| |
|

This overlay will guide you through the buttons:

अन्थैकविंशोऽध्यायः
अन्थ एकविंशः अध्यायः
antha ekaviṃśaḥ adhyāyaḥ
विशेषार्चनम्
अथातस्संप्रवक्ष्यामि विष्णुपञ्चदिनानि च । श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ॥ २१.१ ॥
अथ अतस् संप्रवक्ष्यामि विष्णुपञ्चदिनानि च । श्रवणम् द्वादशी शुक्ले कृष्णे च अर्धे च द्वादशी ॥ २१।१ ॥
atha atas saṃpravakṣyāmi viṣṇupañcadināni ca . śravaṇam dvādaśī śukle kṛṣṇe ca ardhe ca dvādaśī .. 21.1 ..
पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै । पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमाथ् ॥ २१.२ ॥
पूर्णिमा च अपि अमावास्या पञ्च एतानि दिनानि वै । पूर्व-उक्तेन विधानेन अङ्कुरान् अर्बयेत् क्रमाथ् ॥ २१।२ ॥
pūrṇimā ca api amāvāsyā pañca etāni dināni vai . pūrva-uktena vidhānena aṅkurān arbayet kramāth .. 21.2 ..
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेथ् । प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ॥ २१.३ ॥
बद्ध्वा प्रतिसरम् तत्र पूर्वरात्रौ तु । प्रातस्सन्ध्या-अर्चन-अन्ते तु स्नापन-उक्त-क्रमेण वै ॥ २१।३ ॥
baddhvā pratisaram tatra pūrvarātrau tu . prātassandhyā-arcana-ante tu snāpana-ukta-krameṇa vai .. 21.3 ..
समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेथ् । मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ २१.४ ॥
समभ्यर्च्य निवेद्य एव पूर्व-स्थाने निवेशयेथ् । मार्गशीर्ष-आख्य-मासे तु पूर्वपक्षे विशेषतः ॥ २१।४ ॥
samabhyarcya nivedya eva pūrva-sthāne niveśayeth . mārgaśīrṣa-ākhya-māse tu pūrvapakṣe viśeṣataḥ .. 21.4 ..
प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे । संस्थाप्य चतुरो वेदान्क्रमेणाध्यापयेत्सदा ॥ २१.५ ॥
प्रातर् सन्ध्या-अवसाने तु पूर्वम् आस्थान-मण्डपे । संस्थाप्य चतुरः वेदान् क्रमेण अध्यापयेत् सदा ॥ २१।५ ॥
prātar sandhyā-avasāne tu pūrvam āsthāna-maṇḍape . saṃsthāpya caturaḥ vedān krameṇa adhyāpayet sadā .. 21.5 ..
पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः । एकादशीमुपोप्यैव महापातकनाशिनीं ॥ २१.६ ॥
पूजयेत् देवदेवेशम् सप्तविंशति-विग्रहैः । एकादशीम् उपोप्य एव महापातक-नाशिनीम् ॥ २१।६ ॥
pūjayet devadeveśam saptaviṃśati-vigrahaiḥ . ekādaśīm upopya eva mahāpātaka-nāśinīm .. 21.6 ..
ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः । मृण्मयानि तु भाण्डानि पुराणानि परित्यजेथ् ॥ २१.७ ॥
ततस् प्रभाते द्वादश्याम् स्नात्वा अस्नान-विधानतः । मृण्मयानि तु भाण्डानि पुराणानि परित्यजेथ् ॥ २१।७ ॥
tatas prabhāte dvādaśyām snātvā asnāna-vidhānataḥ . mṛṇmayāni tu bhāṇḍāni purāṇāni parityajeth .. 21.7 ..
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकं । स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ॥ २१.८ ॥
मृष्ट-सिक्त-उपलेप-आद्यैः शोधयित्वा यथार्हकम् । स्नापन-उक्त-क्रमेण एव स्नापयित्वा यथाविधि ॥ २१।८ ॥
mṛṣṭa-sikta-upalepa-ādyaiḥ śodhayitvā yathārhakam . snāpana-ukta-krameṇa eva snāpayitvā yathāvidhi .. 21.8 ..
आसनादिभिरभ्यर्च्य पायसं च निवेदयेथ् । पानीयाचमनं दत्वा मुखवासं ततःपरं ॥ २१.९ ॥
आसन-आदिभिः अभ्यर्च्य पायसम् च । पानीय-आचमनम् द-त्वा मुख-वासम् ततस् परम् ॥ २१।९ ॥
āsana-ādibhiḥ abhyarcya pāyasam ca . pānīya-ācamanam da-tvā mukha-vāsam tatas param .. 21.9 ..
पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणं । धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेथ् ॥ २१.१० ॥
पुरुषसूक्तेन संस्तूय ग्-कामम् च एव प्रदक्षिणम् । धाम-प्रदक्षिणम् कृत्वा जीवस्थाने निवेशयेथ् ॥ २१।१० ॥
puruṣasūktena saṃstūya g-kāmam ca eva pradakṣiṇam . dhāma-pradakṣiṇam kṛtvā jīvasthāne niveśayeth .. 21.10 ..
संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु । तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ॥ २१.११ ॥
हीने नित्य-नैमित्तिक-आदिषु । तत् सर्वम् पूर्णम् इति आहुः द्वाशी-पूजने कृते ॥ २१।११ ॥
hīne nitya-naimittika-ādiṣu . tat sarvam pūrṇam iti āhuḥ dvāśī-pūjane kṛte .. 21.11 ..
पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवथ् । अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेथ् ॥ २१.१२ ॥
पौषे तु पूर्णिमायाम् वै । अर्चयित्वा तु देवेशम् गव्यम् क्षीरम् ॥ २१।१२ ॥
pauṣe tu pūrṇimāyām vai . arcayitvā tu deveśam gavyam kṣīram .. 21.12 ..
सोऽपि संवत्सरफलं लभते नात्र संशयः । माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, ॥ २१.१३ ॥
सः अपि संवत्सर-फलम् लभते न अत्र संशयः । माघ-मासे पुनर्वस्वः राघवः अजायत स्वयम्, ॥ २१।१३ ॥
saḥ api saṃvatsara-phalam labhate na atra saṃśayaḥ . māgha-māse punarvasvaḥ rāghavaḥ ajāyata svayam, .. 21.13 ..
तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा । ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेथ् ॥ २१.१४ ॥
तत्तस् तस्याम् अपोष्य एव रामम् वा विष्णुम् एव वा । ग्रामम् प्रदक्षिणम् कृत्वा स्नापयित्वा निवेदयेथ् ॥ २१।१४ ॥
tattas tasyām apoṣya eva rāmam vā viṣṇum eva vā . grāmam pradakṣiṇam kṛtvā snāpayitvā nivedayeth .. 21.14 ..
तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः । माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ॥ २१.१५ ॥
तिलपद्म-विधिम् वक्ष्ये श्रुणुध्वम् मुनि-पुङ्गवाः । माघ-मासे तु पञ्चम्याम् पूर्वपक्षे विशेषतः ॥ २१।१५ ॥
tilapadma-vidhim vakṣye śruṇudhvam muni-puṅgavāḥ . māgha-māse tu pañcamyām pūrvapakṣe viśeṣataḥ .. 21.15 ..
पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि । हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ॥ २१.१६ ॥
तु देवेशम् अर्चयित्वा यथाविधि । हवींषि अपि निवेद्य एव बद्ध्वा प्रतिसरम् पुनर् ॥ २१।१६ ॥
tu deveśam arcayitvā yathāvidhi . havīṃṣi api nivedya eva baddhvā pratisaram punar .. 21.16 ..
पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमाथ् । प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ॥ २१.१७ ॥
पूर्ववत् छाययित्वा एव रात्रि-शेषम् नयेत् क्रमाथ् । प्रभाते देवम् उद्धाप्य कलशैः स्नापयेत् पुनर् ॥ २१।१७ ॥
pūrvavat chāyayitvā eva rātri-śeṣam nayet kramāth . prabhāte devam uddhāpya kalaśaiḥ snāpayet punar .. 21.17 ..
मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितं । गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतं ॥ २१.१८ ॥
मण्डपम् वा अथ कूटम् वा प्रपाम् वा अथ यथोचितम् । गोमयेन उपलिप्य एव पञ्च-वर्णैः अलङ्कृतम् ॥ २१।१८ ॥
maṇḍapam vā atha kūṭam vā prapām vā atha yathocitam . gomayena upalipya eva pañca-varṇaiḥ alaṅkṛtam .. 21.18 ..
तस्मिन्संस्थाप्य देवेशं प्रणम्यैवानुमास्य च । प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ॥ २१.१९ ॥
तस्मिन् संस्थाप्य देवेशम् प्रणम्य एव अनुमास्य च । प्रमुखे धान्य-राशौ तु द्वि-हस्त-आयत-विस्तृते ॥ २१।१९ ॥
tasmin saṃsthāpya deveśam praṇamya eva anumāsya ca . pramukhe dhānya-rāśau tu dvi-hasta-āyata-vistṛte .. 21.19 ..
कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेथ् । तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ॥ २१.२० ॥
कृष्णाजिनम् समास्तीर्य । तद्-ऊर्ध्वे तु विकीर्य एव षष्-द्रोणम् तिलम् एव हि ॥ २१।२० ॥
kṛṣṇājinam samāstīrya . tad-ūrdhve tu vikīrya eva ṣaṣ-droṇam tilam eva hi .. 21.20 ..
द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा । अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेथ् ॥ २१.२१ ॥
द्रोण-त्रयम् द्वये वा अपि मण्डल-अकाल-वत् तथा । अष्टभिः च दलैः युक्तम् तिल-पद्मम् समालिखेथ् ॥ २१।२१ ॥
droṇa-trayam dvaye vā api maṇḍala-akāla-vat tathā . aṣṭabhiḥ ca dalaiḥ yuktam tila-padmam samālikheth .. 21.21 ..
त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः । स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेथ् ॥ २१.२२ ॥
त्रि-निष्केन तद्-अर्धेन निष्क-मात्रेण वा पुनर् । स्वर्ण-पद्मम् च कृत्वा तु तिल-पद्मे तु विन्यसेथ् ॥ २१।२२ ॥
tri-niṣkena tad-ardhena niṣka-mātreṇa vā punar . svarṇa-padmam ca kṛtvā tu tila-padme tu vinyaseth .. 21.22 ..
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश । इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेथ् ॥ २१.२३ ॥
आढकैः शालि-धान्यैः च पूर्ण-पात्राणि षोडश । इन्द्र-आदि-ईशान-पर्यन्तम् शालि-राशि-उपरि ॥ २१।२३ ॥
āḍhakaiḥ śāli-dhānyaiḥ ca pūrṇa-pātrāṇi ṣoḍaśa . indra-ādi-īśāna-paryantam śāli-rāśi-upari .. 21.23 ..
अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा । पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ॥ २१.२४ ॥
अढकम् तैलम् आहृत्य तद्-अर्धम् च घृतम् तथा । पश्चिमे दधिमत् न्यस्य देवदेवम् प्रणम्य च ॥ २१।२४ ॥
aḍhakam tailam āhṛtya tad-ardham ca ghṛtam tathā . paścime dadhimat nyasya devadevam praṇamya ca .. 21.24 ..
आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः । प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववथ् ॥ २१.२५ ॥
आत्मसूक्तम् च जप्त्वा तु पूजयेत् अष्ट-विग्रहैः । प्रणम्य देवदेवाय पद्मम् अध्येतु ॥ २१।२५ ॥
ātmasūktam ca japtvā tu pūjayet aṣṭa-vigrahaiḥ . praṇamya devadevāya padmam adhyetu .. 21.25 ..
प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेथ् । एकादशोपचारैश्च पूजयित्वा यथार्हकं ॥ २१.२६ ॥
प्राची-आदि पुरुष-आदीन् च चतुर्-मूर्तिभिः आह्वयेथ् । एकादश-उपचारैः च पूजयित्वा यथार्हकम् ॥ २१।२६ ॥
prācī-ādi puruṣa-ādīn ca catur-mūrtibhiḥ āhvayeth . ekādaśa-upacāraiḥ ca pūjayitvā yathārhakam .. 21.26 ..
इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत । अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ॥ २१.२७ ॥
इन्द्र-आदि-ऐश-अन्तम् आवाह्य देज्-देवान् अर्चयेत् तत । अतोदेवा-आदि-संयुक्तम् विष्णुसूक्तम् जपेत् पुनर् ॥ २१।२७ ॥
indra-ādi-aiśa-antam āvāhya dej-devān arcayet tata . atodevā-ādi-saṃyuktam viṣṇusūktam japet punar .. 21.27 ..
बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमाथ् । यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणां ॥ २१.२८ ॥
बिंबे देवम् समारोप्य च अन्यान् उद्वासयेत् क्रमाथ् । यजमानः अथ तद्-काले दद्यात् आचार्य-दक्षिणाम् ॥ २१।२८ ॥
biṃbe devam samāropya ca anyān udvāsayet kramāth . yajamānaḥ atha tad-kāle dadyāt ācārya-dakṣiṇām .. 21.28 ..
विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतं । वेदपारायणपरं सर्वावयवसंयुतं ॥ २१.२९ ॥
विष्णु-भक्ति-युतम् शास्तम् दया-आदि-आत्म-गुणैः युतम् । वेद-पारायण-परम् सर्व-अवयव-संयुतम् ॥ २१।२९ ॥
viṣṇu-bhakti-yutam śāstam dayā-ādi-ātma-guṇaiḥ yutam . veda-pārāyaṇa-param sarva-avayava-saṃyutam .. 21.29 ..
विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः । ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ॥ २१.३० ॥
विप्रम् आहूय तद्-काले देवस्य नियतः अग्रतस् । ध्यात्वा देवेशम् आचार्यः देवदेवस्य सन्निधौ ॥ २१।३० ॥
vipram āhūya tad-kāle devasya niyataḥ agratas . dhyātvā deveśam ācāryaḥ devadevasya sannidhau .. 21.30 ..
तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै । स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेथ् ॥ २१.३१ ॥
तिल-पद्मम् ददेत् तस्मै सर्व-लोक-हिताय वै । स्तोत्रैः गेयैः च वादैः च स्तुत्वा देवम् समर्चयेथ् ॥ २१।३१ ॥
tila-padmam dadet tasmai sarva-loka-hitāya vai . stotraiḥ geyaiḥ ca vādaiḥ ca stutvā devam samarcayeth .. 21.31 ..
देवं याने समारोप्य सर्वालङ्कारसंयुतं । देवालयं परीत्यैव जीवस्थाने निवेशयेथ् ॥ २१.३२ ॥
देवम् याने समारोप्य सर्व-अलङ्कार-संयुतम् । देवालयम् परीत्य एव जीवस्थाने निवेशयेथ् ॥ २१।३२ ॥
devam yāne samāropya sarva-alaṅkāra-saṃyutam . devālayam parītya eva jīvasthāne niveśayeth .. 21.32 ..
एवे यःकुरुते भक्त्या विष्णवे परमात्मने । सर्वान्कामानवाप्नोति वैष्णवं लोकमश्नुते ॥ २१.३३ ॥
एवे यः कुरुते भक्त्या विष्णवे परमात्मने । सर्वान् कामान् अवाप्नोति वैष्णवम् लोकम् अश्नुते ॥ २१।३३ ॥
eve yaḥ kurute bhaktyā viṣṇave paramātmane . sarvān kāmān avāpnoti vaiṣṇavam lokam aśnute .. 21.33 ..
फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनं । स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेथ् ॥ २१.३४ ॥
फाल्गुने मासि फल्गुन्याम् श्रिया सार्थम् जनार्दनम् । स्नापयित्वा उत्सवम् कृत्वा समभ्यर्छ्य निवेदयेथ् ॥ २१।३४ ॥
phālgune māsi phalgunyām śriyā sārtham janārdanam . snāpayitvā utsavam kṛtvā samabhyarchya nivedayeth .. 21.34 ..
चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवं । पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ॥ २१.३५ ॥
चैत्र-इमासि तथा चैत्षाम् कुर्यात् दमनक-उत्सवम् । पूर्वस्मिन् एव दिवसे रात्रि-पूजा-अवसानके ॥ २१।३५ ॥
caitra-imāsi tathā caitṣām kuryāt damanaka-utsavam . pūrvasmin eva divase rātri-pūjā-avasānake .. 21.35 ..
भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेथ् । वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेथ् ॥ २१.३६ ॥
भद्ध्वा प्रतिसरम् तत्र देवेशाय । वसो तम् कामम् अभ्यर्च्य पायस-अन्नम् ॥ २१।३६ ॥
bhaddhvā pratisaram tatra deveśāya . vaso tam kāmam abhyarcya pāyasa-annam .. 21.36 ..
देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेथ् । प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ॥ २१.३७ ॥
दक्षिणे पार्श्वे मालाम् । प्रभाते देवम् उद्धाप्य स्नापयित्वा आर्ऽचयेत् तथा ॥ २१।३७ ॥
dakṣiṇe pārśve mālām . prabhāte devam uddhāpya snāpayitvā ār'cayet tathā .. 21.37 ..
देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितं । सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ॥ २१.३८ ॥
देवस्य पुष्प-मन्त्राभ्याम् दद्यात् भक्ति-समन्वितम् । सर्वेषाम् परिवाराणाम् दद्यात् तद्-मन्त्र-मूर्तिभिः ॥ २१।३८ ॥
devasya puṣpa-mantrābhyām dadyāt bhakti-samanvitam . sarveṣām parivārāṇām dadyāt tad-mantra-mūrtibhiḥ .. 21.38 ..
ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे । समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ॥ २१.३९ ॥
ग्रामम् प्रदक्षिणम् कृत्वा संस्थाप्य आस्थान-मण्डपे । समभ्यर्च्य निवेद्य एव मुखवासम् ददेत् ततस् ॥ २१।३९ ॥
grāmam pradakṣiṇam kṛtvā saṃsthāpya āsthāna-maṇḍape . samabhyarcya nivedya eva mukhavāsam dadet tatas .. 21.39 ..
वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेथ् । ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेथ् ॥ २१.४० ॥
वैशाख्याम् पौर्णमास्याम् वै स्नापयित्वा समर्चयेथ् । ज्येष्ठे तु स्नापयेत् देवम् नव-वस्त्रम् ॥ २१।४० ॥
vaiśākhyām paurṇamāsyām vai snāpayitvā samarcayeth . jyeṣṭhe tu snāpayet devam nava-vastram .. 21.40 ..
सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः । अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ॥ २१.४१ ॥
सः अपि संवत्सर-फलम् प्राप्नुयात् एव मानवः । अर्घ्य-दानम् प्रशस्तम् स्यात् देवस्य आषाढ-मासके ॥ २१।४१ ॥
saḥ api saṃvatsara-phalam prāpnuyāt eva mānavaḥ . arghya-dānam praśastam syāt devasya āṣāḍha-māsake .. 21.41 ..
श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः । उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ २१.४२ ॥
श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः । उत्सव-स्नपन-आदीनि पूर्ववत् कारयेत् बुधः ॥ २१।४२ ॥
śrāvaṇe māsi sakṣatre śravaṇe tu viśeṣataḥ . utsava-snapana-ādīni pūrvavat kārayet budhaḥ .. 21.42 ..
अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणं । जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा ॥ २१.४३ ॥
अतस् परम् प्रवक्ष्यामि जयन्ती-उत्सव-लक्षणम् । जयन्ती श्रावणे मासि कृष्ण-पक्षे अष्टमी शुभा ॥ २१।४३ ॥
atas param pravakṣyāmi jayantī-utsava-lakṣaṇam . jayantī śrāvaṇe māsi kṛṣṇa-pakṣe aṣṭamī śubhā .. 21.43 ..
रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः । तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ॥ २१.४४ ॥
सर्व । तस्याम् जातः काङ्क्षया ॥ २१।४४ ॥
sarva . tasyām jātaḥ kāṅkṣayā .. 21.44 ..
चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया । तस्मिन्वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ॥ २१.४५ ॥
चन्द्रस्य उदय-काले तु मध्यरात्रे स्व-लीलया । तस्मिन् वै दिवसे कृष्णम् अर्चयित्वा प्रयत्नतः ॥ २१।४५ ॥
candrasya udaya-kāle tu madhyarātre sva-līlayā . tasmin vai divase kṛṣṇam arcayitvā prayatnataḥ .. 21.45 ..
उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेथ् । अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ॥ २१.४६ ॥
उत्सवम् कारयेत् यः तु विष्णोः सालोक्य-ताम् । अष्टमी रोहिणी-युक्ता रहितावा विचक्षणैः ॥ २१।४६ ॥
utsavam kārayet yaḥ tu viṣṇoḥ sālokya-tām . aṣṭamī rohiṇī-yuktā rahitāvā vicakṣaṇaiḥ .. 21.46 ..
अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः । आदित्योदयवेलायां कलामात्राष्टमी यदि ॥ २१.४७ ॥
अ विद्धा एव सदा ग्राह्या अ सप्तम्या सर्वदा । ॥ २१।४७ ॥
a viddhā eva sadā grāhyā a saptamyā sarvadā . .. 21.47 ..
सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेथ् । नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ॥ २१.४८ ॥
स अतिथिः सकला ज्ञेया निशीथ-व्यापिनी । नाग-विद्धा यथा नन्दा वर्जिता श्रवण-अन्विता ॥ २१।४८ ॥
sa atithiḥ sakalā jñeyā niśītha-vyāpinī . nāga-viddhā yathā nandā varjitā śravaṇa-anvitā .. 21.48 ..
तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेथ् । अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेथ् ॥ २१.४९ ॥
तथा अष्टमीम् पूर्व-विद्धाम् स ऋक्षाम् वा अपि । अ विद्धा एव अष्टमी ग्राह्या ताम् सु पुण्याम् उपावसेथ् ॥ २१।४९ ॥
tathā aṣṭamīm pūrva-viddhām sa ṛkṣām vā api . a viddhā eva aṣṭamī grāhyā tām su puṇyām upāvaseth .. 21.49 ..
रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववथ् ॥ २१.५० ॥
रोहिणी-सहिता कृष्णा मासि भाद्रपदे अष्टमी । अर्धरात्रात् अधस् च ऊर्ध्वम् गलया वा अपि ॥ २१।५० ॥
rohiṇī-sahitā kṛṣṇā māsi bhādrapade aṣṭamī . ardharātrāt adhas ca ūrdhvam galayā vā api .. 21.50 ..
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी । तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ २१.५१ ॥
जयन्ती नाम सा प्रोक्ता सर्व-पाप-प्रणाशिनी । तस्मात् तु दिवसात् पूर्वम् नवमे वा अथ सप्तमे ॥ २१।५१ ॥
jayantī nāma sā proktā sarva-pāpa-praṇāśinī . tasmāt tu divasāt pūrvam navame vā atha saptame .. 21.51 ..
पञ्चमे वा त्षहेऽवापि विधिवा चाङ्कुरार्पणं । पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ॥ २१.५२ ॥
पञ्चमे वा विधिवा च अङ्कुर-अर्पणम् । पूर्वेद्युस् एव शर्वर्याम् रात्रि-पूजा-अवसानके ॥ २१।५२ ॥
pañcame vā vidhivā ca aṅkura-arpaṇam . pūrvedyus eva śarvaryām rātri-pūjā-avasānake .. 21.52 ..
बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिं । तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ॥ २१.५३ ॥
बद्ध्वा प्रतिसरम् तत्र शयने शाययेत् हरिम् । तस्याम् तिथौ अर्धरात्रे कृष्णम् एवम् विशेषतः ॥ २१।५३ ॥
baddhvā pratisaram tatra śayane śāyayet harim . tasyām tithau ardharātre kṛṣṇam evam viśeṣataḥ .. 21.53 ..
पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः । भूमिभारापहाराय लोकेजातो जगत्पतिः ॥ २१.५४ ॥
पुष्प-अञ्जलिम् ततस् कुर्यात् श्रिया युक्तः जनार्दनः । भूमि-भार-अपहाराय लोके जातः जगत्पतिः ॥ २१।५४ ॥
puṣpa-añjalim tatas kuryāt śriyā yuktaḥ janārdanaḥ . bhūmi-bhāra-apahārāya loke jātaḥ jagatpatiḥ .. 21.54 ..
इति संचिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् । सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणं ॥ २१.५५ ॥
इति संचिन्तयेत् देवम् वैष्मवम् मन्त्रम् उच्चरन् । सर्व-अलङ्कार-संयुक्तम् मण्डपम् च प्रदक्षिणम् ॥ २१।५५ ॥
iti saṃcintayet devam vaiṣmavam mantram uccaran . sarva-alaṅkāra-saṃyuktam maṇḍapam ca pradakṣiṇam .. 21.55 ..
पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते । तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ॥ २१.५६ ॥
पुरस्तात् मध्यमे वा अपि च अस्थाने वा अपि अलङ्कृते । तद्-मध्ये विष्टरे स्थाप्य देवदेवम् प्रणम्य च ॥ २१।५६ ॥
purastāt madhyame vā api ca asthāne vā api alaṅkṛte . tad-madhye viṣṭare sthāpya devadevam praṇamya ca .. 21.56 ..
तैलं हरिद्रचूर्णं च कलशान्संप्रपूर्य च । स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेथ् ॥ २१.५७ ॥
तैलम् हरिद्र-चूर्णम् च कलशान् संप्रपूर्य च । स्थण्डिले विन्यसेत् तत्र देवदेवम् ॥ २१।५७ ॥
tailam haridra-cūrṇam ca kalaśān saṃprapūrya ca . sthaṇḍile vinyaset tatra devadevam .. 21.57 ..
तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेथ् । नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकं ॥ २१.५८ ॥
तैलेन अभ्यञ्जनम् कृत्वा चूर्णेन उद्यर्तनम् चरेथ् । नादेयम् गन्धतोयम् च पुष्पोदम् च अक्षतोदकम् ॥ २१।५८ ॥
tailena abhyañjanam kṛtvā cūrṇena udyartanam careth . nādeyam gandhatoyam ca puṣpodam ca akṣatodakam .. 21.58 ..
कुशोदकं तु संभृत्य कलशान्पञ्च विन्यसेथ् । अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमं ॥ २१.५९ ॥
कुश-उदकम् तु संभृत्य कलशान् पञ्च विन्यसेथ् । अतस् देव-आ आदिभिः मन्त्रैः स्नापयेत् पुरुषोत्तमम् ॥ २१।५९ ॥
kuśa-udakam tu saṃbhṛtya kalaśān pañca vinyaseth . atas deva-ā ādibhiḥ mantraiḥ snāpayet puruṣottamam .. 21.59 ..
पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च । हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेथ् ॥ २१.६० ॥
पाद्य-आदि-अर्ङ्या-अन्तम् अभ्यर्च्य देवदेवम् प्रणम्य च । हिरण्य-गर्भः इति उक्त्वा अ गवाम् क्षीरम् निवेदयेथ् ॥ २१।६० ॥
pādya-ādi-arṅyā-antam abhyarcya devadevam praṇamya ca . hiraṇya-garbhaḥ iti uktvā a gavām kṣīram nivedayeth .. 21.60 ..
मुखवासं च दत्वैव प्रणामं च ततश्चरेथ् । निवेदितं तु तत्क्षीरं वन्ध्यापुत्रप्रदं भवेथ् ॥ २१.६१ ॥
मुख-वासम् च द-त्वा एव प्रणामम् च ततस् चरेथ् । निवेदितम् तु तत् क्षीरम् वन्ध्या-पुत्र-प्रदम् ॥ २१।६१ ॥
mukha-vāsam ca da-tvā eva praṇāmam ca tatas careth . niveditam tu tat kṣīram vandhyā-putra-pradam .. 21.61 ..
पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितं । नीत्वा घृतं च तैलं च मुखवासयुतं तथा ॥ २१.६२ ॥
पीत्वा अ प्रसूते पुत्रम् च आयुष्मन्तम् बल-अन्वितम् । नीत्वा घृतम् च तैलम् च मुखवास-युतम् तथा ॥ २१।६२ ॥
pītvā a prasūte putram ca āyuṣmantam bala-anvitam . nītvā ghṛtam ca tailam ca mukhavāsa-yutam tathā .. 21.62 ..
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयतां । देवदेवमलङ्कृत्य भक्तानामात्तचेतसां ॥ २१.६३ ॥
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयताम् । देवदेवम् अलङ्कृत्य भक्तानाम् आत्त-चेतसाम् ॥ २१।६३ ॥
devasya darśayitvā tu brāhmaṇebhyaḥ pradīyatām . devadevam alaṅkṛtya bhaktānām ātta-cetasām .. 21.63 ..
यथा वै यजमानस्य तथा प्रियकरं भुधैः । सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतं ॥ २१.६४ ॥
यथा वै यजमानस्य तथा प्रिय-करम् भुधैः । सर्व-वाद्य-समायुक्तम् सर्व-अलङ्कार-संयुतम् ॥ २१।६४ ॥
yathā vai yajamānasya tathā priya-karam bhudhaiḥ . sarva-vādya-samāyuktam sarva-alaṅkāra-saṃyutam .. 21.64 ..
ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेथ् । आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः ॥ २१.६५ ॥
ग्रामम् वा अपि आलयम् वा अपि प्रदक्षिणम् अथ आचरेथ् । आलयम् संप्रविश्य एव कलशैः स्नावयेत् बुधः ॥ २१।६५ ॥
grāmam vā api ālayam vā api pradakṣiṇam atha ācareth . ālayam saṃpraviśya eva kalaśaiḥ snāvayet budhaḥ .. 21.65 ..
आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ । प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ॥ २१.६६ ॥
आचार्य-दक्षिणाम् द-त्वा स उदकम् देव-सन्निधौ । प्रभूतम् तु निवेद्य एव मुखवासम् ददेत् पुनर्, ॥ २१।६६ ॥
ācārya-dakṣiṇām da-tvā sa udakam deva-sannidhau . prabhūtam tu nivedya eva mukhavāsam dadet punar, .. 21.66 ..
एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरं । भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितं ॥ २१.६७ ॥
एवम् एवम् तथा कुर्यात् उत्सवम् प्रति वत्सरम् । भुक्ति-मुक्ति-प्रदम् इदम् ऋषिभिः परीकीर्तितम् ॥ २१।६७ ॥
evam evam tathā kuryāt utsavam prati vatsaram . bhukti-mukti-pradam idam ṛṣibhiḥ parīkīrtitam .. 21.67 ..
अपरेऽथ दिने वापि कारयेदुत्सवं भुधः । यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा ॥ २१.६८ ॥
अपरे अथ दिने वा अपि कारयेत् उत्सवम् भुधः । यत् यत् मन्त्र-क्रिया-लोपः वैष्णवैः हूयते तथा ॥ २१।६८ ॥
apare atha dine vā api kārayet utsavam bhudhaḥ . yat yat mantra-kriyā-lopaḥ vaiṣṇavaiḥ hūyate tathā .. 21.68 ..
एकस्मिन्वत्सरे हीने देवदेवं प्रणम्य च । स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ॥ २१.६९ ॥
एकस्मिन् वत्सरे हीने देवदेवम् प्रणम्य च । स्नपनम् पञ्चविंशद्भिः कलशैः शुद्ध-मानसैः ॥ २१।६९ ॥
ekasmin vatsare hīne devadevam praṇamya ca . snapanam pañcaviṃśadbhiḥ kalaśaiḥ śuddha-mānasaiḥ .. 21.69 ..
शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेथ् । उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ॥ २१.७० ॥
शान्ति-होमम् च हुत्वा तु पुण्याहम् अपि । उत्सवम् द्विगुणम् कुर्यात् दक्षिणाम् च स्व-शक्तितः ॥ २१।७० ॥
śānti-homam ca hutvā tu puṇyāham api . utsavam dviguṇam kuryāt dakṣiṇām ca sva-śaktitaḥ .. 21.70 ..
श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा । संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ॥ २१.७१ ॥
श्रावणे द्वादशी-योगे मा अपि भाद्रपदे तथा । संवत्सर-अर्चा-दोषस्य शान्ति-अर्थम् केशवस्य तु ॥ २१।७१ ॥
śrāvaṇe dvādaśī-yoge mā api bhādrapade tathā . saṃvatsara-arcā-doṣasya śānti-artham keśavasya tu .. 21.71 ..
अस्मिन्मासे विशेषेण पवित्रारोपणं हरेः । सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ॥ २१.७२ ॥
अस्मिन् मासे विशेषेण पवित्र-आरोपणम् हरेः । सर्व, ॥ २१।७२ ॥
asmin māse viśeṣeṇa pavitra-āropaṇam hareḥ . sarva, .. 21.72 ..
मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमं । त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलं ॥ २१.७३ ॥
श्रवण-व्रतम् उत्तमम् । त्रिभिः वर्षैः त्रिभिः मासैः उपोष्य च महत् पलम् ॥ २१।७३ ॥
śravaṇa-vratam uttamam . tribhiḥ varṣaiḥ tribhiḥ māsaiḥ upoṣya ca mahat palam .. 21.73 ..
आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः । अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ॥ २१.७४ ॥
आश्वयुज-मासे च आश्वि-अर्क्षे देवेशम् स्नापयेत् ततस् । अर्घ्य-दानम् प्रशस्तम् स्यात् देवदेवस्य शार्जिणः ॥ २१।७४ ॥
āśvayuja-māse ca āśvi-arkṣe deveśam snāpayet tatas . arghya-dānam praśastam syāt devadevasya śārjiṇaḥ .. 21.74 ..
अथातः कृत्तिकादीपदानलक्षणमुच्यते । कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ॥ २१.७५ ॥
अथ अतस् कृत्तिका-दीप-दान-लक्षणम् उच्यते । कार्तिक्याम् पूर्णिमा-यान्तु प्रवर्तते ॥ २१।७५ ॥
atha atas kṛttikā-dīpa-dāna-lakṣaṇam ucyate . kārtikyām pūrṇimā-yāntu pravartate .. 21.75 ..
तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां । दीपारोपणमाचरेथ् ॥ २१.७६ ॥
तत् ऋक्षम् दीप-ऋक्षम् स्यात् काल-अपेक्षा न विद्यते रवि-अस्तमय-वेलायाम् । दीप-आरोपणम् आचरेथ् ॥ २१।७६ ॥
tat ṛkṣam dīpa-ṛkṣam syāt kāla-apekṣā na vidyate ravi-astamaya-velāyām . dīpa-āropaṇam ācareth .. 21.76 ..
देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये । अधिके वा महादीपं महास्नेहं प्रकल्पयेथ् ॥ २१.७७ ॥
देवस्य सन्निधौ स्तंभे देवालय-सम-उच्छ्रये । अधिके वा महा-दीपम् महा-स्नेहम् ॥ २१।७७ ॥
devasya sannidhau staṃbhe devālaya-sama-ucchraye . adhike vā mahā-dīpam mahā-sneham .. 21.77 ..
त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेथ् । वेणुं वा क्रमुकं वापि तालं वा नालिकेरकं ॥ २१.७८ ॥
त्रि-पादम् वा तद्-अर्धम् वा दीप-दण्डम् समाहरेथ् । वेणुम् वा क्रमुकम् वा अपि तालम् वा नालिकेरकम् ॥ २१।७८ ॥
tri-pādam vā tad-ardham vā dīpa-daṇḍam samāhareth . veṇum vā kramukam vā api tālam vā nālikerakam .. 21.78 ..
मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा । शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते ॥ २१.७९ ॥
मधूकम् तिन्त्रिणीकम् च इति अन्यैः सारद्रुमैः तथा । शत-अष्ट-दीप-संयुक्तम् उत्तमोत्तमम् उच्यते ॥ २१।७९ ॥
madhūkam tintriṇīkam ca iti anyaiḥ sāradrumaiḥ tathā . śata-aṣṭa-dīpa-saṃyuktam uttamottamam ucyate .. 21.79 ..
उत्मे मध्यमं दीपं । शतसंख्याक्रमं विदुः । उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ॥ २१.८० ॥
उत्मे मध्यमम् दीपम् । शत-संख्या-क्रमम् विदुः । उत्तम-अधम-दीपम् स्यात् नवतिः द्वि-अधिका तथा ॥ २१।८० ॥
utme madhyamam dīpam . śata-saṃkhyā-kramam viduḥ . uttama-adhama-dīpam syāt navatiḥ dvi-adhikā tathā .. 21.80 ..
मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा । मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ॥ २१.८१ ॥
मध्यम-उत्तमम् उक्तम् स्यात् अशीतिः चतुरः तथा । मध्यमे मध्यमम् च एव षट्सप्ततिः अथ उच्यते ॥ २१।८१ ॥
madhyama-uttamam uktam syāt aśītiḥ caturaḥ tathā . madhyame madhyamam ca eva ṣaṭsaptatiḥ atha ucyate .. 21.81 ..
मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतं । अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि ॥ २१.८२ ॥
अष्टषष्टिः इति स्मृतम् । षष्टि-संख्याम् वदन्ति हि ॥ २१।८२ ॥
aṣṭaṣaṣṭiḥ iti smṛtam . ṣaṣṭi-saṃkhyām vadanti hi .. 21.82 ..
द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे । अधमाधममेवेदं चत्वारिंशत्प्रदीपकं ॥ २१.८३ ॥
द्विपञ्चाशत्-प्रदीपान् च कुर्यात् अधम-मध्यमे । अधम-अधमम् एव इदम् चत्वारिंशत्-प्रदीपकम् ॥ २१।८३ ॥
dvipañcāśat-pradīpān ca kuryāt adhama-madhyame . adhama-adhamam eva idam catvāriṃśat-pradīpakam .. 21.83 ..
अशक्तानां यथाशक्ति दीपं तत्रैव योजयेथ् । दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ॥ २१.८४ ॥
अशक्तानाम् यथाशक्ति दीपम् तत्र एव । दण्डे तु सुषिरे योज्यम् चतुर्-दिक्षु क्रमेण वै ॥ २१।८४ ॥
aśaktānām yathāśakti dīpam tatra eva . daṇḍe tu suṣire yojyam catur-dikṣu krameṇa vai .. 21.84 ..
भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते । पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतं ॥ २१.८५ ॥
भूतपीठस्य दीपस्थानम् विधीयते । पद्म-कोश-प्रतीकाशः इति श्रुत्याम् उदाहृतम् ॥ २१।८५ ॥
bhūtapīṭhasya dīpasthānam vidhīyate . padma-kośa-pratīkāśaḥ iti śrutyām udāhṛtam .. 21.85 ..
तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणं । विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ॥ २१.८६ ॥
तस्मात् सर्व-प्रयत्नेन पद्मम् कुर्यात् स लक्षणम् । विस्तार-आयाम-तुल्यम् स्यात् चतुर्-ताल-प्रमाणतः ॥ २१।८६ ॥
tasmāt sarva-prayatnena padmam kuryāt sa lakṣaṇam . vistāra-āyāma-tulyam syāt catur-tāla-pramāṇataḥ .. 21.86 ..
गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेथ् । तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितं ॥ २१.८७ ॥
गोलक-अङ्गुलम् उत्सेधम् चतुरश्रम् । तत्र एव शालिभिः तिर्यक्-पद्मम् अष्ट-दल-अन्वितम् ॥ २१।८७ ॥
golaka-aṅgulam utsedham caturaśram . tatra eva śālibhiḥ tiryak-padmam aṣṭa-dala-anvitam .. 21.87 ..
तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकं । एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ॥ २१.८८ ॥
तद्-मध्ये ताल-मात्रेण सम-वृत्तम् स कर्णिकम् । एक-अङ्गुल-समुत्सेधम् तत्र एव उपरि तण्डुलैः ॥ २१।८८ ॥
tad-madhye tāla-mātreṇa sama-vṛttam sa karṇikam . eka-aṅgula-samutsedham tatra eva upari taṇḍulaiḥ .. 21.88 ..
सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेथ् । पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलं ॥ २१.८९ ॥
सति पद्मम् समुत्फुल्लम् नव-वस्त्रम् । पुष्पम् तस्य उपरि न्यस्य कल्बयेत् पद्म-मण्डलम् ॥ २१।८९ ॥
sati padmam samutphullam nava-vastram . puṣpam tasya upari nyasya kalbayet padma-maṇḍalam .. 21.89 ..
दलेष्वभ्यर्च्य च वसून्मध्ये धर्मं समर्चयेथ् । आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरं ॥ २१.९० ॥
दलेषु अभ्यर्च्य च वसून् मध्ये धर्मम् । आलय-अभिमुखे कुर्यात् प्रपाम् च एव अति सुन्दरम् ॥ २१।९० ॥
daleṣu abhyarcya ca vasūn madhye dharmam . ālaya-abhimukhe kuryāt prapām ca eva ati sundaram .. 21.90 ..
आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलं । सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ॥ २१.९१ ॥
आस्थान-मण्डपे वा अपि कल्पयेत् पद्म-मण्डलम् । सौवर्णम् राजतम् ताम्रम् मृण्मयम् वा आसु अशक्तितः ॥ २१।९१ ॥
āsthāna-maṇḍape vā api kalpayet padma-maṇḍalam . sauvarṇam rājatam tāmram mṛṇmayam vā āsu aśaktitaḥ .. 21.91 ..
शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः । किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितं ॥ २१.९२ ॥
शरावम् प्रस्थ-संपूर्णम् समाहृत्य विचक्षणः । किञ्चिद् कर्पूर-संयुक्तम् पिचु-वर्ती-समन्वितम् ॥ २१।९२ ॥
śarāvam prastha-saṃpūrṇam samāhṛtya vicakṣaṇaḥ . kiñcid karpūra-saṃyuktam picu-vartī-samanvitam .. 21.92 ..
गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे । आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ॥ २१.९३ ॥
गव्यम् घृतम् समादाय स्थापयेत् पद्म-मध्यमे । आचार्यः सु प्रसन्न-आत्मा नव-वस्त्र-उत्तरीयकः ॥ २१।९३ ॥
gavyam ghṛtam samādāya sthāpayet padma-madhyame . ācāryaḥ su prasanna-ātmā nava-vastra-uttarīyakaḥ .. 21.93 ..
श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेथ् । प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेथ् ॥ २१.९४ ॥
मन्त्रेण दीपस्य उद्दीपनम् चरेथ् । प्रतीच्याम् पद्मम् अध्येतु श्रियम् ध्यात्वा ॥ २१।९४ ॥
mantreṇa dīpasya uddīpanam careth . pratīcyām padmam adhyetu śriyam dhyātvā .. 21.94 ..
एकादशोपचारैश्च पूजयित्वा समाहितः । श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ॥ २१.९५ ॥
एकादश-उपचारैः च पूजयित्वा समाहितः । श्री-देवीम् मनसा ध्यात्वा श्रीसूक्तम् च समुच्चरन् ॥ २१।९५ ॥
ekādaśa-upacāraiḥ ca pūjayitvā samāhitaḥ . śrī-devīm manasā dhyātvā śrīsūktam ca samuccaran .. 21.95 ..
दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः । दीपानन्यान्त्समादाय तो यधारासमन्वितं ॥ २१.९६ ॥
दीपम् आदाय हस्ताभ्याम् अप्सरोभिः विशेषतः । दीपान् अन्यान् समादाय ॥ २१।९६ ॥
dīpam ādāya hastābhyām apsarobhiḥ viśeṣataḥ . dīpān anyān samādāya .. 21.96 ..
गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितं । प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेथ् ॥ २१.९७ ॥
गेय-ध्वनि-समायुक्तम् नृत्त-वाद्य-समन्वितम् । प्रदक्षिणम् ततस् कृत्वा गर्भागारम् प्रवेशयेथ् ॥ २१।९७ ॥
geya-dhvani-samāyuktam nṛtta-vādya-samanvitam . pradakṣiṇam tatas kṛtvā garbhāgāram praveśayeth .. 21.97 ..
देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः । देवदेवं समानीय मण्डले स्थाप्य चात्वरः ॥ २१.९८ ॥
देपस्य दक्षिणे पार्श्वे स्थापयेत् मन्त्र-वित्तमः । देवदेवम् समानीय मण्डले स्थाप्य च अत्वरः ॥ २१।९८ ॥
depasya dakṣiṇe pārśve sthāpayet mantra-vittamaḥ . devadevam samānīya maṇḍale sthāpya ca atvaraḥ .. 21.98 ..
कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः । श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ॥ २१.९९ ॥
कुर्यात् दश उपचारान् च समभ्यर्च्येत् विधानतः । मन्त्रेण दीपान् उद्दीपयेत् बुधः ॥ २१।९९ ॥
kuryāt daśa upacārān ca samabhyarcyet vidhānataḥ . mantreṇa dīpān uddīpayet budhaḥ .. 21.99 ..
गर्भगेहेच सोपाने प्रासादे मुखमण्डपे । प्रासादशिखरे वापिग्रीवायां चरणेऽपि च ॥ २१.१०० ॥
गर्भ-गेहे च सोपाने प्रासादे मुख-मण्डपे । प्रासाद-शिखरे वापी-ग्रीवायाम् चरणे अपि च ॥ २१।१०० ॥
garbha-gehe ca sopāne prāsāde mukha-maṇḍape . prāsāda-śikhare vāpī-grīvāyām caraṇe api ca .. 21.100 ..
प्राकारेषु च सर्वत्र तथैव स्नपनालये । पुष्पसंचयदेशे च द्वारे चास्थानमण्डपे ॥ २१.१०१ ॥
प्राकारेषु च सर्वत्र तथा एव स्नपन-आलये । पुष्प-संचय-देशे च द्वारे च आस्थान-मण्डपे ॥ २१।१०१ ॥
prākāreṣu ca sarvatra tathā eva snapana-ālaye . puṣpa-saṃcaya-deśe ca dvāre ca āsthāna-maṇḍape .. 21.101 ..
अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमाथ् । कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै ॥ २१.१०२ ॥
अन्येषु अपि च सर्वत्र दीपान् उद्दीपयेत् क्रमात् । कार्पास-तूलम् संबद्ध्य शराव-इषु-घृतेन वै ॥ २१।१०२ ॥
anyeṣu api ca sarvatra dīpān uddīpayet kramāt . kārpāsa-tūlam saṃbaddhya śarāva-iṣu-ghṛtena vai .. 21.102 ..
पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेथ् । नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ॥ २१.१०३ ॥
पूर्व-उक्तेन एव मन्त्रेण च उद्दीपनम् अथ आचरेथ् । नृत्त-गेय-आदि-वाद्यैः च घोषयित्वा प्रयत्नतः ॥ २१।१०३ ॥
pūrva-uktena eva mantreṇa ca uddīpanam atha ācareth . nṛtta-geya-ādi-vādyaiḥ ca ghoṣayitvā prayatnataḥ .. 21.103 ..
तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे । अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ॥ २१.१०४ ॥
तद्-शराव-स्थ-दीपम् च बलि-पीठस्य पश्चिमे । अधिदेवम् समाराध्य निक्षिपेत् दीप-मण्डपे ॥ २१।१०४ ॥
tad-śarāva-stha-dīpam ca bali-pīṭhasya paścime . adhidevam samārādhya nikṣipet dīpa-maṇḍape .. 21.104 ..
शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रेऽन्यांश्च निक्षिपेथ् । निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ॥ २१.१०५ ॥
प्रोच्य दण्ड्र-अग्रे अन्यान् च निक्षिपेथ् । निवेद्य बहूधा देवम् पृथुक-आदीन् विशेषतः ॥ २१।१०५ ॥
procya daṇḍra-agre anyān ca nikṣipeth . nivedya bahūdhā devam pṛthuka-ādīn viśeṣataḥ .. 21.105 ..
भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः । ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतं ॥ २१.१०६ ॥
भक्ष्याणि गुड-मिश्राणि प्रभूतम् च महाहविः । ग्रामम् प्रदक्षिणम् कृत्वा सर्व-अलङ्कार-संयुतम् ॥ २१।१०६ ॥
bhakṣyāṇi guḍa-miśrāṇi prabhūtam ca mahāhaviḥ . grāmam pradakṣiṇam kṛtvā sarva-alaṅkāra-saṃyutam .. 21.106 ..
पुनर्देवं समादाय जीवस्थाने निवेशयेथ् । सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदं ॥ २१.१०७ ॥
पुनर् देवम् समादाय जीवस्थाने निवेशयेथ् । सः अपि संवत्सर-फलम् प्राप्य गच्छेत् परम् पदम् ॥ २१।१०७ ॥
punar devam samādāya jīvasthāne niveśayeth . saḥ api saṃvatsara-phalam prāpya gacchet param padam .. 21.107 ..
ग्रहणाराधनम्
अथातस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः । अर्चनादिविधिं सम्यक्देवदेवस्य शार्ङ्गिणः ॥ २१.१०८ ॥
अथ अतस् संप्रवक्ष्यामि सूर्य-सोम-उपरागयोः । अर्चन-आदि-विधिम् सम्यक् देवदेवस्य शार्ङ्गिणः ॥ २१।१०८ ॥
atha atas saṃpravakṣyāmi sūrya-soma-uparāgayoḥ . arcana-ādi-vidhim samyak devadevasya śārṅgiṇaḥ .. 21.108 ..
सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे । नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ॥ २१.१०९ ॥
सूर्य-ग्रहे चतुर्-यामम् त्रि-यामम् तु विधु-ग्रहे । न अश्नन्ति हव्य-कव्यानि देवताः पितरः तथा ॥ २१।१०९ ॥
sūrya-grahe catur-yāmam tri-yāmam tu vidhu-grahe . na aśnanti havya-kavyāni devatāḥ pitaraḥ tathā .. 21.109 ..
आलये तु हरेः पूजां न त्यजन्ति महर्षयः । हविर्निवेदनं हित्वापूजां सर्वां समाचरेथ् ॥ २१.११० ॥
आलये तु हरेः पूजाम् न त्यजन्ति महा-ऋषयः । हविः-निवेदनम् हित्वा अपूजाम् सर्वाम् समाचरेथ् ॥ २१।११० ॥
ālaye tu hareḥ pūjām na tyajanti mahā-ṛṣayaḥ . haviḥ-nivedanam hitvā apūjām sarvām samācareth .. 21.110 ..
ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमं । कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ॥ २१.१११ ॥
ग्रहणे वर्तमाने तु स्नापयेत् पुरुषोत्तमम् । कोटि-यज्ञ-फलम् प्राप्य ब्रह्म-लोके महीयते ॥ २१।१११ ॥
grahaṇe vartamāne tu snāpayet puruṣottamam . koṭi-yajña-phalam prāpya brahma-loke mahīyate .. 21.111 ..
ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि । तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीथ् ॥ २१.११२ ॥
ग्रस्त-अस्त-ग्रहणे कुर्यात् स्नपनम् तु परे अहनि । तथा ग्रस्त-उदये कुर्यात् इति शातातपः अब्रवीत् ॥ २१।११२ ॥
grasta-asta-grahaṇe kuryāt snapanam tu pare ahani . tathā grasta-udaye kuryāt iti śātātapaḥ abravīt .. 21.112 ..
सर्वधा वरमाने तु ग्रहणेस्नपनं चरेथ् । ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकं ॥ २१.११३ ॥
सर्वधा वरमाने तु ग्रहणेस्नपनम् । ग्रहणम् संक्रमः हस्ति-छाया च विषुव-आदिकम् ॥ २१।११३ ॥
sarvadhā varamāne tu grahaṇesnapanam . grahaṇam saṃkramaḥ hasti-chāyā ca viṣuva-ādikam .. 21.113 ..
युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः । निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ॥ २१.११४ ॥
पुण्य-कालाः प्रकीर्तिताः । निषेथः कथितः प्राज्ञैः हविः-दास-वत् उत्सवे ॥ २१।११४ ॥
puṇya-kālāḥ prakīrtitāḥ . niṣethaḥ kathitaḥ prājñaiḥ haviḥ-dāsa-vat utsave .. 21.114 ..
नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेथ् । स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ॥ २१.११५ ॥
नित्य-अर्चनम् च उत्सवम् च स्नपनात् पूर्वम् आचरेथ् । स्नापयित्वा हृषीकेशम् हविः-दानम् प्रशस्यते ॥ २१।११५ ॥
nitya-arcanam ca utsavam ca snapanāt pūrvam ācareth . snāpayitvā hṛṣīkeśam haviḥ-dānam praśasyate .. 21.115 ..
वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः । पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेथ् ॥ २१.११६ ॥
वास्तुशुद्धिम् सदा कुर्यात् ग्रहणे चन्द्र-सूर्ययोः । पुराणानि च भाण्डानि त्यक्त्वा अन्यानि समाहरेथ् ॥ २१।११६ ॥
vāstuśuddhim sadā kuryāt grahaṇe candra-sūryayoḥ . purāṇāni ca bhāṇḍāni tyaktvā anyāni samāhareth .. 21.116 ..
कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते । अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ॥ २१.११७ ॥
कुश-अग्राणाम् समुत्क्षेपात् वाससाम् शुद्धिः इष्यते । अपक्वानाम् च वस्तूनाम् न पक्वम् परिगृह्णते ॥ २१।११७ ॥
kuśa-agrāṇām samutkṣepāt vāsasām śuddhiḥ iṣyate . apakvānām ca vastūnām na pakvam parigṛhṇate .. 21.117 ..
अदृश्यमुपरागन्तु नोपरागं प्रचक्षते । दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ॥ २१.११८ ॥
अदृश्यम् उपरागन्तु न उपरागम् प्रचक्षते । दीक्षितस्य तथा अन्यस्य स्नानम् स्यात् स्पर्श-मोक्षयोः ॥ २१।११८ ॥
adṛśyam uparāgantu na uparāgam pracakṣate . dīkṣitasya tathā anyasya snānam syāt sparśa-mokṣayoḥ .. 21.118 ..
यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिं । मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ॥ २१.११९ ॥
यावान् आदि-अन्त-कालः स्यात् तावता आकीर्तयेत् हरिम् । मौनी जप-आदिकम् कुर्यात् ऊर्ध्व-पुण्ड्र-धरः शुचिः ॥ २१।११९ ॥
yāvān ādi-anta-kālaḥ syāt tāvatā ākīrtayet harim . maunī japa-ādikam kuryāt ūrdhva-puṇḍra-dharaḥ śuciḥ .. 21.119 ..
सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् । ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ॥ २१.१२० ॥
सप्त-वात-आहतम् वस्त्रम् आर्द्रम् धृत्वा न दोष-भाज् । ग्रहणे भगवत्-सेवा सर्व-अशुभ-विनाशिनी ॥ २१।१२० ॥
sapta-vāta-āhatam vastram ārdram dhṛtvā na doṣa-bhāj . grahaṇe bhagavat-sevā sarva-aśubha-vināśinī .. 21.120 ..
दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे । तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयं ॥ २१.१२१ ॥
दद्यात् हानानि शक्त्या वै स कामः हरि-मन्दिरे । तत् अनन्तम् भवेत् साक्षी यत्र अनन्तः हरिः स्वयम् ॥ २१।१२१ ॥
dadyāt hānāni śaktyā vai sa kāmaḥ hari-mandire . tat anantam bhavet sākṣī yatra anantaḥ hariḥ svayam .. 21.121 ..
प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरं । रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृथ् ॥ २१.१२२ ॥
प्रभूतम् तु निवेद्य अथ भुञ्जीयात् तद्-अनन्तरम् । रात्रौ श्राद्धम् प्रकुर्वीत ग्रहणे ॥ २१।१२२ ॥
prabhūtam tu nivedya atha bhuñjīyāt tad-anantaram . rātrau śrāddham prakurvīta grahaṇe .. 21.122 ..
दूषिते तूक्तकाले तु तस्यापगम एव च । विपरीते महान्दोष इति शास्त्रविदो विदुः ॥ २१.१२३ ॥
दूषिते तु उक्त-काले तु तस्य अपगमः एव च । विपरीते महान् दोषः इति शास्त्र-विदः विदुः ॥ २१।१२३ ॥
dūṣite tu ukta-kāle tu tasya apagamaḥ eva ca . viparīte mahān doṣaḥ iti śāstra-vidaḥ viduḥ .. 21.123 ..
न निशीथात्परं श्राद्धमापत्स्वपि विधीयते । स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व ॥ २१.१२४ ॥
न निशीथात् परम् श्राद्धम् आपत्सु अपि विधीयते । स्नानम् आशौचिनाम् नित्यम् ते अपि दानम् च कुर्व ॥ २१।१२४ ॥
na niśīthāt param śrāddham āpatsu api vidhīyate . snānam āśaucinām nityam te api dānam ca kurva .. 21.124 ..
न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः । यदा राश्यन्तरं राशेः काले संक्रमते रविः ॥ २१.१२५ ॥
न जपः न तपः तेषाम् अशुद्धाः मोक्षणे पुनर् । यदा राशि-अन्तरम् राशेः काले संक्रमते रविः ॥ २१।१२५ ॥
na japaḥ na tapaḥ teṣām aśuddhāḥ mokṣaṇe punar . yadā rāśi-antaram rāśeḥ kāle saṃkramate raviḥ .. 21.125 ..
तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेथ् । कटकेविंशतिः पूर्वं मकरे विंशतिः परे ॥ २१.१२६ ॥
तदा तु पुण्य-कालः स्यात् स्नपनात् यत्र । पूर्वम् मकरे विंशतिः परे ॥ २१।१२६ ॥
tadā tu puṇya-kālaḥ syāt snapanāt yatra . pūrvam makare viṃśatiḥ pare .. 21.126 ..
पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेथ् । यदास्तमयवेलायां संध्यायां संक्रमोरवेः ॥ २१.१२७ ॥
पुण्यान् तु घटिकाः प्रोक्ताः तत्र ग्रहण-वत् चरेथ् । यदा अस्तमय-वेलायाम् संध्यायाम् संक्रम-उरवेः ॥ २१।१२७ ॥
puṇyān tu ghaṭikāḥ proktāḥ tatra grahaṇa-vat careth . yadā astamaya-velāyām saṃdhyāyām saṃkrama-uraveḥ .. 21.127 ..
पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः । अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ॥ २१.१२८ ॥
पूर्वे अह्णि पुण्य-कालः स्यात् अपराह्णात् परः स्मृतः । अर्ध-अस्तमिते आदित्ये तथा सति ॥ २१।१२८ ॥
pūrve ahṇi puṇya-kālaḥ syāt aparāhṇāt paraḥ smṛtaḥ . ardha-astamite āditye tathā sati .. 21.128 ..
पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः । उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः ॥ २१.१२९ ॥
पाश्चात्य-पूर्व-घटीकाः तिस्रः संध्या प्रकीर्तिताः । उपरागे अपि कुर्यात् वै उत्सवे अवभृथम् हरेः ॥ २१।१२९ ॥
pāścātya-pūrva-ghaṭīkāḥ tisraḥ saṃdhyā prakīrtitāḥ . uparāge api kuryāt vai utsave avabhṛtham hareḥ .. 21.129 ..
विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे । त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ॥ २१.१३० ॥
विधु-ग्रहे निशाम् सर्वाम् अहोरात्रम् रवि-ग्रहे । त्यजेत् शुभे तदा कुर्यात् ना एव दीप-उत्सवम् हरेः ॥ २१।१३० ॥
vidhu-grahe niśām sarvām ahorātram ravi-grahe . tyajet śubhe tadā kuryāt nā eva dīpa-utsavam hareḥ .. 21.130 ..
पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न । अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहं ॥ २१.१३१ ॥
पश्चात् निशीथात् ग्रहणे दीपम् दास्यन्ति के च न । अविद्धेपर्वणि प्रोक्तम् दीप-दानम् शुभ-आवहम् ॥ २१।१३१ ॥
paścāt niśīthāt grahaṇe dīpam dāsyanti ke ca na . aviddheparvaṇi proktam dīpa-dānam śubha-āvaham .. 21.131 ..
ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेथ् । अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनं ॥ २१.१३२ ॥
ग्रहणे अपि भवेत् दीपम् अ विद्धा पूर्णिमा न । अपर्वणि अर्पितम् दीपम् हन्ति पुण्यम् पुरातनम् ॥ २१।१३२ ॥
grahaṇe api bhavet dīpam a viddhā pūrṇimā na . aparvaṇi arpitam dīpam hanti puṇyam purātanam .. 21.132 ..
मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा । अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ॥ २१.१३३ ॥
मास-ऋक्षेषु अन्य-पुण्व-ऋक्षे विष्णु-पञ्च-दिने तथा । अर्चन-अर्थाय देवस्य कालः मध्याह्नः उच्यते ॥ २१।१३३ ॥
māsa-ṛkṣeṣu anya-puṇva-ṛkṣe viṣṇu-pañca-dine tathā . arcana-arthāya devasya kālaḥ madhyāhnaḥ ucyate .. 21.133 ..
काम्ये तु सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्.
काम्ये तु सु मुहूर्ते स्यात् पूजनम् न अन्यधा चरेत्।
kāmye tu su muhūrte syāt pūjanam na anyadhā caret.
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे एकविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगुप्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे एकविंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛguproktāyām saṃhitāyām prakīrṇa-adhikāre ekaviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In