| |
|

This overlay will guide you through the buttons:

अथ द्वादशोऽध्यायः.
atha dvādaśo'dhyāyaḥ.
भगवत्प्रतिष्ठाविधिः
अथप्रदोषे धर्मात्मा जलस्थं देवमुद्धरेथ् । स्नानद्रव्याणि चाहृत्य देवं संस्नाप्य मन्त्रविथ् ॥ १२.१ ॥
athapradoṣe dharmātmā jalasthaṃ devamuddhareth . snānadravyāṇi cāhṛtya devaṃ saṃsnāpya mantravith .. 12.1 ..
क्ष्ॐअपट्टादिना छाद्य मणिहेमादिकैः पुनः । विविधैः पुष्पमालाद्यैरलङ्कृत्य मनोहरं ॥ १२.२ ॥
kṣ_oṃapaṭṭādinā chādya maṇihemādikaiḥ punaḥ . vividhaiḥ puṣpamālādyairalaṅkṛtya manoharaṃ .. 12.2 ..
यान मारोप्य देवेशं स्वक्तिसूक्तं समुच्चरन् । तोयधारां पुरस्कृत्य नीत्वा ग्रामं प्रदक्षिणं ॥ १२.३ ॥
yāna māropya deveśaṃ svaktisūktaṃ samuccaran . toyadhārāṃ puraskṛtya nītvā grāmaṃ pradakṣiṇaṃ .. 12.3 ..
श्वभ्रस्य पश्चिमे भागे स्थापयित्वा विशेषतः । उत्तरे यागशालायां वास्तु होमं समाचरेथ् ॥ १२.४ ॥
śvabhrasya paścime bhāge sthāpayitvā viśeṣataḥ . uttare yāgaśālāyāṃ vāstu homaṃ samācareth .. 12.4 ..
मथित्वाग्निं प्रगृह्णीया द्वास्तु होमाग्निमेव वा । संस्कृत्य विधिनादाय प्रणये द्गार्हपत्यके ॥ १२.५ ॥
mathitvāgniṃ pragṛhṇīyā dvāstu homāgnimeva vā . saṃskṛtya vidhinādāya praṇaye dgārhapatyake .. 12.5 ..
त्रिस्संस्कृतो लौकिकाग्निर्मथिताग्निसमो भवेथ् । आघारं विधिवत्कृत्वा वैष्णवान्तं समाचरेथ् ॥ १२.६ ॥
trissaṃskṛto laukikāgnirmathitāgnisamo bhaveth . āghāraṃ vidhivatkṛtvā vaiṣṇavāntaṃ samācareth .. 12.6 ..
ततोऽन्वाहार्यकुण्डे च पश्चादाहवनीयके । आवसथ्येततस्सभ्ये ततःपद्मानलेक्रमाथ् ॥ १२.७ ॥
tato'nvāhāryakuṇḍe ca paścādāhavanīyake . āvasathyetatassabhye tataḥpadmānalekramāth .. 12.7 ..
सूत्रोक्तेन विधानेन सर्वत्राघारमाचरेथ् । द्वात्रिंशत्प्रस्थसंपूर्णं घटमादायचात्वरः ॥ १२.८ ॥
sūtroktena vidhānena sarvatrāghāramācareth . dvātriṃśatprasthasaṃpūrṇaṃ ghaṭamādāyacātvaraḥ .. 12.8 ..
इषे त्वोर्जेऽत्वादि जपन्तन्तुना परिवेष्ट्य च । शुची वो हव्यऽ इत्युक्त्वा कुंभप्रक्षालनं चरेथ् ॥ १२.९ ॥
iṣe tvorje'tvādi japantantunā pariveṣṭya ca . śucī vo havya' ityuktvā kuṃbhaprakṣālanaṃ careth .. 12.9 ..
नदीतोयं समादाय समुत्पूय च पूरयेथ् । वस्त्रयुग्मेन चावेष्ट्य अलङ्कुर्यात्प्रयत्नतः ॥ १२.१० ॥
nadītoyaṃ samādāya samutpūya ca pūrayeth . vastrayugmena cāveṣṭya alaṅkuryātprayatnataḥ .. 12.10 ..
एलातक्कोलकर्पूरैर्गन्धोशीराक्षतैःक्रमाथ् । अन्यैर्गन्धयुतैः पुष्पैर्वासयित्वा विधानतः ॥ १२.११ ॥
elātakkolakarpūrairgandhośīrākṣataiḥkramāth . anyairgandhayutaiḥ puṣpairvāsayitvā vidhānataḥ .. 12.11 ..
सुवर्णरत्नधातूंश्च न्यसित्वा मन्त्रवित्तमः । गोवालकुशदर्भैश्च कृतं कूर्चं तु निक्षिपेथ् ॥ १२.१२ ॥
suvarṇaratnadhātūṃśca nyasitvā mantravittamaḥ . govālakuśadarbhaiśca kṛtaṃ kūrcaṃ tu nikṣipeth .. 12.12 ..
अथ वा निक्षिपेत्कूर्चं कृतं दर्भैस्तु केवलैः । अस्थि रत्नं सिरा स्तन्तुर्मांसो मृत्स्ना प्रकीर्तिता ॥ १२.१३ ॥
atha vā nikṣipetkūrcaṃ kṛtaṃ darbhaistu kevalaiḥ . asthi ratnaṃ sirā stanturmāṃso mṛtsnā prakīrtitā .. 12.13 ..
शोणितं रक्तमृद्भिन्तु जलं मेदस्तथैव च । शुक्रन्तु कूर्चमित्युक्तं वस्त्रं स्याच्चर्म वैष्टितं ॥ १२.१४ ॥
śoṇitaṃ raktamṛdbhintu jalaṃ medastathaiva ca . śukrantu kūrcamityuktaṃ vastraṃ syāccarma vaiṣṭitaṃ .. 12.14 ..
सप्त धातव इत्येते कुंभेषु करकेषु च । एतेष्वेकं विनाकुर्यान्नास्ति तत्रास्य सन्निधिः ॥ १२.१५ ॥
sapta dhātava ityete kuṃbheṣu karakeṣu ca . eteṣvekaṃ vinākuryānnāsti tatrāsya sannidhiḥ .. 12.15 ..
देवस्य दक्षिणे पार्श्वे कुंभं तत्र निवेश्य च । अलङ्कृतस्तथाचार्यो वस्त्राभरणकुण्डलैः ॥ १२.१६ ॥
devasya dakṣiṇe pārśve kuṃbhaṃ tatra niveśya ca . alaṅkṛtastathācāryo vastrābharaṇakuṇḍalaiḥ .. 12.16 ..
स्रग्गन्धैर्वेष्टितो धृत्मा मुखस्योष्णीषबन्धनं । कुंभस्य दक्षिणे भागे प्राङ्मुखोदङ्मुखोऽपिवा ॥ १२.१७ ॥
sraggandhairveṣṭito dhṛtmā mukhasyoṣṇīṣabandhanaṃ . kuṃbhasya dakṣiṇe bhāge prāṅmukhodaṅmukho'pivā .. 12.17 ..
स्वस्तिकासन मास्थाय ऋजुकायः समाहितः । ललाटादिषु स्थानेषु केशवादीन्प्रणम्यच ॥ १२.१८ ॥
svastikāsana māsthāya ṛjukāyaḥ samāhitaḥ . lalāṭādiṣu sthāneṣu keśavādīnpraṇamyaca .. 12.18 ..
अकाराद्यक्षरं सर्वं न्यसित्वा सर्वसन्धिषु । पश्चात्कुंभं सुसंत्पृश्य क्रमात्सूक्तादिकं जपेथ् ॥ १२.१९ ॥
akārādyakṣaraṃ sarvaṃ nyasitvā sarvasandhiṣu . paścātkuṃbhaṃ susaṃtpṛśya kramātsūktādikaṃ japeth .. 12.19 ..
आत्मसूक्तन्ततो जप्त्वा पौरुषं सूक्तमेव च । सूक्तमेकाक्षरं जप्त्वा विष्णुसूक्त मतः परं ॥ १२.२० ॥
ātmasūktantato japtvā pauruṣaṃ sūktameva ca . sūktamekākṣaraṃ japtvā viṣṇusūkta mataḥ paraṃ .. 12.20 ..
श्रीभूसूक्तं ततो जप्त्वा सहस्रशीर्षंऽसमुच्चरन् । वैष्णवं तु ततोजप्त्वा ध्यायेत्सम्यक्समाहितः ॥ १२.२१ ॥
śrībhūsūktaṃ tato japtvā sahasraśīrṣaṃ'samuccaran . vaiṣṇavaṃ tu tatojaptvā dhyāyetsamyaksamāhitaḥ .. 12.21 ..
प्राणायामं ततः कुर्यात्रेचपूरककुंभकैः । एतत्फलं क्रमाद्वक्ष्ये त्रिविधं तत्पृथग्विधं ॥ १२.२२ ॥
prāṇāyāmaṃ tataḥ kuryātrecapūrakakuṃbhakaiḥ . etatphalaṃ kramādvakṣye trividhaṃ tatpṛthagvidhaṃ .. 12.22 ..
तत्रैव रेचकं पूर्वं सर्वपापस्यदाहकं । पश्चात्तु पूरकं कुर्या दमृताप्यायनं ततः ॥ १२.२३ ॥
tatraiva recakaṃ pūrvaṃ sarvapāpasyadāhakaṃ . paścāttu pūrakaṃ kuryā damṛtāpyāyanaṃ tataḥ .. 12.23 ..
तृतीयं कुंभकं कुर्या दमृतत्वं च संस्मरेथ् । तस्मात्सर्वप्रयत्नेन रेचकादीनि कारयेथ् ॥ १२.२४ ॥
tṛtīyaṃ kuṃbhakaṃ kuryā damṛtatvaṃ ca saṃsmareth . tasmātsarvaprayatnena recakādīni kārayeth .. 12.24 ..
कुंभगन्तु जलं स्मृत्वा वारुणं मण्डलं बुधः । अर्धचन्द्राकृतिं स्मृत्वा तस्य बीजाक्षरं न्यसेथ् ॥ १२.२५ ॥
kuṃbhagantu jalaṃ smṛtvā vāruṇaṃ maṇḍalaṃ budhaḥ . ardhacandrākṛtiṃ smṛtvā tasya bījākṣaraṃ nyaseth .. 12.25 ..
तमोङ्कारेण संवेष्ट्य बन्धयुक्तं? तु निश्मलं । आदित्यमण्डलान्तस्थं देवं तत्रैव चाह्वयेथ् ॥ १२.२६ ॥
tamoṅkāreṇa saṃveṣṭya bandhayuktaṃ? tu niśmalaṃ . ādityamaṇḍalāntasthaṃ devaṃ tatraiva cāhvayeth .. 12.26 ..
आदिबीजं सुवर्णाभं प्रणवैः परिवेष्टितं । पश्चाद्देवं समभ्यर्च्य कुर्या दर्घ्यान्त मर्चनं ॥ १२.२७ ॥
ādibījaṃ suvarṇābhaṃ praṇavaiḥ pariveṣṭitaṃ . paścāddevaṃ samabhyarcya kuryā darghyānta marcanaṃ .. 12.27 ..
बिंबं कुंभं च संगृह्य स्नानश्वभ्रे निवेशयेथ् । श्वभ्रस्य पूर्वभागे तु दण्डपङ्क्तिं च कारयेथ् ॥ १२.२८ ॥
biṃbaṃ kuṃbhaṃ ca saṃgṛhya snānaśvabhre niveśayeth . śvabhrasya pūrvabhāge tu daṇḍapaṅktiṃ ca kārayeth .. 12.28 ..
कलशैः स्नापयेत्सम्य क्चतुर्दशभिरेवतु । देवं सर्वत्र संस्नाप्य दीपान्तं च समर्चयेथ् ॥ १२.२९ ॥
kalaśaiḥ snāpayetsamya kcaturdaśabhirevatu . devaṃ sarvatra saṃsnāpya dīpāntaṃ ca samarcayeth .. 12.29 ..
नैरृते विष्टरे न्यस्य नमेद्देवां त्समाहितः । एवं देव्यौ समादाय स्नापये दत्वरं बुधः- ॥ १२.३० ॥
nairṛte viṣṭare nyasya nameddevāṃ tsamāhitaḥ . evaṃ devyau samādāya snāpaye datvaraṃ budhaḥ- .. 12.30 ..
पाद्यमाचमनं दत्वा देवदेवं प्रणम्य च । पात्रं तु तण्डुलैः पूर्णं गृहीत्वात्र विशेषतः ॥ १२.३१ ॥
pādyamācamanaṃ datvā devadevaṃ praṇamya ca . pātraṃ tu taṇḍulaiḥ pūrṇaṃ gṛhītvātra viśeṣataḥ .. 12.31 ..
सौवर्णं राजतं वापि कौतुकं तत्र निक्षिपेथ् । अथ वा तन्तु माहृत्य न्यसित्वा तण्डुलोपरि ॥ १२.३२ ॥
sauvarṇaṃ rājataṃ vāpi kautukaṃ tatra nikṣipeth . atha vā tantu māhṛtya nyasitvā taṇḍulopari .. 12.32 ..
तांबूलसहिते पात्रे? देवस्याग्रे निधायच । पुण्याहं वाच्य तत्कालेस्वस्तिसूक्तं समुच्चरन् ॥ १२.३३ ॥
tāṃbūlasahite pātre? devasyāgre nidhāyaca . puṇyāhaṃ vācya tatkālesvastisūktaṃ samuccaran .. 12.33 ..
देवस्य दक्षिणेहस्ते देव्योर्यै वामहस्तयोः । स्वस्तिदाऽ वीतिमन्त्रेण कौतुकं बन्धयेत्क्रमाथ् ॥ १२.३४ ॥
devasya dakṣiṇehaste devyoryai vāmahastayoḥ . svastidā' vītimantreṇa kautukaṃ bandhayetkramāth .. 12.34 ..
वेदमन्त्रज्ञ आचार्यो रक्षामन्त्रं समुच्चरन् । षड्द्रोणं धान्यमर्धं वा वेदिकोपरि चास्तरेथ् ॥ १२.३५ ॥
vedamantrajña ācāryo rakṣāmantraṃ samuccaran . ṣaḍdroṇaṃ dhānyamardhaṃ vā vedikopari cāstareth .. 12.35 ..
तदर्धं तण्डुलांश्चैव तदग्धं तु तिलानपि । तदग्धं यवमादाय तदर्धं तिल्वमेव च ॥ १२.३६ ॥
tadardhaṃ taṇḍulāṃścaiva tadagdhaṃ tu tilānapi . tadagdhaṃ yavamādāya tadardhaṃ tilvameva ca .. 12.36 ..
अण्डजं मुण्डजं चैवरोमजं वामजं तथा । चर्मजं चास्तरेत्पञ्च शयनं वेदिकोपरि ॥ १२.३७ ॥
aṇḍajaṃ muṇḍajaṃ caivaromajaṃ vāmajaṃ tathā . carmajaṃ cāstaretpañca śayanaṃ vedikopari .. 12.37 ..
अलाभे तु तथैतैषां पञ्चवस्त्राणि वास्तरेथ् । मूर्धोपधानं कर्तव्यमूर्ध्वेऽनस्तं समर्चयेथ् ॥ १२.३८ ॥
alābhe tu tathaitaiṣāṃ pañcavastrāṇi vāstareth . mūrdhopadhānaṃ kartavyamūrdhve'nastaṃ samarcayeth .. 12.38 ..
देवं देव्यौ समादाय यद्दिग्द्वारं तथा शिरः । शाययेच्छयने विद्वान्यद्वैष्णवऽमिति ब्रुवन् ॥ १२.३९ ॥
devaṃ devyau samādāya yaddigdvāraṃ tathā śiraḥ . śāyayecchayane vidvānyadvaiṣṇava'miti bruvan .. 12.39 ..
देव्योश्चापि तथा कुर्यात्तत्तत्सूक्तं जपेत्क्रमाथ् । उत्तराच्छादनं कुर्याद्गलान्तं तत्र निक्षिपेत्? ॥ १२.४० ॥
devyoścāpi tathā kuryāttattatsūktaṃ japetkramāth . uttarācchādanaṃ kuryādgalāntaṃ tatra nikṣipet? .. 12.40 ..
शय्यावेद्यास्तुपरितस्सर्वान्देवान्त्समर्चयेर्थ् । इशानादिक्रमाद्देवान्बल्यन्तन्तु समर्चयेथ् ॥ १२.४१ ॥
śayyāvedyāstuparitassarvāndevāntsamarcayerth . iśānādikramāddevānbalyantantu samarcayeth .. 12.41 ..
शङ्करं बलिरक्षं च वाग्देवीं बलिश्रक्रकौ । अग्निं पवित्रं शैलूषं प्राच्यां प्रत्यङ्मुखान्क्रमाथ् ॥ १२.४२ ॥
śaṅkaraṃ balirakṣaṃ ca vāgdevīṃ baliśrakrakau . agniṃ pavitraṃ śailūṣaṃ prācyāṃ pratyaṅmukhānkramāth .. 12.42 ..
भ्ॐअं गुहं च दुर्गां च यमं मन्दं च नैरृतिं । रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखान् ॥ १२.४३ ॥
bh_oṃaṃ guhaṃ ca durgāṃ ca yamaṃ mandaṃ ca nairṛtiṃ . rohiṇīṃ saptamātṝśca dakṣiṇe cottarāmukhān .. 12.43 ..
पश्चिमे नैरृताद्यादीनर्चयेत्तदनुक्रमाथ् । वैष्णवीं पुरुषं चैव बुधं ज्येष्ठां तथैव च ॥ १२.४४ ॥
paścime nairṛtādyādīnarcayettadanukramāth . vaiṣṇavīṃ puruṣaṃ caiva budhaṃ jyeṣṭhāṃ tathaiva ca .. 12.44 ..
पुष्परक्षकवायू च प्राङ्मुखांश्च समर्चयेथ् । वायव्यादीशपर्यस्तं दक्षिणाभिमूखान्क्रमाथ् ॥ १२.४५ ॥
puṣparakṣakavāyū ca prāṅmukhāṃśca samarcayeth . vāyavyādīśaparyastaṃ dakṣiṇābhimūkhānkramāth .. 12.45 ..
शुक्रं चैव भृगुं शान्तं तथा सप्त ऋषीनपि । भागीरथीं कुबेरं च चन्द्रं भूतानि चार्ऽचयेथ् ॥ १२.४६ ॥
śukraṃ caiva bhṛguṃ śāntaṃ tathā sapta ṛṣīnapi . bhāgīrathīṃ kuberaṃ ca candraṃ bhūtāni cār'cayeth .. 12.46 ..
द्वारे द्वारे च धात्रादीन्द्वारदेवान्त्समर्चयेथ् । विमानं परितो भ्यर्च्य न्यक्षादीनर्चयेत्क्रमाथ् ॥ १२.४७ ॥
dvāre dvāre ca dhātrādīndvāradevāntsamarcayeth . vimānaṃ parito bhyarcya nyakṣādīnarcayetkramāth .. 12.47 ..
देवस्याग्रे प्रसन्नात्मा पूजयेदनपायिनः । भूतद्वयं तथा तार्क्ष्यं तथा चैवामितं बुधः ॥ १२.४८ ॥
devasyāgre prasannātmā pūjayedanapāyinaḥ . bhūtadvayaṃ tathā tārkṣyaṃ tathā caivāmitaṃ budhaḥ .. 12.48 ..
चक्रशङ्खारविन्दानि देवस्याग्रेर्ऽचयेद्बुधः । वेदानध्यापयेद्दिक्षु "ऋचां प्राऽचीरिति श्रुतिः ॥ १२.४९ ॥
cakraśaṅkhāravindāni devasyāgrer'cayedbudhaḥ . vedānadhyāpayeddikṣu "ṛcāṃ prā'cīriti śrutiḥ .. 12.49 ..
संभारवेद्यामास्तीर्य धान्यं वस्त्रोवरिक्रमाथ् । हेमादिपात्रे रत्नादीं त्सन्न्यस्यैवाधिदैवतं ॥ १२.५० ॥
saṃbhāravedyāmāstīrya dhānyaṃ vastrovarikramāth . hemādipātre ratnādīṃ tsannyasyaivādhidaivataṃ .. 12.50 ..
विष्णुमभ्यर्च्य विधिना कारयित्वाधिवासनं । विष्णुसूक्तं समुच्चार्य वस्त्रेणाच्छादयेद्बुधः ॥ १२.५१ ॥
viṣṇumabhyarcya vidhinā kārayitvādhivāsanaṃ . viṣṇusūktaṃ samuccārya vastreṇācchādayedbudhaḥ .. 12.51 ..
पश्चाद्धोतारमाहूय यथोक्तगुणसंयुतं । पादौप्रक्षाल्य चाचम्य कूर्चयुक्तं समाहितं ॥ १२.५२ ॥
paścāddhotāramāhūya yathoktaguṇasaṃyutaṃ . pādauprakṣālya cācamya kūrcayuktaṃ samāhitaṃ .. 12.52 ..
अलङ्कुर्याच्च पुष्पाद्यैः पञ्चाङ्गोचितभूषणैः । सभ्यस्य पूर्वभागे तु पश्चिमाभिमुखःस्थितः ॥ १२.५३ ॥
alaṅkuryācca puṣpādyaiḥ pañcāṅgocitabhūṣaṇaiḥ . sabhyasya pūrvabhāge tu paścimābhimukhaḥsthitaḥ .. 12.53 ..
सभ्याध्वर्युं समीक्ष्यैव होता प्रणवमुच्चरेथ् । होतरेहिऽ पदे उक्तेततो होता समुच्चरेथ् ॥ १२.५४ ॥
sabhyādhvaryuṃ samīkṣyaiva hotā praṇavamuccareth . hotarehi' pade uktetato hotā samuccareth .. 12.54 ..
अध्वर्यो देवऽतेत्युक्त्वा पादौ प्रक्षाल्य चाचमेथ् । पूर्ववत्तत्र चस्थित्वा "ओं नमः प्रवक्त्रेऽ ब्रुवन् ॥ १२.५५ ॥
adhvaryo deva'tetyuktvā pādau prakṣālya cācameth . pūrvavattatra casthitvā "oṃ namaḥ pravaktre' bruvan .. 12.55 ..
होता च नाम शर्मान्तं संयोज्यैव समुच्चरेथ् । भूते भविष्यऽतीत्युक्त्वा ब्रूयाद्धिंऽकारपूर्वकं ॥ १२.५६ ॥
hotā ca nāma śarmāntaṃ saṃyojyaiva samuccareth . bhūte bhaviṣya'tītyuktvā brūyāddhiṃ'kārapūrvakaṃ .. 12.56 ..
भूर्भुवस्सुवऽ रित्येव प्राङ्मुखश्च प्रदक्षिणं । अदध्यात्समिधोऽध्वर्युः प्रत्योङ्कारं ततोऽनले ॥ १२.५७ ॥
bhūrbhuvassuva' rityeva prāṅmukhaśca pradakṣiṇaṃ . adadhyātsamidho'dhvaryuḥ pratyoṅkāraṃ tato'nale .. 12.57 ..
होत्राग्ने महाऽमित्युक्तेप्रभौः प्रवर इष्यते । राज्ञो वा राजपत्म्या वा तथामात्यस्य वा भवेथ् ॥ १२.५८ ॥
hotrāgne mahā'mityukteprabhauḥ pravara iṣyate . rājño vā rājapatmyā vā tathāmātyasya vā bhaveth .. 12.58 ..
ग्रामश्चेद्यजमानस्तु वसिष्ठप्रवरं वदेथ् । अथ वा कारयेद्विद्वान्काश्यप्रवरं वदन् ॥ १२.५९ ॥
grāmaścedyajamānastu vasiṣṭhapravaraṃ vadeth . atha vā kārayedvidvānkāśyapravaraṃ vadan .. 12.59 ..
वैश्यादन्यत्र जातीयो यजमानो भवेद्यदि । तस्य तु प्रवरं हित्वा काश्यपप्रवरं वदेथ् ॥ १२.६० ॥
vaiśyādanyatra jātīyo yajamāno bhavedyadi . tasya tu pravaraṃ hitvā kāśyapapravaraṃ vadeth .. 12.60 ..
तत "आयातु भगवाऽनुक्त्वा पश्चिमदिङ्मुखः । विष्ण्वादि भूत पर्यन्तं सर्वमूर्ती स्तदाह्वयेथ् ॥ १२.६१ ॥
tata "āyātu bhagavā'nuktvā paścimadiṅmukhaḥ . viṣṇvādi bhūta paryantaṃ sarvamūrtī stadāhvayeth .. 12.61 ..
ननधोक्तेन मार्गेण पार्षदानाह्वयेद्बुधः । आवाहन क्रमेणैव निरुप्याऽज्याहुतीर्यजेथ् ॥ १२.६२ ॥
nanadhoktena mārgeṇa pārṣadānāhvayedbudhaḥ . āvāhana krameṇaiva nirupyā'jyāhutīryajeth .. 12.62 ..
सभ्याग्निं च परिस्तीर्य प्राणायामादिपूर्वकं । स्वस्तिचैऽवेति हुत्वातु तथा चैव प्रजापतेःऽ ॥ १२.६३ ॥
sabhyāgniṃ ca paristīrya prāṇāyāmādipūrvakaṃ . svasticai'veti hutvātu tathā caiva prajāpateḥ' .. 12.63 ..
अग्निर्धीमतऽयेत्युक्त्वा आदित्येभ्यऽस्तथैव च । विश्वेभ्यो देवेभ्यऽश्चैव मरुद्गणेभ्यऽएव च ॥ १२.६४ ॥
agnirdhīmata'yetyuktvā ādityebhya'stathaiva ca . viśvebhyo devebhya'ścaiva marudgaṇebhya'eva ca .. 12.64 ..
भूरग्नयेऽचैवमाद्याश्चतस्रो व्याहृतीर्यजेथ् । दशभिश्सतशस्त्वेतैस्सहस्राहुतिरुच्यते ॥ १२.६५ ॥
bhūragnaye'caivamādyāścatasro vyāhṛtīryajeth . daśabhiśsataśastvetaissahasrāhutirucyate .. 12.65 ..
स्रुवेण स्रावयन्विद्वानविच्छिन्नं समाचरेथ् । विष्णुसूक्तं समुच्चार्य सूक्तं पौरुषमेव च ॥ १२.६६ ॥
sruveṇa srāvayanvidvānavicchinnaṃ samācareth . viṣṇusūktaṃ samuccārya sūktaṃ pauruṣameva ca .. 12.66 ..
श्रीसूक्तं भूमिदैवत्य मतोदेवादि वैष्णवं । एकाक्षरादिसूक्तं तु विष्णुगायत्रिया युतं ॥ १२.६७ ॥
śrīsūktaṃ bhūmidaivatya matodevādi vaiṣṇavaṃ . ekākṣarādisūktaṃ tu viṣṇugāyatriyā yutaṃ .. 12.67 ..
एतैन्तु सप्तभिस्सूक्तैश्चतुरावर्त्य हूयतां । एतत्कर्तुमशक्तश्चेत्सकृद्वात्र समाचरेथ् ॥ १२.६८ ॥
etaintu saptabhissūktaiścaturāvartya hūyatāṃ . etatkartumaśaktaścetsakṛdvātra samācareth .. 12.68 ..
अष्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा । वैष्णवं विष्णुगायत्रीं जुहुयादिति के चन ॥ १२.६९ ॥
aṣṭākṣareṇa mantreṇa dvādaśākṣarakeṇa vā . vaiṣṇavaṃ viṣṇugāyatrīṃ juhuyāditi ke cana .. 12.69 ..
ततश्चाहावनीयाग्निकुण्डे सम्यग्यथाक्रमं । यजेत्पुरुषसूक्तं तु षोडशावर्त्य यत्नतः ॥ १२.७० ॥
tataścāhāvanīyāgnikuṇḍe samyagyathākramaṃ . yajetpuruṣasūktaṃ tu ṣoḍaśāvartya yatnataḥ .. 12.70 ..
अन्वाहार्वाग्निकुण्डे तु विष्णुसूक्तं सुहूयतां । ब्राह्मञ्च व्याहृतीश्चैव जयादीन्जुहुयात्क्रमाथ् ॥ १२.७१ ॥
anvāhārvāgnikuṇḍe tu viṣṇusūktaṃ suhūyatāṃ . brāhmañca vyāhṛtīścaiva jayādīnjuhuyātkramāth .. 12.71 ..
श्रीसूक्तं वैष्णवं चैव जुहुयाद्गार्हपत्यके । आवसद्थ्ये विशेषेण वैष्णवं रुद्रसूक्तकं ॥ १२.७२ ॥
śrīsūktaṃ vaiṣṇavaṃ caiva juhuyādgārhapatyake . āvasadthye viśeṣeṇa vaiṣṇavaṃ rudrasūktakaṃ .. 12.72 ..
महीसूक्तं च जुहुयत्सूक्तमेकाक्षरादिकं । पैण्डरीके तु जुहुयात्पारमात्मिकसंयुतं ॥ १२.७३ ॥
mahīsūktaṃ ca juhuyatsūktamekākṣarādikaṃ . paiṇḍarīke tu juhuyātpāramātmikasaṃyutaṃ .. 12.73 ..
रक्ताब्जं बिल्वपत्रं च श्वेताब्जानामसंभवे । घृतेनाप्लुत्य जुहुयाद्विष्णुगायत्रिया बुधः ॥ १२.७४ ॥
raktābjaṃ bilvapatraṃ ca śvetābjānāmasaṃbhave . ghṛtenāplutya juhuyādviṣṇugāyatriyā budhaḥ .. 12.74 ..
समिदाज्यं चरुर्लाजाः सर्षपाश्च यवास्तथा । तिलं तिल्वं तथा मुद्गा माषास्सक्तुर्गुडं तथा ॥ १२.७५ ॥
samidājyaṃ carurlājāḥ sarṣapāśca yavāstathā . tilaṃ tilvaṃ tathā mudgā māṣāssakturguḍaṃ tathā .. 12.75 ..
मध्वपूपा दधि क्षीरं होमद्रव्यमितीरितं । एतैस्सप्तदशद्रव्यैर्वैष्णवं जुहुयाद्बुधः ॥ १२.७६ ॥
madhvapūpā dadhi kṣīraṃ homadravyamitīritaṃ . etaissaptadaśadravyairvaiṣṇavaṃ juhuyādbudhaḥ .. 12.76 ..
जुह्वाचैवोपजुह्वा च विष्णुसूक्तं सुहूयतां । सभ्ये च वैण्डरीके च स्विष्टाकारं विना चरेथ् ॥ १२.७७ ॥
juhvācaivopajuhvā ca viṣṇusūktaṃ suhūyatāṃ . sabhye ca vaiṇḍarīke ca sviṣṭākāraṃ vinā careth .. 12.77 ..
अग्निष्वाहवनीयादिष्वन्तहोमं समाचरेथ् । ऋगादींश्च चतुर्दिक्षु वेदानध्यापयेत्क्रमाथ् ॥ १२.७८ ॥
agniṣvāhavanīyādiṣvantahomaṃ samācareth . ṛgādīṃśca caturdikṣu vedānadhyāpayetkramāth .. 12.78 ..
एवमध्ययनं प्रोक्तमृचां प्राचीऽरिति श्रुतिः । नृत्तैगेन्यैश्च वाद्यैश्च रात्रिशेषं नयत्क्रमाथ् ॥ १२.७९ ॥
evamadhyayanaṃ proktamṛcāṃ prācī'riti śrutiḥ . nṛttaigenyaiśca vādyaiśca rātriśeṣaṃ nayatkramāth .. 12.79 ..
ततःप्रभाते धर्मात्मा स्नात्वास्नानविधानतः । ब्रह्मयज्ञं च कृत्वा तु जपेत्सूक्तानि द्वादश ॥ १२.८० ॥
tataḥprabhāte dharmātmā snātvāsnānavidhānataḥ . brahmayajñaṃ ca kṛtvā tu japetsūktāni dvādaśa .. 12.80 ..
पादौ प्रक्ष्याल्य चाचम्य देवानुद्धाप्य मन्त्रवथ् । पूर्ववस्त्रं विसृज्यैव पुनरन्यद्विभूष्य च ॥ १२.८१ ॥
pādau prakṣyālya cācamya devānuddhāpya mantravath . pūrvavastraṃ visṛjyaiva punaranyadvibhūṣya ca .. 12.81 ..
ब्रह्मस्थाने विशेषेण पीठं सम्यक्प्रकल्पयेथ् । तदूर्ध्वे कल्पयेद्विद्वान्नवभागं विभज्य च ॥ १२.८२ ॥
brahmasthāne viśeṣeṇa pīṭhaṃ samyakprakalpayeth . tadūrdhve kalpayedvidvānnavabhāgaṃ vibhajya ca .. 12.82 ..
पूर्वोक्तेन क्रमेणैव रत्नन्यासे समाचरेथ् । सुधया परिपूर्यैव क्ष्ॐएनाच्छादयेद्बुधः ॥ १२.८३ ॥
pūrvoktena krameṇaiva ratnanyāse samācareth . sudhayā paripūryaiva kṣ_oṃenācchādayedbudhaḥ .. 12.83 ..
यजमानस्तु तत्काले आचार्यादीन्प्रणम्यच । सपादनवनिष्कं च गुरवे दक्षिणां ददेथ् ॥ १२.८४ ॥
yajamānastu tatkāle ācāryādīnpraṇamyaca . sapādanavaniṣkaṃ ca gurave dakṣiṇāṃ dadeth .. 12.84 ..
प्रत्येकं स्थापकादीनां पञ्चनिष्कं ददेत्तदा । सभ्याध्वर्योर्विशेषेण होतुश्चापि तथैव च ॥ १२.८५ ॥
pratyekaṃ sthāpakādīnāṃ pañcaniṣkaṃ dadettadā . sabhyādhvaryorviśeṣeṇa hotuścāpi tathaiva ca .. 12.85 ..
पैण्डरीकस्य चाध्वर्योः प्रत्येकं पञ्चनिष्ककं । अन्येष्वाहवनीयादिष्वध्वर्यूणां चतुभन्वेथ् ॥ १२.८६ ॥
paiṇḍarīkasya cādhvaryoḥ pratyekaṃ pañcaniṣkakaṃ . anyeṣvāhavanīyādiṣvadhvaryūṇāṃ catubhanveth .. 12.86 ..
पषन्द्धामसु चाध्वर्योरन्येषां च पृथक्पृथक् । निष्कं पादाधिकं दद्यात्संपूर्णमिति पठ्यते ॥ १२.८७ ॥
paṣanddhāmasu cādhvaryoranyeṣāṃ ca pṛthakpṛthak . niṣkaṃ pādādhikaṃ dadyātsaṃpūrṇamiti paṭhyate .. 12.87 ..
आचार्यस्य नियोगेन दक्षिणादानमीरितं । यजमानस्स्वतन्त्रेण न कुर्यादिति शासनं ॥ १२.८८ ॥
ācāryasya niyogena dakṣiṇādānamīritaṃ . yajamānassvatantreṇa na kuryāditi śāsanaṃ .. 12.88 ..
हन्त्यल्पदक्षिणो यज्ञो यजमानं विशेषतः । अदक्षिणं तु यजनं निष्फलं त्विति शासनं ॥ १२.८९ ॥
hantyalpadakṣiṇo yajño yajamānaṃ viśeṣataḥ . adakṣiṇaṃ tu yajanaṃ niṣphalaṃ tviti śāsanaṃ .. 12.89 ..
मुहूर्ते समनुप्राप्ते वाद्यघोषसमन्वितं । तोयधारासमायुक्तं स्वस्तिसूक्तं समुच्चरन् ॥ १२.९० ॥
muhūrte samanuprāpte vādyaghoṣasamanvitaṃ . toyadhārāsamāyuktaṃ svastisūktaṃ samuccaran .. 12.90 ..
आचार्यः कुंभमादाय व्रजेत्पूर्वं ततःक्रमाथ् । नयेयुस्थ्सापकाः पश्चाद्देवं देप्यादिसंयुतं ॥ १२.९१ ॥
ācāryaḥ kuṃbhamādāya vrajetpūrvaṃ tataḥkramāth . nayeyusthsāpakāḥ paścāddevaṃ depyādisaṃyutaṃ .. 12.91 ..
प्रदक्षिणं शनैगन्त्वा देवागारं प्रविश्य च । पीठस्य दक्षिणे भागे धान्यपीठे प्रकल्पिते ॥ १२.९२ ॥
pradakṣiṇaṃ śanaigantvā devāgāraṃ praviśya ca . pīṭhasya dakṣiṇe bhāge dhānyapīṭhe prakalpite .. 12.92 ..
आचार्यस्सन्न्यसेत्कुंभं देवं चादायचात्वरः । कौतुकं ब्रह्मस्थाने तु स्थापयित्वा विचक्षणः ॥ १२.९३ ॥
ācāryassannyasetkuṃbhaṃ devaṃ cādāyacātvaraḥ . kautukaṃ brahmasthāne tu sthāpayitvā vicakṣaṇaḥ .. 12.93 ..
भूरसि भूंऽ इत्युक्त्वा पीठे देवं सुयोजयेथ् । तस्य दक्षिणपाशेन्व्तु श्रीदेवीं स्थापयेद्बुधः ॥ १२.९४ ॥
bhūrasi bhūṃ' ityuktvā pīṭhe devaṃ suyojayeth . tasya dakṣiṇapāśenvtu śrīdevīṃ sthāpayedbudhaḥ .. 12.94 ..
तथैव वामपाशेन्व्तु भूमिं कुर्यात्प्रतिष्ठितां । देवस्य वामभागे तु स्थापयेद्बिंबमोत्सवं ॥ १२.९५ ॥
tathaiva vāmapāśenvtu bhūmiṃ kuryātpratiṣṭhitāṃ . devasya vāmabhāge tu sthāpayedbiṃbamotsavaṃ .. 12.95 ..
स्नापनं बलिबेरं च दक्षिणे स्थापयेद्बुधः । विष्णुसूक्तं च जप्त्यैव पुरुषसूक्तयुतं तथा ॥ १२.९६ ॥
snāpanaṃ baliberaṃ ca dakṣiṇe sthāpayedbudhaḥ . viṣṇusūktaṃ ca japtyaiva puruṣasūktayutaṃ tathā .. 12.96 ..
ध्रुवसूक्तं वैष्णवं च देवीभ्यां च पृथक्पृथक् । श्रीभूसूक्तं पृथक्जप्त्वा पश्चान्न्यासं समाचरेथ् ॥ १२.९७ ॥
dhruvasūktaṃ vaiṣṇavaṃ ca devībhyāṃ ca pṛthakpṛthak . śrībhūsūktaṃ pṛthakjaptvā paścānnyāsaṃ samācareth .. 12.97 ..
सुवभुन्वभून्ऽरित्युक्त्वा चाक्षराणि विशेषतः । पादयोरन्तरे विद्वान्यकारं विन्यसेत्ततः ॥ १२.९८ ॥
suvabhunvabhūn'rityuktvā cākṣarāṇi viśeṣataḥ . pādayorantare vidvānyakāraṃ vinyasettataḥ .. 12.98 ..
बिंबस्य हृदये सम्यङ्न्यसेद्बीजाक्षरं परं । रुक्माभं परमं बीजं सर्वकारणकारणं ॥ १२.९९ ॥
biṃbasya hṛdaye samyaṅnyasedbījākṣaraṃ paraṃ . rukmābhaṃ paramaṃ bījaṃ sarvakāraṇakāraṇaṃ .. 12.99 ..
तरुणार्क सहस्राभं ब्रह्मेशाभ्यां नमस्कृतं । पद्मासनस्थं देवेशं श्रीवत्कालङ्कृतोरसं ॥ १२.१०० ॥
taruṇārka sahasrābhaṃ brahmeśābhyāṃ namaskṛtaṃ . padmāsanasthaṃ deveśaṃ śrīvatkālaṅkṛtorasaṃ .. 12.100 ..
शङ्खचक्रधरं स्ॐयं सर्वाभरण भूषितं । ओऽमित्येकाक्षरं ब्रह्म प्रणवः परिपठ्यते ॥ १२.१०१ ॥
śaṅkhacakradharaṃ s_oṃyaṃ sarvābharaṇa bhūṣitaṃ . o'mityekākṣaraṃ brahma praṇavaḥ paripaṭhyate .. 12.101 ..
श्रीऽकारं श्रिय इत्युक्त्वा "लऽकारं भुव इत्यपि । कूर्चेनादाय तत्तोयं कुंभस्थं शक्तिसंयुतं ॥ १२.१०२ ॥
śrī'kāraṃ śriya ityuktvā "la'kāraṃ bhuva ityapi . kūrcenādāya tattoyaṃ kuṃbhasthaṃ śaktisaṃyutaṃ .. 12.102 ..
इदं विष्णुऽस्समुच्चार्य समादाय समाहितः । आयातु भगवाऽनुक्त्वाध्रुवबेरस्य मूर्धवि ॥ १२.१०३ ॥
idaṃ viṣṇu'ssamuccārya samādāya samāhitaḥ . āyātu bhagavā'nuktvādhruvaberasya mūrdhavi .. 12.103 ..
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं । अचले देवदेवेशो व्याप्य तिष्ठतीति श्रुतिः ॥ १२.१०४ ॥
viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakaṃ . acale devadeveśo vyāpya tiṣṭhatīti śrutiḥ .. 12.104 ..
श्रिये जाऽतेति मन्त्रेण श्रियमावाहयेद्बुधः । मेदिऽनीति च मन्त्रेण हरिणीं सम्यगाह्वयेथ् ॥ १२.१०५ ॥
śriye jā'teti mantreṇa śriyamāvāhayedbudhaḥ . medi'nīti ca mantreṇa hariṇīṃ samyagāhvayeth .. 12.105 ..
कौतुकेचौत्सवेचैव स्नापने बलिबेरके । प्रणिधिमुद्धृत्य तत्काले दीपाद्दीपमिव क्रमाथ् ॥ १२.१०६ ॥
kautukecautsavecaiva snāpane baliberake . praṇidhimuddhṛtya tatkāle dīpāddīpamiva kramāth .. 12.106 ..
ध्रुवबेरात्समावाह्य कूर्चेनावाहयेत्क्रमाथ् । नवधा मार्गमालोक्य यथेष्टं कर्तुरिच्छया ॥ १२.१०७ ॥
dhruvaberātsamāvāhya kūrcenāvāhayetkramāth . navadhā mārgamālokya yatheṣṭaṃ karturicchayā .. 12.107 ..
अविच्छिन्नार्ऽचनं नित्यं विधिनैव प्रकल्पयेथ् । अशक्तश्चेत्तथाकर्तुं प्रतिष्ठां नैव कारयेथ् ॥ १२.१०८ ॥
avicchinnār'canaṃ nityaṃ vidhinaiva prakalpayeth . aśaktaścettathākartuṃ pratiṣṭhāṃ naiva kārayeth .. 12.108 ..
आढ्यस्सर्वसमस्त्यागी चिकीर्षुर्विष्णुमन्दिरं । स्वार्थं कृत्वा त्रिधैकांशं कुटुंबार्थे विधाय च ॥ १२.१०९ ॥
āḍhyassarvasamastyāgī cikīrṣurviṣṇumandiraṃ . svārthaṃ kṛtvā tridhaikāṃśaṃ kuṭuṃbārthe vidhāya ca .. 12.109 ..
अंशाभ्यामवशिष्टाभ्यां विमानार्चनमारभेथ् । आपद्यपि च कष्टायां न द्रुह्येदात्मने बुधः ॥ १२.११० ॥
aṃśābhyāmavaśiṣṭābhyāṃ vimānārcanamārabheth . āpadyapi ca kaṣṭāyāṃ na druhyedātmane budhaḥ .. 12.110 ..
अविच्छिन्ना यथा पूजा विधिना संप्रवर्तते । तथा प्रकल्पयेद्विद्वान्भूमिभोगेन वै स्थितिं ॥ १२.१११ ॥
avicchinnā yathā pūjā vidhinā saṃpravartate . tathā prakalpayedvidvānbhūmibhogena vai sthitiṃ .. 12.111 ..
अर्चकस्यार्ऽचनार्ऽथं च कुटुंबार्थं च यत्नतः । अत्यन्तपुष्कलां भूमिं बहुसस्योचितां तथा ॥ १२.११२ ॥
arcakasyār'canār'thaṃ ca kuṭuṃbārthaṃ ca yatnataḥ . atyantapuṣkalāṃ bhūmiṃ bahusasyocitāṃ tathā .. 12.112 ..
करग्रहादि रहितामर्चकाय समर्पयेथ् । ततश्च ताम्रपट्टादौ लेख्य सीमाविनिश्चयं ॥ १२.११३ ॥
karagrahādi rahitāmarcakāya samarpayeth . tataśca tāmrapaṭṭādau lekhya sīmāviniścayaṃ .. 12.113 ..
देवनाम्नैव तां भूमिं दद्यादर्चकजीविकां । इदमग्रे प्रकुर्वीति तदधीना स्थितिर्हरेः ॥ १२.११४ ॥
devanāmnaiva tāṃ bhūmiṃ dadyādarcakajīvikāṃ . idamagre prakurvīti tadadhīnā sthitirhareḥ .. 12.114 ..
पिता हरिस्तु भगवानर्चकः पुत्र उच्यते । पुत्रस्यन लिखेन्नाम सन्निधाने पितुःक्रमाथ् ॥ १२.११५ ॥
pitā haristu bhagavānarcakaḥ putra ucyate . putrasyana likhennāma sannidhāne pituḥkramāth .. 12.115 ..
अर्चकस्सुप्रसन्नात्मा हरिदेव हि केवलं । अथ वा विलिखेद्विद्वान्नाम्ना वा पूजक स्य च ॥ १२.११६ ॥
arcakassuprasannātmā harideva hi kevalaṃ . atha vā vilikhedvidvānnāmnā vā pūjaka sya ca .. 12.116 ..
तथार्ऽचकस्य चावासमालयस्य समीपतः । शिलाभिस्सुदृढं कृत्वा वासायास्य प्रशस्यते ॥ १२.११७ ॥
tathār'cakasya cāvāsamālayasya samīpataḥ . śilābhissudṛḍhaṃ kṛtvā vāsāyāsya praśasyate .. 12.117 ..
अक्लेशेन यथा जीवेदर्चकस्सुसमाहितः । यावच्चन्द्रदिवानाथं तथा कुर्यात्प्रयत्नतः ॥ १२.११८ ॥
akleśena yathā jīvedarcakassusamāhitaḥ . yāvaccandradivānāthaṃ tathā kuryātprayatnataḥ .. 12.118 ..
अर्चके क्लेशयुक्तेतु क्लिश्यते भगवान्हरिः । अर्चके तु सुसंतुष्टे तदा तुष्टो जनार्दनः ॥ १२.११९ ॥
arcake kleśayuktetu kliśyate bhagavānhariḥ . arcake tu susaṃtuṣṭe tadā tuṣṭo janārdanaḥ .. 12.119 ..
रूपद्वयं हरेः प्रोक्तं बिंबमर्चक एवच । बिंबे त्वावाहनादर्वाक्सदा सन्निहितोर्ऽचके ॥ १२.१२० ॥
rūpadvayaṃ hareḥ proktaṃ biṃbamarcaka evaca . biṃbe tvāvāhanādarvāksadā sannihitor'cake .. 12.120 ..
पुनर्विचिन्त्य धर्मात्मा यजमानो मुदान्वितः । शक्तिलोभमकृत्वैव करोति विभवान्तरं ॥ १२.१२१ ॥
punarvicintya dharmātmā yajamāno mudānvitaḥ . śaktilobhamakṛtvaiva karoti vibhavāntaraṃ .. 12.121 ..
पञ्चपर्वसु संक्रान्तौ पुण्याहेष्वितरेषु च । विशेष पूजनार्थञ्च हविरर्थं च यत्नतः ॥ १२.१२२ ॥
pañcaparvasu saṃkrāntau puṇyāheṣvitareṣu ca . viśeṣa pūjanārthañca havirarthaṃ ca yatnataḥ .. 12.122 ..
स्नपनार्थं चोत्सवार्थं प्रायश्चित्तार्थमेव च । नटनर्तकदासीनाङ्गायकानां चशक्तितः ॥ १२.१२३ ॥
snapanārthaṃ cotsavārthaṃ prāyaścittārthameva ca . naṭanartakadāsīnāṅgāyakānāṃ caśaktitaḥ .. 12.123 ..
विद्यार्थिनां च भक्तानामन्यस्य विभवस्य च । वृत्तिं तुपरिकल्प्यैव भूरूपां पुरतो हरेः ॥ १२.१२४ ॥
vidyārthināṃ ca bhaktānāmanyasya vibhavasya ca . vṛttiṃ tuparikalpyaiva bhūrūpāṃ purato hareḥ .. 12.124 ..
ददात्याचार्यहस्ते तु मन्त्रोदकपुरस्सरं । अन्येषां विभवानां चतथैवान्यपदार्थिनां ॥ १२.१२५ ॥
dadātyācāryahaste tu mantrodakapurassaraṃ . anyeṣāṃ vibhavānāṃ catathaivānyapadārthināṃ .. 12.125 ..
तत्तन्नाम्नैव भूम्यादिं दापयेद्देशिकोत्तमः । आचार्यस्यापि तन्नाम्ना कल्पयेद्वृत्तिमुत्तमां ॥ १२.१२६ ॥
tattannāmnaiva bhūmyādiṃ dāpayeddeśikottamaḥ . ācāryasyāpi tannāmnā kalpayedvṛttimuttamāṃ .. 12.126 ..
एवं यः कुरुते भक्त्या ऐहिकामुष्मिकं फलं । पशुभृत्यादिभोगांश्च वाहनादीन्विशेषतः ॥ १२.१२७ ॥
evaṃ yaḥ kurute bhaktyā aihikāmuṣmikaṃ phalaṃ . paśubhṛtyādibhogāṃśca vāhanādīnviśeṣataḥ .. 12.127 ..
सुवर्णरत्नधान्यादीनत्यन्तं समवाप्नुयाथ् । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ १२.१२८ ॥
suvarṇaratnadhānyādīnatyantaṃ samavāpnuyāth . tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .. 12.128 ..
यं यं कामयते सर्वन्तं तमाप्नोत्यसंशयं । पूर्वजातिगतास्तस्य पितरः पितुरन्वये ॥ १२.१२९ ॥
yaṃ yaṃ kāmayate sarvantaṃ tamāpnotyasaṃśayaṃ . pūrvajātigatāstasya pitaraḥ pituranvaye .. 12.129 ..
मातृपक्षे च येजातास्तस्य मातामहादयः । सर्वेपि त्रिदिवं यान्ति मोदन्ते त्रिदिवे चिरं ॥ १२.१३० ॥
mātṛpakṣe ca yejātāstasya mātāmahādayaḥ . sarvepi tridivaṃ yānti modante tridive ciraṃ .. 12.130 ..
ततो यास्यन्ति वैकुण्ठं निस्समाभ्यधिकं महः । यस्सम्यक्पालयेदेतदधिकं यश्च वर्धयेथ् ॥ १२.१३१ ॥
tato yāsyanti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ . yassamyakpālayedetadadhikaṃ yaśca vardhayeth .. 12.131 ..
आद्येष्टकादि निर्माणफलमेव प्रपद्यते । सर्वाशुभविनाशं च लब्ध्वाचेष्टमवाप्य च ॥ १२.१३२ ॥
ādyeṣṭakādi nirmāṇaphalameva prapadyate . sarvāśubhavināśaṃ ca labdhvāceṣṭamavāpya ca .. 12.132 ..
अन्ते विमानमारुह्य विष्णोर्याति परं पदं । किं बहूक्तेन विधिना न दैवं केशवात्परं ॥ १२.१३३ ॥
ante vimānamāruhya viṣṇoryāti paraṃ padaṃ . kiṃ bahūktena vidhinā na daivaṃ keśavātparaṃ .. 12.133 ..
तं विष्णुं पूजयेन्नित्यं सर्वसाधनसाधनं । सर्वमुक्तिप्रदं नित्यं सर्वकामफलप्रदं ॥ १२.१३४ ॥
taṃ viṣṇuṃ pūjayennityaṃ sarvasādhanasādhanaṃ . sarvamuktipradaṃ nityaṃ sarvakāmaphalapradaṃ .. 12.134 ..
ग्रामाग्रहारयोस्सम्यगर्चनं तत्र वासिनां । सर्वसिद्धिप्रदं नित्यं पुत्रपौत्रप्रवर्धनं ॥ १२.१३५ ॥
grāmāgrahārayossamyagarcanaṃ tatra vāsināṃ . sarvasiddhipradaṃ nityaṃ putrapautrapravardhanaṃ .. 12.135 ..
सामान्यमग्नि होत्रं स्यादनग्नीनां तपोधनाः । साग्नीनामप्यविज्ञातप्रायश्चित्ताय कल्पते ॥ १२.१३६ ॥
sāmānyamagni hotraṃ syādanagnīnāṃ tapodhanāḥ . sāgnīnāmapyavijñātaprāyaścittāya kalpate .. 12.136 ..
तस्मात्कुर्यादविच्छिन्नमर्चनं सर्वयत्नतः ॥ १२.१३७ ॥
tasmātkuryādavicchinnamarcanaṃ sarvayatnataḥ .. 12.137 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वादशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvādaśo'dhyāyaḥ.
त्रयोदशोऽध्यायः
trayodaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In