| |
|

This overlay will guide you through the buttons:

अथद्वात्रिंशोऽध्यायः.
अथ द्वात्रिंशः अध्यायः।
atha dvātriṃśaḥ adhyāyaḥ.
प्रकीर्णकम्.
अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमं । ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र संयुते ॥ ३२.१ ॥
अतस् परम् प्रवक्ष्यामि ज्येष्ठायाम् उत्सव-क्रमम् । ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र-संयुते ॥ ३२।१ ॥
atas param pravakṣyāmi jyeṣṭhāyām utsava-kramam . jyeṣṭhe māsi tu saṃprāpte jyeṣṭhānakṣatra-saṃyute .. 32.1 ..
विष्णोरेव विशेषस्स्यात्सुगन्धं तैलमाहरेथ् । तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः ॥ ३२.२ ॥
विष्णोः एव विशेषः स्यात् सुगन्धम् तैलम् आहरेथ् । तैल-क्रमम् प्रवक्ष्यामि श्रुणुध्वम् मुनि-पुङ्गवाः ॥ ३२।२ ॥
viṣṇoḥ eva viśeṣaḥ syāt sugandham tailam āhareth . taila-kramam pravakṣyāmi śruṇudhvam muni-puṅgavāḥ .. 32.2 ..
यागशालां प्रकल्प्यैव सर्वालङ्कालसंयुतां । सभ्यं च पैण्डरीकं च कारयित्वा सलक्षणं ॥ ३२.३ ॥
याग-शालाम् प्रकल्प्य एव सर्व-अलङ्काल-संयुताम् । सभ्यम् च पैण्डरीकम् च कारयित्वा सलक्षणम् ॥ ३२।३ ॥
yāga-śālām prakalpya eva sarva-alaṅkāla-saṃyutām . sabhyam ca paiṇḍarīkam ca kārayitvā salakṣaṇam .. 32.3 ..
तद्दिनस्य तु पूर्वेद्युस्तृतीये पञ्चमेऽपि वा । सप्तमेऽहनि वा चापि अङ्कुरार्पणमाचरेथ् ॥ ३२.४ ॥
तद्-दिनस्य तु पूर्वेद्युस् तृतीये पञ्चमे अपि वा । सप्तमे अहनि वा च अपि अङ्कुर-अर्पणम् आचरेथ् ॥ ३२।४ ॥
tad-dinasya tu pūrvedyus tṛtīye pañcame api vā . saptame ahani vā ca api aṅkura-arpaṇam ācareth .. 32.4 ..
आघारं विधिवत्कृत्वा सर्वकार्यमदः परं । वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेथ् ॥ ३२.५ ॥
आघारम् विधिवत् कृत्वा सर्व-कार्यम् अदः परम् । वेद्याः तथा उत्तरे पार्श्वे भूम्याम् अपटम् ॥ ३२।५ ॥
āghāram vidhivat kṛtvā sarva-kāryam adaḥ param . vedyāḥ tathā uttare pārśve bhūmyām apaṭam .. 32.5 ..
चतुस्तालप्रमाणेव विस्तारं निम्नमेव च । निम्नेतु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकं ॥ ३२.६ ॥
चतुर्-ताल-प्रमाणा इव विस्तारम् निम्नम् एव च । निम्ने तु विन्यसेत् भाण्डम् द्वि-द्रोण-परिमाणकम् ॥ ३२।६ ॥
catur-tāla-pramāṇā iva vistāram nimnam eva ca . nimne tu vinyaset bhāṇḍam dvi-droṇa-parimāṇakam .. 32.6 ..
भूः प्रतिऽऽ ष्ठेति मन्त्रेण निम्ने भाण्डं सुनिक्षिपेथ् । मलयागुरुदारूणि देवदारु तथैव च ॥ ३२.७ ॥
भूः प्रति आ स्थ इति मन्त्रेण निम्ने भाण्डम् सु निक्षिपेथ् । मलय-अगुरु-दारूणि देवदारु तथा एव च ॥ ३२।७ ॥
bhūḥ prati ā stha iti mantreṇa nimne bhāṇḍam su nikṣipeth . malaya-aguru-dārūṇi devadāru tathā eva ca .. 32.7 ..
यानि चात्र सुगन्धीनि देवयोग्यानि तानि वै । गुग्गुलं च समाहृत्य मर्दयित्वासकृत्सकृथ् ॥ ३२.८ ॥
यानि च अत्र सुगन्धीनि देव-योग्यानि तानि वै । गुग्गुलम् च समाहृत्य मर्दयित्वा असकृत् सकृथ् ॥ ३२।८ ॥
yāni ca atra sugandhīni deva-yogyāni tāni vai . guggulam ca samāhṛtya mardayitvā asakṛt sakṛth .. 32.8 ..
विष्णुऽगायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेथ् । शरावेण पिधायाथ मृदा च परिलेपयेथ् ॥ ३२.९ ॥
विष्णु-गायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेथ् । शरावेण पिधाय अथ मृदा च ॥ ३२।९ ॥
viṣṇu-gāyatriyā bhāṇḍe tāni dravyāṇi nikṣiveth . śarāveṇa pidhāya atha mṛdā ca .. 32.9 ..
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेथ् । मन्दाग्निना पचेत्तत्तु यावत्तैलागमं भवेथ् ॥ ३२.१० ॥
गो-करीषाणि काष्ठानि तस्य उपरि विनिक्षिपेथ् । मन्द-अग्निना पचेत् तत् तु यावत् तैल-आगमम् ॥ ३२।१० ॥
go-karīṣāṇi kāṣṭhāni tasya upari vinikṣipeth . manda-agninā pacet tat tu yāvat taila-āgamam .. 32.10 ..
तावत्कालं पचेद्विद्वान्तैलमाहृत्य संभृतं । वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ॥ ३२.११ ॥
तावत्कालम् पचेत् विद्वान् तैलम् आहृत्य संभृतम् । वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ॥ ३२।११ ॥
tāvatkālam pacet vidvān tailam āhṛtya saṃbhṛtam . vāsitāni tu vastūni parihṛtya tu tatra vai .. 32.11 ..
सुगन्धिदैलभाण्डं च ध्यान्यपीठोपरि न्यसेथ् । पूर्वोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेथ् ॥ ३२.१२ ॥
सुगन्धि-दैल-भाण्डम् च ध्यान्य-पीठ-उपरि न्यसेथ् । पूर्व-उक्तेन एव मन्त्रेण तन्तुना ॥ ३२।१२ ॥
sugandhi-daila-bhāṇḍam ca dhyānya-pīṭha-upari nyaseth . pūrva-uktena eva mantreṇa tantunā .. 32.12 ..
पितॄन्सोमं तथाभ्यर्च्य वनत्पतिमतः परं । तैले तस्मिन्विधानेन अर्घ्यान्तमभिपूजयेथ् ॥ ३२.१३ ॥
पितॄन् सोमम् तथा अभ्यर्च्य वनत्पतिम् अतस् परम् । तैले तस्मिन् विधानेन अर्घ्य-अन्तम् अभिपूजयेथ् ॥ ३२।१३ ॥
pitṝn somam tathā abhyarcya vanatpatim atas param . taile tasmin vidhānena arghya-antam abhipūjayeth .. 32.13 ..
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च । जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकं ॥ ३२.१४ ॥
वैष्णवम् विष्णुसूक्तम् च नरसूक्तम् तथा एव च । जप्त्वा तु विष्णुगायत्रीम् अष्टोत्तरसहस्रकम् ॥ ३२।१४ ॥
vaiṣṇavam viṣṇusūktam ca narasūktam tathā eva ca . japtvā tu viṣṇugāyatrīm aṣṭottarasahasrakam .. 32.14 ..
आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः । द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतं ॥ ३२.१५ ॥
आचार्यः त्वरितः गत्वा सभ्य-अग्नेः तु समीपतस् । द्वि-ताल-विस्तृतम् वृत्तम् चतुर्-अङ्गुलम् उन्नतम् ॥ ३२।१५ ॥
ācāryaḥ tvaritaḥ gatvā sabhya-agneḥ tu samīpatas . dvi-tāla-vistṛtam vṛttam catur-aṅgulam unnatam .. 32.15 ..
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितं ॥ ३२.१६ ॥
कूर्म-आकृति-वत् आकारम् बिल्व-आद्यैः परिकल्पितम् ॥ ३२।१६ ॥
kūrma-ākṛti-vat ākāram bilva-ādyaiḥ parikalpitam .. 32.16 ..
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु । देवकार्येषु सर्वेषु तथान्येषु च कर्मसु ॥ ३२.१७ ॥
प्रतिष्ठायाम् उत्सवे च जप-होम-अर्चन-आदिषु । देव-कार्येषु सर्वेषु तथा अन्येषु च कर्मसु ॥ ३२।१७ ॥
pratiṣṭhāyām utsave ca japa-homa-arcana-ādiṣu . deva-kāryeṣu sarveṣu tathā anyeṣu ca karmasu .. 32.17 ..
कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेथ् । असीनः कूर्मपीठे तु सभ्याग्नौ जुहुयात्तथा ॥ ३२.१८ ॥
कूर्म-पीठम् तु गृह्णीयात् अन्यथा निष्फलम् । असीनः कूर्म-पीठे तु सभ्य-अग्नौ जुहुयात् तथा ॥ ३२।१८ ॥
kūrma-pīṭham tu gṛhṇīyāt anyathā niṣphalam . asīnaḥ kūrma-pīṭhe tu sabhya-agnau juhuyāt tathā .. 32.18 ..
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च । जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ ३२.१९ ॥
वैष्णवम् विष्णुसूक्तम् च नरसूक्तम् तथा इव च । जुहुयात् सर्व-दैवत्यम् पारमात्मिकम् एव च ॥ ३२।१९ ॥
vaiṣṇavam viṣṇusūktam ca narasūktam tathā iva ca . juhuyāt sarva-daivatyam pāramātmikam eva ca .. 32.19 ..
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेथ् । प्रणिध्यां शङ्खपात्रे वा अग्निमारोपयेत्सुधीः? ॥ ३२.२० ॥
महाव्याहृतिभिः हुत्वा अन्त-होमम् समाचरेथ् । प्रणिध्याम् शङ्ख-पात्रे वा अग्निम् आरोपयेत् सुधीः? ॥ ३२।२० ॥
mahāvyāhṛtibhiḥ hutvā anta-homam samācareth . praṇidhyām śaṅkha-pātre vā agnim āropayet sudhīḥ? .. 32.20 ..
तैलस्यालेपनात्पूर्वं ध्रुवादग्निं समाहरेथ् । स्रग्वस्त्रकुण्डलाद्यैश्च आचार्यं पूजयेत्ततः ॥ ३२.२१ ॥
तैलस्य आलेपनात् पूर्वम् ध्रुवात् अग्निम् समाहरेथ् । स्रज्-वस्त्र-कुण्डल-आद्यैः च आचार्यम् पूजयेत् ततस् ॥ ३२।२१ ॥
tailasya ālepanāt pūrvam dhruvāt agnim samāhareth . sraj-vastra-kuṇḍala-ādyaiḥ ca ācāryam pūjayet tatas .. 32.21 ..
परिचारकमाहूय यथार्हं पूज्य तं ततः । उष्णीषं धारयित्वातं परिचारकमूर्धनि ॥ ३२.२२ ॥
परिचारकम् आहूय यथार्हम् पूज्य तम् ततस् । उष्णीषम् परिचारक-मूर्धनि ॥ ३२।२२ ॥
paricārakam āhūya yathārham pūjya tam tatas . uṣṇīṣam paricāraka-mūrdhani .. 32.22 ..
सुगन्धितैलभाण्डं तु यत्नेनापि विनिक्षिपेथ् । शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितं ॥ ३२.२३ ॥
सुगन्धि-तैल-भाण्डम् तु यत्नेन अपि विनिक्षिपेथ् । शनैस् सनैस् च गत्वा तु सर्व-वाद्य-समन्वितम् ॥ ३२।२३ ॥
sugandhi-taila-bhāṇḍam tu yatnena api vinikṣipeth . śanais sanais ca gatvā tu sarva-vādya-samanvitam .. 32.23 ..
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितं । वीथिं प्रदक्षिणीकृत्य देवस्याग्रेतु निक्षिपेथ् ॥ ३२.२४ ॥
सर्व-अलङ्कार-संयुक्तम् ब्रह्मघोष-समन्वितम् । वीथिम् प्रदक्षिणीकृत्य देवस्य अग्रे तु निक्षिपेथ् ॥ ३२।२४ ॥
sarva-alaṅkāra-saṃyuktam brahmaghoṣa-samanvitam . vīthim pradakṣiṇīkṛtya devasya agre tu nikṣipeth .. 32.24 ..
अर्घ्यान्तमभिपूज्यैव देवेशं संप्रणम्य च । वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमाथ् ॥ ३२.२५ ॥
अर्घ्य-अन्तम् अभिपूज्य एव देवेशम् संप्रणम्य च । वैष्णवम् विष्णुसूक्तम् च नरसूक्तम् जपेत् क्रमाथ् ॥ ३२।२५ ॥
arghya-antam abhipūjya eva deveśam saṃpraṇamya ca . vaiṣṇavam viṣṇusūktam ca narasūktam japet kramāth .. 32.25 ..
तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा । देवीभ्यां च ततः पश्चात्तत्तन्मन्त्रेण लेपयेथ् ॥ ३२.२६ ॥
तैलेन आलेपयेत् देवम् आचार्यः स्त्वरितः तथा । देवीभ्याम् च ततस् पश्चात् तद्-तद्-मन्त्रेण ॥ ३२।२६ ॥
tailena ālepayet devam ācāryaḥ stvaritaḥ tathā . devībhyām ca tatas paścāt tad-tad-mantreṇa .. 32.26 ..
सर्वेषां परिवाराणां तत्तन्मन्त्रैश्च कारयेथ् । आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः ॥ ३२.२७ ॥
सर्वेषाम् परिवाराणाम् तद्-तद्-मन्त्रैः च । आचार्यः त्वरितः गत्वा च औत्सवस्य समीपतस् ॥ ३२।२७ ॥
sarveṣām parivārāṇām tad-tad-mantraiḥ ca . ācāryaḥ tvaritaḥ gatvā ca autsavasya samīpatas .. 32.27 ..
परिलिखितऽमिति मन्त्रेण कवचं परिशोधयेथ् । जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेथ् ॥ ३२.२८ ॥
मन्त्रेण कवचम् । जीर्णे भिन्ने च कवचे शिल्पिना एन ॥ ३२।२८ ॥
mantreṇa kavacam . jīrṇe bhinne ca kavace śilpinā ena .. 32.28 ..
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेथ् । कृत्वापि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेथ् ॥ ३२.२९ ॥
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेथ् । कृत्वा अपि वास्तुशुद्धिम् च यथा उक्ताम् निष्कृतिम् चरेथ् ॥ ३२।२९ ॥
prakṣālya pañcagavyena jalena pariśodhayeth . kṛtvā api vāstuśuddhim ca yathā uktām niṣkṛtim careth .. 32.29 ..
विष्णोर्नुकादिमन्त्रैश्च संदध्यात्कवचं तथा । दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेथ् ॥ ३२.३० ॥
विष्णोः नु कादि-मन्त्रैः च संदध्यात् कवचम् तथा । दृढीकृत्य तु पूर्व-उक्तम् यत्नेन ॥ ३२।३० ॥
viṣṇoḥ nu kādi-mantraiḥ ca saṃdadhyāt kavacam tathā . dṛḍhīkṛtya tu pūrva-uktam yatnena .. 32.30 ..
सहस्रकलशैर्देवं स्नापयित्वा यथाविधे । नित्यपूजाविधानेन देवमाराध्य पूर्ववथ् ॥ ३२.३१ ॥
सहस्र-कलशैः देवम् स्नापयित्वा यथाविधे । नित्य-पूजा-विधानेन देवम् आराध्य ॥ ३२।३१ ॥
sahasra-kalaśaiḥ devam snāpayitvā yathāvidhe . nitya-pūjā-vidhānena devam ārādhya .. 32.31 ..
महाहविःप्रभूतं वा पायसं च निवेदयेथ् । क्षमस्वेऽऽति वदन्भूयः प्रणमेत्पुरुषोत्तमं ॥ ३२.३२ ॥
महाहविः-प्रभूतम् वा पायसम् च । क्षमस्व ई इति वदन् भूयस् प्रणमेत् पुरुषोत्तमम् ॥ ३२।३२ ॥
mahāhaviḥ-prabhūtam vā pāyasam ca . kṣamasva ī iti vadan bhūyas praṇamet puruṣottamam .. 32.32 ..
ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणां । दिने पक्षे च मासे च तथा संनत्सरे चरेथ् ॥ ३२.३३ ॥
ब्रह्मघोषम् ततस् कुर्यात् दद्यात् आचार्य-दक्षिणाम् । दिने पक्षे च मासे च तथा संनत्सरे चरेथ् ॥ ३२।३३ ॥
brahmaghoṣam tatas kuryāt dadyāt ācārya-dakṣiṇām . dine pakṣe ca māse ca tathā saṃnatsare careth .. 32.33 ..
यद्यद्रूपं तथाध्यायेत्तत्तद्बिंबेषु योजयेथ् । तस्मात्सर्वप्रयत्नेन बिंबरक्षां समाचरेथ् ॥ ३२.३४ ॥
यत् यत् रूपम् तथा अध्यायेत् तत् तत् बिंबेषु । तस्मात् सर्व-प्रयत्नेन बिंब-रक्षाम् समाचरेथ् ॥ ३२।३४ ॥
yat yat rūpam tathā adhyāyet tat tat biṃbeṣu . tasmāt sarva-prayatnena biṃba-rakṣām samācareth .. 32.34 ..
पवित्रारोपणम्
अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः ॥ ३२.३५ ॥
अथ वक्ष्ये विशेषण पवित्र-आरोपणम् हरेः ॥ ३२।३५ ॥
atha vakṣye viśeṣaṇa pavitra-āropaṇam hareḥ .. 32.35 ..
सर्वदोषोपशमनं सर्वयज्ञफलप्रदं । सर्वकामप्रदं चैव सर्वतुष्टिकरं परं ॥ ३२.३६ ॥
सर्व-दोष-उपशमनम् सर्व-यज्ञ-फल-प्रदम् । सर्व-काम-प्रदम् च एव सर्व-तुष्टि-करम् परम् ॥ ३२।३६ ॥
sarva-doṣa-upaśamanam sarva-yajña-phala-pradam . sarva-kāma-pradam ca eva sarva-tuṣṭi-karam param .. 32.36 ..
सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदं । यद्यन्मन्त्रक्रियाहीनं द्रव्यहीनं च यत्कृतं ॥ ३२.३७ ॥
सर्व-लोकस्य वृद्धि-अर्थम् सर्व-लोकस्य शान्ति-दम् । यत् यत् मन्त्र-क्रिया-हीनम् द्रव्य-हीनम् च यत् कृतम् ॥ ३२।३७ ॥
sarva-lokasya vṛddhi-artham sarva-lokasya śānti-dam . yat yat mantra-kriyā-hīnam dravya-hīnam ca yat kṛtam .. 32.37 ..
तद्दोषशमनायैव पवित्रारोपणं चरेथ् । पवित्रारोपणे हीने या पूजा निष्फला भवेथ् ॥ ३२.३८ ॥
तद्-दोष-शमनाय एव पवित्रारोपणम् चरेथ् । पवित्र-आरोपणे हीने या पूजा निष्फला ॥ ३२।३८ ॥
tad-doṣa-śamanāya eva pavitrāropaṇam careth . pavitra-āropaṇe hīne yā pūjā niṣphalā .. 32.38 ..
संक्षोभो जायते तत्र तस्माद्यत्नेन कारयेथ् । आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः ॥ ३२.३९ ॥
संक्षोभः जायते तत्र तस्मात् यत्नेन । आषाढे श्रावणे मासि प्रोष्ठपद्याम् विशेषतः ॥ ३२।३९ ॥
saṃkṣobhaḥ jāyate tatra tasmāt yatnena . āṣāḍhe śrāvaṇe māsi proṣṭhapadyām viśeṣataḥ .. 32.39 ..
द्वादश्यां शुक्लपक्षे तु विष्णुपञ्चदिनेऽथ वा । संसर्पमधिमासं च तिथिवारं च शून्यकं ॥ ३२.४० ॥
द्वादश्याम् शुक्ल-पक्षे तु विष्णु-पञ्च-दिने अथ वा । संसर्पम् अधिमासम् च तिथि-वारम् च शून्यकम् ॥ ३२।४० ॥
dvādaśyām śukla-pakṣe tu viṣṇu-pañca-dine atha vā . saṃsarpam adhimāsam ca tithi-vāram ca śūnyakam .. 32.40 ..
दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेथ् । हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभं ॥ ३२.४१ ॥
दशमी-एकादशी-मिश्रम् तत् दिनम् च । हरि-तिथ्याम् च निर्दुष्टे पवित्र-आरोपणम् शुभम् ॥ ३२।४१ ॥
daśamī-ekādaśī-miśram tat dinam ca . hari-tithyām ca nirduṣṭe pavitra-āropaṇam śubham .. 32.41 ..
नवाहं वाथ सप्ताहं पञ्चाहमथ वा त्षहं । उक्तलक्षणसंपन्नमाचार्यं वरयेत्क्रमाथ् ॥ ३२.४२ ॥
नव-अहम् वा अथ सप्त-अहम् पञ्च-अहम् अथ वा । उक्त-लक्षण-संपन्नम् आचार्यम् वरयेत् क्रमाथ् ॥ ३२।४२ ॥
nava-aham vā atha sapta-aham pañca-aham atha vā . ukta-lakṣaṇa-saṃpannam ācāryam varayet kramāth .. 32.42 ..
ऋत्विजो वरयेत्तद्वच्छिष्यांश्च वरयेत्ततः । तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः ॥ ३२.४३ ॥
ऋत्विजः वरयेत् तद्वत् शिष्यान् च वरयेत् ततस् । तद्-दिनात् पूर्व-रात्रौ तु देवेशम् प्रार्थयेत् गुरुः ॥ ३२।४३ ॥
ṛtvijaḥ varayet tadvat śiṣyān ca varayet tatas . tad-dināt pūrva-rātrau tu deveśam prārthayet guruḥ .. 32.43 ..
भगवतो बलेऽऽनेति प्रोच्य नम्राङ्गस्सुसमाहितः । पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः ॥ ३२.४४ ॥
भगवतः बले प्रोच्य नम्र-अङ्गः सु समाहितः । पाद्य-आद्यैः च विशेषेण देवम् अभ्यर्च्य स त्वरः ॥ ३२।४४ ॥
bhagavataḥ bale procya namra-aṅgaḥ su samāhitaḥ . pādya-ādyaiḥ ca viśeṣeṇa devam abhyarcya sa tvaraḥ .. 32.44 ..
प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेथ् । परितो यागशालायाश्शिष्यैः परिवृतोगुरुः ॥ ३२.४५ ॥
प्रार्थनासु उक्तम् उच्चार्य वेद-अध्ययनम् आरभेथ् । परितस् याग-शालायाः शिष्यैः परिवृतः गुरुः ॥ ३२।४५ ॥
prārthanāsu uktam uccārya veda-adhyayanam ārabheth . paritas yāga-śālāyāḥ śiṣyaiḥ parivṛtaḥ guruḥ .. 32.45 ..
चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयं । चतुर्वेदान्दिमन्त्रांश्च शक्त्याध्ययनमाचरेथ् ॥ ३२.४६ ॥
चतुर्षु द्वार-देशेषु क्रमात् प्राच्-आदिषु स्वयम् । शक्त्या अध्ययनम् आचरेथ् ॥ ३२।४६ ॥
caturṣu dvāra-deśeṣu kramāt prāc-ādiṣu svayam . śaktyā adhyayanam ācareth .. 32.46 ..
पुण्याहं च ततः कृत्वा मृत्संग्रहणमाचरेथ् । अङ्कुरानल्पयित्वैव मुद्गान्नं च निवेदयेथ् ॥ ३२.४७ ॥
पुण्य-अहम् च ततस् कृत्वा मृद्-संग्रहणम् आचरेथ् । अङ्कुरान् अल्पयित्वा एव मुद्ग-अन्नम् च ॥ ३२।४७ ॥
puṇya-aham ca tatas kṛtvā mṛd-saṃgrahaṇam ācareth . aṅkurān alpayitvā eva mudga-annam ca .. 32.47 ..
औपासनाग्निकुण्डे तु आघारं विधिवद्यजेथ् । वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः ॥ ३२.४८ ॥
औपासन-अग्निकुण्डे तु आघारम् विधिवत् यजेथ् । वास्तु-होमम् च हुत्वा तु गव्यम् कृत्वा विधानतः ॥ ३२।४८ ॥
aupāsana-agnikuṇḍe tu āghāram vidhivat yajeth . vāstu-homam ca hutvā tu gavyam kṛtvā vidhānataḥ .. 32.48 ..
पर्यग्नि पञ्चगव्याभ्यां योगशालां विशोधयेथ् । तमेकनेमिऽऽ मित्युक्त्वा आमावाजस्यऽऽ इत्यपि ॥ ३२.४९ ॥
पर्यग्नि पञ्चगव्याभ्याम् योगशालाम् । तम् एक-नेमि मिति उक्त्वा आमावाजस्य इति अपि ॥ ३२।४९ ॥
paryagni pañcagavyābhyām yogaśālām . tam eka-nemi miti uktvā āmāvājasya iti api .. 32.49 ..
तन्तुन्तव्वऽऽन्निति प्रोच्य यन्मेगर्भऽऽ इतीरयन् । षड्भिश्च वैष्णवैर्मन्त्रैर्विष्णुगायत्रिया तथा ॥ ३२.५० ॥
प्रोच्य यत् मे गर्भः इति ईरयन् । षड्भिः च वैष्णवैः मन्त्रैः विष्णुगायत्रिया तथा ॥ ३२।५० ॥
procya yat me garbhaḥ iti īrayan . ṣaḍbhiḥ ca vaiṣṇavaiḥ mantraiḥ viṣṇugāyatriyā tathā .. 32.50 ..
पवित्राणि सुसंप्रोक्ष्य विधिना पञ्चगव्यकैः । प्रतद्विष्णुस्तवतऽऽ इति इदं विष्णुऽऽ रितीरयन् ॥ ३२.५१ ॥
पवित्राणि सु संप्रोक्ष्य विधिना पञ्चगव्यकैः । इति इदम् विष्णुः इति ईरयन् ॥ ३२।५१ ॥
pavitrāṇi su saṃprokṣya vidhinā pañcagavyakaiḥ . iti idam viṣṇuḥ iti īrayan .. 32.51 ..
विष्णुगायत्रिया पश्चात्पवित्रं संप्रणम्य च ॥ ३२.५२ ॥
विष्णुगायत्रिया पश्चात् पवित्रम् संप्रणम्य च ॥ ३२।५२ ॥
viṣṇugāyatriyā paścāt pavitram saṃpraṇamya ca .. 32.52 ..
उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकं । कार्पासमधमं गृह्य सर्वदोषविवर्जितं ॥ ३२.५३ ॥
उत्तमम् स्वर्ण-सूत्रम् च मध्यमम् रौप्य-सूत्रकम् । कार्पासम् अधमम् गृह्य सर्व-दोष-विवर्जितम् ॥ ३२।५३ ॥
uttamam svarṇa-sūtram ca madhyamam raupya-sūtrakam . kārpāsam adhamam gṛhya sarva-doṣa-vivarjitam .. 32.53 ..
सुमङ्गलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः । अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमं ॥ ३२.५४ ॥
सु मङ्गलीभिः युग्माभिः ब्राह्मणीभिः विशेषतः । अलाभे कन्यकाभिः वा निर्मितम् सूत्रम् उत्तमम् ॥ ३२।५४ ॥
su maṅgalībhiḥ yugmābhiḥ brāhmaṇībhiḥ viśeṣataḥ . alābhe kanyakābhiḥ vā nirmitam sūtram uttamam .. 32.54 ..
गृह्णीयाद्बिंबमानेन चाष्टोत्तरसहस्रकं । ग्रन्थयोंगुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेथ् ॥ ३२.५५ ॥
गृह्णीयात् बिंब-मानेन च अष्टोत्तरसहस्रकम् । ग्रन्थया उंगुष्ठ-मात्राः स्युः ताभिः मालाम् च ॥ ३२।५५ ॥
gṛhṇīyāt biṃba-mānena ca aṣṭottarasahasrakam . granthayā uṃguṣṭha-mātrāḥ syuḥ tābhiḥ mālām ca .. 32.55 ..
वनमाला समाख्याता विष्णोःप्रियतमा भवेथ् । विष्णुसूक्तं च जप्त्वातु "अणोरणीयाऽऽनिति ब्रुर्न ॥ ३२.५६ ॥
वनमाला समाख्याता । विष्णुसूक्तम् च जप्त्वा अतु "अणोः अणीयाः ब्रुः न ॥ ३२।५६ ॥
vanamālā samākhyātā . viṣṇusūktam ca japtvā atu "aṇoḥ aṇīyāḥ bruḥ na .. 32.56 ..
प्रोक्ष्य हारिद्रतोयेन "इमे धूऽऽ पेति धूपयेथ् । चतुर्वेदादिमन्त्रैश्च तोरणाद्यैरलङ्कृतं ॥ ३२.५७ ॥
प्रोक्ष्य हारिद्र-तोयेन "इमे धू प इति धूपयेथ् । चतुर्-वेद-आदि-मन्त्रैः च तोरण-आद्यैः अलङ्कृतम् ॥ ३२।५७ ॥
prokṣya hāridra-toyena "ime dhū pa iti dhūpayeth . catur-veda-ādi-mantraiḥ ca toraṇa-ādyaiḥ alaṅkṛtam .. 32.57 ..
नभ्याग्निकुण्डं कृत्वैव आघारं विधिवद्यजेथ् ॥ ३२.५८ ॥
नभ्य-अग्निकुण्डम् कृत्वा एव आघारम् विधिवत् यजेथ् ॥ ३२।५८ ॥
nabhya-agnikuṇḍam kṛtvā eva āghāram vidhivat yajeth .. 32.58 ..
बिंबाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेथ् । तिलतण्डुलधान्यैश्च धान्यपीठं प्रकल्प्य च ॥ ३२.५९ ॥
बिंब-अध्यर्ध-प्रमाणेन शय्या-वेदिम् प्रकल्पयेथ् । तिल-तण्डुल-धान्यैः च धान्य-पीठम् प्रकल्प्य च ॥ ३२।५९ ॥
biṃba-adhyardha-pramāṇena śayyā-vedim prakalpayeth . tila-taṇḍula-dhānyaiḥ ca dhānya-pīṭham prakalpya ca .. 32.59 ..
दर्भांस्तत्र समास्तीर्य चाण्डजादीनि चास्तरेथ् । प्रतद्विष्णुऽऽरिति प्रोच्य पवित्रं सन्निधाय च ॥ ३२.६० ॥
दर्भान् तत्र समास्तीर्य च अण्डज-आदीनि । प्रोच्य पवित्रम् सन्निधाय च ॥ ३२।६० ॥
darbhān tatra samāstīrya ca aṇḍaja-ādīni . procya pavitram sannidhāya ca .. 32.60 ..
पञ्चमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च । जप्त्वा प्रतिसरं मन्त्रं धूपदीपादि दर्शयेत्? ॥ ३२.६१ ॥
पञ्च-मूर्तभिः आवाह्य समभ्यर्च्य प्रणम्य च । जप्त्वा प्रतिसरम् मन्त्रम् धूप-दीप-आदि दर्शयेत्? ॥ ३२।६१ ॥
pañca-mūrtabhiḥ āvāhya samabhyarcya praṇamya ca . japtvā pratisaram mantram dhūpa-dīpa-ādi darśayet? .. 32.61 ..
अतो देवाऽऽ दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः । पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेथ् ॥ ३२.६२ ॥
अतस् देव-आ दिना पश्चात् देवेशम् प्रार्थयेत् गुरुः । पाद्य-आदिभिः समभ्यर्च्य धूप-दीप-आदि दर्शयेथ् ॥ ३२।६२ ॥
atas deva-ā dinā paścāt deveśam prārthayet guruḥ . pādya-ādibhiḥ samabhyarcya dhūpa-dīpa-ādi darśayeth .. 32.62 ..
बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च । आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा ॥ ३२.६३ ॥
बद्ध्वा प्रतिसरम् देवम् श्री-भूम्यौ च तथा एव च । आचार्यस्य ऋत्विजाम् च एव बद्ध्वा अप्रतिसरम् तथा ॥ ३२।६३ ॥
baddhvā pratisaram devam śrī-bhūmyau ca tathā eva ca . ācāryasya ṛtvijām ca eva baddhvā apratisaram tathā .. 32.63 ..
यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेथ् । सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतं ॥ ३२.६४ ॥
यत् वैष्णवम् समुच्चार्य पवित्रम् शयनम् चरेथ् । सूक्ष्म-वस्त्रेण च आच्छाद्य च अर्पयेत् पुष्बम् अक्षतम् ॥ ३२।६४ ॥
yat vaiṣṇavam samuccārya pavitram śayanam careth . sūkṣma-vastreṇa ca ācchādya ca arpayet puṣbam akṣatam .. 32.64 ..
विष्णुसूक्तं च गोदानसूक्तं चैवात्मसूक्तकं । एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च ॥ ३२.६५ ॥
विष्णुसूक्तम् च गोदान-सूक्तम् च एव आत्मसूक्तकम् । एकाक्षर-आदि-सूक्तम् च वैष्णवम् सूक्तम् एव च ॥ ३२।६५ ॥
viṣṇusūktam ca godāna-sūktam ca eva ātmasūktakam . ekākṣara-ādi-sūktam ca vaiṣṇavam sūktam eva ca .. 32.65 ..
नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च । सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परं ॥ ३२.६६ ॥
नृसूक्तम् रुद्र-सूक्तम् च दुर्गासूक्तम् तथा एव च । सारस्वतम् तथा सूक्तम् रात्रिसूक्तम् अतस् परम् ॥ ३२।६६ ॥
nṛsūktam rudra-sūktam ca durgāsūktam tathā eva ca . sārasvatam tathā sūktam rātrisūktam atas param .. 32.66 ..
ऋतं च सत्यंऽऽ जप्त्वैव "सहस्रशीर्षऽऽमेव च । श्रीभूसूक्तञ्च जप्त्वैव कारयेद्देशिकोत्तमः ॥ ३२.६७ ॥
ऋतम् च सत्यम् जप्त्वा एव "सहस्र-शीर्ष आम् इव च । श्री-भू-सूक्तम् च जप्त्वा एव कारयेत् देशिक-उत्तमः ॥ ३२।६७ ॥
ṛtam ca satyam japtvā eva "sahasra-śīrṣa ām iva ca . śrī-bhū-sūktam ca japtvā eva kārayet deśika-uttamaḥ .. 32.67 ..
दशानां चैव पञ्चानां सूक्तानां जप उत्तमं । मध्यमं दशसूक्तानां पञ्चानामधमं भवेथ् ॥ ३२.६८ ॥
दशानाम् च एव पञ्चानाम् सूक्तानाम् जपः उत्तमम् । मध्यमम् दश-सूक्तानाम् पञ्चानाम् अधमम् भवेथ् ॥ ३२।६८ ॥
daśānām ca eva pañcānām sūktānām japaḥ uttamam . madhyamam daśa-sūktānām pañcānām adhamam bhaveth .. 32.68 ..
प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि । क्रमाच्छान्तं खगाधीशं चक्रं शङ्खं तथैव च ॥ ३२.६९ ॥
प्राच्-आदि-दिक्षु च तथा विदिक्षु च चतुर्षु अपि । क्रमात् शान्तम् खग-अधीशम् चक्रम् शङ्खम् तथा एव च ॥ ३२।६९ ॥
prāc-ādi-dikṣu ca tathā vidikṣu ca caturṣu api . kramāt śāntam khaga-adhīśam cakram śaṅkham tathā eva ca .. 32.69 ..
विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः । मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेथ् ॥ ३२.७० ॥
विमान-पालान् च आवाह्य समभ्यर्च्य विशेषतः । मुद्ग-अन्नम् विनिवेद्य एव प्रणामम् मुहुर् आचरेथ् ॥ ३२।७० ॥
vimāna-pālān ca āvāhya samabhyarcya viśeṣataḥ . mudga-annam vinivedya eva praṇāmam muhur ācareth .. 32.70 ..
सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेथ् । निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेथ् ॥ ३२.७१ ॥
सर्व-रक्षा-करम् चक्रम् पवित्र-उपरि । निवेदयेत् तदा अन्नेन शान्ता-आदीनाम् बलिम् ॥ ३२।७१ ॥
sarva-rakṣā-karam cakram pavitra-upari . nivedayet tadā annena śāntā-ādīnām balim .. 32.71 ..
पादौ प्रक्षाल्य चाचम्य यथोक्तेन विधानतः । हौत्रं प्रशंस्य विधिवदावाहन मथाचरेथ् ॥ ३२.७२ ॥
पादौ प्रक्षाल्य च आचम्य यथा उक्तेन विधानतः । हौत्रम् प्रशंस्य विधिवत् आवाहन ॥ ३२।७२ ॥
pādau prakṣālya ca ācamya yathā uktena vidhānataḥ . hautram praśaṃsya vidhivat āvāhana .. 32.72 ..
जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमं । हावयेत्पञ्चभिस्सुक्तैस्तत्तद्दैवत्यमेव च ॥ ३२.७३ ॥
जुष्ट-आकारम् च कृत्वा तु जुहुयात् च यथाक्रमम् । हावयेत् पञ्चभिः सुक्तैः तद्-तद्-दैवत्यम् एव च ॥ ३२।७३ ॥
juṣṭa-ākāram ca kṛtvā tu juhuyāt ca yathākramam . hāvayet pañcabhiḥ suktaiḥ tad-tad-daivatyam eva ca .. 32.73 ..
वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः । ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ॥ ३२.७४ ॥
पश्चात् अग्निम् विसृज्य एव रात्रि-शेषम् नयेत् गुरुः । ततस् प्रभाते धर्म-आत्मा स्नात्वा स्नान-विधानतः ॥ ३२।७४ ॥
paścāt agnim visṛjya eva rātri-śeṣam nayet guruḥ . tatas prabhāte dharma-ātmā snātvā snāna-vidhānataḥ .. 32.74 ..
नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः । अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः ॥ ३२.७५ ॥
नित्य-पूजाः विधेः अन्ते देवेशम् प्रार्थयेत् गुरुः । अष्टोत्तरशतैः देवम् स्नापयेत् कलशैः ततस् ॥ ३२।७५ ॥
nitya-pūjāḥ vidheḥ ante deveśam prārthayet guruḥ . aṣṭottaraśataiḥ devam snāpayet kalaśaiḥ tatas .. 32.75 ..
अलङ्कृत्यच देवेशं धूपदीपादिकं ददेथ् ॥ ३२.७६ ॥
अलङ्कृत्य च देवेशम् धूप-दीप-आदिकम् ॥ ३२।७६ ॥
alaṅkṛtya ca deveśam dhūpa-dīpa-ādikam .. 32.76 ..
औद्यन्तम्ऽऽ इतिमन्त्रेण पवित्रं मूर्ध्नि धारयन् । सर्ववाद्यसमायुक्तं तो यधारापुरस्सरं ॥ ३२.७७ ॥
औद्यन्तम् इति मन्त्रेण पवित्रम् मूर्ध्नि धारयन् । सर्व-वाद्य-समायुक्तम् ॥ ३२।७७ ॥
audyantam iti mantreṇa pavitram mūrdhni dhārayan . sarva-vādya-samāyuktam .. 32.77 ..
प्रदक्षिणं शनैर्गत्वादेवाग्रेसन्निधायच । सुर्यऽऽ च मन्त्रेण शतञ्जप्त्वा तु पल्लवं ॥ ३२.७८ ॥
प्रदक्षिणम् शनैस् गत्वा देव-अग्रे सन्निधाय च । च मन्त्रेण शतम् जप्त्वा तु पल्लवम् ॥ ३२।७८ ॥
pradakṣiṇam śanais gatvā deva-agre sannidhāya ca . ca mantreṇa śatam japtvā tu pallavam .. 32.78 ..
आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच । विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेथ् ॥ ३२.७९ ॥
आचार्यः सु प्रसन्न-आत्मा स्व-आत्म-रक्षाम् विधाय च । विष्णुसूक्तम् समुच्चार्य कनिष्ठा-आदि च ॥ ३२।७९ ॥
ācāryaḥ su prasanna-ātmā sva-ātma-rakṣām vidhāya ca . viṣṇusūktam samuccārya kaniṣṭhā-ādi ca .. 32.79 ..
पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादराथ् । कुंभांस्तु सप्तदश च अलङ्कृत्य यथाविधि ॥ ३२.८० ॥
पाद्य-आद्यैः देवम् अभ्यर्च्य मुख-वास-अन्तम् आदराथ् । कुंभान् तु सप्तदश च अलङ्कृत्य यथाविधि ॥ ३२।८० ॥
pādya-ādyaiḥ devam abhyarcya mukha-vāsa-antam ādarāth . kuṃbhān tu saptadaśa ca alaṅkṛtya yathāvidhi .. 32.80 ..
वेद्यामारोपयेत्कुंभान्स्वस्तिके सन्निधाय च । शय्यावेदि च तत्प्राच्यां सभ्यकुण्डं प्रकल्प्यच ॥ ३२.८१ ॥
वेद्याम् आरोपयेत् कुंभान् स्वस्तिके सन्निधाय च । शय्या-वेदि च तद्-प्राच्याम् सभ्य-कुण्डम् प्रकल्प्य च ॥ ३२।८१ ॥
vedyām āropayet kuṃbhān svastike sannidhāya ca . śayyā-vedi ca tad-prācyām sabhya-kuṇḍam prakalpya ca .. 32.81 ..
भादस्यस्थितिरत्रऽशङ्कितापि निवेश्यते । परस्तीर्य विधानेन पावकं विधिवद्यजेथ् ॥ ३२.८२ ॥
भा-दस्य-स्थितिः अत्र अशङ्कि-ता अपि निवेश्यते । परस्तीर्य विधानेन पावकम् विधिवत् यजेथ् ॥ ३२।८२ ॥
bhā-dasya-sthitiḥ atra aśaṅki-tā api niveśyate . parastīrya vidhānena pāvakam vidhivat yajeth .. 32.82 ..
लाजापूपै राज्य मिश्रैर्मूलमन्त्रं समुच्चरन् । अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः ॥ ३२.८३ ॥
लाज-अपूपैः राज्य-मिश्रैः मूलमन्त्रम् समुच्चरन् । अष्टात्तरशतेन एव होमयेत् देशिक-उत्तमः ॥ ३२।८३ ॥
lāja-apūpaiḥ rājya-miśraiḥ mūlamantram samuccaran . aṣṭāttaraśatena eva homayet deśika-uttamaḥ .. 32.83 ..
पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसंख्यया । पश्चादग्निं परिस्तीर्य क्षयऽऽस्वेति प्रणम्य च ॥ ३२.८४ ॥
पुरुषसूक्तम् च जुहुयात् ततस् द्वात्रिंश-संख्यया । पश्चात् अग्निम् परिस्तीर्य क्षय आस्व इति प्रणम्य च ॥ ३२।८४ ॥
puruṣasūktam ca juhuyāt tatas dvātriṃśa-saṃkhyayā . paścāt agnim paristīrya kṣaya āsva iti praṇamya ca .. 32.84 ..
एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेथ् । सायं संध्यामुपासित्वा यागशालां प्रविश्य च ॥ ३२.८५ ॥
एवम् प्रतिदिनम् कुर्यात् अन्ते देवम् तु । सायम् संध्याम् उपासित्वा याग-शालाम् प्रविश्य च ॥ ३२।८५ ॥
evam pratidinam kuryāt ante devam tu . sāyam saṃdhyām upāsitvā yāga-śālām praviśya ca .. 32.85 ..
सभ्याग्निं पैण्डरीकाग्निं चासाद्याघारमाचरेथ् । अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः ॥ ३२.८६ ॥
सभ्य-अग्निम् पैण्डरीक-अग्निम् च आसाद्य आघारम् आचरेथ् । अब्ज-अग्नौ शान्ति-होमम् च हुत्वा एव गुरुः अत्वरः ॥ ३२।८६ ॥
sabhya-agnim paiṇḍarīka-agnim ca āsādya āghāram ācareth . abja-agnau śānti-homam ca hutvā eva guruḥ atvaraḥ .. 32.86 ..
कुंभं विना महाशान्तिहोमं के चिद्वदन्तिहि । वेद्यां तु पुरतस्तिष्ठन्प्राणायामादिकं चरेथ् ॥ ३२.८७ ॥
कुंभम् विना महाशान्ति-होमम् के चित् वदन्ति हि । वेद्याम् तु पुरतस् तिष्ठन् प्राणायाम-आदिकम् ॥ ३२।८७ ॥
kuṃbham vinā mahāśānti-homam ke cit vadanti hi . vedyām tu puratas tiṣṭhan prāṇāyāma-ādikam .. 32.87 ..
नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमाथ् । अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेथ् ॥ ३२.८८ ॥
नव-मूर्तिभिः आवाह्य दिक्पालान् आवहेत् क्रमात् । अष्ट-उपचारैः अभ्यर्छ्य मुद्ग-अन्नम् विनिवेदयेथ् ॥ ३२।८८ ॥
nava-mūrtibhiḥ āvāhya dikpālān āvahet kramāt . aṣṭa-upacāraiḥ abhyarchya mudga-annam vinivedayeth .. 32.88 ..
पानीयाचमनं दत्वा मुखवासं ददेत्ततः । आपो वाऽऽ इति मन्त्रेण पवित्रं धारयेद्घटं ॥ ३२.८९ ॥
पानीय-आचमनम् द-त्वा मुख-वासम् ददेत् ततस् । आपः वा इति मन्त्रेण पवित्रम् धारयेत् घटम् ॥ ३२।८९ ॥
pānīya-ācamanam da-tvā mukha-vāsam dadet tatas . āpaḥ vā iti mantreṇa pavitram dhārayet ghaṭam .. 32.89 ..
अग्नावग्निऽऽरिति प्रोच्य पवित्रं चाग्निकुण्डके । कुण्डस्यैव तु मानेन समलङ्कृत्य पावकं ॥ ३२.९० ॥
अग्नौ अग्नि इति प्रोच्य पवित्रम् च अग्निकुण्डके । कुण्डस्य एव तु मानेन समलङ्कृत्य पावकम् ॥ ३२।९० ॥
agnau agni iti procya pavitram ca agnikuṇḍake . kuṇḍasya eva tu mānena samalaṅkṛtya pāvakam .. 32.90 ..
पवित्रन्तुऽऽ इति प्रोच्य पवित्रं धारयेद्गुरुः । समिन्थ्यैव तु सभ्याग्निं परिषिच्य विधानतः ॥ ३२.९१ ॥
इति प्रोच्य पवित्रम् धारयेत् गुरुः । समिन्थ्य एव तु सभ्य-अग्निम् परिषिच्य विधानतः ॥ ३२।९१ ॥
iti procya pavitram dhārayet guruḥ . saminthya eva tu sabhya-agnim pariṣicya vidhānataḥ .. 32.91 ..
हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः । तदालयगतान्श्चैव देवानावाहयेत्क्रमाथ् ॥ ३२.९२ ॥
हौत्रम् प्रशंस्य विधिवत् समिद्भिः हावयेत् गुरुः । तद्-आलय-गतान् श्च एव देवान् आवाहयेत् क्रमात् ॥ ३२।९२ ॥
hautram praśaṃsya vidhivat samidbhiḥ hāvayet guruḥ . tad-ālaya-gatān śca eva devān āvāhayet kramāt .. 32.92 ..
जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परं । विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परं ॥ ३२.९३ ॥
जुष्ट-आकारम् ततस् पश्चात् स्वाहाकालम् ततस् परम् । विष्णुसूक्तम् सु हुत्वा तु पुरुषसूक्तम् अतस् परम् ॥ ३२।९३ ॥
juṣṭa-ākāram tatas paścāt svāhākālam tatas param . viṣṇusūktam su hutvā tu puruṣasūktam atas param .. 32.93 ..
चरुं लाजांस्तथापूपानाज्यमिश्रांश्च हावयेथ् । पश्चात्तु वैष्णवैर्मन्त्रैश्चतमष्टोत्तरं यजेर्थ् ॥ ३२.९४ ॥
चरुम् लाजान् तथा अपूपान् आज्य-मिश्रान् च । पश्चात् तु वैष्णवैः मन्त्रैः चतमष्ट-उत्तरम् ॥ ३२।९४ ॥
carum lājān tathā apūpān ājya-miśrān ca . paścāt tu vaiṣṇavaiḥ mantraiḥ catamaṣṭa-uttaram .. 32.94 ..
इङ्कारादींस्ततः पश्चात्पारमात्मिकसंयुतं । अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च ॥ ३२.९५ ॥
इङ्कार-आदीन् ततस् पश्चात् पारमात्मिक-संयुतम् । अष्टाशीतिम् ततस् हुत्वा तद्-तद्-दैवत्यम् एव च ॥ ३२।९५ ॥
iṅkāra-ādīn tatas paścāt pāramātmika-saṃyutam . aṣṭāśītim tatas hutvā tad-tad-daivatyam eva ca .. 32.95 ..
सर्वदैवत्यमन्त्रांश्च धातादीन्पञ्च वारुणं । मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च ॥ ३२.९६ ॥
सर्व-दैवत्य-मन्त्रान् च धाता आदीन् पञ्च वारुणम् । मूल-होमम् ततस् हुत्वा तथा अन्ते परिषिच्य च ॥ ३२।९६ ॥
sarva-daivatya-mantrān ca dhātā ādīn pañca vāruṇam . mūla-homam tatas hutvā tathā ante pariṣicya ca .. 32.96 ..
यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेथ् । ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुं ॥ ३२.९७ ॥
याग-शाला-चतुर्-द्वारे चतुः वेदान् अथ उच्चरेथ् । ऐशान्याम् तु विशेषेण जपेत् अष्ट-अक्षरम् मनुम् ॥ ३२।९७ ॥
yāga-śālā-catur-dvāre catuḥ vedān atha uccareth . aiśānyām tu viśeṣeṇa japet aṣṭa-akṣaram manum .. 32.97 ..
द्वादशाक्षरमन्त्रं च गायत्रीं वैष्णवं तथा । नारायणाख्यगायत्रीं पारमात्मिकमित्यपि ॥ ३२.९८ ॥
द्वादश-अक्षर-मन्त्रम् च गायत्रीम् वैष्णवम् तथा । नारायण-आख्य-गायत्रीम् पारमात्मिकम् इति अपि ॥ ३२।९८ ॥
dvādaśa-akṣara-mantram ca gāyatrīm vaiṣṇavam tathā . nārāyaṇa-ākhya-gāyatrīm pāramātmikam iti api .. 32.98 ..
व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतं । ततश्च वैष्णवं जप्त्वा यो वा भूऽऽ तेति पञ्चकं ॥ ३२.९९ ॥
। ततस् च वैष्णवम् जप्त्वा यः वा पञ्चकम् ॥ ३२।९९ ॥
. tatas ca vaiṣṇavam japtvā yaḥ vā pañcakam .. 32.99 ..
पुष्बाञ्जलिं जपित्वैव न्यसेद्देवस्य पादयोः । नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ॥ ३२.१०० ॥
पुष्ब-अञ्जलिम् जपित्वा एव न्यसेत् देवस्य पादयोः । नृत्त-गीत-आदि-वाद्यैः च रात्रि-शेषम् नयेत् गुरुः ॥ ३२।१०० ॥
puṣba-añjalim japitvā eva nyaset devasya pādayoḥ . nṛtta-gīta-ādi-vādyaiḥ ca rātri-śeṣam nayet guruḥ .. 32.100 ..
ततः प्रभाते धर्मात्मा स्नात्वा संध्यामुपास्य च । यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः ॥ ३२.१०१ ॥
ततस् प्रभाते धर्म-आत्मा स्नात्वा संध्याम् उपास्य च । याग-शालाम् प्रविश्य एव देवेशम् प्रार्थयेत् ततस् ॥ ३२।१०१ ॥
tatas prabhāte dharma-ātmā snātvā saṃdhyām upāsya ca . yāga-śālām praviśya eva deveśam prārthayet tatas .. 32.101 ..
भूरग्नयऽऽ इति प्रोच्य वेदिं संप्रोक्ष्य चात्वरः । कुंभाराधनहोमादीन्सर्वं पूर्ववदाचरेथ् ॥ ३२.१०२ ॥
भूः अग्नये इति प्रोच्य वेदिम् संप्रोक्ष्य चात्वरः । कुंभ-आराधन-होम-आदीन् सर्वम् पूर्ववत् आचरेथ् ॥ ३२।१०२ ॥
bhūḥ agnaye iti procya vedim saṃprokṣya cātvaraḥ . kuṃbha-ārādhana-homa-ādīn sarvam pūrvavat ācareth .. 32.102 ..
कुंभमाराधयेत्पूर्वं बिंबपूजा त्वनन्तरं । पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परं ॥ ३२.१०३ ॥
कुंभम् आराधयेत् पूर्वम् बिंब-पूजा तु अनन्तरम् । पश्चाद्धोमम् प्रकुर्वीत बलि-दानम् ततस् परम् ॥ ३२।१०३ ॥
kuṃbham ārādhayet pūrvam biṃba-pūjā tu anantaram . paścāddhomam prakurvīta bali-dānam tatas param .. 32.103 ..
एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः । समाप्ते तु दिने सायं पूर्णाहुति मथाचरेथ् ॥ ३२.१०४ ॥
एवम् कुर्यात् विधानेन दिनम् प्रति गुरु-उत्तमः । समाप्ते तु दिने सायम् पूर्णाहुति ॥ ३२।१०४ ॥
evam kuryāt vidhānena dinam prati guru-uttamaḥ . samāpte tu dine sāyam pūrṇāhuti .. 32.104 ..
तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुण्डके? ॥ ३२.१०५ ॥
तद्-अग्निम् त्रि-यहात् ऊर्ध्वम् साधयेत् अग्निकुण्डके? ॥ ३२।१०५ ॥
tad-agnim tri-yahāt ūrdhvam sādhayet agnikuṇḍake? .. 32.105 ..
कुंभमादाय शिरसा तोयधारापुरस्सरं । प्रदक्षिणं शनैर्गत्वा देवाग्रे सन्निधाय च ॥ ३२.१०६ ॥
कुंभम् आदाय शिरसा तोय-धारा-पुरस्सरम् । प्रदक्षिणम् शनैस् गत्वा देव-अग्रे सन्निधाय च ॥ ३२।१०६ ॥
kuṃbham ādāya śirasā toya-dhārā-purassaram . pradakṣiṇam śanais gatvā deva-agre sannidhāya ca .. 32.106 ..
हिरण्य पवमानाऽऽ द्यैःकुंभतोयेन प्रोक्षयेथ् । देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेथ् ॥ ३२.१०७ ॥
हिरण्य-पवमान-आ आद्यैः कुंभ-तोयेन प्रोक्षयेथ् । देवम् अभ्यर्च्य पाद्य-आद्यैः प्रभूतम् च ॥ ३२।१०७ ॥
hiraṇya-pavamāna-ā ādyaiḥ kuṃbha-toyena prokṣayeth . devam abhyarcya pādya-ādyaiḥ prabhūtam ca .. 32.107 ..
पानीयाचमलं दत्वा मुखवासं ददेत्पुनः । क्षमामन्त्रं समुच्चार्य "क्षमऽऽ स्वेति नमेन्मुहुः ॥ ३२.१०८ ॥
मुख-वासम् ददेत् पुनर् । क्षमा-मन्त्रम् समुच्चार्य "क्षम स्व इति नमेत् मुहुर् ॥ ३२।१०८ ॥
mukha-vāsam dadet punar . kṣamā-mantram samuccārya "kṣama sva iti namet muhur .. 32.108 ..
यजमानोऽपि शुद्धात्मा भक्तिनम्रस्समाहितः । आचार्यं पूजयेत्तत्र गन्धमार्यानुलेपनैः ॥ ३२.१०९ ॥
यजमानः अपि शुद्ध-आत्मा भक्ति-नम्रः समाहितः । आचार्यम् पूजयेत् तत्र गन्धम् आर्य-अनुलेपनैः ॥ ३२।१०९ ॥
yajamānaḥ api śuddha-ātmā bhakti-namraḥ samāhitaḥ . ācāryam pūjayet tatra gandham ārya-anulepanaiḥ .. 32.109 ..
पञ्चाङ्गभूषणैश्चैव दुकूलैश्च नवैस्तथा । ततो गुरुः प्रसन्नात्मा प्रयुञ्ज्यादाशिषस्तदा ॥ ३२.११० ॥
पञ्चाङ्ग-भूषणैः च एव दुकूलैः च नवैः तथा । ततस् गुरुः प्रसन्न-आत्मा प्रयुञ्ज्यात् आशिषः तदा ॥ ३२।११० ॥
pañcāṅga-bhūṣaṇaiḥ ca eva dukūlaiḥ ca navaiḥ tathā . tatas guruḥ prasanna-ātmā prayuñjyāt āśiṣaḥ tadā .. 32.110 ..
तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादराथ् । एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः ॥ ३२.१११ ॥
तत् उक्तम् भगवत्-प्रोक्तम् प्रतिगृह्णीयुः आदरात् अथ् । एवम् कुर्वीत प्रत्यब्दम् पवित्र-आरोपणम् हरेः ॥ ३२।१११ ॥
tat uktam bhagavat-proktam pratigṛhṇīyuḥ ādarāt ath . evam kurvīta pratyabdam pavitra-āropaṇam hareḥ .. 32.111 ..
इहलोके सुखीभूत्वा स याति परमां गतिं । प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते ॥ ३२.११२ ॥
इहलोके सुखीभूत्वा स याति परमाम् गतिम् । प्रिय-ताम् भगवान् विष्णुः प्रार्थनासु उक्तम् उच्यते ॥ ३२।११२ ॥
ihaloke sukhībhūtvā sa yāti paramām gatim . priya-tām bhagavān viṣṇuḥ prārthanāsu uktam ucyate .. 32.112 ..
कनिक्रदाऽऽपिमन्त्राश्च शाकुनं सूक्तमीरितं । स्वस्तिनो मिमीऽऽतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतं ॥ ३२.११३ ॥
शाकुनम् सूक्तम् ईरितम् । स्वस्तिनः मिमी इति उक्त्वा स्वस्तिसूक्तम् इति स्मृतम् ॥ ३२।११३ ॥
śākunam sūktam īritam . svastinaḥ mimī iti uktvā svastisūktam iti smṛtam .. 32.113 ..
शुद्धा इमे पशवऽऽ इति गोसूक्तं समुदाहृतं । ऋतं च सत्यंऽऽ चेत्यादि अघमर्षणमुच्यते ॥ ३२.११४ ॥
शुद्धाः इमे पशवः इति गो-सूक्तम् समुदाहृतम् । ऋतम् च सत्यम् च इत्यादि अघमर्षणम् उच्यते ॥ ३२।११४ ॥
śuddhāḥ ime paśavaḥ iti go-sūktam samudāhṛtam . ṛtam ca satyam ca ityādi aghamarṣaṇam ucyate .. 32.114 ..
अणोरणीयाऽऽ नित्युक्त्वासूक्तं प्रोक्षणमीरितं । अपो हिरण्यवर्णाश्च पवमानऽऽ इति त्रयः ॥ ३२.११५ ॥
प्रोक्षणम् ईरितम् । अपः हिरण्य-वर्णाः च पवमान इति त्रयः ॥ ३२।११५ ॥
prokṣaṇam īritam . apaḥ hiraṇya-varṇāḥ ca pavamāna iti trayaḥ .. 32.115 ..
प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः । या जाताऽऽ इति मन्त्राश्च ओषधीसूक्तमुच्यते ॥ ३२.११६ ॥
प्रोक्षणम् सूक्तम् इति तु केचिद् वैकल्पिकम् जगुः । या जाता इति मन्त्राः च ओषधी-सूक्तम् उच्यते ॥ ३२।११६ ॥
prokṣaṇam sūktam iti tu kecid vaikalpikam jaguḥ . yā jātā iti mantrāḥ ca oṣadhī-sūktam ucyate .. 32.116 ..
कृणुष्व पाजऽऽ इत्यादि सूक्तं प्रतिसराह्वयं । ("अतोदेवाऽऽदि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) ॥ ३२.११७ ॥
कृणुष्व पाजः इत्यादि सूक्तम् प्रतिसर-आह्वयम् । ("षड्भिः तु वैष्णवम् सूक्तम् उच्यतेः ॥ ३२।११७ ॥
kṛṇuṣva pājaḥ ityādi sūktam pratisara-āhvayam . ("ṣaḍbhiḥ tu vaiṣṇavam sūktam ucyateḥ .. 32.117 ..
अतोदेवादि षण्मन्त्राऽऽष्,ड्वैष्णवपदाह्वयाः । विष्णोर्नुऽऽकादि षण्मन्त्रा विष्णुसूक्तमुदीरितं ॥ ३२.११८ ॥
अतोदेव-आदि षष्-मन्त्रा आष्,ड्वैष्णव-पद-आह्वयाः । षष्-मन्त्राः विष्णुसूक्तम् उदीरितम् ॥ ३२।११८ ॥
atodeva-ādi ṣaṣ-mantrā āṣ,ḍvaiṣṇava-pada-āhvayāḥ . ṣaṣ-mantrāḥ viṣṇusūktam udīritam .. 32.118 ..
सहस्रशीर्षा पुरुषऽऽ इति पौरुषसूक्तकं । हिरण्य वर्णाऽऽ इत्यादि श्रीसूक्तं सर्वकामदं ॥ ३२.११९ ॥
सहस्र-शीर्षा पुरुषः इति पौरुषसूक्तकम् । हिरण्य-वर्णा इत्यादि श्रीसूक्तम् सर्व-काम-दम् ॥ ३२।११९ ॥
sahasra-śīrṣā puruṣaḥ iti pauruṣasūktakam . hiraṇya-varṇā ityādi śrīsūktam sarva-kāma-dam .. 32.119 ..
भूमिर्भूम्नेऽऽत्यादिमन्त्रा भूमिसूक्तमुदाहृतं । उप श्वासयऽऽ इत्यादि दुन्दुभीसूक्तमुच्यते ॥ ३२.१२० ॥
भूमिः भूम्ने आत्यादि-मन्त्राः भूमिसूक्तम् उदाहृतम् । उप श्वासय इत्यादि दुन्दुभी-सूक्तम् उच्यते ॥ ३२।१२० ॥
bhūmiḥ bhūmne ātyādi-mantrāḥ bhūmisūktam udāhṛtam . upa śvāsaya ityādi dundubhī-sūktam ucyate .. 32.120 ..
सुपर्णोऽसि गरुत्माऽऽनित्युक्तं सूक्तं च गारुडं । हिरण्यगर्भऽऽइत्यादि ब्रह्मसूक्तमुधृतं ॥ ३२.१२१ ॥
सुपर्णः असि गरुत्मा आन् इति उक्तम् सूक्तम् च गारुडम् । हिरण्यगर्भ इत्यादि ब्रह्मसूक्तम् उधृतम् ॥ ३२।१२१ ॥
suparṇaḥ asi garutmā ān iti uktam sūktam ca gāruḍam . hiraṇyagarbha ityādi brahmasūktam udhṛtam .. 32.121 ..
इन्द्रं वो विश्वतऽऽ इति इन्द्रसूक्तमिहोच्यते । अग्ने नयेत्याऽऽदिषड्भिरग्निसूक्तं प्रचक्षते ॥ ३२.१२२ ॥
इन्द्रम् वः विश्वतस् इति इन्द्रसूक्तम् इह उच्यते । अग्ने नय इति आ आदि-षड्भिः अग्निसूक्तम् प्रचक्षते ॥ ३२।१२२ ॥
indram vaḥ viśvatas iti indrasūktam iha ucyate . agne naya iti ā ādi-ṣaḍbhiḥ agnisūktam pracakṣate .. 32.122 ..
आयातुदेवऽऽ इत्यादियमसूक्तंप्रकीर्तितं । नमस्सुते निरृतेऽऽ सूक्तंनैरृतमुच्यते ॥ ३२.१२३ ॥
आयातु देव इत्यादि-यम-सूक्तम् प्रकीर्तितम् । नमः सुते निरृते सूक्तम् नैरृतम् उच्यते ॥ ३२।१२३ ॥
āyātu deva ityādi-yama-sūktam prakīrtitam . namaḥ sute nirṛte sūktam nairṛtam ucyate .. 32.123 ..
अस्तभ्नाद्यामृषभऽऽइति वारुणसूक्तकं । पीवोन्नांरयि वृधस्सुमेधाऽऽइति वायवं ॥ ३२.१२४ ॥
अस्तभ्नात् याम् ऋषभः इति वारुण-सूक्तकम् । वृधः सुमेधाः इति वायवम् ॥ ३२।१२४ ॥
astabhnāt yām ṛṣabhaḥ iti vāruṇa-sūktakam . vṛdhaḥ sumedhāḥ iti vāyavam .. 32.124 ..
अद्भ्यस्तिरोधाऽऽइत्यादि कौवेरं सूक्तमुच्यते । स्तुहि श्रुतं गर्तऽऽइति रुद्रसूक्तं प्रकीर्तितं ॥ ३२.१२५ ॥
अद्भ्यः तिरोधाः आ इत्यादि कौवेरम् सूक्तम् उच्यते । स्तुहि श्रुतम् गर्त इति रुद्रसूक्तम् प्रकीर्तितम् ॥ ३२।१२५ ॥
adbhyaḥ tirodhāḥ ā ityādi kauveram sūktam ucyate . stuhi śrutam garta iti rudrasūktam prakīrtitam .. 32.125 ..
ओमासश्चर्षणीऽऽत्यादि सूक्तं सारस्वतं भवेथ् । विश्वजितेधनऽऽइति विश्वजित्सूक्तमुच्यते ॥ ३२.१२६ ॥
ओमासः चर्षणी इत्यादि सूक्तम् सारस्वतम् । विश्वजितेधन इधन इति विश्वजित्-सूक्तम् उच्यते ॥ ३२।१२६ ॥
omāsaḥ carṣaṇī ityādi sūktam sārasvatam . viśvajitedhana idhana iti viśvajit-sūktam ucyate .. 32.126 ..
रात्री व्यख्यऽऽदित्यादि रात्रिसूक्तमुदाहृतं । जातवेदसऽऽइत्यादि षड्दुर्गासूक्तमुच्यते ॥ ३२.१२७ ॥
रात्री व्यख्यः इत्यादि रात्रिसूक्तम् उदाहृतम् । जातवेदसः इत्यादि षष् दुर्गासु उक्तम् उच्यते ॥ ३२।१२७ ॥
rātrī vyakhyaḥ ityādi rātrisūktam udāhṛtam . jātavedasaḥ ityādi ṣaṣ durgāsu uktam ucyate .. 32.127 ..
आ गोदानाऽऽदिति प्रोच्यगोदानं सूक्तमुच्यते । एकाक्षरम्ऽऽ इतिप्रोच्य सूक्तमेकाक्षरादिकं ॥ ३२.१२८ ॥
आ गोदाना आत् इति प्रोच्य गोदानम् सूक्तम् उच्यते । एक-अक्षरम् इति प्रोच्य सूक्तम् एक-अक्षर-आदिकम् ॥ ३२।१२८ ॥
ā godānā āt iti procya godānam sūktam ucyate . eka-akṣaram iti procya sūktam eka-akṣara-ādikam .. 32.128 ..
आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितं ॥ ३२.१२९ ॥
आत्मा आत्मा परमा इत्यादि आत्म-सूक्तम् प्रकीर्तितम् ॥ ३२।१२९ ॥
ātmā ātmā paramā ityādi ātma-sūktam prakīrtitam .. 32.129 ..
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परं । श्रीभूसूक्तं च पञ्चैतं पञ्चसूक्तमिहोच्यते ॥ ३२.१३० ॥
वैष्णवम् विष्णुसूक्तम् च पुरुष-सूक्तम् अतस् परम् । श्री-भूसूक्तम् च पञ्च एतम् पञ्च-सूक्तम् इह उच्यते ॥ ३२।१३० ॥
vaiṣṇavam viṣṇusūktam ca puruṣa-sūktam atas param . śrī-bhūsūktam ca pañca etam pañca-sūktam iha ucyate .. 32.130 ..
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परं । एकाक्षरादि सूक्तं च पञ्चसूक्तं जगुःपरे ॥ ३२.१३१ ॥
विष्णुसूक्तम् नृसूक्तम् च श्री-भूसूक्तम् अतस् परम् । एक-अक्षर-आदि सूक्तम् च पञ्च-सूक्तम् जगुः परे ॥ ३२।१३१ ॥
viṣṇusūktam nṛsūktam ca śrī-bhūsūktam atas param . eka-akṣara-ādi sūktam ca pañca-sūktam jaguḥ pare .. 32.131 ..
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवं । एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा ॥ ३२.१३२ ॥
विष्णुसूक्तम् नृसूक्तम् च श्री-भू-सूक्तम् च वैष्णवम् । एकाक्षर-आदि-सूक्तम् च विष्णुगायत्रिया सहा ॥ ३२।१३२ ॥
viṣṇusūktam nṛsūktam ca śrī-bhū-sūktam ca vaiṣṇavam . ekākṣara-ādi-sūktam ca viṣṇugāyatriyā sahā .. 32.132 ..
आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितं । रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परं ॥ ३२.१३३ ॥
आहत्य सप्तभिः च एतैः सप्त-सूक्तम् समीरितम् । रुद्रसूक्तम् ध्रुवसूक्तम् दुर्गासूक्तम् ततस् परम् ॥ ३२।१३३ ॥
āhatya saptabhiḥ ca etaiḥ sapta-sūktam samīritam . rudrasūktam dhruvasūktam durgāsūktam tatas param .. 32.133 ..
रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमाथ् । विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि ॥ ३२.१३४ ॥
रात्रिसूक्तम् तथा सूक्तम् सारस्वतम् अपि । विश्वजित्-सूक्तम् अथ च सहस्रशीर्षम् इति अपि ॥ ३२।१३४ ॥
rātrisūktam tathā sūktam sārasvatam api . viśvajit-sūktam atha ca sahasraśīrṣam iti api .. 32.134 ..
अघमर्षणसूक्तं च गोदानं सूक्तमेव च । आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतं ॥ ३२.१३५ ॥
अघमर्षण-सूक्तम् च गोदानम् सूक्तम् एव च । आत्मसूक्तेन संयुक्तम् दशमूक्तम् उदाहृतम् ॥ ३२।१३५ ॥
aghamarṣaṇa-sūktam ca godānam sūktam eva ca . ātmasūktena saṃyuktam daśamūktam udāhṛtam .. 32.135 ..
दशसूक्तं पञ्चसूक्तं कृत्वा संहृतमेव च एवं । भवेत्पञ्च दशसूक्तमिति संज्ञा प्रभाषिता ॥ ३२.१३६ ॥
दश-सूक्तम् पञ्च-सूक्तम् कृत्वा संहृतम् एव च एवम् । भवेत् पञ्च दश-सूक्तम् इति संज्ञा प्रभाषिता ॥ ३२।१३६ ॥
daśa-sūktam pañca-sūktam kṛtvā saṃhṛtam eva ca evam . bhavet pañca daśa-sūktam iti saṃjñā prabhāṣitā .. 32.136 ..
अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । मण्डलाराधनं नित्यं पुण्याहं स्नपनं चरेथ् ॥ ३२.१३७ ॥
अतस् परम् प्रवक्ष्यामि श्रुणुध्वम् मुनि-सत्तमाः । मण्डल-आराधनम् नित्यम् पुण्य-अहम् स्नपनम् चरेथ् ॥ ३२।१३७ ॥
atas param pravakṣyāmi śruṇudhvam muni-sattamāḥ . maṇḍala-ārādhanam nityam puṇya-aham snapanam careth .. 32.137 ..
चत्पारिंशद्धिनादूर्ध्वं मण्डलं दिनपञ्चकं । पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ॥ ३२.१३८ ॥
मण्डलम् दिन-पञ्चकम् । पुण्याहम् विधिवत् कृत्वा व्रीहिभिः तण्डुल-उपरि ॥ ३२।१३८ ॥
maṇḍalam dina-pañcakam . puṇyāham vidhivat kṛtvā vrīhibhiḥ taṇḍula-upari .. 32.138 ..
नवं कलशमादाय पूर्वोक्तेन विधानतः । समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः ॥ ३२.१३९ ॥
नवम् कलशम् आदाय पूर्व-उक्तेन विधानतः । समभ्यर्च्य जपम् कुर्यात् ब्राह्मणैः ब्रह्म-वादिभिः ॥ ३२।१३९ ॥
navam kalaśam ādāya pūrva-uktena vidhānataḥ . samabhyarcya japam kuryāt brāhmaṇaiḥ brahma-vādibhiḥ .. 32.139 ..
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परं । श्रीभूसूक्तं तथा पञ्चशान्तिं चैव पृथक्पृथक् ॥ ३२.१४० ॥
वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् अतस् परम् । श्री-भूसूक्तम् तथा पञ्चशान्तिम् च एव पृथक् पृथक् ॥ ३२।१४० ॥
vaiṣṇavam viṣṇusūktam ca puruṣasūktam atas param . śrī-bhūsūktam tathā pañcaśāntim ca eva pṛthak pṛthak .. 32.140 ..
चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतं । तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः ॥ ३२.१४१ ॥
चतुः आवर्त्य जप्त्वा तु स्नापयेत् ध्रुवम् अच्युतम् । तथा एव कौतुक-आदीन् च स्नापयेत् विधिना बुधः ॥ ३२।१४१ ॥
catuḥ āvartya japtvā tu snāpayet dhruvam acyutam . tathā eva kautuka-ādīn ca snāpayet vidhinā budhaḥ .. 32.141 ..
दध्योदनं गुडान्नं च पायसं च विशेषतः । निवेद्य देवदेवस्य मुखवासं प्रदापयेथ् ॥ ३२.१४२ ॥
दधि-ओदनम् गुड-अन्नम् च पायसम् च विशेषतः । निवेद्य देवदेवस्य मुख-वासम् प्रदापयेथ् ॥ ३२।१४२ ॥
dadhi-odanam guḍa-annam ca pāyasam ca viśeṣataḥ . nivedya devadevasya mukha-vāsam pradāpayeth .. 32.142 ..
आचार्यदक्षिणां दद्यादृत्विजां च तथैव च । प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ॥ ३२.१४३ ॥
आचार्य-दक्षिणाम् दद्यात् ऋत्विजाम् च तथा एव च । प्रतिष्ठा-दिनम् आरभ्य मण्डल-अन्तम् दिनम् प्रति ॥ ३२।१४३ ॥
ācārya-dakṣiṇām dadyāt ṛtvijām ca tathā eva ca . pratiṣṭhā-dinam ārabhya maṇḍala-antam dinam prati .. 32.143 ..
एवमेव क्रमेणैव कारयेत्तु विशेषतः । मण्डलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते ॥ ३२.१४४ ॥
एवम् एव क्रमेण एव कारयेत् तु विशेषतः । मण्डल-अर्धम् तु कुर्यात् शेत् मध्यमम् तत् प्रचक्षते ॥ ३२।१४४ ॥
evam eva krameṇa eva kārayet tu viśeṣataḥ . maṇḍala-ardham tu kuryāt śet madhyamam tat pracakṣate .. 32.144 ..
मण्डलान्ते विशेषेण कारयेद्द्विजभोजनं । सभ्याग्निकुण्डं कृत्वैव पुण्याहमसि वाचयेथ् ॥ ३२.१४५ ॥
मण्डल-अन्ते विशेषेण कारयेत् द्विज-भोजनम् । सभ्य-अग्निकुण्डम् कृत्वा एव पुण्य-अहम् असि ॥ ३२।१४५ ॥
maṇḍala-ante viśeṣeṇa kārayet dvija-bhojanam . sabhya-agnikuṇḍam kṛtvā eva puṇya-aham asi .. 32.145 ..
आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च । विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितं ॥ ३२.१४६ ॥
आघारम् विधिवत् हुत्वा वैष्णवम् सूक्तम् एव च । विष्णुसूक्तम् ततस् हुत्वा पुरुषसूक्त-समन्वितम् ॥ ३२।१४६ ॥
āghāram vidhivat hutvā vaiṣṇavam sūktam eva ca . viṣṇusūktam tatas hutvā puruṣasūkta-samanvitam .. 32.146 ..
श्रीभूसूक्तं समुच्चार्य पञ्चशान्तिमतः परं । पारमात्मिकमीङ्काराद्यष्टाशीतिं क्रमाद्धुनेथ् ॥ ३२.१४७ ॥
श्री-भूसूक्तम् समुच्चार्य पञ्चशान्तिम् अतस् परम् । पारमात्मिकम् ईङ्कार-आदि-अष्टाशीतिम् क्रमात् हुनेथ् ॥ ३२।१४७ ॥
śrī-bhūsūktam samuccārya pañcaśāntim atas param . pāramātmikam īṅkāra-ādi-aṣṭāśītim kramāt huneth .. 32.147 ..
अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरं । पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते ॥ ३२.१४८ ॥
अष्ट-अक्षरम् समुच्चार्य तथा एव द्वादश-अक्षरम् । पूर्णाहुतिम् ततस् हुत्वा अन्त-होमः च हूयते ॥ ३२।१४८ ॥
aṣṭa-akṣaram samuccārya tathā eva dvādaśa-akṣaram . pūrṇāhutim tatas hutvā anta-homaḥ ca hūyate .. 32.148 ..
संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमाथ् । वर्णयुक्तन्ध्रुवं बेरं प्राङ्गयेत्(?) स्नापयेन्नतु ॥ ३२.१४९ ॥
संस्नापयेत् श कलशैः अष्ट-अधिक-शतैः । बेरम्(?) स्नापयेत् न तु ॥ ३२।१४९ ॥
saṃsnāpayet śa kalaśaiḥ aṣṭa-adhika-śataiḥ . beram(?) snāpayet na tu .. 32.149 ..
द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः । ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितं ॥ ३२.१५० ॥
द्वादश-आराधनम् कुर्यात् मध्ये मध्ये विधानतः । ग्रामम् प्रदक्षिणीकृत्य सर्व-वाद्य-समन्वितम् ॥ ३२।१५० ॥
dvādaśa-ārādhanam kuryāt madhye madhye vidhānataḥ . grāmam pradakṣiṇīkṛtya sarva-vādya-samanvitam .. 32.150 ..
पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेथ् । जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः ॥ ३२.१५१ ॥
पक्षिराज-उपरि स्थाप्य रक्षा-दीपम् च । जीवस्थाने सु संस्थाप्य प्रणामम् कारयेत् ततस् ॥ ३२।१५१ ॥
pakṣirāja-upari sthāpya rakṣā-dīpam ca . jīvasthāne su saṃsthāpya praṇāmam kārayet tatas .. 32.151 ..
एवं यःकुरुते भक्त्या मण्डलाराधनं हरेः । सर्वान्कामानवाप्यैव स याति परमाङ्गतिं ॥ ३२.१५२ ॥
एवम् यः कुरुते भक्त्या मण्डल-आराधनम् हरेः । सर्वान् कामान् अवाप्य एव स याति परमाम् गतिम् ॥ ३२।१५२ ॥
evam yaḥ kurute bhaktyā maṇḍala-ārādhanam hareḥ . sarvān kāmān avāpya eva sa yāti paramām gatim .. 32.152 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे. द्वात्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे। द्वात्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre. dvātriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In