| |
|

This overlay will guide you through the buttons:

अथ द्वाविंशोऽध्यायः.
अथ द्वाविंशः अध्यायः।
atha dvāviṃśaḥ adhyāyaḥ.
स्नपनम्
अथातस्स्नपनागारं प्रमुखे चोत्तरे तथा । ऐशान्यां वा विशेषण प्रपां वा मण्डपन्तु वा ॥ २२.१ ॥
अथ अतस् स्नपन-आगारम् प्रमुखे च उत्तरे तथा । ऐशान्याम् वा प्रपाम् वा वा ॥ २२।१ ॥
atha atas snapana-āgāram pramukhe ca uttare tathā . aiśānyām vā prapām vā vā .. 22.1 ..
वितानोपरि संवीतं लंबमानं परिष्कृतं । स्तंभान्त्संवेष्ट्य वस्त्रैश्च दुकूलैस्तान्तवैरपि ॥ २२.२ ॥
वितान-उपरि संवीतम् लंबमानम् परिष्कृतम् । स्तंभान् संवेष्ट्य वस्त्रैः च दुकूलैः तान्तवैः अपि ॥ २२।२ ॥
vitāna-upari saṃvītam laṃbamānam pariṣkṛtam . staṃbhān saṃveṣṭya vastraiḥ ca dukūlaiḥ tāntavaiḥ api .. 22.2 ..
मुक्तादामसमायुक्तं पूर्णकुंभसमन्वितं । सत्वं रजस्तमश्चैव ऐश्वर्यं चाधिदैवतं ॥ २२.३ ॥
मुक्ता-दाम-समायुक्तम् पूर्ण-कुंभ-समन्वितम् । सत्वम् रजः तमः च एव ऐश्वर्यम् च अधिदैवतम् ॥ २२।३ ॥
muktā-dāma-samāyuktam pūrṇa-kuṃbha-samanvitam . satvam rajaḥ tamaḥ ca eva aiśvaryam ca adhidaivatam .. 22.3 ..
चतुर्वेदादिकैर्मन्त्रैस्तोरणांस्थ्सापयेत्क्रमाथ् । उभयोः पार्श्वयोश्चैव कदलीक्रमुकान्वितं ॥ २२.४ ॥
चतुर्-वेद-आदिकैः मन्त्रैः तोरणान् थ्सापयेत् क्रमाथ् । उभयोः पार्श्वयोः च एव कदली-क्रमुक-अन्वितम् ॥ २२।४ ॥
catur-veda-ādikaiḥ mantraiḥ toraṇān thsāpayet kramāth . ubhayoḥ pārśvayoḥ ca eva kadalī-kramuka-anvitam .. 22.4 ..
पूर्वास्तमुत्तरान्तं च षट्सूत्रं संप्रसार्य च । कल्पयेदायतसमं पदानां पञ्च विंशतिं ॥ २२.५ ॥
पूर्व-अस्तम् उत्तर-अन्तम् च षष्-सूत्रम् संप्रसार्य च । कल्पयेत् आयत-समम् पदानाम् पञ्च विंशतिम् ॥ २२।५ ॥
pūrva-astam uttara-antam ca ṣaṣ-sūtram saṃprasārya ca . kalpayet āyata-samam padānām pañca viṃśatim .. 22.5 ..
मध्येब्राह्मं पदं हित्वा चर्यार्धं परितोऽष्ट च । पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेथ् ॥ २२.६ ॥
मध्येब्राह्मम् पदम् हित्वा चर्या-अर्धम् परितस् अष्ट च । पूर्व-आदि चत्वारि पदम् द्वार-अर्थम् परिकल्पयेथ् ॥ २२।६ ॥
madhyebrāhmam padam hitvā caryā-ardham paritas aṣṭa ca . pūrva-ādi catvāri padam dvāra-artham parikalpayeth .. 22.6 ..
शिष्टांश्च द्वादशपदान्द्रव्यन्यासार्थमाहरेथ् । मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः ॥ २२.७ ॥
शिष्टान् च द्वादश-पदान् द्रव्य-न्यास-अर्थम् आहरेथ् । कर्तव्यम् औपासन-विधानतः ॥ २२।७ ॥
śiṣṭān ca dvādaśa-padān dravya-nyāsa-artham āhareth . kartavyam aupāsana-vidhānataḥ .. 22.7 ..
मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः । श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेथ् ॥ २२.८ ॥
मध्येनिम्नम् च कृत्वा तु ताल-मात्र-प्रमाणतः । श्वभ्रस्य मध्यमे च एव बिल्व-जम् फलकम् न्यसेथ् ॥ २२।८ ॥
madhyenimnam ca kṛtvā tu tāla-mātra-pramāṇataḥ . śvabhrasya madhyame ca eva bilva-jam phalakam nyaseth .. 22.8 ..
तत्प्रमाणाधिकं पीठं परितश्चतुरङ्गुलं । मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमाथ् ॥ २२.९ ॥
तद्-प्रमाण-अधिकम् पीठम् परितस् चतुर्-अङ्गुलम् । मध्ये हित्वा प्रतिष्ठाप्य द्वि-वेदि-सहितम् ॥ २२।९ ॥
tad-pramāṇa-adhikam pīṭham paritas catur-aṅgulam . madhye hitvā pratiṣṭhāpya dvi-vedi-sahitam .. 22.9 ..
ततःपावनमार्गेण जलं गच्छेदुदङ्मुखं । मण्डपात्तु बहिस्थ्साने जलस्थानं तु खानयेथ् ॥ २२.१० ॥
ततस् पावन-मार्गेण जलम् गच्छेत् उदक्-मुखम् । मण्डपात् तु जल-स्थानम् तु ॥ २२।१० ॥
tatas pāvana-mārgeṇa jalam gacchet udak-mukham . maṇḍapāt tu jala-sthānam tu .. 22.10 ..
आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा । हारिद्रैश्चाथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा ॥ २२.११ ॥
आच्छाद्य कदली-पत्रैः पद्म-पत्रैः अथ अपि वा । हारिद्रैः च अथ पत्रैः वा अ पत्रैः क्रमुक-जैः तु वा ॥ २२।११ ॥
ācchādya kadalī-patraiḥ padma-patraiḥ atha api vā . hāridraiḥ ca atha patraiḥ vā a patraiḥ kramuka-jaiḥ tu vā .. 22.11 ..
अतोदेवाऽदिमन्त्रेण कुशदर्भांन्तु शोधयेथ् । यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेथ् ॥ २२.१२ ॥
कुश-दर्भान् तु । यावत् श्वभ्र-प्रमाणम् तु तावत् कृत्वा समाहरेथ् ॥ २२।१२ ॥
kuśa-darbhān tu . yāvat śvabhra-pramāṇam tu tāvat kṛtvā samāhareth .. 22.12 ..
हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकं । मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतं ॥ २२.१३ ॥
हस्त-मात्रम् तथा आयामे प्रोक्षण-अर्थम् तु कूर्चकम् । मार्जन-अर्थन् तु कूर्चम् च षष्-अङ्गुलम् इति स्मृतम् ॥ २२।१३ ॥
hasta-mātram tathā āyāme prokṣaṇa-artham tu kūrcakam . mārjana-arthan tu kūrcam ca ṣaṣ-aṅgulam iti smṛtam .. 22.13 ..
पञ्चभिर्वात्रिभिर्वाथ द्वादशांगुलमायतं । कलशार्थं तु कुर्वीत यथाकलशसंख्ययो ॥ २२.१४ ॥
पञ्चभिः वा अ त्रिभिः वा अथ द्वादश-अंगुलम् आयतम् । कलश-अर्थम् तु कुर्वीत यथा कलश-संख्ययोः ॥ २२।१४ ॥
pañcabhiḥ vā a tribhiḥ vā atha dvādaśa-aṃgulam āyatam . kalaśa-artham tu kurvīta yathā kalaśa-saṃkhyayoḥ .. 22.14 ..
तण्डुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकं । व्रीह्यर्धं तण्डुलं प्रोक्तं तदर्धं च तिलानपि ॥ २२.१५ ॥
तण्डुलैः व्रीहिभिः च एव स तिलैः च त्रि-वेदिकम् । व्रीहि-अर्धम् तण्डुलम् प्रोक्तम् तद्-अर्धम् च तिलान् अपि ॥ २२।१५ ॥
taṇḍulaiḥ vrīhibhiḥ ca eva sa tilaiḥ ca tri-vedikam . vrīhi-ardham taṇḍulam proktam tad-ardham ca tilān api .. 22.15 ..
उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकं । अधमं चाढकं चैव पङ्क्तिं कुर्याद्विचक्षणः, ॥ २२.१६ ॥
उत्तमम् द्रोणम् इति उक्तम् मध्यमम् तु तद्-अर्धकम् । अधमम् च आढकम् च एव पङ्क्तिम् कुर्यात् विचक्षणः, ॥ २२।१६ ॥
uttamam droṇam iti uktam madhyamam tu tad-ardhakam . adhamam ca āḍhakam ca eva paṅktim kuryāt vicakṣaṇaḥ, .. 22.16 ..
सम्यक्दग्ध्वातु कलशानभिन्नान्त्संप्रगृह्य च । शरावाणां प्रमाणं तु कुडुबं समुदाहृतं ॥ २२.१७ ॥
सम्यक् दग्ध्वा तु कलशान् अभिन्नान् संप्रगृह्य च । शरावाणाम् प्रमाणम् तु कुडुबम् समुदाहृतम् ॥ २२।१७ ॥
samyak dagdhvā tu kalaśān abhinnān saṃpragṛhya ca . śarāvāṇām pramāṇam tu kuḍubam samudāhṛtam .. 22.17 ..
षट्प्रस्थमात्रं करकं कुंभं तु द्रोणमेव च । देवस्यऽत्वेति कलशान्कुंभादीन्त्संप्रगृह्य च ॥ २२.१८ ॥
षष्-प्रस्थ-मात्रम् करकम् कुंभम् तु द्रोणम् एव च । देवस्य अत्वा इति कलशान् कुंभ-आदीन् संप्रगृह्य च ॥ २२।१८ ॥
ṣaṣ-prastha-mātram karakam kuṃbham tu droṇam eva ca . devasya atvā iti kalaśān kuṃbha-ādīn saṃpragṛhya ca .. 22.18 ..
यवान्तरं तु तन्तूनां संवेष्ट्य कलशानपि । पूर्वरात्रौ विशेषेण देवेशं संप्रणम्य च ॥ २२.१९ ॥
यव-अन्तरम् तु तन्तूनाम् संवेष्ट्य कलशान् अपि । पूर्व-रात्रौ विशेषेण देवेशम् संप्रणम्य च ॥ २२।१९ ॥
yava-antaram tu tantūnām saṃveṣṭya kalaśān api . pūrva-rātrau viśeṣeṇa deveśam saṃpraṇamya ca .. 22.19 ..
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः । पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः ॥ २२.२० ॥
समभ्यर्च्य निवेद्य एव मुखवासम् ददेत् ततस् । पूर्व-उक्तेन विधानेन बद्ध्वा अप्रतिसरम् ततस् ॥ २२।२० ॥
samabhyarcya nivedya eva mukhavāsam dadet tatas . pūrva-uktena vidhānena baddhvā apratisaram tatas .. 22.20 ..
शयनं सोपधानं च कालयित्वातु पूर्ववथ् । शयने शाययेद्देवमुत्तराच्छादनं चरेथ् ॥ २२.२१ ॥
शयनम् स उपधानम् च पूर्ववथ् । शयने शाययेत् देवम् उत्तर-आच्छादनम् चरेथ् ॥ २२।२१ ॥
śayanam sa upadhānam ca pūrvavath . śayane śāyayet devam uttara-ācchādanam careth .. 22.21 ..
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमाथ् । ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ २२.२२ ॥
नृत्तैः गेयैः च वाद्यैः च रात्रि-शेषम् नयेत् क्रमाथ् । ततस् प्रभाते धर्म-आत्मा यजमान-युतः गुरुः ॥ २२।२२ ॥
nṛttaiḥ geyaiḥ ca vādyaiḥ ca rātri-śeṣam nayet kramāth . tatas prabhāte dharma-ātmā yajamāna-yutaḥ guruḥ .. 22.22 ..
श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चान्त्सम्यङ्न्यसेत्क्रमाथ् । जयादीरपि तत्रैव चैन्द्राद्यैशान्तमर्चयेथ् ॥ २२.२३ ॥
श्वभ्र-मध्ये प्रतिष्ठाप्य कूर्चान् सम्यक् न्यसेत् क्रमाथ् । जय-आदीः अपि तत्र एव च ऐन्द्र-आदि-ऐश-अन्तम् अर्चयेथ् ॥ २२।२३ ॥
śvabhra-madhye pratiṣṭhāpya kūrcān samyak nyaset kramāth . jaya-ādīḥ api tatra eva ca aindra-ādi-aiśa-antam arcayeth .. 22.23 ..
पङ्क्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे । विष्वक्चेनं समभ्यर्च्य सोमेशानान्तरेपि च ॥ २२.२४ ॥
पङ्क्तीशम् अर्चयेत् पूर्वम् नील-वारुण-मध्यमे । समभ्यर्च्य सोम-ईशान-अन्तरे अपि च ॥ २२।२४ ॥
paṅktīśam arcayet pūrvam nīla-vāruṇa-madhyame . samabhyarcya soma-īśāna-antare api ca .. 22.24 ..
लोकपालान्त्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः प्राग्द्रव्याणि । नदीतिरे मृदं गृह्य सस्यङे त्रेतटाकके ॥ २२.२५ ॥
लोकपालान् समभ्यर्च्ये द्वि-ग्रहैः दशभिः त्रिभिः प्राक् द्रव्याणि । नदीतिरे मृदम् गृह्य सस्यङे त्रेत-टाकके ॥ २२।२५ ॥
lokapālān samabhyarcye dvi-grahaiḥ daśabhiḥ tribhiḥ prāk dravyāṇi . nadītire mṛdam gṛhya sasyaṅe treta-ṭākake .. 22.25 ..
दर्भमूले च संगृह्य गजदन्ते तथैवच । गोश्रुङ्गे कर्कटावासे वल्मीकस्य तु मध्यमे ॥ २२.२६ ॥
दर्भ-मूले च संगृह्य गज-दन्ते तथा एव च । गोश्रुङ्गे कर्कट-आवासे वल्मीकस्य तु मध्यमे ॥ २२।२६ ॥
darbha-mūle ca saṃgṛhya gaja-dante tathā eva ca . gośruṅge karkaṭa-āvāse valmīkasya tu madhyame .. 22.26 ..
महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक्पृथक् । आतपेनाथ संशोष्य विश्वामित्रान्परिह्रसेथ् ॥ २२.२७ ॥
महीम् देवीम् अनुज्ञाप्य ताः च आहृत्य पृथक् पृथक् । आतपेन अथ संशोष्य विश्वामित्रान् परिह्रसेथ् ॥ २२।२७ ॥
mahīm devīm anujñāpya tāḥ ca āhṛtya pṛthak pṛthak . ātapena atha saṃśoṣya viśvāmitrān parihraseth .. 22.27 ..
शरावेषु मृदं चैव पूरयित्या पृथक्पृथक् । इन्द्रादीशानपर्यन्तं प्रदक्षिणवशेन तु ॥ २२.२८ ॥
शरावेषु मृदम् च एव पूरयित्या पृथक् पृथक् । इन्द्र-आदि-ईशान-पर्यन्तम् प्रदक्षिण-वशेन तु ॥ २२।२८ ॥
śarāveṣu mṛdam ca eva pūrayityā pṛthak pṛthak . indra-ādi-īśāna-paryantam pradakṣiṇa-vaśena tu .. 22.28 ..
उदुत्यऽमिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः । मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा ॥ २२.२९ ॥
मन्त्रेण प्रथमम् सन् न्यसेत् मृदः । मृद्-उपस्नानम् एकम् तु ऐशान्याम् विप्यसेत् तदा ॥ २२।२९ ॥
mantreṇa prathamam san nyaset mṛdaḥ . mṛd-upasnānam ekam tu aiśānyām vipyaset tadā .. 22.29 ..
अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा । कुर्यादष्टांगुलोत्सेधं चतुरश्रं समस्ततः ॥ २२.३० ॥
अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा । कुर्यात् अष्ट-अङ्गुल-उत्सेधम् चतुरश्रम् समस्ततः ॥ २२।३० ॥
aśvadthena palāśena bilvena khadireṇa vā . kuryāt aṣṭa-aṅgula-utsedham caturaśram samastataḥ .. 22.30 ..
मूलं षडङ्गुले चाग्रात्त्षङ्गुलं समुदाहृतं । अनेन वा मृदा वापि कुर्याद्वै पर्वतान्क्रमाथ् ॥ २२.३१ ॥
मूलम् षष्-अङ्गुले समुदाहृतम् । अनेन वा मृदा वा अपि कुर्यात् वै पर्वतान् ॥ २२।३१ ॥
mūlam ṣaṣ-aṅgule samudāhṛtam . anena vā mṛdā vā api kuryāt vai parvatān .. 22.31 ..
हिमवानूर्जवान्विन्ध्यो विदूरो वेदपर्वतः । महेन्द्रश्च पुरश्चन्द्रश्शतश्रुङ्गाश्च पर्वताः ॥ २२.३२ ॥
हिमवान् ऊर्जवान् विन्ध्यः विदूरः वेदपर्वतः । महेन्द्रः च पुरश्चन्द्रः शतश्रुङ्गाः च पर्वताः ॥ २२।३२ ॥
himavān ūrjavān vindhyaḥ vidūraḥ vedaparvataḥ . mahendraḥ ca puraścandraḥ śataśruṅgāḥ ca parvatāḥ .. 22.32 ..
एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान् । श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च ॥ २२.३३ ॥
एषाम् वर्णः तथा एव उक्तः कुर्यात् वर्णेन संयुतान् । श्वेतम् पीतम् च कृष्णम् च रक्तम् वै श्वेतम् एव च ॥ २२।३३ ॥
eṣām varṇaḥ tathā eva uktaḥ kuryāt varṇena saṃyutān . śvetam pītam ca kṛṣṇam ca raktam vai śvetam eva ca .. 22.33 ..
पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः । प्रागादीशान्त मेतांश्च "इदं विष्णुऽरिति न्यसेथ् ॥ २२.३४ ॥
पीतम् कृष्णम् च रक्तम् च क्रमात् वर्णः उदाहृतः । प्राच्-आदि-ईश-अन्त मेतान् च "इदम् विष्णुः इति न्यसेथ् ॥ २२।३४ ॥
pītam kṛṣṇam ca raktam ca kramāt varṇaḥ udāhṛtaḥ . prāc-ādi-īśa-anta metān ca "idam viṣṇuḥ iti nyaseth .. 22.34 ..
शैलानां चाप्युपस्नामेकमीशान्यगोचरं । शालिव्रीहियवा मुद्गतिलमाष प्रियङ्गवः ॥ २२.३५ ॥
शैलानाम् च अपि उपस्नाम् एकम् ईशानी-अगोचरम् । शालि-व्रीहि-यवाः मुद्ग-तिल-माष-प्रियङ्गवः ॥ २२।३५ ॥
śailānām ca api upasnām ekam īśānī-agocaram . śāli-vrīhi-yavāḥ mudga-tila-māṣa-priyaṅgavaḥ .. 22.35 ..
गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा । कुलुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च ॥ २२.३६ ॥
गोधूमः चणकः तिल्वः मसूरीः च अद्थसी तथा । कुलुद्ध-माषकाः च एव षष्टिः निष्पावः एव च ॥ २२।३६ ॥
godhūmaḥ caṇakaḥ tilvaḥ masūrīḥ ca adthasī tathā . kuluddha-māṣakāḥ ca eva ṣaṣṭiḥ niṣpāvaḥ eva ca .. 22.36 ..
एतान्याहृत्य धान्यानि शरावेषु पृथक्पृथक् । प्रक्षिप्य तांश्य संपूर्णान्क्रमाद्द्वौ द्वौन्यकेत्तथा ॥ २२.३७ ॥
एतानि आहृत्य धान्यानि शरावेषु पृथक् पृथक् । प्रक्षिप्य संपूर्णान् क्रमात् द्वौ द्वौ न्यकेत् तथा ॥ २२।३७ ॥
etāni āhṛtya dhānyāni śarāveṣu pṛthak pṛthak . prakṣipya saṃpūrṇān kramāt dvau dvau nyaket tathā .. 22.37 ..
इन्द्रादीशानपर्यन्तं "शुक्रन्तऽ इति मन्त्रतः । न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि ॥ २२.३८ ॥
इन्द्र-आदि-ईशान-पर्यन्तम् "इति मन्त्रतः । न्यसेत् एकम् उपस्नानम् धान्यानाम् अग्नि-दिशि अपि ॥ २२।३८ ॥
indra-ādi-īśāna-paryantam "iti mantrataḥ . nyaset ekam upasnānam dhānyānām agni-diśi api .. 22.38 ..
शरावाणामलाभे तु कलशेषु पृथक्पृथक् । सोम ओषधीनाऽमुच्छार्य पूर्ववच्चांकुरानपि ॥ २२.३९ ॥
शरावाणाम् अलाभे तु कलशेषु पृथक् पृथक् । सोमे पूर्ववत् च अंकुरान् अपि ॥ २२।३९ ॥
śarāvāṇām alābhe tu kalaśeṣu pṛthak pṛthak . some pūrvavat ca aṃkurān api .. 22.39 ..
यमनीलान्तरे चापि शरावेतु सुविन्यसेथ् । अङ्कुराणामुपस्नानमेकमत्रैव विन्यसेथ् ॥ २२.४० ॥
यम-नील-अन्तरे च अपि । अङ्कुराणाम् उपस्नानम् एकम् अत्र एव विन्यसेथ् ॥ २२।४० ॥
yama-nīla-antare ca api . aṅkurāṇām upasnānam ekam atra eva vinyaseth .. 22.40 ..
पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा । मङ्गलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमाथ् ॥ २२.४१ ॥
पर्वत-अर्थम् समम् प्रोक्त-वृक्षैः यत्नेन वा मृदा । मङ्गलानि प्रकुर्यात् च दारु-पक्षाणि अनुक्रमाथ् ॥ २२।४१ ॥
parvata-artham samam prokta-vṛkṣaiḥ yatnena vā mṛdā . maṅgalāni prakuryāt ca dāru-pakṣāṇi anukramāth .. 22.41 ..
श्रीवत्सं पूर्णकुंभं च भेरीमादर्शनं तथा । मत्स्ययुग्मांकुशं शङ्खमावर्तमिति चाष्टवै ॥ २२.४२ ॥
श्रीवत्सम् पूर्ण-कुंभम् च भेरीम् आदर्शनम् तथा । मत्स्य-युग्म-अंकुशम् शङ्खम् आवर्तम् इति च अष्टवै वै ॥ २२।४२ ॥
śrīvatsam pūrṇa-kuṃbham ca bherīm ādarśanam tathā . matsya-yugma-aṃkuśam śaṅkham āvartam iti ca aṣṭavai vai .. 22.42 ..
श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते । रक्तां भेरीं सुवर्णाभं तस्य पार्श्वेऽसितं?तथा ॥ २२.४३ ॥
श्रीवत्सम् तत् तु रुक्म-आभम् उच्यते । रक्ताम् भेरीम् सुवर्ण-आभम् तस्य पार्श्वे असितम्?तथा ॥ २२।४३ ॥
śrīvatsam tat tu rukma-ābham ucyate . raktām bherīm suvarṇa-ābham tasya pārśve asitam?tathā .. 22.43 ..
आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते । मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितं ॥ २२.४४ ॥
आदर्शनम् च श्वेतम् स्यात् वृत्तम् चन्द्र-वत् इष्यते । मत्स्य-युग्मम् तथा श्वेतम् ऊर्ध्वाननम् इति ईरितम् ॥ २२।४४ ॥
ādarśanam ca śvetam syāt vṛttam candra-vat iṣyate . matsya-yugmam tathā śvetam ūrdhvānanam iti īritam .. 22.44 ..
अङ्कुशस्य तु दण्डं च रक्तं कृष्णघृणीयुतं । शङ्खं शङ्खनिभं प्रोक्तं रक्तमावर्तमिष्यते ॥ २२.४५ ॥
अङ्कुशस्य तु दण्डम् च रक्तम् कृष्ण-घृणी-युतम् । शङ्खम् शङ्खनिभम् प्रोक्तम् रक्तम् आवर्तम् इष्यते ॥ २२।४५ ॥
aṅkuśasya tu daṇḍam ca raktam kṛṣṇa-ghṛṇī-yutam . śaṅkham śaṅkhanibham proktam raktam āvartam iṣyate .. 22.45 ..
सप्ताङ्गुलसमुत्सेधमेषां पीठं द्विगोलकं । यथा वृक्षैस्तथा कुर्यात्पञ्चवर्णैर्मृदा तधा ॥ २२.४६ ॥
सप्त-अङ्गुल-समुत्सेधम् एषाम् पीठम् द्वि-गोलकम् । यथा वृक्षैः तथा कुर्यात् पञ्च-वर्णैः मृदा तधा ॥ २२।४६ ॥
sapta-aṅgula-samutsedham eṣām pīṭham dvi-golakam . yathā vṛkṣaiḥ tathā kuryāt pañca-varṇaiḥ mṛdā tadhā .. 22.46 ..
एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेथ् । प्रदक्षिणक्रमेणैव चैन्द्रादीशान्तमर्चयेथ् ॥ २२.४७ ॥
एवम् लक्षणम् उद्दिष्टम् शेषम् युक्त्या । प्रदक्षिण-क्रमेण एव च ऐन्द्र-आदि-ईश-अन्तम् अर्चयेथ् ॥ २२।४७ ॥
evam lakṣaṇam uddiṣṭam śeṣam yuktyā . pradakṣiṇa-krameṇa eva ca aindra-ādi-īśa-antam arcayeth .. 22.47 ..
दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे । शं सा नियच्छऽत्वित्युक्त्वामङ्गलान्यत्र विन्यसेथ् ॥ २२.४८ ॥
दिक्षु अष्टसु महा-दिक्षु तद्-तद्-द्वारस्य दक्षिणे । शम् सा नियच्छ इति उक्त्वा अमङ्गलानि अत्र विन्यसेथ् ॥ २२।४८ ॥
dikṣu aṣṭasu mahā-dikṣu tad-tad-dvārasya dakṣiṇe . śam sā niyaccha iti uktvā amaṅgalāni atra vinyaseth .. 22.48 ..
मङ्गलानामुपस्नानमेन्द्राद्येचैकमेवहि । एवं प्रकरणं प्रोक्तं कलशानां............ ॥ २२.४९ ॥
मङ्गलानाम् उपस्नानम् एन्द्र-आद्ये च एकम् एव हि । एवम् प्रकरणम् प्रोक्तम् कलशानाम्॥॥॥॥॥॥ ॥ २२।४९ ॥
maṅgalānām upasnānam endra-ādye ca ekam eva hi . evam prakaraṇam proktam kalaśānām............ .. 22.49 ..
द्वादश प्रधानद्रव्याणि पञ्चगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति । कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते ॥ २२.५० ॥
द्वादश प्रधान-द्रव्याणि पञ्चगव्य-क्रमम् वक्ष्ये देवस्य स्नपनम् प्रति । कपिलायाः वरम् क्षीरम् श्वेतायाः दधि च उच्यते ॥ २२।५० ॥
dvādaśa pradhāna-dravyāṇi pañcagavya-kramam vakṣye devasya snapanam prati . kapilāyāḥ varam kṣīram śvetāyāḥ dadhi ca ucyate .. 22.50 ..
रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेथ् । मूत्रं तु नीलवर्णायाः पञ्चगव्यमिति स्मृतं ॥ २२.५१ ॥
रक्त-वर्णा-घृतम् ग्राह्यम् कृष्णायाः गोः शकृत् भवेथ् । मूत्रम् तु नील-वर्णायाः पञ्चगव्यम् इति स्मृतम् ॥ २२।५१ ॥
rakta-varṇā-ghṛtam grāhyam kṛṣṇāyāḥ goḥ śakṛt bhaveth . mūtram tu nīla-varṇāyāḥ pañcagavyam iti smṛtam .. 22.51 ..
प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतं । गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणं ॥ २२.५२ ॥
प्रस्थ-पादम् घृतम् च एव द्विगुणम् दधि संयुतम् । गृहीत्वा त्रिगुणम् क्षीरम् चतुर्गुणम् ॥ २२।५२ ॥
prastha-pādam ghṛtam ca eva dviguṇam dadhi saṃyutam . gṛhītvā triguṇam kṣīram caturguṇam .. 22.52 ..
षड्गुणं चैव गोमूत्रं पञ्चगव्ययुतं क्रमाथ् । अपातितं तु गोमूत्रं पतितं गोमयं भवेथ् ॥ २२.५३ ॥
षड्गुणम् च एव गो-मूत्रम् पञ्चगव्य-युतम् क्रमाथ् । अ पातितम् तु गो-मूत्रम् पतितम् गोमयम् ॥ २२।५३ ॥
ṣaḍguṇam ca eva go-mūtram pañcagavya-yutam kramāth . a pātitam tu go-mūtram patitam gomayam .. 22.53 ..
धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेथ् । अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणं ॥ २२.५४ ॥
धारोष्णम् क्षीरम् आदाय सद्यस् त्सप्तम् घृतम् । अ शुक्तम् दधि गृह्णीयात् एतत् सर्वत्र लक्षणम् ॥ २२।५४ ॥
dhāroṣṇam kṣīram ādāya sadyas tsaptam ghṛtam . a śuktam dadhi gṛhṇīyāt etat sarvatra lakṣaṇam .. 22.54 ..
गाङ्गेयंऽ मन्त्रमुच्चार्य गोमूत्रं पूर्वमाहरेथ् । तत्परं तु शकृद्ग्राह्य मीशानऽमिति मन्त्रतः ॥ २२.५५ ॥
गाङ्गेयम् मन्त्रम् उच्चार्य गो-मूत्रम् पूर्वम् आहरेथ् । तद्-परम् तु शकृत्-ग्राह्यम् मीशानम् इति मन्त्रतः ॥ २२।५५ ॥
gāṅgeyam mantram uccārya go-mūtram pūrvam āhareth . tad-param tu śakṛt-grāhyam mīśānam iti mantrataḥ .. 22.55 ..
हिरण्यपाणिऽमित्युक्त्वा पय आदाय निक्षिपेथ् । इषे त्वेऽति दधि यञ्ज्याद्घृतं "चायन्तऽ इत्यपि ॥ २२.५६ ॥
हिरण्य-पाणि इति उक्त्वा पयः आदाय निक्षिपेथ् । इषे त्वे अति दधि यञ्ज्यात् घृतम् "चायन्तः इति अपि ॥ २२।५६ ॥
hiraṇya-pāṇi iti uktvā payaḥ ādāya nikṣipeth . iṣe tve ati dadhi yañjyāt ghṛtam "cāyantaḥ iti api .. 22.56 ..
इत्येवं पञ्चभिर्मन्त्रैः पञ्चगव्यं समाहरेथ् । एतदाढकपूर्मन्तु कलशेदृश्यते पृथक् ॥ २२.५७ ॥
इति एवम् पञ्चभिः मन्त्रैः पञ्चगव्यम् समाहरेथ् । एतत् आढक-पूर्मन् तु कलशे दृश्यते पृथक् ॥ २२।५७ ॥
iti evam pañcabhiḥ mantraiḥ pañcagavyam samāhareth . etat āḍhaka-pūrman tu kalaśe dṛśyate pṛthak .. 22.57 ..
सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा । द्वादशांगुलविस्तारं षोडशांगुलनाहकं ॥ २२.५८ ॥
सौवर्णम् राजतम् ताम्रम् कांस्यम् मृण्मयम् एव वा । द्वादश-अंगुल-विस्तारम् षोडश-अंगुल-नाहकम् ॥ २२।५८ ॥
sauvarṇam rājatam tāmram kāṃsyam mṛṇmayam eva vā . dvādaśa-aṃgula-vistāram ṣoḍaśa-aṃgula-nāhakam .. 22.58 ..
द्व्यङ्गुलं संभरेत्कण्ठं मुखं पञ्चाङ्गुल भवेथ् । पक्वबिंब फलाकारं खण्डस्भुटीतवर्जितं ॥ २२.५९ ॥
द्वि-अङ्गुलम् संभरेत् कण्ठम् मुखम् पञ्च-अङ्गुल । फल-आकारम् ॥ २२।५९ ॥
dvi-aṅgulam saṃbharet kaṇṭham mukham pañca-aṅgula . phala-ākāram .. 22.59 ..
एवं कलशमादाय पञ्चगव्यैःप्रपूर्य च । रुद्रमस्यऽमिति प्रोच्य न्यसेदीशानगोचरे ॥ २२.६० ॥
एवम् कलशम् आदाय पञ्चगव्यैः प्रपूर्य च । रुद्रम् अस्य इति प्रोच्य न्यसेत् ईशान-गोचरे ॥ २२।६० ॥
evam kalaśam ādāya pañcagavyaiḥ prapūrya ca . rudram asya iti procya nyaset īśāna-gocare .. 22.60 ..
आढकार्धघृतेनैव संपूर्णं कलशं तथा । घृतप्रतीकऽ इत्युक्त्वा इ द्रेशानान्तरेन्यसेथ् ॥ २२.६१ ॥
आढक-अर्ध-घृतेन एव संपूर्णम् कलशम् तथा । घृत-प्रतीकः इति उक्त्वा ॥ २२।६१ ॥
āḍhaka-ardha-ghṛtena eva saṃpūrṇam kalaśam tathā . ghṛta-pratīkaḥ iti uktvā .. 22.61 ..
कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा । मधु वाऽतेति मन्त्रेण इन्द्राग्न्योरन्तरे न्यसेथ् ॥ २२.६२ ॥
कलशम् मधु-संयुक्तम् सु कुशैः पूरितम् तथा । मधु वा अत इति मन्त्रेण इन्द्र-अग्न्योः अन्तरे न्यसेथ् ॥ २२।६२ ॥
kalaśam madhu-saṃyuktam su kuśaiḥ pūritam tathā . madhu vā ata iti mantreṇa indra-agnyoḥ antare nyaseth .. 22.62 ..
न शुक्तं दधि गव्यं च? संपूर्णकलशं तथा । दधि क्राव्ण्नऽ इत्युक्वा आग्नेय्यां दधि विन्यसेथ् ॥ २२.६३ ॥
न शुक्तम् दधि गव्यम् च? संपूर्ण-कलशम् तथा । दधि क्राव्ण्नः इति उक्वा आग्नेय्याम् दधि विन्यसेथ् ॥ २२।६३ ॥
na śuktam dadhi gavyam ca? saṃpūrṇa-kalaśam tathā . dadhi krāvṇnaḥ iti ukvā āgneyyām dadhi vinyaseth .. 22.63 ..
सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा । अणोरणीयाऽ नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेथ् ॥ २२.६४ ॥
सद्यस् दुग्धम् पयः ग्राह्य मक्षतैः पूरितम् तथा । अणोः अणीयाः न् इति उक्त्वा यम-अग्न्योः मध्यमे न्यसेथ् ॥ २२।६४ ॥
sadyas dugdham payaḥ grāhya makṣataiḥ pūritam tathā . aṇoḥ aṇīyāḥ n iti uktvā yama-agnyoḥ madhyame nyaseth .. 22.64 ..
उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा । शुद्धोकेन संगृह्य कलशं परिपूरितं ॥ २२.६५ ॥
उशीर-अगरु-पर्णैः वा संयुक्तम् चन्दनेन वा । संगृह्य कलशम् परिपूरितम् ॥ २२।६५ ॥
uśīra-agaru-parṇaiḥ vā saṃyuktam candanena vā . saṃgṛhya kalaśam paripūritam .. 22.65 ..
यमनीलान्तरे तत्र अप्सरऽस्स्विति विन्यसेथ् । व्रीहिमाषयवैर्युक्तं सर्षपञ्चाक्षतं विदुः ॥ २२.६६ ॥
यम-नील-अन्तरे तत्र अप्सरःसु इति । व्रीहि-माष-यवैः युक्तम् सर्षपम् च अक्षतम् विदुः ॥ २२।६६ ॥
yama-nīla-antare tatra apsaraḥsu iti . vrīhi-māṣa-yavaiḥ yuktam sarṣapam ca akṣatam viduḥ .. 22.66 ..
तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकं । तत्राक्षतोदकेनैव संपूर्णं कलशं ततः ॥ २२.६७ ॥
तूर्य-घोष-समायुक्तम् मिश्रितम् च अक्षत-उदकम् । तत्र अक्षत-उदकेन एव संपूर्णम् कलशम् ततस् ॥ २२।६७ ॥
tūrya-ghoṣa-samāyuktam miśritam ca akṣata-udakam . tatra akṣata-udakena eva saṃpūrṇam kalaśam tatas .. 22.67 ..
इमा ओषधयऽ इत्युक्त्वा न्यसेन्नी लेऽक्षतोदकं । कदलीमातुलुङ्गाम्र पनसेर्नालिकेरकैः ॥ २२.६८ ॥
इमाः ओषधयः इति उक्त्वा न्यसेत् नी ले अक्षत-उदकम् । कदली-मातुलुङ्ग-आम्र-पनसेः नालिकेरकैः ॥ २२।६८ ॥
imāḥ oṣadhayaḥ iti uktvā nyaset nī le akṣata-udakam . kadalī-mātuluṅga-āmra-panaseḥ nālikerakaiḥ .. 22.68 ..
आर्द्रादिभिः फलैश्चान्यैर्यथालाभं समाहृतैः । फलैरर्धांशसंयुक्तं शेषं तोयेन पूरितं ॥ २२.६९ ॥
आर्द्र-आदिभिः फलैः च अन्यैः यथालाभम् समाहृतैः । फलैः अर्ध-अंश-संयुक्तम् शेषम् तोयेन पूरितम् ॥ २२।६९ ॥
ārdra-ādibhiḥ phalaiḥ ca anyaiḥ yathālābham samāhṛtaiḥ . phalaiḥ ardha-aṃśa-saṃyuktam śeṣam toyena pūritam .. 22.69 ..
फलोदकमिति प्रोक्तं कलशं संप्रसाथितं । नीलवारुणयोर्मध्ये सोमं राऽजेति विन्यसेत्, ॥ २२.७० ॥
फलोदकम् इति प्रोक्तम् कलशम् संप्रसाथितम् । नील-वारुणयोः मध्ये सोमम् रा अजा इति विन्यसेत्, ॥ २२।७० ॥
phalodakam iti proktam kalaśam saṃprasāthitam . nīla-vāruṇayoḥ madhye somam rā ajā iti vinyaset, .. 22.70 ..
कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितं । कुशोदकमिति प्रोक्तं कलशं तेन पूरितं ॥ २२.७१ ॥
कुश-अग्रैः अथ वा दूर्वैः अक्षतैः च समन्वितम् । कुश-उदकम् इति प्रोक्तम् कलशम् तेन पूरितम् ॥ २२।७१ ॥
kuśa-agraiḥ atha vā dūrvaiḥ akṣataiḥ ca samanvitam . kuśa-udakam iti proktam kalaśam tena pūritam .. 22.71 ..
वरुणोदानयोर्मध्ये "यतस्स्वऽमिति विन्यसेथ् । वज्रं नीलं प्रवालं च शङ्खजं शुक्तिजं तथा ॥ २२.७२ ॥
वरुण-उदानयोः मध्ये "विन्यसेथ् । वज्रम् नीलम् प्रवालम् च शङ्खजम् शुक्तिजम् तथा ॥ २२।७२ ॥
varuṇa-udānayoḥ madhye "vinyaseth . vajram nīlam pravālam ca śaṅkhajam śuktijam tathā .. 22.72 ..
एतानि पञ्चरत्नानि ततो मरतकं तथा । वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमाथ् ॥ २२.७३ ॥
एतानि पञ्चरत्नानि ततस् मरतकम् तथा । वैडूर्यम् पुष्यरागम् च गोमेधिकम् इति ॥ २२।७३ ॥
etāni pañcaratnāni tatas maratakam tathā . vaiḍūryam puṣyarāgam ca gomedhikam iti .. 22.73 ..
रत्नोदकमिति प्रोक्तं कलशं तेन पूरितं । वायव्ये सन्न्यसेद्विद्वा"नतो देवादिऽमुच्चरन् ॥ २२.७४ ॥
रत्नोदकम् इति प्रोक्तम् कलशम् तेन पूरितम् । वायव्ये सन् न्यसेत् विद् वा"नतः देव-आदि उच्चरन् ॥ २२।७४ ॥
ratnodakam iti proktam kalaśam tena pūritam . vāyavye san nyaset vid vā"nataḥ deva-ādi uccaran .. 22.74 ..
यथालाभं तथा रत्नसुवर्णसहितं क्रमाथ् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेथ् ॥ २२.७५ ॥
यथालाभम् तथा रत्न-सुवर्ण-सहितम् । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्त-युतम् जपेथ् ॥ २२।७५ ॥
yathālābham tathā ratna-suvarṇa-sahitam . vaiṣṇavam viṣṇusūktam ca puruṣasūkta-yutam japeth .. 22.75 ..
तथाभिमन्त्रितं तोयं जप्योदकमिति स्मृतं । कुबेरोदानयोर्मध्ये "ब्रह्मा देवानाऽमिति न्यसेथ् ॥ २२.७६ ॥
तथा अभिमन्त्रितम् तोयम् जप्य-उदकम् इति स्मृतम् । कुबेर-उदानयोः मध्ये "ब्रह्मा देवानाम् इति न्यसेथ् ॥ २२।७६ ॥
tathā abhimantritam toyam japya-udakam iti smṛtam . kubera-udānayoḥ madhye "brahmā devānām iti nyaseth .. 22.76 ..
फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः । सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेथ् ॥ २२.७७ ॥
फल-अन्ते तु वितुन्नाः स्युः ओषध्यः समुदाहृताः । सर्व-ओषधि-समायुक्तम् सर्व-ओषधि-उदकम् ॥ २२।७७ ॥
phala-ante tu vitunnāḥ syuḥ oṣadhyaḥ samudāhṛtāḥ . sarva-oṣadhi-samāyuktam sarva-oṣadhi-udakam .. 22.77 ..
तर्यांशेषु गृहीतं च कलशं पूर्णमंभसा । सोमेशानास्तरेचैव "चित्रं देवानाऽमिति न्यसेथ् ॥ २२.७८ ॥
तर्य-अंशेषु गृहीतम् च कलशम् पूर्णम् अंभसा । सोम-ईशान-आस्तरे इ च एव "चित्रम् देवानाम् इति न्यसेथ् ॥ २२।७८ ॥
tarya-aṃśeṣu gṛhītam ca kalaśam pūrṇam aṃbhasā . soma-īśāna-āstare i ca eva "citram devānām iti nyaseth .. 22.78 ..
एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा । गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेथ् ॥ २२.७९ ॥
एषाम् प्रत्येकम् एकम् तु कलशम् शुद्ध-वारिणा । गृहीत्वा तद्-उपस्नानम् विन्यसेथ् ॥ २२।७९ ॥
eṣām pratyekam ekam tu kalaśam śuddha-vāriṇā . gṛhītvā tad-upasnānam vinyaseth .. 22.79 ..
उपस्नाने तु कलशा"नतो देवाऽदिना न्यसेथ् । एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः ॥ २२.८० ॥
उपस्नाने तु कलशा"नतः देव-आदिना । एवम् प्रधान-कलशाः चतुर्विंशतिः ईरिताः ॥ २२।८० ॥
upasnāne tu kalaśā"nataḥ deva-ādinā . evam pradhāna-kalaśāḥ caturviṃśatiḥ īritāḥ .. 22.80 ..
अनुद्रव्याणि
नन्द्यावर्तं च पद्मं च तुलसी विष्णुपर्णिका । बिल्वं च करवीरं च पद्मं कुमुदमेव च ॥ २२.८१ ॥
नन्द्यावर्तम् च पद्मम् च तुलसी विष्णुपर्णिका । बिल्वम् च करवीरम् च पद्मम् कुमुदम् एव च ॥ २२।८१ ॥
nandyāvartam ca padmam ca tulasī viṣṇuparṇikā . bilvam ca karavīram ca padmam kumudam eva ca .. 22.81 ..
अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमं । दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि ॥ २२.८२ ॥
अष्ट वै पुण्य-पुष्पाणि ग्राह्याणि तु यथाक्रमम् । दिवा शुद्धम् तु बिल्वम् च कपिद्थम् बिल्व-वत् निशि ॥ २२।८२ ॥
aṣṭa vai puṇya-puṣpāṇi grāhyāṇi tu yathākramam . divā śuddham tu bilvam ca kapidtham bilva-vat niśi .. 22.82 ..
करवीरं दिवा शुद्धं निशि सितं? तथा शुचि । शरावेषु समाहृत्य पुष्पाणि तु पृथक्पृथक् ॥ २२.८३ ॥
दिवा? तथा शुचि । शरावेषु समाहृत्य पुष्पाणि तु पृथक् पृथक् ॥ २२।८३ ॥
divā? tathā śuci . śarāveṣu samāhṛtya puṣpāṇi tu pṛthak pṛthak .. 22.83 ..
इमास्सुमनसऽ इति मन्त्रेण यमनीलान्तरे न्यसेथ् । तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेथ् ॥ २२.८४ ॥
इमाः सुमनसः इति मन्त्रेण यम-नील-अन्तरे न्यसेथ् । तस्य उपस्नानम् एकम् तु तद्-पार्श्वे कलशम् ॥ २२।८४ ॥
imāḥ sumanasaḥ iti mantreṇa yama-nīla-antare nyaseth . tasya upasnānam ekam tu tad-pārśve kalaśam .. 22.84 ..
श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकं । तथा मसूरं दमनं जातीफलयुतं तथा ॥ २२.८५ ॥
श्रीवेष्टकम् यवम् मुद्गम् उशीरम् च एव रत्नकम् । तथा मसूरम् दमनम् जातीफल-युतम् तथा ॥ २२।८५ ॥
śrīveṣṭakam yavam mudgam uśīram ca eva ratnakam . tathā masūram damanam jātīphala-yutam tathā .. 22.85 ..
लवङ्गं च समाहृत्य चूर्णयित्वाक्रमेण वै । समाराध्यैव तच्चूर्णं शरावेषु च पूरयेथ् ॥ २२.८६ ॥
लवङ्गम् च समाहृत्य चूर्णयित्वा आक्रमेण वै । समाराध्य एव तत् चूर्णम् शरावेषु च ॥ २२।८६ ॥
lavaṅgam ca samāhṛtya cūrṇayitvā ākrameṇa vai . samārādhya eva tat cūrṇam śarāveṣu ca .. 22.86 ..
पङ्क्तीशाद्दक्षिणे चूर्णं वन्द्यो नऽइति विन्यसेथ् । एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकं ॥ २२.८७ ॥
पङ्क्तीशात् दक्षिणे चूर्णम् वन्द्यः नः एति विन्यसेथ् । एषाम् अलाभे चूर्णानाम् ग्राह्यम् ऐलादि-चूर्णकम् ॥ २२।८७ ॥
paṅktīśāt dakṣiṇe cūrṇam vandyaḥ naḥ eti vinyaseth . eṣām alābhe cūrṇānām grāhyam ailādi-cūrṇakam .. 22.87 ..
उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेथ् । अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ॥ २२.८८ ॥
उपस्नानम् तु तद्-पार्श्वे तु एकम् वै कलशम् । अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ॥ २२।८८ ॥
upasnānam tu tad-pārśve tu ekam vai kalaśam . aśvadthasya madhūkasya khadirasya vaṭasya ca .. 22.88 ..
वञ्जुलासनयोश्चापि चित्रवृक्षस्य च त्वचः । हृत्वोलूखलमध्ये च "उदुत्यऽमिति विन्यसेथ् ॥ २२.८९ ॥
वञ्जुल-आसनयोः च अपि चित्रवृक्षस्य च त्वचः । हृत्वा उलूखल-मध्ये च "विन्यसेथ् ॥ २२।८९ ॥
vañjula-āsanayoḥ ca api citravṛkṣasya ca tvacaḥ . hṛtvā ulūkhala-madhye ca "vinyaseth .. 22.89 ..
उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते । कषायं परिकल्प्यैव "ये ते शतऽमिति ब्रुवन् ॥ २२.९० ॥
उक्त-चर्मणि अलाभे तु अश्वद्थस्य विधीयते । कषायम् परिकल्प्य एव "ये ते शतम् इति ब्रुवन् ॥ २२।९० ॥
ukta-carmaṇi alābhe tu aśvadthasya vidhīyate . kaṣāyam parikalpya eva "ye te śatam iti bruvan .. 22.90 ..
वरुणोदानयोर्मध्ये कषायकलशं न्यसेथ् । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ॥ २२.९१ ॥
वरुण-उदानयोः मध्ये कषाय-कलशम् न्यसेथ् । उपस्नानम् तु तद्-पार्श्वे एकम् वै कलशम् ॥ २२।९१ ॥
varuṇa-udānayoḥ madhye kaṣāya-kalaśam nyaseth . upasnānam tu tad-pārśve ekam vai kalaśam .. 22.91 ..
सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करं । दूर्वा च सहदेवी च पाठा साह्वयमेव च ॥ २२.९२ ॥
सिंही च नकुल-व्याघ्र-नन्दा-आदित्यम् च पुष्करम् । दूर्वा च सहदेवी च पाठा साह्वयम् एव च ॥ २२।९२ ॥
siṃhī ca nakula-vyāghra-nandā-ādityam ca puṣkaram . dūrvā ca sahadevī ca pāṭhā sāhvayam eva ca .. 22.92 ..
एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ॥ २२.९३ ॥
एवम् वन-ओषधीः गृह्य सोम-वायू ओन्तु मध्यमे । उपस्नानम् तु तद्-पार्श्वे एकम् वै कलशम् ॥ २२।९३ ॥
evam vana-oṣadhīḥ gṛhya soma-vāyū ontu madhyame . upasnānam tu tad-pārśve ekam vai kalaśam .. 22.93 ..
नदीतटाककूपानां पल्वलस्य च वारिभिः । पृथक्संपूर्य कलशांश्चतुरस्तु समाहरेथ् ॥ २२.९४ ॥
नदी-तटाक-कूपानाम् पल्वलस्य च वारिभिः । पृथक् संपूर्य कलशान् चतुरः तु समाहरेथ् ॥ २२।९४ ॥
nadī-taṭāka-kūpānām palvalasya ca vāribhiḥ . pṛthak saṃpūrya kalaśān caturaḥ tu samāhareth .. 22.94 ..
तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेथ् । हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा ॥ २२.९५ ॥
तस्य एकम् कलशम् पार्श्वे उपस्नानम् तु विन्यसेथ् । हरेणुकम् च स्थौणेयम् पत्रम् व्याघ्रनखम् तथा ॥ २२।९५ ॥
tasya ekam kalaśam pārśve upasnānam tu vinyaseth . hareṇukam ca sthauṇeyam patram vyāghranakham tathā .. 22.95 ..
पर्णागरुं च द्यामाकं कचोरं चेरुवालकं । माञ्ची जातिफलैलांश्च लवङ्गं चन्दनं तथा ॥ २२.९६ ॥
पर्णागरुम् च द्यामाकम् कचोरम् चेरुवालकम् । माञ्ची जातिफला-एलान् च लवङ्गम् चन्दनम् तथा ॥ २२।९६ ॥
parṇāgarum ca dyāmākam kacoram ceruvālakam . māñcī jātiphalā-elān ca lavaṅgam candanam tathā .. 22.96 ..
कर्पूरं च बलोशीरस्थिरनारदमेव च? । कस्तुंबुरुं तथान्यानि सुगन्धीनि शुचीनि च ॥ २२.९७ ॥
कर्पूरम् च बल-उशीर-स्थिर-नारदम् एव च? । कस्तुंबुरुम् तथा अन्यानि सुगन्धीनि शुचीनि च ॥ २२।९७ ॥
karpūram ca bala-uśīra-sthira-nāradam eva ca? . kastuṃburum tathā anyāni sugandhīni śucīni ca .. 22.97 ..
प्राण्यङ्गं च पुरीषं च वर्जयित्वा समाहरेथ् । एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितं ॥ २२.९८ ॥
प्राणि-अङ्गम् च पुरीषम् च वर्जयित्वा समाहरेथ् । एतेषाम् अपि यत् चूर्णम् सूक्ष्मम् उत्पीड्य कल्पितम् ॥ २२।९८ ॥
prāṇi-aṅgam ca purīṣam ca varjayitvā samāhareth . eteṣām api yat cūrṇam sūkṣmam utpīḍya kalpitam .. 22.98 ..
सर्वगन्धमिति प्रोक्तं शरावेषु प्रपूरयेथ् । न्यसे"त्त्रातारऽमित्येव यक्षराजेशमध्यमे ॥ २२.९९ ॥
सर्वगन्धम् इति प्रोक्तम् शरावेषु । न्यसे"त्त्रातारम् इति एव यक्षराज-ईश-मध्यमे ॥ २२।९९ ॥
sarvagandham iti proktam śarāveṣu . nyase"ttrātāram iti eva yakṣarāja-īśa-madhyame .. 22.99 ..
तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च । नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, ॥ २२.१०० ॥
तद्-तद्-पार्श्वेण न्यसेत् तेषाम् उपस्नानम् तथा एव च । नवस्य स्निग्ध-वर्णस्य हारिद्रस्य प्रकल्पयेत्, ॥ २२।१०० ॥
tad-tad-pārśveṇa nyaset teṣām upasnānam tathā eva ca . navasya snigdha-varṇasya hāridrasya prakalpayet, .. 22.100 ..
चूर्णं तु कलशे क्षिप्त्वा संपूर्णं कलशं चरेथ् । पङ्क्तीशस्यैव पार्श्वेतु "सिनी वाऽलीति विन्यसेथ् ॥ २२.१०१ ॥
चूर्णम् तु कलशे क्षिप्त्वा संपूर्णम् कलशम् चरेथ् । पङ्क्तीशस्य एव पार्श्वेतु "सिनी वा अली इति विन्यसेथ् ॥ २२।१०१ ॥
cūrṇam tu kalaśe kṣiptvā saṃpūrṇam kalaśam careth . paṅktīśasya eva pārśvetu "sinī vā alī iti vinyaseth .. 22.101 ..
तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववथ् । पालाशदूर्वापामार्गनन्द्यावर्तदलानि च ॥ २२.१०२ ॥
तस्य पार्श्वे न्यसेत् एकम् उपस्नानम् तु । पालाश-दूर्वा-अपामार्ग-नन्द्यावर्त-दलानि च ॥ २२।१०२ ॥
tasya pārśve nyaset ekam upasnānam tu . pālāśa-dūrvā-apāmārga-nandyāvarta-dalāni ca .. 22.102 ..
करवीरस्य पत्राणि कुशपत्राणि चैव हि । मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः ॥ २२.१०३ ॥
करवीरस्य पत्राणि कुश-पत्राणि च एव हि । मूल-गन्ध-अर्थम् आहृत्य तस्य पार्श्वे न्यसेत् बुधः ॥ २२।१०३ ॥
karavīrasya patrāṇi kuśa-patrāṇi ca eva hi . mūla-gandha-artham āhṛtya tasya pārśve nyaset budhaḥ .. 22.103 ..
शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववथ् । वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतन्तुना ॥ २२.१०४ ॥
शुद्ध-उद-कलशम् स्थाप्येत् उपस्नानम् च । वस्त्र-युग्मम् नवम् सूक्ष्मम् कृतम् कार्पास-तन्तुना ॥ २२।१०४ ॥
śuddha-uda-kalaśam sthāpyet upasnānam ca . vastra-yugmam navam sūkṣmam kṛtam kārpāsa-tantunā .. 22.104 ..
प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेथ् । विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे ॥ २२.१०५ ॥
समाहृत्य शुद्ध-पात्रे तु निक्षिपेथ् । विष्णुगायत्रिया स्थाप्य यक्षराज-ईश-मध्यमे ॥ २२।१०५ ॥
samāhṛtya śuddha-pātre tu nikṣipeth . viṣṇugāyatriyā sthāpya yakṣarāja-īśa-madhyame .. 22.105 ..
प्लोतपार्श्वेन्यसेत्तानि "ब्रह्मजज्ञानऽमित्यपि । जातिं हिङ्गुलिकं चैव अञ्जनं च मनश्शिलां ॥ २२.१०६ ॥
प्लोत-पार्श्वेन न्यसेत् तानि "इति अपि । जातिम् हिङ्गुलिकम् च एव अञ्जनम् च मनश्शिलाम् ॥ २२।१०६ ॥
plota-pārśvena nyaset tāni "iti api . jātim hiṅgulikam ca eva añjanam ca manaśśilām .. 22.106 ..
गोरोचनं च गिरिकमिति धातून्त्समाहरेथ् । एतानि चूर्णयित्वातु शरावेषु पृथक्पृथक् ॥ २२.१०७ ॥
गोरोचनम् च गिरिकम् इति धातून् समाहरेथ् । एतानि चूर्णयित्वा तु शरावेषु पृथक् पृथक् ॥ २२।१०७ ॥
gorocanam ca girikam iti dhātūn samāhareth . etāni cūrṇayitvā tu śarāveṣu pṛthak pṛthak .. 22.107 ..
प्रक्षिप्य "जातवेऽदेति न्यसेत्तत्रैव पूर्ववथ् । एकादशानुकरणे कलशांश्चैव पूरयेथ् ॥ २२.१०८ ॥
प्रक्षिप्य "न्यसेत् तत्र एव । एकादश अनुकरणे कलशान् च एव ॥ २२।१०८ ॥
prakṣipya "nyaset tatra eva . ekādaśa anukaraṇe kalaśān ca eva .. 22.108 ..
अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखण्डितं । वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकं ॥ २२.१०९ ॥
अहतम् च सु माक्ष्मम् च वस्त्र-युग्मम् अखण्डितम् । वस्त्रम् यज्ञोपवीतम् च पवित्रम् भूषण-आदिकम् ॥ २२।१०९ ॥
ahatam ca su mākṣmam ca vastra-yugmam akhaṇḍitam . vastram yajñopavītam ca pavitram bhūṣaṇa-ādikam .. 22.109 ..
एवमादीनि संगृह्य सोमेशानान्तरे न्यसेथ् । विन्यस्य कलशांश्चैव तथा चूर्णान्पृथक्पृथक् ॥ २२.११० ॥
एवमादीनि संगृह्य सोम-ईशान-अन्तरे न्यसेथ् । विन्यस्य कलशान् च एव तथा चूर्णान् पृथक् पृथक् ॥ २२।११० ॥
evamādīni saṃgṛhya soma-īśāna-antare nyaseth . vinyasya kalaśān ca eva tathā cūrṇān pṛthak pṛthak .. 22.110 ..
वस्त्रैरावेष्ट्य तान्त्सर्वान्पुनःकूर्चानि निक्षिपेथ् । उत्कूर्चं वाप्यधःकूर्चं प्रागग्रं वोदगग्रकं ॥ २२.१११ ॥
वस्त्रैः आवेष्ट्य तान् सर्वान् पुनर् कूर्चानि निक्षिपेथ् । उत्कूर्चम् वा अपि अधस् कूर्चम् प्राच्-अग्रम् वा उदक्-अग्रकम् ॥ २२।१११ ॥
vastraiḥ āveṣṭya tān sarvān punar kūrcāni nikṣipeth . utkūrcam vā api adhas kūrcam prāc-agram vā udak-agrakam .. 22.111 ..
विन्यस्य तेषु कूर्चानि शरावे रपिधाय च । प्रणम्य देवदेवेशं द्रव्यार्चसमथारभेथ् ॥ २२.११२ ॥
विन्यस्य तेषु कूर्चानि शरावे च । प्रणम्य देवदेवेशम् द्रव्य-अर्चसम् अथ आरभेथ् ॥ २२।११२ ॥
vinyasya teṣu kūrcāni śarāve ca . praṇamya devadeveśam dravya-arcasam atha ārabheth .. 22.112 ..
ततश्चर्यापदान्तेषु जयाद्यप्सरसोर्ऽचयेथ् । जयां च विजयां विन्दांनन्दकां पुष्टिकामपि ॥ २२.११३ ॥
ततस् चर्या-पद-अन्तेषु जय-आदि-अप्सरसोः अचयेथ् । जयाम् च विजयाम् विन्दाम् नन्दकाम् पुष्टिकाम् अपि ॥ २२।११३ ॥
tatas caryā-pada-anteṣu jaya-ādi-apsarasoḥ acayeth . jayām ca vijayām vindām nandakām puṣṭikām api .. 22.113 ..
कुमुद्वतीमुत्पलकां विशोकां च समर्चयेथ् । प्रागादिवेद्याः परितः पङ्क्तौ पङ्क्तीशमर्चयेथ् ॥ २२.११४ ॥
कुमुद्वतीम् उत्पलकाम् विशोकाम् च समर्चयेथ् । प्राच्-आदि-वेद्याः परितस् पङ्क्तौ पङ्क्तीशम् अर्चयेथ् ॥ २२।११४ ॥
kumudvatīm utpalakām viśokām ca samarcayeth . prāc-ādi-vedyāḥ paritas paṅktau paṅktīśam arcayeth .. 22.114 ..
विष्वक्सेनं ततः पश्चादिन्द्रादींश्च समर्चयेथ् । द्रव्यदेवार्चनम् मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः ॥ २२.११५ ॥
विष्वक्सेनम् ततस् पश्चात् इन्द्र-आदीन् च । द्रव्य-देव-अर्चनम् मृद् देवता तु भूदेवी पर्वत-ईशः तु पावकः ॥ २२।११५ ॥
viṣvaksenam tatas paścāt indra-ādīn ca . dravya-deva-arcanam mṛd devatā tu bhūdevī parvata-īśaḥ tu pāvakaḥ .. 22.115 ..
वायुर्वैधान्यदेवस्स्याद्गरुडा ओंकुरदेवता । मङ्गलाधिपतिश्शक्रःपञ्चगव्याधिपश्शिवः ॥ २२.११६ ॥
वायुः वैधान्य-देवः स्यात् गरुडा ओंकुर-देवता । मङ्गल-अधिपतिः शक्रः पञ्चगव्य-अधिपः शिवः ॥ २२।११६ ॥
vāyuḥ vaidhānya-devaḥ syāt garuḍā oṃkura-devatā . maṅgala-adhipatiḥ śakraḥ pañcagavya-adhipaḥ śivaḥ .. 22.116 ..
तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः । सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः ॥ २२.११७ ॥
तथा एव विश्वेदेवाः च उपस्नान-अधिदेवताः । सामवेदः घृत-ईशः स्यात् उपस्नाने तु वत्सराः ॥ २२।११७ ॥
tathā eva viśvedevāḥ ca upasnāna-adhidevatāḥ . sāmavedaḥ ghṛta-īśaḥ syāt upasnāne tu vatsarāḥ .. 22.117 ..
ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः । यजुर्वेदो दधीशोऽभूदुपस्ना कपर्दिनः ॥ २२.११८ ॥
ऋग्वेदः मधुदेवः स्यात् उपस्नाने तु वायवः । यजुर्वेदः दधीशः अभूत् उपस्ना कपर्दिनः ॥ २२।११८ ॥
ṛgvedaḥ madhudevaḥ syāt upasnāne tu vāyavaḥ . yajurvedaḥ dadhīśaḥ abhūt upasnā kapardinaḥ .. 22.118 ..
क्षीरे त्वधर्ववेदश्च उपस्नानेऽश्विनौ तथा । गन्धोदके षडृतवो मरुतस्तदनन्तरे ॥ २२.११९ ॥
क्षीरे उपस्नाने अश्विनौ तथा । गन्ध-उदके षट् ऋतवः मरुतः तद्-अनन्तरे ॥ २२।११९ ॥
kṣīre upasnāne aśvinau tathā . gandha-udake ṣaṭ ṛtavaḥ marutaḥ tad-anantare .. 22.119 ..
अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः । सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे ॥ २२.१२० ॥
अक्षत-उदे विश्वमूर्तिः उपस्नाने बृहस्पतिः । सोमः फल-उदक-ईशः स्यात् अनन्तः तद्-अनन्तरे ॥ २२।१२० ॥
akṣata-ude viśvamūrtiḥ upasnāne bṛhaspatiḥ . somaḥ phala-udaka-īśaḥ syāt anantaḥ tad-anantare .. 22.120 ..
कुशोदके च मुनय उपस्नाने तु तक्षकः । विष्णूरत्नोदकेशस्स्याद्गन्धर्वास्तनदन्तरे ॥ २२.१२१ ॥
कुश-उदके च मुनयः उपस्नाने तु तक्षकः । विष्णूरत्न-उदकेशः स्यात् गन्धर्व-आस्तनत्-अन्तरे ॥ २२।१२१ ॥
kuśa-udake ca munayaḥ upasnāne tu takṣakaḥ . viṣṇūratna-udakeśaḥ syāt gandharva-āstanat-antare .. 22.121 ..
मन्त्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः । सर्वौषध्युदके भानुरुपस्नानेऽप्सरोगणाः ॥ २२.१२२ ॥
मन्त्रः रत्न-उदक-ईशः स्यात् उपस्नाने तु पुष्पजाः । सर्व-ओषधि-उदके भानुः उपस्नाने अप्सरः-गणाः ॥ २२।१२२ ॥
mantraḥ ratna-udaka-īśaḥ syāt upasnāne tu puṣpajāḥ . sarva-oṣadhi-udake bhānuḥ upasnāne apsaraḥ-gaṇāḥ .. 22.122 ..
पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनं ।
पुण्य-पुष्पेषु धातारम् चूर्णेषु अपि अनपायिनम् ।
puṇya-puṣpeṣu dhātāram cūrṇeṣu api anapāyinam .
वरुणः
कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः ॥ २२.१२३ ॥
कषाय-देवः स्यात् तीर्थे च एव जगद्भुवः ॥ २२।१२३ ॥
kaṣāya-devaḥ syāt tīrthe ca eva jagadbhuvaḥ .. 22.123 ..
वनौषधीशो रुद्रोऽभूच्छिनीवाली हरिद्रके । उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः ॥ २२.१२४ ॥
वन-ओषधीशः रुद्रः अभूत् शिनीवाली हरिद्रके । तु राका स्यात् सर्वगन्धे शतक्रतुः ॥ २२।१२४ ॥
vana-oṣadhīśaḥ rudraḥ abhūt śinīvālī haridrake . tu rākā syāt sarvagandhe śatakratuḥ .. 22.124 ..
ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरं । धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन् ॥ २२.१२५ ॥
ब्रह्माणम् प्लोत-वस्त्रे पुरन्दरम् । धातुषु अपि च दुर्गाम् च तद्-तद्-द्रव्य-धरम् स्मरन् ॥ २२।१२५ ॥
brahmāṇam plota-vastre purandaram . dhātuṣu api ca durgām ca tad-tad-dravya-dharam smaran .. 22.125 ..
त्रयोदशोपचारैश्च मूर्तिमन्त्रैरथार्ऽचयेथ् । उपस्नानेषु चान्येषु वरुणं च तथार्ऽचयेथ् ॥ २२.१२६ ॥
त्रयोदश-उपचारैः च मूर्ति-मन्त्रैः अथ आर्ऽचयेथ् । उपस्नानेषु च अन्येषु वरुणम् च तथा आर्ऽचयेथ् ॥ २२।१२६ ॥
trayodaśa-upacāraiḥ ca mūrti-mantraiḥ atha ār'cayeth . upasnāneṣu ca anyeṣu varuṇam ca tathā ār'cayeth .. 22.126 ..
आचार्य पूजयित्वातु वस्त्रैराभरणैस्तथा । शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः ॥ २२.१२७ ॥
आचार्य पूजयित्वा तु वस्त्रैः आभरणैः तथा । शिष्यम् च पूजयेत् पश्चात् यजमानः स्व-शक्तितः ॥ २२।१२७ ॥
ācārya pūjayitvā tu vastraiḥ ābharaṇaiḥ tathā . śiṣyam ca pūjayet paścāt yajamānaḥ sva-śaktitaḥ .. 22.127 ..
ततो गुरुःप्रसन्नात्मा देवेशं संप्रणम्य च । अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः ॥ २२.१२८ ॥
ततस् गुरुः प्रसन्न-आत्मा देवेशम् संप्रणम्य च । अष्ट-उपचारैः अभ्यर्च्य स्नपन-अवसरम् ततस् ॥ २२।१२८ ॥
tatas guruḥ prasanna-ātmā deveśam saṃpraṇamya ca . aṣṭa-upacāraiḥ abhyarcya snapana-avasaram tatas .. 22.128 ..
विज्ञाप्य हरये सम्यक्पश्चात्कार्यं समाचरेथ् । रक्षस्व त्वऽमिति प्रोच्य द्रव्यदेवं प्रणम्य च ॥ २२.१२९ ॥
विज्ञाप्य हरये सम्यक् पश्चात् कार्यम् समाचरेथ् । रक्षस्व त्वम् इति प्रोच्य द्रव्यदेवम् प्रणम्य च ॥ २२।१२९ ॥
vijñāpya haraye samyak paścāt kāryam samācareth . rakṣasva tvam iti procya dravyadevam praṇamya ca .. 22.129 ..
शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते । आज्ञापयेद्गुरुश्शिष्यं हरस्वेदऽमिति ब्रुवन् ॥ २२.१३० ॥
शिष्यः तु नम्र-कायः सन् आचार्य-आज्ञाम् प्रतीक्षते । आज्ञापयेत् गुरुः शिष्यम् हरस्व इदम् इति ब्रुवन् ॥ २२।१३० ॥
śiṣyaḥ tu namra-kāyaḥ san ācārya-ājñām pratīkṣate . ājñāpayet guruḥ śiṣyam harasva idam iti bruvan .. 22.130 ..
तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेथ् । अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः ॥ २२.१३१ ॥
तत् तत् द्रव्यम् समादाय शिष्यः तस्मै । अद्भिः प्रोक्ष्य समादाय तत् द्रव्यम् गुरुः अत्वरः ॥ २२।१३१ ॥
tat tat dravyam samādāya śiṣyaḥ tasmai . adbhiḥ prokṣya samādāya tat dravyam guruḥ atvaraḥ .. 22.131 ..
प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेथ् । ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च ॥ २२.१३२ ॥
तु समुच्चार्य तत्र कार्यम् समाचरेथ् । ललाट-अन्तम् समुद्धृत्य देवदेवम् प्रणम्य च ॥ २२।१३२ ॥
tu samuccārya tatra kāryam samācareth . lalāṭa-antam samuddhṛtya devadevam praṇamya ca .. 22.132 ..
तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणं । तद्द्रव्यनाम संयोज्य तन्मन्त्रान्ते तु कारयेथ् ॥ २२.१३३ ॥
तद्-द्रव्येण सकृत् त्रिस् वा देवेशस्य प्रदक्षिणम् । तद्-द्रव्य-नाम संयोज्य तद्-मन्त्र-अन्ते तु ॥ २२।१३३ ॥
tad-dravyeṇa sakṛt tris vā deveśasya pradakṣiṇam . tad-dravya-nāma saṃyojya tad-mantra-ante tu .. 22.133 ..
अतो देवाऽदितिमन्त्रेण देवदेवं प्रणम्य च । विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं ॥ २२.१३४ ॥
अतस् देवाः अदिति-मन्त्रेण देवदेवम् प्रणम्य च । विष्णुम् च पुरुषम् सत्यम् अच्युतम् च अनिरुद्धकम् ॥ २२।१३४ ॥
atas devāḥ aditi-mantreṇa devadevam praṇamya ca . viṣṇum ca puruṣam satyam acyutam ca aniruddhakam .. 22.134 ..
एवं मन्त्रं समुच्चार्य तत्र कार्यं समाचरेथ् । क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेथ् ॥ २२.१३५ ॥
एवम् मन्त्रम् समुच्चार्य तत्र कार्यम् समाचरेथ् । क्रिया-अन्ते पात्रम् आदाय पूर्व-स्थाने निवेशयेथ् ॥ २२।१३५ ॥
evam mantram samuccārya tatra kāryam samācareth . kriyā-ante pātram ādāya pūrva-sthāne niveśayeth .. 22.135 ..
स्नपनप्रयोगः एकाक्षरेणऽ मन्त्रेण प्रोक्ष्यं गृह्य प्रदक्षिणं । कूर्चेनादाय संस्राव्य मूर्ध्निवै स्नापयेन्मृदा ॥ २२.१३६ ॥
स्नपन-प्रयोगः एक-अक्षरेण मन्त्रेण प्रोक्ष्यम् गृह्य प्रदक्षिणम् । कूर्चेन आदाय संस्राव्य मूर्ध्नि वै स्नापयेत् मृदा ॥ २२।१३६ ॥
snapana-prayogaḥ eka-akṣareṇa mantreṇa prokṣyam gṛhya pradakṣiṇam . kūrcena ādāya saṃsrāvya mūrdhni vai snāpayet mṛdā .. 22.136 ..
विश्वे निमग्नऽइत्युक्त्वापर्वतेन प्रदक्षिणं । धान्येन स्नापयेच्चैव प्राणप्रसूतिऽमुच्चरन् ॥ २२.१३७ ॥
विश्वे निमग्नः इति उक्त्वा अ पर्वतेन प्रदक्षिणम् । धान्येन स्नापयेत् च एव प्राणप्रसूतिम् उच्चरन् ॥ २२।१३७ ॥
viśve nimagnaḥ iti uktvā a parvatena pradakṣiṇam . dhānyena snāpayet ca eva prāṇaprasūtim uccaran .. 22.137 ..
वितत्य बाणऽमित्युक्त्वा अङ्कुरैरेव चार्ऽचयेथ् । त्वं यऽज्ञेति च मन्त्रेण मङ्गलैश्च प्रदक्षिणं ॥ २२.१३८ ॥
वितत्य बाणम् इति उक्त्वा अङ्कुरैः एव । त्वम् च मन्त्रेण मङ्गलैः च प्रदक्षिणम् ॥ २२।१३८ ॥
vitatya bāṇam iti uktvā aṅkuraiḥ eva . tvam ca mantreṇa maṅgalaiḥ ca pradakṣiṇam .. 22.138 ..
वसोः पवित्रऽमित्युक्त्वा पञ्चगव्याभिषेचनं । वारीश्चतस्रऽइत्युक्त्वा सर्वोपस्नानमाचरेथ् ॥ २२.१३९ ॥
वसोः पवित्रम् इति उक्त्वा पञ्चगव्य-अभिषेचनम् । वारीः चतस्रः इति उक्त्वा सर्व-उपस्नानम् आचरेथ् ॥ २२।१३९ ॥
vasoḥ pavitram iti uktvā pañcagavya-abhiṣecanam . vārīḥ catasraḥ iti uktvā sarva-upasnānam ācareth .. 22.139 ..
अग्न आयाहिऽ मन्त्रेण घृतेनैवाभिषे चयेथ् । अग्निमीलेति मन्त्रेण मधुनैवाभिषेचयेथ् ॥ २२.१४० ॥
अग्ने आयाहि मन्त्रेण घृतेन एव अभिषे चयेथ् । अग्निमीला इति मन्त्रेण मधुना एव अभिषेचयेथ् ॥ २२।१४० ॥
agne āyāhi mantreṇa ghṛtena eva abhiṣe cayeth . agnimīlā iti mantreṇa madhunā eva abhiṣecayeth .. 22.140 ..
दध्माभिषेचयेत्पश्चा"दिषे त्वेऽति समुच्चरन् । शन्नो देवीरऽभीत्युक्त्वा क्षीरेणैवाभिषेचयेथ् ॥ २२.१४१ ॥
दध्म अभिषेचयेत् पश्चा"दिषे त्वे अति समुच्चरन् । शत् नः देवीः अभि इति उक्त्वा क्षीरेण एव अभिषेचयेथ् ॥ २२।१४१ ॥
dadhma abhiṣecayet paścā"diṣe tve ati samuccaran . śat naḥ devīḥ abhi iti uktvā kṣīreṇa eva abhiṣecayeth .. 22.141 ..
अभि त्वा शूरऽइत्युक्त्वा स्नापयेद्गन्धवारिणा । इमा ओषधयऽइत्युक्त्वा स्नापयेदक्षतोदकैः ॥ २२.१४२ ॥
अभि त्वा शूरः इति उक्त्वा स्नापयेत् गन्ध-वारिणा । इमाः ओषधयः इति उक्त्वा स्नापयेत् अक्षत-उदकैः ॥ २२।१४२ ॥
abhi tvā śūraḥ iti uktvā snāpayet gandha-vāriṇā . imāḥ oṣadhayaḥ iti uktvā snāpayet akṣata-udakaiḥ .. 22.142 ..
जपन्दऽत्वेति चोच्छार्य फलोदैश्चाभिषेचयेथ् । चत्वाऽरीति च मन्त्रेण कुशोदैश्चाभिषेचयेथ् ॥ २२.१४३ ॥
जपन् द-त्वा इति च उच्छार्य फल-उदैः च अभिषेचयेथ् । चत्वारि इति च मन्त्रेण कुश-उदैः च अभिषेचयेथ् ॥ २२।१४३ ॥
japan da-tvā iti ca ucchārya phala-udaiḥ ca abhiṣecayeth . catvāri iti ca mantreṇa kuśa-udaiḥ ca abhiṣecayeth .. 22.143 ..
तत्पुरुषाऽयेति मन्त्रेण रत्नोदैश्चाभिषेचयेथ् । पूत स्तऽन्येति मन्त्रेण जप्योदैरभिषेचयेथ् ॥ २२.१४४ ॥
मन्त्रेण रत्न-उदैः च अभिषेचयेथ् । मन्त्रेण जप्य-उदैः अभिषेचयेथ् ॥ २२।१४४ ॥
mantreṇa ratna-udaiḥ ca abhiṣecayeth . mantreṇa japya-udaiḥ abhiṣecayeth .. 22.144 ..
चत्वारि श्रुंगेत्युच्चार्य सर्यौषध्युदकैश्चरेथ् । धाता विधाऽतेत्युच्चार्य पुण्यपुष्पैरथार्चयेथ् ॥ २२.१४५ ॥
चत्वारि श्रुंगा इति उच्चार्य सर्य-ओषधि-उदकैः चरेथ् । धाता विधा अत इति उच्चार्य पुण्य-पुष्पैः अथ अर्चयेथ् ॥ २२।१४५ ॥
catvāri śruṃgā iti uccārya sarya-oṣadhi-udakaiḥ careth . dhātā vidhā ata iti uccārya puṇya-puṣpaiḥ atha arcayeth .. 22.145 ..
ऋचो यजूंषिऽ मन्त्रेण चूर्णेन स्नापयेद्गुरुः । स एष देवऽ उच्चार्य उद्वर्तेत कषायकैः ॥ २२.१४६ ॥
ऋचः यजूंषि मन्त्रेण चूर्णेन स्नापयेत् गुरुः । सः एष देवः उच्चार्यः उद्वर्तेत कषायकैः ॥ २२।१४६ ॥
ṛcaḥ yajūṃṣi mantreṇa cūrṇena snāpayet guruḥ . saḥ eṣa devaḥ uccāryaḥ udvarteta kaṣāyakaiḥ .. 22.146 ..
स सर्ववेत्ताऽमन्त्रेण तीर्थोदेश्चाभिषेचयेथ् । सामैश्च सांगऽमित्युक्त्वा मार्जयेच्च वनौषधीः ॥ २२.१४७ ॥
स सर्व-वेत्ता अ मन्त्रेण तीर्थ-उदेः च अभिषेचयेथ् । सामैः च सांगम् इति उक्त्वा मार्जयेत् च वन-ओषधीः ॥ २२।१४७ ॥
sa sarva-vettā a mantreṇa tīrtha-udeḥ ca abhiṣecayeth . sāmaiḥ ca sāṃgam iti uktvā mārjayet ca vana-oṣadhīḥ .. 22.147 ..
हारिद्रचूर्णैस्संस्नाप्य अतो देवाऽ इति ब्रुवन् । त्वं स्त्रीपुमाऽनित्युच्चार्य लेपयेत्सर्वगन्धकैः ॥ २२.१४८ ॥
हारिद्र-चूर्णैः संस्नाप्य अतस् देवाः इति ब्रुवन् । त्वम् स्त्री-पुमान् अन् इति उच्चार्य लेपयेत् सर्व-गन्धकैः ॥ २२।१४८ ॥
hāridra-cūrṇaiḥ saṃsnāpya atas devāḥ iti bruvan . tvam strī-pumān an iti uccārya lepayet sarva-gandhakaiḥ .. 22.148 ..
स्नापयेदुष्णतोयेन आपो हिऽष्ठेति चोच्चरन् । नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेथ् ॥ २२.१४९ ॥
स्नापयेत् उष्ण-तोयेन आपः च उच्चरन् । नित्य-स्नान-उक्त-मार्गेण ॥ २२।१४९ ॥
snāpayet uṣṇa-toyena āpaḥ ca uccaran . nitya-snāna-ukta-mārgeṇa .. 22.149 ..
तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च । धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः ॥ २२.१५० ॥
तद्-तद्-द्रव्य-अभिषेक-अन्ते स्नान-वस्त्रम् विसृज्य च । धौतम् समर्पयेत् च एव पूजयेत् अष्ट-विग्रहैः ॥ २२।१५० ॥
tad-tad-dravya-abhiṣeka-ante snāna-vastram visṛjya ca . dhautam samarpayet ca eva pūjayet aṣṭa-vigrahaiḥ .. 22.150 ..
मित्रस्सुवर्णऽइत्युक्त्वा प्लोतेन परिमृज्य च । वस्त्राद्यैस्समलङ्कृत्य पूर्वोक्तेनैव कारयेथ् ॥ २२.१५१ ॥
मित्रः सुवर्णः इति उक्त्वा प्लोतेन परिमृज्य च । वस्त्र-आद्यैः समलङ्कृत्य पूर्व-उक्तेन एव ॥ २२।१५१ ॥
mitraḥ suvarṇaḥ iti uktvā plotena parimṛjya ca . vastra-ādyaiḥ samalaṅkṛtya pūrva-uktena eva .. 22.151 ..
त्वं भूर्भुवस्त्वंऽमन्त्रेण मूलगन्धेन मार्जयेथ् । बुद्धिमताऽमित्युच्चार्य चालङ्कुर्याच्च धातुभिः ॥ २२.१५२ ॥
त्वम् भूः भुवः त्वम् अ मन्त्रेण मूल-गन्धेन मार्जयेथ् । बुद्धिमता अम् इति उच्चार्य च अलङ्कुर्यात् च धातुभिः ॥ २२।१५२ ॥
tvam bhūḥ bhuvaḥ tvam a mantreṇa mūla-gandhena mārjayeth . buddhimatā am iti uccārya ca alaṅkuryāt ca dhātubhiḥ .. 22.152 ..
पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणं । स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाथ कारयेथ् ॥ २२.१५३ ॥
पाद्यम् आचमनम् दद्यात् आलयस्य प्रदक्षिणम् । स्वस्ति-सूक्त-आदि-सूक्तम् च च एव अथ ॥ २२।१५३ ॥
pādyam ācamanam dadyāt ālayasya pradakṣiṇam . svasti-sūkta-ādi-sūktam ca ca eva atha .. 22.153 ..
अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः । महाहाविः प्रभूतं वा यथाशक्ति निवेदयेथ् ॥ २२.१५४ ॥
अर्चा-स्थाने तु संस्थाप्य पूजयित्वा उक्त-मार्गतः । महाहा अविस् प्रभूतम् वा यथाशक्ति निवेदयेथ् ॥ २२।१५४ ॥
arcā-sthāne tu saṃsthāpya pūjayitvā ukta-mārgataḥ . mahāhā avis prabhūtam vā yathāśakti nivedayeth .. 22.154 ..
निष्काधिकं सुवर्णं च सवत्सामपि गां तथा । गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च ॥ २२.१५५ ॥
निष्क-अधिकम् सुवर्णम् च स वत्साम् अपि गाम् तथा । गुरवे दक्षिणाम् दद्यात् स्नापकानाम् तथा एव च ॥ २२।१५५ ॥
niṣka-adhikam suvarṇam ca sa vatsām api gām tathā . gurave dakṣiṇām dadyāt snāpakānām tathā eva ca .. 22.155 ..
तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणां । दद्यात्कर्मफलं प्राप्य यजमानोऽथ भक्तिमान् ॥ २२.१५६ ॥
तत्र अन्य-कर्म-कर्तॄणाम् यथाशक्त्या च दक्षिणाम् । दद्यात् कर्म-फलम् प्राप्य यजमानः अथ भक्तिमान् ॥ २२।१५६ ॥
tatra anya-karma-kartṝṇām yathāśaktyā ca dakṣiṇām . dadyāt karma-phalam prāpya yajamānaḥ atha bhaktimān .. 22.156 ..
स्नपनायत्तमुद्दिष्टधान्यद्रव्यांबराणि च । पात्राणि च तथान्यानि स्नपनान्ते धृतानि च ॥ २२.१५७ ॥
स्नपन-आयत्तम् उद्दिष्ट-धान्य-द्रव्य-अंबराणि च । पात्राणि च तथा अन्यानि स्नपन-अन्ते धृतानि च ॥ २२।१५७ ॥
snapana-āyattam uddiṣṭa-dhānya-dravya-aṃbarāṇi ca . pātrāṇi ca tathā anyāni snapana-ante dhṛtāni ca .. 22.157 ..
निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः । ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेथ् ॥ २२.१५८ ॥
निवेदयित्वा गुरवे प्रणमेत् च मुहुर् मुहुर् । ध्रुवा अर्चना यदि स्यात् तु प्रमुखे स्नपनम् ॥ २२।१५८ ॥
nivedayitvā gurave praṇamet ca muhur muhur . dhruvā arcanā yadi syāt tu pramukhe snapanam .. 22.158 ..
वितानस्तंभवेष्टादिपूर्ववत्कारयेत्ततः । पञ्चहस्ताभेदेषु पङ्क्तिं कुर्याद्विधानतः ॥ २२.१५९ ॥
वितान-स्तंभ-वेष्ट-आदि-पूर्ववत् कारयेत् ततस् । पञ्च-हस्ता भेदेषु पङ्क्तिम् कुर्यात् विधानतः ॥ २२।१५९ ॥
vitāna-staṃbha-veṣṭa-ādi-pūrvavat kārayet tatas . pañca-hastā bhedeṣu paṅktim kuryāt vidhānataḥ .. 22.159 ..
मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववथ् । ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशं ॥ २२.१६० ॥
मध्ये कुभम् च स्न्यस्य अर्चयित्वा च । ध्रुव-पीठस्य परितस् कूर्च-युक्तम् चतुर्दिशम् ॥ २२।१६० ॥
madhye kubham ca snyasya arcayitvā ca . dhruva-pīṭhasya paritas kūrca-yuktam caturdiśam .. 22.160 ..
जयादीरर्चयित्वातु मृदादीन्पूर्ववत्क्रमाथ् । तत्पात्रं संप्रगृह्यैव पाणिभ्यां क्षालनं चरेथ् ॥ २२.१६१ ॥
जय-आदीः अर्चयित्वा तु मृद्-आदीन् पूर्ववत् । तत् पात्रम् संप्रगृह्य एव पाणिभ्याम् क्षालनम् चरेथ् ॥ २२।१६१ ॥
jaya-ādīḥ arcayitvā tu mṛd-ādīn pūrvavat . tat pātram saṃpragṛhya eva pāṇibhyām kṣālanam careth .. 22.161 ..
अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेथ् । द्रव्यं प्रति विशेषेण पूरयित्वार्ऽचयेत्क्रमाथ् ॥ २२.१६२ ॥
अथ वा पात्रम् आदाय । द्रव्यम् प्रति विशेषेण पूरयित्वा आ ऋचयेत् क्रमाथ् ॥ २२।१६२ ॥
atha vā pātram ādāya . dravyam prati viśeṣeṇa pūrayitvā ā ṛcayet kramāth .. 22.162 ..
पाद्यं चाचमनं पुष्पं गन्धं धूपं तथैव च । दीपमर्घ्यं तथाचाममर्चयित्वाष्टविग्रहैः ॥ २२.१६३ ॥
पाद्यम् च आचमनम् पुष्पम् गन्धम् धूपम् तथा एव च । दीपम् अर्घ्यम् तथा आचामम् अर्चयित्वा अष्ट-विग्रहैः ॥ २२।१६३ ॥
pādyam ca ācamanam puṣpam gandham dhūpam tathā eva ca . dīpam arghyam tathā ācāmam arcayitvā aṣṭa-vigrahaiḥ .. 22.163 ..
देवदेवं नमस्कृत्य प्रदक्षिणमथाचरेथ् । देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना ॥ २२.१६४ ॥
देवदेवम् नमस्कृत्य प्रदक्षिणम् अथ आचरेथ् । देवस्य पुरतस् तिष्ठेत् द्रव्यम् आदाय पाणिना ॥ २२।१६४ ॥
devadevam namaskṛtya pradakṣiṇam atha ācareth . devasya puratas tiṣṭhet dravyam ādāya pāṇinā .. 22.164 ..
गौशृङ्गाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमाथ् । पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेथ् ॥ २२.१६५ ॥
गौ-शृङ्ग-अग्रम् समुद्धृत्य पूर्व-उक्त-विधिना । पुनर् प्रदक्षिणम् कृत्वा पूर्व-स्थाने तु ॥ २२।१६५ ॥
gau-śṛṅga-agram samuddhṛtya pūrva-ukta-vidhinā . punar pradakṣiṇam kṛtvā pūrva-sthāne tu .. 22.165 ..
ध्रुवेणाभ्यस्तरे चैव बिंबैरन्यैस्सहैवतु । पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेथ् ॥ २२.१६६ ॥
ध्रुवेण अभ्यस्तरे च एव बिंबैः अन्यैः सह एव तु । पूर्वम् उक्तम् ध्रुव-अर्चा चेद् स्नपनम् सम्यक् आचरेथ् ॥ २२।१६६ ॥
dhruveṇa abhyastare ca eva biṃbaiḥ anyaiḥ saha eva tu . pūrvam uktam dhruva-arcā ced snapanam samyak ācareth .. 22.166 ..
यथोक्तेनैव मार्गेण यथाविधि समर्चयेत्चत्वारिंशथ् ॥ २२.१६७ ॥
यथा उक्तेन एव मार्गेण यथाविधि ॥ २२।१६७ ॥
yathā uktena eva mārgeṇa yathāvidhi .. 22.167 ..
गव्यं श्रुतं दधि मधु क्षीरे स्याद्रत्न तोयकं ॥ २२.१६८ ॥
गव्यम् श्रुतम् दधि मधु क्षीरे स्यात् रत्न-तोयकम् ॥ २२।१६८ ॥
gavyam śrutam dadhi madhu kṣīre syāt ratna-toyakam .. 22.168 ..
जप्यं द्वादशैतान्समाहृत्य ॥ २२.१६९ ॥
जप्यम् द्वादश एतान् समाहृत्य ॥ २२।१६९ ॥
japyam dvādaśa etān samāhṛtya .. 22.169 ..
न्तु उपस्नानमेकं हारिद्र मध्यमोत्तमं ॥ २२.१७० ॥
उपस्नानम् एकम् हारिद्र मध्यम-उत्तमम् ॥ २२।१७० ॥
upasnānam ekam hāridra madhyama-uttamam .. 22.170 ..
उपस्नानवि माधमं चैव स्नपनं तु विधीयते ॥ २२.१७१ ॥
उपस्नानवि माधमम् च एव स्नपनम् तु विधीयते ॥ २२।१७१ ॥
upasnānavi mādhamam ca eva snapanam tu vidhīyate .. 22.171 ..
स्तथा कुर्यात्कलशैस्तु चतुर्दशैः ॥ २२.१७२ ॥
कुर्यात् कलशैः तु चतुर्दशैः ॥ २२।१७२ ॥
kuryāt kalaśaiḥ tu caturdaśaiḥ .. 22.172 ..
मध्यमे मध्यमं चैव मध्यमाधम विधीयते ॥ २२.१७३ ॥
मध्यमे मध्यमम् च एव मध्यम-अधम विधीयते ॥ २२।१७३ ॥
madhyame madhyamam ca eva madhyama-adhama vidhīyate .. 22.173 ..
सप्तभिः कलशैः मध्यमं तेषां षड्भिः कल ॥ २२.१७४ ॥
सप्तभिः कलशैः मध्यमम् तेषाम् षड्भिः कलशैः ॥ २२।१७४ ॥
saptabhiḥ kalaśaiḥ madhyamam teṣām ṣaḍbhiḥ kalaśaiḥ .. 22.174 ..
धममुच्यते चतुर्दशैः ॥ २२.१७५ ॥
धमम् उच्यते चतुर्दशैः ॥ २२।१७५ ॥
dhamam ucyate caturdaśaiḥ .. 22.175 ..
गव्यं घृतं क्षीरमक्ष पस्नानं तथैव च ॥ २२.१७६ ॥
गव्यम् घृतम् क्षीरम् अक्ष तथा एव च ॥ २२।१७६ ॥
gavyam ghṛtam kṣīram akṣa tathā eva ca .. 22.176 ..
एतै दशैतान्कलस्याचेत्क्र? त ॥ २२.१७७ ॥
एतैः दश एतान् कलस्य अचेत् क्र? त ॥ २२।१७७ ॥
etaiḥ daśa etān kalasya acet kra? ta .. 22.177 ..
पूर्वोक्तेनैव कलशस्यचेथ् ॥ २२.१७८ ॥
पूर्व-उक्तेन एव ॥ २२।१७८ ॥
pūrva-uktena eva .. 22.178 ..
दिक्षष्ट गव्यैस्तु ऐन्द्रे घृतमि ॥ २२.१७९ ॥
गव्यैः तु ऐन्द्रे घृतमि ॥ २२।१७९ ॥
gavyaiḥ tu aindre ghṛtami .. 22.179 ..
म्येगन्धोदकं तथा पयो त्यां वारुण्यामक्षतोदकं ॥ २२.१८० ॥
तथा पयः त्याम् वारुण्याम् अक्षत-उदकम् ॥ २२।१८० ॥
tathā payaḥ tyām vāruṇyām akṣata-udakam .. 22.180 ..
स्ॐये जप्योदकं क्रमात्व्यस्तुसप्तभिः कलशैः ॥ २२.१८१ ॥
सोंये जप्य-उदकम् क्रमात् व्यस्तु-सप्तभिः कलशैः ॥ २२।१८१ ॥
soṃye japya-udakam kramāt vyastu-saptabhiḥ kalaśaiḥ .. 22.181 ..
चत्रिषट्योणस्थलं सप्तभिः कलशोक्तवथ् ॥ २२.१८२ ॥
सप्तभिः ॥ २२।१८२ ॥
saptabhiḥ .. 22.182 ..
नवकोष्ठन्तु तत्र वै म भश्च कुशांभसा ॥ २२.१८३ ॥
तत्र वै कुश-अंभसा ॥ २२।१८३ ॥
tatra vai kuśa-aṃbhasā .. 22.183 ..
जप्या विन्यसेतेवमेवं येथ् ॥ २२.१८४ ॥
विन्यसेत् एवम् एवम् ॥ २२।१८४ ॥
vinyaset evam evam .. 22.184 ..
दक्षिणायनकालेतु उत्तरायणकालेतु पश्चाथ् ॥ २२.१८५ ॥
दक्षिणायन-काले तु उत्तरायण-काले तु ॥ २२।१८५ ॥
dakṣiṇāyana-kāle tu uttarāyaṇa-kāle tu .. 22.185 ..
ये तु संप्राप्ते तत्सूर्येंदूपरागेषु स्नपनं देवदेवस्य कृत्वा त ॥ २२.१८६ ॥
ये तु संप्राप्ते तद्-सूर्य-इंदु-उपरागेषु स्नपनम् देवदेवस्य कृत्वा ॥ २२।१८६ ॥
ye tu saṃprāpte tad-sūrya-iṃdu-uparāgeṣu snapanam devadevasya kṛtvā .. 22.186 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वाविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे द्वाविंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre dvāviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In