| |
|

This overlay will guide you through the buttons:

अथैक त्रिंशोऽध्यायः.
अथ एक-त्रिंशः अध्यायः।
atha eka-triṃśaḥ adhyāyaḥ.
संप्रोक्षणत्रयम्.
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहं । जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा ॥ ३१.१ ॥
अथ वक्ष्यामि तत्र उक्त-प्रायश्चित्तस्य संग्रहम् । जल-संप्रोक्षणम् च एव लघु-संप्रोक्षणम् तथा ॥ ३१।१ ॥
atha vakṣyāmi tatra ukta-prāyaścittasya saṃgraham . jala-saṃprokṣaṇam ca eva laghu-saṃprokṣaṇam tathā .. 31.1 ..
महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतं । निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवं ॥ ३१.२ ॥
महासंप्रोक्षणम् च इति प्रायश्चित्तम् त्रिधा स्मृतम् । निमित्ते समनुप्राप्ते ज्ञात्वा गौरव-लाघवम् ॥ ३१।२ ॥
mahāsaṃprokṣaṇam ca iti prāyaścittam tridhā smṛtam . nimitte samanuprāpte jñātvā gaurava-lāghavam .. 31.2 ..
वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेथ् । संप्रोक्षणविधानस्य न कालनियमस्स्मृतः ॥ ३१.३ ॥
वक्ष्यमाण-क्रारेण सद्यस् संप्रोक्षणम् चरेथ् । संप्रोक्षण-विधानस्य न काल-नियमः स्मृतः ॥ ३१।३ ॥
vakṣyamāṇa-krāreṇa sadyas saṃprokṣaṇam careth . saṃprokṣaṇa-vidhānasya na kāla-niyamaḥ smṛtaḥ .. 31.3 ..
न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणं । तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेथ् ॥ ३१.४ ॥
न कुर्यात् मास-नक्षत्र-तिथि-वार-आदि-अवेक्षणम् । तस्मात् निमित्ते संप्राप्ते सद्यस् संप्रोक्षणम् चरेथ् ॥ ३१।४ ॥
na kuryāt māsa-nakṣatra-tithi-vāra-ādi-avekṣaṇam . tasmāt nimitte saṃprāpte sadyas saṃprokṣaṇam careth .. 31.4 ..
देशकालाद्यवेक्षाया निमित्ते सति गौरवं । बहुबेरेषु चैकस्मिन्स्थावरे जङ्गमेऽथ वा ॥ ३१.५ ॥
देश-काल-आदि-अवेक्षायाः निमित्ते सति गौरवम् । बहु-बेरेषु च एकस्मिन् स्थावरे जङ्गमे अथ वा ॥ ३१।५ ॥
deśa-kāla-ādi-avekṣāyāḥ nimitte sati gauravam . bahu-bereṣu ca ekasmin sthāvare jaṅgame atha vā .. 31.5 ..
अर्चनायां विहीनायां कालातीते विपर्यये । निर्माल्यपूजने चैव निवेदितनिवेदने ॥ ३१.६ ॥
अर्चनायाम् विहीनायाम् काल-अतीते विपर्यये । निर्माल्य-पूजने च एव निवेदित-निवेदने ॥ ३१।६ ॥
arcanāyām vihīnāyām kāla-atīte viparyaye . nirmālya-pūjane ca eva nivedita-nivedane .. 31.6 ..
एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने । बलिहोमादिहीनेच नित्योत्सवविवर्जने ॥ ३१.७ ॥
एक-अहे अपि अर्चन-अहीने नित्य-स्नापन-वर्जने । बलि-होम-आदि-हीने च नित्य-उत्सव-विवर्जने ॥ ३१।७ ॥
eka-ahe api arcana-ahīne nitya-snāpana-varjane . bali-homa-ādi-hīne ca nitya-utsava-vivarjane .. 31.7 ..
प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति । अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ॥ ३१.८ ॥
प्राकार-अभ्यन्तरे प्राप्ते प्रमादात् अशुभे सति । अ स्पृश्य आगमने तत्र चण्डाल-आद्यैः प्रवेशने ॥ ३१।८ ॥
prākāra-abhyantare prāpte pramādāt aśubhe sati . a spṛśya āgamane tatra caṇḍāla-ādyaiḥ praveśane .. 31.8 ..
श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने । उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ॥ ३१.९ ॥
श्व-कुक्कुट-वराह-उष्ट्र-गर्दभानाम् प्रवेशने । उदक्यया सूतिकया पाषण्ड-आद्यैः अथ अपि वा ॥ ३१।९ ॥
śva-kukkuṭa-varāha-uṣṭra-gardabhānām praveśane . udakyayā sūtikayā pāṣaṇḍa-ādyaiḥ atha api vā .. 31.9 ..
कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने । अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा ॥ ३१.१० ॥
कुण्ड-गोल-व्रत-भ्रष्ट-तुरुष्क-आदि-प्रवेशने । अन्य-सूत्रि-द्विजैः स्पृष्टे मोहात् अज्ञानतः अपि वा ॥ ३१।१० ॥
kuṇḍa-gola-vrata-bhraṣṭa-turuṣka-ādi-praveśane . anya-sūtri-dvijaiḥ spṛṣṭe mohāt ajñānataḥ api vā .. 31.10 ..
महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः । विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ॥ ३१.११ ॥
महावात-हते बिंबे संसिक्ते वर्ष-बिन्दुभिः । विष्-मूत्र-रुधिर-स्रावे बहु-जल्पे च मैथुने ॥ ३१।११ ॥
mahāvāta-hate biṃbe saṃsikte varṣa-bindubhiḥ . viṣ-mūtra-rudhira-srāve bahu-jalpe ca maithune .. 31.11 ..
एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेथ् । नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः ॥ ३१.१२ ॥
एवमादि-निमित्ते तु जल-संप्रोक्षणम् । न एव अ संप्रोक्षिते बिंबे हरिः वसति निश्चयः ॥ ३१।१२ ॥
evamādi-nimitte tu jala-saṃprokṣaṇam . na eva a saṃprokṣite biṃbe hariḥ vasati niścayaḥ .. 31.12 ..
तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेथ् । दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेथ् ॥ ३१.१३ ॥
तस्मात् बिंब-विशुद्धि-अर्थम् संप्रोक्ष्य एव समर्चयेथ् । दोष-आधिक्ये समुत्पन्ने लघु-संप्रोक्षणम् चरेथ् ॥ ३१।१३ ॥
tasmāt biṃba-viśuddhi-artham saṃprokṣya eva samarcayeth . doṣa-ādhikye samutpanne laghu-saṃprokṣaṇam careth .. 31.13 ..
राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे । शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ॥ ३१.१४ ॥
राष्ट्र-क्षोभे च दुर्भिक्षे तन्त्र-संकर-दूषणे । शूद्रैः वा अथ अनुलोमैः वा अपाषण्डैः भ्रमितैः अपि ॥ ३१।१४ ॥
rāṣṭra-kṣobhe ca durbhikṣe tantra-saṃkara-dūṣaṇe . śūdraiḥ vā atha anulomaiḥ vā apāṣaṇḍaiḥ bhramitaiḥ api .. 31.14 ..
उदक्यया सूतिकया पतितैर्वाथ पातकैः । चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ॥ ३१.१५ ॥
उदक्यया सूतिकया पतितैः वा अथ पातकैः । चण्डाल-आद्यैः प्रविष्टे च गर्भागारे विशेषतः ॥ ३१।१५ ॥
udakyayā sūtikayā patitaiḥ vā atha pātakaiḥ . caṇḍāla-ādyaiḥ praviṣṭe ca garbhāgāre viśeṣataḥ .. 31.15 ..
सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः । श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ॥ ३१.१६ ॥
सूतैः वा कुण्ड-गोल-आद्यैः तथा देवलक-आदिभिः । श्व-कुक्कुट-वराह-आद्यैः प्रविष्टे गार्दभ-आदिभिः ॥ ३१।१६ ॥
sūtaiḥ vā kuṇḍa-gola-ādyaiḥ tathā devalaka-ādibhiḥ . śva-kukkuṭa-varāha-ādyaiḥ praviṣṭe gārdabha-ādibhiḥ .. 31.16 ..
उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा । तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ॥ ३१.१७ ॥
उलूक-गृध्र-काक-आद्यैः प्रविष्टे अन्तर्गृहे तथा । तुरुष्क-आद्यैः प्रविष्टे वा शुक्र-णोणितयोः अपि ॥ ३१।१७ ॥
ulūka-gṛdhra-kāka-ādyaiḥ praviṣṭe antargṛhe tathā . turuṣka-ādyaiḥ praviṣṭe vā śukra-ṇoṇitayoḥ api .. 31.17 ..
विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे । त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ॥ ३१.१८ ॥
विष्-मूत्र-आदेः विसर्गे वा । विहीने तु पूजने दीप-वर्जने ॥ ३१।१८ ॥
viṣ-mūtra-ādeḥ visarge vā . vihīne tu pūjane dīpa-varjane .. 31.18 ..
एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते । आग्निदाहेऽशनीपाते गर्भागारेर्ऽधमण्डपे ॥ ३१.१९ ॥
एक रात्रम् अतिक्रम्य देवेग्राम-अन्तर-स्थिते । आ अग्नि-दाहे अशनीपाते गर्भागारेः अध मण्डपे ॥ ३१।१९ ॥
eka rātram atikramya devegrāma-antara-sthite . ā agni-dāhe aśanīpāte garbhāgāreḥ adha maṇḍape .. 31.19 ..
अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकं । अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेथ् ॥ ३१.२० ॥
अन्य-सूत्षर्चिते बिंबे स्पृष्टे वा बुद्धि-पूर्वकम् । अन्यैः अनुक्तैः लघु-संप्रोक्षणम् चरेथ् ॥ ३१।२० ॥
anya-sūtṣarcite biṃbe spṛṣṭe vā buddhi-pūrvakam . anyaiḥ anuktaiḥ laghu-saṃprokṣaṇam careth .. 31.20 ..
महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेथ् । द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ॥ ३१.२१ ॥
महा-निमित्ते संप्राप्ते महासंप्रोक्षणम् चरेथ् । द्वादश-अहात् समारभ्य वत्सर-अन्तम् विधानतः ॥ ३१।२१ ॥
mahā-nimitte saṃprāpte mahāsaṃprokṣaṇam careth . dvādaśa-ahāt samārabhya vatsara-antam vidhānataḥ .. 31.21 ..
हीनायामर्चनायां च नित्ये नैमित्तिके तथा । क्रियाहीने विपर्यासे हीने मासोत्सवादिके ॥ ३१.२२ ॥
हीनायाम् अर्चनायाम् च नित्ये नैमित्तिके तथा । क्रिया-हीने विपर्यासे हीने मास-उत्सव-आदिके ॥ ३१।२२ ॥
hīnāyām arcanāyām ca nitye naimittike tathā . kriyā-hīne viparyāse hīne māsa-utsava-ādike .. 31.22 ..
नित्यस्नपनहीनेऽपि मात्रादानविहीनके । बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे ॥ ३१.२३ ॥
नित्य-स्नपन-हीने अपि मात्रा-दान-विहीनके । बलि-होम-आदि-हीने च संप्राप्ते शास्त्र-संकरे ॥ ३१।२३ ॥
nitya-snapana-hīne api mātrā-dāna-vihīnake . bali-homa-ādi-hīne ca saṃprāpte śāstra-saṃkare .. 31.23 ..
एवमादिषु हीनेषु वत्सरान्तं प्रमादतः । पर्षदां परिवाराणामाश्रितालयसेविनां ॥ ३१.२४ ॥
एवमादिषु हीनेषु वत्सर-अन्तम् प्रमादतः । पर्षदाम् परिवाराणाम् आश्रित-आलय-सेविनाम् ॥ ३१।२४ ॥
evamādiṣu hīneṣu vatsara-antam pramādataḥ . parṣadām parivārāṇām āśrita-ālaya-sevinām .. 31.24 ..
ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके । विप्रादिमरणे प्राप्ते देवागारे विशेषतः ॥ ३१.२५ ॥
ध्वज-आरोहण-पूर्वम् तु कृते काल-उत्सव-आदिके । विप्र-आदि-मरणे प्राप्ते देवागारे विशेषतः ॥ ३१।२५ ॥
dhvaja-ārohaṇa-pūrvam tu kṛte kāla-utsava-ādike . vipra-ādi-maraṇe prāpte devāgāre viśeṣataḥ .. 31.25 ..
गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते । गजादिमृगनाशे च देवागारे प्रमादतः ॥ ३१.२६ ॥
गर्दभ-अश्व-लुलाय-उष्ट्र-श्व-सूकर-मुखे मृते । गज-आदि-मृग-नाशे च देवागारे प्रमादतः ॥ ३१।२६ ॥
gardabha-aśva-lulāya-uṣṭra-śva-sūkara-mukhe mṛte . gaja-ādi-mṛga-nāśe ca devāgāre pramādataḥ .. 31.26 ..
चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः । शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ॥ ३१.२७ ॥
चण्डाल-आदि-अन्त्य-जातीनाम् मरणे वा विशेषतः । शूद्रैः वा अथ अनुलोमैः वा पाषण्डैः पतित-आदिभिः ॥ ३१।२७ ॥
caṇḍāla-ādi-antya-jātīnām maraṇe vā viśeṣataḥ . śūdraiḥ vā atha anulomaiḥ vā pāṣaṇḍaiḥ patita-ādibhiḥ .. 31.27 ..
संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः । स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ॥ ३१.२८ ॥
संस्पृष्टे वैष्णवे बिंबे तुरुष्क-आद्यैः मलिम्लुचैः । स्पृष्टे चण्डालक-आद्यैः वा महापातक-दूषितैः ॥ ३१।२८ ॥
saṃspṛṣṭe vaiṣṇave biṃbe turuṣka-ādyaiḥ malimlucaiḥ . spṛṣṭe caṇḍālaka-ādyaiḥ vā mahāpātaka-dūṣitaiḥ .. 31.28 ..
विमानेऽशनिपाते वा महोल्का पतनेऽपि वा । लोहितो पलवर्षे च वांसुवर्षे विशेषतः ॥ ३१.२९ ॥
विमाने अशनि-पाते वा महा-उल्का पतने अपि वा । पल-वर्षे च वांसु-वर्षे विशेषतः ॥ ३१।२९ ॥
vimāne aśani-pāte vā mahā-ulkā patane api vā . pala-varṣe ca vāṃsu-varṣe viśeṣataḥ .. 31.29 ..
भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे । शिथिलिभवने वापि चाष्टबन्धे विशेषतः ॥ ३१.३० ॥
भू-कंपात् चलिते बिंबे वल्मीकस्य समुद्भवे । शिथिलि-भवने वा अपि च अष्ट-बन्धे विशेषतः ॥ ३१।३० ॥
bhū-kaṃpāt calite biṃbe valmīkasya samudbhave . śithili-bhavane vā api ca aṣṭa-bandhe viśeṣataḥ .. 31.30 ..
जीर्णे स्तंभादिपतने देवागारेन वीकृते । अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ॥ ३१.३१ ॥
जीर्णे स्तंभ-आदि-पतने देवागारेन । अग्नि-स्पर्शे च बेरस्य मनुष्य-प्रसवे तथा ॥ ३१।३१ ॥
jīrṇe staṃbha-ādi-patane devāgārena . agni-sparśe ca berasya manuṣya-prasave tathā .. 31.31 ..
सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः । बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने ॥ ३१.३२ ॥
सुथा-कर्मणि सर्वत्र गर्भ-गेह-आदिके पुनर् । बिंबेषु गर्भ-गेहे वा कृमि-कीट-आदि-दर्शने ॥ ३१।३२ ॥
suthā-karmaṇi sarvatra garbha-geha-ādike punar . biṃbeṣu garbha-gehe vā kṛmi-kīṭa-ādi-darśane .. 31.32 ..
हसने रोदने चैव भाषणे च विशेषतः । स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये ॥ ३१.३३ ॥
हसने रोदने च एव भाषणे च विशेषतः । स्वेद-शोणितयोः वा अपि दर्शने वर्ण-संक्षये ॥ ३१।३३ ॥
hasane rodane ca eva bhāṣaṇe ca viśeṣataḥ . sveda-śoṇitayoḥ vā api darśane varṇa-saṃkṣaye .. 31.33 ..
विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः । देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ॥ ३१.३४ ॥
विमाने मण्डपे वा अथ यत्र कुत्र अपि वा हरेः । देवागारे समुत्पन्ने दोषेषु एतेषु वा पृथक् ॥ ३१।३४ ॥
vimāne maṇḍape vā atha yatra kutra api vā hareḥ . devāgāre samutpanne doṣeṣu eteṣu vā pṛthak .. 31.34 ..
दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि । दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे ॥ ३१.३५ ॥
दुर्भिक्षे राष्ट्र-संक्षोभे दुर्निमित्तेषु च एव हि । दुस्स्वप्ने भूमिकंपे वा पर-राज-आदि-उपद्रवे ॥ ३१।३५ ॥
durbhikṣe rāṣṭra-saṃkṣobhe durnimitteṣu ca eva hi . dussvapne bhūmikaṃpe vā para-rāja-ādi-upadrave .. 31.35 ..
भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते । अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ॥ ३१.३६ ॥
भू-गुप्ते च उद्धृते बिंबे चिरम् अन्य-आलये स्थिते । अतिक्रम्य त्रि-रात्रम् तु देवे ग्राम-अन्तरे स्थिते ॥ ३१।३६ ॥
bhū-gupte ca uddhṛte biṃbe ciram anya-ālaye sthite . atikramya tri-rātram tu deve grāma-antare sthite .. 31.36 ..
कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते । अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ॥ ३१.३७ ॥
कुण्ड-गोलक-सूत-आद्यैः दीक्षितैः अर्चने कृते । अनुक्तानि च दुरितानि अद्भुतानि च ॥ ३१।३७ ॥
kuṇḍa-golaka-sūta-ādyaiḥ dīkṣitaiḥ arcane kṛte . anuktāni ca duritāni adbhutāni ca .. 31.37 ..
दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः । ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ॥ ३१.३८ ॥
दृष्ट्वा तु यजमानः च ये तद्-परिसरे जनाः । ग्राम-स्थिता चनाः च एव राजा राष्ट्रम् च यत्नतः ॥ ३१।३८ ॥
dṛṣṭvā tu yajamānaḥ ca ye tad-parisare janāḥ . grāma-sthitā canāḥ ca eva rājā rāṣṭram ca yatnataḥ .. 31.38 ..
ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलं । महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये ॥ ३१.३९ ॥
ज्ञात्वा शास्त्र-उक्त-विधिना दोष-जम् भक्तितः फलम् । महा-संप्रोक्षणम् कुर्यात् महा-दोष-अपनुत्तये ॥ ३१।३९ ॥
jñātvā śāstra-ukta-vidhinā doṣa-jam bhaktitaḥ phalam . mahā-saṃprokṣaṇam kuryāt mahā-doṣa-apanuttaye .. 31.39 ..
महदोषेषु सर्वत्र महाशान्तिर्विथीयते । पूर्वं स्थापितबिंबस्य न साधारणहेतुना ॥ ३१.४० ॥
महा-दोषेषु सर्वत्र महाशान्तिः विथीयते । पूर्वम् स्थापित-बिंबस्य न साधारण-हेतुना ॥ ३१।४० ॥
mahā-doṣeṣu sarvatra mahāśāntiḥ vithīyate . pūrvam sthāpita-biṃbasya na sādhāraṇa-hetunā .. 31.40 ..
स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेथ् । महासंप्रोक्षणविधेर्नूतनस्थापनस्य च ॥ ३१.४१ ॥
स्यात् पुनस्थ्सापनम् तस्मात् महा-संप्रोक्षणम् चरेथ् । महा-संप्रोक्षण-विधेः नूतन-स्थापनस्य च ॥ ३१।४१ ॥
syāt punasthsāpanam tasmāt mahā-saṃprokṣaṇam careth . mahā-saṃprokṣaṇa-vidheḥ nūtana-sthāpanasya ca .. 31.41 ..
स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः । जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ॥ ३१.४२ ॥
सु अल्पः भेदः इति प्रोक्तम् ऋषिभिः काश्यप-आदिभिः । जल-संप्रोक्षण-विधिम् प्रवक्ष्यामि तपोधनाः ॥ ३१।४२ ॥
su alpaḥ bhedaḥ iti proktam ṛṣibhiḥ kāśyapa-ādibhiḥ . jala-saṃprokṣaṇa-vidhim pravakṣyāmi tapodhanāḥ .. 31.42 ..
यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः । आलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ ३१.४३ ॥
यजमान-अभ्यनुज्ञातः गुरुः स्नात्वा विधानतः । आलय-अभिमुखे वा अपि दक्षिणे वा मनोरमे ॥ ३१।४३ ॥
yajamāna-abhyanujñātaḥ guruḥ snātvā vidhānataḥ . ālaya-abhimukhe vā api dakṣiṇe vā manorame .. 31.43 ..
स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरं । वास्तुहोमावसाने च दोषदुष्टं तु यत्स्थलं ॥ ३१.४४ ॥
स्थण्डिले सैकते शुद्धे । वास्तु-होम-अवसाने च दोष-दुष्टम् तु यत् स्थलम् ॥ ३१।४४ ॥
sthaṇḍile saikate śuddhe . vāstu-homa-avasāne ca doṣa-duṣṭam tu yat sthalam .. 31.44 ..
पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः । बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च ॥ ३१.४५ ॥
पर्यग्नि-पञ्चगव्याभ्याम् विधिना बुधः । बिंबम् पुरुषसूक्तेन कलशैः अभिषिच्य च ॥ ३१।४५ ॥
paryagni-pañcagavyābhyām vidhinā budhaḥ . biṃbam puruṣasūktena kalaśaiḥ abhiṣicya ca .. 31.45 ..
षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च । वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ॥ ३१.४६ ॥
षष्-द्रोण-धान्य-राशौ तु पञ्च-कुंभान् निधाय च । वस्त्र-युग्नेन संवेष्ट्य प्रतिमाः तेषु निक्षिपेथ् ॥ ३१।४६ ॥
ṣaṣ-droṇa-dhānya-rāśau tu pañca-kuṃbhān nidhāya ca . vastra-yugnena saṃveṣṭya pratimāḥ teṣu nikṣipeth .. 31.46 ..
नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक्घटान् । पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ॥ ३१.४७ ॥
नालिकेर-आम्र-पत्र-आद्यैः अलङ्कृत्य पृथक् घटान् । पञ्चसूक्तम् जपित्वा एव पञ्च-शान्तिभिः एव च ॥ ३१।४७ ॥
nālikera-āmra-patra-ādyaiḥ alaṅkṛtya pṛthak ghaṭān . pañcasūktam japitvā eva pañca-śāntibhiḥ eva ca .. 31.47 ..
पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः । पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ॥ ३१.४८ ॥
पञ्च-मूर्तिभिः आवाह्य समभ्यर्च्य अष्ट-विग्रहैः । पश्चात् अग्निम् परिस्तीर्य पञ्चसूक्तम् हुनेत् सुधीः ॥ ३१।४८ ॥
pañca-mūrtibhiḥ āvāhya samabhyarcya aṣṭa-vigrahaiḥ . paścāt agnim paristīrya pañcasūktam hunet sudhīḥ .. 31.48 ..
इङ्कारादींश्च जुहुयादष्टाशीतिमतः परं । पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ॥ ३१.४९ ॥
इङ्कार-आदीन् च जुहुयात् अष्टाशीतिम् अतस् परम् । पञ्च-वारुण-मन्त्रैः च महाव्याहृतिभिः सह ॥ ३१।४९ ॥
iṅkāra-ādīn ca juhuyāt aṣṭāśītim atas param . pañca-vāruṇa-mantraiḥ ca mahāvyāhṛtibhiḥ saha .. 31.49 ..
पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेथ् । निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ॥ ३१.५० ॥
पश्चात् अग्निम् विसृज्य एव गुरवे दक्षिणाम् । निष्क-अहीन-सुवर्णम् च वस्त्र-आभरण-कुण्डलान् ॥ ३१।५० ॥
paścāt agnim visṛjya eva gurave dakṣiṇām . niṣka-ahīna-suvarṇam ca vastra-ābharaṇa-kuṇḍalān .. 31.50 ..
पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकं । प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेथ् ॥ ३१.५१ ॥
पश्चात् कुंभ-जलेन एव प्रोक्षयित्वा स मन्त्रकम् । प्रभूतम् च निवेद्य एव नित्य-अर्चनम् अथ आचरेथ् ॥ ३१।५१ ॥
paścāt kuṃbha-jalena eva prokṣayitvā sa mantrakam . prabhūtam ca nivedya eva nitya-arcanam atha ācareth .. 31.51 ..
अनेन विधिना दोषा नश्यत्येव न संशयः । तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः ॥ ३१.५२ ॥
अनेन विधिना दोषाः नश्यति एव न संशयः । तद्-बिंबे देव-सान्निध्यम् भवेत् इति आह च अङ्गिराः ॥ ३१।५२ ॥
anena vidhinā doṣāḥ naśyati eva na saṃśayaḥ . tad-biṃbe deva-sānnidhyam bhavet iti āha ca aṅgirāḥ .. 31.52 ..
एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः । लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः ॥ ३१.५३ ॥
एतावान् एव संप्रोक्तः जल-संप्रोक्षण-क्रमः । लघु-संप्रोक्षणम् कुर्यात् यजमानेन वै गुरुः ॥ ३१।५३ ॥
etāvān eva saṃproktaḥ jala-saṃprokṣaṇa-kramaḥ . laghu-saṃprokṣaṇam kuryāt yajamānena vai guruḥ .. 31.53 ..
यथार्हं पूजितः पूर्वमारंभदिवसादधः । त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणं ॥ ३१.५४ ॥
यथार्हम् पूजितः पूर्वम् आरंभ-दिवसात् अधस् । वा द्वि-यहे वा अपि कृत्वा च एव अङ्कुर-अर्पणम् ॥ ३१।५४ ॥
yathārham pūjitaḥ pūrvam āraṃbha-divasāt adhas . vā dvi-yahe vā api kṛtvā ca eva aṅkura-arpaṇam .. 31.54 ..
औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च । पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ॥ ३१.५५ ॥
औपासन-अग्नौ श्वोभूते वास्तु-होमम् विधाय च । पर्यग्नि पञ्चगव्याभ्याम् शोधयित्वा समन्ततः ॥ ३१।५५ ॥
aupāsana-agnau śvobhūte vāstu-homam vidhāya ca . paryagni pañcagavyābhyām śodhayitvā samantataḥ .. 31.55 ..
अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः । शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ॥ ३१.५६ ॥
अभिषिच्य च देवेशम् अष्टोत्तरशतैः घुटैः । शोथयित्वा विधानेन वस्तु-वास्तु-परिच्छदान् ॥ ३१।५६ ॥
abhiṣicya ca deveśam aṣṭottaraśataiḥ ghuṭaiḥ . śothayitvā vidhānena vastu-vāstu-paricchadān .. 31.56 ..
पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः । कुंभपूजां ततः कुर्यात्सम्यक्ध्यानयुतो गुरुः ॥ ३१.५७ ॥
पश्चात् पद्म-अग्निम् आसाद्य कृत-आघारम् विधानतः । कुंभ-पूजाम् ततस् कुर्यात् सम्यक् ध्यान-युतः गुरुः ॥ ३१।५७ ॥
paścāt padma-agnim āsādya kṛta-āghāram vidhānataḥ . kuṃbha-pūjām tatas kuryāt samyak dhyāna-yutaḥ guruḥ .. 31.57 ..
द्वात्रिंशत्प्रस्थसंपूर्णान्कुंभानाहृत्य शोभनान् । तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ॥ ३१.५८ ॥
द्वात्रिंशत्-प्रस्थ-संपूर्णान् कुंभान् आहृत्य शोभनान् । तन्तुना वेष्टयित्वा तु तोयैः आपूर्य ॥ ३१।५८ ॥
dvātriṃśat-prastha-saṃpūrṇān kuṃbhān āhṛtya śobhanān . tantunā veṣṭayitvā tu toyaiḥ āpūrya .. 31.58 ..
षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमाथ् । वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ॥ ३१.५९ ॥
षष्-भार-धान्य-रोशौ तु वेद्याम् सप्तदश । वस्त्र-युग्मेन संवेष्ट्य प्रतिमाः तेषु निक्षिपेथ् ॥ ३१।५९ ॥
ṣaṣ-bhāra-dhānya-rośau tu vedyām saptadaśa . vastra-yugmena saṃveṣṭya pratimāḥ teṣu nikṣipeth .. 31.59 ..
निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः । रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ॥ ३१.६० ॥
निष्क-त्रय-कृतान् तत्र नव रत्नानि यत्नतः । रत्न-अलाभे सुवर्णम् वा प्रत्येकम् निक्षिपेत् घटे ॥ ३१।६० ॥
niṣka-traya-kṛtān tatra nava ratnāni yatnataḥ . ratna-alābhe suvarṇam vā pratyekam nikṣipet ghaṭe .. 31.60 ..
गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः । आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ॥ ३१.६१ ॥
गन्ध-पुष्पैः समभ्यर्च्य नालिकेर-आम्र-पल्लवैः । आयुधैः पञ्चभिः तद्वत् तोरणैः अष्ट-मङ्गलैः ॥ ३१।६१ ॥
gandha-puṣpaiḥ samabhyarcya nālikera-āmra-pallavaiḥ . āyudhaiḥ pañcabhiḥ tadvat toraṇaiḥ aṣṭa-maṅgalaiḥ .. 31.61 ..
अलङ्कृत्य गुरुर्धीमान्त्पृष्ट्वा कूर्चेन तान्घटान् । पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकं ॥ ३१.६२ ॥
अलङ्कृत्य गुरुः धीमान् पृष्ट्वा कूर्चेन तान् घटान् । पञ्च-सूक्तम् पञ्चशान्तिम् ततस् द्वादश-सूक्तकम् ॥ ३१।६२ ॥
alaṅkṛtya guruḥ dhīmān pṛṣṭvā kūrcena tān ghaṭān . pañca-sūktam pañcaśāntim tatas dvādaśa-sūktakam .. 31.62 ..
सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणं । स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकं ॥ ३१.६३ ॥
सारस्वत-आदि-सूक्तम् च दिश्-सूक्तम् पञ्च-वारुणम् । स्वस्ति-सूक्तम् जपित्वा एव तथा एव ओषधि-सूक्तकम् ॥ ३१।६३ ॥
sārasvata-ādi-sūktam ca diś-sūktam pañca-vāruṇam . svasti-sūktam japitvā eva tathā eva oṣadhi-sūktakam .. 31.63 ..
नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः । द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेथ् ॥ ३१.६४ ॥
नव-मूर्तिभिः आवाह्य देवीभ्याम् सह पार्षदैः । द्वात्रिंशत्-विग्रहैः सम्यक् अभ्यर्च्य तु ॥ ३१।६४ ॥
nava-mūrtibhiḥ āvāhya devībhyām saha pārṣadaiḥ . dvātriṃśat-vigrahaiḥ samyak abhyarcya tu .. 31.64 ..
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ॥ ३१.६५ ॥
पैण्डरीक-अग्निम् आसाद्य परिषिच्य च पावकम् । पञ्च-सूक्तेन जुहुयात् व्यापक-त्रय-मन्त्रतः ॥ ३१।६५ ॥
paiṇḍarīka-agnim āsādya pariṣicya ca pāvakam . pañca-sūktena juhuyāt vyāpaka-traya-mantrataḥ .. 31.65 ..
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा । रिङ्कारादींश्च जुहुयादष्टाशीतिमतः परं ॥ ३१.६६ ॥
अष्टोत्तरशतम् तद्वत् अष्टाविंशतिः एव वा । रिङ्कार-आदीन् च जुहुयात् अष्टाशीतिम् अतस् परम् ॥ ३१।६६ ॥
aṣṭottaraśatam tadvat aṣṭāviṃśatiḥ eva vā . riṅkāra-ādīn ca juhuyāt aṣṭāśītim atas param .. 31.66 ..
धातादिं मूलहोमं च पञ्चवारुणमेव च । हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ॥ ३१.६७ ॥
धातादिम् मूल-होमम् च पञ्चवारुणम् एव च । हुत्वा कूश्माण्ड-होमम् च पञ्च-वारुणम् एव च ॥ ३१।६७ ॥
dhātādim mūla-homam ca pañcavāruṇam eva ca . hutvā kūśmāṇḍa-homam ca pañca-vāruṇam eva ca .. 31.67 ..
पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः । अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेथ् ॥ ३१.६८ ॥
पङ्कजैः बिल्व-पत्रैः वा विष्णुगायत्रिया ततस् । अष्टोत्तरशतम् हुत्वा पश्चात् अग्निम् विसर्चयेथ् ॥ ३१।६८ ॥
paṅkajaiḥ bilva-patraiḥ vā viṣṇugāyatriyā tatas . aṣṭottaraśatam hutvā paścāt agnim visarcayeth .. 31.68 ..
पश्चाद्गुरुः पूजितस्सन्वस्त्राभरणकुण्डलैः । कुंभमादाय शिरसो ग्राममालयमेव वा ॥ ३१.६९ ॥
पश्चात् गुरुः पूजितः सन् वस्त्र-आभरण-कुण्डलैः । कुंभम् आदाय शिरसः ग्रामम् आलयम् एव वा ॥ ३१।६९ ॥
paścāt guruḥ pūjitaḥ san vastra-ābharaṇa-kuṇḍalaiḥ . kuṃbham ādāya śirasaḥ grāmam ālayam eva vā .. 31.69 ..
प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ । कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ॥ ३१.७० ॥
प्रदक्षिणम् परीत्य अथ देवदेवस्य सन्निधौ । कूर्चेन आदाय तत् तोयम् प्रोक्षयेत् पञ्च-मूर्तिभिः ॥ ३१।७० ॥
pradakṣiṇam parītya atha devadevasya sannidhau . kūrcena ādāya tat toyam prokṣayet pañca-mūrtibhiḥ .. 31.70 ..
शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरं । उपचारैस्समभ्यर्च्य क्षमऽऽस्वेति प्रणम्य च ॥ ३१.७१ ॥
शुची वः हव्य मन्त्रेण प्रोक्षयेत् सर्व-मन्दिरम् । उपचारैः समभ्यर्च्य क्षम आस्व इति प्रणम्य च ॥ ३१।७१ ॥
śucī vaḥ havya mantreṇa prokṣayet sarva-mandiram . upacāraiḥ samabhyarcya kṣama āsva iti praṇamya ca .. 31.71 ..
महाहविः प्रभूतं वा देवेशाय निवेदयेथ् । ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ॥ ३१.७२ ॥
महाहविः प्रभूतम् वा देवेशाय । ब्राह्मणानाम् सहस्रम् च भोजयेत् गुरुणा सह ॥ ३१।७२ ॥
mahāhaviḥ prabhūtam vā deveśāya . brāhmaṇānām sahasram ca bhojayet guruṇā saha .. 31.72 ..
गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककं । प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीं ॥ ३१.७३ ॥
गुरवे दक्षिणाम् दद्यात् सुवर्णम् पञ्च-निष्ककम् । प्रदद्यात् भूमिम् इष्टाम् च प्रोन्मिषत्-सस्य-मालिनीम् ॥ ३१।७३ ॥
gurave dakṣiṇām dadyāt suvarṇam pañca-niṣkakam . pradadyāt bhūmim iṣṭām ca pronmiṣat-sasya-mālinīm .. 31.73 ..
दशदानं ततः कृत्वा नित्यार्चनमथाचरेथ् । एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः ॥ ३१.७४ ॥
दश-दानम् ततस् कृत्वा नित्य-अर्चनम् अथ आचरेथ् । एवम् यः कुरुते भक्त्या लघु-संप्रोक्षणम् हरेः ॥ ३१।७४ ॥
daśa-dānam tatas kṛtvā nitya-arcanam atha ācareth . evam yaḥ kurute bhaktyā laghu-saṃprokṣaṇam hareḥ .. 31.74 ..
विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते । राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेथ् ॥ ३१.७५ ॥
विष्णु-सान्निध्यम् आप्नोति दोष-शान्तिः च जायते । राज-राष्ट्र-अभिवृद्धिः च जगत्-पुष्टि-करम् ॥ ३१।७५ ॥
viṣṇu-sānnidhyam āpnoti doṣa-śāntiḥ ca jāyate . rāja-rāṣṭra-abhivṛddhiḥ ca jagat-puṣṭi-karam .. 31.75 ..
लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल । काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ॥ ३१.७६ ॥
लघु-संप्रोक्षण-विधिः मया प्रख्यापितः किल । काश्यप-आद्यैः च मुनिभिः एवम् एव प्रचोदितः ॥ ३१।७६ ॥
laghu-saṃprokṣaṇa-vidhiḥ mayā prakhyāpitaḥ kila . kāśyapa-ādyaiḥ ca munibhiḥ evam eva pracoditaḥ .. 31.76 ..
महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया । जलाधिवासरहितं नेत्रोन्मीलनवर्जनं ॥ ३१.७७ ॥
महा-संप्रोक्षण-विधौ विशेषः वक्ष्यते मया । जल-अधिवास-रहितम् नेत्र-उन्मीलन-वर्जनम् ॥ ३१।७७ ॥
mahā-saṃprokṣaṇa-vidhau viśeṣaḥ vakṣyate mayā . jala-adhivāsa-rahitam netra-unmīlana-varjanam .. 31.77 ..
प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेथ् । नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ॥ ३१.७८ ॥
प्रतिष्ठा-उक्त-विधानेन सर्वम् पूर्ववत् आचरेथ् । नेत्रयोः तेजने तद्वत् दृष्टि-दोषे विशेषतः ॥ ३१।७८ ॥
pratiṣṭhā-ukta-vidhānena sarvam pūrvavat ācareth . netrayoḥ tejane tadvat dṛṣṭi-doṣe viśeṣataḥ .. 31.78 ..
जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः । महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः ॥ ३१.७९ ॥
जल-अधिवासनम् कुर्यात् अक्ष्णोः उन्मीलनम् पुनर् । महाशान्ति-विधानस्य विशेषः अत्र प्रकीर्तितः ॥ ३१।७९ ॥
jala-adhivāsanam kuryāt akṣṇoḥ unmīlanam punar . mahāśānti-vidhānasya viśeṣaḥ atra prakīrtitaḥ .. 31.79 ..
जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरं । प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेथ् ॥ ३१.८० ॥
जङ्गम-प्रतिमाः सर्वाः अधिवास-पुरस्सरम् । प्रोक्षयित्वा विधानेन देवम् पूर्व-वत् अर्चयेथ् ॥ ३१।८० ॥
jaṅgama-pratimāḥ sarvāḥ adhivāsa-purassaram . prokṣayitvā vidhānena devam pūrva-vat arcayeth .. 31.80 ..
महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः । प्रतिष्ठोक्तदिने विद्वानृत्विग्भिर्लक्षणान्वितैः ॥ ३१.८१ ॥
महा-निमित्ते संप्राप्ते यजमान-अर्थितः गुरुः । प्रतिष्ठा-उक्त-दिने विद्वान् ऋत्विग्भिः लक्षण-अन्वितैः ॥ ३१।८१ ॥
mahā-nimitte saṃprāpte yajamāna-arthitaḥ guruḥ . pratiṣṭhā-ukta-dine vidvān ṛtvigbhiḥ lakṣaṇa-anvitaiḥ .. 31.81 ..
वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः । प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेथ् ॥ ३१.८२ ॥
वस्त्रैः आभरणैः च अपि पूर्व-उक्तम् इव भूषितः । प्रोक्षणा-दिवसात् सूर्वम् अङ्कुर-अर्पणम् आचरेथ् ॥ ३१।८२ ॥
vastraiḥ ābharaṇaiḥ ca api pūrva-uktam iva bhūṣitaḥ . prokṣaṇā-divasāt sūrvam aṅkura-arpaṇam ācareth .. 31.82 ..
द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च । कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृतां ॥ ३१.८३ ॥
द्रव्याणि अपि सु संभृत्य याग-शालाम् प्रविश्य च । कदली-पूग-माला-आद्यैः पताका-आद्यैः अलङ्कृताम् ॥ ३१।८३ ॥
dravyāṇi api su saṃbhṛtya yāga-śālām praviśya ca . kadalī-pūga-mālā-ādyaiḥ patākā-ādyaiḥ alaṅkṛtām .. 31.83 ..
तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः । तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणं ॥ ३१.८४ ॥
तद्-मध्ये कल्पयेत् वेदिम् शयन-अर्थम् विधानतः । तस्याः तु पूर्व-दिग्भागे कुंभ-वेदिम् स लक्षणम् ॥ ३१।८४ ॥
tad-madhye kalpayet vedim śayana-artham vidhānataḥ . tasyāḥ tu pūrva-digbhāge kuṃbha-vedim sa lakṣaṇam .. 31.84 ..
परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेथ् । देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ॥ ३१.८५ ॥
परितस् च अग्निकुण्डान् च पैण्डरीकम् च । देवालयम् च संशोध्य मृष्ट-सिक्त-उपलेपनैः ॥ ३१।८५ ॥
paritas ca agnikuṇḍān ca paiṇḍarīkam ca . devālayam ca saṃśodhya mṛṣṭa-sikta-upalepanaiḥ .. 31.85 ..
आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः । स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ॥ ३१.८६ ॥
आचार्यः सु प्रसन्न-आत्मा यजमान-अर्थितः मुहुर् । स्नात्वा अस्नान-विधानेन गायत्रीम् च सहस्रशस् ॥ ३१।८६ ॥
ācāryaḥ su prasanna-ātmā yajamāna-arthitaḥ muhur . snātvā asnāna-vidhānena gāyatrīm ca sahasraśas .. 31.86 ..
जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेथ् । वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ॥ ३१.८७ ॥
जप्त्वा द्वादश-सूक्तानि पुण्याहम् अपि वाचयेथ् । वास्तु-होमम् ततस् कृत्वा कुण्डे तु औपासने गुरुः ॥ ३१।८७ ॥
japtvā dvādaśa-sūktāni puṇyāham api vācayeth . vāstu-homam tatas kṛtvā kuṇḍe tu aupāsane guruḥ .. 31.87 ..
पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः । गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेथ् ॥ ३१.८८ ॥
पर्यग्नि पञ्चगव्याभ्याम् संशोध्य एव च सर्वतस् । गार्हपत्य-आदि-कुण्डेषु क्रमात् आघारम् आचरेथ् ॥ ३१।८८ ॥
paryagni pañcagavyābhyām saṃśodhya eva ca sarvatas . gārhapatya-ādi-kuṇḍeṣu kramāt āghāram ācareth .. 31.88 ..
पक्वबिंबसमाकारघटानां पञ्चविंशतिं । तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ॥ ३१.८९ ॥
पक्व-बिंब-सम-आकार-घटानाम् पञ्चविंशतिम् । तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सु धूपितान् ॥ ३१।८९ ॥
pakva-biṃba-sama-ākāra-ghaṭānām pañcaviṃśatim . tantunā trivṛtā veṣṭya śodhayitvā su dhūpitān .. 31.89 ..
आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः । पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ॥ ३१.९० ॥
आदाय मन्त्रवत् दिव्यम् जलम् आहृत्य यत्नतः । पूताभिः अद्भिः आपूर्य नालिकेर-आम्र-पल्लवैः ॥ ३१।९० ॥
ādāya mantravat divyam jalam āhṛtya yatnataḥ . pūtābhiḥ adbhiḥ āpūrya nālikera-āmra-pallavaiḥ .. 31.90 ..
अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः । यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ॥ ३१.९१ ॥
अलङ्कृत्य तथा कूर्चैः गन्ध-पुष्प-अक्षत-आदिभिः । यवैः वा अ ह्रीहिभिः वा अथ वेद्याम् द्वादश-भारकैः ॥ ३१।९१ ॥
alaṅkṛtya tathā kūrcaiḥ gandha-puṣpa-akṣata-ādibhiḥ . yavaiḥ vā a hrīhibhiḥ vā atha vedyām dvādaśa-bhārakaiḥ .. 31.91 ..
आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेथ् । सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ॥ ३१.९२ ॥
आस्तीर्य तेषु संस्थाप्य पृथक् वस्त्रेण वेष्टयेथ् । सौवर्ण-प्रतिमाः तत्र पञ्च-निष्क-कृताः पृथक् ॥ ३१।९२ ॥
āstīrya teṣu saṃsthāpya pṛthak vastreṇa veṣṭayeth . sauvarṇa-pratimāḥ tatra pañca-niṣka-kṛtāḥ pṛthak .. 31.92 ..
गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेथ् । ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमाथ् ॥ ३१.९३ ॥
गज-कूर्म-आदि-रूपाणि नवरत्न-आदि च क्षिपेथ् । ध्यान-मार्गेण कुंभेषु मध्यम-आदिषु ॥ ३१।९३ ॥
gaja-kūrma-ādi-rūpāṇi navaratna-ādi ca kṣipeth . dhyāna-mārgeṇa kuṃbheṣu madhyama-ādiṣu .. 31.93 ..
नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः । वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन् ॥ ३१.९४ ॥
नव-मूर्ति-क्रमेण एव मन्त्रेण आवाहयेत् गुरुः । वेदि-अधस्थेषु कुंभेषु चें द-आदीन् अष्ट-दिक्पतीन् ॥ ३१।९४ ॥
nava-mūrti-krameṇa eva mantreṇa āvāhayet guruḥ . vedi-adhastheṣu kuṃbheṣu ceṃ da-ādīn aṣṭa-dikpatīn .. 31.94 ..
आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेथ् । सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ॥ ३१.९५ ॥
आवाह्य गन्ध-पुष्प-आद्यैः समभ्यर्च्य निवेदयेथ् । सहस्र-कलशैः स्नाप्य स्नपन-उक्त-प्रकारतः ॥ ३१।९५ ॥
āvāhya gandha-puṣpa-ādyaiḥ samabhyarcya nivedayeth . sahasra-kalaśaiḥ snāpya snapana-ukta-prakārataḥ .. 31.95 ..
सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः । शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान्प्राकल्प्यच ॥ ३१.९६ ॥
सौवर्णम् कौतुकम् बद्ध्वा प्रतिष्ठा-उक्त-विधानतः । शय्या-वेदिम् समभ्युक्ष्य पञ्चतल्पान् प्राकल्प्य च ॥ ३१।९६ ॥
sauvarṇam kautukam baddhvā pratiṣṭhā-ukta-vidhānataḥ . śayyā-vedim samabhyukṣya pañcatalpān prākalpya ca .. 31.96 ..
शालिव्रीहियवैश्चापि षड्भारैश्च पृथक्पृथक् । तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ॥ ३१.९७ ॥
शालि-व्रीहि-यवैः च अपि षष्-भारैः च पृथक् पृथक् । तद्-अर्धैः तण्डुलैः च अथ तद्-अर्धैः च तिलैः तथा ॥ ३१।९७ ॥
śāli-vrīhi-yavaiḥ ca api ṣaṣ-bhāraiḥ ca pṛthak pṛthak . tad-ardhaiḥ taṇḍulaiḥ ca atha tad-ardhaiḥ ca tilaiḥ tathā .. 31.97 ..
उपर्युपरि चास्तीर्य चर्मजादीन्समास्तरेथ् । शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवथ् ॥ ३१.९८ ॥
उपरि उपरि च आस्तीर्य चर्म-ज-आदीन् समास्तरेथ् । शयने शाययेत् वेद्याम् औत्सवम् ॥ ३१।९८ ॥
upari upari ca āstīrya carma-ja-ādīn samāstareth . śayane śāyayet vedyām autsavam .. 31.98 ..
कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमाथ् । वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः ॥ ३१.९९ ॥
कूर्च-अधिवासम् कुर्वीत ध्रुव-मात्रम् । वेदान् अध्यापयेत् दिक्षु "ऋचाम् प्राची ईः इति श्रुतिः ॥ ३१।९९ ॥
kūrca-adhivāsam kurvīta dhruva-mātram . vedān adhyāpayet dikṣu "ṛcām prācī īḥ iti śrutiḥ .. 31.99 ..
गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः । ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकं ॥ ३१.१०० ॥
गार्हपत्य-आदि-कुण्डेषु प्रतिष्ठा-उक्त-विधानतः । ऋत्विग्भिः कारयेत् होमम् तद्-तद्-दैवत्य-पूर्वकम् ॥ ३१।१०० ॥
gārhapatya-ādi-kuṇḍeṣu pratiṣṭhā-ukta-vidhānataḥ . ṛtvigbhiḥ kārayet homam tad-tad-daivatya-pūrvakam .. 31.100 ..
गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकं ॥ ३१.१०१ ॥
गुरुः सभ्य-अग्निम् आसाद्य परिषिच्य च पावकम् । पञ्च-सूक्तम् क्रमेण एव महाव्याहृति-पूर्वकम् ॥ ३१।१०१ ॥
guruḥ sabhya-agnim āsādya pariṣicya ca pāvakam . pañca-sūktam krameṇa eva mahāvyāhṛti-pūrvakam .. 31.101 ..
व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः । अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ॥ ३१.१०२ ॥
व्यापक-त्रय-मन्त्रम् च विष्णुगायत्रिया पुनर् । अषोत्तरशतम् हुत्वा व्याहृत्या च तथा एव च ॥ ३१।१०२ ॥
vyāpaka-traya-mantram ca viṣṇugāyatriyā punar . aṣottaraśatam hutvā vyāhṛtyā ca tathā eva ca .. 31.102 ..
ततोऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु । धातादिमूलहोमं च पञ्चवारुणसंयुतं ॥ ३१.१०३ ॥
ततस् अब्ज-अग्निम् समासाद्य पञ्च-सूक्तैः सह एव तु । धातादि-मूल-होमम् च पञ्च-वारुण-संयुतम् ॥ ३१।१०३ ॥
tatas abja-agnim samāsādya pañca-sūktaiḥ saha eva tu . dhātādi-mūla-homam ca pañca-vāruṇa-saṃyutam .. 31.103 ..
महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः । कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ॥ ३१.१०४ ॥
महाशान्ति-उक्त-मन्त्रान् च त्रिस् आवर्त्य हुनेत् ततस् । कुंभ-वेदिम् समासाद्य समभ्यर्च्य अष्ट-विग्रहैः ॥ ३१।१०४ ॥
mahāśānti-ukta-mantrān ca tris āvartya hunet tatas . kuṃbha-vedim samāsādya samabhyarcya aṣṭa-vigrahaiḥ .. 31.104 ..
स्पृष्ट्वा कूर्चेन तत्कुंभानृत्विग्भिस्सह वै गुरुः । आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परं ॥ ३१.१०५ ॥
स्पृष्ट्वा कूर्चेन तद्-कुंभान् ऋत्विग्भिः सह वै गुरुः । आत्मसूक्तम् जपित्वा एव पञ्चसूक्तम् अतस् परम् ॥ ३१।१०५ ॥
spṛṣṭvā kūrcena tad-kuṃbhān ṛtvigbhiḥ saha vai guruḥ . ātmasūktam japitvā eva pañcasūktam atas param .. 31.105 ..
स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा । अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परं ॥ ३१.१०६ ॥
स्वस्तिसूक्तम् च दौर्गम् च रात्रिम् एकाक्षरम् तथा । अष्ट-दिक्पाल-सूक्तानि पञ्चशान्तिमतः परम् ॥ ३१।१०६ ॥
svastisūktam ca daurgam ca rātrim ekākṣaram tathā . aṣṭa-dikpāla-sūktāni pañcaśāntimataḥ param .. 31.106 ..
आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च । जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमाथ् ॥ ३१.१०७ ॥
आपः हिरण्य-वर्णाः आभ्याम् पावमानीभिः एव च । जप्त्वा द्वादश-सूक्तम् च ततस् सभ्य-अनले ॥ ३१।१०७ ॥
āpaḥ hiraṇya-varṇāḥ ābhyām pāvamānībhiḥ eva ca . japtvā dvādaśa-sūktam ca tatas sabhya-anale .. 31.107 ..
हौत्रप्रशसनं कुर्यात्सर्वं होत्तु पूर्ववथ् । चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ॥ ३१.१०८ ॥
हौत्र-प्रशसनम् कुर्यात् सर्वम् पूर्ववथ् । चतुर्-मूर्ति-क्रमेण एव सहस्र-आहुतिना सह ॥ ३१।१०८ ॥
hautra-praśasanam kuryāt sarvam pūrvavath . catur-mūrti-krameṇa eva sahasra-āhutinā saha .. 31.108 ..
यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः । हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ॥ ३१.१०९ ॥
यत् देव-आद्यैः च कूश्माण्डैः सर्व-दैवत्य-मन्त्रकैः । हुत्वा तु दोष-शान्ति-अर्थम् लोजैः तद्वत् तिलैः अपि ॥ ३१।१०९ ॥
yat deva-ādyaiḥ ca kūśmāṇḍaiḥ sarva-daivatya-mantrakaiḥ . hutvā tu doṣa-śānti-artham lojaiḥ tadvat tilaiḥ api .. 31.109 ..
सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववथ् । अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ॥ ३१.११० ॥
स अपूपैः विष्णु-गायत्षा हुत्वा आ कुण्डेषु पूर्ववथ् । अष्टोत्तरशतम् तद्वत् अष्टाविंशतिः एव वा ॥ ३१।११० ॥
sa apūpaiḥ viṣṇu-gāyatṣā hutvā ā kuṇḍeṣu pūrvavath . aṣṭottaraśatam tadvat aṣṭāviṃśatiḥ eva vā .. 31.110 ..
परिषेगं ततः कृत्वा पैण्डरीके विशेषतः । पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ॥ ३१.१११ ॥
परिषेगम् ततस् कृत्वा पैण्डरीके विशेषतः । पद्मैः वा बिल्व-पत्रैः वा विष्णुगायत्रिया ततस् ॥ ३१।१११ ॥
pariṣegam tatas kṛtvā paiṇḍarīke viśeṣataḥ . padmaiḥ vā bilva-patraiḥ vā viṣṇugāyatriyā tatas .. 31.111 ..
अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेथ् । पारमात्मिकमन्त्रैश्च रिङ्काराद्यैश्च यत्नतः ॥ ३१.११२ ॥
अषोत्तरसहस्रम् तु घृतेन आप्लुत्य वै । पारमात्मिक-मन्त्रैः च रिङ्कार-आद्यैः च यत्नतः ॥ ३१।११२ ॥
aṣottarasahasram tu ghṛtena āplutya vai . pāramātmika-mantraiḥ ca riṅkāra-ādyaiḥ ca yatnataḥ .. 31.112 ..
अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकं । हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ॥ ३१.११३ ॥
अष्टाशीतिम् ततस् हुत्वा महाव्याहृति-पूर्वकम् । हुत्वा तद्-दोष-नाशाय राज-राष्ट्र-अभिवृद्धये ॥ ३१।११३ ॥
aṣṭāśītim tatas hutvā mahāvyāhṛti-pūrvakam . hutvā tad-doṣa-nāśāya rāja-rāṣṭra-abhivṛddhaye .. 31.113 ..
सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकं ॥ ३१.११४ ॥
सभ्य-अग्निम् पौण्डरीक-अग्निम् हित्वा अन्येषु अन्तहोमकम् ॥ ३१।११४ ॥
sabhya-agnim pauṇḍarīka-agnim hitvā anyeṣu antahomakam .. 31.114 ..
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः । प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेथ् ॥ ३१.११५ ॥
नृत्त-गीत-आदि-वाद्यैः च रात्रि-शेषम् नयेत् गुरुः । प्रातर् स्नात्वा विधानेन कलशैः स्नपनम् चरेथ् ॥ ३१।११५ ॥
nṛtta-gīta-ādi-vādyaiḥ ca rātri-śeṣam nayet guruḥ . prātar snātvā vidhānena kalaśaiḥ snapanam careth .. 31.115 ..
पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितं । पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ॥ ३१.११६ ॥
पञ्च-सूक्तैः च संस्नाप्य पञ्चशान्ति-समन्वितम् । पश्चात् देवम् अलङ्कृत्य सु वस्त्र-आभरण-आदिकैः ॥ ३१।११६ ॥
pañca-sūktaiḥ ca saṃsnāpya pañcaśānti-samanvitam . paścāt devam alaṅkṛtya su vastra-ābharaṇa-ādikaiḥ .. 31.116 ..
गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियं । मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः ॥ ३१.११७ ॥
गन्ध-पुष्पैः सुगन्धैः च । मुहूर्ते समनुप्राप्ते कुंभम् आदाय देशिकः ॥ ३१।११७ ॥
gandha-puṣpaiḥ sugandhaiḥ ca . muhūrte samanuprāpte kuṃbham ādāya deśikaḥ .. 31.117 ..
स्वस्तिसूक्तं जपन्ग्राममालयं वा प्रदक्षिणं । कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेथ् ॥ ३१.११८ ॥
स्वस्ति-सूक्तम् जपन् ग्रामम् आलयम् वा प्रदक्षिणम् । कृत्वा देव-अग्रतस् कुंभम् ध्यान्य-पीठे निवेशयेथ् ॥ ३१।११८ ॥
svasti-sūktam japan grāmam ālayam vā pradakṣiṇam . kṛtvā deva-agratas kuṃbham dhyānya-pīṭhe niveśayeth .. 31.118 ..
यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा । कूर्यादनन्तरोक्तांश्च संस्कारान्भगवत्प्रियान् ॥ ३१.११९ ॥
यजमानेन शक्त्या वै गुरुः संपूजितः तदा । कूर्यात् अनन्तर-उक्तान् च संस्कारान् भगवत्-प्रियान् ॥ ३१।११९ ॥
yajamānena śaktyā vai guruḥ saṃpūjitaḥ tadā . kūryāt anantara-uktān ca saṃskārān bhagavat-priyān .. 31.119 ..
वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः । यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुं ॥ ३१.१२० ॥
वस्त्रेः आभरणैः शुभ्रैः कुण्डलैः च विशेषतः । यजमानः सु संपूज्य पशु-भूमि-आदिभिः गुरुम् ॥ ३१।१२० ॥
vastreḥ ābharaṇaiḥ śubhraiḥ kuṇḍalaiḥ ca viśeṣataḥ . yajamānaḥ su saṃpūjya paśu-bhūmi-ādibhiḥ gurum .. 31.120 ..
गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिं । ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान्हरिः ॥ ३१.१२१ ॥
गुरवे दक्षिणाम् दद्यात् निष्काणाम् एकविंशतिम् । ऋत्विग्भ्यः च तथा दद्यात् सु प्रीतः भगवान् हरिः ॥ ३१।१२१ ॥
gurave dakṣiṇām dadyāt niṣkāṇām ekaviṃśatim . ṛtvigbhyaḥ ca tathā dadyāt su prītaḥ bhagavān hariḥ .. 31.121 ..
गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः । महाहविर्नि वेद्यैन पायसापूपसंयुतं ॥ ३१.१२२ ॥
गुरुः पश्चात् समावाह्य समभ्यर्च्य अष्ट-विग्रहैः । महाहविः पायस-अपूप-संयुतम् ॥ ३१।१२२ ॥
guruḥ paścāt samāvāhya samabhyarcya aṣṭa-vigrahaiḥ . mahāhaviḥ pāyasa-apūpa-saṃyutam .. 31.122 ..
साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेथ् । पुष्पाञ्जलिं ततो दत्वा "क्षयऽऽ स्वेति प्रणम्य च ॥ ३१.१२३ ॥
स आज्यम् स व्यञ्जनम् द-त्वा मुख-वासम् । पुष्प-अञ्जलिम् ततस् द-त्वा "क्षय स्व इति प्रणम्य च ॥ ३१।१२३ ॥
sa ājyam sa vyañjanam da-tvā mukha-vāsam . puṣpa-añjalim tatas da-tvā "kṣaya sva iti praṇamya ca .. 31.123 ..
सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे । दशदानं विशेषेण देवप्रीतिकं भवेथ् ॥ ३१.१२४ ॥
सहस्रम् ब्राह्मणानाम् च भोजयेत् शान्ति-हेतवे । दश-दानम् विशेषेण देव-प्रीतिकम् ॥ ३१।१२४ ॥
sahasram brāhmaṇānām ca bhojayet śānti-hetave . daśa-dānam viśeṣeṇa deva-prītikam .. 31.124 ..
एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः । पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरथ् ॥ ३१.१२५ ॥
प्रतिष्ठाम् आचरेत् ततस् । पुनस्थ्सापन-संस्कारात् प्रायश्चित्तम् न हि इतरथा ॥ ३१।१२५ ॥
pratiṣṭhām ācaret tatas . punasthsāpana-saṃskārāt prāyaścittam na hi itarathā .. 31.125 ..
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेथ् । एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयं ॥ ३१.१२६ ॥
तस्मात् सर्व-प्रयत्नेन शास्त्र-उक्तम् सर्वम् आचरेथ् । एवम् यः कुरुते भक्त्या विष्णोः संप्रोक्षण-त्रयम् ॥ ३१।१२६ ॥
tasmāt sarva-prayatnena śāstra-uktam sarvam ācareth . evam yaḥ kurute bhaktyā viṣṇoḥ saṃprokṣaṇa-trayam .. 31.126 ..
प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयाथ् ॥ ३१.१२७ ॥
प्रतिष्ठा-फलम् आसाद्य वैष्णवम् लोकम् आप्नुयाथ् ॥ ३१।१२७ ॥
pratiṣṭhā-phalam āsādya vaiṣṇavam lokam āpnuyāth .. 31.127 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे एकत्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre ekatriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In