| |
|

This overlay will guide you through the buttons:

अथ दशमोऽध्यायः.
अथ दशमः अध्यायः।
atha daśamaḥ adhyāyaḥ.
अतःपरं प्रवक्ष्यामि भूपरीक्षादिकर्मणां । देवदेवस्य विष्णोर्तु विधिना चांकुरार्पणं ॥ १०.१ ॥
अतस् परम् प्रवक्ष्यामि भू-परीक्षा-आदि-कर्मणाम् । देवदेवस्य विष्णोः तु विधिना च अंकुर-अर्पणम् ॥ १०।१ ॥
atas param pravakṣyāmi bhū-parīkṣā-ādi-karmaṇām . devadevasya viṣṇoḥ tu vidhinā ca aṃkura-arpaṇam .. 10.1 ..
नवमे सप्तमेवापि पञ्चमे वात्षहेऽथ वा । आलयाभिमुखे वापि ऐशान्ये चोत्तरेऽपि वा ॥ १०.२ ॥
नवमे सप्तमे इव अपि पञ्चमे वा अत्षहे अथ वा । आलय-अभिमुखे वा अपि ऐशान्ये च उत्तरे अपि वा ॥ १०।२ ॥
navame saptame iva api pañcame vā atṣahe atha vā . ālaya-abhimukhe vā api aiśānye ca uttare api vā .. 10.2 ..
रुद्रहस्तं द्विजातीनां नृपाणां नवहस्तकं । वैश्यानां मुनिहस्तन्तु शूद्राणां पञ्चहस्तकं ॥ १०.३ ॥
रुद्र-हस्तम् द्विजातीनाम् नृपाणाम् नव-हस्तकम् । वैश्यानाम् मुनि-हस्तम् तु शूद्राणाम् पञ्च-हस्तकम् ॥ १०।३ ॥
rudra-hastam dvijātīnām nṛpāṇām nava-hastakam . vaiśyānām muni-hastam tu śūdrāṇām pañca-hastakam .. 10.3 ..
षोडशस्तंभ संयुक्तं चतुर्द्वारसमायुतं । मण्डपं वात कूटं वा प्रपां वा विधिना चरेथ् ॥ १०.४ ॥
षोडश-स्तंभ-संयुक्तम् चतुर्-द्वार-समायुतम् । मण्डपम् वा अत कूटम् वा प्रपाम् वा विधिना चरेथ् ॥ १०।४ ॥
ṣoḍaśa-staṃbha-saṃyuktam catur-dvāra-samāyutam . maṇḍapam vā ata kūṭam vā prapām vā vidhinā careth .. 10.4 ..
गोमयालेपनं कृत्वा "शाम्यऽन्त्विति च? मन्त्रतः । श्वेततन्त्तुलचूर्णं वा सुधाचूर्ण मथापि वा ॥ १०.५ ॥
गोमय-आलेपनम् कृत्वा "शाम्य अन्तु इति च? मन्त्रतः । श्वेत-तन्त्तुल-चूर्णम् वा सुधा-चूर्ण मथा अपि वा ॥ १०।५ ॥
gomaya-ālepanam kṛtvā "śāmya antu iti ca? mantrataḥ . śveta-tanttula-cūrṇam vā sudhā-cūrṇa mathā api vā .. 10.5 ..
सूक्ष्मचूर्णं च कृत्वा तु वालुकैर्मिश्रितं तथा । प्राग्रगं चोत्तराग्रं च "सोमंराऽजेति मन्त्रतः ॥ १०.६ ॥
सूक्ष्म-चूर्णम् च कृत्वा तु वालुकैः मिश्रितम् तथा । प्राग्र-गम् च उत्तर-अग्रम् च "मन्त्रतः ॥ १०।६ ॥
sūkṣma-cūrṇam ca kṛtvā tu vālukaiḥ miśritam tathā . prāgra-gam ca uttara-agram ca "mantrataḥ .. 10.6 ..
युग्मं च स्रायित्वातु दर्शनीयं च सुन्दरं । चक्रवालाद्यलङ्कृत्य पालिकांकुरशोभितैः? ॥ १०.७ ॥
युग्मम् च दर्शनीयम् च सुन्दरम् । चक्रवाल-आदि अलङ्कृत्य पालिका-अंकुर-शोभितैः? ॥ १०।७ ॥
yugmam ca darśanīyam ca sundaram . cakravāla-ādi alaṅkṛtya pālikā-aṃkura-śobhitaiḥ? .. 10.7 ..
मध्येचक्रं च कृत्वातु दर्शनीयं च कारयेथ् । वितानैस्स्तंभवेष्टैश्च दर्भमालाद्यलङ्कृतं ॥ १०.८ ॥
मध्ये चक्रम् च दर्शनीयम् च कारयेथ् । वितानैः स्तंभ-वेष्टैः च दर्भ-माला-आदि-अलङ्कृतम् ॥ १०।८ ॥
madhye cakram ca darśanīyam ca kārayeth . vitānaiḥ staṃbha-veṣṭaiḥ ca darbha-mālā-ādi-alaṅkṛtam .. 10.8 ..
धर्मं ज्ञानं च वैराग्य मैश्वर्यं च चतुष्टयं । अन्तस्त्संभ चतुष्कोशे स्थापयेदधिदेवताः ॥ १०.९ ॥
धर्मम् ज्ञानम् च वैराग्य मैश्वर्यम् च चतुष्टयम् । चतुष्कोशे स्थापयेत् अधिदेवताः ॥ १०।९ ॥
dharmam jñānam ca vairāgya maiśvaryam ca catuṣṭayam . catuṣkośe sthāpayet adhidevatāḥ .. 10.9 ..
बाह्यानां द्वादशादित्या द्वादशानान्तु देवताः । अर्चयित्वा यधान्याय्यं तत्तद्विधिमधाचरेथ् ॥ १०.१० ॥
बाह्यानाम् द्वादश आदित्याः द्वादश अनाम् तु देवताः । अर्चयित्वा यधान्याय्यम् ॥ १०।१० ॥
bāhyānām dvādaśa ādityāḥ dvādaśa anām tu devatāḥ . arcayitvā yadhānyāyyam .. 10.10 ..
पञ्चहस्तं त्रिहस्तं वा एकहस्त मथापिवा । पञ्चविंशत्पदं कृत्वा मध्ये ब्रह्मासनं चरेथ् ॥ १०.११ ॥
पञ्च-हस्तम् त्रि-हस्तम् वा एक-हस्त मथ अपि वा । पञ्चविंशत्-पदम् कृत्वा मध्ये ब्रह्मासनम् चरेथ् ॥ १०।११ ॥
pañca-hastam tri-hastam vā eka-hasta matha api vā . pañcaviṃśat-padam kṛtvā madhye brahmāsanam careth .. 10.11 ..
संचारार्थं फवन्त्यष्ट परितश्च पदानि वै । प्रागादिमध्यमाः प्रोक्ता द्वारा श्चत्वार एवच ॥ १०.१२ ॥
संचार-अर्थम् फवन्ति अष्ट परितस् च पदानि वै । प्राच्-आदि-मध्यमाः प्रोक्ताः द्वाराः श्चत्वारः एव च ॥ १०।१२ ॥
saṃcāra-artham phavanti aṣṭa paritas ca padāni vai . prāc-ādi-madhyamāḥ proktāḥ dvārāḥ ścatvāraḥ eva ca .. 10.12 ..
शेषितार्कपदे धीमान्पालिकानां स्थितिं चरेथ् । व्रीहिभि स्तण्डुलैर्वापि पङ्क्तिं कुर्या द्विधानतः ॥ १०.१३ ॥
शेषित-अर्क-पदे धीमान् पालिकानाम् स्थितिम् । व्रीहिभिः स्तण्डुलैः वा अपि पङ्क्तिम् कुर्याः द्विधा अनतः ॥ १०।१३ ॥
śeṣita-arka-pade dhīmān pālikānām sthitim . vrīhibhiḥ staṇḍulaiḥ vā api paṅktim kuryāḥ dvidhā anataḥ .. 10.13 ..
षोडशांगुल मायामं यथालाभसमुन्नतं । त्रिवेदिसहितं कुर्या द्वेदाश्रं ब्राह्म मासनं ॥ १०.१४ ॥
यथा लाभ-समुन्नतम् । त्रि-वेदि-सहितम् कुर्याः द्वेदाश्रम् ब्राह्म मा आसनम् ॥ १०।१४ ॥
yathā lābha-samunnatam . tri-vedi-sahitam kuryāḥ dvedāśram brāhma mā āsanam .. 10.14 ..
पूर्वद्वारोत्तरे शेषं दक्षिणद्वारपूर्वके । वक्रतुण्डस्य पीठं स्यात्पश्चिमद्वारदक्षिणे ॥ १०.१५ ॥
पूर्व-द्वार-उत्तरे शेषम् दक्षिण-द्वार-पूर्वके । वक्रतुण्डस्य पीठम् स्यात् पश्चिम-द्वार-दक्षिणे ॥ १०।१५ ॥
pūrva-dvāra-uttare śeṣam dakṣiṇa-dvāra-pūrvake . vakratuṇḍasya pīṭham syāt paścima-dvāra-dakṣiṇe .. 10.15 ..
पङ्क्तीश मुत्तरद्वार पश्चिमे सोमपीठकं । कुंभे वाथ समभ्यर्च्येत्तत्पूर्वेशान्त मर्चयेथ् ॥ १०.१६ ॥
पङ्क्तीश उत्तर-द्वार पश्चिमे सोम-पीठकम् । कुंभे वा अथ समभ्यर्च्येत् तत् पूर्व-ईश-अन्तम् मर्चयेथ् ॥ १०।१६ ॥
paṅktīśa uttara-dvāra paścime soma-pīṭhakam . kuṃbhe vā atha samabhyarcyet tat pūrva-īśa-antam marcayeth .. 10.16 ..
षण्णां पीठं प्रकल्प्यैव ब्रह्मण श्चोक्तवच्चरेथ् । ऐन्द्रादिच तथैशान्तं जयाद्यप्सरसोर्ऽचयेथ् ॥ १०.१७ ॥
षण्णाम् पीठम् प्रकल्प्य एव ब्रह्मणः च उक्त-वत् चरेथ् । ऐन्द्र-आदि-च तथा ऐश-अन्तम् जय-आदि-अप्सरसोः ॥ १०।१७ ॥
ṣaṇṇām pīṭham prakalpya eva brahmaṇaḥ ca ukta-vat careth . aindra-ādi-ca tathā aiśa-antam jaya-ādi-apsarasoḥ .. 10.17 ..
आढकं वा तदर्धं वा पादं वा तण्डुरैः पृथक् । बाह्येऽष्टांगुलिविस्तारे पीठे वा स्थण्डिलेऽपिवा ॥ १०.१८ ॥
आढकम् वा तद्-अर्धम् वा पादम् वा तण्डुरैः पृथक् । बाह्ये अष्ट-अंगुलि-विस्तारे पीठे वा स्थण्डिले अपि वा ॥ १०।१८ ॥
āḍhakam vā tad-ardham vā pādam vā taṇḍuraiḥ pṛthak . bāhye aṣṭa-aṃguli-vistāre pīṭhe vā sthaṇḍile api vā .. 10.18 ..
चतुरश्रं सुवृत्तं चत्रिकोणं धनुराकृति । दण्डाकारं च पद्माभं वस्वश्रं समवृत्तकं ॥ १०.१९ ॥
चतुरश्रम् सु वृत्तम् च त्रि-कोणम् धनुः-आकृति । दण्ड-आकारम् च पद्म-आभम् सम-वृत्तकम् ॥ १०।१९ ॥
caturaśram su vṛttam ca tri-koṇam dhanuḥ-ākṛti . daṇḍa-ākāram ca padma-ābham sama-vṛttakam .. 10.19 ..
जयादीनां क्रमात्पीठं पालिकाबाह्यत श्छरेथ् । दिक्पालानान्तुशक्तश्चे न्मण्डलानि तु कारयेथ् ॥ १०.२० ॥
जय-आदीनाम् क्रमात् पीठम् । तु ॥ १०।२० ॥
jaya-ādīnām kramāt pīṭham . tu .. 10.20 ..
भूम्यां वा पूजयेत्तद्वत्कुशकूर्चेषु सत्वरः । चतुरश्रं त्रिकाणं च सुवृत्तं वज्रमेव च ॥ १०.२१ ॥
भूम्याम् वा पूजयेत् तद्वत् कुश-कूर्चेषु सत्वरः । चतुरश्रम् त्रि-काणम् च सु वृत्तम् वज्रम् एव च ॥ १०।२१ ॥
bhūmyām vā pūjayet tadvat kuśa-kūrceṣu satvaraḥ . caturaśram tri-kāṇam ca su vṛttam vajram eva ca .. 10.21 ..
अर्धचन्द्रं च षट्कोणं वृत्तं नूपुरमेव च । दिगीशमण्डलाकार मन्येषां चतुरश्रकं ॥ १०.२२ ॥
अर्धचन्द्रम् च षट्कोणम् वृत्तम् नूपुरम् एव च । दिगीश-मण्डल-आकार चतुरश्रकम् ॥ १०।२२ ॥
ardhacandram ca ṣaṭkoṇam vṛttam nūpuram eva ca . digīśa-maṇḍala-ākāra caturaśrakam .. 10.22 ..
अश्वद्थपल्लवं दूर्वां कुशं चाबद्ध्य मध्यमे । पालिकादीन्क्रमेणैव मृदा वापूरयेच्छुचिः ॥ १०.२३ ॥
अश्वद्थ-पल्लवम् दूर्वाम् कुशम् च आबद्ध्य मध्यमे । पालिका-आदीन् क्रमेण एव मृदा वा आपूरयेत् शुचिः ॥ १०।२३ ॥
aśvadtha-pallavam dūrvām kuśam ca ābaddhya madhyame . pālikā-ādīn krameṇa eva mṛdā vā āpūrayet śuciḥ .. 10.23 ..
गायत्रीमन्त्रमुच्चार्य प्रणवेनादायमन्त्रविथ् । मेदिनीमन्त्र मुच्चार्य चैशान्यादिषु पालिकाः ॥ १०.२४ ॥
गायत्री-मन्त्रम् उच्चार्य । मेदिनी-मन्त्र उच्चार्य च ऐशानी-आदिषु पालिकाः ॥ १०।२४ ॥
gāyatrī-mantram uccārya . medinī-mantra uccārya ca aiśānī-ādiṣu pālikāḥ .. 10.24 ..
सन्न्यस्यैव ततः कुंभान्द्वारवामे च सन्न्यसेथ् । राकामहंऽ समुच्चार्य द्वारदक्षिणतः पुनः ॥ १०.२५ ॥
सन्न्यस्य एव ततस् कुंभान् द्वार-वामे च । राकामहम् समुच्चार्य द्वार-दक्षिणतस् पुनर् ॥ १०।२५ ॥
sannyasya eva tatas kuṃbhān dvāra-vāme ca . rākāmaham samuccārya dvāra-dakṣiṇatas punar .. 10.25 ..
सिनीवाऽलीति मन्त्रेण आचार्यः सन्न्यसेत्क्रमाथ् । जातिक्रमेण चैशास्तं पालिकानां पदे पदे ॥ १०.२६ ॥
मन्त्रेण आचार्यः सन् न्यसेत् । जाति-क्रमेण च ऐशास्तम् पालिकानाम् पदे पदे ॥ १०।२६ ॥
mantreṇa ācāryaḥ san nyaset . jāti-krameṇa ca aiśāstam pālikānām pade pade .. 10.26 ..
ब्रह्मणो दक्षिणे पार्श्व आचार्य श्चोत्तरामुघः । ब्राह्ममासन मास्थाय देवदेव मनुस्मरन् ॥ १०.२७ ॥
ब्रह्मणः दक्षिणे पार्श्वे आचार्यः च उत्तरामुघः । ब्राह्मम् आसन मास्थाय देवदेव मनुस्मरन् ॥ १०।२७ ॥
brahmaṇaḥ dakṣiṇe pārśve ācāryaḥ ca uttarāmughaḥ . brāhmam āsana māsthāya devadeva manusmaran .. 10.27 ..
ब्रह्माद्यान्हृदयात्पूर्वं प्रणिध्यां सन्निवेशयेथ् । स्थण्डिलोपरि कूर्चेषु पात्रा दावाहयेत्क्रमाथ् ॥ १०.२८ ॥
ब्रह्म-आद्यान् हृदयात् पूर्वम् प्रणिध्याम् सन् निवेशयेथ् । स्थण्डिल-उपरि कूर्चेषु पात्रा दावाहयेत् ॥ १०।२८ ॥
brahma-ādyān hṛdayāt pūrvam praṇidhyām san niveśayeth . sthaṇḍila-upari kūrceṣu pātrā dāvāhayet .. 10.28 ..
चतुर्मुखं चतुर्बाहुं सर्वाभरण बूषितं । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ॥ १०.२९ ॥
चतुर्-मुखम् चतुर्-बाहुम् सर्व-आभरण-बूषितम् । अभयम् दक्षिणम् हस्तम् वामम् ऊरु-प्रतिष्ठितम् ॥ १०।२९ ॥
catur-mukham catur-bāhum sarva-ābharaṇa-būṣitam . abhayam dakṣiṇam hastam vāmam ūru-pratiṣṭhitam .. 10.29 ..
कुण्डिका मक्षमालाञ्च वहन्तं दक्षवामयोः । पद्मासनस्थं हेमाभं श्यामवस्त्रञ्च पद्मजं ॥ १०.३० ॥
कुण्डिकाः मक्ष-मालाः च वहन्तम् दक्ष-वामयोः । पद्म-आसन-स्थम् हेम-आभम् श्याम-वस्त्रम् च पद्म-जम् ॥ १०।३० ॥
kuṇḍikāḥ makṣa-mālāḥ ca vahantam dakṣa-vāmayoḥ . padma-āsana-stham hema-ābham śyāma-vastram ca padma-jam .. 10.30 ..
मूर्तिमन्त्रैस्समावाह्य ब्रह्माणं प्राङ्मुखं यजेथ् । प्राग्द्वारे प्राङ्मुखं चैव दक्षिणद्वारके तथा ॥ १०.३१ ॥
मूर्ति-मन्त्रैः समावाह्य ब्रह्माणम् प्राच्-मुखम् यजेथ् । प्राच्-द्वारे प्राच्-मुखम् च एव दक्षिण-द्वारके तथा ॥ १०।३१ ॥
mūrti-mantraiḥ samāvāhya brahmāṇam prāc-mukham yajeth . prāc-dvāre prāc-mukham ca eva dakṣiṇa-dvārake tathā .. 10.31 ..
प्रत्यग्द्वारविमानेऽपि चोत्तरद्वारके तधा । अब्जजं प्राङ्मुखञ्चान्यान्यथाविधि च संस्मरेथ् ॥ १०.३२ ॥
प्रत्यक्-द्वार-विमाने अपि च उत्तर-द्वारके तधा । अब्ज-जम् प्राच्-मुखम् च अन्यान् यथाविधि च संस्मरेथ् ॥ १०।३२ ॥
pratyak-dvāra-vimāne api ca uttara-dvārake tadhā . abja-jam prāc-mukham ca anyān yathāvidhi ca saṃsmareth .. 10.32 ..
भवनं प्राङ्मुखादीनां प्राङ्मुखश्च प्रजापतिः । पङ्क्तिमध्ये समभ्यर्च्ये द्ब्राह्ममन्त्रं समुच्चरन् ॥ १०.३३ ॥
भवनम् प्राच्-मुख-आदीनाम् प्राच्-मुखः च प्रजापतिः । पङ्क्ति-मध्ये समभ्यर्च्ये ब्राह्म-मन्त्रम् समुच्चरन् ॥ १०।३३ ॥
bhavanam prāc-mukha-ādīnām prāc-mukhaḥ ca prajāpatiḥ . paṅkti-madhye samabhyarcye brāhma-mantram samuccaran .. 10.33 ..
हेमाङ्गं पीतवस्त्रं च द्विभुजं पद्मधारिणं । स्धितं करण्डिकामौलिं शेषं तत्पश्चिमामुखं ॥ १०.३४ ॥
हेम-अङ्गम् पीत-वस्त्रम् च द्वि-भुजम् पद्म-धारिणम् । करण्डिका-मौलिम् शेषम् तद्-पश्चिमा-मुखम् ॥ १०।३४ ॥
hema-aṅgam pīta-vastram ca dvi-bhujam padma-dhāriṇam . karaṇḍikā-maulim śeṣam tad-paścimā-mukham .. 10.34 ..
अनन्तं सर्वनागाना मधिपं वारुणीपतिं । फणसप्तकसंयुक्तं सिताभं प्राञ्जलिं स्मरेथ् ॥ १०.३५ ॥
अनन्तम् सर्व-नागानाम् अधिपम् वारुणीपतिम् । फण-सप्तक-संयुक्तम् सित-आभम् प्राञ्जलिम् स्मरेथ् ॥ १०।३५ ॥
anantam sarva-nāgānām adhipam vāruṇīpatim . phaṇa-saptaka-saṃyuktam sita-ābham prāñjalim smareth .. 10.35 ..
प्रवालाभं गजमुख मासीनं चोत्तरामुखं । कदलीचूतपनसपाशांकुशधरं प्रभुं ॥ १०.३६ ॥
प्रवाल-आभम् गजमुख आसीनम् च उत्तरा-मुखम् । कदली-चूत-पनस-पाश-अंकुश-धरम् प्रभुम् ॥ १०।३६ ॥
pravāla-ābham gajamukha āsīnam ca uttarā-mukham . kadalī-cūta-panasa-pāśa-aṃkuśa-dharam prabhum .. 10.36 ..
एकदंष्ट्रं चतुर्बाहुं वग्रतुण्डं स्मरेद्बुधः । पीतांबरे तं श्यामाभं खड्गखेटकधारिणं ॥ १०.३७ ॥
एक-दंष्ट्रम् चतुर्-बाहुम् वग्रतुण्डम् स्मरेत् बुधः । पीत-अंबरे तम् श्याम-आभम् खड्ग-खेटक-धारिणम् ॥ १०।३७ ॥
eka-daṃṣṭram catur-bāhum vagratuṇḍam smaret budhaḥ . pīta-aṃbare tam śyāma-ābham khaḍga-kheṭaka-dhāriṇam .. 10.37 ..
करण्डिकामौलिं पङ्क्तीशं प्राङ्मुखं स्मरेथ् । सितं श्यामांबरं सौन्युं द्विभुजं दण्डधारिणं ॥ १०.३८ ॥
करण्डिका-मौलिम् पङ्क्तीशम् प्राच्-मुखम् स्मरेथ् । सितम् श्याम-अंबरम् सौन्युम् द्वि-भुजम् दण्ड-धारिणम् ॥ १०।३८ ॥
karaṇḍikā-maulim paṅktīśam prāc-mukham smareth . sitam śyāma-aṃbaram saunyum dvi-bhujam daṇḍa-dhāriṇam .. 10.38 ..
करण्डमकुटसंयुक्तं सुस्थितं दक्षिणामुघं । अभ्राभांरक्तवस्त्रान्तां द्विहस्तांबुजधारिणीं ॥ १०.३९ ॥
करण्ड-मकुट-संयुक्तम् सुस्थितम् । द्वि-हस्त-अंबुज-धारिणीम् ॥ १०।३९ ॥
karaṇḍa-makuṭa-saṃyuktam susthitam . dvi-hasta-aṃbuja-dhāriṇīm .. 10.39 ..
सर्वभूषाभूषिताङ्गां जयामैन्द्रपदेर्ऽचयेथ् । नीलाभां पीतवस्त्रां तां द्विकरांबुजधारिणीं ॥ १०.४० ॥
सर्व-भूषा-भूषित-अङ्गाम् । नील-आभाम् पीत-वस्त्राम् ताम् द्वि-कर-अंबुज-धारिणीम् ॥ १०।४० ॥
sarva-bhūṣā-bhūṣita-aṅgām . nīla-ābhām pīta-vastrām tām dvi-kara-aṃbuja-dhāriṇīm .. 10.40 ..
भूषाभूषितसर्वाङ्गां विजया मनलेर्ऽचयेथ् । कुमुदाभां हरिद्वस्त्रां द्विकरांपङ्कजाङ्कितां ॥ १०.४१ ॥
भूषा-भूषित-सर्व-अङ्गाम् विजया । कुमुद-आभाम् हरित्-वस्त्राम् द्वि-कराम् पङ्कज-अङ्किताम् ॥ १०।४१ ॥
bhūṣā-bhūṣita-sarva-aṅgām vijayā . kumuda-ābhām harit-vastrām dvi-karām paṅkaja-aṅkitām .. 10.41 ..
नानाभूषाभूषिताङ्गां विन्दां याम्यपदेर्ऽचयेथ् । धातकीपत्र संकाशां नीलनीलांबरावृतां ॥ १०.४२ ॥
नाना भूषा-भूषित-अङ्गाम् विन्दाम् । धातकी-पत्र-संकाशाम् नील-नील-अंबर-आवृताम् ॥ १०।४२ ॥
nānā bhūṣā-bhūṣita-aṅgām vindām . dhātakī-patra-saṃkāśām nīla-nīla-aṃbara-āvṛtām .. 10.42 ..
द्विकरामंबुजधरां नन्दांनैरृतिपदेर्ऽचयेथ् । धौताभां पीतवस्त्रां तां द्विहस्तांबुजधारिणीं ॥ १०.४३ ॥
द्वि-कराम् अंबुज-धराम् । धौत-आभाम् पीत-वस्त्राम् ताम् द्वि-हस्त-अंबुज-धारिणीम् ॥ १०।४३ ॥
dvi-karām aṃbuja-dharām . dhauta-ābhām pīta-vastrām tām dvi-hasta-aṃbuja-dhāriṇīm .. 10.43 ..
पुष्पाभरणसंयुक्तां पुष्टिकां वारुणेर्ऽचयेथ् । स्वर्णाभां रक्तवस्त्रां तां द्विहस्तांबुजधारिणीं ॥ १०.४४ ॥
पुष्प-आभरण-संयुक्ताम् पुष्टिकाम् । स्वर्ण-आभाम् रक्त-वस्त्राम् ताम् द्वि-हस्त-अंबुज-धारिणीम् ॥ १०।४४ ॥
puṣpa-ābharaṇa-saṃyuktām puṣṭikām . svarṇa-ābhām rakta-vastrām tām dvi-hasta-aṃbuja-dhāriṇīm .. 10.44 ..
कुमुद्वतीं भूषिताङ्गां वायव्ये चार्चयेत्क्रमाथ् । रक्ताभा मभ्रसंकाशवसनां भूषणैर्वृतां ॥ १०.४५ ॥
कुमुद्वतीम् भूषित-अङ्गाम् वायव्ये च अर्चयेत् क्रमाथ् । रक्त-आभाः मभ्र-संकाश-वसनाम् भूषणैः वृताम् ॥ १०।४५ ॥
kumudvatīm bhūṣita-aṅgām vāyavye ca arcayet kramāth . rakta-ābhāḥ mabhra-saṃkāśa-vasanām bhūṣaṇaiḥ vṛtām .. 10.45 ..
द्विकरा मंबुजधरां स्ॐये चोत्बलकां यजेथ् । हाटकाभां हरिद्वस्त्रां पद्मसंयुतबाहुकां ॥ १०.४६ ॥
द्वि-करा मंबुज-धराम् च उत्बलकाम् । हाटक-आभाम् हरित्-वस्त्राम् पद्म-संयुत-बाहुकाम् ॥ १०।४६ ॥
dvi-karā maṃbuja-dharām ca utbalakām . hāṭaka-ābhām harit-vastrām padma-saṃyuta-bāhukām .. 10.46 ..
सर्वालङ्कार संयुक्तां विशोगा मर्चयेत्ततः) । रक्ताभां हाटकाभां च हरिणीं नीलवर्णकां ॥ १०.४७ ॥
सर्व-अलङ्कार-संयुक्ताम् विशोगाम् अर्चयेत् ततस् । रक्त-आभाम् हाटक-आभाम् च हरिणीम् नील-वर्णकाम् ॥ १०।४७ ॥
sarva-alaṅkāra-saṃyuktām viśogām arcayet tatas . rakta-ābhām hāṭaka-ābhām ca hariṇīm nīla-varṇakām .. 10.47 ..
धातकीपद्र संताशां कुमुदोत्पलसन्निभां । अशोकाभां क्रमादेता द्विभुजाः पद्मधारिणीः ॥ १०.४८ ॥
संताशाम् कुमुद-उत्पल-सन्निभाम् । अशोक-आभाम् क्रमात् एताः द्वि-भुजाः पद्म-धारिणीः ॥ १०।४८ ॥
saṃtāśām kumuda-utpala-sannibhām . aśoka-ābhām kramāt etāḥ dvi-bhujāḥ padma-dhāriṇīḥ .. 10.48 ..
विपरीतांबरधराः सुखासीना स्तदासनाः । जयाद्यास्सर्वभूषांगा ध्यायेदत्रेति केचन ॥ १०.४९ ॥
विपरीत-अंबर-धराः सुख-आसीनाः स्तद्-आसनाः । जय-आद्याः सर्व-भूषा-अंगाः ध्यायेत् अत्र इति केचन ॥ १०।४९ ॥
viparīta-aṃbara-dharāḥ sukha-āsīnāḥ stad-āsanāḥ . jaya-ādyāḥ sarva-bhūṣā-aṃgāḥ dhyāyet atra iti kecana .. 10.49 ..
मेदिनीं चैव राकां च सिनीवालीं स्मरेद्बुधः । मेदिनीं पीदवस्त्रान्तां श्यामाङ्गीं द्विभुजां स्थितां ॥ १०.५० ॥
मेदिनीम् च एव राकाम् च सिनीवालीम् स्मरेत् बुधः । मेदिनीम् पीद-वस्त्र-अन्ताम् श्याम-अङ्गीम् द्वि-भुजाम् स्थिताम् ॥ १०।५० ॥
medinīm ca eva rākām ca sinīvālīm smaret budhaḥ . medinīm pīda-vastra-antām śyāma-aṅgīm dvi-bhujām sthitām .. 10.50 ..
हस्तयोः पालिकां धृत्वा सुकेशीं तद्दिगाननां । पूर्णचन्द्रप्रियां देवीं पूर्णचन्द्रनिभाननां ॥ १०.५१ ॥
हस्तयोः पालिकाम् धृत्वा सु केशीम् तद्-दिश्-आननाम् । पूर्ण-चन्द्र-प्रियाम् देवीम् पूर्ण-चन्द्र-निभ-आननाम् ॥ १०।५१ ॥
hastayoḥ pālikām dhṛtvā su keśīm tad-diś-ānanām . pūrṇa-candra-priyām devīm pūrṇa-candra-nibha-ānanām .. 10.51 ..
हेमाङ्गीं रक्तवस्त्रान्तां राकां कुंभधरां स्थितां । शेषं तद्वच्छिनीवालीं सितांगीं श्यामलांबरां ॥ १०.५२ ॥
हेम-अङ्गीम् रक्त-वस्त्र-अन्ताम् राकाम् कुंभ-धराम् स्थिताम् । शेषम् तद्वत् शिनीवालीम् सित-अंगीम् श्यामल-अंबराम् ॥ १०।५२ ॥
hema-aṅgīm rakta-vastra-antām rākām kuṃbha-dharām sthitām . śeṣam tadvat śinīvālīm sita-aṃgīm śyāmala-aṃbarām .. 10.52 ..
शरावं दधतीं मन्ये मेदिनीसदृशां तथा । ध्यात्वातत्तत्पदे सम्यगासीनां वाथ चार्ऽचयेथ् ॥ १०.५३ ॥
शरावम् दधतीम् मन्ये मेदिनी-सदृशाम् तथा । सम्यक् आसीनाम् वा अथ ॥ १०।५३ ॥
śarāvam dadhatīm manye medinī-sadṛśām tathā . samyak āsīnām vā atha .. 10.53 ..
बीजेसोमं तथा ध्यात्वा हस्ताभ्यां बीजधारिणं । स्थानकं वाथचासीवं चोत्तरे दक्षिणामुखं ॥ १०.५४ ॥
बीजेसोमम् तथा ध्यात्वा हस्ताभ्याम् बीज-धारिणम् । स्थानकम् च उत्तरे दक्षिणा-मुखम् ॥ १०।५४ ॥
bījesomam tathā dhyātvā hastābhyām bīja-dhāriṇam . sthānakam ca uttare dakṣiṇā-mukham .. 10.54 ..
एवं ध्यात्वा ततोदेव मासनादिभिरर्चयेथ् । हविः सम्यङ्मि वेद्यैव बलिं वा दापये द्बुधः ॥ १०.५५ ॥
एवम् ध्यात्वा मासन-आदिभिः अर्चयेथ् । हविः सम्यङ्मि वेद्या एव बलिम् वा दापये द्बुधः ॥ १०।५५ ॥
evam dhyātvā māsana-ādibhiḥ arcayeth . haviḥ samyaṅmi vedyā eva balim vā dāpaye dbudhaḥ .. 10.55 ..
जयादीनां क्रमाद्वर्णः प्रादक्षिण्यक्रमेणतु । वितस्तिः पालिकोत्सेधं तदर्धं विपुलं मुखं ॥ १०.५६ ॥
जय-आदीनाम् क्रमात् वर्णः प्रादक्षिण्य-क्रमेण तु । वितस्तिः पालिका-उत्सेधम् तद्-अर्धम् विपुलम् मुखम् ॥ १०।५६ ॥
jaya-ādīnām kramāt varṇaḥ prādakṣiṇya-krameṇa tu . vitastiḥ pālikā-utsedham tad-ardham vipulam mukham .. 10.56 ..
अधोविपुलनाहेन मध्यनाहं दशांगुलं । कुंभोदयं तु तत्तुल्यं रसमात्रं मुखायतं ॥ १०.५७ ॥
अधस् विपुल-नाहेन मध्य-नाहम् दश-अंगुलम् । कुंभ-उदयम् तु तत् तुल्यम् रस-मात्रम् मुख-आयतम् ॥ १०।५७ ॥
adhas vipula-nāhena madhya-nāham daśa-aṃgulam . kuṃbha-udayam tu tat tulyam rasa-mātram mukha-āyatam .. 10.57 ..
कुंभोष्ठमिव वक्तव्यं कुंभकुक्षिर्दशांगुलं । आश्रमद्वार संयुक्तं शेषं तत्पालिकासमं ॥ १०.५८ ॥
कुंभोष्ठम् इव वक्तव्यम् कुंभ-कुक्षिः दश-अंगुलम् । आश्रम-द्वार-संयुक्तम् शेषम् तत् पालिका-समम् ॥ १०।५८ ॥
kuṃbhoṣṭham iva vaktavyam kuṃbha-kukṣiḥ daśa-aṃgulam . āśrama-dvāra-saṃyuktam śeṣam tat pālikā-samam .. 10.58 ..
तारोत्सेधं शरावं स्यान्मुखं तत्पालिकासमं । आलयस्योत्तरे वापि ऐशान्ये वा विशेषतः ॥ १०.५९ ॥
तार-उत्सेधम् शरावम् स्यात् मुखम् तत् पालिका-समम् । आलयस्य उत्तरे वा अपि ऐशान्ये वा विशेषतः ॥ १०।५९ ॥
tāra-utsedham śarāvam syāt mukham tat pālikā-samam . ālayasya uttare vā api aiśānye vā viśeṣataḥ .. 10.59 ..
गोमयेनोपलिप्यैव मेदिनीं तु समर्चयेथ् । चक्रं शान्तं समभ्यर्च्य हरेत्तज्जठरे मृदं ॥ १०.६० ॥
गोमयेन उपलिप्य एव मेदिनीम् तु समर्चयेथ् । चक्रम् शान्तम् समभ्यर्च्य हरेत् तद्-जठरे मृदम् ॥ १०।६० ॥
gomayena upalipya eva medinīm tu samarcayeth . cakram śāntam samabhyarcya haret tad-jaṭhare mṛdam .. 10.60 ..
कांस्यपात्रे नुसन्न्यस्य शिष्यस्य शिरसि न्यसेथ् । ग्रामं प्रदक्षिणं कृत्वा आलयं वा प्रदक्षिणं ॥ १०.६१ ॥
कांस्य-पात्रे शिष्यस्य शिरसि न्यसेथ् । ग्रामम् प्रदक्षिणम् कृत्वा आलयम् वा प्रदक्षिणम् ॥ १०।६१ ॥
kāṃsya-pātre śiṣyasya śirasi nyaseth . grāmam pradakṣiṇam kṛtvā ālayam vā pradakṣiṇam .. 10.61 ..
पालिकादीन्प्रपूर्यैव गायत्रीमन्त्र मुच्चरन् । ऐशान्यादिषु कोणेषु स्थापयेत्ताश्च पालिकाः ॥ १०.६२ ॥
पालिका-आदीन् प्रपूर्य एव गायत्री-मन्त्र मुच्चरन् । ऐशानी-आदिषु कोणेषु स्थापयेत् ताः च पालिकाः ॥ १०।६२ ॥
pālikā-ādīn prapūrya eva gāyatrī-mantra muccaran . aiśānī-ādiṣu koṇeṣu sthāpayet tāḥ ca pālikāḥ .. 10.62 ..
द्वारवामे तु कुंभं स्याच्छरावं द्वारदक्षिणे । नववस्त्रैस्समावेष्ट्य पालिकादीन्समर्चयेथ् ॥ १०.६३ ॥
द्वार-वामे तु कुंभम् स्यात् शरावम् द्वार-दक्षिणे । नव-वस्त्रैः समावेष्ट्य पालिका-आदीन् समर्चयेथ् ॥ १०।६३ ॥
dvāra-vāme tu kuṃbham syāt śarāvam dvāra-dakṣiṇe . nava-vastraiḥ samāveṣṭya pālikā-ādīn samarcayeth .. 10.63 ..
कङ्कुमुद्गयवाश्चापिनिष्पावाः सर्षपास्तथा । चणका स्तिलतिल्वाश्च पात्रेधान्यानिचाहरेथ् ॥ १०.६४ ॥
कङ्कु-मुद्ग-यवाः च अपि निष्पावाः सर्षपाः तथा । चणकाः स्तिल-तिल्वाः च पात्रे धान्यानि च आहरेथ् ॥ १०।६४ ॥
kaṅku-mudga-yavāḥ ca api niṣpāvāḥ sarṣapāḥ tathā . caṇakāḥ stila-tilvāḥ ca pātre dhānyāni ca āhareth .. 10.64 ..
हविःपात्रं तु संगृह्य वायव्ये सोम मर्चयेथ् । पुण्याहं वाच्य तत्काले तूर्यघोषण माचरेथ् ॥ १०.६५ ॥
हविः-पात्रम् तु संगृह्य वायव्ये सोम मर्चयेथ् । पुण्याहम् वाच्य तद्-काले तूर्य-घोषण माचरेथ् ॥ १०।६५ ॥
haviḥ-pātram tu saṃgṛhya vāyavye soma marcayeth . puṇyāham vācya tad-kāle tūrya-ghoṣaṇa mācareth .. 10.65 ..
इमेबीऽजेति मन्त्रेण वापयेदङ्कुरां स्ततः । विष्णुसूक्तं समुच्चार्य यजमानयुतो गुरुः ॥ १०.६६ ॥
मन्त्रेण वापयेत् अङ्कुरान् मन्त्रेण । विष्णुसूक्तम् समुच्चार्य यजमान-युतः गुरुः ॥ १०।६६ ॥
mantreṇa vāpayet aṅkurān mantreṇa . viṣṇusūktam samuccārya yajamāna-yutaḥ guruḥ .. 10.66 ..
सोमं राऽ जेति मन्त्रेण वापयेदङ्कुरां स्ततः । वारुणं मन्त्रमुच्चार्य जलनेकं तु कारयेथ् ॥ १०.६७ ॥
सोमम् ज इति मन्त्रेण वापयेत् अङ्कुरान् स्ततस् । वारुणम् मन्त्रम् उच्चार्य जलन् एकम् तु ॥ १०।६७ ॥
somam ja iti mantreṇa vāpayet aṅkurān statas . vāruṇam mantram uccārya jalan ekam tu .. 10.67 ..
शूद्रस्तु यजमानश्चेन्नपपस्त्रैर्गुरुं पुनः । संपूज्य दक्षिणां दत्वाततस्तेनैव वापयेथ् ॥ १०.६८ ॥
शूद्रः तु यजमानः चेद् न पपस्त्रैः गुरुम् पुनर् । संपूज्य दक्षिणाम् द-त्वा अततस् तेन एव ॥ १०।६८ ॥
śūdraḥ tu yajamānaḥ ced na papastraiḥ gurum punar . saṃpūjya dakṣiṇām da-tvā atatas tena eva .. 10.68 ..
प्रणवेनार्कपत्रैर्वातथा चैरण्डपत्रकैः । आच्छादये द्यावदन्तं त्रिकालाभ्यर्चनं मतं ॥ १०.६९ ॥
प्रणवेन अर्क-पत्रैः वा तथा च एरण्ड-पत्रकैः । आच्छादये द्यावत्-अन्तम् त्रि-काल-अभ्यर्चनम् मतम् ॥ १०।६९ ॥
praṇavena arka-patraiḥ vā tathā ca eraṇḍa-patrakaiḥ . ācchādaye dyāvat-antam tri-kāla-abhyarcanam matam .. 10.69 ..
अत्र देवान्विसृज्यैव गुप्तेदेशे निधापयेथ् । वस्त्रैर्नवैः समाच्छाद्य पालिकादीन्समर्चयेथ् ॥ १०.७० ॥
अत्र देवान् विसृज्य एव गुप्तेदेशे निधापयेथ् । वस्त्रैः नवैः समाच्छाद्य पालिका-आदीन् समर्चयेथ् ॥ १०।७० ॥
atra devān visṛjya eva guptedeśe nidhāpayeth . vastraiḥ navaiḥ samācchādya pālikā-ādīn samarcayeth .. 10.70 ..
अमावास्याव्यवहिते कुर्यात्सद्या एंकुरार्पणं । संक्रमव्यवधानेऽपि सद्य एवेति के च न ॥ १०.७१ ॥
अमावास्या-व्यवहिते कुर्यात् सद्यस् एंकुर-अर्पणम् । संक्रम-व्यवधाने अपि सद्यस् एव इति के च न ॥ १०।७१ ॥
amāvāsyā-vyavahite kuryāt sadyas eṃkura-arpaṇam . saṃkrama-vyavadhāne api sadyas eva iti ke ca na .. 10.71 ..
सद्या एंकुरश्चेद्रात्रौ वा दिवावापि च कारयेथ् । तथा सर्वक्रियां कृत्वा पुष्पैर्वा तण्डुरैस्तथा ॥ १०.७२ ॥
चेद् रात्रौ वा च । तथा सर्व-क्रियाम् कृत्वा पुष्पैः वा तण्डुरैः तथा ॥ १०।७२ ॥
ced rātrau vā ca . tathā sarva-kriyām kṛtvā puṣpaiḥ vā taṇḍuraiḥ tathā .. 10.72 ..
वापयेत्कर्मण स्तस्यसद्य एवतु कारयेथ् । पात्रालाभेशरावेवा यथालाभं च कारयेथ् ॥ १०.७३ ॥
वापयेत् कर्मणः तस्य सद्यस् एव तु । यथालाभम् च ॥ १०।७३ ॥
vāpayet karmaṇaḥ tasya sadyas eva tu . yathālābham ca .. 10.73 ..
अर्चयेत्तण्डुलान्शुद्धान्सद्यःकालांकुरार्पणे । गृह्णीयात्पालिका एव नवपञ्चैककल्पने ॥ १०.७४ ॥
अर्चयेत् तण्डुलान् शुद्धान् सद्यःकाल-अंकुर-अर्पणे । गृह्णीयात् पालिकाः एव नव-पञ्च-एक-कल्पने ॥ १०।७४ ॥
arcayet taṇḍulān śuddhān sadyaḥkāla-aṃkura-arpaṇe . gṛhṇīyāt pālikāḥ eva nava-pañca-eka-kalpane .. 10.74 ..
ब्रह्मणोऽभिमुखेचैकं शेषान्तु परितोदिशि । तत्तद्दिगीश मभ्यर्च्य तत्तन्मन्त्रेणचार्ऽचयेथ् ॥ १०.७५ ॥
ब्रह्मणः अभिमुखे च एकम् शेषान् तु परितस् दिशि । तद्-तद्-दिगीशम् अभ्यर्च्य तद्-तद्-मन्त्रेण च ॥ १०।७५ ॥
brahmaṇaḥ abhimukhe ca ekam śeṣān tu paritas diśi . tad-tad-digīśam abhyarcya tad-tad-mantreṇa ca .. 10.75 ..
एष एव विशेषस्स्या दन्यत्सर्वं खिलोक्तवथ् । लक्षणं च तथैवोक्तं तत्रैव च गुणागुणाः ॥ १०.७६ ॥
एषः एव विशेषः स्यात् अन्यत् सर्वम् । लक्षणम् च तथा एवा उक्तम् तत्र एव च गुण-अगुणाः ॥ १०।७६ ॥
eṣaḥ eva viśeṣaḥ syāt anyat sarvam . lakṣaṇam ca tathā evā uktam tatra eva ca guṇa-aguṇāḥ .. 10.76 ..
अजस्रदीपदानं तु सर्वत्र विधिना चरेथ् । कर्मान्ते जलमध्येतु निक्षिपे द्विजयांकुरान् ॥ १०.७७ ॥
अजस्र-दीप-दानम् तु सर्वत्र विधिना । कर्मान्ते जलम् अध्येतु निक्षिपे द्विज-यांकुरान् ॥ १०।७७ ॥
ajasra-dīpa-dānam tu sarvatra vidhinā . karmānte jalam adhyetu nikṣipe dvija-yāṃkurān .. 10.77 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे दशमोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे दशमः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre daśamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In