| |
|

This overlay will guide you through the buttons:

अथैक त्रिंशोऽध्यायः.
athaika triṃśo'dhyāyaḥ.
संप्रोक्षणत्रयम्.
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहं । जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा ॥ ३१.१ ॥
atha vakṣyāmi tatroktaprāyaścittasya saṃgrahaṃ . jalasaṃprokṣaṇaṃ caiva laghusaṃprokṣaṇaṃ tathā .. 31.1 ..
महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतं । निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवं ॥ ३१.२ ॥
mahāsaṃprokṣaṇaṃ ceti prāyaścittaṃ tridhā smṛtaṃ . nimitte samanuprāpte jñātvā gauravalāghavaṃ .. 31.2 ..
वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेथ् । संप्रोक्षणविधानस्य न कालनियमस्स्मृतः ॥ ३१.३ ॥
vakṣyamāṇakrāreṇa sadyassaṃprokṣaṇaṃ careth . saṃprokṣaṇavidhānasya na kālaniyamassmṛtaḥ .. 31.3 ..
न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणं । तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेथ् ॥ ३१.४ ॥
na kuryānmāsanakṣatra tithivārādyavekṣaṇaṃ . tasmānnimitte saṃprāpte sadyassaṃprokṣaṇaṃ careth .. 31.4 ..
देशकालाद्यवेक्षाया निमित्ते सति गौरवं । बहुबेरेषु चैकस्मिन्स्थावरे जङ्गमेऽथ वा ॥ ३१.५ ॥
deśakālādyavekṣāyā nimitte sati gauravaṃ . bahubereṣu caikasminsthāvare jaṅgame'tha vā .. 31.5 ..
अर्चनायां विहीनायां कालातीते विपर्यये । निर्माल्यपूजने चैव निवेदितनिवेदने ॥ ३१.६ ॥
arcanāyāṃ vihīnāyāṃ kālātīte viparyaye . nirmālyapūjane caiva niveditanivedane .. 31.6 ..
एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने । बलिहोमादिहीनेच नित्योत्सवविवर्जने ॥ ३१.७ ॥
ekāhe'pyarcanāhīne nityasnāpanavarjane . balihomādihīneca nityotsavavivarjane .. 31.7 ..
प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति । अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ॥ ३१.८ ॥
prākārābhyantare prāpte pramādādaśubhe sati . aspṛśyāgamane tatra caṇḍālādyaiḥ praveśane .. 31.8 ..
श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने । उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ॥ ३१.९ ॥
śvakukkuṭa varāhoṣṭragardabhānāṃ praveśane . udakyayā sūtikayā pāṣaṇḍādyairathāpi vā .. 31.9 ..
कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने । अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा ॥ ३१.१० ॥
kuṇḍagolavratabhraṣṭaturuṣkādipraveśane . anyasūtridvijaisspṛṣṭe mohādajñānato'pivā .. 31.10 ..
महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः । विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ॥ ३१.११ ॥
mahāvātahate biṃbe saṃsikte varṣabindubhiḥ . viṇmūtrarudhirasrāve bahujalpe ca maithune .. 31.11 ..
एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेथ् । नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः ॥ ३१.१२ ॥
evamādinimitte tu jalasaṃprokṣaṇaṃ careth . naivāsaṃprokṣite biṃbe harirvasati niścayaḥ .. 31.12 ..
तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेथ् । दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेथ् ॥ ३१.१३ ॥
tasmādbiṃbaviśuddhyarthaṃ saṃprokṣyaiva samarcayeth . doṣādhikye samutpanne laghusaṃprokṣaṇaṃ careth .. 31.13 ..
राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे । शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ॥ ३१.१४ ॥
rāṣṭrakṣobhe ca durbhikṣe tantrasaṃkaradūṣaṇe . śūdrairvāthānulomairvāpāṣaṇḍairbhramitairapi .. 31.14 ..
उदक्यया सूतिकया पतितैर्वाथ पातकैः । चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ॥ ३१.१५ ॥
udakyayā sūtikayā patitairvātha pātakaiḥ . caṇḍālādyaiḥ praviṣṭe ca garbhāgāre viśeṣataḥ .. 31.15 ..
सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः । श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ॥ ३१.१६ ॥
sūtairvā kuṇḍagolādyaistathā devalakādibhiḥ . śvakukkuṭa varāhādyaiḥ praviṣṭe gārdabhādibhiḥ .. 31.16 ..
उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा । तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ॥ ३१.१७ ॥
ulūkagṛdhrakākādyaiḥ praviṣṭe'ntargṛhe tathā . turuṣkādyaiḥpraviṣṭe vā śukraṇoṇitayorapi .. 31.17 ..
विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे । त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ॥ ३१.१८ ॥
viṇmūtrādervisarge vā garbhāgārerdhamaṇḍape . tṣahādūrdhvaṃ vihīne tu pūjane dīpavarjane .. 31.18 ..
एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते । आग्निदाहेऽशनीपाते गर्भागारेर्ऽधमण्डपे ॥ ३१.१९ ॥
eka rātramatikramya devegrāmāntarasthite . āgnidāhe'śanīpāte garbhāgārer'dhamaṇḍape .. 31.19 ..
अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकं । अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेथ् ॥ ३१.२० ॥
anyasūtṣarcite biṃbespṛṣṭe vā buddhipūrvakaṃ . anyairanuktairdeṣaiśca laghusaṃprokṣaṇaṃ careth .. 31.20 ..
महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेथ् । द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ॥ ३१.२१ ॥
mahānimitte saṃprāpte mahāsaṃprokṣaṇaṃ careth . dvādaśāhātsamārabhya vatsarāntaṃ vidhānataḥ .. 31.21 ..
हीनायामर्चनायां च नित्ये नैमित्तिके तथा । क्रियाहीने विपर्यासे हीने मासोत्सवादिके ॥ ३१.२२ ॥
hīnāyāmarcanāyāṃ ca nitye naimittike tathā . kriyāhīne viparyāse hīne māsotsavādike .. 31.22 ..
नित्यस्नपनहीनेऽपि मात्रादानविहीनके । बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे ॥ ३१.२३ ॥
nityasnapanahīne'pi mātrādānavihīnake . balihomādihīne ca saṃprāpte śāstrasaṃkare .. 31.23 ..
एवमादिषु हीनेषु वत्सरान्तं प्रमादतः । पर्षदां परिवाराणामाश्रितालयसेविनां ॥ ३१.२४ ॥
evamādiṣu hīneṣu vatsarāntaṃ pramādataḥ . parṣadāṃ parivārāṇāmāśritālayasevināṃ .. 31.24 ..
ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके । विप्रादिमरणे प्राप्ते देवागारे विशेषतः ॥ ३१.२५ ॥
dhvajārohaṇapūrvaṃ tu kṛte kālotsavādike . viprādimaraṇe prāpte devāgāre viśeṣataḥ .. 31.25 ..
गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते । गजादिमृगनाशे च देवागारे प्रमादतः ॥ ३१.२६ ॥
gardabhāśvalulāyoṣṭraśvasūkaramukhe mṛte . gajādimṛganāśe ca devāgāre pramādataḥ .. 31.26 ..
चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः । शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ॥ ३१.२७ ॥
caṇḍālādyantyajātīnāṃ maraṇe vā viśeṣataḥ . śūdrairvāthānulomairvā pāṣaṇḍaiḥ patitādibhiḥ .. 31.27 ..
संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः । स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ॥ ३१.२८ ॥
saṃspṛṣṭe vaiṣṇave biṃbe turuṣkādyairmalimlucaiḥ . spṛṣṭe caṇḍālakādyairvā mahāpātakadūṣitaiḥ .. 31.28 ..
विमानेऽशनिपाते वा महोल्का पतनेऽपि वा । लोहितो पलवर्षे च वांसुवर्षे विशेषतः ॥ ३१.२९ ॥
vimāne'śanipāte vā maholkā patane'pi vā . lohito palavarṣe ca vāṃsuvarṣe viśeṣataḥ .. 31.29 ..
भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे । शिथिलिभवने वापि चाष्टबन्धे विशेषतः ॥ ३१.३० ॥
bhūkaṃpāccalite biṃbe valmīkasya samudbhave . śithilibhavane vāpi cāṣṭabandhe viśeṣataḥ .. 31.30 ..
जीर्णे स्तंभादिपतने देवागारेन वीकृते । अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ॥ ३१.३१ ॥
jīrṇe staṃbhādipatane devāgārena vīkṛte . agnisparśe ca berasya manuṣyaprasave tathā .. 31.31 ..
सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः । बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने ॥ ३१.३२ ॥
suthākarmaṇi sarvatra garbhagehādike punaḥ . biṃbeṣu garbhagehe vā kṛmikīṭādidarśane .. 31.32 ..
हसने रोदने चैव भाषणे च विशेषतः । स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये ॥ ३१.३३ ॥
hasane rodane caiva bhāṣaṇe ca viśeṣataḥ . svedaśoṇitayorvāpi darśane varṇasaṃkṣaye .. 31.33 ..
विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः । देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ॥ ३१.३४ ॥
vimāne maṇḍape vātha yatra kutrāpi vā hareḥ . devāgāre samutpanne doṣeṣveteṣu vā pṛthak .. 31.34 ..
दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि । दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे ॥ ३१.३५ ॥
durbhikṣe rāṣṭrasaṃkṣobhe durnimitteṣu caiva hi . dussvapne bhūmikaṃpe vā pararājādyupadrave .. 31.35 ..
भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते । अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ॥ ३१.३६ ॥
bhūgupte coddhṛte biṃbe ciramanyālaye sthite . atikramya trirātraṃ tu deve grāmāntare sthite .. 31.36 ..
कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते । अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ॥ ३१.३७ ॥
kuṇḍagolakasūtādyairdīkṣitairarcane kṛte . anuktāni ca karvāṇi duritānyadbhutāni ca .. 31.37 ..
दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः । ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ॥ ३१.३८ ॥
dṛṣṭvātu yajamānaśca ye tatparisare janāḥ . grāmasthitā canāścaiva rājā rāṣṭraṃ ca yatnataḥ .. 31.38 ..
ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलं । महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये ॥ ३१.३९ ॥
jñātvā śāstroktavidhinā doṣajaṃ bhaktitaḥ phalaṃ . mahāsaṃprokṣaṇaṃ kuryānmahādoṣāpanuttaye .. 31.39 ..
महदोषेषु सर्वत्र महाशान्तिर्विथीयते । पूर्वं स्थापितबिंबस्य न साधारणहेतुना ॥ ३१.४० ॥
mahadoṣeṣu sarvatra mahāśāntirvithīyate . pūrvaṃ sthāpitabiṃbasya na sādhāraṇahetunā .. 31.40 ..
स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेथ् । महासंप्रोक्षणविधेर्नूतनस्थापनस्य च ॥ ३१.४१ ॥
syātpunasthsāpanaṃ tasmānmahāsaṃprokṣaṇaṃ careth . mahāsaṃprokṣaṇavidhernūtanasthāpanasya ca .. 31.41 ..
स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः । जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ॥ ३१.४२ ॥
svalpo bheda iti proktamṛṣibhiḥ kāśyapādibhiḥ . jalasaṃprokṣaṇavidhiṃ pravakṣyāmi tapodhanāḥ .. 31.42 ..
यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः । आलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ ३१.४३ ॥
yajamānābhyanujñāto gurussnātvā vidhānataḥ . ālayābhimukhe vāpi dakṣiṇe vā manorame .. 31.43 ..
स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरं । वास्तुहोमावसाने च दोषदुष्टं तु यत्स्थलं ॥ ३१.४४ ॥
sthaṇḍile saikate śuddhe puṇyāhāgnimukhātvaraṃ . vāstuhomāvasāne ca doṣaduṣṭaṃ tu yatsthalaṃ .. 31.44 ..
पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः । बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च ॥ ३१.४५ ॥
paryagnipañcagavyābhyāṃ saṃskratya vidhinā budhaḥ . biṃbaṃ puruṣasūktena kalaśairabhiṣicya ca .. 31.45 ..
षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च । वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ॥ ३१.४६ ॥
ṣaṭdroṇadhānya rāśau tu pañcakuṃbhānnidhāya ca . vastrayugnena saṃveṣṭya pratimāsteṣu nikṣipeth .. 31.46 ..
नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक्घटान् । पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ॥ ३१.४७ ॥
nālikerāmrapatrādyairalaṅkṛtya pṛthakghaṭān . pañcasūktaṃ japitvaiva pañcaśāntibhireva ca .. 31.47 ..
पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः । पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ॥ ३१.४८ ॥
pañcamūrtibhirāvāhya samabhyarcyāṣṭavigrahaiḥ . paścādagniṃ paristīrya pañcasūktaṃ hunetsudhīḥ r .. 31.48 ..
इङ्कारादींश्च जुहुयादष्टाशीतिमतः परं । पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ॥ ३१.४९ ॥
iṅkārādīṃśca juhuyādaṣṭāśītimataḥ paraṃ . pañcavāruṇamantraiśca mahāvyāhṛtibhissaha .. 31.49 ..
पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेथ् । निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ॥ ३१.५० ॥
paścādagniṃ visṛjyaiva gurave dakṣiṇāṃ dadeth . niṣkāhīnasuvarṇaṃ ca vastrābharaṇakuṇḍalān .. 31.50 ..
पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकं । प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेथ् ॥ ३१.५१ ॥
paścātkuṃbhajalenaiva prokṣayitvā samantrakaṃ . prabhūtaṃ ca nivedyaiva nityārcanamathācareth .. 31.51 ..
अनेन विधिना दोषा नश्यत्येव न संशयः । तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः ॥ ३१.५२ ॥
anena vidhinā doṣā naśyatyeva na saṃśayaḥ . tadbiṃbe devasānnidhyaṃ bhavedityāha cāṅgirāḥ .. 31.52 ..
एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः । लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः ॥ ३१.५३ ॥
etāvāneva saṃprokto jalasaṃprokṣaṇakramaḥ . laghusaṃprokṣaṇaṃ kuryādyajamānena vai guruḥ .. 31.53 ..
यथार्हं पूजितः पूर्वमारंभदिवसादधः । त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणं ॥ ३१.५४ ॥
yathārhaṃ pūjitaḥ pūrvamāraṃbhadivasādadhaḥ . tṣahe vā dviyahe vāpi kṛtvā caivāṅkurārpaṇaṃ .. 31.54 ..
औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च । पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ॥ ३१.५५ ॥
aupāsanāgnau śvobhūte vāstuhomaṃ vidhāya ca . paryagni pañcagavyābhyāṃ śodhayitvā samantataḥ .. 31.55 ..
अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः । शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ॥ ३१.५६ ॥
abhiṣicya ca deveśamaṣṭottaraśatairghuṭaiḥ . śothayitvā vidhānena vastuvāstuparicchadān .. 31.56 ..
पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः । कुंभपूजां ततः कुर्यात्सम्यक्ध्यानयुतो गुरुः ॥ ३१.५७ ॥
paścātpadmāgnimāsādya kṛtāghāraṃ vidhānataḥ . kuṃbhapūjāṃ tataḥ kuryātsamyakdhyānayuto guruḥ .. 31.57 ..
द्वात्रिंशत्प्रस्थसंपूर्णान्कुंभानाहृत्य शोभनान् । तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ॥ ३१.५८ ॥
dvātriṃśatprasthasaṃpūrṇānkuṃbhānāhṛtya śobhanān . tantunā veṣṭayitvā tu toyairāpūrya mantrata .. 31.58 ..
षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमाथ् । वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ॥ ३१.५९ ॥
ṣaḍbhāradhānyarośau tu vedyāṃ saptadaśa kramāth . vastrayugmena saṃveṣṭya pratimāsteṣu nikṣipeth .. 31.59 ..
निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः । रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ॥ ३१.६० ॥
niṣkatrayakṛtāṃstatra nava ratnāni yatnataḥ . ratnālābhe suvarṇaṃ vā pratyekaṃ nikṣipedghaṭe .. 31.60 ..
गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः । आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ॥ ३१.६१ ॥
gandhapuṣpaissamabhyarcya nālikerāmrapallavaiḥ . āyudhaiḥpañcabhistadvattoraṇairaṣṭamaṅgalaiḥ .. 31.61 ..
अलङ्कृत्य गुरुर्धीमान्त्पृष्ट्वा कूर्चेन तान्घटान् । पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकं ॥ ३१.६२ ॥
alaṅkṛtya gururdhīmāntpṛṣṭvā kūrcena tānghaṭān . pañcasūktaṃ pañcaśāntiṃ tato dvādaśasūktakaṃ .. 31.62 ..
सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणं । स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकं ॥ ३१.६३ ॥
sārasvatādisūktaṃ ca diksūktaṃ pañcavāruṇaṃ . svastisūktaṃ japitvaiva tathaivauṣadhisūktakaṃ .. 31.63 ..
नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः । द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेथ् ॥ ३१.६४ ॥
navamūrtibhirāvāhya devībhyāṃ saha pārṣadaiḥ . dvātriṃśadvigrahaissamyagabhyarcya tu nivedayeth .. 31.64 ..
पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ॥ ३१.६५ ॥
paiṇḍarīkāgnimāsādya pariṣicya ca pāvakaṃ . pañcasūktena juhuyādvyāpakatrayamantrataḥ .. 31.65 ..
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा । रिङ्कारादींश्च जुहुयादष्टाशीतिमतः परं ॥ ३१.६६ ॥
aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā . riṅkārādīṃśca juhuyādaṣṭāśītimataḥ paraṃ .. 31.66 ..
धातादिं मूलहोमं च पञ्चवारुणमेव च । हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ॥ ३१.६७ ॥
dhātādiṃ mūlahomaṃ ca pañcavāruṇameva ca . hutvā kūśmāṇḍahomaṃ ca pañcavāruṇameva ca .. 31.67 ..
पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः । अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेथ् ॥ ३१.६८ ॥
paṅkajairbilvapatrairvā viṣṇugāyatriyā tataḥ . aṣṭottaraśataṃ hutvā paścādagniṃ visarcayeth .. 31.68 ..
पश्चाद्गुरुः पूजितस्सन्वस्त्राभरणकुण्डलैः । कुंभमादाय शिरसो ग्राममालयमेव वा ॥ ३१.६९ ॥
paścādguruḥ pūjitassanvastrābharaṇakuṇḍalaiḥ . kuṃbhamādāya śiraso grāmamālayameva vā .. 31.69 ..
प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ । कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ॥ ३१.७० ॥
pradakṣiṇaṃ parītyātha devadevasya sannidhau . kūrcenādāya tattoyaṃ prokṣayetpañcamūrtibhiḥ .. 31.70 ..
शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरं । उपचारैस्समभ्यर्च्य क्षमऽऽस्वेति प्रणम्य च ॥ ३१.७१ ॥
śucī vo havya'' mantreṇa prokṣayetsarvamandiraṃ . upacāraissamabhyarcya kṣama''sveti praṇamya ca .. 31.71 ..
महाहविः प्रभूतं वा देवेशाय निवेदयेथ् । ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ॥ ३१.७२ ॥
mahāhaviḥ prabhūtaṃ vā deveśāya nivedayeth . brāhmaṇānāṃ sahasraṃ ca bhojayedguruṇā saha .. 31.72 ..
गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककं । प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीं ॥ ३१.७३ ॥
gurave dakṣiṇāṃ dadyātsuvarṇaṃ pañcaniṣkakaṃ . pradadyādbhūmimiṣṭāṃ ca pronmiṣatsasyamālinīṃ .. 31.73 ..
दशदानं ततः कृत्वा नित्यार्चनमथाचरेथ् । एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः ॥ ३१.७४ ॥
daśadānaṃ tataḥ kṛtvā nityārcanamathācareth . evaṃ yaḥ kurute bhaktyā laghusaṃprokṣaṇaṃ hareḥ .. 31.74 ..
विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते । राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेथ् ॥ ३१.७५ ॥
viṣṇusānnidhyamāpnoti doṣaśāntiśca jāyate . rājarāṣṭrābhivṛddhiśca jagatpuṣṭikaraṃ bhaveth .. 31.75 ..
लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल । काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ॥ ३१.७६ ॥
laghusaṃprokṣaṇavidhirmayā prakhyāpitaḥ kila . kāśyapādyaiśca munibhirevameva pracoditaḥ .. 31.76 ..
महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया । जलाधिवासरहितं नेत्रोन्मीलनवर्जनं ॥ ३१.७७ ॥
mahāsaṃprokṣaṇa vidhau viśeṣo vakṣyate mayā . jalādhivāsarahitaṃ netronmīlanavarjanaṃ .. 31.77 ..
प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेथ् । नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ॥ ३१.७८ ॥
pratiṣṭhoktavidhānena sarvaṃ pūrvavadācareth . netrayostejane tadvaddṛṣṭidoṣe viśeṣataḥ .. 31.78 ..
जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः । महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः ॥ ३१.७९ ॥
jalādhivāsanaṃ kuryādakṣṇorunmīlanaṃ punaḥ . mahāśāntividhānasya viśeṣo'tra prakīrtitaḥ .. 31.79 ..
जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरं । प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेथ् ॥ ३१.८० ॥
jaṅgamapratimāssarvā adhivāsapurassaraṃ . prokṣayitvā vidhānena devaṃ pūrvavadarcayeth .. 31.80 ..
महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः । प्रतिष्ठोक्तदिने विद्वानृत्विग्भिर्लक्षणान्वितैः ॥ ३१.८१ ॥
mahānimitte saṃprāpte yajamānārthito guruḥ . pratiṣṭhoktadine vidvānṛtvigbhirlakṣaṇānvitaiḥ .. 31.81 ..
वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः । प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेथ् ॥ ३१.८२ ॥
vastrairābharaṇaiścāpi pūrvoktamiva bhūṣitaḥ . prokṣaṇādivasātsūrvamaṅkurārpaṇamācareth .. 31.82 ..
द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च । कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृतां ॥ ३१.८३ ॥
dravyāṇyapi susaṃbhṛtya yāgaśālāṃ praviśya ca . kadalīpūgamālādyaiḥ patākādyairalaṅkṛtāṃ .. 31.83 ..
तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः । तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणं ॥ ३१.८४ ॥
tanmadhyekalpayedvediṃ śayanārthaṃ vidhānataḥ . tasyāstu pūrvadigbhāge kuṃbhavediṃ salakṣaṇaṃ .. 31.84 ..
परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेथ् । देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ॥ ३१.८५ ॥
paritaścāgnikuṇḍāṃśca paiṇḍarīkaṃ ca kārayeth . devālayaṃ ca saṃśodhya mṛṣṭasiktopalepanaiḥ .. 31.85 ..
आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः । स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ॥ ३१.८६ ॥
ācāryassuprasannātmā yajamānārthito muhuḥ . snātvāsnānavidhānena gāyatrīṃ ca sahasraśaḥ .. 31.86 ..
जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेथ् । वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ॥ ३१.८७ ॥
japtvā dvādaśasūktāni puṇyāhamapi vācayeth . vāstuhomaṃ tataḥ kṛtvā kuṇḍe tvaupāsane guruḥ .. 31.87 ..
पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः । गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेथ् ॥ ३१.८८ ॥
paryagni pañcagavyābhyāṃ saṃśodhyaiva ca sarvataḥ . gārhapatyādikuṇḍeṣu kramādāghāramācareth .. 31.88 ..
पक्वबिंबसमाकारघटानां पञ्चविंशतिं । तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ॥ ३१.८९ ॥
pakvabiṃbasamākāraghaṭānāṃ pañcaviṃśatiṃ . tantunā trivṛtā veṣṭya śodhayitvā sudhūpitān .. 31.89 ..
आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः । पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ॥ ३१.९० ॥
ādāya mantravaddivyaṃ jalamāhṛtya yatnataḥ . pūtābhiradbhirāpūrya nālikerāmrapallavaiḥ .. 31.90 ..
अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः । यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ॥ ३१.९१ ॥
alaṅkṛtya tathā kūrcairgandhapuṣpākṣatādibhiḥ . yavairvāhrīhibhirvātha vedyāṃ dvādaśabhārakaiḥ .. 31.91 ..
आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेथ् । सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ॥ ३१.९२ ॥
āstīrya teṣu saṃsthāpya pṛthagvastreṇa veṣṭayeth . sauvarṇapratimāstatra pañcaniṣkakṛtāḥ pṛthak .. 31.92 ..
गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेथ् । ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमाथ् ॥ ३१.९३ ॥
gajakūrmādirūpāṇi navaratnādi ca kṣipeth . dhyānamārgeṇa kuṃbheṣu madhyamādiṣu cakramāth .. 31.93 ..
नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः । वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन् ॥ ३१.९४ ॥
navamūrtikrameṇaiva mantreṇāvāhayedguruḥ . vedyadhastheṣu kuṃbheṣu ceṃ dādīnaṣṭadikpatīn .. 31.94 ..
आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेथ् । सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ॥ ३१.९५ ॥
āvāhya gandhapuṣpādyaissamabhyarcya nivedayeth . sahasrakalaśaissnāpya snapanoktaprakārataḥ .. 31.95 ..
सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः । शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान्प्राकल्प्यच ॥ ३१.९६ ॥
sauvarṇaṃ kautukaṃ baddhvā pratiṣṭhoktavidhānataḥ . śayyāvediṃ samabhyukṣya pañcatalpānprākalpyaca .. 31.96 ..
शालिव्रीहियवैश्चापि षड्भारैश्च पृथक्पृथक् । तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ॥ ३१.९७ ॥
śālivrīhiyavaiścāpi ṣaḍbhāraiśca pṛthakpṛthak . tadardhaistaṇḍulaiścātha tadardhaiśca tilaistathā .. 31.97 ..
उपर्युपरि चास्तीर्य चर्मजादीन्समास्तरेथ् । शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवथ् ॥ ३१.९८ ॥
uparyupari cāstīrya carmajādīnsamāstareth . śayane śāyayedvedyāmautsavaṃ biṃbamuktavath .. 31.98 ..
कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमाथ् । वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः ॥ ३१.९९ ॥
kūrcādhivāsaṃ kurvīta dhruvamātraṃ yadikramāth . vedānadhyāpayeddikṣu "ṛcāṃ prācī''riti śrutiḥ .. 31.99 ..
गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः । ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकं ॥ ३१.१०० ॥
gārhapatyādikuṇḍeṣu pratiṣṭhoktavidhānataḥ . ṛtvigbhiḥ kārayeddhomaṃ tattaddaivatyapūrvakaṃ .. 31.100 ..
गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकं । पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकं ॥ ३१.१०१ ॥
gurussabhyāgnimāsādya pariṣicya ca pāvakaṃ . pañcasūktaṃ krameṇaiva mahāvyāhṛtipūrvakaṃ .. 31.101 ..
व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः । अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ॥ ३१.१०२ ॥
vyāpakatrayamantraṃ ca viṣṇugāyatriyā punaḥ . aṣottaraśataṃ hutvā vyāhṛtyā ca tathaiva ca .. 31.102 ..
ततोऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु । धातादिमूलहोमं च पञ्चवारुणसंयुतं ॥ ३१.१०३ ॥
tato'bjāgniṃ samāsādya pañcasūktaissahaiva tu . dhātādimūlahomaṃ ca pañcavāruṇasaṃyutaṃ .. 31.103 ..
महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः । कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ॥ ३१.१०४ ॥
mahāśāntyuktamantrāṃśca trirāvartya hunettataḥ . kuṃbhavediṃ samāsādya samabhyarcyāṣṭavigrahaiḥ .. 31.104 ..
स्पृष्ट्वा कूर्चेन तत्कुंभानृत्विग्भिस्सह वै गुरुः । आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परं ॥ ३१.१०५ ॥
spṛṣṭvā kūrcena tatkuṃbhānṛtvigbhissaha vai guruḥ . ātmasūktaṃ japitvaiva pañcasūktamataḥ paraṃ .. 31.105 ..
स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा । अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परं ॥ ३१.१०६ ॥
svastisūktaṃ ca daurgaṃ ca rātrimekākṣaraṃ tathā . aṣṭadikpālasūktāni pañcaśāntimataḥ paraṃ .. 31.106 ..
आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च । जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमाथ् ॥ ३१.१०७ ॥
āpo hiraṇyavarṇā''bhyāṃ pāvamānībhireva ca . japtvā dvādaśasūktaṃ ca tatassabhyānale kramāth .. 31.107 ..
हौत्रप्रशसनं कुर्यात्सर्वं होत्तु पूर्ववथ् । चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ॥ ३१.१०८ ॥
hautrapraśasanaṃ kuryātsarvaṃ hottu pūrvavath . caturmūrtikrameṇaiva sahasrāhutinā saha .. 31.108 ..
यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः । हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ॥ ३१.१०९ ॥
yaddevā''dyaiśca kūśmāṇḍaissarvadaivatyamantrakaiḥ . hutvātu doṣaśāntyarthaṃ lojaistadvattilairapi .. 31.109 ..
सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववथ् । अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ॥ ३१.११० ॥
sāpūpairviṣṇugāyatṣā hutvākuṇḍeṣu pūrvavath . aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā .. 31.110 ..
परिषेगं ततः कृत्वा पैण्डरीके विशेषतः । पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ॥ ३१.१११ ॥
pariṣegaṃ tataḥ kṛtvā paiṇḍarīke viśeṣataḥ . padmairvā bilvapatrairvā viṣṇugāyatriyā tataḥ .. 31.111 ..
अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेथ् । पारमात्मिकमन्त्रैश्च रिङ्काराद्यैश्च यत्नतः ॥ ३१.११२ ॥
aṣottarasahasraṃ tu ghṛtenāplutya vai huneth . pāramātmikamantraiśca riṅkārādyaiśca yatnataḥ .. 31.112 ..
अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकं । हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ॥ ३१.११३ ॥
aṣṭāśītiṃ tato hutvā mahāvyāhṛtipūrvakaṃ . hutvā taddoṣanāśāya rājarāṣṭrābhivṛddhaye .. 31.113 ..
सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकं ॥ ३१.११४ ॥
sabhyāgniṃ pauṇḍarīkāgniṃ hitvānyeṣvantahomakaṃ .. 31.114 ..
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः । प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेथ् ॥ ३१.११५ ॥
nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ . prātassnātvā vidhānena kalaśaissnapanaṃ careth .. 31.115 ..
पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितं । पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ॥ ३१.११६ ॥
pañcasūktaiśca saṃsnāpya pañcaśāntisamanvitaṃ . paścāddevamalaṅkṛtya suvastrābharaṇādikaiḥ .. 31.116 ..
गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियं । मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः ॥ ३१.११७ ॥
gandhapuṣpaissugandhaiśca yāpannetramanaḥpriyaṃ . muhūrte samanuprāpte kuṃbhamādāya deśikaḥ .. 31.117 ..
स्वस्तिसूक्तं जपन्ग्राममालयं वा प्रदक्षिणं । कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेथ् ॥ ३१.११८ ॥
svastisūktaṃ japangrāmamālayaṃ vā pradakṣiṇaṃ . kṛtvā devāgrataḥ kuṃbhaṃ dhyānyapīṭhe niveśayeth .. 31.118 ..
यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा । कूर्यादनन्तरोक्तांश्च संस्कारान्भगवत्प्रियान् ॥ ३१.११९ ॥
yajamānena śaktyāvai gurussaṃpūjitastadā . kūryādanantaroktāṃśca saṃskārānbhagavatpriyān .. 31.119 ..
वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः । यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुं ॥ ३१.१२० ॥
vastrerābharaṇaiśśubhraiḥ kuṇḍalaiśca viśeṣataḥ . yajamānassusaṃpūjya paśubhūmyādibhirguruṃ .. 31.120 ..
गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिं । ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान्हरिः ॥ ३१.१२१ ॥
gurave dakṣiṇāṃ dadyānniṣkāṇāmekaviṃśatiṃ . ṛtvigbhyaśca tathā dadyātsuprīto bhagavānhariḥ .. 31.121 ..
गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः । महाहविर्नि वेद्यैन पायसापूपसंयुतं ॥ ३१.१२२ ॥
guruḥ paścātsamāvāhya samabhyarcyāṣṭavigrahaiḥ . mahāhavirni vedyaina pāyasāpūpasaṃyutaṃ .. 31.122 ..
साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेथ् । पुष्पाञ्जलिं ततो दत्वा "क्षयऽऽ स्वेति प्रणम्य च ॥ ३१.१२३ ॥
sājyaṃ savyañjanaṃ datvā mukhavāsaṃ nivedayeth . puṣpāñjaliṃ tato datvā "kṣaya'' sveti praṇamya ca .. 31.123 ..
सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे । दशदानं विशेषेण देवप्रीतिकं भवेथ् ॥ ३१.१२४ ॥
sahasraṃ brāhmaṇānāṃ ca bhojayecchāntihetave . daśadānaṃ viśeṣeṇa devaprītikaṃ bhaveth .. 31.124 ..
एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः । पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरथ् ॥ ३१.१२५ ॥
evamādvādaśābdāttu pratiṣṭhāmācarettataḥ . punasthsāpanasaṃskārātprāyaścittaṃ na hītarath .. 31.125 ..
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेथ् । एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयं ॥ ३१.१२६ ॥
tasmātsarvaprayatnena śāstroktaṃ sarvamācareth . evaṃ yaḥkurute bhaktyā viṣṇossaṃprokṣaṇatrayaṃ .. 31.126 ..
प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयाथ् ॥ ३१.१२७ ॥
pratiṣṭhāphalamāsādya vaiṣṇavaṃ lokamāpnuyāth .. 31.127 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekatriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In