| |
|

This overlay will guide you through the buttons:

अथद्वितीयोऽध्यायः.
अथ द्वितीयः अध्यायः।
atha dvitīyaḥ adhyāyaḥ.
शङ्कुस्थापनम्
अतःपरंप्रवक्ष्यामि शङ्कुस्थापनमुत्तमं । मेषन्तथैववृषभङ्गते सूर्येदिनेतथा ॥ २.१ ॥
अतस् परम् प्रवक्ष्यामि शङ्कु-स्थापनम् उत्तमम् । मेषन् तथा एव वृषभन् गते सूर्ये दिने तथा ॥ २।१ ॥
atas param pravakṣyāmi śaṅku-sthāpanam uttamam . meṣan tathā eva vṛṣabhan gate sūrye dine tathā .. 2.1 ..
कृत्वासमतलांभूमिं गोमयेनतुलेवयेथ् । तद्बहिभ्रामयेत्सू त्रद्वयन्तेनै वमानतः ॥ २.२ ॥
कृत्वा सम-तलाम् भूमिम् । तत् बहिस् भ्रामयेत् वमानतः ॥ २।२ ॥
kṛtvā sama-talām bhūmim . tat bahis bhrāmayet vamānataḥ .. 2.2 ..
प्राचीसाधनम्
पूर्वाह्णेचापराह्णेच शङ्कुछायान्तुलाञ्छयेथ् । ततस्सूत्रत्रयंवाथपाति येच्छङ्कुमथ्यमे ॥ २.३ ॥
पूर्वाह्णे च अपराह्णे च । ततस् सूत्र-त्रयम् वा अथ पाति येत् शङ्कु-मथ्यमे ॥ २।३ ॥
pūrvāhṇe ca aparāhṇe ca . tatas sūtra-trayam vā atha pāti yet śaṅku-mathyame .. 2.3 ..
भ्रामयेदधिकेर्ऽषन्तु न्यूनेतावद्विवर्धयेथ् । प्राचीन्तत्सूत्रमानेन मध्यमेनै वकल्बयेथ् ॥ २.४ ॥
भ्रामयेत् न्यून-इतावत् विवर्धयेथ् । मध्यमेन ॥ २।४ ॥
bhrāmayet nyūna-itāvat vivardhayeth . madhyamena .. 2.4 ..
उदक्सूत्रंभवेत्तत्र कृत्वातुचतुरश्रकं । पञ्चगव्येनसंप्रोक्ष्य पुण्याहमपिवाचयेथ् ॥ २.५ ॥
उदक्-सूत्रम् भवेत् तत्र कृत्वा तु चतुरश्रकम् । पञ्चगव्येन संप्रोक्ष्य पुण्याहम् अपि वाचयेथ् ॥ २।५ ॥
udak-sūtram bhavet tatra kṛtvā tu caturaśrakam . pañcagavyena saṃprokṣya puṇyāham api vācayeth .. 2.5 ..
वास्तुपद देवतापूजनम्एकाशीतिपदान्कृत्वावास्तु देवान्प्रपूजयेथ् । ईशानादि समभ्यर्च्य द्वात्रिंशत्बदभागिनः ॥ २.६ ॥
देवता-पूजनम् एकाशीति-पदान् कृत्वा वास्तु देवान् प्रपूजयेथ् । ईशान-आदि समभ्यर्च्य द्वात्रिंशत्-बद-भागिनः ॥ २।६ ॥
devatā-pūjanam ekāśīti-padān kṛtvā vāstu devān prapūjayeth . īśāna-ādi samabhyarcya dvātriṃśat-bada-bhāginaḥ .. 2.6 ..
ईशानञ्चैवपर्जन्यं जयस्तञ्चमहेन्द्रकं । आदित्यंसत्यकंभृशमन्त रिक्षञ्चपूर्वगान् ॥ २.७ ॥
ईशानम् च एव पर्जन्यम् जयः तम् च महेन्द्रकम् । आदित्यम् सत्यकम् भृशम् अन्तरिक्षन् च पूर्वगान् ॥ २।७ ॥
īśānam ca eva parjanyam jayaḥ tam ca mahendrakam . ādityam satyakam bhṛśam antarikṣan ca pūrvagān .. 2.7 ..
अग्निःपूषाचवितथ ग्रहाक्षतयमास्तथा । गन्थर्वोभृङ्गराजर्षी दक्षिणेपददेवताः ॥ २.८ ॥
ग्रह-अक्षत-यमाः तथा । गन्थ-र्वः-भृङ्ग-राजर्षी दक्षिणेपद-देवताः ॥ २।८ ॥
graha-akṣata-yamāḥ tathā . gantha-rvaḥ-bhṛṅga-rājarṣī dakṣiṇepada-devatāḥ .. 2.8 ..
पश्चिमेनिरृतिश्चैव दौवारिकस्तथैवच । सुग्रीवःपुष्पदन्तश्च वरुणश्चासुरस्तथा ॥ २.९ ॥
पश्चिमे निरृतिः च एव दौवारिकः तथा एव च । सुग्रीवः पुष्पदन्तः च वरुणः च असुरः तथा ॥ २।९ ॥
paścime nirṛtiḥ ca eva dauvārikaḥ tathā eva ca . sugrīvaḥ puṣpadantaḥ ca varuṇaḥ ca asuraḥ tathā .. 2.9 ..
शोषणश्चैवरागश्चते चाष्टौकधितास्सुराः । उत्तरेजवनोनाग मुख्यौभल्लाट एवच ॥ २.१० ॥
शोषणः च एव रागः च ते च अष्टौ कधिताः सुराः । एव च ॥ २।१० ॥
śoṣaṇaḥ ca eva rāgaḥ ca te ca aṣṭau kadhitāḥ surāḥ . eva ca .. 2.10 ..
सोमोर्ऽगलोऽदितिश्चैव सूरिदेवस्तथैवच । ब्रह्मानवपदंभुङ्कै वास्तुमध्येविशेषतः ॥ २.११ ॥
सोमः ऊरगलः अदितिः च एव सूरिदेवः तथा एव च । वास्तु-मध्ये विशेषतः ॥ २।११ ॥
somaḥ ūragalaḥ aditiḥ ca eva sūridevaḥ tathā eva ca . vāstu-madhye viśeṣataḥ .. 2.11 ..
अर्यमादण्ड भृच्चैवपाशभृद्धनदस्तथा । ब्रह्मणश्चचतुर्दिक्षु स्थिताष्षट्पदभागिनः ॥ २.१२ ॥
अर्यमा-दण्ड-भृत् च एव पाशभृत् धनदः तथा । ब्रह्मणः च चतुर्-दिक्षु स्थिताः षष्-पद-भागिनः ॥ २।१२ ॥
aryamā-daṇḍa-bhṛt ca eva pāśabhṛt dhanadaḥ tathā . brahmaṇaḥ ca catur-dikṣu sthitāḥ ṣaṣ-pada-bhāginaḥ .. 2.12 ..
अपश्चैवापवत्सश्च सवितासावित्र एवच । इन्द्रश्चैवतथेन्द्राजो रुद्रोरुद्राज एवच ॥ २.१३ ॥
अपः च एव अपवत्सः च सविता आसावित्रः एव च । इन्द्रः च एव तथा इन्द्राजः रुद्रः रुद्राजः एव च ॥ २।१३ ॥
apaḥ ca eva apavatsaḥ ca savitā āsāvitraḥ eva ca . indraḥ ca eva tathā indrājaḥ rudraḥ rudrājaḥ eva ca .. 2.13 ..
एतेद्विपदभोक्तारो विदिक्षष्टौस्थितास्सुराः । चरकीदेवतारिश्च पूतनापापराक्षसी ॥ २.१४ ॥
एते द्विपद-भोक्तारः विदिश्-षष्टौ स्थिताः सुराः । चरकीदेवता-अरिः च पूतना-पाप-राक्षसी ॥ २।१४ ॥
ete dvipada-bhoktāraḥ vidiś-ṣaṣṭau sthitāḥ surāḥ . carakīdevatā-ariḥ ca pūtanā-pāpa-rākṣasī .. 2.14 ..
ईशानादिषुकोणेषु बाह्यस्थाःपदवर्जिताः । एवं विन्यस्यदेवांन्तु वास्तु देवं प्रकल्पयेथ् ॥ २.१५ ॥
ईशान-आदिषु कोणेषु बाह्य-स्थाः पद-वर्जिताः । एवम् वास्तु देवम् ॥ २।१५ ॥
īśāna-ādiṣu koṇeṣu bāhya-sthāḥ pada-varjitāḥ . evam vāstu devam .. 2.15 ..
वास्तुपुरुषलक्षणम्-पूजावास्तुनश्शिर ईशानेपादौ नैरृतिकेचरेथ् । हस्तौसरित्पतौज्ञेयावग्नौ बाहुरुदाहृतः ॥ २.१६ ॥
वास्तु-पुरुष-लक्षणम् पूजावास्तुनः शिरः ईशानेपादौ । हस्तौ सरित्पतौ ज्ञेयौ अग्नौ बाहुः उदाहृतः ॥ २।१६ ॥
vāstu-puruṣa-lakṣaṇam pūjāvāstunaḥ śiraḥ īśānepādau . hastau saritpatau jñeyau agnau bāhuḥ udāhṛtaḥ .. 2.16 ..
अपिकण्ठैतिप्रोक्तं हृदयञ्चापवत्सके । नाभिर्ब्रह्मणिसंख्याता कुक्षस्सवितृसंज्ञके ॥ २.१७ ॥
अपिकण्ठा एति प्रोक्तम् हृदयम् च आपवत्सके । नाभिः ब्रह्मणि संख्याता कुक्षः सवितृ-संज्ञके ॥ २।१७ ॥
apikaṇṭhā eti proktam hṛdayam ca āpavatsake . nābhiḥ brahmaṇi saṃkhyātā kukṣaḥ savitṛ-saṃjñake .. 2.17 ..
इन्द्रैन्द्राजके गुह्यमूरुमूलेविधानतः । पार्श्वन्तुदक्षिणं प्रोक्तंवाममेवं प्रकल्पयेथ् ॥ २.१८ ॥
इन्द्र-ऐन्द्राजके गुह्यम् ऊरु-मूले विधानतः । पार्श्वन्तु दक्षिणम् प्रोक्तम् वामम् एवम् ॥ २।१८ ॥
indra-aindrājake guhyam ūru-mūle vidhānataḥ . pārśvantu dakṣiṇam proktam vāmam evam .. 2.18 ..
शेतेवास्तुभुवं प्राप्यवास्तुदेवस्त्वधोमुखः । पुण्याहंवाचयित्वातु प्रोक्षणैःप्रोक्षणञ्चरेथ् ॥ २.१९ ॥
शेते वास्तु-भुवम् प्राप्य वास्तुदेवः तु अधोमुखः । पुण्याहम् वाचयित्वा तु प्रोक्षणैः प्रोक्षणम् चरेथ् ॥ २।१९ ॥
śete vāstu-bhuvam prāpya vāstudevaḥ tu adhomukhaḥ . puṇyāham vācayitvā tu prokṣaṇaiḥ prokṣaṇam careth .. 2.19 ..
पुष्पैर्गन्धैस्तथाधूपैर्दी पैश्चापिप्रपूजयेथ् । नमस्कारैश्चसंयुक्तैः प्रणवाद्यैस्स्वनामभिः ॥ २.२० ॥
पुष्पैः गन्धैः तथा धूपैः दीपैः । नमस्कारैः च संयुक्तैः प्रणव-आद्यैः स्व-नामभिः ॥ २।२० ॥
puṣpaiḥ gandhaiḥ tathā dhūpaiḥ dīpaiḥ . namaskāraiḥ ca saṃyuktaiḥ praṇava-ādyaiḥ sva-nāmabhiḥ .. 2.20 ..
शल्यपरीक्षा पूजनान्तेस्पृशेत्कर्ता यमङ्गन्तन्निरीक्षयेथ् । वास्तुदेहेऽपितत्रैवशल्यं ब्रूयाद्यथार्थतः ॥ २.२१ ॥
शल्य-परीक्षा पूजन-अन्ते स्पृशेत् कर्ता यम् अङ्गन् तत् निरीक्षयेथ् । वास्तु-देहे अपि तत्र एव शल्यम् ब्रूयात् यथार्थतः ॥ २।२१ ॥
śalya-parīkṣā pūjana-ante spṛśet kartā yam aṅgan tat nirīkṣayeth . vāstu-dehe api tatra eva śalyam brūyāt yathārthataḥ .. 2.21 ..
अस्तिशल्यंशिरस्स्पर्शे तद्धस्तद्वयमानतः । कण्ठस्पर्शेगलेचैव हस्तमात्रेसमादिशेथ् ॥ २.२२ ॥
अस्तिशल्यम् शिरः-स्पर्शे तद्-हस्त-द्वय-मानतः । कण्ठ-स्पर्शे गले च एव हस्त-मात्रे समादिशेथ् ॥ २।२२ ॥
astiśalyam śiraḥ-sparśe tad-hasta-dvaya-mānataḥ . kaṇṭha-sparśe gale ca eva hasta-mātre samādiśeth .. 2.22 ..
उपस्पर्शात्त्रिभिर्हास्तै श्श्रुङ्खलाशल्यमादिशेथ् । हस्तमात्रैकरस्पर्शात्खट्यापादंसमादिशेथ् ॥ २.२३ ॥
उपस्पर्शात् त्रिभिः ह अस्तैः श्रुङ्खला-शल्यम् आदिशेथ् । हस्त-मात्र-एक-र-स्पर्शात् खट्या-पादंसम् आदिशेथ् ॥ २।२३ ॥
upasparśāt tribhiḥ ha astaiḥ śruṅkhalā-śalyam ādiśeth . hasta-mātra-eka-ra-sparśāt khaṭyā-pādaṃsam ādiśeth .. 2.23 ..
बहुसंस्पर्शनात्कर्तु रङ्गारस्तुत्रिहस्ततः । गुल्भैसर्पादिभिर्दुष्टं वितस्तिद्वयमानतः ॥ २.२४ ॥
बहु-संस्पर्शनात् कर्तु । गुल्भैः सर्प-आदिभिः दुष्टम् वितस्ति-द्वय-मानतः ॥ २।२४ ॥
bahu-saṃsparśanāt kartu . gulbhaiḥ sarpa-ādibhiḥ duṣṭam vitasti-dvaya-mānataḥ .. 2.24 ..
पादेकण्टकमित्युक्तं षड्वितस्तिप्रमाणतः । कनिष्ठाङ्गुष्ठयोस्स्पृर्शाद्धस्तन्तत्रसमाचरेथ् ॥ २.२५ ॥
पादेकण्टकम् इति उक्तम् षष्-वितस्ति-प्रमाणतः । कनिष्ठा-अङ्गुष्ठयोः स्पृर्शात् हस्तन् तत्र समाचरेथ् ॥ २।२५ ॥
pādekaṇṭakam iti uktam ṣaṣ-vitasti-pramāṇataḥ . kaniṣṭhā-aṅguṣṭhayoḥ spṛrśāt hastan tatra samācareth .. 2.25 ..
व्ययाधिकेचतुर्हास्ते जानुस्पर्शात्ततःपरं । शल्यंविशोध्यभूमिन्तां तलङ्कृत्वासमानतः ॥ २.२६ ॥
व्यय-अधिके चतुर्-हा ते जानु-स्पर्शात् ततस् परम् । तलम् कृत्वा अ समानतस् ॥ २।२६ ॥
vyaya-adhike catur-hā te jānu-sparśāt tatas param . talam kṛtvā a samānatas .. 2.26 ..
पञ्चगव्येनसंप्रोक्ष्य वास्तुदेवान्प्रपूजयेथ् । वास्तुदेवताबलिः द्रोणन्द्रोणार्थकंवापितण्डुलान्पाचयेत्ततः ॥ २.२७ ॥
पञ्चगव्येन संप्रोक्ष्य वास्तु-देवान् प्रपूजयेथ् । वास्तु-देवता-बलिः द्रोणन् द्रोण-अर्थकम् वा अपि तण्डुलान् पाचयेत् ततस् ॥ २।२७ ॥
pañcagavyena saṃprokṣya vāstu-devān prapūjayeth . vāstu-devatā-baliḥ droṇan droṇa-arthakam vā api taṇḍulān pācayet tatas .. 2.27 ..
दधिगुडाज्यसंयुक्तं सर्वेषाञ्चबलिन्ददेथ् । ब्रह्मदीनांनमोस्तंवा स्वाहास्तंवाबलिर्भवेथ् ॥ २.२८ ॥
दधि-गुड-आज्य-संयुक्तम् । स्वाहा-स्तम्-वा बलिः ॥ २।२८ ॥
dadhi-guḍa-ājya-saṃyuktam . svāhā-stam-vā baliḥ .. 2.28 ..
कृत्वातु बलिदानञ्च पुण्याहमपिवाचयेथ् ॥ २.२९ ॥
कृत्वा तु बलि-दानम् च पुण्याहम् अपि वाचयेथ् ॥ २।२९ ॥
kṛtvā tu bali-dānam ca puṇyāham api vācayeth .. 2.29 ..
इतिश्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वितीयोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे द्वितीयः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre dvitīyaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In