| |
|

This overlay will guide you through the buttons:

अथद्वात्रिंशोऽध्यायः.
athadvātriṃśo'dhyāyaḥ.
प्रकीर्णकम्.
अतःपरं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमं । ज्येष्ठे मासि तु संप्राप्ते ज्येष्ठानक्षत्र संयुते ॥ ३२.१ ॥
ataḥparaṃ pravakṣyāmi jyeṣṭhāyāmutsavakramaṃ . jyeṣṭhe māsi tu saṃprāpte jyeṣṭhānakṣatra saṃyute .. 32.1 ..
विष्णोरेव विशेषस्स्यात्सुगन्धं तैलमाहरेथ् । तैलक्रमं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः ॥ ३२.२ ॥
viṣṇoreva viśeṣassyātsugandhaṃ tailamāhareth . tailakramaṃ pravakṣyāmi śruṇudhvaṃ munipuṅgavāḥ .. 32.2 ..
यागशालां प्रकल्प्यैव सर्वालङ्कालसंयुतां । सभ्यं च पैण्डरीकं च कारयित्वा सलक्षणं ॥ ३२.३ ॥
yāgaśālāṃ prakalpyaiva sarvālaṅkālasaṃyutāṃ . sabhyaṃ ca paiṇḍarīkaṃ ca kārayitvā salakṣaṇaṃ .. 32.3 ..
तद्दिनस्य तु पूर्वेद्युस्तृतीये पञ्चमेऽपि वा । सप्तमेऽहनि वा चापि अङ्कुरार्पणमाचरेथ् ॥ ३२.४ ॥
taddinasya tu pūrvedyustṛtīye pañcame'pi vā . saptame'hani vā cāpi aṅkurārpaṇamācareth .. 32.4 ..
आघारं विधिवत्कृत्वा सर्वकार्यमदः परं । वेद्यास्तथोत्तरे पार्श्वे भूम्यामपटमाचरेथ् ॥ ३२.५ ॥
āghāraṃ vidhivatkṛtvā sarvakāryamadaḥ paraṃ . vedyāstathottare pārśve bhūmyāmapaṭamācareth .. 32.5 ..
चतुस्तालप्रमाणेव विस्तारं निम्नमेव च । निम्नेतु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकं ॥ ३२.६ ॥
catustālapramāṇeva vistāraṃ nimnameva ca . nimnetu vinyasedbhāṇḍaṃ dvidroṇaparimāṇakaṃ .. 32.6 ..
भूः प्रतिऽऽ ष्ठेति मन्त्रेण निम्ने भाण्डं सुनिक्षिपेथ् । मलयागुरुदारूणि देवदारु तथैव च ॥ ३२.७ ॥
bhūḥ prati'' ṣṭheti mantreṇa nimne bhāṇḍaṃ sunikṣipeth . malayāgurudārūṇi devadāru tathaiva ca .. 32.7 ..
यानि चात्र सुगन्धीनि देवयोग्यानि तानि वै । गुग्गुलं च समाहृत्य मर्दयित्वासकृत्सकृथ् ॥ ३२.८ ॥
yāni cātra sugandhīni devayogyāni tāni vai . guggulaṃ ca samāhṛtya mardayitvāsakṛtsakṛth .. 32.8 ..
विष्णुऽगायत्रिया भाण्डे तानि द्रव्याणि निक्षिवेथ् । शरावेण पिधायाथ मृदा च परिलेपयेथ् ॥ ३२.९ ॥
viṣṇu'gāyatriyā bhāṇḍe tāni dravyāṇi nikṣiveth . śarāveṇa pidhāyātha mṛdā ca parilepayeth .. 32.9 ..
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेथ् । मन्दाग्निना पचेत्तत्तु यावत्तैलागमं भवेथ् ॥ ३२.१० ॥
gokarīṣāṇi kāṣṭhāni tasyopari vinikṣipeth . mandāgninā pacettattu yāvattailāgamaṃ bhaveth .. 32.10 ..
तावत्कालं पचेद्विद्वान्तैलमाहृत्य संभृतं । वासितानि तु वस्तूनि परिहृत्य तु तत्र वै ॥ ३२.११ ॥
tāvatkālaṃ pacedvidvāntailamāhṛtya saṃbhṛtaṃ . vāsitāni tu vastūni parihṛtya tu tatra vai .. 32.11 ..
सुगन्धिदैलभाण्डं च ध्यान्यपीठोपरि न्यसेथ् । पूर्वोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेथ् ॥ ३२.१२ ॥
sugandhidailabhāṇḍaṃ ca dhyānyapīṭhopari nyaseth . pūrvoktenaiva mantreṇa tantunā pariveṣṭayeth .. 32.12 ..
पितॄन्सोमं तथाभ्यर्च्य वनत्पतिमतः परं । तैले तस्मिन्विधानेन अर्घ्यान्तमभिपूजयेथ् ॥ ३२.१३ ॥
pitṝnsomaṃ tathābhyarcya vanatpatimataḥ paraṃ . taile tasminvidhānena arghyāntamabhipūjayeth .. 32.13 ..
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथैव च । जप्त्वातु विष्णुगायत्रीमष्टोत्तरसहस्रकं ॥ ३२.१४ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tathaiva ca . japtvātu viṣṇugāyatrīmaṣṭottarasahasrakaṃ .. 32.14 ..
आचार्यस्त्वरितो गत्वा सभ्याग्नेस्तु समीपतः । द्वितालविस्तृतं वृत्तं चतुरङ्गुलमुन्नतं ॥ ३२.१५ ॥
ācāryastvarito gatvā sabhyāgnestu samīpataḥ . dvitālavistṛtaṃ vṛttaṃ caturaṅgulamunnataṃ .. 32.15 ..
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितं ॥ ३२.१६ ॥
kūrmākṛtivadākāraṃ bilvādyaiḥ parikalpitaṃ .. 32.16 ..
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु । देवकार्येषु सर्वेषु तथान्येषु च कर्मसु ॥ ३२.१७ ॥
pratiṣṭhāyāmutsave ca japahomārcanādiṣu . devakāryeṣu sarveṣu tathānyeṣu ca karmasu .. 32.17 ..
कूर्मपीठं तु गृह्णीयादन्यथा निष्फलं भवेथ् । असीनः कूर्मपीठे तु सभ्याग्नौ जुहुयात्तथा ॥ ३२.१८ ॥
kūrmapīṭhaṃ tu gṛhṇīyādanyathā niṣphalaṃ bhaveth . asīnaḥ kūrmapīṭhe tu sabhyāgnau juhuyāttathā .. 32.18 ..
वैष्णवं विष्णुसूक्तं च नरसूक्तं तथेव च । जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ ३२.१९ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tatheva ca . juhuyātsarvadaivatyaṃ pāramātmikameva ca .. 32.19 ..
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेथ् । प्रणिध्यां शङ्खपात्रे वा अग्निमारोपयेत्सुधीः? ॥ ३२.२० ॥
mahāvyāhṛtibhirhutvā antahomaṃ samācareth . praṇidhyāṃ śaṅkhapātre vā agnimāropayetsudhīḥ? .. 32.20 ..
तैलस्यालेपनात्पूर्वं ध्रुवादग्निं समाहरेथ् । स्रग्वस्त्रकुण्डलाद्यैश्च आचार्यं पूजयेत्ततः ॥ ३२.२१ ॥
tailasyālepanātpūrvaṃ dhruvādagniṃ samāhareth . sragvastrakuṇḍalādyaiśca ācāryaṃ pūjayettataḥ .. 32.21 ..
परिचारकमाहूय यथार्हं पूज्य तं ततः । उष्णीषं धारयित्वातं परिचारकमूर्धनि ॥ ३२.२२ ॥
paricārakamāhūya yathārhaṃ pūjya taṃ tataḥ . uṣṇīṣaṃ dhārayitvātaṃ paricārakamūrdhani .. 32.22 ..
सुगन्धितैलभाण्डं तु यत्नेनापि विनिक्षिपेथ् । शनैश्सनैश्च गत्वा तु सर्ववाद्यसमन्वितं ॥ ३२.२३ ॥
sugandhitailabhāṇḍaṃ tu yatnenāpi vinikṣipeth . śanaiśsanaiśca gatvā tu sarvavādyasamanvitaṃ .. 32.23 ..
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितं । वीथिं प्रदक्षिणीकृत्य देवस्याग्रेतु निक्षिपेथ् ॥ ३२.२४ ॥
sarvālaṅkārasaṃyuktaṃ brahmaghoṣasamanvitaṃ . vīthiṃ pradakṣiṇīkṛtya devasyāgretu nikṣipeth .. 32.24 ..
अर्घ्यान्तमभिपूज्यैव देवेशं संप्रणम्य च । वैष्णवं विष्णुसूक्तं च नरसूक्तं जपेत्क्रमाथ् ॥ ३२.२५ ॥
arghyāntamabhipūjyaiva deveśaṃ saṃpraṇamya ca . vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ japetkramāth .. 32.25 ..
तैलेनालेपयेद्देवमाचार्य स्त्वरितस्तथा । देवीभ्यां च ततः पश्चात्तत्तन्मन्त्रेण लेपयेथ् ॥ ३२.२६ ॥
tailenālepayeddevamācārya stvaritastathā . devībhyāṃ ca tataḥ paścāttattanmantreṇa lepayeth .. 32.26 ..
सर्वेषां परिवाराणां तत्तन्मन्त्रैश्च कारयेथ् । आचार्यस्त्वरितोगत्वा चौत्सवस्य समीपतः ॥ ३२.२७ ॥
sarveṣāṃ parivārāṇāṃ tattanmantraiśca kārayeth . ācāryastvaritogatvā cautsavasya samīpataḥ .. 32.27 ..
परिलिखितऽमिति मन्त्रेण कवचं परिशोधयेथ् । जीर्णे भिन्ने च कवचे शिल्पिनैन सुसन्नयेथ् ॥ ३२.२८ ॥
parilikhita'miti mantreṇa kavacaṃ pariśodhayeth . jīrṇe bhinne ca kavace śilpinaina susannayeth .. 32.28 ..
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेथ् । कृत्वापि वास्तुशुद्धिं च यथोक्तां निष्कृतिं चरेथ् ॥ ३२.२९ ॥
prakṣālya pañcagavyena jalena pariśodhayeth . kṛtvāpi vāstuśuddhiṃ ca yathoktāṃ niṣkṛtiṃ careth .. 32.29 ..
विष्णोर्नुकादिमन्त्रैश्च संदध्यात्कवचं तथा । दृढीकृत्य तु पूर्वोक्तं यत्नेन परिकल्पयेथ् ॥ ३२.३० ॥
viṣṇornukādimantraiśca saṃdadhyātkavacaṃ tathā . dṛḍhīkṛtya tu pūrvoktaṃ yatnena parikalpayeth .. 32.30 ..
सहस्रकलशैर्देवं स्नापयित्वा यथाविधे । नित्यपूजाविधानेन देवमाराध्य पूर्ववथ् ॥ ३२.३१ ॥
sahasrakalaśairdevaṃ snāpayitvā yathāvidhe . nityapūjāvidhānena devamārādhya pūrvavath .. 32.31 ..
महाहविःप्रभूतं वा पायसं च निवेदयेथ् । क्षमस्वेऽऽति वदन्भूयः प्रणमेत्पुरुषोत्तमं ॥ ३२.३२ ॥
mahāhaviḥprabhūtaṃ vā pāyasaṃ ca nivedayeth . kṣamasve''ti vadanbhūyaḥ praṇametpuruṣottamaṃ .. 32.32 ..
ब्रह्मघोषं ततः कुर्याद्दद्यादाचार्यदक्षिणां । दिने पक्षे च मासे च तथा संनत्सरे चरेथ् ॥ ३२.३३ ॥
brahmaghoṣaṃ tataḥ kuryāddadyādācāryadakṣiṇāṃ . dine pakṣe ca māse ca tathā saṃnatsare careth .. 32.33 ..
यद्यद्रूपं तथाध्यायेत्तत्तद्बिंबेषु योजयेथ् । तस्मात्सर्वप्रयत्नेन बिंबरक्षां समाचरेथ् ॥ ३२.३४ ॥
yadyadrūpaṃ tathādhyāyettattadbiṃbeṣu yojayeth . tasmātsarvaprayatnena biṃbarakṣāṃ samācareth .. 32.34 ..
पवित्रारोपणम्
अथ वक्ष्ये विशेषण पवित्रारोपणं हरेः ॥ ३२.३५ ॥
atha vakṣye viśeṣaṇa pavitrāropaṇaṃ hareḥ .. 32.35 ..
सर्वदोषोपशमनं सर्वयज्ञफलप्रदं । सर्वकामप्रदं चैव सर्वतुष्टिकरं परं ॥ ३२.३६ ॥
sarvadoṣopaśamanaṃ sarvayajñaphalapradaṃ . sarvakāmapradaṃ caiva sarvatuṣṭikaraṃ paraṃ .. 32.36 ..
सर्वलोकस्य वृद्ध्यर्थं सर्वलोकस्य शान्तिदं । यद्यन्मन्त्रक्रियाहीनं द्रव्यहीनं च यत्कृतं ॥ ३२.३७ ॥
sarvalokasya vṛddhyarthaṃ sarvalokasya śāntidaṃ . yadyanmantrakriyāhīnaṃ dravyahīnaṃ ca yatkṛtaṃ .. 32.37 ..
तद्दोषशमनायैव पवित्रारोपणं चरेथ् । पवित्रारोपणे हीने या पूजा निष्फला भवेथ् ॥ ३२.३८ ॥
taddoṣaśamanāyaiva pavitrāropaṇaṃ careth . pavitrāropaṇe hīne yā pūjā niṣphalā bhaveth .. 32.38 ..
संक्षोभो जायते तत्र तस्माद्यत्नेन कारयेथ् । आषाढे श्रावणे मासि प्रोष्ठपद्यां विशेषतः ॥ ३२.३९ ॥
saṃkṣobho jāyate tatra tasmādyatnena kārayeth . āṣāḍhe śrāvaṇe māsi proṣṭhapadyāṃ viśeṣataḥ .. 32.39 ..
द्वादश्यां शुक्लपक्षे तु विष्णुपञ्चदिनेऽथ वा । संसर्पमधिमासं च तिथिवारं च शून्यकं ॥ ३२.४० ॥
dvādaśyāṃ śuklapakṣe tu viṣṇupañcadine'tha vā . saṃsarpamadhimāsaṃ ca tithivāraṃ ca śūnyakaṃ .. 32.40 ..
दशम्येकादशीमिश्रं तद्दिनं च विवर्जयेथ् । हरितिथ्यां च निर्दुष्टे पवित्रारोपणं शुभं ॥ ३२.४१ ॥
daśamyekādaśīmiśraṃ taddinaṃ ca vivarjayeth . haritithyāṃ ca nirduṣṭe pavitrāropaṇaṃ śubhaṃ .. 32.41 ..
नवाहं वाथ सप्ताहं पञ्चाहमथ वा त्षहं । उक्तलक्षणसंपन्नमाचार्यं वरयेत्क्रमाथ् ॥ ३२.४२ ॥
navāhaṃ vātha saptāhaṃ pañcāhamatha vā tṣahaṃ . uktalakṣaṇasaṃpannamācāryaṃ varayetkramāth .. 32.42 ..
ऋत्विजो वरयेत्तद्वच्छिष्यांश्च वरयेत्ततः । तद्दिनात्पूर्वरात्रौ तु देवेशं प्रार्थयेद्गुरुः ॥ ३२.४३ ॥
ṛtvijo varayettadvacchiṣyāṃśca varayettataḥ . taddinātpūrvarātrau tu deveśaṃ prārthayedguruḥ .. 32.43 ..
भगवतो बलेऽऽनेति प्रोच्य नम्राङ्गस्सुसमाहितः । पाद्याद्यैश्च विशेषेण देवमभ्यर्च्य सत्वरः ॥ ३२.४४ ॥
bhagavato bale''neti procya namrāṅgassusamāhitaḥ . pādyādyaiśca viśeṣeṇa devamabhyarcya satvaraḥ .. 32.44 ..
प्रार्थनासूक्तमुच्चार्य वेदाध्ययनमारभेथ् । परितो यागशालायाश्शिष्यैः परिवृतोगुरुः ॥ ३२.४५ ॥
prārthanāsūktamuccārya vedādhyayanamārabheth . parito yāgaśālāyāśśiṣyaiḥ parivṛtoguruḥ .. 32.45 ..
चतुर्षु द्वारदेशेषु क्रमात्प्रागादिषु स्वयं । चतुर्वेदान्दिमन्त्रांश्च शक्त्याध्ययनमाचरेथ् ॥ ३२.४६ ॥
caturṣu dvāradeśeṣu kramātprāgādiṣu svayaṃ . caturvedāndimantrāṃśca śaktyādhyayanamācareth .. 32.46 ..
पुण्याहं च ततः कृत्वा मृत्संग्रहणमाचरेथ् । अङ्कुरानल्पयित्वैव मुद्गान्नं च निवेदयेथ् ॥ ३२.४७ ॥
puṇyāhaṃ ca tataḥ kṛtvā mṛtsaṃgrahaṇamācareth . aṅkurānalpayitvaiva mudgānnaṃ ca nivedayeth .. 32.47 ..
औपासनाग्निकुण्डे तु आघारं विधिवद्यजेथ् । वास्तुहोमं च हुत्वा तु गव्यं कृत्वा विधानतः ॥ ३२.४८ ॥
aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajeth . vāstuhomaṃ ca hutvā tu gavyaṃ kṛtvā vidhānataḥ .. 32.48 ..
पर्यग्नि पञ्चगव्याभ्यां योगशालां विशोधयेथ् । तमेकनेमिऽऽ मित्युक्त्वा आमावाजस्यऽऽ इत्यपि ॥ ३२.४९ ॥
paryagni pañcagavyābhyāṃ yogaśālāṃ viśodhayeth . tamekanemi'' mityuktvā āmāvājasya'' ityapi .. 32.49 ..
तन्तुन्तव्वऽऽन्निति प्रोच्य यन्मेगर्भऽऽ इतीरयन् । षड्भिश्च वैष्णवैर्मन्त्रैर्विष्णुगायत्रिया तथा ॥ ३२.५० ॥
tantuntavva''nniti procya yanmegarbha'' itīrayan . ṣaḍbhiśca vaiṣṇavairmantrairviṣṇugāyatriyā tathā .. 32.50 ..
पवित्राणि सुसंप्रोक्ष्य विधिना पञ्चगव्यकैः । प्रतद्विष्णुस्तवतऽऽ इति इदं विष्णुऽऽ रितीरयन् ॥ ३२.५१ ॥
pavitrāṇi susaṃprokṣya vidhinā pañcagavyakaiḥ . pratadviṣṇustavata'' iti idaṃ viṣṇu'' ritīrayan .. 32.51 ..
विष्णुगायत्रिया पश्चात्पवित्रं संप्रणम्य च ॥ ३२.५२ ॥
viṣṇugāyatriyā paścātpavitraṃ saṃpraṇamya ca .. 32.52 ..
उत्तमं स्वर्णसूत्रं च मध्यमं रौप्यसूत्रकं । कार्पासमधमं गृह्य सर्वदोषविवर्जितं ॥ ३२.५३ ॥
uttamaṃ svarṇasūtraṃ ca madhyamaṃ raupyasūtrakaṃ . kārpāsamadhamaṃ gṛhya sarvadoṣavivarjitaṃ .. 32.53 ..
सुमङ्गलीभिर्युग्माभिर्ब्राह्मणीभिर्विशेषतः । अलाभे कन्यकाभिर्वा निर्मितं सूत्रमुत्तमं ॥ ३२.५४ ॥
sumaṅgalībhiryugmābhirbrāhmaṇībhirviśeṣataḥ . alābhe kanyakābhirvā nirmitaṃ sūtramuttamaṃ .. 32.54 ..
गृह्णीयाद्बिंबमानेन चाष्टोत्तरसहस्रकं । ग्रन्थयोंगुष्ठमात्रास्स्युस्ताभिर्मालां च कारयेथ् ॥ ३२.५५ ॥
gṛhṇīyādbiṃbamānena cāṣṭottarasahasrakaṃ . granthayoṃguṣṭhamātrāssyustābhirmālāṃ ca kārayeth .. 32.55 ..
वनमाला समाख्याता विष्णोःप्रियतमा भवेथ् । विष्णुसूक्तं च जप्त्वातु "अणोरणीयाऽऽनिति ब्रुर्न ॥ ३२.५६ ॥
vanamālā samākhyātā viṣṇoḥpriyatamā bhaveth . viṣṇusūktaṃ ca japtvātu "aṇoraṇīyā''niti brurna .. 32.56 ..
प्रोक्ष्य हारिद्रतोयेन "इमे धूऽऽ पेति धूपयेथ् । चतुर्वेदादिमन्त्रैश्च तोरणाद्यैरलङ्कृतं ॥ ३२.५७ ॥
prokṣya hāridratoyena "ime dhū'' peti dhūpayeth . caturvedādimantraiśca toraṇādyairalaṅkṛtaṃ .. 32.57 ..
नभ्याग्निकुण्डं कृत्वैव आघारं विधिवद्यजेथ् ॥ ३२.५८ ॥
nabhyāgnikuṇḍaṃ kṛtvaiva āghāraṃ vidhivadyajeth .. 32.58 ..
बिंबाध्यर्धप्रमाणेन शय्यावेदिं प्रकल्पयेथ् । तिलतण्डुलधान्यैश्च धान्यपीठं प्रकल्प्य च ॥ ३२.५९ ॥
biṃbādhyardhapramāṇena śayyāvediṃ prakalpayeth . tilataṇḍuladhānyaiśca dhānyapīṭhaṃ prakalpya ca .. 32.59 ..
दर्भांस्तत्र समास्तीर्य चाण्डजादीनि चास्तरेथ् । प्रतद्विष्णुऽऽरिति प्रोच्य पवित्रं सन्निधाय च ॥ ३२.६० ॥
darbhāṃstatra samāstīrya cāṇḍajādīni cāstareth . pratadviṣṇu''riti procya pavitraṃ sannidhāya ca .. 32.60 ..
पञ्चमूर्तभिरावाह्य समभ्यर्च्य प्रणम्य च । जप्त्वा प्रतिसरं मन्त्रं धूपदीपादि दर्शयेत्? ॥ ३२.६१ ॥
pañcamūrtabhirāvāhya samabhyarcya praṇamya ca . japtvā pratisaraṃ mantraṃ dhūpadīpādi darśayet? .. 32.61 ..
अतो देवाऽऽ दिना पश्चाद्देवेशं प्रार्थयेद्गुरुः । पाद्यादिभिस्समभ्यर्च्य धूपदीपादिदर्शयेथ् ॥ ३२.६२ ॥
ato devā'' dinā paścāddeveśaṃ prārthayedguruḥ . pādyādibhissamabhyarcya dhūpadīpādidarśayeth .. 32.62 ..
बद्ध्वा प्रतिसरं देवं श्रीभूम्यौ च तथैव च । आचार्यस्यर्त्विजां चैव बद्ध्वाप्रतिसरं तथा ॥ ३२.६३ ॥
baddhvā pratisaraṃ devaṃ śrībhūmyau ca tathaiva ca . ācāryasyartvijāṃ caiva baddhvāpratisaraṃ tathā .. 32.63 ..
यद्वैष्णवं समुच्चार्य पवित्रं शयनं चरेथ् । सूक्ष्मवस्त्रेण चाच्छाद्य चार्पयेत्पुष्बमक्षतं ॥ ३२.६४ ॥
yadvaiṣṇavaṃ samuccārya pavitraṃ śayanaṃ careth . sūkṣmavastreṇa cācchādya cārpayetpuṣbamakṣataṃ .. 32.64 ..
विष्णुसूक्तं च गोदानसूक्तं चैवात्मसूक्तकं । एकाक्षरादिसूक्तं च वैष्णवं सूक्तमेव च ॥ ३२.६५ ॥
viṣṇusūktaṃ ca godānasūktaṃ caivātmasūktakaṃ . ekākṣarādisūktaṃ ca vaiṣṇavaṃ sūktameva ca .. 32.65 ..
नृसूक्तं रुद्र सूक्तं च दुर्गासूक्तं तथैव च । सारस्वतं तथा सूक्तं रात्रिसूक्तमतः परं ॥ ३२.६६ ॥
nṛsūktaṃ rudra sūktaṃ ca durgāsūktaṃ tathaiva ca . sārasvataṃ tathā sūktaṃ rātrisūktamataḥ paraṃ .. 32.66 ..
ऋतं च सत्यंऽऽ जप्त्वैव "सहस्रशीर्षऽऽमेव च । श्रीभूसूक्तञ्च जप्त्वैव कारयेद्देशिकोत्तमः ॥ ३२.६७ ॥
ṛtaṃ ca satyaṃ'' japtvaiva "sahasraśīrṣa''meva ca . śrībhūsūktañca japtvaiva kārayeddeśikottamaḥ .. 32.67 ..
दशानां चैव पञ्चानां सूक्तानां जप उत्तमं । मध्यमं दशसूक्तानां पञ्चानामधमं भवेथ् ॥ ३२.६८ ॥
daśānāṃ caiva pañcānāṃ sūktānāṃ japa uttamaṃ . madhyamaṃ daśasūktānāṃ pañcānāmadhamaṃ bhaveth .. 32.68 ..
प्रागादिदिक्षु च तथा विदिक्षु च चतुर्ष्वपि । क्रमाच्छान्तं खगाधीशं चक्रं शङ्खं तथैव च ॥ ३२.६९ ॥
prāgādidikṣu ca tathā vidikṣu ca caturṣvapi . kramācchāntaṃ khagādhīśaṃ cakraṃ śaṅkhaṃ tathaiva ca .. 32.69 ..
विमानपालांश्चावाह्य समभ्यर्च्य विशेषतः । मुद्गान्नं विनिवेद्यैव प्रणामं मुहुराचरेथ् ॥ ३२.७० ॥
vimānapālāṃścāvāhya samabhyarcya viśeṣataḥ . mudgānnaṃ vinivedyaiva praṇāmaṃ muhurācareth .. 32.70 ..
सर्वरक्षाकरं चक्रं पवित्रोपरि चार्चयेथ् । निवेदयेत्तदान्नेन शान्तादीनां बलिं ददेथ् ॥ ३२.७१ ॥
sarvarakṣākaraṃ cakraṃ pavitropari cārcayeth . nivedayettadānnena śāntādīnāṃ baliṃ dadeth .. 32.71 ..
पादौ प्रक्षाल्य चाचम्य यथोक्तेन विधानतः । हौत्रं प्रशंस्य विधिवदावाहन मथाचरेथ् ॥ ३२.७२ ॥
pādau prakṣālya cācamya yathoktena vidhānataḥ . hautraṃ praśaṃsya vidhivadāvāhana mathācareth .. 32.72 ..
जुष्टाकारं च कृत्वा तु जुहुयाच्च यथाक्रमं । हावयेत्पञ्चभिस्सुक्तैस्तत्तद्दैवत्यमेव च ॥ ३२.७३ ॥
juṣṭākāraṃ ca kṛtvā tu juhuyācca yathākramaṃ . hāvayetpañcabhissuktaistattaddaivatyameva ca .. 32.73 ..
वश्चादग्निं विसृज्यैव रात्रिशेषं नयेद्गुरुः । ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ॥ ३२.७४ ॥
vaścādagniṃ visṛjyaiva rātriśeṣaṃ nayedguruḥ . tataḥ prabhāte dharmātmā snātvā snānavidhānataḥ .. 32.74 ..
नित्यपूजा विधेरन्ते देवेशं प्रार्थयेद्गुरुः । अष्टोत्तरशतैर्देवं स्नापयेत्कलशैस्ततः ॥ ३२.७५ ॥
nityapūjā vidherante deveśaṃ prārthayedguruḥ . aṣṭottaraśatairdevaṃ snāpayetkalaśaistataḥ .. 32.75 ..
अलङ्कृत्यच देवेशं धूपदीपादिकं ददेथ् ॥ ३२.७६ ॥
alaṅkṛtyaca deveśaṃ dhūpadīpādikaṃ dadeth .. 32.76 ..
औद्यन्तम्ऽऽ इतिमन्त्रेण पवित्रं मूर्ध्नि धारयन् । सर्ववाद्यसमायुक्तं तो यधारापुरस्सरं ॥ ३२.७७ ॥
audyantam'' itimantreṇa pavitraṃ mūrdhni dhārayan . sarvavādyasamāyuktaṃ to yadhārāpurassaraṃ .. 32.77 ..
प्रदक्षिणं शनैर्गत्वादेवाग्रेसन्निधायच । सुर्यऽऽ च मन्त्रेण शतञ्जप्त्वा तु पल्लवं ॥ ३२.७८ ॥
pradakṣiṇaṃ śanairgatvādevāgresannidhāyaca . surya'' ca mantreṇa śatañjaptvā tu pallavaṃ .. 32.78 ..
आचार्यस्सुप्रसन्नात्मा स्वात्मरक्षां विधायच । विष्णुसूक्तं समुच्चार्य कनिष्ठादि च रोपयेथ् ॥ ३२.७९ ॥
ācāryassuprasannātmā svātmarakṣāṃ vidhāyaca . viṣṇusūktaṃ samuccārya kaniṣṭhādi ca ropayeth .. 32.79 ..
पाद्याद्यैर्देवमभ्यर्च्य मुखवासान्तमादराथ् । कुंभांस्तु सप्तदश च अलङ्कृत्य यथाविधि ॥ ३२.८० ॥
pādyādyairdevamabhyarcya mukhavāsāntamādarāth . kuṃbhāṃstu saptadaśa ca alaṅkṛtya yathāvidhi .. 32.80 ..
वेद्यामारोपयेत्कुंभान्स्वस्तिके सन्निधाय च । शय्यावेदि च तत्प्राच्यां सभ्यकुण्डं प्रकल्प्यच ॥ ३२.८१ ॥
vedyāmāropayetkuṃbhānsvastike sannidhāya ca . śayyāvedi ca tatprācyāṃ sabhyakuṇḍaṃ prakalpyaca .. 32.81 ..
भादस्यस्थितिरत्रऽशङ्कितापि निवेश्यते । परस्तीर्य विधानेन पावकं विधिवद्यजेथ् ॥ ३२.८२ ॥
bhādasyasthitiratra'śaṅkitāpi niveśyate . parastīrya vidhānena pāvakaṃ vidhivadyajeth .. 32.82 ..
लाजापूपै राज्य मिश्रैर्मूलमन्त्रं समुच्चरन् । अष्टात्तरशतेनैव होमयेद्देशिकोत्तमः ॥ ३२.८३ ॥
lājāpūpai rājya miśrairmūlamantraṃ samuccaran . aṣṭāttaraśatenaiva homayeddeśikottamaḥ .. 32.83 ..
पुरुषसूक्तं च जुहुयात्ततो द्वात्रिंशसंख्यया । पश्चादग्निं परिस्तीर्य क्षयऽऽस्वेति प्रणम्य च ॥ ३२.८४ ॥
puruṣasūktaṃ ca juhuyāttato dvātriṃśasaṃkhyayā . paścādagniṃ paristīrya kṣaya''sveti praṇamya ca .. 32.84 ..
एवं प्रतिदिनं कुर्यादन्ते देवं तु रोपयेथ् । सायं संध्यामुपासित्वा यागशालां प्रविश्य च ॥ ३२.८५ ॥
evaṃ pratidinaṃ kuryādante devaṃ tu ropayeth . sāyaṃ saṃdhyāmupāsitvā yāgaśālāṃ praviśya ca .. 32.85 ..
सभ्याग्निं पैण्डरीकाग्निं चासाद्याघारमाचरेथ् । अब्जाग्नौ शान्तिहोमं च हुत्वैव गुरुरत्वरः ॥ ३२.८६ ॥
sabhyāgniṃ paiṇḍarīkāgniṃ cāsādyāghāramācareth . abjāgnau śāntihomaṃ ca hutvaiva gururatvaraḥ .. 32.86 ..
कुंभं विना महाशान्तिहोमं के चिद्वदन्तिहि । वेद्यां तु पुरतस्तिष्ठन्प्राणायामादिकं चरेथ् ॥ ३२.८७ ॥
kuṃbhaṃ vinā mahāśāntihomaṃ ke cidvadantihi . vedyāṃ tu puratastiṣṭhanprāṇāyāmādikaṃ careth .. 32.87 ..
नवमूर्तिभिरावाह्य दिक्पालानावहेत्क्रमाथ् । अष्टोपचारैरभ्यर्छ्य मुद्गान्नं विनिवेदयेथ् ॥ ३२.८८ ॥
navamūrtibhirāvāhya dikpālānāvahetkramāth . aṣṭopacārairabhyarchya mudgānnaṃ vinivedayeth .. 32.88 ..
पानीयाचमनं दत्वा मुखवासं ददेत्ततः । आपो वाऽऽ इति मन्त्रेण पवित्रं धारयेद्घटं ॥ ३२.८९ ॥
pānīyācamanaṃ datvā mukhavāsaṃ dadettataḥ . āpo vā'' iti mantreṇa pavitraṃ dhārayedghaṭaṃ .. 32.89 ..
अग्नावग्निऽऽरिति प्रोच्य पवित्रं चाग्निकुण्डके । कुण्डस्यैव तु मानेन समलङ्कृत्य पावकं ॥ ३२.९० ॥
agnāvagni''riti procya pavitraṃ cāgnikuṇḍake . kuṇḍasyaiva tu mānena samalaṅkṛtya pāvakaṃ .. 32.90 ..
पवित्रन्तुऽऽ इति प्रोच्य पवित्रं धारयेद्गुरुः । समिन्थ्यैव तु सभ्याग्निं परिषिच्य विधानतः ॥ ३२.९१ ॥
pavitrantu'' iti procya pavitraṃ dhārayedguruḥ . saminthyaiva tu sabhyāgniṃ pariṣicya vidhānataḥ .. 32.91 ..
हौत्रं प्रशंस्य विधिवत्समिद्भिर्हावयेद्गुरुः । तदालयगतान्श्चैव देवानावाहयेत्क्रमाथ् ॥ ३२.९२ ॥
hautraṃ praśaṃsya vidhivatsamidbhirhāvayedguruḥ . tadālayagatānścaiva devānāvāhayetkramāth .. 32.92 ..
जुष्टाकारं ततः पश्चात्स्वाहाकालं ततः परं । विष्णुसूक्तं सुहुत्वा तु पुरुषसूक्तमतः परं ॥ ३२.९३ ॥
juṣṭākāraṃ tataḥ paścātsvāhākālaṃ tataḥ paraṃ . viṣṇusūktaṃ suhutvā tu puruṣasūktamataḥ paraṃ .. 32.93 ..
चरुं लाजांस्तथापूपानाज्यमिश्रांश्च हावयेथ् । पश्चात्तु वैष्णवैर्मन्त्रैश्चतमष्टोत्तरं यजेर्थ् ॥ ३२.९४ ॥
caruṃ lājāṃstathāpūpānājyamiśrāṃśca hāvayeth . paścāttu vaiṣṇavairmantraiścatamaṣṭottaraṃ yajerth .. 32.94 ..
इङ्कारादींस्ततः पश्चात्पारमात्मिकसंयुतं । अष्टाशीतिं ततो हुत्वा तत्तद्दैवत्यमेव च ॥ ३२.९५ ॥
iṅkārādīṃstataḥ paścātpāramātmikasaṃyutaṃ . aṣṭāśītiṃ tato hutvā tattaddaivatyameva ca .. 32.95 ..
सर्वदैवत्यमन्त्रांश्च धातादीन्पञ्च वारुणं । मूलहोमं ततो हुत्वा तथान्ते परिषिच्य च ॥ ३२.९६ ॥
sarvadaivatyamantrāṃśca dhātādīnpañca vāruṇaṃ . mūlahomaṃ tato hutvā tathānte pariṣicya ca .. 32.96 ..
यागशालाचतुर्द्वारे चतुर्वेदानथोच्चरेथ् । ऐशान्यां तु विशेषेण जपेदष्टाक्षरं मनुं ॥ ३२.९७ ॥
yāgaśālācaturdvāre caturvedānathoccareth . aiśānyāṃ tu viśeṣeṇa japedaṣṭākṣaraṃ manuṃ .. 32.97 ..
द्वादशाक्षरमन्त्रं च गायत्रीं वैष्णवं तथा । नारायणाख्यगायत्रीं पारमात्मिकमित्यपि ॥ ३२.९८ ॥
dvādaśākṣaramantraṃ ca gāyatrīṃ vaiṣṇavaṃ tathā . nārāyaṇākhyagāyatrīṃ pāramātmikamityapi .. 32.98 ..
व्यापकत्रयसंयुक्तं विष्णुगायत्रिया युतं । ततश्च वैष्णवं जप्त्वा यो वा भूऽऽ तेति पञ्चकं ॥ ३२.९९ ॥
vyāpakatrayasaṃyuktaṃ viṣṇugāyatriyā yutaṃ . tataśca vaiṣṇavaṃ japtvā yo vā bhū'' teti pañcakaṃ .. 32.99 ..
पुष्बाञ्जलिं जपित्वैव न्यसेद्देवस्य पादयोः । नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ॥ ३२.१०० ॥
puṣbāñjaliṃ japitvaiva nyaseddevasya pādayoḥ . nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ .. 32.100 ..
ततः प्रभाते धर्मात्मा स्नात्वा संध्यामुपास्य च । यागशालां प्रविश्यैव देवेशं प्रार्थयेत्ततः ॥ ३२.१०१ ॥
tataḥ prabhāte dharmātmā snātvā saṃdhyāmupāsya ca . yāgaśālāṃ praviśyaiva deveśaṃ prārthayettataḥ .. 32.101 ..
भूरग्नयऽऽ इति प्रोच्य वेदिं संप्रोक्ष्य चात्वरः । कुंभाराधनहोमादीन्सर्वं पूर्ववदाचरेथ् ॥ ३२.१०२ ॥
bhūragnaya'' iti procya vediṃ saṃprokṣya cātvaraḥ . kuṃbhārādhanahomādīnsarvaṃ pūrvavadācareth .. 32.102 ..
कुंभमाराधयेत्पूर्वं बिंबपूजा त्वनन्तरं । पश्चाद्धोमं प्रकुर्वीत बलिदानं ततः परं ॥ ३२.१०३ ॥
kuṃbhamārādhayetpūrvaṃ biṃbapūjā tvanantaraṃ . paścāddhomaṃ prakurvīta balidānaṃ tataḥ paraṃ .. 32.103 ..
एवं कुर्याद्विधानेन दिनं प्रति गुरूत्तमः । समाप्ते तु दिने सायं पूर्णाहुति मथाचरेथ् ॥ ३२.१०४ ॥
evaṃ kuryādvidhānena dinaṃ prati gurūttamaḥ . samāpte tu dine sāyaṃ pūrṇāhuti mathācareth .. 32.104 ..
तदग्निं त्रियहादूर्ध्वं साधयेदग्निकुण्डके? ॥ ३२.१०५ ॥
tadagniṃ triyahādūrdhvaṃ sādhayedagnikuṇḍake? .. 32.105 ..
कुंभमादाय शिरसा तोयधारापुरस्सरं । प्रदक्षिणं शनैर्गत्वा देवाग्रे सन्निधाय च ॥ ३२.१०६ ॥
kuṃbhamādāya śirasā toyadhārāpurassaraṃ . pradakṣiṇaṃ śanairgatvā devāgre sannidhāya ca .. 32.106 ..
हिरण्य पवमानाऽऽ द्यैःकुंभतोयेन प्रोक्षयेथ् । देवमभ्यर्च्य पाद्याद्यैः प्रभूतं च निवेदयेथ् ॥ ३२.१०७ ॥
hiraṇya pavamānā'' dyaiḥkuṃbhatoyena prokṣayeth . devamabhyarcya pādyādyaiḥ prabhūtaṃ ca nivedayeth .. 32.107 ..
पानीयाचमलं दत्वा मुखवासं ददेत्पुनः । क्षमामन्त्रं समुच्चार्य "क्षमऽऽ स्वेति नमेन्मुहुः ॥ ३२.१०८ ॥
pānīyācamalaṃ datvā mukhavāsaṃ dadetpunaḥ . kṣamāmantraṃ samuccārya "kṣama'' sveti namenmuhuḥ .. 32.108 ..
यजमानोऽपि शुद्धात्मा भक्तिनम्रस्समाहितः । आचार्यं पूजयेत्तत्र गन्धमार्यानुलेपनैः ॥ ३२.१०९ ॥
yajamāno'pi śuddhātmā bhaktinamrassamāhitaḥ . ācāryaṃ pūjayettatra gandhamāryānulepanaiḥ .. 32.109 ..
पञ्चाङ्गभूषणैश्चैव दुकूलैश्च नवैस्तथा । ततो गुरुः प्रसन्नात्मा प्रयुञ्ज्यादाशिषस्तदा ॥ ३२.११० ॥
pañcāṅgabhūṣaṇaiścaiva dukūlaiśca navaistathā . tato guruḥ prasannātmā prayuñjyādāśiṣastadā .. 32.110 ..
तदुक्तं भगवत्प्रोक्तं प्रतिगृह्णीयुरादराथ् । एवं कुर्वीत प्रत्यब्दं पवित्रारोपणं हरेः ॥ ३२.१११ ॥
taduktaṃ bhagavatproktaṃ pratigṛhṇīyurādarāth . evaṃ kurvīta pratyabdaṃ pavitrāropaṇaṃ hareḥ .. 32.111 ..
इहलोके सुखीभूत्वा स याति परमां गतिं । प्रियतां भगवान्विष्णुः प्रार्थनासूक्तमुच्यते ॥ ३२.११२ ॥
ihaloke sukhībhūtvā sa yāti paramāṃ gatiṃ . priyatāṃ bhagavānviṣṇuḥ prārthanāsūktamucyate .. 32.112 ..
कनिक्रदाऽऽपिमन्त्राश्च शाकुनं सूक्तमीरितं । स्वस्तिनो मिमीऽऽतेत्युक्त्वा स्वस्तिसूक्तमिति स्मृतं ॥ ३२.११३ ॥
kanikradā''pimantrāśca śākunaṃ sūktamīritaṃ . svastino mimī''tetyuktvā svastisūktamiti smṛtaṃ .. 32.113 ..
शुद्धा इमे पशवऽऽ इति गोसूक्तं समुदाहृतं । ऋतं च सत्यंऽऽ चेत्यादि अघमर्षणमुच्यते ॥ ३२.११४ ॥
śuddhā ime paśava'' iti gosūktaṃ samudāhṛtaṃ . ṛtaṃ ca satyaṃ'' cetyādi aghamarṣaṇamucyate .. 32.114 ..
अणोरणीयाऽऽ नित्युक्त्वासूक्तं प्रोक्षणमीरितं । अपो हिरण्यवर्णाश्च पवमानऽऽ इति त्रयः ॥ ३२.११५ ॥
aṇoraṇīyā'' nityuktvāsūktaṃ prokṣaṇamīritaṃ . apo hiraṇyavarṇāśca pavamāna'' iti trayaḥ .. 32.115 ..
प्रोक्षणं सूक्तमिति तु केचिद्वैकल्पिकं जगुः । या जाताऽऽ इति मन्त्राश्च ओषधीसूक्तमुच्यते ॥ ३२.११६ ॥
prokṣaṇaṃ sūktamiti tu kecidvaikalpikaṃ jaguḥ . yā jātā'' iti mantrāśca oṣadhīsūktamucyate .. 32.116 ..
कृणुष्व पाजऽऽ इत्यादि सूक्तं प्रतिसराह्वयं । ("अतोदेवाऽऽदि षड्भिस्तु वैष्णवं सूक्तमुच्यतेः) ॥ ३२.११७ ॥
kṛṇuṣva pāja'' ityādi sūktaṃ pratisarāhvayaṃ . ("atodevā''di ṣaḍbhistu vaiṣṇavaṃ sūktamucyateḥ) .. 32.117 ..
अतोदेवादि षण्मन्त्राऽऽष्,ड्वैष्णवपदाह्वयाः । विष्णोर्नुऽऽकादि षण्मन्त्रा विष्णुसूक्तमुदीरितं ॥ ३२.११८ ॥
atodevādi ṣaṇmantrā''ṣ,ḍvaiṣṇavapadāhvayāḥ . viṣṇornu''kādi ṣaṇmantrā viṣṇusūktamudīritaṃ .. 32.118 ..
सहस्रशीर्षा पुरुषऽऽ इति पौरुषसूक्तकं । हिरण्य वर्णाऽऽ इत्यादि श्रीसूक्तं सर्वकामदं ॥ ३२.११९ ॥
sahasraśīrṣā puruṣa'' iti pauruṣasūktakaṃ . hiraṇya varṇā'' ityādi śrīsūktaṃ sarvakāmadaṃ .. 32.119 ..
भूमिर्भूम्नेऽऽत्यादिमन्त्रा भूमिसूक्तमुदाहृतं । उप श्वासयऽऽ इत्यादि दुन्दुभीसूक्तमुच्यते ॥ ३२.१२० ॥
bhūmirbhūmne''tyādimantrā bhūmisūktamudāhṛtaṃ . upa śvāsaya'' ityādi dundubhīsūktamucyate .. 32.120 ..
सुपर्णोऽसि गरुत्माऽऽनित्युक्तं सूक्तं च गारुडं । हिरण्यगर्भऽऽइत्यादि ब्रह्मसूक्तमुधृतं ॥ ३२.१२१ ॥
suparṇo'si garutmā''nityuktaṃ sūktaṃ ca gāruḍaṃ . hiraṇyagarbha''ityādi brahmasūktamudhṛtaṃ .. 32.121 ..
इन्द्रं वो विश्वतऽऽ इति इन्द्रसूक्तमिहोच्यते । अग्ने नयेत्याऽऽदिषड्भिरग्निसूक्तं प्रचक्षते ॥ ३२.१२२ ॥
indraṃ vo viśvata'' iti indrasūktamihocyate . agne nayetyā''diṣaḍbhiragnisūktaṃ pracakṣate .. 32.122 ..
आयातुदेवऽऽ इत्यादियमसूक्तंप्रकीर्तितं । नमस्सुते निरृतेऽऽ सूक्तंनैरृतमुच्यते ॥ ३२.१२३ ॥
āyātudeva'' ityādiyamasūktaṃprakīrtitaṃ . namassute nirṛte'' sūktaṃnairṛtamucyate .. 32.123 ..
अस्तभ्नाद्यामृषभऽऽइति वारुणसूक्तकं । पीवोन्नांरयि वृधस्सुमेधाऽऽइति वायवं ॥ ३२.१२४ ॥
astabhnādyāmṛṣabha''iti vāruṇasūktakaṃ . pīvonnāṃrayi vṛdhassumedhā''iti vāyavaṃ .. 32.124 ..
अद्भ्यस्तिरोधाऽऽइत्यादि कौवेरं सूक्तमुच्यते । स्तुहि श्रुतं गर्तऽऽइति रुद्रसूक्तं प्रकीर्तितं ॥ ३२.१२५ ॥
adbhyastirodhā''ityādi kauveraṃ sūktamucyate . stuhi śrutaṃ garta''iti rudrasūktaṃ prakīrtitaṃ .. 32.125 ..
ओमासश्चर्षणीऽऽत्यादि सूक्तं सारस्वतं भवेथ् । विश्वजितेधनऽऽइति विश्वजित्सूक्तमुच्यते ॥ ३२.१२६ ॥
omāsaścarṣaṇī''tyādi sūktaṃ sārasvataṃ bhaveth . viśvajitedhana''iti viśvajitsūktamucyate .. 32.126 ..
रात्री व्यख्यऽऽदित्यादि रात्रिसूक्तमुदाहृतं । जातवेदसऽऽइत्यादि षड्दुर्गासूक्तमुच्यते ॥ ३२.१२७ ॥
rātrī vyakhya''dityādi rātrisūktamudāhṛtaṃ . jātavedasa''ityādi ṣaḍdurgāsūktamucyate .. 32.127 ..
आ गोदानाऽऽदिति प्रोच्यगोदानं सूक्तमुच्यते । एकाक्षरम्ऽऽ इतिप्रोच्य सूक्तमेकाक्षरादिकं ॥ ३२.१२८ ॥
ā godānā''diti procyagodānaṃ sūktamucyate . ekākṣaram'' itiprocya sūktamekākṣarādikaṃ .. 32.128 ..
आत्मात्मा परमेत्यादि आत्मसूक्तं प्रकीर्तितं ॥ ३२.१२९ ॥
ātmātmā parametyādi ātmasūktaṃ prakīrtitaṃ .. 32.129 ..
वैष्णवं विष्णुसूक्तं च पुरुष सूक्तमतः परं । श्रीभूसूक्तं च पञ्चैतं पञ्चसूक्तमिहोच्यते ॥ ३२.१३० ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktamataḥ paraṃ . śrībhūsūktaṃ ca pañcaitaṃ pañcasūktamihocyate .. 32.130 ..
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तमतः परं । एकाक्षरादि सूक्तं च पञ्चसूक्तं जगुःपरे ॥ ३२.१३१ ॥
viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktamataḥ paraṃ . ekākṣarādi sūktaṃ ca pañcasūktaṃ jaguḥpare .. 32.131 ..
विष्णुसूक्तं नृसूक्तं च श्रीभूसूक्तं च वैष्णवं । एकाक्षरादिसूक्तं च विष्णुगायत्रिया सहा ॥ ३२.१३२ ॥
viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktaṃ ca vaiṣṇavaṃ . ekākṣarādisūktaṃ ca viṣṇugāyatriyā sahā .. 32.132 ..
आहत्य सप्तभिश्चैतैस्सप्तसूक्तं समीरितं । रुद्रसूक्तं ध्रुवसूक्तं दुर्गासूक्तं ततः परं ॥ ३२.१३३ ॥
āhatya saptabhiścaitaissaptasūktaṃ samīritaṃ . rudrasūktaṃ dhruvasūktaṃ durgāsūktaṃ tataḥ paraṃ .. 32.133 ..
रात्रिसूक्तं तथा सूक्तं सारस्वतमपि क्रमाथ् । विश्वजित्सूक्तमथ च सहस्रशीर्षमित्यपि ॥ ३२.१३४ ॥
rātrisūktaṃ tathā sūktaṃ sārasvatamapi kramāth . viśvajitsūktamatha ca sahasraśīrṣamityapi .. 32.134 ..
अघमर्षणसूक्तं च गोदानं सूक्तमेव च । आत्मसूक्तेन संयुक्तं दशमूक्तमुदाहृतं ॥ ३२.१३५ ॥
aghamarṣaṇasūktaṃ ca godānaṃ sūktameva ca . ātmasūktena saṃyuktaṃ daśamūktamudāhṛtaṃ .. 32.135 ..
दशसूक्तं पञ्चसूक्तं कृत्वा संहृतमेव च एवं । भवेत्पञ्च दशसूक्तमिति संज्ञा प्रभाषिता ॥ ३२.१३६ ॥
daśasūktaṃ pañcasūktaṃ kṛtvā saṃhṛtameva ca evaṃ . bhavetpañca daśasūktamiti saṃjñā prabhāṣitā .. 32.136 ..
अतःपरं प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः । मण्डलाराधनं नित्यं पुण्याहं स्नपनं चरेथ् ॥ ३२.१३७ ॥
ataḥparaṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ . maṇḍalārādhanaṃ nityaṃ puṇyāhaṃ snapanaṃ careth .. 32.137 ..
चत्पारिंशद्धिनादूर्ध्वं मण्डलं दिनपञ्चकं । पुण्याहं विधिवत्कृत्वा व्रीहिभिस्तण्डुलोपरि ॥ ३२.१३८ ॥
catpāriṃśaddhinādūrdhvaṃ maṇḍalaṃ dinapañcakaṃ . puṇyāhaṃ vidhivatkṛtvā vrīhibhistaṇḍulopari .. 32.138 ..
नवं कलशमादाय पूर्वोक्तेन विधानतः । समभ्यर्च्य जपं कुर्याद्ब्राह्मणैर्ब्रह्मवादिभिः ॥ ३२.१३९ ॥
navaṃ kalaśamādāya pūrvoktena vidhānataḥ . samabhyarcya japaṃ kuryādbrāhmaṇairbrahmavādibhiḥ .. 32.139 ..
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तमतः परं । श्रीभूसूक्तं तथा पञ्चशान्तिं चैव पृथक्पृथक् ॥ ३२.१४० ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktamataḥ paraṃ . śrībhūsūktaṃ tathā pañcaśāntiṃ caiva pṛthakpṛthak .. 32.140 ..
चतुरावर्त्य जप्त्वा तु स्नापयेद्ध्रुवमच्युतं । तथैव कौतुकादींश्च स्नापयेद्विधिना बुधः ॥ ३२.१४१ ॥
caturāvartya japtvā tu snāpayeddhruvamacyutaṃ . tathaiva kautukādīṃśca snāpayedvidhinā budhaḥ .. 32.141 ..
दध्योदनं गुडान्नं च पायसं च विशेषतः । निवेद्य देवदेवस्य मुखवासं प्रदापयेथ् ॥ ३२.१४२ ॥
dadhyodanaṃ guḍānnaṃ ca pāyasaṃ ca viśeṣataḥ . nivedya devadevasya mukhavāsaṃ pradāpayeth .. 32.142 ..
आचार्यदक्षिणां दद्यादृत्विजां च तथैव च । प्रतिष्ठादिनमारभ्य मण्डलान्तं दिनं प्रति ॥ ३२.१४३ ॥
ācāryadakṣiṇāṃ dadyādṛtvijāṃ ca tathaiva ca . pratiṣṭhādinamārabhya maṇḍalāntaṃ dinaṃ prati .. 32.143 ..
एवमेव क्रमेणैव कारयेत्तु विशेषतः । मण्डलार्धं तु कुर्याच्छेन्मध्यमं तत्प्रचक्षते ॥ ३२.१४४ ॥
evameva krameṇaiva kārayettu viśeṣataḥ . maṇḍalārdhaṃ tu kuryācchenmadhyamaṃ tatpracakṣate .. 32.144 ..
मण्डलान्ते विशेषेण कारयेद्द्विजभोजनं । सभ्याग्निकुण्डं कृत्वैव पुण्याहमसि वाचयेथ् ॥ ३२.१४५ ॥
maṇḍalānte viśeṣeṇa kārayeddvijabhojanaṃ . sabhyāgnikuṇḍaṃ kṛtvaiva puṇyāhamasi vācayeth .. 32.145 ..
आघारं विधिवद्धुत्वा वैष्णवं सूक्तमेव च । विष्णुसूक्तं ततो हुत्वा पुरुषसूक्त समन्वितं ॥ ३२.१४६ ॥
āghāraṃ vidhivaddhutvā vaiṣṇavaṃ sūktameva ca . viṣṇusūktaṃ tato hutvā puruṣasūkta samanvitaṃ .. 32.146 ..
श्रीभूसूक्तं समुच्चार्य पञ्चशान्तिमतः परं । पारमात्मिकमीङ्काराद्यष्टाशीतिं क्रमाद्धुनेथ् ॥ ३२.१४७ ॥
śrībhūsūktaṃ samuccārya pañcaśāntimataḥ paraṃ . pāramātmikamīṅkārādyaṣṭāśītiṃ kramāddhuneth .. 32.147 ..
अष्टाक्षरं समुच्चार्य तथैव द्वादशाक्षरं । पूर्णाहुतिं ततो हुत्वा अन्तहोमश्चहूयते ॥ ३२.१४८ ॥
aṣṭākṣaraṃ samuccārya tathaiva dvādaśākṣaraṃ . pūrṇāhutiṃ tato hutvā antahomaścahūyate .. 32.148 ..
संस्नापयेच्छ कलशैरष्टाधिकशतैःक्रमाथ् । वर्णयुक्तन्ध्रुवं बेरं प्राङ्गयेत्(?) स्नापयेन्नतु ॥ ३२.१४९ ॥
saṃsnāpayeccha kalaśairaṣṭādhikaśataiḥkramāth . varṇayuktandhruvaṃ beraṃ prāṅgayet(?) snāpayennatu .. 32.149 ..
द्वादशाराधनं कुर्यान्मध्ये मध्ये विधानतः । ग्रामं प्रदक्षिणीकृत्य सर्ववाद्यसमन्वितं ॥ ३२.१५० ॥
dvādaśārādhanaṃ kuryānmadhye madhye vidhānataḥ . grāmaṃ pradakṣiṇīkṛtya sarvavādyasamanvitaṃ .. 32.150 ..
पक्षिराजोपरि स्थाप्य रक्षादीपं च दर्शयेथ् । जीवस्थाने सुसंस्थाप्य प्रणामं कारयेत्ततः ॥ ३२.१५१ ॥
pakṣirājopari sthāpya rakṣādīpaṃ ca darśayeth . jīvasthāne susaṃsthāpya praṇāmaṃ kārayettataḥ .. 32.151 ..
एवं यःकुरुते भक्त्या मण्डलाराधनं हरेः । सर्वान्कामानवाप्यैव स याति परमाङ्गतिं ॥ ३२.१५२ ॥
evaṃ yaḥkurute bhaktyā maṇḍalārādhanaṃ hareḥ . sarvānkāmānavāpyaiva sa yāti paramāṅgatiṃ .. 32.152 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे. द्वात्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre. dvātriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In