| |
|

This overlay will guide you through the buttons:

अथ द्वादशोऽध्यायः.
अथ द्वादशः अध्यायः।
atha dvādaśaḥ adhyāyaḥ.
भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेथ् । स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रविथ् ॥ १२.१ ॥
अथ प्रदोषे धर्म-आत्मा जल-स्थम् देवम् उद्धरेथ् । स्नान-द्रव्याणि च आहृत्य देवम् संस्नाप्य ॥ १२।१ ॥
atha pradoṣe dharma-ātmā jala-stham devam uddhareth . snāna-dravyāṇi ca āhṛtya devam saṃsnāpya .. 12.1 ..
क्ष्ॐअपट्टादिना छाद्य मणिहेमादिकैः पुनः । विविधैः पुष्पमालाद्यैरलङ्कृत्य मनोहरं ॥ १२.२ ॥
क्षोंअ-पट्ट-आदिना छाद्य मणि-हेम-आदिकैः पुनर् । विविधैः पुष्प-माला-आद्यैः अलङ्कृत्य मनोहरम् ॥ १२।२ ॥
kṣoṃa-paṭṭa-ādinā chādya maṇi-hema-ādikaiḥ punar . vividhaiḥ puṣpa-mālā-ādyaiḥ alaṅkṛtya manoharam .. 12.2 ..
यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् । तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणं ॥ १२.३ ॥
यान मारोप्य देवेशम् सु अक्ति-सूक्तम् समुच्चरन् । तोय-धाराम् पुरस्कृत्य नीत्वा ग्रामम् प्रदक्षिणम् ॥ १२।३ ॥
yāna māropya deveśam su akti-sūktam samuccaran . toya-dhārām puraskṛtya nītvā grāmam pradakṣiṇam .. 12.3 ..
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः । उत्तरे यागशालायां वास्तु होमं समाचरेथ् ॥ १२.४ ॥
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः । उत्तरे याग-शालायाम् वास्तु होमम् समाचरेथ् ॥ १२।४ ॥
śvabhrasya paścime bhāge sthāpayitvā viśeṣataḥ . uttare yāga-śālāyām vāstu homam samācareth .. 12.4 ..
मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा । संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ॥ १२.५ ॥
मथित्वा अग्निम् प्रगृह्णीयाः द्वास्तु होम-अग्निम् एव वा । संस्कृत्य विधिना आदाय प्रणये त् गार्हपत्यके ॥ १२।५ ॥
mathitvā agnim pragṛhṇīyāḥ dvāstu homa-agnim eva vā . saṃskṛtya vidhinā ādāya praṇaye t gārhapatyake .. 12.5 ..
त्रिस्संस्कृतो लौकिकाग्निर्मथिताग्निसमो भवेथ् । आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेथ् ॥ १२.६ ॥
त्रिस् संस्कृतः लौकिक-अग्निः मथित-अग्नि-समः । आघारम् विधिवत् कृत्वा वैष्णव-अन्तम् समाचरेथ् ॥ १२।६ ॥
tris saṃskṛtaḥ laukika-agniḥ mathita-agni-samaḥ . āghāram vidhivat kṛtvā vaiṣṇava-antam samācareth .. 12.6 ..
ततोऽन्वाहार्यकुण्डे च पश्चादाहवनीयके । आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमाथ् ॥ १२.७ ॥
ततस् अन्वाहार्य-कुण्डे च पश्चात् आहवनीयके । आवसथ्ये ततस् सभ्ये ततस् पद्म-अनले क्रमाथ् ॥ १२।७ ॥
tatas anvāhārya-kuṇḍe ca paścāt āhavanīyake . āvasathye tatas sabhye tatas padma-anale kramāth .. 12.7 ..
सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेथ् । द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः ॥ १२.८ ॥
सूत्र-उक्तेन विधानेन सर्वत्र आघारम् आचरेथ् । द्वात्रिंशत्-प्रस्थ-संपूर्णम् घटम् आदाय चात्वरः ॥ १२।८ ॥
sūtra-uktena vidhānena sarvatra āghāram ācareth . dvātriṃśat-prastha-saṃpūrṇam ghaṭam ādāya cātvaraḥ .. 12.8 ..
इषे त्वोर्जेऽत्वादि जपन्तन्तुना परिवेष्ट्य च । शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेथ् ॥ १२.९ ॥
इषे त्वा ऊर्जे अत्वा आदि जपन् तन्तुना परिवेष्ट्य च । शुचिः वः हव्या इति उक्त्वा कुंभ-प्रक्षालनम् चरेथ् ॥ १२।९ ॥
iṣe tvā ūrje atvā ādi japan tantunā pariveṣṭya ca . śuciḥ vaḥ havyā iti uktvā kuṃbha-prakṣālanam careth .. 12.9 ..
नदीतोयं समादाय समुत्पूय च पूरयेथ् । वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात्प्रयत्नतः ॥ १२.१० ॥
नदी-तोयम् समादाय समुत्पूय च । वस्त्र-युग्मेन च आवेष्ट्य अलङ्कुर्यात् प्रयत्नतः ॥ १२।१० ॥
nadī-toyam samādāya samutpūya ca . vastra-yugmena ca āveṣṭya alaṅkuryāt prayatnataḥ .. 12.10 ..
एलातक्कोलकर्पूरैर्गन्धोशीराक्षतैःक्रमाथ् । अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ॥ १२.११ ॥
एला-तक्कोल-कर्पूरैः गन्ध-उशीर-अक्षतैः । अन्यैः गन्ध-युतैः पुष्पैः वासयित्वा विधानतः ॥ १२।११ ॥
elā-takkola-karpūraiḥ gandha-uśīra-akṣataiḥ . anyaiḥ gandha-yutaiḥ puṣpaiḥ vāsayitvā vidhānataḥ .. 12.11 ..
सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः । गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेथ् ॥ १२.१२ ॥
सुवर्ण-रत्न-धातून् च न्यसित्वा मन्त्र-वित्तमः । गो-वाल-कुश-दर्भैः च कृतम् कूर्चम् तु निक्षिपेथ् ॥ १२।१२ ॥
suvarṇa-ratna-dhātūn ca nyasitvā mantra-vittamaḥ . go-vāla-kuśa-darbhaiḥ ca kṛtam kūrcam tu nikṣipeth .. 12.12 ..
अथ वा निक्षिपेत्कूर्चं कृतं दर्भैस्तु केवलैः । अस्थि रत्नं सिरा स्तन्तुर्मांसो मृत्स्ना प्रकीर्तिता ॥ १२.१३ ॥
अथ वा निक्षिपेत् कूर्चम् कृतम् दर्भैः तु केवलैः । अस्थि रत्नम् सिराः स्तन्तुः मांसः मृत्स्ना प्रकीर्तिता ॥ १२।१३ ॥
atha vā nikṣipet kūrcam kṛtam darbhaiḥ tu kevalaiḥ . asthi ratnam sirāḥ stantuḥ māṃsaḥ mṛtsnā prakīrtitā .. 12.13 ..
शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च । शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितं ॥ १२.१४ ॥
शोणितम् जलम् मेदः तथा एव च । शुक्रम् तु कूर्चम् इति उक्तम् वस्त्रम् स्यात् चर्म वैष्टितम् ॥ १२।१४ ॥
śoṇitam jalam medaḥ tathā eva ca . śukram tu kūrcam iti uktam vastram syāt carma vaiṣṭitam .. 12.14 ..
सप्त धातव इत्येते कुंभेषु करकेषु च । एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ॥ १२.१५ ॥
सप्त धातवः इति एते कुंभेषु करकेषु च । एतेषु एकम् विना कुर्यात् न अस्ति तत्र अस्य सन्निधिः ॥ १२।१५ ॥
sapta dhātavaḥ iti ete kuṃbheṣu karakeṣu ca . eteṣu ekam vinā kuryāt na asti tatra asya sannidhiḥ .. 12.15 ..
देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च । अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ॥ १२.१६ ॥
देवस्य दक्षिणे पार्श्वे कुंभम् तत्र निवेश्य च । अलङ्कृतः तथा आचार्यः वस्त्र-आभरण-कुण्डलैः ॥ १२।१६ ॥
devasya dakṣiṇe pārśve kuṃbham tatra niveśya ca . alaṅkṛtaḥ tathā ācāryaḥ vastra-ābharaṇa-kuṇḍalaiḥ .. 12.16 ..
स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनं । कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा ॥ १२.१७ ॥
स्रज्-गन्धैः वेष्टितः मुखस्य उष्णीष-बन्धनम् । कुंभस्य दक्षिणे भागे प्राच्-मुख-उदक्-मुखः अपि वा ॥ १२।१७ ॥
sraj-gandhaiḥ veṣṭitaḥ mukhasya uṣṇīṣa-bandhanam . kuṃbhasya dakṣiṇe bhāge prāc-mukha-udak-mukhaḥ api vā .. 12.17 ..
स्वस्तिकासन मास्थाय ऋजुकायः समाहितः । ललाटादिषु स्थानेषु केशवादीन्प्रणम्यच ॥ १२.१८ ॥
स्वस्तिक-आसनम् आस्थाय ऋजु-कायः समाहितः । ललाट-आदिषु स्थानेषु केशव-आदीन् प्रणम्य च ॥ १२।१८ ॥
svastika-āsanam āsthāya ṛju-kāyaḥ samāhitaḥ . lalāṭa-ādiṣu sthāneṣu keśava-ādīn praṇamya ca .. 12.18 ..
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु । पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेथ् ॥ १२.१९ ॥
अकार-आदि-अक्षरम् सर्वम् न्यसित्वा सर्व-सन्धिषु । पश्चात् कुंभम् सु संत्पृश्य क्रमात् सूक्त-आदिकम् जपेथ् ॥ १२।१९ ॥
akāra-ādi-akṣaram sarvam nyasitvā sarva-sandhiṣu . paścāt kuṃbham su saṃtpṛśya kramāt sūkta-ādikam japeth .. 12.19 ..
आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च । सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परं ॥ १२.२० ॥
आत्म-सूक्तम् ततस् जप्त्वा पौरुषम् सूक्तम् एव च । सूक्तम् एक-अक्षरम् जप्त्वा विष्णुसूक्त मतः परम् ॥ १२।२० ॥
ātma-sūktam tatas japtvā pauruṣam sūktam eva ca . sūktam eka-akṣaram japtvā viṣṇusūkta mataḥ param .. 12.20 ..
श्रीभूसूक्तं ततो जप्त्वा सहस्रशीर्षंऽसमुच्चरन् । वैष्णवं तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः ॥ १२.२१ ॥
श्री-भूसूक्तम् ततस् जप्त्वा । वैष्णवम् तु ततस् जप्त्वा ध्यायेत् सम्यक् समाहितः ॥ १२।२१ ॥
śrī-bhūsūktam tatas japtvā . vaiṣṇavam tu tatas japtvā dhyāyet samyak samāhitaḥ .. 12.21 ..
प्राणायामं ततः कुर्यात्रेचपूरककुंभकैः । एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधं ॥ १२.२२ ॥
प्राणायामम् ततस् कुर्यात् रेच-पूरक-कुंभकैः । एतद्-फलम् क्रमात् वक्ष्ये त्रिविधम् तद्-पृथग्विधम् ॥ १२।२२ ॥
prāṇāyāmam tatas kuryāt reca-pūraka-kuṃbhakaiḥ . etad-phalam kramāt vakṣye trividham tad-pṛthagvidham .. 12.22 ..
तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकं । पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ॥ १२.२३ ॥
तत्र एव रेचकम् पूर्वम् सर्व-पापस्य दाहकम् । पश्चात् तु पूरकम् कुर्यात् अमृत-आप्यायनम् ततस् ॥ १२।२३ ॥
tatra eva recakam pūrvam sarva-pāpasya dāhakam . paścāt tu pūrakam kuryāt amṛta-āpyāyanam tatas .. 12.23 ..
तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेथ् । तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेथ् ॥ १२.२४ ॥
तृतीयम् कुंभकम् कुर्यात् अमृत-त्वम् च संस्मरेथ् । तस्मात् सर्व-प्रयत्नेन रेचक-आदीनि कारयेथ् ॥ १२।२४ ॥
tṛtīyam kuṃbhakam kuryāt amṛta-tvam ca saṃsmareth . tasmāt sarva-prayatnena recaka-ādīni kārayeth .. 12.24 ..
कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः । अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेथ् ॥ १२.२५ ॥
जलम् स्मृत्वा वारुणम् मण्डलम् बुधः । अर्धचन्द्र-आकृतिम् स्मृत्वा तस्य बीज-अक्षरम् न्यसेथ् ॥ १२।२५ ॥
jalam smṛtvā vāruṇam maṇḍalam budhaḥ . ardhacandra-ākṛtim smṛtvā tasya bīja-akṣaram nyaseth .. 12.25 ..
तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलं । आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेथ् ॥ १२.२६ ॥
तम् ओङ्कारेण संवेष्ट्य बन्ध-युक्तम्? तु निश्मलम् । आदित्य-मण्डल-अन्तस्थम् देवम् तत्र एव ॥ १२।२६ ॥
tam oṅkāreṇa saṃveṣṭya bandha-yuktam? tu niśmalam . āditya-maṇḍala-antastham devam tatra eva .. 12.26 ..
आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितं । पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनं ॥ १२.२७ ॥
आदिबीजम् सुवर्ण-आभम् प्रणवैः परिवेष्टितम् । पश्चात् देवम् समभ्यर्च्य कुर्याः अर्घ्य-अन्तम् मर्चनम् ॥ १२।२७ ॥
ādibījam suvarṇa-ābham praṇavaiḥ pariveṣṭitam . paścāt devam samabhyarcya kuryāḥ arghya-antam marcanam .. 12.27 ..
बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेथ् । श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेथ् ॥ १२.२८ ॥
बिंबम् कुंभम् च संगृह्य स्नान-श्वभ्रे निवेशयेथ् । श्वभ्रस्य पूर्व-भागे तु दण्ड-पङ्क्तिम् च ॥ १२।२८ ॥
biṃbam kuṃbham ca saṃgṛhya snāna-śvabhre niveśayeth . śvabhrasya pūrva-bhāge tu daṇḍa-paṅktim ca .. 12.28 ..
कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु । देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेथ् ॥ १२.२९ ॥
कलशैः स्नापयेत् सम्यक् चतुर्दशभिः एव तु । देवम् सर्वत्र संस्नाप्य दीप-अन्तम् च समर्चयेथ् ॥ १२।२९ ॥
kalaśaiḥ snāpayet samyak caturdaśabhiḥ eva tu . devam sarvatra saṃsnāpya dīpa-antam ca samarcayeth .. 12.29 ..
नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः । एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ॥ १२.३० ॥
नैरृते विष्टरे न्यस्य नमेत् देवान् समाहितः । एवम् देव्यौ समादाय स्नापये बुधः ॥ १२।३० ॥
nairṛte viṣṭare nyasya namet devān samāhitaḥ . evam devyau samādāya snāpaye budhaḥ .. 12.30 ..
पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च । पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ॥ १२.३१ ॥
पाद्यम् आचमनम् द-त्वा देवदेवम् प्रणम्य च । पात्रम् तु तण्डुलैः पूर्णम् गृहीत्वा अत्र विशेषतः ॥ १२।३१ ॥
pādyam ācamanam da-tvā devadevam praṇamya ca . pātram tu taṇḍulaiḥ pūrṇam gṛhītvā atra viśeṣataḥ .. 12.31 ..
सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेथ् । अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ॥ १२.३२ ॥
सौवर्णम् राजतम् वा अपि कौतुकम् तत्र निक्षिपेथ् । अथ वा तन्तु माहृत्य न्यसित्वा तण्डुल-उपरि ॥ १२।३२ ॥
sauvarṇam rājatam vā api kautukam tatra nikṣipeth . atha vā tantu māhṛtya nyasitvā taṇḍula-upari .. 12.32 ..
तांबूलसहिते पात्रे? देवस्याग्रे निधायच । पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ॥ १२.३३ ॥
तांबूल-सहिते पात्रे? देवस्य अग्रे निधाय च । पुण्याहम् वाच्य तद्-काले स्वस्ति-सूक्तम् समुच्चरन् ॥ १२।३३ ॥
tāṃbūla-sahite pātre? devasya agre nidhāya ca . puṇyāham vācya tad-kāle svasti-sūktam samuccaran .. 12.33 ..
देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः । स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमाथ् ॥ १२.३४ ॥
देवस्य दक्षिणे हस्ते वाम-हस्तयोः । स्वस्ति-दाः कौतुकम् बन्धयेत् क्रमाथ् ॥ १२।३४ ॥
devasya dakṣiṇe haste vāma-hastayoḥ . svasti-dāḥ kautukam bandhayet kramāth .. 12.34 ..
वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् । षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेथ् ॥ १२.३५ ॥
वेद-मन्त्र-ज्ञः आचार्यः रक्षा-मन्त्रम् समुच्चरन् । षष्-द्रोणम् धान्यम् अर्धम् वा वेदिका-उपरि च अस्तरेथ् ॥ १२।३५ ॥
veda-mantra-jñaḥ ācāryaḥ rakṣā-mantram samuccaran . ṣaṣ-droṇam dhānyam ardham vā vedikā-upari ca astareth .. 12.35 ..
तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि । तदग्धं यवमादाय तदर्धं तिल्वमेव च ॥ १२.३६ ॥
तद्-अर्धम् तण्डुलान् च एव तद्-अग्धम् तु तिलान् अपि । तद्-अग्धम् यवम् आदाय तद्-अर्धम् तिल्वम् एव च ॥ १२।३६ ॥
tad-ardham taṇḍulān ca eva tad-agdham tu tilān api . tad-agdham yavam ādāya tad-ardham tilvam eva ca .. 12.36 ..
अण्डजं मुण्डजं चैवरोमजं वामजं तथा । चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ॥ १२.३७ ॥
अण्ड-जम् मुण्ड-जम् च एव रोम-जम् वाम-जम् तथा । चर्म-जम् च आस्तरेत् पञ्च शयनम् वेदिका-उपरि ॥ १२।३७ ॥
aṇḍa-jam muṇḍa-jam ca eva roma-jam vāma-jam tathā . carma-jam ca āstaret pañca śayanam vedikā-upari .. 12.37 ..
अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेथ् । मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेथ् ॥ १२.३८ ॥
अलाभे तु तथा एत-एषाम् पञ्च-वस्त्राणि । मूर्धोपधानम् कर्तव्यम् ऊर्ध्वे अनस्तम् ॥ १२।३८ ॥
alābhe tu tathā eta-eṣām pañca-vastrāṇi . mūrdhopadhānam kartavyam ūrdhve anastam .. 12.38 ..
देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः । शाययेच्छयने विद्वान्यद्वैष्णवऽमिति ब्रुवन् ॥ १२.३९ ॥
देवम् देव्यौ समादाय यत् दिश्-द्वारम् तथा शिरः । शाययेत् शयने विद्वान् यत् वैष्णवम् इति ब्रुवन् ॥ १२।३९ ॥
devam devyau samādāya yat diś-dvāram tathā śiraḥ . śāyayet śayane vidvān yat vaiṣṇavam iti bruvan .. 12.39 ..
देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमाथ् । उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ॥ १२.४० ॥
देव्योः च अपि तथा कुर्यात् तत् तत् सूक्तम् जपेत् क्रमाथ् । उत्तर-आच्छादनम् कुर्यात् गल-अन्तम् तत्र निक्षिपेत्? ॥ १२।४० ॥
devyoḥ ca api tathā kuryāt tat tat sūktam japet kramāth . uttara-ācchādanam kuryāt gala-antam tatra nikṣipet? .. 12.40 ..
शय्यावेद्यास्तुपरितस्सर्वान्देवान्त्समर्चयेर्थ् । इशानादिक्रमाद्देवान्बल्यन्तन्तु समर्चयेथ् ॥ १२.४१ ॥
शय्या-वेद्याः तु परितस् सर्वान् देवान् समर्चयेः । इशान-आदि-क्रमात् देवान् बल्यन्तन्तु ॥ १२।४१ ॥
śayyā-vedyāḥ tu paritas sarvān devān samarcayeḥ . iśāna-ādi-kramāt devān balyantantu .. 12.41 ..
शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ । अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान्क्रमाथ् ॥ १२.४२ ॥
शङ्करम् बलिरक्षम् च वाग्देवीम् बलि-श्रक्रकौ । अग्निम् पवित्रम् शैलूषम् प्राच्याम् प्रत्यक्-मुखान् क्रमाथ् ॥ १२।४२ ॥
śaṅkaram balirakṣam ca vāgdevīm bali-śrakrakau . agnim pavitram śailūṣam prācyām pratyak-mukhān kramāth .. 12.42 ..
भ्ॐअं गुहं च दुर्गां च यमं मन्दं च नैरृतिं । रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ॥ १२.४३ ॥
भोंअम् गुहम् च दुर्गाम् च यमम् मन्दम् च नैरृतिम् । रोहिणीम् सप्त-मातॄः च दक्षिणे च उत्तरा-मुखान् ॥ १२।४३ ॥
bhoṃam guham ca durgām ca yamam mandam ca nairṛtim . rohiṇīm sapta-mātṝḥ ca dakṣiṇe ca uttarā-mukhān .. 12.43 ..
पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमाथ् । वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ॥ १२.४४ ॥
पश्चिमे नैरृत-आदि-आदीन् अर्चयेत् तद्-अनुक्रमान् । वैष्णवीम् पुरुषम् च एव बुधम् ज्येष्ठाम् तथा एव च ॥ १२।४४ ॥
paścime nairṛta-ādi-ādīn arcayet tad-anukramān . vaiṣṇavīm puruṣam ca eva budham jyeṣṭhām tathā eva ca .. 12.44 ..
पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेथ् । वायव्यादीशपर्यस्तं दक्षिणाभिमूखान्क्रमाथ् ॥ १२.४५ ॥
पुष्परक्षक-वायू च प्राच्-मुखान् च समर्चयेथ् । वायव्यात् ईश-पर्यस्तम् दक्षिण-अभिमूखान् क्रमाथ् ॥ १२।४५ ॥
puṣparakṣaka-vāyū ca prāc-mukhān ca samarcayeth . vāyavyāt īśa-paryastam dakṣiṇa-abhimūkhān kramāth .. 12.45 ..
शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि । भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेथ् ॥ १२.४६ ॥
शुक्रम् च एव भृगुम् शान्तम् तथा सप्त ऋषीन् अपि । भागीरथीम् कुबेरम् च चन्द्रम् भूतानि ॥ १२।४६ ॥
śukram ca eva bhṛgum śāntam tathā sapta ṛṣīn api . bhāgīrathīm kuberam ca candram bhūtāni .. 12.46 ..
द्वारे द्वारे च धात्रादीन्द्वारदेवान्त्समर्चयेथ् । विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमाथ् ॥ १२.४७ ॥
द्वारे द्वारे च धातृ-आदीन् द्वारदेवान् समर्चयेथ् । विमानम् परितस् भ्यर्च्य न्यक्ष-आदीन् अर्चयेत् क्रमाथ् ॥ १२।४७ ॥
dvāre dvāre ca dhātṛ-ādīn dvāradevān samarcayeth . vimānam paritas bhyarcya nyakṣa-ādīn arcayet kramāth .. 12.47 ..
देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः । भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ॥ १२.४८ ॥
देवस्य अग्रे प्रसन्न-आत्मा पूजयेत् अनपायिनः । भूत-द्वयम् तथा तार्क्ष्यम् तथा च एव अमितम् बुधः ॥ १२।४८ ॥
devasya agre prasanna-ātmā pūjayet anapāyinaḥ . bhūta-dvayam tathā tārkṣyam tathā ca eva amitam budhaḥ .. 12.48 ..
चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः । वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः ॥ १२.४९ ॥
चक्र-शङ्ख-अरविन्दानि देवस्य अग्रेः अचयेत् बुधः । वेदान् अध्यापयेत् दिक्षु "ऋचाम् प्र आऽचीः इति श्रुतिः ॥ १२।४९ ॥
cakra-śaṅkha-aravindāni devasya agreḥ acayet budhaḥ . vedān adhyāpayet dikṣu "ṛcām pra ā'cīḥ iti śrutiḥ .. 12.49 ..
संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमाथ् । हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतं ॥ १२.५० ॥
संभार-वेद्याम् आस्तीर्य धान्यम् । हेम-आदि-पात्रे रत्न-आदीम् त्-सन्-न्यस्य एव अधिदैवतम् ॥ १२।५० ॥
saṃbhāra-vedyām āstīrya dhānyam . hema-ādi-pātre ratna-ādīm t-san-nyasya eva adhidaivatam .. 12.50 ..
विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनं । विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ॥ १२.५१ ॥
विष्णुम् अभ्यर्च्य विधिना कारयित्वा अधिवासनम् । विष्णुसूक्तम् समुच्चार्य वस्त्रेण आच्छादयेत् बुधः ॥ १२।५१ ॥
viṣṇum abhyarcya vidhinā kārayitvā adhivāsanam . viṣṇusūktam samuccārya vastreṇa ācchādayet budhaḥ .. 12.51 ..
पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतं । पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितं ॥ १२.५२ ॥
पश्चात् होतारम् आहूय यथा उक्त-गुण-संयुतम् । पादौ प्रक्षाल्य च आचम्य कूर्च-युक्तम् समाहितम् ॥ १२।५२ ॥
paścāt hotāram āhūya yathā ukta-guṇa-saṃyutam . pādau prakṣālya ca ācamya kūrca-yuktam samāhitam .. 12.52 ..
अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः । सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ॥ १२.५३ ॥
अलङ्कुर्यात् च पुष्प-आद्यैः पञ्चाङ्ग-उचित-भूषणैः । सभ्यस्य पूर्व-भागे तु पश्चिम-अभिमुखः स्थितः ॥ १२।५३ ॥
alaṅkuryāt ca puṣpa-ādyaiḥ pañcāṅga-ucita-bhūṣaṇaiḥ . sabhyasya pūrva-bhāge tu paścima-abhimukhaḥ sthitaḥ .. 12.53 ..
सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेथ् । होतरेहिऽ पदे उक्तेततो होता समुच्चरेथ् ॥ १२.५४ ॥
सभ्य-अध्वर्युम् समीक्ष्य एव होता प्रणवम् उच्चरेथ् । होतर् एहि पदे उक्ते इततस् होता समुच्चरेथ् ॥ १२।५४ ॥
sabhya-adhvaryum samīkṣya eva hotā praṇavam uccareth . hotar ehi pade ukte itatas hotā samuccareth .. 12.54 ..
अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेथ् । पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन् ॥ १२.५५ ॥
अध्वर्यो देव-ता इति उक्त्वा पादौ प्रक्षाल्य च आचमेथ् । पूर्ववत् तत्र च स्थित्वा "ओम् नमः प्रवक्त्रे ब्रुवन् ॥ १२।५५ ॥
adhvaryo deva-tā iti uktvā pādau prakṣālya ca ācameth . pūrvavat tatra ca sthitvā "om namaḥ pravaktre bruvan .. 12.55 ..
होता च नाम शर्मान्तं संयोज्यैव समुच्चरेथ् । भूते भविष्यऽतीत्युक्त्वा ब्रूयाद्धिंऽकारपूर्वकं ॥ १२.५६ ॥
होता च नाम शर्म-अन्तम् संयोज्य एव समुच्चरेथ् । भूते भविष्यति इति उक्त्वा ब्रूयात् हिं कार-पूर्वकम् ॥ १२।५६ ॥
hotā ca nāma śarma-antam saṃyojya eva samuccareth . bhūte bhaviṣyati iti uktvā brūyāt hiṃ kāra-pūrvakam .. 12.56 ..
भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणं । अदध्यात्समिधोऽध्वर्युः प्रत्योङ्कारं ततोऽनले ॥ १२.५७ ॥
भूः भुवः सुवर् इति एव प्राच्-मुखः च प्रदक्षिणम् । अदध्यात् समिधः अध्वर्युः प्रति ओङ्कारम् ततस् अनले ॥ १२।५७ ॥
bhūḥ bhuvaḥ suvar iti eva prāc-mukhaḥ ca pradakṣiṇam . adadhyāt samidhaḥ adhvaryuḥ prati oṅkāram tatas anale .. 12.57 ..
होत्राग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते । राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेथ् ॥ १२.५८ ॥
होत्रा अग्ने महा अम् इति उक्ते प्रभौः प्रवरः इष्यते । राज्ञः वा राज-पत्म्याः वा तथा अमात्यस्य वा ॥ १२।५८ ॥
hotrā agne mahā am iti ukte prabhauḥ pravaraḥ iṣyate . rājñaḥ vā rāja-patmyāḥ vā tathā amātyasya vā .. 12.58 ..
ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेथ् । अथ वा कारयेद्विद्वान्काश्यप्रवरं वदन् ॥ १२.५९ ॥
ग्रामः चेद् यजमानः तु वसिष्ठ-प्रवरम् । अथ वा कारयेत् विद्वान् काश्य-प्रवरम् वदन् ॥ १२।५९ ॥
grāmaḥ ced yajamānaḥ tu vasiṣṭha-pravaram . atha vā kārayet vidvān kāśya-pravaram vadan .. 12.59 ..
वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि । तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेथ् ॥ १२.६० ॥
वैश्यात् अन्यत्र जातीयः यजमानः भवेत् यदि । तस्य तु प्रवरम् हित्वा काश्यप-प्रवरम् वदेथ् ॥ १२।६० ॥
vaiśyāt anyatra jātīyaḥ yajamānaḥ bhavet yadi . tasya tu pravaram hitvā kāśyapa-pravaram vadeth .. 12.60 ..
तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः । विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेथ् ॥ १२.६१ ॥
तत "आयातु भगवान् अन् उक्त्वा पश्चिम-दिश्-मुखः । विष्णु-आदि-भूत-पर्यन्तम् ॥ १२।६१ ॥
tata "āyātu bhagavān an uktvā paścima-diś-mukhaḥ . viṣṇu-ādi-bhūta-paryantam .. 12.61 ..
ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः । आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेथ् ॥ १२.६२ ॥
ननधा-उक्तेन मार्गेण पार्षदान् आह्वयेत् बुधः । आवाहन-क्रमेण एव निरुप्य आज्य-आहुतीः यजेथ् ॥ १२।६२ ॥
nanadhā-uktena mārgeṇa pārṣadān āhvayet budhaḥ . āvāhana-krameṇa eva nirupya ājya-āhutīḥ yajeth .. 12.62 ..
सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकं । स्वस्तिचैऽवेति हुत्वातु तथा चैव प्रजापतेःऽ ॥ १२.६३ ॥
सभ्य-अग्निम् च परिस्तीर्य प्राणायाम-आदि-पूर्वकम् । हुत्वा तु तथा च एव प्रजापतेः ॥ १२।६३ ॥
sabhya-agnim ca paristīrya prāṇāyāma-ādi-pūrvakam . hutvā tu tathā ca eva prajāpateḥ .. 12.63 ..
अग्निर्धीमतऽयेत्युक्त्वा आदित्येभ्यऽस्तथैव च । विश्वेभ्यो देवेभ्यऽश्चैव मरुद्गणेभ्यऽएव च ॥ १२.६४ ॥
अग्निः धीमत इति उक्त्वा आदित्येभ्यः तथा एव च । विश्वेभ्यः देवेभ्यः च एव मरुत्-गणेभ्यः एव च ॥ १२।६४ ॥
agniḥ dhīmata iti uktvā ādityebhyaḥ tathā eva ca . viśvebhyaḥ devebhyaḥ ca eva marut-gaṇebhyaḥ eva ca .. 12.64 ..
भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेथ् । दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ॥ १२.६५ ॥
भूः अग्नये अ च एवमाद्याः चतस्रः व्याहृतीः यजेथ् । दशभिः सतशस् तु एतैः सहस्र-आहुतिः उच्यते ॥ १२।६५ ॥
bhūḥ agnaye a ca evamādyāḥ catasraḥ vyāhṛtīḥ yajeth . daśabhiḥ sataśas tu etaiḥ sahasra-āhutiḥ ucyate .. 12.65 ..
स्रुवेण स्रावयन्विद्वानविच्छिन्नं समाचरेथ् । विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ॥ १२.६६ ॥
स्रुवेण स्रावयन् विद्वान् अविच्छिन्नम् समाचरेथ् । विष्णुसूक्तम् समुच्चार्य सूक्तम् पौरुषम् एव च ॥ १२।६६ ॥
sruveṇa srāvayan vidvān avicchinnam samācareth . viṣṇusūktam samuccārya sūktam pauruṣam eva ca .. 12.66 ..
श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवं । एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतं ॥ १२.६७ ॥
श्रीसूक्तम् वैष्णवम् । एक-अक्षर-आदि-सूक्तम् तु विष्णुगायत्रिया युतम् ॥ १२।६७ ॥
śrīsūktam vaiṣṇavam . eka-akṣara-ādi-sūktam tu viṣṇugāyatriyā yutam .. 12.67 ..
एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयतां । एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेथ् ॥ १२.६८ ॥
एतैः तु सप्तभिः सूक्तैः चतुः आवर्त्य हूयताम् । एतत् कर्तुम् अशक्तः चेद् सकृत् वा अत्र समाचरेथ् ॥ १२।६८ ॥
etaiḥ tu saptabhiḥ sūktaiḥ catuḥ āvartya hūyatām . etat kartum aśaktaḥ ced sakṛt vā atra samācareth .. 12.68 ..
अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा । वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ॥ १२.६९ ॥
अष्ट-अक्षरेण मन्त्रेण द्वादश-अक्षरकेण वा । वैष्णवम् विष्णुगायत्रीम् जुहुयात् इति के चन ॥ १२।६९ ॥
aṣṭa-akṣareṇa mantreṇa dvādaśa-akṣarakeṇa vā . vaiṣṇavam viṣṇugāyatrīm juhuyāt iti ke cana .. 12.69 ..
ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमं । यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ॥ १२.७० ॥
ततस् च आहावनीय-अग्निकुण्डे सम्यक् यथाक्रमम् । यजेत् पुरुषसूक्तम् तु षोडश आवर्त्य यत्नतः ॥ १२।७० ॥
tatas ca āhāvanīya-agnikuṇḍe samyak yathākramam . yajet puruṣasūktam tu ṣoḍaśa āvartya yatnataḥ .. 12.70 ..
अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयतां । ब्राह्मञ्च व्याहृतीश्चैव जयादीन्जुहुयात्क्रमाथ् ॥ १२.७१ ॥
अन्वाह अर्व-अग्निकुण्डे तु विष्णुसूक्तम् । ब्राह्मन् च व्याहृतीः च एव जय-आदीन् जुहुयात् क्रमाथ् ॥ १२।७१ ॥
anvāha arva-agnikuṇḍe tu viṣṇusūktam . brāhman ca vyāhṛtīḥ ca eva jaya-ādīn juhuyāt kramāth .. 12.71 ..
श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके । आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकं ॥ १२.७२ ॥
श्रीसूक्तम् वैष्णवम् च एव जुहुयात् गार्हपत्यके । आवसद्थ्ये विशेषेण वैष्णवम् रुद्रसूक्तकम् ॥ १२।७२ ॥
śrīsūktam vaiṣṇavam ca eva juhuyāt gārhapatyake . āvasadthye viśeṣeṇa vaiṣṇavam rudrasūktakam .. 12.72 ..
महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकं । पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतं ॥ १२.७३ ॥
महीसूक्तम् च जुहुयत् सूक्तम् एक-अक्षर-आदिकम् । पैण्डरीके तु जुहुयात् पारमात्मिक-संयुतम् ॥ १२।७३ ॥
mahīsūktam ca juhuyat sūktam eka-akṣara-ādikam . paiṇḍarīke tu juhuyāt pāramātmika-saṃyutam .. 12.73 ..
रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे । घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ॥ १२.७४ ॥
रक्त-अब्जम् बिल्व-पत्रम् च श्वेत-अब्जानाम् असंभवे । घृतेन आप्लुत्य जुहुयात् विष्णुगायत्रिया बुधः ॥ १२।७४ ॥
rakta-abjam bilva-patram ca śveta-abjānām asaṃbhave . ghṛtena āplutya juhuyāt viṣṇugāyatriyā budhaḥ .. 12.74 ..
समिदाज्यं चरुर्लाजाः सर्षपाश्च यवास्तथा । तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ॥ १२.७५ ॥
समिध् आज्यम् चरुः लाजाः सर्षपाः च यवाः तथा । तिलम् तिल्वम् तथा मुद्गाः माषाः सक्तुः गुडम् तथा ॥ १२।७५ ॥
samidh ājyam caruḥ lājāḥ sarṣapāḥ ca yavāḥ tathā . tilam tilvam tathā mudgāḥ māṣāḥ saktuḥ guḍam tathā .. 12.75 ..
मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितं । एतैस्सप्तदशद्रव्यैर्वैष्णवं जुहुयाद्बुधः ॥ १२.७६ ॥
मधु-अपूपाः दधि क्षीरम् होम-द्रव्यम् इति ईरितम् । एतैः सप्तदश-द्रव्यैः वैष्णवम् जुहुयात् बुधः ॥ १२।७६ ॥
madhu-apūpāḥ dadhi kṣīram homa-dravyam iti īritam . etaiḥ saptadaśa-dravyaiḥ vaiṣṇavam juhuyāt budhaḥ .. 12.76 ..
जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयतां । सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेथ् ॥ १२.७७ ॥
जुह्वा च एव उपजुह्वा च विष्णुसूक्तम् सुहूयताम् । सभ्ये च वैण्डरीके च सु इष्ट-आकारम् विना चरेथ् ॥ १२।७७ ॥
juhvā ca eva upajuhvā ca viṣṇusūktam suhūyatām . sabhye ca vaiṇḍarīke ca su iṣṭa-ākāram vinā careth .. 12.77 ..
अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेथ् । ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमाथ् ॥ १२.७८ ॥
अग्निषु आहवनीय-आदिषु अन्त-होमम् समाचरेथ् । ऋक्-आदीन् च चतुर्-दिक्षु वेदान् अध्यापयेत् क्रमाथ् ॥ १२।७८ ॥
agniṣu āhavanīya-ādiṣu anta-homam samācareth . ṛk-ādīn ca catur-dikṣu vedān adhyāpayet kramāth .. 12.78 ..
एवमध्ययनं प्रोक्तमृचां प्राचीऽरिति श्रुतिः । नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमाथ् ॥ १२.७९ ॥
एवम् अध्ययनम् प्रोक्तम् ऋचाम् श्रुतिः । नृत्त-तैगेन्यैः च वाद्यैः च रात्रि-शेषम् नयत्-क्रमाथ् ॥ १२।७९ ॥
evam adhyayanam proktam ṛcām śrutiḥ . nṛtta-taigenyaiḥ ca vādyaiḥ ca rātri-śeṣam nayat-kramāth .. 12.79 ..
ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः । ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ॥ १२.८० ॥
ततस् प्रभाते धर्म-आत्मा स्नात्वा अ स्नान-विधानतः । ब्रह्मयज्ञम् च कृत्वा तु जपेत् सूक्तानि द्वादश ॥ १२।८० ॥
tatas prabhāte dharma-ātmā snātvā a snāna-vidhānataḥ . brahmayajñam ca kṛtvā tu japet sūktāni dvādaśa .. 12.80 ..
पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवथ् । पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ॥ १२.८१ ॥
पादौ प्रक्ष्याल्य च आचम्य देवान् उद्धाप्य । पूर्व-वस्त्रम् विसृज्य एव पुनर् अन्यत् विभूष्य च ॥ १२।८१ ॥
pādau prakṣyālya ca ācamya devān uddhāpya . pūrva-vastram visṛjya eva punar anyat vibhūṣya ca .. 12.81 ..
ब्रह्मस्थाने विशेषेण पीठं सम्यक्प्रकल्पयेथ् । तदूर्ध्वे कल्पयेद्विद्वान्नवभागं विभज्य च ॥ १२.८२ ॥
ब्रह्मस्थाने विशेषेण पीठम् सम्यक् प्रकल्पयेथ् । तद्-ऊर्ध्वे कल्पयेत् विद्वान् नव-भागम् विभज्य च ॥ १२।८२ ॥
brahmasthāne viśeṣeṇa pīṭham samyak prakalpayeth . tad-ūrdhve kalpayet vidvān nava-bhāgam vibhajya ca .. 12.82 ..
पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेथ् । सुधया परिपूर्यैव क्ष्ॐएनाच्छादयेद्बुधः ॥ १२.८३ ॥
पूर्व-उक्तेन क्रमेण एव रत्न-न्यासे समाचरेथ् । सुधया परिपूर्य एव क्षोंएन आच्छादयेत् बुधः ॥ १२।८३ ॥
pūrva-uktena krameṇa eva ratna-nyāse samācareth . sudhayā paripūrya eva kṣoṃena ācchādayet budhaḥ .. 12.83 ..
यजमानस्तु तत्काले आचार्यादीन्प्रणम्यच । सपादनवनिष्कं च गुरवे दक्षिणां ददेथ् ॥ १२.८४ ॥
यजमानः तु तद्-काले आचार्य-आदीन् प्रणम्य च । स पाद-नव-निष्कम् च गुरवे दक्षिणाम् ॥ १२।८४ ॥
yajamānaḥ tu tad-kāle ācārya-ādīn praṇamya ca . sa pāda-nava-niṣkam ca gurave dakṣiṇām .. 12.84 ..
प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा । सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ॥ १२.८५ ॥
प्रत्येकम् स्थापक-आदीनाम् पञ्च-निष्कम् ददेत् तदा । सभ्य-अध्वर्योः विशेषेण होतुः च अपि तथा एव च ॥ १२।८५ ॥
pratyekam sthāpaka-ādīnām pañca-niṣkam dadet tadā . sabhya-adhvaryoḥ viśeṣeṇa hotuḥ ca api tathā eva ca .. 12.85 ..
पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककं । अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेथ् ॥ १२.८६ ॥
पैण्डरीकस्य च अध्वर्योः प्रत्येकम् पञ्च-निष्ककम् । अन्येषु आहवनीय-आदिषु अध्वर्यूणाम् ॥ १२।८६ ॥
paiṇḍarīkasya ca adhvaryoḥ pratyekam pañca-niṣkakam . anyeṣu āhavanīya-ādiṣu adhvaryūṇām .. 12.86 ..
पषन्द्धामसु चाध्वर्योरन्येषां च पृथक्पृथक् । निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते ॥ १२.८७ ॥
च अध्वर्योः अन्येषाम् च पृथक् पृथक् । निष्कम् पाद-अधिकम् दद्यात् संपूर्णम् इति पठ्यते ॥ १२।८७ ॥
ca adhvaryoḥ anyeṣām ca pṛthak pṛthak . niṣkam pāda-adhikam dadyāt saṃpūrṇam iti paṭhyate .. 12.87 ..
आचार्यस्य नियोगेन दक्षिणादानमीरितं । यजमानस्स्वतन्त्रेण न कुर्यादिति शासनं ॥ १२.८८ ॥
आचार्यस्य नियोगेन दक्षिणा-दानम् ईरितम् । यजमानः स्वतन्त्रेण न कुर्यात् इति शासनम् ॥ १२।८८ ॥
ācāryasya niyogena dakṣiṇā-dānam īritam . yajamānaḥ svatantreṇa na kuryāt iti śāsanam .. 12.88 ..
हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः । अदक्षिणं तु यजनं निष्फलं त्विति शासनं ॥ १२.८९ ॥
हन्ति अल्प-दक्षिणः यज्ञः यजमानम् विशेषतः । अदक्षिणम् तु यजनम् निष्फलम् तु इति शासनम् ॥ १२।८९ ॥
hanti alpa-dakṣiṇaḥ yajñaḥ yajamānam viśeṣataḥ . adakṣiṇam tu yajanam niṣphalam tu iti śāsanam .. 12.89 ..
मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितं । तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ॥ १२.९० ॥
मुहूर्ते समनुप्राप्ते वाद्य-घोष-समन्वितम् । तोय-धारा-समायुक्तम् स्वस्ति-सूक्तम् समुच्चरन् ॥ १२।९० ॥
muhūrte samanuprāpte vādya-ghoṣa-samanvitam . toya-dhārā-samāyuktam svasti-sūktam samuccaran .. 12.90 ..
आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमाथ् । नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतं ॥ १२.९१ ॥
आचार्यः कुंभम् आदाय व्रजेत् पूर्वम् । पश्चात् देवम् देपी-आदि-संयुतम् ॥ १२।९१ ॥
ācāryaḥ kuṃbham ādāya vrajet pūrvam . paścāt devam depī-ādi-saṃyutam .. 12.91 ..
प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च । पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ॥ १२.९२ ॥
प्रदक्षिणम् शनैस् गन्त्वा देवागारम् प्रविश्य च । पीठस्य दक्षिणे भागे धान्य-पीठे प्रकल्पिते ॥ १२।९२ ॥
pradakṣiṇam śanais gantvā devāgāram praviśya ca . pīṭhasya dakṣiṇe bhāge dhānya-pīṭhe prakalpite .. 12.92 ..
आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः । कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ॥ १२.९३ ॥
आचार्यः सन् न्यसेत् कुंभम् देवम् । कौतुकम् ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ॥ १२।९३ ॥
ācāryaḥ san nyaset kuṃbham devam . kautukam brahmasthāne tu sthāpayitvā vicakṣaṇaḥ .. 12.93 ..
भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेथ् । तस्य दक्षिणपाशेन्व्तु श्रीदेवीं स्थापयेद्बुधः ॥ १२.९४ ॥
भूः असि भूम् इति उक्त्वा पीठे देवम् । तस्य श्रीदेवीम् स्थापयेत् बुधः ॥ १२।९४ ॥
bhūḥ asi bhūm iti uktvā pīṭhe devam . tasya śrīdevīm sthāpayet budhaḥ .. 12.94 ..
तथैव वामपाशेन्व्तु भूमिं कुर्यात्प्रतिष्ठितां । देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवं ॥ १२.९५ ॥
तथा एव भूमिम् कुर्यात् प्रतिष्ठिताम् । देवस्य वाम-भागे तु स्थापयेत् बिंबम् ओत्सवम् ॥ १२।९५ ॥
tathā eva bhūmim kuryāt pratiṣṭhitām . devasya vāma-bhāge tu sthāpayet biṃbam otsavam .. 12.95 ..
स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः । विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ॥ १२.९६ ॥
स्नापनम् बलिबेरम् च दक्षिणे स्थापयेत् बुधः । विष्णुसूक्तम् च जप्त्या एव पुरुषसूक्त-युतम् तथा ॥ १२।९६ ॥
snāpanam baliberam ca dakṣiṇe sthāpayet budhaḥ . viṣṇusūktam ca japtyā eva puruṣasūkta-yutam tathā .. 12.96 ..
ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक्पृथक् । श्रीभूसूक्तं पृथक्जप्त्वा पश्चान्न्यासं समाचरेथ् ॥ १२.९७ ॥
ध्रुवसूक्तम् वैष्णवम् च देवीभ्याम् च पृथक् पृथक् । श्री-भूसूक्तम् पृथक् जप्त्वा पश्चात् न्यासम् समाचरेथ् ॥ १२।९७ ॥
dhruvasūktam vaiṣṇavam ca devībhyām ca pṛthak pṛthak . śrī-bhūsūktam pṛthak japtvā paścāt nyāsam samācareth .. 12.97 ..
सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः । पादयोरन्तरे विद्वान्यकारं विन्यसेत्ततः ॥ १२.९८ ॥
सु वभुन् वभून् ऋ इति उक्त्वा च अक्षराणि विशेषतः । पादयोः अन्तरे विद्वान् यकारम् विन्यसेत् ततस् ॥ १२।९८ ॥
su vabhun vabhūn ṛ iti uktvā ca akṣarāṇi viśeṣataḥ . pādayoḥ antare vidvān yakāram vinyaset tatas .. 12.98 ..
बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परं । रुक्माभं परमं बीजं सर्वकारणकारणं ॥ १२.९९ ॥
बिंबस्य हृदये सम्यक् न्यसेत् बीज-अक्षरम् परम् । रुक्म-आभम् परमम् बीजम् सर्व-कारण-कारणम् ॥ १२।९९ ॥
biṃbasya hṛdaye samyak nyaset bīja-akṣaram param . rukma-ābham paramam bījam sarva-kāraṇa-kāraṇam .. 12.99 ..
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतं । पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसं ॥ १२.१०० ॥
तरुण-अर्क सहस्र-आभम् ब्रह्म-ईशाभ्याम् नमस्कृतम् । पद्मासन-स्थम् देवेशम् श्रीवत्क-अलङ्कृत-उरसम् ॥ १२।१०० ॥
taruṇa-arka sahasra-ābham brahma-īśābhyām namaskṛtam . padmāsana-stham deveśam śrīvatka-alaṅkṛta-urasam .. 12.100 ..
शङ्खचक्रधरं स्ॐयं सर्वाभरण भूषितं । ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ॥ १२.१०१ ॥
शङ्ख-चक्र-धरम् सर्व-आभरण-भूषितम् । ओ ओ मिति एकाक्षरम् ब्रह्म प्रणवः परिपठ्यते ॥ १२।१०१ ॥
śaṅkha-cakra-dharam sarva-ābharaṇa-bhūṣitam . o o miti ekākṣaram brahma praṇavaḥ paripaṭhyate .. 12.101 ..
श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि । कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतं ॥ १२.१०२ ॥
श्री-अकारम् श्रिये इति उक्त्वा "लऽकारम् भुवः इति अपि । कूर्चेन आदाय तत् तोयम् कुंभ-स्थम् शक्ति-संयुतम् ॥ १२।१०२ ॥
śrī-akāram śriye iti uktvā "la'kāram bhuvaḥ iti api . kūrcena ādāya tat toyam kuṃbha-stham śakti-saṃyutam .. 12.102 ..
इदं विष्णुऽस्समुच्चार्य समादाय समाहितः । आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ॥ १२.१०३ ॥
इदम् विष्णुः समुच्चार्य समादाय समाहितः । आयातु भगवान् अन् उक्त्वा अध्रुवबेरस्य मूर्धवि ॥ १२।१०३ ॥
idam viṣṇuḥ samuccārya samādāya samāhitaḥ . āyātu bhagavān an uktvā adhruvaberasya mūrdhavi .. 12.103 ..
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं । अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ॥ १२.१०४ ॥
विष्णुम् च पुरुषम् सत्यम् अच्युतम् च अनिरुद्धकम् । अचले देवदेवेशः व्याप्य तिष्ठति इति श्रुतिः ॥ १२।१०४ ॥
viṣṇum ca puruṣam satyam acyutam ca aniruddhakam . acale devadeveśaḥ vyāpya tiṣṭhati iti śrutiḥ .. 12.104 ..
श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः । मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेथ् ॥ १२.१०५ ॥
श्रिये मन्त्रेण श्रियम् आवाहयेत् बुधः । च मन्त्रेण हरिणीम् सम्यक् आह्वयेथ् ॥ १२।१०५ ॥
śriye mantreṇa śriyam āvāhayet budhaḥ . ca mantreṇa hariṇīm samyak āhvayeth .. 12.105 ..
कौतुकेचौत्सवेचैव स्नापने बलिबेरके । प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमाथ् ॥ १२.१०६ ॥
स्नापने बलिबेरके । प्रणिधिम् उद्धृत्य तद्-काले दीपात् दीपम् इव ॥ १२।१०६ ॥
snāpane baliberake . praṇidhim uddhṛtya tad-kāle dīpāt dīpam iva .. 12.106 ..
ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमाथ् । नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ॥ १२.१०७ ॥
ध्रुव-बेरात् समावाह्य कूर्चेन आवाहयेत् क्रमाथ् । नवधा मार्गम् आलोक्य यथा इष्टम् कर्तुः इच्छया ॥ १२।१०७ ॥
dhruva-berāt samāvāhya kūrcena āvāhayet kramāth . navadhā mārgam ālokya yathā iṣṭam kartuḥ icchayā .. 12.107 ..
अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेथ् । अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेथ् ॥ १२.१०८ ॥
अविच्छिन्न-अर्ऽचनम् नित्यम् विधिना एव । अशक्तः चेद् तथा कर्तुम् प्रतिष्ठाम् न एव ॥ १२।१०८ ॥
avicchinna-ar'canam nityam vidhinā eva . aśaktaḥ ced tathā kartum pratiṣṭhām na eva .. 12.108 ..
आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरं । स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च ॥ १२.१०९ ॥
आढ्यः सर्व-समः त्यागी चिकीर्षुः विष्णु-मन्दिरम् । स्व-अर्थम् कृत्वा त्रिधा एक-अंशम् कुटुंब-अर्थे विधाय च ॥ १२।१०९ ॥
āḍhyaḥ sarva-samaḥ tyāgī cikīrṣuḥ viṣṇu-mandiram . sva-artham kṛtvā tridhā eka-aṃśam kuṭuṃba-arthe vidhāya ca .. 12.109 ..
अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेथ् । आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ॥ १२.११० ॥
अंशाभ्याम् अवशिष्टाभ्याम् विमान-अर्चनम् आरभेथ् । आपदि अपि च कष्टायाम् न द्रुह्येत् आत्मने बुधः ॥ १२।११० ॥
aṃśābhyām avaśiṣṭābhyām vimāna-arcanam ārabheth . āpadi api ca kaṣṭāyām na druhyet ātmane budhaḥ .. 12.110 ..
अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते । तथा प्रकल्पयेद्विद्वान्भूमिभोगेन वै स्थितिं ॥ १२.१११ ॥
अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते । तथा प्रकल्पयेत् विद्वान् भूमि-भोगेन वै स्थितिम् ॥ १२।१११ ॥
avicchinnā yathā pūjā vidhinā saṃpravartate . tathā prakalpayet vidvān bhūmi-bhogena vai sthitim .. 12.111 ..
अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः । अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ॥ १२.११२ ॥
अर्चकस्य अर्ऽचन-अर्ऽथम् च कुटुम्ब-अर्थम् च यत्नतः । अत्यन्त-पुष्कलाम् भूमिम् बहु-सस्य-उचिताम् तथा ॥ १२।११२ ॥
arcakasya ar'cana-ar'tham ca kuṭumba-artham ca yatnataḥ . atyanta-puṣkalām bhūmim bahu-sasya-ucitām tathā .. 12.112 ..
करग्रहादि रहितामर्चकाय समर्पयेथ् । ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयं ॥ १२.११३ ॥
करग्रह-आदि रहिताम् अर्चकाय समर्पयेथ् । ततस् च ताम्र-पट्ट-आदौ लेख्य सीमा-विनिश्चयम् ॥ १२।११३ ॥
karagraha-ādi rahitām arcakāya samarpayeth . tatas ca tāmra-paṭṭa-ādau lekhya sīmā-viniścayam .. 12.113 ..
देवनाम्नैव तां भूमिं दद्यादर्चकजीविकां । इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ॥ १२.११४ ॥
देव-नाम्ना एव ताम् भूमिम् दद्यात् अर्चक-जीविकाम् । इदम् अग्रे प्रकुर्वि इति तद्-अधीना स्थितिः हरेः ॥ १२।११४ ॥
deva-nāmnā eva tām bhūmim dadyāt arcaka-jīvikām . idam agre prakurvi iti tad-adhīnā sthitiḥ hareḥ .. 12.114 ..
पिता हरिस्तु भगवानर्चकः पुत्र उच्यते । पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमाथ् ॥ १२.११५ ॥
पिता हरिः तु भगवान् अर्चकः पुत्रः उच्यते । लिखेत् नाम सन्निधाने ॥ १२।११५ ॥
pitā hariḥ tu bhagavān arcakaḥ putraḥ ucyate . likhet nāma sannidhāne .. 12.115 ..
अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलं । अथ वा विलिखेद्विद्वान्नाम्ना वा पूजक स्य च ॥ १२.११६ ॥
अर्चकः सु प्रसन्न-आत्मा हरिदेव हि केवलम् । अथ वा विलिखेत् विद्वान् नाम्ना वा च ॥ १२।११६ ॥
arcakaḥ su prasanna-ātmā harideva hi kevalam . atha vā vilikhet vidvān nāmnā vā ca .. 12.116 ..
तथार्ऽचकस्य चावासमालयस्य समीपतः । शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ॥ १२.११७ ॥
तथा आर्ऽचकस्य च आवासम् आलयस्य समीपतस् । शिलाभिः सु दृढम् कृत्वा वासाय अस्य प्रशस्यते ॥ १२।११७ ॥
tathā ār'cakasya ca āvāsam ālayasya samīpatas . śilābhiḥ su dṛḍham kṛtvā vāsāya asya praśasyate .. 12.117 ..
अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः । यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ॥ १२.११८ ॥
अक्लेशेन यथा जीवेत् अर्चकः सु समाहितः । यावत् चन्द्र-दिवानाथम् तथा कुर्यात् प्रयत्नतः ॥ १२।११८ ॥
akleśena yathā jīvet arcakaḥ su samāhitaḥ . yāvat candra-divānātham tathā kuryāt prayatnataḥ .. 12.118 ..
अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान्हरिः । अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः ॥ १२.११९ ॥
अर्चके क्लेश-युक्ते तु क्लिश्यते भगवान् हरिः । अर्चके तु सु संतुष्टे तदा तुष्टः जनार्दनः ॥ १२।११९ ॥
arcake kleśa-yukte tu kliśyate bhagavān hariḥ . arcake tu su saṃtuṣṭe tadā tuṣṭaḥ janārdanaḥ .. 12.119 ..
रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच । बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ॥ १२.१२० ॥
रूप-द्वयम् हरेः प्रोक्तम् बिंबम् अर्चकः एव च । बिंबे तु आवाहनात् अर्वाक् सदा ॥ १२।१२० ॥
rūpa-dvayam hareḥ proktam biṃbam arcakaḥ eva ca . biṃbe tu āvāhanāt arvāk sadā .. 12.120 ..
पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः । शक्तिलोभमकृत्वैव करोति विभवान्तरं ॥ १२.१२१ ॥
पुनर् विचिन्त्य धर्म-आत्मा यजमानः मुदा अन्वितः । शक्ति-लोभम् अ कृत्वा एव करोति विभव-अन्तरम् ॥ १२।१२१ ॥
punar vicintya dharma-ātmā yajamānaḥ mudā anvitaḥ . śakti-lobham a kṛtvā eva karoti vibhava-antaram .. 12.121 ..
पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च । विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ॥ १२.१२२ ॥
पञ्च-पर्वसु संक्रान्तौ पुण्य-अहेषु इतरेषु च । विशेष-पूजन-अर्थम् च हविः-अर्थम् च यत्नतः ॥ १२।१२२ ॥
pañca-parvasu saṃkrāntau puṇya-aheṣu itareṣu ca . viśeṣa-pūjana-artham ca haviḥ-artham ca yatnataḥ .. 12.122 ..
स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च । नटनर्तकदासीनाङ्गायकानां चशक्तितः ॥ १२.१२३ ॥
स्नपन-अर्थम् च उत्सव-अर्थम् प्रायश्चित्त-अर्थम् एव च । नट-नर्तक-दासी-नाङ्गायकानाम् च शक्तितः ॥ १२।१२३ ॥
snapana-artham ca utsava-artham prāyaścitta-artham eva ca . naṭa-nartaka-dāsī-nāṅgāyakānām ca śaktitaḥ .. 12.123 ..
विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च । वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ॥ १२.१२४ ॥
विद्या-अर्थिनाम् च भक्तानाम् अन्यस्य विभवस्य च । वृत्तिम् तु परिकल्प्य एव भू-रूपाम् पुरतस् हरेः ॥ १२।१२४ ॥
vidyā-arthinām ca bhaktānām anyasya vibhavasya ca . vṛttim tu parikalpya eva bhū-rūpām puratas hareḥ .. 12.124 ..
ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरं । अन्येषां विभवानां चतथैवान्यपदार्थिनां ॥ १२.१२५ ॥
ददाति आचार्य-हस्ते तु मन्त्र-उदक-पुरस्सरम् । अन्येषाम् विभवानाम् च तथा एव अन्य-पदार्थिनाम् ॥ १२।१२५ ॥
dadāti ācārya-haste tu mantra-udaka-purassaram . anyeṣām vibhavānām ca tathā eva anya-padārthinām .. 12.125 ..
तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः । आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमां ॥ १२.१२६ ॥
तद्-तद्-नाम्ना एव भूमि-आदिम् दापयेत् देशिक-उत्तमः । आचार्यस्य अपि तद्-नाम्ना कल्पयेत् वृत्तिम् उत्तमाम् ॥ १२।१२६ ॥
tad-tad-nāmnā eva bhūmi-ādim dāpayet deśika-uttamaḥ . ācāryasya api tad-nāmnā kalpayet vṛttim uttamām .. 12.126 ..
एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलं । पशुभृत्यादिभोगांश्च वाहनादीन्विशेषतः ॥ १२.१२७ ॥
एवम् यः कुरुते भक्त्याः ऐहिक-आमुष्मिकम् फलम् । पशु-भृत्य-आदि-भोगान् च वाहन-आदीन् विशेषतः ॥ १२।१२७ ॥
evam yaḥ kurute bhaktyāḥ aihika-āmuṣmikam phalam . paśu-bhṛtya-ādi-bhogān ca vāhana-ādīn viśeṣataḥ .. 12.127 ..
सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयाथ् । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ १२.१२८ ॥
सुवर्ण-रत्न-धान्य-आदीन् अत्यन्तम् समवाप्नुयाथ् । तस्य काय-कृतम् पापम् तद्-क्षणात् एव नश्यति ॥ १२।१२८ ॥
suvarṇa-ratna-dhānya-ādīn atyantam samavāpnuyāth . tasya kāya-kṛtam pāpam tad-kṣaṇāt eva naśyati .. 12.128 ..
यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयं । पूर्वजातिगतास्तस्य पितरः पितुरन्वये ॥ १२.१२९ ॥
यम् यम् कामयते सर्वन्तम् तम् आप्नोति असंशयम् । पूर्व-जाति-गताः तस्य पितरः पितुः अन्वये ॥ १२।१२९ ॥
yam yam kāmayate sarvantam tam āpnoti asaṃśayam . pūrva-jāti-gatāḥ tasya pitaraḥ pituḥ anvaye .. 12.129 ..
मातृपक्षे च येजातास्तस्य मातामहादयः । सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरं ॥ १२.१३० ॥
मातृ-पक्षे च ये जाताः तस्य मातामह-आदयः । सर्वे अपि त्रिदिवम् यान्ति मोदन्ते त्रिदिवे चिरम् ॥ १२।१३० ॥
mātṛ-pakṣe ca ye jātāḥ tasya mātāmaha-ādayaḥ . sarve api tridivam yānti modante tridive ciram .. 12.130 ..
ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः । यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेथ् ॥ १२.१३१ ॥
ततस् यास्यन्ति वैकुण्ठम् निस्सम-अभ्यधिकम् महः । यः सम्यक् पालयेत् एतत् अधिकम् यः च ॥ १२।१३१ ॥
tatas yāsyanti vaikuṇṭham nissama-abhyadhikam mahaḥ . yaḥ samyak pālayet etat adhikam yaḥ ca .. 12.131 ..
आद्येष्टकादि निर्माणफलमेव प्रपद्यते । सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ॥ १२.१३२ ॥
आद्य-इष्टका-आदि निर्माण-फलम् एव प्रपद्यते । सर्व-अशुभ-विनाशम् च लब्ध्वा आचेष्टम् अवाप्य च ॥ १२।१३२ ॥
ādya-iṣṭakā-ādi nirmāṇa-phalam eva prapadyate . sarva-aśubha-vināśam ca labdhvā āceṣṭam avāpya ca .. 12.132 ..
अन्ते विमानमारुह्य विष्णोर्याति परं पदं । किं बहूक्तेन विधिना न दैवं केशवात्परं ॥ १२.१३३ ॥
अन्ते विमानम् आरुह्य विष्णोः याति परम् पदम् । किम् बहु-उक्तेन विधिना न दैवम् केशवात् परम् ॥ १२।१३३ ॥
ante vimānam āruhya viṣṇoḥ yāti param padam . kim bahu-uktena vidhinā na daivam keśavāt param .. 12.133 ..
तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनं । सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदं ॥ १२.१३४ ॥
तम् विष्णुम् पूजयेत् नित्यम् सर्व-साधन-साधनम् । सर्व-मुक्ति-प्रदम् नित्यम् सर्व-काम-फल-प्रदम् ॥ १२।१३४ ॥
tam viṣṇum pūjayet nityam sarva-sādhana-sādhanam . sarva-mukti-pradam nityam sarva-kāma-phala-pradam .. 12.134 ..
ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनां । सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनं ॥ १२.१३५ ॥
ग्राम-अग्रहारयोः सम्यक् अर्चनम् तत्र वासिनाम् । सर्व-सिद्धि-प्रदम् नित्यम् पुत्र-पौत्र-प्रवर्धनम् ॥ १२।१३५ ॥
grāma-agrahārayoḥ samyak arcanam tatra vāsinām . sarva-siddhi-pradam nityam putra-pautra-pravardhanam .. 12.135 ..
सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः । साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ॥ १२.१३६ ॥
सामान्यम् अग्नि होत्रम् स्यात् अनग्नीनाम् तपोधनाः । स अग्नीनाम् अपि अ विज्ञात-प्रायश्चित्ताय कल्पते ॥ १२।१३६ ॥
sāmānyam agni hotram syāt anagnīnām tapodhanāḥ . sa agnīnām api a vijñāta-prāyaścittāya kalpate .. 12.136 ..
तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ॥ १२.१३७ ॥
तस्मात् कुर्यात् अविच्छिन्नम् अर्चनम् सर्व-यत्नतः ॥ १२।१३७ ॥
tasmāt kuryāt avicchinnam arcanam sarva-yatnataḥ .. 12.137 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे द्वादशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre dvādaśaḥ adhyāyaḥ.
त्रयोदशोऽध्यायः
त्रयोदशः अध्यायः
trayodaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In