ॥ ३४।८४ ॥
pratiṣṭhāpya arcyate yatra paritas yojana-avadhi . pūyate anugrahāt viṣṇoḥ sa deśaḥ aprākṛtaḥ smṛtaḥ .. 34.84 ..
तत्र पार्षदसंयुक्तश्श्रिया लक्ष्म्या समन्वितः । यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः ॥ ३४.८५ ॥
तत्र पार्षद-संयुक्तः श्रिया लक्ष्म्या समन्वितः । यथा च परमे व्योम्नि सन्निधत्ते तथा हरिः ॥ ३४।८५ ॥
tatra pārṣada-saṃyuktaḥ śriyā lakṣmyā samanvitaḥ . yathā ca parame vyomni sannidhatte tathā hariḥ .. 34.85 ..
तत्र देवास्त्रयस्त्रिंशत्पितरः पन्नगाश्च ये । साध्या विद्याधरा यक्षास्सर्वा वै देवयोनयः ॥ ३४.८६ ॥
तत्र देवाः त्रयस्त्रिंशत् पितरः पन्नगाः च ये । साध्याः विद्याधराः यक्षाः सर्वाः वै देवयोनयः ॥ ३४।८६ ॥
tatra devāḥ trayastriṃśat pitaraḥ pannagāḥ ca ye . sādhyāḥ vidyādharāḥ yakṣāḥ sarvāḥ vai devayonayaḥ .. 34.86 ..
सर्वसंवत्समृद्धिस्स्यात्पर्जन्यो वर्षुको भवेथ् । वायुर्वाति सुखं तत्र सूर्यस्तपति तेजसा ॥ ३४.८७ ॥
सर्व-संवत्सम् ऋद्धिः स्यात् पर्जन्यः वर्षुकः । वायुः वाति सुखम् तत्र सूर्यः तपति तेजसा ॥ ३४।८७ ॥
sarva-saṃvatsam ṛddhiḥ syāt parjanyaḥ varṣukaḥ . vāyuḥ vāti sukham tatra sūryaḥ tapati tejasā .. 34.87 ..
चन्द्रमाश्शीतलैर्देशं सेवते किरणैस्तथा । भूमिस्सस्यवती च स्यात्प्रसन्नं च नभो भवेथ् ॥ ३४.८८ ॥
चन्द्रमाः शीतलैः देशम् सेवते किरणैः तथा । भूमिः सस्यवती च स्यात् प्रसन्नम् च नभः ॥ ३४।८८ ॥
candramāḥ śītalaiḥ deśam sevate kiraṇaiḥ tathā . bhūmiḥ sasyavatī ca syāt prasannam ca nabhaḥ .. 34.88 ..
नक्षत्रग्रहताराश्च प्रसादाभिमुखास्समे । राजन्वती प्रजा च स्यात्पशुपुत्रसमन्विता ॥ ३४.८९ ॥
नक्षत्र-ग्रह-ताराः च प्रसाद-अभिमुखाः समे । राजन्वती प्रजा च स्यात् पशु-पुत्र-समन्विता ॥ ३४।८९ ॥
nakṣatra-graha-tārāḥ ca prasāda-abhimukhāḥ same . rājanvatī prajā ca syāt paśu-putra-samanvitā .. 34.89 ..
न व्याधिजं भयं किं चिन्नापि ज्वरकृतं तथा । न व्यालजं भयं वापि भवेदत्रन संशयः ॥ ३४.९० ॥
न व्याधि-जम् भयम् किम् चित् न अपि ज्वर-कृतम् तथा । न व्याल-जम् भयम् वा अपि संशयः ॥ ३४।९० ॥
na vyādhi-jam bhayam kim cit na api jvara-kṛtam tathā . na vyāla-jam bhayam vā api saṃśayaḥ .. 34.90 ..
नोपप्लवो नृपाणां वा मृगाणां वाप्यपां भवेथ् । ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रास्तत्र निवासिनः ॥ ३४.९१ ॥
न उपप्लवः नृपाणाम् वा मृगाणाम् वा अपि अपाम् । ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः तत्र निवासिनः ॥ ३४।९१ ॥
na upaplavaḥ nṛpāṇām vā mṛgāṇām vā api apām . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ tatra nivāsinaḥ .. 34.91 ..
स्वे स्वे कर्मण्यभिरता भवेयुस्सुखजीविनः । आग्निहोत्राश्च हूयन्ते तप्यन्तेऽत्र तपांसि च ॥ ३४.९२ ॥
स्वे स्वे कर्मणि अभिरताः भवेयुः सुख-जीविनः । आग्निहोत्राः च हूयन्ते तप्यन्ते अत्र तपांसि च ॥ ३४।९२ ॥
sve sve karmaṇi abhiratāḥ bhaveyuḥ sukha-jīvinaḥ . āgnihotrāḥ ca hūyante tapyante atra tapāṃsi ca .. 34.92 ..
दीयन्ते भूरिदानानि यत्र देवो हरिस्प्वयं । अप्राकृतमिमं देशं सन्निधानाच्छ्रियः पतेः ॥ ३४.९३ ॥
दीयन्ते भूरि-दानानि यत्र देवः हरिः सु अयम् । अप्राकृतम् इमम् देशम् सन्निधानात् श्रियः पतेः ॥ ३४।९३ ॥
dīyante bhūri-dānāni yatra devaḥ hariḥ su ayam . aprākṛtam imam deśam sannidhānāt śriyaḥ pateḥ .. 34.93 ..
प्राकृतं यो वदेन्मूढस्स याति नरकं ध्रुवं । अप्राकृतमिमं देवं नरो यश्चापनिह्नुते ॥ ३४.९४ ॥
प्राकृतम् यः वदेत् मूढः स याति नरकम् ध्रुवम् । अप्राकृतम् इमम् देवम् नरः यः च अपनिह्नुते ॥ ३४।९४ ॥
prākṛtam yaḥ vadet mūḍhaḥ sa yāti narakam dhruvam . aprākṛtam imam devam naraḥ yaḥ ca apanihnute .. 34.94 ..
चण्डालस्स तु विज्ञेयो निष्कृतिर्नास्य दृश्यते । महापातकीनां तद्वद्दृष्टं पातकिनामपि ॥ ३४.९५ ॥
चण्डालः स तु विज्ञेयः निष्कृतिः न अस्य दृश्यते । महापातकीनाम् तद्वत् दृष्टम् पातकिनाम् अपि ॥ ३४।९५ ॥
caṇḍālaḥ sa tu vijñeyaḥ niṣkṛtiḥ na asya dṛśyate . mahāpātakīnām tadvat dṛṣṭam pātakinām api .. 34.95 ..
उपपातकिनां चापि प्रायश्चित्तं विशेषतः । शास्त्रापलापिनां नैव प्रायश्चित्तं प्रदृश्यते ॥ ३४.९६ ॥
उपपातकिनाम् च अपि प्रायश्चित्तम् विशेषतः । शास्त्र-अपलापिनाम् न एव प्रायश्चित्तम् प्रदृश्यते ॥ ३४।९६ ॥
upapātakinām ca api prāyaścittam viśeṣataḥ . śāstra-apalāpinām na eva prāyaścittam pradṛśyate .. 34.96 ..
यस्तु सामान्यभावेन मन्यते स्थलमीदृशं । ब्रह्महत्यामवाप्नोति भ्रूणहत्यां तथैव च ॥ ३४.९७ ॥
यः तु सामान्य-भावेन मन्यते स्थलम् ईदृशम् । ब्रह्महत्याम् अवाप्नोति भ्रूणहत्याम् तथा एव च ॥ ३४।९७ ॥
yaḥ tu sāmānya-bhāvena manyate sthalam īdṛśam . brahmahatyām avāpnoti bhrūṇahatyām tathā eva ca .. 34.97 ..
स्वर्णस्तेये च यत्पापं सुरापाने च यद्भवेथ् । गुरुतल्पस्य गमने यच्चपापमुदीरितं ॥ ३४.९८ ॥
स्वर्ण-स्तेये च यत् पापम् सुरा-पाने च यत् । गुरु-तल्पस्य गमने यत् च पापम् उदीरितम् ॥ ३४।९८ ॥
svarṇa-steye ca yat pāpam surā-pāne ca yat . guru-talpasya gamane yat ca pāpam udīritam .. 34.98 ..
वृषलीगमने यच्च पापं सर्वं तदश्नुते । नास्ति शास्त्रात्परं ज्ञानं नस्यात्तस्मात्प्रवर्तकं ॥ ३४.९९ ॥
वृषली-गमने यत् च पापम् सर्वम् तत् अश्नुते । न अस्ति शास्त्रात् परम् ज्ञानम् न स्यात् तस्मात् प्रवर्तकम् ॥ ३४।९९ ॥
vṛṣalī-gamane yat ca pāpam sarvam tat aśnute . na asti śāstrāt param jñānam na syāt tasmāt pravartakam .. 34.99 ..
तस्मात्तस्यावमानेन सद्यः पतति दूषकः । तस्मिन्देशे विशेषेण सर्वेभागवता हरौ ॥ ३४.१०० ॥
तस्मात् तस्य अवमानेन सद्यस् पतति दूषकः । तस्मिन् देशे विशेषेण सर्वे भागवताः हरौ ॥ ३४।१०० ॥
tasmāt tasya avamānena sadyas patati dūṣakaḥ . tasmin deśe viśeṣeṇa sarve bhāgavatāḥ harau .. 34.100 ..
देवपादोदकादीनि पीत्वा यास्यन्तिसद्गतिं । न हि सर्वोऽपि सर्वत्र स्वयंव्यक्तस्थलादिकं ॥ ३४.१०१ ॥
देव-पाद-उदक-आदीनि पीत्वा यास्यन्ति सत्-गतिम् । न हि सर्वः अपि सर्वत्र स्वयम् व्यक्त-स्थल-आदिकम् ॥ ३४।१०१ ॥
deva-pāda-udaka-ādīni pītvā yāsyanti sat-gatim . na hi sarvaḥ api sarvatra svayam vyakta-sthala-ādikam .. 34.101 ..
गत्वैवाराधयेद्विष्णुं सदा तच्चाप्यसंभवि । अत एव कृपासिंधुर्भगवान्भूतभावनः ॥ ३४.१०२ ॥
गत्वा एव आराधयेत् विष्णुम् सदा तत् च अपि असंभवि । अतस् एव कृपा-सिंधुः भगवान् भूतभावनः ॥ ३४।१०२ ॥
gatvā eva ārādhayet viṣṇum sadā tat ca api asaṃbhavi . atas eva kṛpā-siṃdhuḥ bhagavān bhūtabhāvanaḥ .. 34.102 ..
अर्चावताररूपेण ग्रामे ग्रामे गृहे गृहे । अवतीर्य महाबाहुर्भक्तसौलभ्यहेतवे ॥ ३४.१०३ ॥
अर्चा-अवतार-रूपेण ग्रामे ग्रामे गृहे गृहे । अवतीर्य महा-बाहुः भक्त-सौलभ्य-हेतवे ॥ ३४।१०३ ॥
arcā-avatāra-rūpeṇa grāme grāme gṛhe gṛhe . avatīrya mahā-bāhuḥ bhakta-saulabhya-hetave .. 34.103 ..
अर्च्यते शास्त्रविधिना तत्र कार्योन संशयः । तस्मादप्राकृतं देशं न ब्रूयात्प्राकृतं नरः ॥ ३४.१०४ ॥
अर्च्यते शास्त्र-विधिना तत्र संशयः । तस्मात् अप्राकृतम् देशम् न ब्रूयात् प्राकृतम् नरः ॥ ३४।१०४ ॥
arcyate śāstra-vidhinā tatra saṃśayaḥ . tasmāt aprākṛtam deśam na brūyāt prākṛtam naraḥ .. 34.104 ..
न च सामान्यभावेन तं पश्येद्यदि पश्यति । नश्यत्येव न संदेह इति शास्त्रविनिश्चयः ॥ ३४.१०५ ॥
न च सामान्य-भावेन तम् पश्येत् यदि पश्यति । नश्यति एव न संदेहः इति शास्त्र-विनिश्चयः ॥ ३४।१०५ ॥
na ca sāmānya-bhāvena tam paśyet yadi paśyati . naśyati eva na saṃdehaḥ iti śāstra-viniścayaḥ .. 34.105 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे चतुस्त्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् सहितायाम् प्रकीर्ण-अधिकारे चतुस्त्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām sahitāyām prakīrṇa-adhikāre catustriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In