| |
|

This overlay will guide you through the buttons:

अथ द्वाविंशोऽध्यायः.
atha dvāviṃśo'dhyāyaḥ.
स्नपनम्
अथातस्स्नपनागारं प्रमुखे चोत्तरे तथा । ऐशान्यां वा विशेषण प्रपां वा मण्डपन्तु वा ॥ २२.१ ॥
athātassnapanāgāraṃ pramukhe cottare tathā . aiśānyāṃ vā viśeṣaṇa prapāṃ vā maṇḍapantu vā .. 22.1 ..
वितानोपरि संवीतं लंबमानं परिष्कृतं । स्तंभान्त्संवेष्ट्य वस्त्रैश्च दुकूलैस्तान्तवैरपि ॥ २२.२ ॥
vitānopari saṃvītaṃ laṃbamānaṃ pariṣkṛtaṃ . staṃbhāntsaṃveṣṭya vastraiśca dukūlaistāntavairapi .. 22.2 ..
मुक्तादामसमायुक्तं पूर्णकुंभसमन्वितं । सत्वं रजस्तमश्चैव ऐश्वर्यं चाधिदैवतं ॥ २२.३ ॥
muktādāmasamāyuktaṃ pūrṇakuṃbhasamanvitaṃ . satvaṃ rajastamaścaiva aiśvaryaṃ cādhidaivataṃ .. 22.3 ..
चतुर्वेदादिकैर्मन्त्रैस्तोरणांस्थ्सापयेत्क्रमाथ् । उभयोः पार्श्वयोश्चैव कदलीक्रमुकान्वितं ॥ २२.४ ॥
caturvedādikairmantraistoraṇāṃsthsāpayetkramāth . ubhayoḥ pārśvayoścaiva kadalīkramukānvitaṃ .. 22.4 ..
पूर्वास्तमुत्तरान्तं च षट्सूत्रं संप्रसार्य च । कल्पयेदायतसमं पदानां पञ्च विंशतिं ॥ २२.५ ॥
pūrvāstamuttarāntaṃ ca ṣaṭsūtraṃ saṃprasārya ca . kalpayedāyatasamaṃ padānāṃ pañca viṃśatiṃ .. 22.5 ..
मध्येब्राह्मं पदं हित्वा चर्यार्धं परितोऽष्ट च । पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेथ् ॥ २२.६ ॥
madhyebrāhmaṃ padaṃ hitvā caryārdhaṃ parito'ṣṭa ca . pūrvādi catvāri padaṃ dvārārthaṃ parikalpayeth .. 22.6 ..
शिष्टांश्च द्वादशपदान्द्रव्यन्यासार्थमाहरेथ् । मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः ॥ २२.७ ॥
śiṣṭāṃśca dvādaśapadāndravyanyāsārthamāhareth . madhyeśvabhrantu kartavyamaupāsanavidhānataḥ .. 22.7 ..
मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः । श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेथ् ॥ २२.८ ॥
madhyenimnaṃ ca kṛtvā tu tālamātrapramāṇataḥ . śvabhrasya madhyame caiva bilvajaṃ phalakaṃ nyaseth .. 22.8 ..
तत्प्रमाणाधिकं पीठं परितश्चतुरङ्गुलं । मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमाथ् ॥ २२.९ ॥
tatpramāṇādhikaṃ pīṭhaṃ paritaścaturaṅgulaṃ . madhyehitvā pratiṣṭhāpya dvivedisahitaṃ kramāth .. 22.9 ..
ततःपावनमार्गेण जलं गच्छेदुदङ्मुखं । मण्डपात्तु बहिस्थ्साने जलस्थानं तु खानयेथ् ॥ २२.१० ॥
tataḥpāvanamārgeṇa jalaṃ gacchedudaṅmukhaṃ . maṇḍapāttu bahisthsāne jalasthānaṃ tu khānayeth .. 22.10 ..
आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा । हारिद्रैश्चाथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा ॥ २२.११ ॥
ācchādya kadalīpatraiḥ padmapatrairathāpi vā . hāridraiścātha patrairvāpatraiḥ kramukajaistu vā .. 22.11 ..
अतोदेवाऽदिमन्त्रेण कुशदर्भांन्तु शोधयेथ् । यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेथ् ॥ २२.१२ ॥
atodevā'dimantreṇa kuśadarbhāṃntu śodhayeth . yāvacchvabhrapramāṇantu tāvatkṛtvāsamāhareth .. 22.12 ..
हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकं । मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतं ॥ २२.१३ ॥
hastamātraṃ tathāyāme prokṣaṇārthaṃ tu kūrcakaṃ . mārjanārthantu kūrcaṃ ca ṣaḍaṅgulamiti smṛtaṃ .. 22.13 ..
पञ्चभिर्वात्रिभिर्वाथ द्वादशांगुलमायतं । कलशार्थं तु कुर्वीत यथाकलशसंख्ययो ॥ २२.१४ ॥
pañcabhirvātribhirvātha dvādaśāṃgulamāyataṃ . kalaśārthaṃ tu kurvīta yathākalaśasaṃkhyayo .. 22.14 ..
तण्डुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकं । व्रीह्यर्धं तण्डुलं प्रोक्तं तदर्धं च तिलानपि ॥ २२.१५ ॥
taṇḍulairvrīhibhiścaiva satilaiścatrivedikaṃ . vrīhyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ ca tilānapi .. 22.15 ..
उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकं । अधमं चाढकं चैव पङ्क्तिं कुर्याद्विचक्षणः, ॥ २२.१६ ॥
uttamaṃ droṇamityuktaṃ madhyamaṃ tu tadardhakaṃ . adhamaṃ cāḍhakaṃ caiva paṅktiṃ kuryādvicakṣaṇaḥ, .. 22.16 ..
सम्यक्दग्ध्वातु कलशानभिन्नान्त्संप्रगृह्य च । शरावाणां प्रमाणं तु कुडुबं समुदाहृतं ॥ २२.१७ ॥
samyakdagdhvātu kalaśānabhinnāntsaṃpragṛhya ca . śarāvāṇāṃ pramāṇaṃ tu kuḍubaṃ samudāhṛtaṃ .. 22.17 ..
षट्प्रस्थमात्रं करकं कुंभं तु द्रोणमेव च । देवस्यऽत्वेति कलशान्कुंभादीन्त्संप्रगृह्य च ॥ २२.१८ ॥
ṣaṭprasthamātraṃ karakaṃ kuṃbhaṃ tu droṇameva ca . devasya'tveti kalaśānkuṃbhādīntsaṃpragṛhya ca .. 22.18 ..
यवान्तरं तु तन्तूनां संवेष्ट्य कलशानपि । पूर्वरात्रौ विशेषेण देवेशं संप्रणम्य च ॥ २२.१९ ॥
yavāntaraṃ tu tantūnāṃ saṃveṣṭya kalaśānapi . pūrvarātrau viśeṣeṇa deveśaṃ saṃpraṇamya ca .. 22.19 ..
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः । पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः ॥ २२.२० ॥
samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ . pūrvoktena vidhānena baddhvāpratisaraṃ tataḥ .. 22.20 ..
शयनं सोपधानं च कालयित्वातु पूर्ववथ् । शयने शाययेद्देवमुत्तराच्छादनं चरेथ् ॥ २२.२१ ॥
śayanaṃ sopadhānaṃ ca kālayitvātu pūrvavath . śayane śāyayeddevamuttarācchādanaṃ careth .. 22.21 ..
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमाथ् । ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ २२.२२ ॥
nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ nayetkramāth . tataḥ prabhāte dharmātmā yajamānayuto guruḥ .. 22.22 ..
श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चान्त्सम्यङ्न्यसेत्क्रमाथ् । जयादीरपि तत्रैव चैन्द्राद्यैशान्तमर्चयेथ् ॥ २२.२३ ॥
śvabhramadhye pratiṣṭhāpya kūrcāntsamyaṅnyasetkramāth . jayādīrapi tatraiva caindrādyaiśāntamarcayeth .. 22.23 ..
पङ्क्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे । विष्वक्चेनं समभ्यर्च्य सोमेशानान्तरेपि च ॥ २२.२४ ॥
paṅktīśamarcayetpūrvaṃ nīlavāruṇamadhyame . viṣvakcenaṃ samabhyarcya someśānāntarepi ca .. 22.24 ..
लोकपालान्त्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः प्राग्द्रव्याणि । नदीतिरे मृदं गृह्य सस्यङे त्रेतटाकके ॥ २२.२५ ॥
lokapālāntsamabhyarcye dvigrahairdaśabhistribhiḥ prāgdravyāṇi . nadītire mṛdaṃ gṛhya sasyaṅe tretaṭākake .. 22.25 ..
दर्भमूले च संगृह्य गजदन्ते तथैवच । गोश्रुङ्गे कर्कटावासे वल्मीकस्य तु मध्यमे ॥ २२.२६ ॥
darbhamūle ca saṃgṛhya gajadante tathaivaca . gośruṅge karkaṭāvāse valmīkasya tu madhyame .. 22.26 ..
महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक्पृथक् । आतपेनाथ संशोष्य विश्वामित्रान्परिह्रसेथ् ॥ २२.२७ ॥
mahīṃ devīmanujñāpya tāścāhṛtya pṛthakpṛthak . ātapenātha saṃśoṣya viśvāmitrānparihraseth .. 22.27 ..
शरावेषु मृदं चैव पूरयित्या पृथक्पृथक् । इन्द्रादीशानपर्यन्तं प्रदक्षिणवशेन तु ॥ २२.२८ ॥
śarāveṣu mṛdaṃ caiva pūrayityā pṛthakpṛthak . indrādīśānaparyantaṃ pradakṣiṇavaśena tu .. 22.28 ..
उदुत्यऽमिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः । मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा ॥ २२.२९ ॥
udutya'miti mantreṇa prathamaṃ sannyasenmṛdaḥ . mṛdupasnānamekaṃ tu aiśānyāṃ vipyasettadā .. 22.29 ..
अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा । कुर्यादष्टांगुलोत्सेधं चतुरश्रं समस्ततः ॥ २२.३० ॥
aśvadthena palāśena bilvena khadireṇa vā . kuryādaṣṭāṃgulotsedhaṃ caturaśraṃ samastataḥ .. 22.30 ..
मूलं षडङ्गुले चाग्रात्त्षङ्गुलं समुदाहृतं । अनेन वा मृदा वापि कुर्याद्वै पर्वतान्क्रमाथ् ॥ २२.३१ ॥
mūlaṃ ṣaḍaṅgule cāgrāttṣaṅgulaṃ samudāhṛtaṃ . anena vā mṛdā vāpi kuryādvai parvatānkramāth .. 22.31 ..
हिमवानूर्जवान्विन्ध्यो विदूरो वेदपर्वतः । महेन्द्रश्च पुरश्चन्द्रश्शतश्रुङ्गाश्च पर्वताः ॥ २२.३२ ॥
himavānūrjavānvindhyo vidūro vedaparvataḥ . mahendraśca puraścandraśśataśruṅgāśca parvatāḥ .. 22.32 ..
एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान् । श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च ॥ २२.३३ ॥
eṣāṃ varṇastathaivoktaḥ kuryādvarṇena saṃyutān . śvetaṃ pītaṃ ca kṛṣṇaṃ ca raktaṃ vai śvetameva ca .. 22.33 ..
पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः । प्रागादीशान्त मेतांश्च "इदं विष्णुऽरिति न्यसेथ् ॥ २२.३४ ॥
pītaṃ kṛṣṇaṃ ca raktaṃ ca kramādvarṇa udāhṛtaḥ . prāgādīśānta metāṃśca "idaṃ viṣṇu'riti nyaseth .. 22.34 ..
शैलानां चाप्युपस्नामेकमीशान्यगोचरं । शालिव्रीहियवा मुद्गतिलमाष प्रियङ्गवः ॥ २२.३५ ॥
śailānāṃ cāpyupasnāmekamīśānyagocaraṃ . śālivrīhiyavā mudgatilamāṣa priyaṅgavaḥ .. 22.35 ..
गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा । कुलुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च ॥ २२.३६ ॥
godhūmaścaṇakastilvomasūraścādthasī tathā . kuluddhamāṣakāścaiva ṣaṣṭirniṣpāva eva ca .. 22.36 ..
एतान्याहृत्य धान्यानि शरावेषु पृथक्पृथक् । प्रक्षिप्य तांश्य संपूर्णान्क्रमाद्द्वौ द्वौन्यकेत्तथा ॥ २२.३७ ॥
etānyāhṛtya dhānyāni śarāveṣu pṛthakpṛthak . prakṣipya tāṃśya saṃpūrṇānkramāddvau dvaunyakettathā .. 22.37 ..
इन्द्रादीशानपर्यन्तं "शुक्रन्तऽ इति मन्त्रतः । न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि ॥ २२.३८ ॥
indrādīśānaparyantaṃ "śukranta' iti mantrataḥ . nyasedekamupasnānaṃ dhānyānāmagnidiśyapi .. 22.38 ..
शरावाणामलाभे तु कलशेषु पृथक्पृथक् । सोम ओषधीनाऽमुच्छार्य पूर्ववच्चांकुरानपि ॥ २२.३९ ॥
śarāvāṇāmalābhe tu kalaśeṣu pṛthakpṛthak . soma oṣadhīnā'mucchārya pūrvavaccāṃkurānapi .. 22.39 ..
यमनीलान्तरे चापि शरावेतु सुविन्यसेथ् । अङ्कुराणामुपस्नानमेकमत्रैव विन्यसेथ् ॥ २२.४० ॥
yamanīlāntare cāpi śarāvetu suvinyaseth . aṅkurāṇāmupasnānamekamatraiva vinyaseth .. 22.40 ..
पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा । मङ्गलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमाथ् ॥ २२.४१ ॥
parvatārthaṃ samaṃ proktavṛkṣairyatnena vā mṛdā . maṅgalāni prakuryācca dārupakṣāṇyanukramāth .. 22.41 ..
श्रीवत्सं पूर्णकुंभं च भेरीमादर्शनं तथा । मत्स्ययुग्मांकुशं शङ्खमावर्तमिति चाष्टवै ॥ २२.४२ ॥
śrīvatsaṃ pūrṇakuṃbhaṃ ca bherīmādarśanaṃ tathā . matsyayugmāṃkuśaṃ śaṅkhamāvartamiti cāṣṭavai .. 22.42 ..
श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते । रक्तां भेरीं सुवर्णाभं तस्य पार्श्वेऽसितं?तथा ॥ २२.४३ ॥
śrīvatsaṃ tattu rukmābhaṃ ghaṭoraktābha ucyate . raktāṃ bherīṃ suvarṇābhaṃ tasya pārśve'sitaṃ?tathā .. 22.43 ..
आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते । मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितं ॥ २२.४४ ॥
ādarśanaṃ ca śvetaṃ syādvṛttaṃ candravadiṣyate . matsyayugmaṃ tathā śvetamūrdhvānanamitīritaṃ .. 22.44 ..
अङ्कुशस्य तु दण्डं च रक्तं कृष्णघृणीयुतं । शङ्खं शङ्खनिभं प्रोक्तं रक्तमावर्तमिष्यते ॥ २२.४५ ॥
aṅkuśasya tu daṇḍaṃ ca raktaṃ kṛṣṇaghṛṇīyutaṃ . śaṅkhaṃ śaṅkhanibhaṃ proktaṃ raktamāvartamiṣyate .. 22.45 ..
सप्ताङ्गुलसमुत्सेधमेषां पीठं द्विगोलकं । यथा वृक्षैस्तथा कुर्यात्पञ्चवर्णैर्मृदा तधा ॥ २२.४६ ॥
saptāṅgulasamutsedhameṣāṃ pīṭhaṃ dvigolakaṃ . yathā vṛkṣaistathā kuryātpañcavarṇairmṛdā tadhā .. 22.46 ..
एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेथ् । प्रदक्षिणक्रमेणैव चैन्द्रादीशान्तमर्चयेथ् ॥ २२.४७ ॥
evaṃ lakṣaṇamuddiṣṭaṃ śeṣaṃ yuktyā samācareth . pradakṣiṇakrameṇaiva caindrādīśāntamarcayeth .. 22.47 ..
दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे । शं सा नियच्छऽत्वित्युक्त्वामङ्गलान्यत्र विन्यसेथ् ॥ २२.४८ ॥
dikṣvaṣṭasu mahādikṣu tattaddvārasya dakṣiṇe . śaṃ sā niyaccha'tvityuktvāmaṅgalānyatra vinyaseth .. 22.48 ..
मङ्गलानामुपस्नानमेन्द्राद्येचैकमेवहि । एवं प्रकरणं प्रोक्तं कलशानां............ ॥ २२.४९ ॥
maṅgalānāmupasnānamendrādyecaikamevahi . evaṃ prakaraṇaṃ proktaṃ kalaśānāṃ............ .. 22.49 ..
द्वादश प्रधानद्रव्याणि पञ्चगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति । कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते ॥ २२.५० ॥
dvādaśa pradhānadravyāṇi pañcagavyakramaṃ vakṣye devasya snapanaṃ prati . kapilāyā varaṃ kṣīraṃ śvetāyā dadhi cocyate .. 22.50 ..
रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेथ् । मूत्रं तु नीलवर्णायाः पञ्चगव्यमिति स्मृतं ॥ २२.५१ ॥
raktavarṇāghṛtaṃ grāhyaṃ kṛṣṇāyā gośśakṛdbhaveth . mūtraṃ tu nīlavarṇāyāḥ pañcagavyamiti smṛtaṃ .. 22.51 ..
प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतं । गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणं ॥ २२.५२ ॥
prasthapādaṃ ghṛtaṃ caiva dviguṇaṃ dadhi saṃyutaṃ . gṛhītvā triguṇaṃ kṣīraṃ gomayantu caturguṇaṃ .. 22.52 ..
षड्गुणं चैव गोमूत्रं पञ्चगव्ययुतं क्रमाथ् । अपातितं तु गोमूत्रं पतितं गोमयं भवेथ् ॥ २२.५३ ॥
ṣaḍguṇaṃ caiva gomūtraṃ pañcagavyayutaṃ kramāth . apātitaṃ tu gomūtraṃ patitaṃ gomayaṃ bhaveth .. 22.53 ..
धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेथ् । अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणं ॥ २२.५४ ॥
dhāroṣṇaṃ kṣīramādāya sadyastsaptaṃ ghṛtaṃ bhaveth . aśuktaṃ dadhi gṛhṇīyādetatsarvatra lakṣaṇaṃ .. 22.54 ..
गाङ्गेयंऽ मन्त्रमुच्चार्य गोमूत्रं पूर्वमाहरेथ् । तत्परं तु शकृद्ग्राह्य मीशानऽमिति मन्त्रतः ॥ २२.५५ ॥
gāṅgeyaṃ' mantramuccārya gomūtraṃ pūrvamāhareth . tatparaṃ tu śakṛdgrāhya mīśāna'miti mantrataḥ .. 22.55 ..
हिरण्यपाणिऽमित्युक्त्वा पय आदाय निक्षिपेथ् । इषे त्वेऽति दधि यञ्ज्याद्घृतं "चायन्तऽ इत्यपि ॥ २२.५६ ॥
hiraṇyapāṇi'mityuktvā paya ādāya nikṣipeth . iṣe tve'ti dadhi yañjyādghṛtaṃ "cāyanta' ityapi .. 22.56 ..
इत्येवं पञ्चभिर्मन्त्रैः पञ्चगव्यं समाहरेथ् । एतदाढकपूर्मन्तु कलशेदृश्यते पृथक् ॥ २२.५७ ॥
ityevaṃ pañcabhirmantraiḥ pañcagavyaṃ samāhareth . etadāḍhakapūrmantu kalaśedṛśyate pṛthak .. 22.57 ..
सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा । द्वादशांगुलविस्तारं षोडशांगुलनाहकं ॥ २२.५८ ॥
sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ mṛṇmayameva vā . dvādaśāṃgulavistāraṃ ṣoḍaśāṃgulanāhakaṃ .. 22.58 ..
द्व्यङ्गुलं संभरेत्कण्ठं मुखं पञ्चाङ्गुल भवेथ् । पक्वबिंब फलाकारं खण्डस्भुटीतवर्जितं ॥ २२.५९ ॥
dvyaṅgulaṃ saṃbharetkaṇṭhaṃ mukhaṃ pañcāṅgula bhaveth . pakvabiṃba phalākāraṃ khaṇḍasbhuṭītavarjitaṃ .. 22.59 ..
एवं कलशमादाय पञ्चगव्यैःप्रपूर्य च । रुद्रमस्यऽमिति प्रोच्य न्यसेदीशानगोचरे ॥ २२.६० ॥
evaṃ kalaśamādāya pañcagavyaiḥprapūrya ca . rudramasya'miti procya nyasedīśānagocare .. 22.60 ..
आढकार्धघृतेनैव संपूर्णं कलशं तथा । घृतप्रतीकऽ इत्युक्त्वा इ द्रेशानान्तरेन्यसेथ् ॥ २२.६१ ॥
āḍhakārdhaghṛtenaiva saṃpūrṇaṃ kalaśaṃ tathā . ghṛtapratīka' ityuktvā i dreśānāntarenyaseth .. 22.61 ..
कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा । मधु वाऽतेति मन्त्रेण इन्द्राग्न्योरन्तरे न्यसेथ् ॥ २२.६२ ॥
kalaśaṃ madhusaṃyuktaṃ sukuśaiḥ pūritaṃ tathā . madhu vā'teti mantreṇa indrāgnyorantare nyaseth .. 22.62 ..
न शुक्तं दधि गव्यं च? संपूर्णकलशं तथा । दधि क्राव्ण्नऽ इत्युक्वा आग्नेय्यां दधि विन्यसेथ् ॥ २२.६३ ॥
na śuktaṃ dadhi gavyaṃ ca? saṃpūrṇakalaśaṃ tathā . dadhi krāvṇna' ityukvā āgneyyāṃ dadhi vinyaseth .. 22.63 ..
सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा । अणोरणीयाऽ नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेथ् ॥ २२.६४ ॥
sadyo dugdhaṃ payogrāhya makṣataiḥ pūritantathā . aṇoraṇīyā' nityuktvā yamāgnyormadhyame nyaseth .. 22.64 ..
उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा । शुद्धोकेन संगृह्य कलशं परिपूरितं ॥ २२.६५ ॥
uśīrāgaruparṇairvā saṃyuktaṃ candanena vā . śuddhokena saṃgṛhya kalaśaṃ paripūritaṃ .. 22.65 ..
यमनीलान्तरे तत्र अप्सरऽस्स्विति विन्यसेथ् । व्रीहिमाषयवैर्युक्तं सर्षपञ्चाक्षतं विदुः ॥ २२.६६ ॥
yamanīlāntare tatra apsara'ssviti vinyaseth . vrīhimāṣayavairyuktaṃ sarṣapañcākṣataṃ viduḥ .. 22.66 ..
तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकं । तत्राक्षतोदकेनैव संपूर्णं कलशं ततः ॥ २२.६७ ॥
tūryaghoṣasamāyuktaṃ miśritaṃ cākṣatodakaṃ . tatrākṣatodakenaiva saṃpūrṇaṃ kalaśaṃ tataḥ .. 22.67 ..
इमा ओषधयऽ इत्युक्त्वा न्यसेन्नी लेऽक्षतोदकं । कदलीमातुलुङ्गाम्र पनसेर्नालिकेरकैः ॥ २२.६८ ॥
imā oṣadhaya' ityuktvā nyasennī le'kṣatodakaṃ . kadalīmātuluṅgāmra panasernālikerakaiḥ .. 22.68 ..
आर्द्रादिभिः फलैश्चान्यैर्यथालाभं समाहृतैः । फलैरर्धांशसंयुक्तं शेषं तोयेन पूरितं ॥ २२.६९ ॥
ārdrādibhiḥ phalaiścānyairyathālābhaṃ samāhṛtaiḥ . phalairardhāṃśasaṃyuktaṃ śeṣaṃ toyena pūritaṃ .. 22.69 ..
फलोदकमिति प्रोक्तं कलशं संप्रसाथितं । नीलवारुणयोर्मध्ये सोमं राऽजेति विन्यसेत्, ॥ २२.७० ॥
phalodakamiti proktaṃ kalaśaṃ saṃprasāthitaṃ . nīlavāruṇayormadhye somaṃ rā'jeti vinyaset, .. 22.70 ..
कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितं । कुशोदकमिति प्रोक्तं कलशं तेन पूरितं ॥ २२.७१ ॥
kuśāgrairatha vā dūrvairakṣataiśca samanvitaṃ . kuśodakamiti proktaṃ kalaśaṃ tena pūritaṃ .. 22.71 ..
वरुणोदानयोर्मध्ये "यतस्स्वऽमिति विन्यसेथ् । वज्रं नीलं प्रवालं च शङ्खजं शुक्तिजं तथा ॥ २२.७२ ॥
varuṇodānayormadhye "yatassva'miti vinyaseth . vajraṃ nīlaṃ pravālaṃ ca śaṅkhajaṃ śuktijaṃ tathā .. 22.72 ..
एतानि पञ्चरत्नानि ततो मरतकं तथा । वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमाथ् ॥ २२.७३ ॥
etāni pañcaratnāni tato maratakaṃ tathā . vaiḍūryaṃ puṣyarāgaṃ ca gomedhikamiti kramāth .. 22.73 ..
रत्नोदकमिति प्रोक्तं कलशं तेन पूरितं । वायव्ये सन्न्यसेद्विद्वा"नतो देवादिऽमुच्चरन् ॥ २२.७४ ॥
ratnodakamiti proktaṃ kalaśaṃ tena pūritaṃ . vāyavye sannyasedvidvā"nato devādi'muccaran .. 22.74 ..
यथालाभं तथा रत्नसुवर्णसहितं क्रमाथ् । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेथ् ॥ २२.७५ ॥
yathālābhaṃ tathā ratnasuvarṇasahitaṃ kramāth . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktayutaṃ japeth .. 22.75 ..
तथाभिमन्त्रितं तोयं जप्योदकमिति स्मृतं । कुबेरोदानयोर्मध्ये "ब्रह्मा देवानाऽमिति न्यसेथ् ॥ २२.७६ ॥
tathābhimantritaṃ toyaṃ japyodakamiti smṛtaṃ . kuberodānayormadhye "brahmā devānā'miti nyaseth .. 22.76 ..
फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः । सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेथ् ॥ २२.७७ ॥
phalānte tu vitunnāssyuroṣadhyassamudāhṛtāḥ . sarvauṣadhisamāyuktaṃ sarvauṣadhyudakaṃ bhaveth .. 22.77 ..
तर्यांशेषु गृहीतं च कलशं पूर्णमंभसा । सोमेशानास्तरेचैव "चित्रं देवानाऽमिति न्यसेथ् ॥ २२.७८ ॥
taryāṃśeṣu gṛhītaṃ ca kalaśaṃ pūrṇamaṃbhasā . someśānāstarecaiva "citraṃ devānā'miti nyaseth .. 22.78 ..
एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा । गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेथ् ॥ २२.७९ ॥
eṣāṃ pratyekamekaṃ tu kalaśaṃ śuddhavāriṇā . gṛhītvā tadupasnānaṃ vāmapārśvetu vinyaseth .. 22.79 ..
उपस्नाने तु कलशा"नतो देवाऽदिना न्यसेथ् । एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः ॥ २२.८० ॥
upasnāne tu kalaśā"nato devā'dinā nyaseth . evaṃ pradhānakalaśāścaturviṃśatirīritāḥ .. 22.80 ..
अनुद्रव्याणि
नन्द्यावर्तं च पद्मं च तुलसी विष्णुपर्णिका । बिल्वं च करवीरं च पद्मं कुमुदमेव च ॥ २२.८१ ॥
nandyāvartaṃ ca padmaṃ ca tulasī viṣṇuparṇikā . bilvaṃ ca karavīraṃ ca padmaṃ kumudameva ca .. 22.81 ..
अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमं । दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि ॥ २२.८२ ॥
aṣṭavai puṇyapuṣpāṇi grāhyāṇi tu yathākramaṃ . divāśuddhaṃ tu bilvaṃ ca kapidthaṃ bilvavanniśi .. 22.82 ..
करवीरं दिवा शुद्धं निशि सितं? तथा शुचि । शरावेषु समाहृत्य पुष्पाणि तु पृथक्पृथक् ॥ २२.८३ ॥
karavīraṃ divā śuddhaṃ niśi sitaṃ? tathā śuci . śarāveṣu samāhṛtya puṣpāṇi tu pṛthakpṛthak .. 22.83 ..
इमास्सुमनसऽ इति मन्त्रेण यमनीलान्तरे न्यसेथ् । तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेथ् ॥ २२.८४ ॥
imāssumanasa' iti mantreṇa yamanīlāntare nyaseth . tasyopasnānamekantu tatpārśve kalaśaṃ nyaseth .. 22.84 ..
श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकं । तथा मसूरं दमनं जातीफलयुतं तथा ॥ २२.८५ ॥
śrīveṣṭakaṃ yavaṃ mudgamuśīraṃ caiva ratnakaṃ . tathā masūraṃ damanaṃ jātīphalayutaṃ tathā .. 22.85 ..
लवङ्गं च समाहृत्य चूर्णयित्वाक्रमेण वै । समाराध्यैव तच्चूर्णं शरावेषु च पूरयेथ् ॥ २२.८६ ॥
lavaṅgaṃ ca samāhṛtya cūrṇayitvākrameṇa vai . samārādhyaiva taccūrṇaṃ śarāveṣu ca pūrayeth .. 22.86 ..
पङ्क्तीशाद्दक्षिणे चूर्णं वन्द्यो नऽइति विन्यसेथ् । एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकं ॥ २२.८७ ॥
paṅktīśāddakṣiṇe cūrṇaṃ vandyo na'iti vinyaseth . eṣāmalābhe cūrṇānāṃ grāhyamailādicūrṇakaṃ .. 22.87 ..
उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेथ् । अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ॥ २२.८८ ॥
upasnānaṃ tu tatpārśve tvekaṃ vai kalaśaṃ nyaseth . aśvadthasya madhūkasya khadirasya vaṭasya ca .. 22.88 ..
वञ्जुलासनयोश्चापि चित्रवृक्षस्य च त्वचः । हृत्वोलूखलमध्ये च "उदुत्यऽमिति विन्यसेथ् ॥ २२.८९ ॥
vañjulāsanayoścāpi citravṛkṣasya ca tvacaḥ . hṛtvolūkhalamadhye ca "udutya'miti vinyaseth .. 22.89 ..
उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते । कषायं परिकल्प्यैव "ये ते शतऽमिति ब्रुवन् ॥ २२.९० ॥
ukta carmaṇyalābhe tu aśvadthasya vidhīyate . kaṣāyaṃ parikalpyaiva "ye te śata'miti bruvan .. 22.90 ..
वरुणोदानयोर्मध्ये कषायकलशं न्यसेथ् । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ॥ २२.९१ ॥
varuṇodānayormadhye kaṣāyakalaśaṃ nyaseth . upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaseth .. 22.91 ..
सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करं । दूर्वा च सहदेवी च पाठा साह्वयमेव च ॥ २२.९२ ॥
siṃhī ca nakulavyāghranandādityaṃ ca puṣkaraṃ . dūrvā ca sahadevī ca pāṭhā sāhvayameva ca .. 22.92 ..
एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे । उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ॥ २२.९३ ॥
evaṃ vanauṣadhīrgṛhya somavāyvontu madhyame . upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaseth .. 22.93 ..
नदीतटाककूपानां पल्वलस्य च वारिभिः । पृथक्संपूर्य कलशांश्चतुरस्तु समाहरेथ् ॥ २२.९४ ॥
nadītaṭākakūpānāṃ palvalasya ca vāribhiḥ . pṛthaksaṃpūrya kalaśāṃścaturastu samāhareth .. 22.94 ..
तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेथ् । हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा ॥ २२.९५ ॥
tasyaikaṃ kalaśaṃ pārśve upasnānaṃ tu vinyaseth . hareṇukaṃ ca sthauṇeyaṃ patraṃ vyāghranakhaṃ tathā .. 22.95 ..
पर्णागरुं च द्यामाकं कचोरं चेरुवालकं । माञ्ची जातिफलैलांश्च लवङ्गं चन्दनं तथा ॥ २२.९६ ॥
parṇāgaruṃ ca dyāmākaṃ kacoraṃ ceruvālakaṃ . māñcī jātiphalailāṃśca lavaṅgaṃ candanaṃ tathā .. 22.96 ..
कर्पूरं च बलोशीरस्थिरनारदमेव च? । कस्तुंबुरुं तथान्यानि सुगन्धीनि शुचीनि च ॥ २२.९७ ॥
karpūraṃ ca balośīrasthiranāradameva ca? . kastuṃburuṃ tathānyāni sugandhīni śucīni ca .. 22.97 ..
प्राण्यङ्गं च पुरीषं च वर्जयित्वा समाहरेथ् । एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितं ॥ २२.९८ ॥
prāṇyaṅgaṃ ca purīṣaṃ ca varjayitvā samāhareth . eteṣāmapi yaccūrṇaṃ sūkṣmamutpīḍya kalpitaṃ .. 22.98 ..
सर्वगन्धमिति प्रोक्तं शरावेषु प्रपूरयेथ् । न्यसे"त्त्रातारऽमित्येव यक्षराजेशमध्यमे ॥ २२.९९ ॥
sarvagandhamiti proktaṃ śarāveṣu prapūrayeth . nyase"ttrātāra'mityeva yakṣarājeśamadhyame .. 22.99 ..
तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च । नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, ॥ २२.१०० ॥
tattatpārśvenyasetteṣāmupasnānaṃ tathaiva ca . navasya snigdhavarṇasya hāridrasya prakalpayet, .. 22.100 ..
चूर्णं तु कलशे क्षिप्त्वा संपूर्णं कलशं चरेथ् । पङ्क्तीशस्यैव पार्श्वेतु "सिनी वाऽलीति विन्यसेथ् ॥ २२.१०१ ॥
cūrṇaṃ tu kalaśe kṣiptvā saṃpūrṇaṃ kalaśaṃ careth . paṅktīśasyaiva pārśvetu "sinī vā'līti vinyaseth .. 22.101 ..
तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववथ् । पालाशदूर्वापामार्गनन्द्यावर्तदलानि च ॥ २२.१०२ ॥
tasya pārśve nyasedekamupasnānantu pūrvavath . pālāśadūrvāpāmārganandyāvartadalāni ca .. 22.102 ..
करवीरस्य पत्राणि कुशपत्राणि चैव हि । मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः ॥ २२.१०३ ॥
karavīrasya patrāṇi kuśapatrāṇi caiva hi . mūlagandhārthamāhṛtya tasya pārśve nyasedbudhaḥ .. 22.103 ..
शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववथ् । वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतन्तुना ॥ २२.१०४ ॥
śuddhodakalaśaṃ sthāpyedupasnānaṃ ca pūrvavath . vastrayugmaṃ navaṃ sūkṣmaṃ kṛtaṃ kārpāsatantunā .. 22.104 ..
प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेथ् । विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे ॥ २२.१०५ ॥
plotārthantu samāhṛtya śuddhapātre tu nikṣipeth . viṣṇugāyatriyā sthāpya yakṣarājeśamadhyame .. 22.105 ..
प्लोतपार्श्वेन्यसेत्तानि "ब्रह्मजज्ञानऽमित्यपि । जातिं हिङ्गुलिकं चैव अञ्जनं च मनश्शिलां ॥ २२.१०६ ॥
plotapārśvenyasettāni "brahmajajñāna'mityapi . jātiṃ hiṅgulikaṃ caiva añjanaṃ ca manaśśilāṃ .. 22.106 ..
गोरोचनं च गिरिकमिति धातून्त्समाहरेथ् । एतानि चूर्णयित्वातु शरावेषु पृथक्पृथक् ॥ २२.१०७ ॥
gorocanaṃ ca girikamiti dhātūntsamāhareth . etāni cūrṇayitvātu śarāveṣu pṛthakpṛthak .. 22.107 ..
प्रक्षिप्य "जातवेऽदेति न्यसेत्तत्रैव पूर्ववथ् । एकादशानुकरणे कलशांश्चैव पूरयेथ् ॥ २२.१०८ ॥
prakṣipya "jātave'deti nyasettatraiva pūrvavath . ekādaśānukaraṇe kalaśāṃścaiva pūrayeth .. 22.108 ..
अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखण्डितं । वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकं ॥ २२.१०९ ॥
ahataṃ ca sumākṣmaṃ ca vastrayugmamakhaṇḍitaṃ . vastraṃ yajñopavītaṃ ca pavitraṃ bhūṣaṇādikaṃ .. 22.109 ..
एवमादीनि संगृह्य सोमेशानान्तरे न्यसेथ् । विन्यस्य कलशांश्चैव तथा चूर्णान्पृथक्पृथक् ॥ २२.११० ॥
evamādīni saṃgṛhya someśānāntare nyaseth . vinyasya kalaśāṃścaiva tathā cūrṇānpṛthakpṛthak .. 22.110 ..
वस्त्रैरावेष्ट्य तान्त्सर्वान्पुनःकूर्चानि निक्षिपेथ् । उत्कूर्चं वाप्यधःकूर्चं प्रागग्रं वोदगग्रकं ॥ २२.१११ ॥
vastrairāveṣṭya tāntsarvānpunaḥkūrcāni nikṣipeth . utkūrcaṃ vāpyadhaḥkūrcaṃ prāgagraṃ vodagagrakaṃ .. 22.111 ..
विन्यस्य तेषु कूर्चानि शरावे रपिधाय च । प्रणम्य देवदेवेशं द्रव्यार्चसमथारभेथ् ॥ २२.११२ ॥
vinyasya teṣu kūrcāni śarāve rapidhāya ca . praṇamya devadeveśaṃ dravyārcasamathārabheth .. 22.112 ..
ततश्चर्यापदान्तेषु जयाद्यप्सरसोर्ऽचयेथ् । जयां च विजयां विन्दांनन्दकां पुष्टिकामपि ॥ २२.११३ ॥
tataścaryāpadānteṣu jayādyapsarasor'cayeth . jayāṃ ca vijayāṃ vindāṃnandakāṃ puṣṭikāmapi .. 22.113 ..
कुमुद्वतीमुत्पलकां विशोकां च समर्चयेथ् । प्रागादिवेद्याः परितः पङ्क्तौ पङ्क्तीशमर्चयेथ् ॥ २२.११४ ॥
kumudvatīmutpalakāṃ viśokāṃ ca samarcayeth . prāgādivedyāḥ paritaḥ paṅktau paṅktīśamarcayeth .. 22.114 ..
विष्वक्सेनं ततः पश्चादिन्द्रादींश्च समर्चयेथ् । द्रव्यदेवार्चनम् मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः ॥ २२.११५ ॥
viṣvaksenaṃ tataḥ paścādindrādīṃśca samarcayeth . dravyadevārcanam mṛddevatā tu bhūdevī parvateśastu pāvakaḥ .. 22.115 ..
वायुर्वैधान्यदेवस्स्याद्गरुडा ओंकुरदेवता । मङ्गलाधिपतिश्शक्रःपञ्चगव्याधिपश्शिवः ॥ २२.११६ ॥
vāyurvaidhānyadevassyādgaruḍā oṃkuradevatā . maṅgalādhipatiśśakraḥpañcagavyādhipaśśivaḥ .. 22.116 ..
तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः । सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः ॥ २२.११७ ॥
tathaiva viśvedevāśca upasnānādhidevatāḥ . sāmavedo ghṛteśassyādupasnāne tu vatsarāḥ .. 22.117 ..
ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः । यजुर्वेदो दधीशोऽभूदुपस्ना कपर्दिनः ॥ २२.११८ ॥
ṛgvedo madhudevassyādupasnāne tu vāyavaḥ . yajurvedo dadhīśo'bhūdupasnā kapardinaḥ .. 22.118 ..
क्षीरे त्वधर्ववेदश्च उपस्नानेऽश्विनौ तथा । गन्धोदके षडृतवो मरुतस्तदनन्तरे ॥ २२.११९ ॥
kṣīre tvadharvavedaśca upasnāne'śvinau tathā . gandhodake ṣaḍṛtavo marutastadanantare .. 22.119 ..
अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः । सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे ॥ २२.१२० ॥
akṣatode viśvamūrtirupasnāne bṛhaspatiḥ . somaḥ phalodakeśassyādanantastadanantare .. 22.120 ..
कुशोदके च मुनय उपस्नाने तु तक्षकः । विष्णूरत्नोदकेशस्स्याद्गन्धर्वास्तनदन्तरे ॥ २२.१२१ ॥
kuśodake ca munaya upasnāne tu takṣakaḥ . viṣṇūratnodakeśassyādgandharvāstanadantare .. 22.121 ..
मन्त्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः । सर्वौषध्युदके भानुरुपस्नानेऽप्सरोगणाः ॥ २२.१२२ ॥
mantroratnodakeśassyādupasnānetu puṣpajāḥ . sarvauṣadhyudake bhānurupasnāne'psarogaṇāḥ .. 22.122 ..
पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनं ।
puṇyapuṣpeṣu dhātāraṃ cūrṇeṣvapyanapāyinaṃ .
वरुणः
कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः ॥ २२.१२३ ॥
kaṣāyadevassyāttīrthe caiva jagadbhuvaḥ .. 22.123 ..
वनौषधीशो रुद्रोऽभूच्छिनीवाली हरिद्रके । उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः ॥ २२.१२४ ॥
vanauṣadhīśo rudro'bhūcchinīvālī haridrake . upasnāni tu rākā syātsarvagandhe śatakratuḥ .. 22.124 ..
ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरं । धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन् ॥ २२.१२५ ॥
brahmāṇaṃ mūlagandhetu plotavastre purandaraṃ . dhātuṣvapi ca durgāṃ ca tattaddravyadharaṃ smaran .. 22.125 ..
त्रयोदशोपचारैश्च मूर्तिमन्त्रैरथार्ऽचयेथ् । उपस्नानेषु चान्येषु वरुणं च तथार्ऽचयेथ् ॥ २२.१२६ ॥
trayodaśopacāraiśca mūrtimantrairathār'cayeth . upasnāneṣu cānyeṣu varuṇaṃ ca tathār'cayeth .. 22.126 ..
आचार्य पूजयित्वातु वस्त्रैराभरणैस्तथा । शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः ॥ २२.१२७ ॥
ācārya pūjayitvātu vastrairābharaṇaistathā . śiṣyaṃ ca pūjayetpaścādyajamānassvaśaktitaḥ .. 22.127 ..
ततो गुरुःप्रसन्नात्मा देवेशं संप्रणम्य च । अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः ॥ २२.१२८ ॥
tato guruḥprasannātmā deveśaṃ saṃpraṇamya ca . aṣṭopacārairabhyarcya snapanāvasaraṃ tataḥ .. 22.128 ..
विज्ञाप्य हरये सम्यक्पश्चात्कार्यं समाचरेथ् । रक्षस्व त्वऽमिति प्रोच्य द्रव्यदेवं प्रणम्य च ॥ २२.१२९ ॥
vijñāpya haraye samyakpaścātkāryaṃ samācareth . rakṣasva tva'miti procya dravyadevaṃ praṇamya ca .. 22.129 ..
शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते । आज्ञापयेद्गुरुश्शिष्यं हरस्वेदऽमिति ब्रुवन् ॥ २२.१३० ॥
śiṣyastunamrakāyassannācāryājñāṃ pratīkṣate . ājñāpayedguruśśiṣyaṃ harasveda'miti bruvan .. 22.130 ..
तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेथ् । अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः ॥ २२.१३१ ॥
tattaddravyaṃ samādāya śiṣyastasmai nivedayeth . adbhiḥprokṣya samādāya taddravyaṃ gururatvaraḥ .. 22.131 ..
प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेथ् । ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च ॥ २२.१३२ ॥
pvaṇavaṃ tu samuccārya tatra kāryaṃ samācareth . lalāṭāntaṃ samuddhṛtya devadevaṃ praṇamya ca .. 22.132 ..
तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणं । तद्द्रव्यनाम संयोज्य तन्मन्त्रान्ते तु कारयेथ् ॥ २२.१३३ ॥
taddravyeṇa sakṛttrirvā deveśasya pradakṣiṇaṃ . taddravyanāma saṃyojya tanmantrānte tu kārayeth .. 22.133 ..
अतो देवाऽदितिमन्त्रेण देवदेवं प्रणम्य च । विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं ॥ २२.१३४ ॥
ato devā'ditimantreṇa devadevaṃ praṇamya ca . viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakaṃ .. 22.134 ..
एवं मन्त्रं समुच्चार्य तत्र कार्यं समाचरेथ् । क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेथ् ॥ २२.१३५ ॥
evaṃ mantraṃ samuccārya tatra kāryaṃ samācareth . kriyānte pātramādāya pūrvasthāne niveśayeth .. 22.135 ..
स्नपनप्रयोगः एकाक्षरेणऽ मन्त्रेण प्रोक्ष्यं गृह्य प्रदक्षिणं । कूर्चेनादाय संस्राव्य मूर्ध्निवै स्नापयेन्मृदा ॥ २२.१३६ ॥
snapanaprayogaḥ ekākṣareṇa' mantreṇa prokṣyaṃ gṛhya pradakṣiṇaṃ . kūrcenādāya saṃsrāvya mūrdhnivai snāpayenmṛdā .. 22.136 ..
विश्वे निमग्नऽइत्युक्त्वापर्वतेन प्रदक्षिणं । धान्येन स्नापयेच्चैव प्राणप्रसूतिऽमुच्चरन् ॥ २२.१३७ ॥
viśve nimagna'ityuktvāparvatena pradakṣiṇaṃ . dhānyena snāpayeccaiva prāṇaprasūti'muccaran .. 22.137 ..
वितत्य बाणऽमित्युक्त्वा अङ्कुरैरेव चार्ऽचयेथ् । त्वं यऽज्ञेति च मन्त्रेण मङ्गलैश्च प्रदक्षिणं ॥ २२.१३८ ॥
vitatya bāṇa'mityuktvā aṅkuraireva cār'cayeth . tvaṃ ya'jñeti ca mantreṇa maṅgalaiśca pradakṣiṇaṃ .. 22.138 ..
वसोः पवित्रऽमित्युक्त्वा पञ्चगव्याभिषेचनं । वारीश्चतस्रऽइत्युक्त्वा सर्वोपस्नानमाचरेथ् ॥ २२.१३९ ॥
vasoḥ pavitra'mityuktvā pañcagavyābhiṣecanaṃ . vārīścatasra'ityuktvā sarvopasnānamācareth .. 22.139 ..
अग्न आयाहिऽ मन्त्रेण घृतेनैवाभिषे चयेथ् । अग्निमीलेति मन्त्रेण मधुनैवाभिषेचयेथ् ॥ २२.१४० ॥
agna āyāhi' mantreṇa ghṛtenaivābhiṣe cayeth . agnimīleti mantreṇa madhunaivābhiṣecayeth .. 22.140 ..
दध्माभिषेचयेत्पश्चा"दिषे त्वेऽति समुच्चरन् । शन्नो देवीरऽभीत्युक्त्वा क्षीरेणैवाभिषेचयेथ् ॥ २२.१४१ ॥
dadhmābhiṣecayetpaścā"diṣe tve'ti samuccaran . śanno devīra'bhītyuktvā kṣīreṇaivābhiṣecayeth .. 22.141 ..
अभि त्वा शूरऽइत्युक्त्वा स्नापयेद्गन्धवारिणा । इमा ओषधयऽइत्युक्त्वा स्नापयेदक्षतोदकैः ॥ २२.१४२ ॥
abhi tvā śūra'ityuktvā snāpayedgandhavāriṇā . imā oṣadhaya'ityuktvā snāpayedakṣatodakaiḥ .. 22.142 ..
जपन्दऽत्वेति चोच्छार्य फलोदैश्चाभिषेचयेथ् । चत्वाऽरीति च मन्त्रेण कुशोदैश्चाभिषेचयेथ् ॥ २२.१४३ ॥
japanda'tveti cocchārya phalodaiścābhiṣecayeth . catvā'rīti ca mantreṇa kuśodaiścābhiṣecayeth .. 22.143 ..
तत्पुरुषाऽयेति मन्त्रेण रत्नोदैश्चाभिषेचयेथ् । पूत स्तऽन्येति मन्त्रेण जप्योदैरभिषेचयेथ् ॥ २२.१४४ ॥
tatpuruṣā'yeti mantreṇa ratnodaiścābhiṣecayeth . pūta sta'nyeti mantreṇa japyodairabhiṣecayeth .. 22.144 ..
चत्वारि श्रुंगेत्युच्चार्य सर्यौषध्युदकैश्चरेथ् । धाता विधाऽतेत्युच्चार्य पुण्यपुष्पैरथार्चयेथ् ॥ २२.१४५ ॥
catvāri śruṃgetyuccārya saryauṣadhyudakaiścareth . dhātā vidhā'tetyuccārya puṇyapuṣpairathārcayeth .. 22.145 ..
ऋचो यजूंषिऽ मन्त्रेण चूर्णेन स्नापयेद्गुरुः । स एष देवऽ उच्चार्य उद्वर्तेत कषायकैः ॥ २२.१४६ ॥
ṛco yajūṃṣi' mantreṇa cūrṇena snāpayedguruḥ . sa eṣa deva' uccārya udvarteta kaṣāyakaiḥ .. 22.146 ..
स सर्ववेत्ताऽमन्त्रेण तीर्थोदेश्चाभिषेचयेथ् । सामैश्च सांगऽमित्युक्त्वा मार्जयेच्च वनौषधीः ॥ २२.१४७ ॥
sa sarvavettā'mantreṇa tīrthodeścābhiṣecayeth . sāmaiśca sāṃga'mityuktvā mārjayecca vanauṣadhīḥ .. 22.147 ..
हारिद्रचूर्णैस्संस्नाप्य अतो देवाऽ इति ब्रुवन् । त्वं स्त्रीपुमाऽनित्युच्चार्य लेपयेत्सर्वगन्धकैः ॥ २२.१४८ ॥
hāridracūrṇaissaṃsnāpya ato devā' iti bruvan . tvaṃ strīpumā'nityuccārya lepayetsarvagandhakaiḥ .. 22.148 ..
स्नापयेदुष्णतोयेन आपो हिऽष्ठेति चोच्चरन् । नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेथ् ॥ २२.१४९ ॥
snāpayeduṣṇatoyena āpo hi'ṣṭheti coccaran . nityasnānoktamārgeṇa śuddhodairabhiṣecayeth .. 22.149 ..
तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च । धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः ॥ २२.१५० ॥
tattaddravyābhiṣekānte snānavastraṃ visṛjya ca . dhautaṃ samarpayeccaiva pūjayedaṣṭavigrahaiḥ .. 22.150 ..
मित्रस्सुवर्णऽइत्युक्त्वा प्लोतेन परिमृज्य च । वस्त्राद्यैस्समलङ्कृत्य पूर्वोक्तेनैव कारयेथ् ॥ २२.१५१ ॥
mitrassuvarṇa'ityuktvā plotena parimṛjya ca . vastrādyaissamalaṅkṛtya pūrvoktenaiva kārayeth .. 22.151 ..
त्वं भूर्भुवस्त्वंऽमन्त्रेण मूलगन्धेन मार्जयेथ् । बुद्धिमताऽमित्युच्चार्य चालङ्कुर्याच्च धातुभिः ॥ २२.१५२ ॥
tvaṃ bhūrbhuvastvaṃ'mantreṇa mūlagandhena mārjayeth . buddhimatā'mityuccārya cālaṅkuryācca dhātubhiḥ .. 22.152 ..
पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणं । स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाथ कारयेथ् ॥ २२.१५३ ॥
pādyamācamanaṃ dadyādālayasya pradakṣiṇaṃ . svastisūktādisūktaṃ ca japtvācaivātha kārayeth .. 22.153 ..
अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः । महाहाविः प्रभूतं वा यथाशक्ति निवेदयेथ् ॥ २२.१५४ ॥
arcāsthāne tu saṃsthāpya pūjayitvoktamārgataḥ . mahāhāviḥ prabhūtaṃ vā yathāśakti nivedayeth .. 22.154 ..
निष्काधिकं सुवर्णं च सवत्सामपि गां तथा । गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च ॥ २२.१५५ ॥
niṣkādhikaṃ suvarṇaṃ ca savatsāmapi gāṃ tathā . gurave dakṣiṇāṃ dadyātsnāpakānāṃ tathaiva ca .. 22.155 ..
तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणां । दद्यात्कर्मफलं प्राप्य यजमानोऽथ भक्तिमान् ॥ २२.१५६ ॥
tatrānyakarmakartṝṇāṃ yathāśaktyāca dakṣiṇāṃ . dadyātkarmaphalaṃ prāpya yajamāno'tha bhaktimān .. 22.156 ..
स्नपनायत्तमुद्दिष्टधान्यद्रव्यांबराणि च । पात्राणि च तथान्यानि स्नपनान्ते धृतानि च ॥ २२.१५७ ॥
snapanāyattamuddiṣṭadhānyadravyāṃbarāṇi ca . pātrāṇi ca tathānyāni snapanānte dhṛtāni ca .. 22.157 ..
निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः । ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेथ् ॥ २२.१५८ ॥
nivedayitvā gurave praṇamecca muhurmuhuḥ . dhruvārcanā yadi syāttu pramukhe snapanaṃ careth .. 22.158 ..
वितानस्तंभवेष्टादिपूर्ववत्कारयेत्ततः । पञ्चहस्ताभेदेषु पङ्क्तिं कुर्याद्विधानतः ॥ २२.१५९ ॥
vitānastaṃbhaveṣṭādipūrvavatkārayettataḥ . pañcahastābhedeṣu paṅktiṃ kuryādvidhānataḥ .. 22.159 ..
मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववथ् । ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशं ॥ २२.१६० ॥
madhye kubhaṃ ca snyasya arcayitvā ca pūrvavath . dhruvapīṭhasya paritaḥ kūrcayuktaṃ caturdiśaṃ .. 22.160 ..
जयादीरर्चयित्वातु मृदादीन्पूर्ववत्क्रमाथ् । तत्पात्रं संप्रगृह्यैव पाणिभ्यां क्षालनं चरेथ् ॥ २२.१६१ ॥
jayādīrarcayitvātu mṛdādīnpūrvavatkramāth . tatpātraṃ saṃpragṛhyaiva pāṇibhyāṃ kṣālanaṃ careth .. 22.161 ..
अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेथ् । द्रव्यं प्रति विशेषेण पूरयित्वार्ऽचयेत्क्रमाथ् ॥ २२.१६२ ॥
atha vā pātramādāya pūrayitvātu sannyaseth . dravyaṃ prati viśeṣeṇa pūrayitvār'cayetkramāth .. 22.162 ..
पाद्यं चाचमनं पुष्पं गन्धं धूपं तथैव च । दीपमर्घ्यं तथाचाममर्चयित्वाष्टविग्रहैः ॥ २२.१६३ ॥
pādyaṃ cācamanaṃ puṣpaṃ gandhaṃ dhūpaṃ tathaiva ca . dīpamarghyaṃ tathācāmamarcayitvāṣṭavigrahaiḥ .. 22.163 ..
देवदेवं नमस्कृत्य प्रदक्षिणमथाचरेथ् । देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना ॥ २२.१६४ ॥
devadevaṃ namaskṛtya pradakṣiṇamathācareth . devasya puratastiṣṭheddravyamādāya pāṇinā .. 22.164 ..
गौशृङ्गाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमाथ् । पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेथ् ॥ २२.१६५ ॥
gauśṛṅgāgraṃ samuddhṛtya pūrvoktavidhinā kramāth . punaḥ pradakṣiṇaṃ kṛtvā pūrvasthāne tu vinyaseth .. 22.165 ..
ध्रुवेणाभ्यस्तरे चैव बिंबैरन्यैस्सहैवतु । पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेथ् ॥ २२.१६६ ॥
dhruveṇābhyastare caiva biṃbairanyaissahaivatu . pūrvamuktaṃ dhruvārcā cetsnapanaṃ samyagācareth .. 22.166 ..
यथोक्तेनैव मार्गेण यथाविधि समर्चयेत्चत्वारिंशथ् ॥ २२.१६७ ॥
yathoktenaiva mārgeṇa yathāvidhi samarcayetcatvāriṃśath .. 22.167 ..
गव्यं श्रुतं दधि मधु क्षीरे स्याद्रत्न तोयकं ॥ २२.१६८ ॥
gavyaṃ śrutaṃ dadhi madhu kṣīre syādratna toyakaṃ .. 22.168 ..
जप्यं द्वादशैतान्समाहृत्य ॥ २२.१६९ ॥
japyaṃ dvādaśaitānsamāhṛtya .. 22.169 ..
न्तु उपस्नानमेकं हारिद्र मध्यमोत्तमं ॥ २२.१७० ॥
ntu upasnānamekaṃ hāridra madhyamottamaṃ .. 22.170 ..
उपस्नानवि माधमं चैव स्नपनं तु विधीयते ॥ २२.१७१ ॥
upasnānavi mādhamaṃ caiva snapanaṃ tu vidhīyate .. 22.171 ..
स्तथा कुर्यात्कलशैस्तु चतुर्दशैः ॥ २२.१७२ ॥
stathā kuryātkalaśaistu caturdaśaiḥ .. 22.172 ..
मध्यमे मध्यमं चैव मध्यमाधम विधीयते ॥ २२.१७३ ॥
madhyame madhyamaṃ caiva madhyamādhama vidhīyate .. 22.173 ..
सप्तभिः कलशैः मध्यमं तेषां षड्भिः कल ॥ २२.१७४ ॥
saptabhiḥ kalaśaiḥ madhyamaṃ teṣāṃ ṣaḍbhiḥ kala .. 22.174 ..
धममुच्यते चतुर्दशैः ॥ २२.१७५ ॥
dhamamucyate caturdaśaiḥ .. 22.175 ..
गव्यं घृतं क्षीरमक्ष पस्नानं तथैव च ॥ २२.१७६ ॥
gavyaṃ ghṛtaṃ kṣīramakṣa pasnānaṃ tathaiva ca .. 22.176 ..
एतै दशैतान्कलस्याचेत्क्र? त ॥ २२.१७७ ॥
etai daśaitānkalasyācetkra? ta .. 22.177 ..
पूर्वोक्तेनैव कलशस्यचेथ् ॥ २२.१७८ ॥
pūrvoktenaiva kalaśasyaceth .. 22.178 ..
दिक्षष्ट गव्यैस्तु ऐन्द्रे घृतमि ॥ २२.१७९ ॥
dikṣaṣṭa gavyaistu aindre ghṛtami .. 22.179 ..
म्येगन्धोदकं तथा पयो त्यां वारुण्यामक्षतोदकं ॥ २२.१८० ॥
myegandhodakaṃ tathā payo tyāṃ vāruṇyāmakṣatodakaṃ .. 22.180 ..
स्ॐये जप्योदकं क्रमात्व्यस्तुसप्तभिः कलशैः ॥ २२.१८१ ॥
s_oṃye japyodakaṃ kramātvyastusaptabhiḥ kalaśaiḥ .. 22.181 ..
चत्रिषट्योणस्थलं सप्तभिः कलशोक्तवथ् ॥ २२.१८२ ॥
catriṣaṭyoṇasthalaṃ saptabhiḥ kalaśoktavath .. 22.182 ..
नवकोष्ठन्तु तत्र वै म भश्च कुशांभसा ॥ २२.१८३ ॥
navakoṣṭhantu tatra vai ma bhaśca kuśāṃbhasā .. 22.183 ..
जप्या विन्यसेतेवमेवं येथ् ॥ २२.१८४ ॥
japyā vinyasetevamevaṃ yeth .. 22.184 ..
दक्षिणायनकालेतु उत्तरायणकालेतु पश्चाथ् ॥ २२.१८५ ॥
dakṣiṇāyanakāletu uttarāyaṇakāletu paścāth .. 22.185 ..
ये तु संप्राप्ते तत्सूर्येंदूपरागेषु स्नपनं देवदेवस्य कृत्वा त ॥ २२.१८६ ॥
ye tu saṃprāpte tatsūryeṃdūparāgeṣu snapanaṃ devadevasya kṛtvā ta .. 22.186 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वाविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvāviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In