| |
|

This overlay will guide you through the buttons:

अथैकादशोऽध्यायः.
अथ एकादशः अध्यायः।
atha ekādaśaḥ adhyāyaḥ.
अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ॥ ११.१ ॥
अथ अतस् संप्रवक्ष्यामि प्रतिष्ठा-विधिम् उत्तमम् सु प्रशस्ते मुहूर्ते वै प्रतिष्ठाम् कारयेत् बुधः ॥ ११।१ ॥
atha atas saṃpravakṣyāmi pratiṣṭhā-vidhim uttamam su praśaste muhūrte vai pratiṣṭhām kārayet budhaḥ .. 11.1 ..
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् । विप्रान्वेदविदश्श्रेष्ठान्धार्मिकान्ज्ञापतत्परान् ॥ ११.२ ॥
वैखानसेन सूत्रेण निषेक-आदि-क्रिया-अन्वितान् । विप्रान् वेद-विदः श्रेष्ठान् धार्मिकान् ज्ञाप-तत्परान् ॥ ११।२ ॥
vaikhānasena sūtreṇa niṣeka-ādi-kriyā-anvitān . viprān veda-vidaḥ śreṣṭhān dhārmikān jñāpa-tatparān .. 11.2 ..
स्ॐयान्जितेन्द्रियान्शुद्धान्विष्णोराराधने परान् । ऊहापोहविधानेन ध्वस्तसंशयमानसान् ॥ ११.३ ॥
सों यान् जित-इन्द्रियान् शुद्धान् विष्णोः आराधने परान् । ऊह-अपोह-विधानेन ध्वस्त-संशय-मानसान् ॥ ११।३ ॥
soṃ yān jita-indriyān śuddhān viṣṇoḥ ārādhane parān . ūha-apoha-vidhānena dhvasta-saṃśaya-mānasān .. 11.3 ..
पत्न्यपत्ययुतान्शान्तान्स्नानशीलान्सुरूपिणः । आहूय पूज्यतत्रैकं सर्वकार्योपदेशकं ॥ ११.४ ॥
पत्नी-अपत्य-युतान् शान्तान् स्नान-शीलान् सुरूपिणः । आहूय सर्व-कार्य-उपदेशकम् ॥ ११।४ ॥
patnī-apatya-yutān śāntān snāna-śīlān surūpiṇaḥ . āhūya sarva-kārya-upadeśakam .. 11.4 ..
आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेथ् । भूमिः परीक्षिता येन गुरुणा विधिपूर्वकं ॥ ११.५ ॥
आचार्यम् वरयित्वा एव तेन उक्तम् सर्व मा आचरेथ् । भूमिः परीक्षिता येन गुरुणा विधि-पूर्वकम् ॥ ११।५ ॥
ācāryam varayitvā eva tena uktam sarva mā ācareth . bhūmiḥ parīkṣitā yena guruṇā vidhi-pūrvakam .. 11.5 ..
कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेथ् । ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेथ् ॥ ११.६ ॥
कर्षण-आदि-प्रतिष्ठा-अन्तम् कर्म तेन एव । तत्र तेन एव ॥ ११।६ ॥
karṣaṇa-ādi-pratiṣṭhā-antam karma tena eva . tatra tena eva .. 11.6 ..
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा । तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ ११.७ ॥
तद्-अभावे तु तद्-पुत्रम् पौत्रम् नप्तारम् एव वा । तस्य एव भ्रातरम् शिष्यम् प्रशिष्यम् गुरुम् एव वा ॥ ११।७ ॥
tad-abhāve tu tad-putram pautram naptāram eva vā . tasya eva bhrātaram śiṣyam praśiṣyam gurum eva vā .. 11.7 ..
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरं । तदनुज्ञात मितर माचार्यत्वे नियोजयेथ् ॥ ११.८ ॥
सब्रह्मचारिणम् वा अपि पूर्व-अभावे तथा उत्तरम् । तद्-अनुज्ञातम् इतरम् आचार्य-त्वे नियोजयेथ् ॥ ११।८ ॥
sabrahmacāriṇam vā api pūrva-abhāve tathā uttaram . tad-anujñātam itaram ācārya-tve niyojayeth .. 11.8 ..
अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति । क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ॥ ११.९ ॥
अन्यधा चेद् महान् दोषः राजा राष्ट्रम् च नश्यति । क्षीयन्ते वर्ण-धर्माः च जायते वर्ण-संकरः ॥ ११।९ ॥
anyadhā ced mahān doṣaḥ rājā rāṣṭram ca naśyati . kṣīyante varṇa-dharmāḥ ca jāyate varṇa-saṃkaraḥ .. 11.9 ..
अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरं ॥ ११.१० ॥
अग्निहोत्राः न सीदन्ति स्वाध्यायः न प्रवर्तते । विपरीतानि च अन्यानि भविष्यन्ति अधरोत्तरम् ॥ ११।१० ॥
agnihotrāḥ na sīdanti svādhyāyaḥ na pravartate . viparītāni ca anyāni bhaviṣyanti adharottaram .. 11.10 ..
तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेथ् । श्वेतगन्धानुलेपैश्च श्वेतपुष्पांगुलीयकैः ॥ ११.११ ॥
तस्मात् शास्त्र-उक्त-विधिना सर्व-कर्माणि । श्वेत-गन्ध-अनुलेपैः च श्वेत-पुष्प-अंगुलीयकैः ॥ ११।११ ॥
tasmāt śāstra-ukta-vidhinā sarva-karmāṇi . śveta-gandha-anulepaiḥ ca śveta-puṣpa-aṃgulīyakaiḥ .. 11.11 ..
आचार्यादीन्समफ्यर्च्य नमस्कृत्य स्वदैववथ् । कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादराथ् ॥ ११.१२ ॥
आचार्य-आदीन् समफ्यर्च्य नमस्कृत्य । कर्म इदम् मे कुरु अस्व इति याचे द् आचार्य मा आदराथ् ॥ ११।१२ ॥
ācārya-ādīn samaphyarcya namaskṛtya . karma idam me kuru asva iti yāce d ācārya mā ādarāth .. 11.12 ..
शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः । आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ॥ ११.१३ ॥
शिष्यः समर्पयेत् सर्वम् भरम् आचार्य-पादयोः । आचार्यः सु प्रसन्न-आत्मा शिष्य-अनुग्रह-तत्परः ॥ ११।१३ ॥
śiṣyaḥ samarpayet sarvam bharam ācārya-pādayoḥ . ācāryaḥ su prasanna-ātmā śiṣya-anugraha-tatparaḥ .. 11.13 ..
तथैवेति सुसंकल्प्य कुर्याच्चैवांकुरार्पणं । अङ्कुरार्पणकादूर्ध्व मारंभदिवसादधः ॥ ११.१४ ॥
तथा एव इति सु संकल्प्य कुर्यात् च एव अंकुर-अर्पणम् । अङ्कुर-अर्पणकात् ऊर्ध्वम् आरंभ-दिवसात् अधस् ॥ ११।१४ ॥
tathā eva iti su saṃkalpya kuryāt ca eva aṃkura-arpaṇam . aṅkura-arpaṇakāt ūrdhvam āraṃbha-divasāt adhas .. 11.14 ..
कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः । शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ॥ ११.१५ ॥
kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ | śuddhadantanakhaścaiva śvetavastrottarīyakaḥ || 11.15 ||
kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ | śuddhadantanakhaścaiva śvetavastrottarīyakaḥ || 11.15 ||
त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः । एवं क्रमेणवै विद्वानृत्विग्भिः सार्थमाचरेथ् ॥ ११.१६ ॥
त्रिषवण-स्नान-निरतः हविष्य-आशी जित-इन्द्रियः । एवम् क्रमेण वै विद्वान् ऋत्विग्भिः सार्थम् आचरेथ् ॥ ११।१६ ॥
triṣavaṇa-snāna-nirataḥ haviṣya-āśī jita-indriyaḥ . evam krameṇa vai vidvān ṛtvigbhiḥ sārtham ācareth .. 11.16 ..
अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा । मङ्गलानि च दर्वीं च तोरणानि यथाक्रमं ॥ ११.१७ ॥
अरणीम् स्रुच्-च्रुवौ च एव जुहूम् उपभृतम् तथा । मङ्गलानि च दर्वीम् च तोरणानि यथाक्रमम् ॥ ११।१७ ॥
araṇīm sruc-cruvau ca eva juhūm upabhṛtam tathā . maṅgalāni ca darvīm ca toraṇāni yathākramam .. 11.17 ..
न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा । तोरणार्थं समाहृत्य लक्षणेन समन्वितं ॥ ११.१८ ॥
। तोरण-अर्थम् समाहृत्य लक्षणेन समन्वितम् ॥ ११।१८ ॥
. toraṇa-artham samāhṛtya lakṣaṇena samanvitam .. 11.18 ..
अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च । प्रादेशविस्तृतं कुर्यात्षडङ्गुल मथापि वा ॥ ११.१९ ॥
अथ अष्टमङ्गलम् वक्ष्येत् विताल-आयतम् एव च । प्रादेश-विस्तृतम् वा ॥ ११।१९ ॥
atha aṣṭamaṅgalam vakṣyet vitāla-āyatam eva ca . prādeśa-vistṛtam vā .. 11.19 ..
घनं स्याच्चतुरङ्गुल्य? मत वा द्व्यङ्गुलंभवेथ् । तस्य मध्ये लिखे द्विद्वान्तत्तद्रूपं पृथक्पृथक् ॥ ११.२० ॥
घनम् स्यात् चतुर्-अङ्गुल्य? मत वा । तस्य मध्ये लिखे द्वि-द्वान् तद्-तद्-रूपम् पृथक् पृथक् ॥ ११।२० ॥
ghanam syāt catur-aṅgulya? mata vā . tasya madhye likhe dvi-dvān tad-tad-rūpam pṛthak pṛthak .. 11.20 ..
श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा । मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलं ॥ ११.२१ ॥
श्रीवत्सम् पूर्ण-कुंभम् च भेरी मा अदर्शनम् तथा । मत्स्य-युग्म-अङ्कुशौ शङ्ख मा आवर्तम् च अष्टमङ्गलम् ॥ ११।२१ ॥
śrīvatsam pūrṇa-kuṃbham ca bherī mā adarśanam tathā . matsya-yugma-aṅkuśau śaṅkha mā āvartam ca aṣṭamaṅgalam .. 11.21 ..
आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा । ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ॥ ११.२२ ॥
आवर्त-लक्षणम् वक्ष्ये पञ्चविंशत्-पदम् तथा । ईश-आदि-नैरृत-अन्तम् तु पदम् त्रिस् त्रिस् क्रमेण च ॥ ११।२२ ॥
āvarta-lakṣaṇam vakṣye pañcaviṃśat-padam tathā . īśa-ādi-nairṛta-antam tu padam tris tris krameṇa ca .. 11.22 ..
पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेथ् । वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ॥ ११.२३ ॥
पूर्व-मध्यम-पाश्चात्य-पदानि एव तु । वायुव्ये तु अग्निकोण-अन्तम् उदक्-मध्यम-दक्षिणे ॥ ११।२३ ॥
pūrva-madhyama-pāścātya-padāni eva tu . vāyuvye tu agnikoṇa-antam udak-madhyama-dakṣiṇe .. 11.23 ..
अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः । एतैश्च सप्तदशभि रावर्त मभिधीयते ॥ ११.२४ ॥
अन्तराल-पदान् च अष्टौ विना एव तु विचक्षणः । एतैः च सप्तदशभिः रावर्तम् अभिधीयते ॥ ११।२४ ॥
antarāla-padān ca aṣṭau vinā eva tu vicakṣaṇaḥ . etaiḥ ca saptadaśabhiḥ rāvartam abhidhīyate .. 11.24 ..
शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि । स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतं ॥ ११.२५ ॥
शङ्ख-चक्र-गदा-चापाः असिः पञ्च आयुधानि अपि । स्रुचः स्रुवस्य दण्डम् तु ॥ ११।२५ ॥
śaṅkha-cakra-gadā-cāpāḥ asiḥ pañca āyudhāni api . srucaḥ sruvasya daṇḍam tu .. 11.25 ..
मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकं । अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलं ॥ ११.२६ ॥
मूलम् प्रादेश-मात्रम् स्यात् अग्रनाहम् तद्-अर्धकम् । अग्रे बिल्व-फल-आकारम् प्रतिमण्डलम् ॥ ११।२६ ॥
mūlam prādeśa-mātram syāt agranāham tad-ardhakam . agre bilva-phala-ākāram pratimaṇḍalam .. 11.26 ..
द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि । स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ॥ ११.२७ ॥
द्वि-अङ्गुलम् स्यात् तद्-आस्यन्तु कर्तम् माष-द्वय-अवधि । स्रुवम् एवम् प्रकुर्वीत द्वि-प्रादेश मथ अपि वा ॥ ११।२७ ॥
dvi-aṅgulam syāt tad-āsyantu kartam māṣa-dvaya-avadhi . sruvam evam prakurvīta dvi-prādeśa matha api vā .. 11.27 ..
जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलं । नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमं ॥ ११.२८ ॥
जुहू-दण्ड-समायामम् चतुर्विंशतक-अङ्गुलम् । न अहम् तद्-अर्धम् इति उक्तम् पद्मस्य मुकुल-उपमम् ॥ ११।२८ ॥
juhū-daṇḍa-samāyāmam caturviṃśataka-aṅgulam . na aham tad-ardham iti uktam padmasya mukula-upamam .. 11.28 ..
षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः । युगाङ्गुलाग्रविस्तार मष्टांगुल मथायतं ॥ ११.२९ ॥
षष्-अङ्गुलम् तु तस्य अग्रम् न अहम् तस्य विचक्षणः । युग-अङ्गुल-अग्र-विस्तार अष्ट-अंगुल अथ आयतम् ॥ ११।२९ ॥
ṣaṣ-aṅgulam tu tasya agram na aham tasya vicakṣaṇaḥ . yuga-aṅgula-agra-vistāra aṣṭa-aṃgula atha āyatam .. 11.29 ..
शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलं । मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ॥ ११.३० ॥
शेषम् तु इति उक्तम् विस्तृत-उन्नत अङ्गुलम् । मध्य-गर्त-आनुपूर्व्येण जुह्वाः च एव क्रमम् विदुः ॥ ११।३० ॥
śeṣam tu iti uktam vistṛta-unnata aṅgulam . madhya-garta-ānupūrvyeṇa juhvāḥ ca eva kramam viduḥ .. 11.30 ..
पश्चादुपभृतं कुर्यात्प्रादेशत्रय मायतं । प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकं ॥ ११.३१ ॥
पश्चात् उपभृतम् कुर्यात् प्रादेश-त्रयम् आयतम् । प्रादेशम् न अहम् इति उक्तम् मूलात् अग्रम् तद्-अर्धकम् ॥ ११।३१ ॥
paścāt upabhṛtam kuryāt prādeśa-trayam āyatam . prādeśam na aham iti uktam mūlāt agram tad-ardhakam .. 11.31 ..
आनुपूर्व्यात्कृशं दण्डं गलान्तमिति संज्ञितं । ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलं ॥ ११.३२ ॥
आनुपूर्व्यात् कृशम् दण्डम् गल-अन्तम् इति संज्ञितम् । ऊर्ध्वे प्रादेशम् आयामम् चतुरश्रम् षष्-अङ्गुलम् ॥ ११।३२ ॥
ānupūrvyāt kṛśam daṇḍam gala-antam iti saṃjñitam . ūrdhve prādeśam āyāmam caturaśram ṣaṣ-aṅgulam .. 11.32 ..
तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते । शेषं तु त्षश्रकं कुर्यात्तत्र तेनैव कारयेथ् ॥ ११.३३ ॥
तद्-ऊर्ध्वेः अध अङ्गुल-आयामम् कण्ठ एवम् प्रचक्षते । शेषम् तु कुर्यात् तत्र तेन एव ॥ ११।३३ ॥
tad-ūrdhveḥ adha aṅgula-āyāmam kaṇṭha evam pracakṣate . śeṣam tu kuryāt tatra tena eva .. 11.33 ..
उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते । ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेथ् ॥ ११.३४ ॥
उन्नत-अस्य अङ्गुल-अर्धम् स्यात् भित्ति-उच्चम् इति कथ्यते । ओष्ठम् एक-अङ्गुलम् ज्ञात्वा तद्-मध्येनिम्नम् आचरेथ् ॥ ११।३४ ॥
unnata-asya aṅgula-ardham syāt bhitti-uccam iti kathyate . oṣṭham eka-aṅgulam jñātvā tad-madhyenimnam ācareth .. 11.34 ..
पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकं । निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ॥ ११.३५ ॥
pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakaṃ | nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ || 11.35 ||
pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakaṃ | nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ || 11.35 ||
अथ दर्व्यास्तथायामं चतुर्विंशतिकांगुलं । षडङ्गुलं तदग्रं स्यात्पुच्छं पञ्चांगुलं भवेथ् ॥ ११.३६ ॥
अथ दर्व्याः तथा आयामम् चतुर्विंशतिक-अंगुलम् । षष्-अङ्गुलम् तद्-अग्रम् स्यात् पुच्छम् पञ्च-अंगुलम् ॥ ११।३६ ॥
atha darvyāḥ tathā āyāmam caturviṃśatika-aṃgulam . ṣaṣ-aṅgulam tad-agram syāt puccham pañca-aṃgulam .. 11.36 ..
शेषं त्रयोदशांगुल्यादण्ड मित्युच्यते क्रमाथ् । मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकं ॥ ११.३७ ॥
शेषम् त्रयोदश-अंगुल्यात् अण्डम् इति उच्यते । मूल-स्थूलम् भवेत् नारी अग्र-स्थूलम् नपुंसकम् ॥ ११।३७ ॥
śeṣam trayodaśa-aṃgulyāt aṇḍam iti ucyate . mūla-sthūlam bhavet nārī agra-sthūlam napuṃsakam .. 11.37 ..
मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते । दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ॥ ११.३८ ॥
मूलात् अग्रम् क्रमात् वृत्तम् मी इति कथ्यते । दर्भैः मालाम् च कृत्वा एव तस्याम् पर्वणि पर्वणि ॥ ११।३८ ॥
mūlāt agram kramāt vṛttam mī iti kathyate . darbhaiḥ mālām ca kṛtvā eva tasyām parvaṇi parvaṇi .. 11.38 ..
द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमाथ् । द्वितालायामसंयुक्तं खादिरं दण्डमेव च ॥ ११.३९ ॥
द्वौ द्वौ दर्भौ द्वि-तालम् लंबयेत् क्रमाथ् । द्वि-ताल-आयाम-संयुक्तम् खादिरम् दण्डम् एव च ॥ ११।३९ ॥
dvau dvau darbhau dvi-tālam laṃbayet kramāth . dvi-tāla-āyāma-saṃyuktam khādiram daṇḍam eva ca .. 11.39 ..
दशांगुलपरीणाहं समवृत्तं तथैव हि । शाखांगुलसमायुक्तं मूलादग्रं तु बन्धयेथ् ॥ ११.४० ॥
दश-अंगुल-परीणाहम् सम-वृत्तम् तथा एव हि । शाखा-अंगुल-समायुक्तम् मूलात् अग्रम् तु ॥ ११।४० ॥
daśa-aṃgula-parīṇāham sama-vṛttam tathā eva hi . śākhā-aṃgula-samāyuktam mūlāt agram tu .. 11.40 ..
तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः । तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकं ॥ ११.४१ ॥
तत् ताम्र-आयस-पट्टैः वा आबन्धयित्वा विचक्षणः । तद्-मूले सुषिरम् कृत्वा गोलकम् तद्-प्रमाणकम् ॥ ११।४१ ॥
tat tāmra-āyasa-paṭṭaiḥ vā ābandhayitvā vicakṣaṇaḥ . tad-mūle suṣiram kṛtvā golakam tad-pramāṇakam .. 11.41 ..
एवन्तु मन्थदण्डस्स्यात्कुर्यात्तच्छास्त्रपारगः । शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ॥ ११.४२ ॥
एवम् तु मन्थ-दण्डः स्यात् कुर्यात् तद्-शास्त्र-पारगः । शमीजात मरणी-अर्थम् प्रगृह्य च ॥ ११।४२ ॥
evam tu mantha-daṇḍaḥ syāt kuryāt tad-śāstra-pāragaḥ . śamījāta maraṇī-artham pragṛhya ca .. 11.42 ..
षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेथ् । दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ॥ ११.४३ ॥
षष्-अङ्गुलम् तु विस्तारम् गोलकम् तु घनम् । दैर्घ्यम् तस्य द्वि-तालम् स्यात् फलकाम् कारयेत् बुधः ॥ ११।४३ ॥
ṣaṣ-aṅgulam tu vistāram golakam tu ghanam . dairghyam tasya dvi-tālam syāt phalakām kārayet budhaḥ .. 11.43 ..
तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः । मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेथ् ॥ ११.४४ ॥
तथा एवा उपरि पट्टिम् च कृत्वा तत्र विचक्षणः । मैञ्ज्या एव त्रिवृताम् रज्जुम् मन्थन-अर्थाय कारयेथ् ॥ ११।४४ ॥
tathā evā upari paṭṭim ca kṛtvā tatra vicakṣaṇaḥ . maiñjyā eva trivṛtām rajjum manthana-arthāya kārayeth .. 11.44 ..
दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते । त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ॥ ११.४५ ॥
दश-अष्ट-नवभिः हस्तैः वस्त्र मुच्यते । त्रि-चतुर्-पञ्च-तालम् वा अविस्तृतम् वस्त्रम् उच्यते ॥ ११।४५ ॥
daśa-aṣṭa-navabhiḥ hastaiḥ vastra mucyate . tri-catur-pañca-tālam vā avistṛtam vastram ucyate .. 11.45 ..
गव्यं घृतं चाहरेत कापिलं तु गवादिषु । आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेथ् ॥ ११.४६ ॥
गव्यम् घृतम् च आहरेत कापिलम् तु गो-आदिषु । आजम् च माहिषम् त्याज्यम् पक्षातीतम् च ॥ ११।४६ ॥
gavyam ghṛtam ca āhareta kāpilam tu go-ādiṣu . ājam ca māhiṣam tyājyam pakṣātītam ca .. 11.46 ..
पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा । ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ॥ ११.४७ ॥
पादौ प्रक्षाल्य च आचम्य पूर्व-उदक्-मुखः एव वा । आस्थाय वैष्णवम् मन्त्रम् उच्चरन् ॥ ११।४७ ॥
pādau prakṣālya ca ācamya pūrva-udak-mukhaḥ eva vā . āsthāya vaiṣṇavam mantram uccaran .. 11.47 ..
परिस्तरणकूर्चादीन्समिथादीन्प्रगृह्यच । कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ॥ ११.४८ ॥
परिस्तरण-कूर्च-आदीन् समिथ-आदीन् प्रगृह्य च । कूर्चम् प्रदक्षिण-आवर्तम् गृह्णीयाः द्विधि-वित्तमः ॥ ११।४८ ॥
paristaraṇa-kūrca-ādīn samitha-ādīn pragṛhya ca . kūrcam pradakṣiṇa-āvartam gṛhṇīyāḥ dvidhi-vittamaḥ .. 11.48 ..
प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेथ् । यागशाला षोडशस्तंभसंयुक्तं मण्डपं कूटमेववा ॥ ११.४९ ॥
प्रमुखे दक्षिणे वा अपि याग-शालाम् । याग-शाला षोडश-स्तंभ-संयुक्तम् मण्डपम् कूटम् एव वा ॥ ११।४९ ॥
pramukhe dakṣiṇe vā api yāga-śālām . yāga-śālā ṣoḍaśa-staṃbha-saṃyuktam maṇḍapam kūṭam eva vā .. 11.49 ..
प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेथ् । निम्नोन्नतं विभज्यैव जलस्थलसमीपकं ॥ ११.५० ॥
प्रपाम् वा तत्र कुर्वीत मध्ये कूटम् च । निम्न-उन्नतम् विभज्य एव जल-स्थल-समीपकम् ॥ ११।५० ॥
prapām vā tatra kurvīta madhye kūṭam ca . nimna-unnatam vibhajya eva jala-sthala-samīpakam .. 11.50 ..
पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमं । मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः ॥ ११.५१ ॥
पूर्व-उक्तेन विधानेन अलङ्कृत्य यथाक्रमम् । मध्ये वेदिम् प्रकल्प्य एव बिंब-अध्यर्ध-प्रमाणतः ॥ ११।५१ ॥
pūrva-uktena vidhānena alaṅkṛtya yathākramam . madhye vedim prakalpya eva biṃba-adhyardha-pramāṇataḥ .. 11.51 ..
तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेथ् । सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकं ॥ ११.५२ ॥
सभ्य-कुण्डम् । सभ्यस्य पूर्व-भागे तु कुण्डम् आहवनीयकम् ॥ ११।५२ ॥
sabhya-kuṇḍam . sabhyasya pūrva-bhāge tu kuṇḍam āhavanīyakam .. 11.52 ..
उत्तरेवापुनः कुर्या दौपासनविधानतः । सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेथ् ॥ ११.५३ ॥
कुर्याः दौपासन-विधानतः । सभ्यस्य दक्षिणे कुण्डम् पैण्डरीकम् प्रकल्पयेथ् ॥ ११।५३ ॥
kuryāḥ daupāsana-vidhānataḥ . sabhyasya dakṣiṇe kuṇḍam paiṇḍarīkam prakalpayeth .. 11.53 ..
वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेथ् । नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ॥ ११.५४ ॥
वेद्याः तु दक्षिणे कुण्डम् अन्वाहार्यम् प्रकल्पयेथ् । नैरृते देवता-स्थानम् कल्पयेत् त द्विचक्षणः ॥ ११।५४ ॥
vedyāḥ tu dakṣiṇe kuṇḍam anvāhāryam prakalpayeth . nairṛte devatā-sthānam kalpayet ta dvicakṣaṇaḥ .. 11.54 ..
वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेथ् । वायव्ये संचयस्थानं कल्पयेत्तद्विधानतः ॥ ११.५५ ॥
पश्चिमे भागे गार्हपत्यम् प्रकल्पयेथ् । वायव्ये संचय-स्थानम् कल्पयेत् तत् विधानतः ॥ ११।५५ ॥
paścime bhāge gārhapatyam prakalpayeth . vāyavye saṃcaya-sthānam kalpayet tat vidhānataḥ .. 11.55 ..
वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेथ् । ऐशान्ये स्नापनश्वभ्रं कल्पयेत्तद्विधानतः ॥ ११.५६ ॥
वेद्याः तथा उत्तरे भागे त्वावसध्यम् प्रकल्पयेथ् । ऐशान्ये स्नापन-श्वभ्रम् कल्पयेत् तत् विधानतः ॥ ११।५६ ॥
vedyāḥ tathā uttare bhāge tvāvasadhyam prakalpayeth . aiśānye snāpana-śvabhram kalpayet tat vidhānataḥ .. 11.56 ..
सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते । अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ॥ ११.५७ ॥
सभ्यस्य पैण्डरीकस्य मैखला-त्रयम् उच्यते । अन्येषाम् च एव कुण्डानाम् मेखला-द्वयम् एव हि ॥ ११।५७ ॥
sabhyasya paiṇḍarīkasya maikhalā-trayam ucyate . anyeṣām ca eva kuṇḍānām mekhalā-dvayam eva hi .. 11.57 ..
एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलं । सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलं ॥ ११.५८ ॥
एकैक-वेद्याः चतुर्-अङ्गुलम् । सभ्यस्य मध्यमम् पञ्च पद्मस्य अधस् षष्-अङ्गुलम् ॥ ११।५८ ॥
ekaika-vedyāḥ catur-aṅgulam . sabhyasya madhyamam pañca padmasya adhas ṣaṣ-aṅgulam .. 11.58 ..
औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलं । दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ॥ ११.५९ ॥
तु । दक्षिण-उत्तरयोः च एव संस्थानम् ब्रह्म-सोमयोः ॥ ११।५९ ॥
tu . dakṣiṇa-uttarayoḥ ca eva saṃsthānam brahma-somayoḥ .. 11.59 ..
द्वादशांगुलसंयुक्तं चतुरश्रं सुवृत्तकं । शल्यलोष्टतुषांगारतृणभस्मादिहीनया ॥ ११.६० ॥
द्वादश-अंगुल-संयुक्तम् चतुर्-अश्रम् सु वृत्तकम् । शल्य-लोष्ट-तुष-अंगार-तृण-भस्म-आदि-हीनया ॥ ११।६० ॥
dvādaśa-aṃgula-saṃyuktam catur-aśram su vṛttakam . śalya-loṣṭa-tuṣa-aṃgāra-tṛṇa-bhasma-ādi-hīnayā .. 11.60 ..
मृदा वा वालुकैस्तत्र पृथक्कुण्डं प्रकल्पयेथ् । यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ॥ ११.६१ ॥
मृदा वा वालुकैः तत्र पृथक् कुण्डम् । याग-स्थानस्य पूर्वे तु प्रपाम् कृत्वा विचक्षणः ॥ ११।६१ ॥
mṛdā vā vālukaiḥ tatra pṛthak kuṇḍam . yāga-sthānasya pūrve tu prapām kṛtvā vicakṣaṇaḥ .. 11.61 ..
नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेथ् । नयनोन्मीलनम् उक्तक्रियावसाने तु बेरमादायचात्वरः ॥ ११.६२ ॥
नयन-उन्मीलन-अर्ऽथाय याग-शालाम् प्रकल्पयेथ् । नयन-उन्मीलनम् उक्त-क्रिया-अवसाने तु ॥ ११।६२ ॥
nayana-unmīlana-ar'thāya yāga-śālām prakalpayeth . nayana-unmīlanam ukta-kriyā-avasāne tu .. 11.62 ..
शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनं । देवस्य प्रमुखे कुर्याद्धान्यराशिं विशेषतः ॥ ११.६३ ॥
शिल्पिना शास्त्र-मार्गेण कारयेत् अक्षि-मोचनम् । देवस्य प्रमुखे कुर्यात् धान्य-राशिम् विशेषतः ॥ ११।६३ ॥
śilpinā śāstra-mārgeṇa kārayet akṣi-mocanam . devasya pramukhe kuryāt dhānya-rāśim viśeṣataḥ .. 11.63 ..
हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनां । सवत्सांगां समादाय देवस्य प्रमुखे न्यसेथ् ॥ ११.६४ ॥
हेम-श्रुङ्गाम् रौप्य-खुराम् स वत्साम् कांस्य-दोहनाम् । स वत्स-अंगाम् समादाय देवस्य प्रमुखे न्यसेथ् ॥ ११।६४ ॥
hema-śruṅgām raupya-khurām sa vatsām kāṃsya-dohanām . sa vatsa-aṃgām samādāya devasya pramukhe nyaseth .. 11.64 ..
घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने । रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेथ् ॥ ११.६५ ॥
घृतम् मधु-दधि-क्षीरम् गृहीत्वा कांस्य-भाजने । निक्षिप्य दीप-युक्तम् तु विन्यसेथ् ॥ ११।६५ ॥
ghṛtam madhu-dadhi-kṣīram gṛhītvā kāṃsya-bhājane . nikṣipya dīpa-yuktam tu vinyaseth .. 11.65 ..
हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेथ् । हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ॥ ११.६६ ॥
हेम-पात्रैः तु सूचीभ्याम् रजतैः वा अपि । हूलिकाम् ताटनीम् च एव शीलाम् लोहम् अयसि वै ॥ ११।६६ ॥
hema-pātraiḥ tu sūcībhyām rajataiḥ vā api . hūlikām tāṭanīm ca eva śīlām loham ayasi vai .. 11.66 ..
बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः । पर्यग्नि चैव कृत्वातु प्रोक्षयेत्पञ्चगव्यकैः ॥ ११.६७ ॥
बिंबस्य च उत्तरे पार्श्वे वास्तु-होमम् यजेत् ततस् । पर्यग्नि च एव कृत्वा तु प्रोक्षयेत् पञ्चगव्यकैः ॥ ११।६७ ॥
biṃbasya ca uttare pārśve vāstu-homam yajet tatas . paryagni ca eva kṛtvā tu prokṣayet pañcagavyakaiḥ .. 11.67 ..
उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः । हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकं ॥ ११.६८ ॥
उत्तर-अभिमुखः देह-घुद्धिम् कृत्वा गुरुः ततस् । हूलिकाम् ताटनीम् च एव गृहीत्वा मन्त्र-पूर्वकम् ॥ ११।६८ ॥
uttara-abhimukhaḥ deha-ghuddhim kṛtvā guruḥ tatas . hūlikām tāṭanīm ca eva gṛhītvā mantra-pūrvakam .. 11.68 ..
विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् । पटस्य चान्तर्देवस्य मूर्धादीन्संस्पृशेत्क्रमाथ् ॥ ११.६९ ॥
विष्णुः त्वाम् रक्षतु इति उक्त्वा विष्णुसूक्तम् च संस्मरन् । पटस्य च अन्तर् देवस्य मूर्ध-आदीन् संस्पृशेत् क्रमाथ् ॥ ११।६९ ॥
viṣṇuḥ tvām rakṣatu iti uktvā viṣṇusūktam ca saṃsmaran . paṭasya ca antar devasya mūrdha-ādīn saṃspṛśet kramāth .. 11.69 ..
विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेथ् । देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ॥ ११.७० ॥
विष्णुगायत्रीम् मुच्चार्य तत्र कर्म समाचरेथ् । देवीभ्याम् च क्रमेण एव तत् तत् मस्त्रम् जपेत् तदा ॥ ११।७० ॥
viṣṇugāyatrīm muccārya tatra karma samācareth . devībhyām ca krameṇa eva tat tat mastram japet tadā .. 11.70 ..
पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनं । षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ॥ ११.७१ ॥
पश्चात् तु पात्रे सूचीभ्याम् कृहीत्वा च अक्षिमोचनम् । षड् मण्डलानि संस्कुर्यात् अधिदेव मनु-स्मरन् ॥ ११।७१ ॥
paścāt tu pātre sūcībhyām kṛhītvā ca akṣimocanam . ṣaḍ maṇḍalāni saṃskuryāt adhideva manu-smaran .. 11.71 ..
पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसं । एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमाथ् ॥ ११.७२ ॥
पक्ष्म-वर्म च रक्तम् च श्वेतम् कृष्णम् च तैजसम् । एतैः तु मण्डलम् ध्यात्वा ॥ ११।७२ ॥
pakṣma-varma ca raktam ca śvetam kṛṣṇam ca taijasam . etaiḥ tu maṇḍalam dhyātvā .. 11.72 ..
हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने । नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये ॥ ११.७३ ॥
मुदयन्तु द्वि-लोचने । नयन-उन्मीलनम् कुर्यात् सर्व-संपद्-समृद्धये ॥ ११।७३ ॥
mudayantu dvi-locane . nayana-unmīlanam kuryāt sarva-saṃpad-samṛddhaye .. 11.73 ..
अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः । पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेथ् ॥ ११.७४ ॥
अन्धनक्षत्रके कुर्यात् सर्व-नाशम् न संशयः । पुरुषसूक्तम् जपित्वा एव दक्षिणे नयने न्यसेथ् ॥ ११।७४ ॥
andhanakṣatrake kuryāt sarva-nāśam na saṃśayaḥ . puruṣasūktam japitvā eva dakṣiṇe nayane nyaseth .. 11.74 ..
तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् । तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेथ् ॥ ११.७५ ॥
तधा एव वैष्णवम् मन्त्र उच्चरन् । तद्-सूक्ताभ्याम् विशेषेण श्री-भूम्योः च समाचरेथ् ॥ ११।७५ ॥
tadhā eva vaiṣṇavam mantra uccaran . tad-sūktābhyām viśeṣeṇa śrī-bhūmyoḥ ca samācareth .. 11.75 ..
देवस्यांगं स्पृशन्हुत्वा मौलिमालादिपूर्वकं । तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ॥ ११.७६ ॥
देवस्य अंगम् स्पृशन् हुत्वा मौलि-माला-आदि-पूर्वकम् । तथा देव्योः च हुत्वा तु पृथक् ॥ ११।७६ ॥
devasya aṃgam spṛśan hutvā mauli-mālā-ādi-pūrvakam . tathā devyoḥ ca hutvā tu pṛthak .. 11.76 ..
विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेथ् । पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ॥ ११.७७ ॥
विमानम् नूतनम् चेद् तु हुतम् । पर्षदाम् मूर्ति-मन्त्रेण कारयेत् मन्त्र-वित्तमः ॥ ११।७७ ॥
vimānam nūtanam ced tu hutam . parṣadām mūrti-mantreṇa kārayet mantra-vittamaḥ .. 11.77 ..
वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयतां । गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ॥ ११.७८ ॥
वैष्णवम् विष्णुसूक्तम् च सु इष्ट-आकारम् च हूयताम् । गोदान-सूक्त मुच्चार्य कव-आदीन् अभिमृश्य च ॥ ११।७८ ॥
vaiṣṇavam viṣṇusūktam ca su iṣṭa-ākāram ca hūyatām . godāna-sūkta muccārya kava-ādīn abhimṛśya ca .. 11.78 ..
पटं पश्चा द्विसृज्यैव गवादीन्संप्रदर्शयेथ् । गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ॥ ११.७९ ॥
paṭaṃ paścā dvisṛjyaiva gavādīnsaṃpradarśayeth | gavādidravya mādāya dadyācca gurave tataḥ || 11.79 ||
paṭaṃ paścā dvisṛjyaiva gavādīnsaṃpradarśayeth | gavādidravya mādāya dadyācca gurave tataḥ || 11.79 ||
कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै । बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेथ् ॥ ११.८० ॥
कौतुक-आदी न् विशेषेण पूर्व-उक्तेन क्रमेण वै । बेर-पीठे च संपाद्य रत्न-आदीनि विनिक्षिपेथ् ॥ ११।८० ॥
kautuka-ādī n viśeṣeṇa pūrva-uktena krameṇa vai . bera-pīṭhe ca saṃpādya ratna-ādīni vinikṣipeth .. 11.80 ..
रत्नं धातूंश्च बीजानि सुवर्णं चाऽत्र निक्षिपेथ् । एवं संस्थाप्य मतिमान्संताप्यैव दृढं यथा ॥ ११.८१ ॥
रत्नम् धातून् च बीजानि सुवर्णम् च अत्र निक्षिपेथ् । एवम् संस्थाप्य मतिमान् संताप्य एव दृढम् यथा ॥ ११।८१ ॥
ratnam dhātūn ca bījāni suvarṇam ca atra nikṣipeth . evam saṃsthāpya matimān saṃtāpya eva dṛḍham yathā .. 11.81 ..
ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेथ् । पश्चाज्जलाधिवासादीन्कुर्यात्तन्मन्त्रपारगः ॥ ११.८२ ॥
ध्रुवबेर-उक्त-वत् कृत्वा नयन-उन्मीलनम् चरेथ् । पश्चात् जल-अधिवास-आदीन् कुर्यात् तद्-मन्त्र-पारगः ॥ ११।८२ ॥
dhruvabera-ukta-vat kṛtvā nayana-unmīlanam careth . paścāt jala-adhivāsa-ādīn kuryāt tad-mantra-pāragaḥ .. 11.82 ..
पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः । वसोःपवित्रमित्युक्त्वातत्र कार्यं सम्चरेथ् ॥ ११.८३ ॥
पञ्चगव्यम् प्रगृह्य एव प्रोक्षयित्वा विचक्षणः । वसोः पवित्रम् इति उक्त्वा तत्र कार्यम् सम्चरेथ् ॥ ११।८३ ॥
pañcagavyam pragṛhya eva prokṣayitvā vicakṣaṇaḥ . vasoḥ pavitram iti uktvā tatra kāryam samcareth .. 11.83 ..
पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः । शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेथ् ॥ ११.८४ ॥
पश्चात् क्षीरम् समादाय प्रोक्षयित्वा समाहितः । शत् नः देवी इति प्रोच्य तेन कर्म समाचरेथ् ॥ ११।८४ ॥
paścāt kṣīram samādāya prokṣayitvā samāhitaḥ . śat naḥ devī iti procya tena karma samācareth .. 11.84 ..
अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच । प्रदीप मर्पये द्वद्वान्जले तत्राधिवासयेथ् ॥ ११.८५ ॥
अर्थ-दर्शी प्रगृह्य एव देवस्य अग्रे निधाय च । प्रदीप मर्पये तत्र अधिवासयेथ् ॥ ११।८५ ॥
artha-darśī pragṛhya eva devasya agre nidhāya ca . pradīpa marpaye tatra adhivāsayeth .. 11.85 ..
एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः । पञ्चगव्याधिवासं च तथा क्षीराधिवासनं ॥ ११.८६ ॥
एवम् च अत्र अधिवास्य एव पुनर् । पञ्चगव्य-अधिवासम् च तथा क्षीर-अधिवासनम् ॥ ११।८६ ॥
evam ca atra adhivāsya eva punar . pañcagavya-adhivāsam ca tathā kṣīra-adhivāsanam .. 11.86 ..
एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनं । ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिं ॥ ११.८७ ॥
एतद्-द्वयम् विना तत्र कुर्यात् तोय-अधिवासनम् । ग्रामे सर्वत्र तद्-रात्रौ प्रभूतम् निक्षिपेत् बलिम् ॥ ११।८७ ॥
etad-dvayam vinā tatra kuryāt toya-adhivāsanam . grāme sarvatra tad-rātrau prabhūtam nikṣipet balim .. 11.87 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकादशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे एकादशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre ekādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In