| |
|

This overlay will guide you through the buttons:

अथैकादशोऽध्यायः.
athaikādaśo'dhyāyaḥ.
अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्सुप्रशस्ते मुहूर्ते वै प्रतिष्ठां कारयेद्बुधः ॥ ११.१ ॥
athātassaṃpravakṣyāmi pratiṣṭhāvidhimuttamamsupraśaste muhūrte vai pratiṣṭhāṃ kārayedbudhaḥ .. 11.1 ..
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् । विप्रान्वेदविदश्श्रेष्ठान्धार्मिकान्ज्ञापतत्परान् ॥ ११.२ ॥
vaikhānasena sūtreṇa niṣekādikriyānvitān . viprānvedavidaśśreṣṭhāndhārmikānjñāpatatparān .. 11.2 ..
स्ॐयान्जितेन्द्रियान्शुद्धान्विष्णोराराधने परान् । ऊहापोहविधानेन ध्वस्तसंशयमानसान् ॥ ११.३ ॥
s_oṃyānjitendriyānśuddhānviṣṇorārādhane parān . ūhāpohavidhānena dhvastasaṃśayamānasān .. 11.3 ..
पत्न्यपत्ययुतान्शान्तान्स्नानशीलान्सुरूपिणः । आहूय पूज्यतत्रैकं सर्वकार्योपदेशकं ॥ ११.४ ॥
patnyapatyayutānśāntānsnānaśīlānsurūpiṇaḥ . āhūya pūjyatatraikaṃ sarvakāryopadeśakaṃ .. 11.4 ..
आचार्यं वरयित्वैव तेनोक्तं सर्व माचरेथ् । भूमिः परीक्षिता येन गुरुणा विधिपूर्वकं ॥ ११.५ ॥
ācāryaṃ varayitvaiva tenoktaṃ sarva mācareth . bhūmiḥ parīkṣitā yena guruṇā vidhipūrvakaṃ .. 11.5 ..
कर्षणादिप्रतिष्ठान्तं कर्म तेनैव कारयेथ् । ऊर्ध्वेप्याचार्यकर्माणि तत्र तेनैव कारयेथ् ॥ ११.६ ॥
karṣaṇādipratiṣṭhāntaṃ karma tenaiva kārayeth . ūrdhvepyācāryakarmāṇi tatra tenaiva kārayeth .. 11.6 ..
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा । तस्यैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ ११.७ ॥
tadabhāve tu tatputraṃ pautraṃ naptārameva vā . tasyaiva bhrātaraṃ śiṣyaṃ praśiṣyaṃ gurumeva vā .. 11.7 ..
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरं । तदनुज्ञात मितर माचार्यत्वे नियोजयेथ् ॥ ११.८ ॥
sabrahmacāriṇaṃ vāpi pūrvābhāve tathottaraṃ . tadanujñāta mitara mācāryatve niyojayeth .. 11.8 ..
अन्यधा चे न्महान्दोषो राजा राष्ट्रं च नश्यति । क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ॥ ११.९ ॥
anyadhā ce nmahāndoṣo rājā rāṣṭraṃ ca naśyati . kṣīyante varṇadharmāśca jāyate varṇasaṃkaraḥ .. 11.9 ..
अग्निहोत्रा न सीदन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यन्त्यधरोत्तरं ॥ ११.१० ॥
agnihotrā na sīdanti svādhyāyo na pravartate . viparītāni cānyāni bhaviṣyantyadharottaraṃ .. 11.10 ..
तस्माच्छास्त्रोक्तविधिना सर्वकर्माणि कारयेथ् । श्वेतगन्धानुलेपैश्च श्वेतपुष्पांगुलीयकैः ॥ ११.११ ॥
tasmācchāstroktavidhinā sarvakarmāṇi kārayeth . śvetagandhānulepaiśca śvetapuṣpāṃgulīyakaiḥ .. 11.11 ..
आचार्यादीन्समफ्यर्च्य नमस्कृत्य स्वदैववथ् । कर्मेदं मे कुरुऽष्वेति याचे दाचार्य मादराथ् ॥ ११.१२ ॥
ācāryādīnsamaphyarcya namaskṛtya svadaivavath . karmedaṃ me kuru'ṣveti yāce dācārya mādarāth .. 11.12 ..
शिष्यः समर्पयेत्सर्वं भरमाचार्यपादयोः । आचार्यः सुप्रसन्नात्मा शिष्यानुग्रहतत्परः ॥ ११.१३ ॥
śiṣyaḥ samarpayetsarvaṃ bharamācāryapādayoḥ . ācāryaḥ suprasannātmā śiṣyānugrahatatparaḥ .. 11.13 ..
तथैवेति सुसंकल्प्य कुर्याच्चैवांकुरार्पणं । अङ्कुरार्पणकादूर्ध्व मारंभदिवसादधः ॥ ११.१४ ॥
tathaiveti susaṃkalpya kuryāccaivāṃkurārpaṇaṃ . aṅkurārpaṇakādūrdhva māraṃbhadivasādadhaḥ .. 11.14 ..
कूश्माण्डहोम मब्जाग्नौकारयेद्गुरुरत्वरः । शुद्धदन्तनखश्चैव श्वेतवस्त्रोत्तरीयकः ॥ ११.१५ ॥
kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ . śuddhadantanakhaścaiva śvetavastrottarīyakaḥ .. 11.15 ..
त्रिषवणस्नाननिरतो हविष्याशी जितेन्द्रियः । एवं क्रमेणवै विद्वानृत्विग्भिः सार्थमाचरेथ् ॥ ११.१६ ॥
triṣavaṇasnānanirato haviṣyāśī jitendriyaḥ . evaṃ krameṇavai vidvānṛtvigbhiḥ sārthamācareth .. 11.16 ..
अरणीं स्रुक्च्रुवौचैव जुहूमुपभृतं तथा । मङ्गलानि च दर्वीं च तोरणानि यथाक्रमं ॥ ११.१७ ॥
araṇīṃ srukcruvaucaiva juhūmupabhṛtaṃ tathā . maṅgalāni ca darvīṃ ca toraṇāni yathākramaṃ .. 11.17 ..
न्यग्रोधप्लक्षा पश्वद्थं पितृवृक्षयुतं तथा । तोरणार्थं समाहृत्य लक्षणेन समन्वितं ॥ ११.१८ ॥
nyagrodhaplakṣā paśvadthaṃ pitṛvṛkṣayutaṃ tathā . toraṇārthaṃ samāhṛtya lakṣaṇena samanvitaṃ .. 11.18 ..
अथाष्टमङ्गलं वक्ष्येद्वितालायतमेव च । प्रादेशविस्तृतं कुर्यात्षडङ्गुल मथापि वा ॥ ११.१९ ॥
athāṣṭamaṅgalaṃ vakṣyedvitālāyatameva ca . prādeśavistṛtaṃ kuryātṣaḍaṅgula mathāpi vā .. 11.19 ..
घनं स्याच्चतुरङ्गुल्य? मत वा द्व्यङ्गुलंभवेथ् । तस्य मध्ये लिखे द्विद्वान्तत्तद्रूपं पृथक्पृथक् ॥ ११.२० ॥
ghanaṃ syāccaturaṅgulya? mata vā dvyaṅgulaṃbhaveth . tasya madhye likhe dvidvāntattadrūpaṃ pṛthakpṛthak .. 11.20 ..
श्रीवत्सं पूर्णकुंभं च भेरी मादर्शनं तथा । मत्स्ययुग्माङ्कुशौ शङ्ख मावर्तं चाष्टमङ्गलं ॥ ११.२१ ॥
śrīvatsaṃ pūrṇakuṃbhaṃ ca bherī mādarśanaṃ tathā . matsyayugmāṅkuśau śaṅkha māvartaṃ cāṣṭamaṅgalaṃ .. 11.21 ..
आवर्तलक्षणं वक्ष्ये पञ्चविंशत्पदं तथा । ईशादिनैरृतान्तन्तु पदं त्रिस्त्रिःक्रमेण च ॥ ११.२२ ॥
āvartalakṣaṇaṃ vakṣye pañcaviṃśatpadaṃ tathā . īśādinairṛtāntantu padaṃ tristriḥkrameṇa ca .. 11.22 ..
पूर्वमध्यमपाश्चात्यपदान्येवतु योजयेथ् । वायुव्ये त्वग्निकोणान्त मुदङ्मध्यमदक्षिणे ॥ ११.२३ ॥
pūrvamadhyamapāścātyapadānyevatu yojayeth . vāyuvye tvagnikoṇānta mudaṅmadhyamadakṣiṇe .. 11.23 ..
अन्तरालपदांश्चाष्टौ विनैव तु विचक्षणः । एतैश्च सप्तदशभि रावर्त मभिधीयते ॥ ११.२४ ॥
antarālapadāṃścāṣṭau vinaiva tu vicakṣaṇaḥ . etaiśca saptadaśabhi rāvarta mabhidhīyate .. 11.24 ..
शङ्खचक्रगदाचापा असिः पञ्चायुधान्यपि । स्रुचः स्रुवस्य दण्डं तु प्रादेशत्रय मायतं ॥ ११.२५ ॥
śaṅkhacakragadācāpā asiḥ pañcāyudhānyapi . srucaḥ sruvasya daṇḍaṃ tu prādeśatraya māyataṃ .. 11.25 ..
मूलं प्रादेशमात्रं स्या दग्रनाहं तदर्धकं । अग्रे बिल्वफलाकारं प्रादेश प्रतिमण्डलं ॥ ११.२६ ॥
mūlaṃ prādeśamātraṃ syā dagranāhaṃ tadardhakaṃ . agre bilvaphalākāraṃ prādeśa pratimaṇḍalaṃ .. 11.26 ..
द्व्यङ्गुलं स्यात्तदास्यन्तु कर्तं माषद्वयावधि । स्रुवमेवं प्रकुर्वीत द्विप्रादेश मथापिवा ॥ ११.२७ ॥
dvyaṅgulaṃ syāttadāsyantu kartaṃ māṣadvayāvadhi . sruvamevaṃ prakurvīta dviprādeśa mathāpivā .. 11.27 ..
जुहूदण्डसमायामं चतुर्विंशतकाङ्गुलं । नाहं तदर्ध मित्युक्तं पद्मस्य मुकुलोपमं ॥ ११.२८ ॥
juhūdaṇḍasamāyāmaṃ caturviṃśatakāṅgulaṃ . nāhaṃ tadardha mityuktaṃ padmasya mukulopamaṃ .. 11.28 ..
षडङ्गुलं तु तस्याग्रं नाहं तस्य विचक्षणः । युगाङ्गुलाग्रविस्तार मष्टांगुल मथायतं ॥ ११.२९ ॥
ṣaḍaṅgulaṃ tu tasyāgraṃ nāhaṃ tasya vicakṣaṇaḥ . yugāṅgulāgravistāra maṣṭāṃgula mathāyataṃ .. 11.29 ..
शेषं तु त्षश्र मित्युक्तं विस्तृतोन्नत मङ्गुलं । मध्यगर्तानुपूर्व्येण जुह्वाश्चैवक्रमं विदुः ॥ ११.३० ॥
śeṣaṃ tu tṣaśra mityuktaṃ vistṛtonnata maṅgulaṃ . madhyagartānupūrvyeṇa juhvāścaivakramaṃ viduḥ .. 11.30 ..
पश्चादुपभृतं कुर्यात्प्रादेशत्रय मायतं । प्रादेशं नाहमित्युक्तं मूलादग्रं तदर्धकं ॥ ११.३१ ॥
paścādupabhṛtaṃ kuryātprādeśatraya māyataṃ . prādeśaṃ nāhamityuktaṃ mūlādagraṃ tadardhakaṃ .. 11.31 ..
आनुपूर्व्यात्कृशं दण्डं गलान्तमिति संज्ञितं । ऊर्ध्वे प्रादेशमायामं चतुरश्रं षडङ्गुलं ॥ ११.३२ ॥
ānupūrvyātkṛśaṃ daṇḍaṃ galāntamiti saṃjñitaṃ . ūrdhve prādeśamāyāmaṃ caturaśraṃ ṣaḍaṅgulaṃ .. 11.32 ..
तदूर्ध्वेर्ऽधाङ्गुलायामं कण्ठ मेवं प्रचक्षते । शेषं तु त्षश्रकं कुर्यात्तत्र तेनैव कारयेथ् ॥ ११.३३ ॥
tadūrdhver'dhāṅgulāyāmaṃ kaṇṭha mevaṃ pracakṣate . śeṣaṃ tu tṣaśrakaṃ kuryāttatra tenaiva kārayeth .. 11.33 ..
उन्नतास्याङ्गुलार्धं स्याद्भित्त्युच्चमिति कथ्यते । ओष्ठ मेकाङ्गुलं ज्ञात्वा तन्मध्येनिम्न माचरेथ् ॥ ११.३४ ॥
unnatāsyāṅgulārdhaṃ syādbhittyuccamiti kathyate . oṣṭha mekāṅgulaṃ jñātvā tanmadhyenimna mācareth .. 11.34 ..
पूर्णचन्त्राकृतिं कृत्वा प्रादेशं तस्य नाहकं । निम्नं चतुर्यवागाढ मग्रान्तस्तु क्रमाद्बुधः ॥ ११.३५ ॥
pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakaṃ . nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ .. 11.35 ..
अथ दर्व्यास्तथायामं चतुर्विंशतिकांगुलं । षडङ्गुलं तदग्रं स्यात्पुच्छं पञ्चांगुलं भवेथ् ॥ ११.३६ ॥
atha darvyāstathāyāmaṃ caturviṃśatikāṃgulaṃ . ṣaḍaṅgulaṃ tadagraṃ syātpucchaṃ pañcāṃgulaṃ bhaveth .. 11.36 ..
शेषं त्रयोदशांगुल्यादण्ड मित्युच्यते क्रमाथ् । मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकं ॥ ११.३७ ॥
śeṣaṃ trayodaśāṃgulyādaṇḍa mityucyate kramāth . mūlasthūlaṃ bhavennārī agrasthūlaṃ napuṃsakaṃ .. 11.37 ..
मूलादग्रं क्रमाद्वृत्तं पुंरूप मीतिकथ्यते । दर्भैर्मालां च कृत्वैव तस्यां पर्वणि पर्वणि ॥ ११.३८ ॥
mūlādagraṃ kramādvṛttaṃ puṃrūpa mītikathyate . darbhairmālāṃ ca kṛtvaiva tasyāṃ parvaṇi parvaṇi .. 11.38 ..
द्वौद्वौदर्भौ विविक्षिप्य द्वितालं लंबयेत्क्रमाथ् । द्वितालायामसंयुक्तं खादिरं दण्डमेव च ॥ ११.३९ ॥
dvaudvaudarbhau vivikṣipya dvitālaṃ laṃbayetkramāth . dvitālāyāmasaṃyuktaṃ khādiraṃ daṇḍameva ca .. 11.39 ..
दशांगुलपरीणाहं समवृत्तं तथैव हि । शाखांगुलसमायुक्तं मूलादग्रं तु बन्धयेथ् ॥ ११.४० ॥
daśāṃgulaparīṇāhaṃ samavṛttaṃ tathaiva hi . śākhāṃgulasamāyuktaṃ mūlādagraṃ tu bandhayeth .. 11.40 ..
तत्ताम्रायसपट्टैर्वाबन्धयित्वा विचक्षणः । तन्मूले सुषिरं कृत्वा गोलकं तत्प्रमाणकं ॥ ११.४१ ॥
tattāmrāyasapaṭṭairvābandhayitvā vicakṣaṇaḥ . tanmūle suṣiraṃ kṛtvā golakaṃ tatpramāṇakaṃ .. 11.41 ..
एवन्तु मन्थदण्डस्स्यात्कुर्यात्तच्छास्त्रपारगः । शमीजात मथाश्वद्थ मरण्यर्थं प्रगृह्य च ॥ ११.४२ ॥
evantu manthadaṇḍassyātkuryāttacchāstrapāragaḥ . śamījāta mathāśvadtha maraṇyarthaṃ pragṛhya ca .. 11.42 ..
षडङ्गुलं तु विस्तारं गोलकं तु घनं भवेथ् । दैर्घ्यं तस्य द्वितालं स्यात्फलकां कारयेद्बुधः ॥ ११.४३ ॥
ṣaḍaṅgulaṃ tu vistāraṃ golakaṃ tu ghanaṃ bhaveth . dairghyaṃ tasya dvitālaṃ syātphalakāṃ kārayedbudhaḥ .. 11.43 ..
तथैवोपरि पट्टिं च कृत्वा तत्र विचक्षणः । मैञ्ज्यैव त्रिवृतां रज्जुं मन्थनार्थाय कारयेथ् ॥ ११.४४ ॥
tathaivopari paṭṭiṃ ca kṛtvā tatra vicakṣaṇaḥ . maiñjyaiva trivṛtāṃ rajjuṃ manthanārthāya kārayeth .. 11.44 ..
दशाष्टनवभिर्हस्तैर्वस्त्र मायत मुच्यते । त्रिचतुःपञ्चतालं वाविस्तृतं वस्त्रमुच्यते ॥ ११.४५ ॥
daśāṣṭanavabhirhastairvastra māyata mucyate . tricatuḥpañcatālaṃ vāvistṛtaṃ vastramucyate .. 11.45 ..
गव्यं घृतं चाहरेत कापिलं तु गवादिषु । आजं च माहिषं त्याज्यं पक्षातीतं च वर्जयेथ् ॥ ११.४६ ॥
gavyaṃ ghṛtaṃ cāhareta kāpilaṃ tu gavādiṣu . ājaṃ ca māhiṣaṃ tyājyaṃ pakṣātītaṃ ca varjayeth .. 11.46 ..
पादौप्रक्षाल्यचाचम्य पूर्वोदङ्मुख एववा । ब्राह्ममासस मास्थाय वैष्णवं मन्त्रमुच्चरन् ॥ ११.४७ ॥
pādauprakṣālyacācamya pūrvodaṅmukha evavā . brāhmamāsasa māsthāya vaiṣṇavaṃ mantramuccaran .. 11.47 ..
परिस्तरणकूर्चादीन्समिथादीन्प्रगृह्यच । कूर्चं प्रदक्षिणावर्तं गृह्णीया द्विधिवित्तमः ॥ ११.४८ ॥
paristaraṇakūrcādīnsamithādīnpragṛhyaca . kūrcaṃ pradakṣiṇāvartaṃ gṛhṇīyā dvidhivittamaḥ .. 11.48 ..
प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेथ् । यागशाला षोडशस्तंभसंयुक्तं मण्डपं कूटमेववा ॥ ११.४९ ॥
pramukhe dakṣiṇe vāpi yāgaśālāṃ prakalpayeth . yāgaśālā ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kūṭamevavā .. 11.49 ..
प्रपां वा तत्र कुर्वीत मध्ये कूटं च कारयेथ् । निम्नोन्नतं विभज्यैव जलस्थलसमीपकं ॥ ११.५० ॥
prapāṃ vā tatra kurvīta madhye kūṭaṃ ca kārayeth . nimnonnataṃ vibhajyaiva jalasthalasamīpakaṃ .. 11.50 ..
पूर्वोक्तेन विधानेन अलङ्कृत्य यथाक्रमं । मध्ये वेदिं प्रकल्प्यैवबिंबाध्यर्ध प्रमाणतः ॥ ११.५१ ॥
pūrvoktena vidhānena alaṅkṛtya yathākramaṃ . madhye vediṃ prakalpyaivabiṃbādhyardha pramāṇataḥ .. 11.51 ..
तद्बहिःपूर्वभागेतु सभ्यकुण्डं प्रकल्पयेथ् । सभ्यस्य पूर्वभागेतु कुण्ड माहवनीयकं ॥ ११.५२ ॥
tadbahiḥpūrvabhāgetu sabhyakuṇḍaṃ prakalpayeth . sabhyasya pūrvabhāgetu kuṇḍa māhavanīyakaṃ .. 11.52 ..
उत्तरेवापुनः कुर्या दौपासनविधानतः । सभ्यस्य दक्षिणे कुण्डं पैण्डरीकं प्रकल्पयेथ् ॥ ११.५३ ॥
uttarevāpunaḥ kuryā daupāsanavidhānataḥ . sabhyasya dakṣiṇe kuṇḍaṃ paiṇḍarīkaṃ prakalpayeth .. 11.53 ..
वेद्यास्तु दक्षिणेकुण्डमन्वाहार्यं प्रकल्पयेथ् । नैरृते देवतास्थानं कल्पयेत्त द्विचक्षणः ॥ ११.५४ ॥
vedyāstu dakṣiṇekuṇḍamanvāhāryaṃ prakalpayeth . nairṛte devatāsthānaṃ kalpayetta dvicakṣaṇaḥ .. 11.54 ..
वैद्यान्तु पश्चिमे भागे गार्हपत्यं प्रकल्पयेथ् । वायव्ये संचयस्थानं कल्पयेत्तद्विधानतः ॥ ११.५५ ॥
vaidyāntu paścime bhāge gārhapatyaṃ prakalpayeth . vāyavye saṃcayasthānaṃ kalpayettadvidhānataḥ .. 11.55 ..
वेद्यास्तथोत्तरे भागे त्वावसध्यं प्रकल्पयेथ् । ऐशान्ये स्नापनश्वभ्रं कल्पयेत्तद्विधानतः ॥ ११.५६ ॥
vedyāstathottare bhāge tvāvasadhyaṃ prakalpayeth . aiśānye snāpanaśvabhraṃ kalpayettadvidhānataḥ .. 11.56 ..
सभ्यस्य पैण्डरीकस्य मैखलात्रयमुच्यते । अन्येषां चैव कुण्डानां मेखलाद्वयमेव हि ॥ ११.५७ ॥
sabhyasya paiṇḍarīkasya maikhalātrayamucyate . anyeṣāṃ caiva kuṇḍānāṃ mekhalādvayameva hi .. 11.57 ..
एकैकवेद्या विस्तार मुन्नतं चतुरङ्गुलं । सभ्यस्य मध्यमं पञ्च पद्मस्याधष्षडङ्गुलं ॥ ११.५८ ॥
ekaikavedyā vistāra munnataṃ caturaṅgulaṃ . sabhyasya madhyamaṃ pañca padmasyādhaṣṣaḍaṅgulaṃ .. 11.58 ..
औपासननोर्थ्ववेद्यास्स्या दुन्नतं तु द्वियङ्गुलं । दक्षिणोत्तरयोश्चैव संस्थानं ब्रह्मसोमयोः ॥ ११.५९ ॥
aupāsananorthvavedyāssyā dunnataṃ tu dviyaṅgulaṃ . dakṣiṇottarayoścaiva saṃsthānaṃ brahmasomayoḥ .. 11.59 ..
द्वादशांगुलसंयुक्तं चतुरश्रं सुवृत्तकं । शल्यलोष्टतुषांगारतृणभस्मादिहीनया ॥ ११.६० ॥
dvādaśāṃgulasaṃyuktaṃ caturaśraṃ suvṛttakaṃ . śalyaloṣṭatuṣāṃgāratṛṇabhasmādihīnayā .. 11.60 ..
मृदा वा वालुकैस्तत्र पृथक्कुण्डं प्रकल्पयेथ् । यागस्थानस्य पूर्वेतु प्रपां कृत्वा विचक्षणः ॥ ११.६१ ॥
mṛdā vā vālukaistatra pṛthakkuṇḍaṃ prakalpayeth . yāgasthānasya pūrvetu prapāṃ kṛtvā vicakṣaṇaḥ .. 11.61 ..
नयनोन्मीलनार्ऽथाय यागशालां प्रकल्पयेथ् । नयनोन्मीलनम् उक्तक्रियावसाने तु बेरमादायचात्वरः ॥ ११.६२ ॥
nayanonmīlanār'thāya yāgaśālāṃ prakalpayeth . nayanonmīlanam uktakriyāvasāne tu beramādāyacātvaraḥ .. 11.62 ..
शिल्पिना शास्त्रमार्गेण कारयेदक्षिमोचनं । देवस्य प्रमुखे कुर्याद्धान्यराशिं विशेषतः ॥ ११.६३ ॥
śilpinā śāstramārgeṇa kārayedakṣimocanaṃ . devasya pramukhe kuryāddhānyarāśiṃ viśeṣataḥ .. 11.63 ..
हेमश्रुङ्गां रौप्यखुरां सवत्सां कांस्यदोहनां । सवत्सांगां समादाय देवस्य प्रमुखे न्यसेथ् ॥ ११.६४ ॥
hemaśruṅgāṃ raupyakhurāṃ savatsāṃ kāṃsyadohanāṃ . savatsāṃgāṃ samādāya devasya pramukhe nyaseth .. 11.64 ..
घृतं मधुदधिक्षीरं गृहीत्वा कांस्यभाजने । रुक्मन्तत्रैव निक्षिप्य दीपयुक्तं तु विन्यसेथ् ॥ ११.६५ ॥
ghṛtaṃ madhudadhikṣīraṃ gṛhītvā kāṃsyabhājane . rukmantatraiva nikṣipya dīpayuktaṃ tu vinyaseth .. 11.65 ..
हेमपात्रैस्तु सूचीभ्यां रजतैर्वापि चाहरेथ् । हूलिकां ताटनीञ्चैव शीलां लोहमयस्यवै ॥ ११.६६ ॥
hemapātraistu sūcībhyāṃ rajatairvāpi cāhareth . hūlikāṃ tāṭanīñcaiva śīlāṃ lohamayasyavai .. 11.66 ..
बिंबस्य चोत्तरे पार्श्वे वास्तुहोमं यजेत्ततः । पर्यग्नि चैव कृत्वातु प्रोक्षयेत्पञ्चगव्यकैः ॥ ११.६७ ॥
biṃbasya cottare pārśve vāstuhomaṃ yajettataḥ . paryagni caiva kṛtvātu prokṣayetpañcagavyakaiḥ .. 11.67 ..
उत्तराभिमुखो देहघुद्धिं कृत्वा गुरुस्ततः । हूलिकां ताटनीञ्चैव गृहीत्वा मन्त्रपूर्वकं ॥ ११.६८ ॥
uttarābhimukho dehaghuddhiṃ kṛtvā gurustataḥ . hūlikāṃ tāṭanīñcaiva gṛhītvā mantrapūrvakaṃ .. 11.68 ..
विष्णुस्त्वां रक्षऽत्वित्युक्त्वा विष्णुसूक्तं च संस्मरन् । पटस्य चान्तर्देवस्य मूर्धादीन्संस्पृशेत्क्रमाथ् ॥ ११.६९ ॥
viṣṇustvāṃ rakṣa'tvityuktvā viṣṇusūktaṃ ca saṃsmaran . paṭasya cāntardevasya mūrdhādīnsaṃspṛśetkramāth .. 11.69 ..
विष्णुगायत्री मुच्चार्य तत्र कर्म समाचरेथ् । देवीभ्यां च क्रमेणैव तत्तन्मस्त्रं जपेत्तदा ॥ ११.७० ॥
viṣṇugāyatrī muccārya tatra karma samācareth . devībhyāṃ ca krameṇaiva tattanmastraṃ japettadā .. 11.70 ..
पश्चात्तुपात्रे सूचीभ्यां कृहीत्वा चाक्षिमोचनं । षण्मण्डलानि संस्कुर्यादधिदेव मनुस्मरन् ॥ ११.७१ ॥
paścāttupātre sūcībhyāṃ kṛhītvā cākṣimocanaṃ . ṣaṇmaṇḍalāni saṃskuryādadhideva manusmaran .. 11.71 ..
पक्ष्मवर्म च रक्तञ्च श्वेतं कृष्णं च तैजसं । एतैस्तु मण्डलं ध्यात्वा दृढीकृत्वात्वरः क्रमाथ् ॥ ११.७२ ॥
pakṣmavarma ca raktañca śvetaṃ kṛṣṇaṃ ca taijasaṃ . etaistu maṇḍalaṃ dhyātvā dṛḍhīkṛtvātvaraḥ kramāth .. 11.72 ..
हित्वार्ऽकराहुसौराणा मुदयन्तु द्विलोचने । नयनोन्मीलनं कुर्यात्सर्वसंपत्समृद्धये ॥ ११.७३ ॥
hitvār'karāhusaurāṇā mudayantu dvilocane . nayanonmīlanaṃ kuryātsarvasaṃpatsamṛddhaye .. 11.73 ..
अन्धनक्षत्रके कुर्यात्सर्वनाशं न संशयः । पुरुषसूक्तं जपित्वैव दक्षिणे नयने न्यसेथ् ॥ ११.७४ ॥
andhanakṣatrake kuryātsarvanāśaṃ na saṃśayaḥ . puruṣasūktaṃ japitvaiva dakṣiṇe nayane nyaseth .. 11.74 ..
तधैव वामनेत्रेतु वैष्णवं मन्त्र मुच्चरन् । तत्सूक्ताभ्यां विशेषेण श्रीभूम्योश्च समाचरेथ् ॥ ११.७५ ॥
tadhaiva vāmanetretu vaiṣṇavaṃ mantra muccaran . tatsūktābhyāṃ viśeṣeṇa śrībhūmyośca samācareth .. 11.75 ..
देवस्यांगं स्पृशन्हुत्वा मौलिमालादिपूर्वकं । तथा देव्योश्च हुत्वातु दद्भ्यस्स्याहादिना पृथक् ॥ ११.७६ ॥
devasyāṃgaṃ spṛśanhutvā maulimālādipūrvakaṃ . tathā devyośca hutvātu dadbhyassyāhādinā pṛthak .. 11.76 ..
विमानं नूतनं चेत्तु स्धूप्यादीनां हुतं चरेथ् । पर्षदां मूर्तिमन्त्रेण कारयेन्मन्त्रवित्तमः ॥ ११.७७ ॥
vimānaṃ nūtanaṃ cettu sdhūpyādīnāṃ hutaṃ careth . parṣadāṃ mūrtimantreṇa kārayenmantravittamaḥ .. 11.77 ..
वैष्णवं विष्णुसूक्तञ्च स्विष्टाकारं च हूयतां । गोदानसूक्त मुच्चार्य कवादीनभिमृश्य च ॥ ११.७८ ॥
vaiṣṇavaṃ viṣṇusūktañca sviṣṭākāraṃ ca hūyatāṃ . godānasūkta muccārya kavādīnabhimṛśya ca .. 11.78 ..
पटं पश्चा द्विसृज्यैव गवादीन्संप्रदर्शयेथ् । गवादिद्रव्य मादाय दद्याच्च गुरवे ततः ॥ ११.७९ ॥
paṭaṃ paścā dvisṛjyaiva gavādīnsaṃpradarśayeth . gavādidravya mādāya dadyācca gurave tataḥ .. 11.79 ..
कौतुकादी न्विशेषेण पूर्वोक्तेन क्रमेणवै । बेरपीठे च संपाद्य रत्नादीनि विनिक्षिपेथ् ॥ ११.८० ॥
kautukādī nviśeṣeṇa pūrvoktena krameṇavai . berapīṭhe ca saṃpādya ratnādīni vinikṣipeth .. 11.80 ..
रत्नं धातूंश्च बीजानि सुवर्णं चाऽत्र निक्षिपेथ् । एवं संस्थाप्य मतिमान्संताप्यैव दृढं यथा ॥ ११.८१ ॥
ratnaṃ dhātūṃśca bījāni suvarṇaṃ cā'tra nikṣipeth . evaṃ saṃsthāpya matimānsaṃtāpyaiva dṛḍhaṃ yathā .. 11.81 ..
ध्रुवबेरोक्तवत्कृत्वा नयनोन्मीलनं चरेथ् । पश्चाज्जलाधिवासादीन्कुर्यात्तन्मन्त्रपारगः ॥ ११.८२ ॥
dhruvaberoktavatkṛtvā nayanonmīlanaṃ careth . paścājjalādhivāsādīnkuryāttanmantrapāragaḥ .. 11.82 ..
पञ्चगव्यं प्रगृह्यैव प्रोक्षयित्वा विचक्षणः । वसोःपवित्रमित्युक्त्वातत्र कार्यं सम्चरेथ् ॥ ११.८३ ॥
pañcagavyaṃ pragṛhyaiva prokṣayitvā vicakṣaṇaḥ . vasoḥpavitramityuktvātatra kāryaṃ samcareth .. 11.83 ..
पश्चात्क्षीरं समादाय प्रोक्षयित्वा समाहितः । शन्नो देवीऽरितिप्रोच्य तेन कर्म समाचरेथ् ॥ ११.८४ ॥
paścātkṣīraṃ samādāya prokṣayitvā samāhitaḥ . śanno devī'ritiprocya tena karma samācareth .. 11.84 ..
अर्थदर्शी प्रगृह्यैव देवस्याग्रे निधायच । प्रदीप मर्पये द्वद्वान्जले तत्राधिवासयेथ् ॥ ११.८५ ॥
arthadarśī pragṛhyaiva devasyāgre nidhāyaca . pradīpa marpaye dvadvānjale tatrādhivāsayeth .. 11.85 ..
एवञ्चात्राधिवास्यैव चास्यबेरेषुवै पुनः । पञ्चगव्याधिवासं च तथा क्षीराधिवासनं ॥ ११.८६ ॥
evañcātrādhivāsyaiva cāsyabereṣuvai punaḥ . pañcagavyādhivāsaṃ ca tathā kṣīrādhivāsanaṃ .. 11.86 ..
एतद्द्वयं विना तत्र कुर्यात्तोयाधिवासनं । ग्रामे सर्वत्र तद्रात्रौ प्रभूतं निक्षिपेद्बलिं ॥ ११.८७ ॥
etaddvayaṃ vinā tatra kuryāttoyādhivāsanaṃ . grāme sarvatra tadrātrau prabhūtaṃ nikṣipedbaliṃ .. 11.87 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकादशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekādaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In