| |
|

This overlay will guide you through the buttons:

अन्थैकविंशोऽध्यायः
anthaikaviṃśo'dhyāyaḥ
विशेषार्चनम्
अथातस्संप्रवक्ष्यामि विष्णुपञ्चदिनानि च । श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ॥ २१.१ ॥
athātassaṃpravakṣyāmi viṣṇupañcadināni ca . śravaṇaṃ dvādaśī śukle kṛṣṇe cārdhe ca dvādaśī .. 21.1 ..
पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै । पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमाथ् ॥ २१.२ ॥
pūrṇimā cāpyamāvāsyā pañcaitāni dināni vai . pūrvoktena vidhānena aṅkurānarbayetkramāth .. 21.2 ..
बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेथ् । प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ॥ २१.३ ॥
baddhvā pratisaraṃ tatra pūrvarātrautu śāyayeth . prātassandhyārcanāntetu snāpanoktakrameṇavai .. 21.3 ..
समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेथ् । मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ २१.४ ॥
samabhyarcya nivedyaiva pūrvasthāne niveśayeth . mārgaśīrṣākhyamāse tu pūrvapakṣe viśeṣataḥ .. 21.4 ..
प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे । संस्थाप्य चतुरो वेदान्क्रमेणाध्यापयेत्सदा ॥ २१.५ ॥
prātassandhyāvasānetu pūrvamāsthānamaṇḍape . saṃsthāpya caturo vedānkrameṇādhyāpayetsadā .. 21.5 ..
पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः । एकादशीमुपोप्यैव महापातकनाशिनीं ॥ २१.६ ॥
pūjayeddevadeveśaṃ saptaviṃśativigrahaiḥ . ekādaśīmupopyaiva mahāpātakanāśinīṃ .. 21.6 ..
ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः । मृण्मयानि तु भाण्डानि पुराणानि परित्यजेथ् ॥ २१.७ ॥
tataḥprabhāte dvādaśyāṃ snātvāsnānavidhānataḥ . mṛṇmayāni tu bhāṇḍāni purāṇāni parityajeth .. 21.7 ..
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकं । स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ॥ २१.८ ॥
mṛṣṭasiktopalepādyaiśśodhayitvā yathārhakaṃ . snāpanoktakrameṇaiva snāpayitvā yathāvidhi .. 21.8 ..
आसनादिभिरभ्यर्च्य पायसं च निवेदयेथ् । पानीयाचमनं दत्वा मुखवासं ततःपरं ॥ २१.९ ॥
āsanādibhirabhyarcya pāyasaṃ ca nivedayeth . pānīyācamanaṃ datvā mukhavāsaṃ tataḥparaṃ .. 21.9 ..
पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणं । धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेथ् ॥ २१.१० ॥
puruṣasūktena saṃstūya gkāmaṃ caiva pradakṣiṇaṃ . dhāmapradakṣiṇaṃ kṛtvā jīvasthāne niveśayeth .. 21.10 ..
संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु । तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ॥ २१.११ ॥
saṃvatsarer'cane hīne nityanaimittikādiṣu . tatsarvaṃ pūrṇamityāhurdvāśīpūjane kṛte .. 21.11 ..
पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवथ् । अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेथ् ॥ २१.१२ ॥
pauṣe tu pūrṇimāyāṃ vai viṣṇupañcadinoktavath . arcayitvātu deveśaṃ gavyaṃ kṣīraṃ nivedayeth .. 21.12 ..
सोऽपि संवत्सरफलं लभते नात्र संशयः । माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, ॥ २१.१३ ॥
so'pi saṃvatsaraphalaṃ labhate nātra saṃśayaḥ . māghamāse punarvasvo rāghavo'jāyata svayam, .. 21.13 ..
तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा । ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेथ् ॥ २१.१४ ॥
tattastasyāmapoṣyaiva rāmaṃ vā viṣṇumeva vā . grāmaṃ pradakṣiṇaṃ kṛtvā snāpayitvā nivedayeth .. 21.14 ..
तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः । माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ॥ २१.१५ ॥
tilapadmavidhiṃ vakṣye śruṇudhvaṃ munipuṅgavāḥ . māghamāse tu pañcamyāṃ pūrvapakṣe viśeṣataḥ .. 21.15 ..
पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि । हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ॥ २१.१६ ॥
pūrvarātrai tu deveśamarcayitvā yathāvidhi . havīṃṣyapi nivedyaiva baddhvā pratisaraṃ punaḥ .. 21.16 ..
पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमाथ् । प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ॥ २१.१७ ॥
pūrvavacchāyayitvaiva rātriśeṣaṃ nayetkramāth . prabhāte devamuddhāpya kalaśaissnāpayetpunaḥ .. 21.17 ..
मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितं । गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतं ॥ २१.१८ ॥
maṇḍapaṃ vātha kūṭaṃ vā prapāṃ vātha yathocitaṃ . gomayenopalipyaiva pañcavarṇairalaṅkṛtaṃ .. 21.18 ..
तस्मिन्संस्थाप्य देवेशं प्रणम्यैवानुमास्य च । प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ॥ २१.१९ ॥
tasminsaṃsthāpya deveśaṃ praṇamyaivānumāsya ca . pramukhe dhānyarāśau tu dvihastāyatavistṛte .. 21.19 ..
कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेथ् । तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ॥ २१.२० ॥
kṛṣṇājinaṃ samāstīrya navavastressamāstareth . tadūrdhvetu vikīryaivaṣaḍdroṇaṃ tilameva hi .. 21.20 ..
द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा । अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेथ् ॥ २१.२१ ॥
droṇatrayaṃ dvaye vāpi maṇḍalākālavattathā . aṣṭabhiścadalairyuktaṃ tilapadmaṃ samālikheth .. 21.21 ..
त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः । स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेथ् ॥ २१.२२ ॥
triṇiṣkena tadardhena niṣkamātreṇa vā punaḥ . svarṇapadmaṃ ca kṛtvātu tilapadme tu vinyaseth .. 21.22 ..
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश । इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेथ् ॥ २१.२३ ॥
āḍhakaiśśālidhānyaiśca pūrṇapātrāṇi ṣoḍaśa . indrādīśānaparyantaṃ śālirāśyupari nyaseth .. 21.23 ..
अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा । पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ॥ २१.२४ ॥
aḍhakaṃ tailamāhṛtya tadardhañca ghṛtaṃ tathā . paścime dadhimannyasya devadevaṃ praṇamya ca .. 21.24 ..
आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः । प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववथ् ॥ २१.२५ ॥
ātmasūktaṃ ca japtvātu pūjayedaṣṭavigrahaiḥ . praṇamya devadevāya padmamadhyetu pūrvavath .. 21.25 ..
प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेथ् । एकादशोपचारैश्च पूजयित्वा यथार्हकं ॥ २१.२६ ॥
prācyādi puruṣādīṃśca caturmūrtibhirāhvayeth . ekādaśopacāraiśca pūjayitvā yathārhakaṃ .. 21.26 ..
इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत । अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ॥ २१.२७ ॥
indrādyaiśāntamāvāhya degdevānarcayettata . atodevā'disaṃyuktaṃ viṣṇusūktaṃ japetpunaḥ .. 21.27 ..
बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमाथ् । यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणां ॥ २१.२८ ॥
biṃbe devaṃ samāropya cānyānudvāsayetkramāth . yajamāno'tha tatkāle dadyādācāryadakṣiṇāṃ .. 21.28 ..
विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतं । वेदपारायणपरं सर्वावयवसंयुतं ॥ २१.२९ ॥
viṣṇubhaktiyutaṃ śāstaṃ dayādyātmaguṇairyutaṃ . vedapārāyaṇaparaṃ sarvāvayavasaṃyutaṃ .. 21.29 ..
विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः । ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ॥ २१.३० ॥
vipramāhūya tatkāle devasya niyato'grataḥ . dhyātvā deveśamācāryo devadevasya sannidhau .. 21.30 ..
तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै । स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेथ् ॥ २१.३१ ॥
tilapadmaṃ dadettasmai sarvalokahitāya vai . stotrairgeyaiśca vādaiśca stutvā devaṃ samarcayeth .. 21.31 ..
देवं याने समारोप्य सर्वालङ्कारसंयुतं । देवालयं परीत्यैव जीवस्थाने निवेशयेथ् ॥ २१.३२ ॥
devaṃ yāne samāropya sarvālaṅkārasaṃyutaṃ . devālayaṃ parītyaiva jīvasthāne niveśayeth .. 21.32 ..
एवे यःकुरुते भक्त्या विष्णवे परमात्मने । सर्वान्कामानवाप्नोति वैष्णवं लोकमश्नुते ॥ २१.३३ ॥
eve yaḥkurute bhaktyā viṣṇave paramātmane . sarvānkāmānavāpnoti vaiṣṇavaṃ lokamaśnute .. 21.33 ..
फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनं । स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेथ् ॥ २१.३४ ॥
phālgune māsi phalgunyāṃ śriyā sārthaṃ janārdanaṃ . snāpayitvotsavaṃ kṛtvā samabhyarchya nivedayeth .. 21.34 ..
चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवं । पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ॥ २१.३५ ॥
caitremāsi tathā caitṣāṃ kuryāddamanakotsavaṃ . pūrvasminneva divase rātripūjāvasānake .. 21.35 ..
भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेथ् । वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेथ् ॥ २१.३६ ॥
bhaddhvā pratisaraṃ tatra deveśāya nivedayeth . vasastaṃ kāmamabhyarcya pāyasānnaṃ nivedayeth .. 21.36 ..
देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेथ् । प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ॥ २१.३७ ॥
desasya dakṣiṇe pārśve mālāṃ damanakīṃnyaseth . prabhāte devamuddhāpya snāpayitvār'cayettathā .. 21.37 ..
देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितं । सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ॥ २१.३८ ॥
devasya puṣpamantrābhyāṃ dadyādbhakti samanvitaṃ . sarveṣāṃ parivārāṇāṃ dadyāttanmantramūrtibhiḥ .. 21.38 ..
ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे । समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ॥ २१.३९ ॥
grāmaṃ pradakṣiṇaṃ kṛtvā saṃsthāpyāsthānamaṇḍape . samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ .. 21.39 ..
वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेथ् । ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेथ् ॥ २१.४० ॥
vaiśākhyāṃ paurṇamāsyāṃ vai snāpayitvā samarcayeth . jyeṣṭhe tu snāpayeddevaṃ navavastraṃ pradāpayeth .. 21.40 ..
सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः । अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ॥ २१.४१ ॥
so'pi saṃvatsaraphalaṃ prāpnuyādeva mānavaḥ . arghyadānaṃ praśastaṃ syāddevasyāṣāḍhamāsake .. 21.41 ..
श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः । उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ २१.४२ ॥
śrāvaṇe māsi sakṣatre śravaṇe tu viśeṣataḥ . utsavasnapanādīni pūrvavatkārayedbudhaḥ .. 21.42 ..
अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणं । जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा ॥ २१.४३ ॥
ataḥparaṃ pravakṣyāmi jayantyutsavalakṣaṇaṃ . jayantī śrāvaṇe māsi kṛṣṇapakṣe'ṣṭamī śubhā .. 21.43 ..
रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः । तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ॥ २१.४४ ॥
rohiṇīsahitā jñeyā sarvapāpaharā tithiḥ . tasyāṃ jāto jacagannātho jagatpālana kāṅkṣayā .. 21.44 ..
चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया । तस्मिन्वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ॥ २१.४५ ॥
candrasyodayakāletu madhyarātre svalīlayā . tasminvai divase kṛṣṇamarcayitvā prayatnataḥ .. 21.45 ..
उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेथ् । अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ॥ २१.४६ ॥
utsavaṃ kārayedyastu viṣṇossālokyatāṃ vrajeth . aṣṭamī rohiṇīyuktā rahitāvā vicakṣaṇaiḥ .. 21.46 ..
अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः । आदित्योदयवेलायां कलामात्राष्टमी यदि ॥ २१.४७ ॥
aviddhaiva sadā grāhyāsaptamyā sarvadā tidhiḥ . ādityodayavelāyāṃ kalāmātrāṣṭamī yadi .. 21.47 ..
सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेथ् । नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ॥ २१.४८ ॥
sātithissakalā jñeyā niśīthavyāpinī bhaveth . nāgaviddhā yathā nandā varjitā śravaṇānvitā .. 21.48 ..
तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेथ् । अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेथ् ॥ २१.४९ ॥
tathāṣṭamīṃ pūrvaviddhāṃ sarkṣāṃ vāpi parityajeth . aviddhaivāṣṭamī grāhyā tāṃ supuṇyāmupāvaseth .. 21.49 ..
रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववथ् ॥ २१.५० ॥
rohiṇīsahitā kṛṣṇā māsi bhādrapade'ṣṭamī . ardharātrādadhaścordhvaṃ galayā vāpi pūrvavath .. 21.50 ..
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी । तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ २१.५१ ॥
jayantī nāma sā proktā sarvapāpapraṇāśinī . tasmāttu divasātpūrvaṃ navame vātha saptame .. 21.51 ..
पञ्चमे वा त्षहेऽवापि विधिवा चाङ्कुरार्पणं । पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ॥ २१.५२ ॥
pañcame vā tṣahe'vāpi vidhivā cāṅkurārpaṇaṃ . pūrvedyureva śarvaryāṃ rātripūjāvasānake .. 21.52 ..
बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिं । तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ॥ २१.५३ ॥
baddhvā pratisaraṃ tatra śayane śāyayeddhariṃ . tasyāṃ tithāvardharātre kṛṣṇamevaṃ viśeṣataḥ .. 21.53 ..
पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः । भूमिभारापहाराय लोकेजातो जगत्पतिः ॥ २१.५४ ॥
puṣpāñjaliṃ tataḥ kuryācchriyā yukto janārdanaḥ . bhūmibhārāpahārāya lokejāto jagatpatiḥ .. 21.54 ..
इति संचिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् । सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणं ॥ २१.५५ ॥
iti saṃcintayeddevaṃ vaiṣmavaṃ mantramuccaran . sarvālaṅkārasaṃyuktaṃ maṇḍapaṃ ca pradakṣiṇaṃ .. 21.55 ..
पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते । तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ॥ २१.५६ ॥
purastānmadhyame vāpi cāsthāne vāpyalaṅkṛte . tanmadhye viṣṭare sthāpya devadevaṃ praṇamya ca .. 21.56 ..
तैलं हरिद्रचूर्णं च कलशान्संप्रपूर्य च । स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेथ् ॥ २१.५७ ॥
tailaṃ haridracūrṇaṃ ca kalaśānsaṃprapūrya ca . sthaṇḍile vinyasettatra devadevaṃ samarcayeth .. 21.57 ..
तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेथ् । नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकं ॥ २१.५८ ॥
tailenābhyañjanaṃ kṛtvā cūrṇenodyartanaṃ careth . nādeyaṃ gandhatoyaṃ ca puṣpodaṃ cākṣatodakaṃ .. 21.58 ..
कुशोदकं तु संभृत्य कलशान्पञ्च विन्यसेथ् । अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमं ॥ २१.५९ ॥
kuśodakaṃ tu saṃbhṛtya kalaśānpañca vinyaseth . ato devā'dibhirmantraissnāpayetpuruṣottamaṃ .. 21.59 ..
पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च । हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेथ् ॥ २१.६० ॥
pādyādyarṅyāntamabhyarcya devadevaṃ praṇamya ca . hiraṇyagarbha' ityuktvāgavāṃ kṣīraṃ nivedayeth .. 21.60 ..
मुखवासं च दत्वैव प्रणामं च ततश्चरेथ् । निवेदितं तु तत्क्षीरं वन्ध्यापुत्रप्रदं भवेथ् ॥ २१.६१ ॥
mukhavāsaṃ ca datvaiva praṇāmaṃ ca tataścareth . niveditaṃ tu tatkṣīraṃ vandhyāputrapradaṃ bhaveth .. 21.61 ..
पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितं । नीत्वा घृतं च तैलं च मुखवासयुतं तथा ॥ २१.६२ ॥
pītvāprasūte putraṃ ca āyuṣmantaṃ balānvitaṃ . nītvā ghṛtaṃ ca tailaṃ ca mukhavāsayutaṃ tathā .. 21.62 ..
देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयतां । देवदेवमलङ्कृत्य भक्तानामात्तचेतसां ॥ २१.६३ ॥
devasya darśayitvā tu brāhmaṇebhyaḥ pradīyatāṃ . devadevamalaṅkṛtya bhaktānāmāttacetasāṃ .. 21.63 ..
यथा वै यजमानस्य तथा प्रियकरं भुधैः । सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतं ॥ २१.६४ ॥
yathā vai yajamānasya tathā priyakaraṃ bhudhaiḥ . sarvavādyasamāyuktaṃ sarvālaṅkārasaṃyutaṃ .. 21.64 ..
ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेथ् । आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः ॥ २१.६५ ॥
grāmaṃ vāpyālayaṃ vāpi pradakṣiṇamathācareth . ālayaṃ saṃpraviśyaiva kalaśaissnāvayedbudhaḥ .. 21.65 ..
आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ । प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ॥ २१.६६ ॥
ācāryadakṣiṇāṃ datvā sodakaṃ devasannidhau . prabhūtaṃ tu nivedyaiva mukhavāsaṃ dadetpunaḥ, .. 21.66 ..
एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरं । भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितं ॥ २१.६७ ॥
evamevaṃ tathā kuryādutsavaṃ prativatsaraṃ . bhuktimuktipradamidamṛṣibhiḥ parīkīrtitaṃ .. 21.67 ..
अपरेऽथ दिने वापि कारयेदुत्सवं भुधः । यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा ॥ २१.६८ ॥
apare'tha dine vāpi kārayedutsavaṃ bhudhaḥ . yadyanmantrakriyālopo vaiṣṇavairhūyate tathā .. 21.68 ..
एकस्मिन्वत्सरे हीने देवदेवं प्रणम्य च । स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ॥ २१.६९ ॥
ekasminvatsare hīne devadevaṃ praṇamya ca . snapanaṃ pañcaviṃśadbhiḥ kalaśaiśśuddhamānasaiḥ .. 21.69 ..
शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेथ् । उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ॥ २१.७० ॥
śāntihomaṃ ca hutvātu puṇyāhamapi vācayeth . utsavaṃ dviguṇaṃ kuryāddakṣiṇāṃ ca svaśaktitaḥ .. 21.70 ..
श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा । संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ॥ २१.७१ ॥
śrāvaṇe dvādaśīyoge māpi bhādrapade tathā . saṃvatsarārcādoṣasya śāntyarthaṃ keśavasya tu .. 21.71 ..
अस्मिन्मासे विशेषेण पवित्रारोपणं हरेः । सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ॥ २१.७२ ॥
asminmāse viśeṣeṇa pavitrāropaṇaṃ hareḥ . sarvadoṣopaśamanaṃ sarvakāmābhivṛddhidam, .. 21.72 ..
मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमं । त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलं ॥ २१.७३ ॥
māse'smīnnārabhetaiva śravaṇavratamuttamaṃ . tribhirvarṣaistribhirmāsairupoṣya ca mahatpalaṃ .. 21.73 ..
आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः । अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ॥ २१.७४ ॥
āśvayujamāse cāśvyarkṣe deveśaṃ snāpayettataḥ . arghyadānaṃ praśastaṃ syāddevadevasya śārjiṇaḥ .. 21.74 ..
अथातः कृत्तिकादीपदानलक्षणमुच्यते । कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ॥ २१.७५ ॥
athātaḥ kṛttikādīpadānalakṣaṇamucyate . kārtikyāṃ pūrṇimāyāntu yadṛkṣantu pravartate .. 21.75 ..
तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां । दीपारोपणमाचरेथ् ॥ २१.७६ ॥
tadṛkṣaṃ dīpaṛkṣaṃ syātkālāpekṣā na vidyate ravyastamayavelāyāṃ . dīpāropaṇamācareth .. 21.76 ..
देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये । अधिके वा महादीपं महास्नेहं प्रकल्पयेथ् ॥ २१.७७ ॥
devasya sannidhau staṃbhe devālayasamocchraye . adhike vā mahādīpaṃ mahāsnehaṃ prakalpayeth .. 21.77 ..
त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेथ् । वेणुं वा क्रमुकं वापि तालं वा नालिकेरकं ॥ २१.७८ ॥
tripādaṃ vā tadhardhaṃ vā dīpadaṇḍaṃ samāhareth . veṇuṃ vā kramukaṃ vāpi tālaṃ vā nālikerakaṃ .. 21.78 ..
मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा । शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते ॥ २१.७९ ॥
madhūkaṃ tintriṇīkaṃ cetyanyaissāradrumaistathā . śatāṣṭadīpasaṃyuktaṃmuttamottamamucyate .. 21.79 ..
उत्मे मध्यमं दीपं । शतसंख्याक्रमं विदुः । उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ॥ २१.८० ॥
utme madhyamaṃ dīpaṃ . śatasaṃkhyākramaṃ viduḥ . uttamādhamadīpaṃ syānnavatirdvyadhikā tathā .. 21.80 ..
मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा । मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ॥ २१.८१ ॥
madhyamottamamuktaṃ syādaśītiścaturastathā . madhyame madhyamaṃ caiva ṣaṭsaptatirathocyate .. 21.81 ..
मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतं । अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि ॥ २१.८२ ॥
madhyamādhamadīpantu aṣṭaṣaṣṭiriti smṛtaṃ . adhamottamadīpantu ṣaṣṭisaṃkhyāṃ vadantihi .. 21.82 ..
द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे । अधमाधममेवेदं चत्वारिंशत्प्रदीपकं ॥ २१.८३ ॥
dvipañcāśatpradīpāṃśca kuryādadhamamadhyame . adhamādhamamevedaṃ catvāriṃśatpradīpakaṃ .. 21.83 ..
अशक्तानां यथाशक्ति दीपं तत्रैव योजयेथ् । दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ॥ २१.८४ ॥
aśaktānāṃ yathāśakti dīpaṃ tatraiva yojayeth . daṇḍetu suṣire yojyaṃ caturdikṣu krameṇa vai .. 21.84 ..
भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते । पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतं ॥ २१.८५ ॥
bhūtapīṭhasya pūrvetu dīpasthānaṃ vidhīyate . padmakośapratīkāśa' iti śrutyāmudāhṛtaṃ .. 21.85 ..
तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणं । विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ॥ २१.८६ ॥
tasmātsarvaprayatnena padmaṃ kuryātsalakṣaṇaṃ . vistārāyāmatulyaṃ syāccatustālapramāṇataḥ .. 21.86 ..
गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेथ् । तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितं ॥ २१.८७ ॥
golakāṅgulamutsedhaṃ caturaśraṃ prakalpayeth . tatraiva śālibhi stiryakpadmamaṣṭadalānvitaṃ .. 21.87 ..
तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकं । एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ॥ २१.८८ ॥
tanmadhye tālamātreṇa samavṛttaṃ sakarṇikaṃ . ekāṅgulasamutsedhaṃ tatraivopari taṇḍulaiḥ .. 21.88 ..
सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेथ् । पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलं ॥ २१.८९ ॥
sati padmaṃ samutphullaṃ navavastraṃ samāstareth . puṣpaṃ tasyopari nyasya kalbayetpadmamaṇḍalaṃ .. 21.89 ..
दलेष्वभ्यर्च्य च वसून्मध्ये धर्मं समर्चयेथ् । आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरं ॥ २१.९० ॥
daleṣvabhyarcya ca vasūnmadhye dharmaṃ samarcayeth . ālayābhimukhe kuryātprapāṃ caivātisundaraṃ .. 21.90 ..
आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलं । सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ॥ २१.९१ ॥
āsthānamaṇḍape vāpi kalpayetpadmamaṇḍalaṃ . sauvarṇaṃ rājataṃ tāmraṃ mṛṇmayaṃ vāsvaśaktitaḥ .. 21.91 ..
शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः । किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितं ॥ २१.९२ ॥
śarāvaṃ prasthasaṃpūrṇaṃ samāhṛtya vicakṣaṇaḥ . kiñcitkarpūrasaṃyuktaṃ picuvartisamanvitaṃ .. 21.92 ..
गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे । आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ॥ २१.९३ ॥
gavyaṃ ghṛtaṃ samādāya sthāpayetpadmamadhyame . ācāryassuprasannātmā navavastrottarīyakaḥ .. 21.93 ..
श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेथ् । प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेथ् ॥ २१.९४ ॥
śriyaijā'teti mantreṇa dīpasyoddīpanaṃ careth . pratīcyāṃ padmamadhyetu śriyaṃ dhyātvā samāhvayeth .. 21.94 ..
एकादशोपचारैश्च पूजयित्वा समाहितः । श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ॥ २१.९५ ॥
ekādaśopacāraiśca pūjayitvā samāhitaḥ . śrīdevīṃ manasā dhyātvā śrīsūktaṃ ca samuccaran .. 21.95 ..
दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः । दीपानन्यान्त्समादाय तो यधारासमन्वितं ॥ २१.९६ ॥
dīpamādāya hastābhyāmapsarobhirviśeṣataḥ . dīpānanyāntsamādāya to yadhārāsamanvitaṃ .. 21.96 ..
गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितं । प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेथ् ॥ २१.९७ ॥
geyadhvanisamāyuktaṃ nṛttavādyasamanvitaṃ . pradakṣiṇaṃ tataḥ kṛtvā garbhāgāraṃ praveśayeth .. 21.97 ..
देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः । देवदेवं समानीय मण्डले स्थाप्य चात्वरः ॥ २१.९८ ॥
depasya dakṣiṇe pārśvesthāpayenmantravittamaḥ . devadevaṃ samānīya maṇḍale sthāpya cātvaraḥ .. 21.98 ..
कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः । श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ॥ २१.९९ ॥
kuryāddaśopacārāṃśca samabhyarcyedvidhānataḥ . śrīye jā'teti mantreṇa dīpānuddīpayedbudhaḥ .. 21.99 ..
गर्भगेहेच सोपाने प्रासादे मुखमण्डपे । प्रासादशिखरे वापिग्रीवायां चरणेऽपि च ॥ २१.१०० ॥
garbhageheca sopāne prāsāde mukhamaṇḍape . prāsādaśikhare vāpigrīvāyāṃ caraṇe'pi ca .. 21.100 ..
प्राकारेषु च सर्वत्र तथैव स्नपनालये । पुष्पसंचयदेशे च द्वारे चास्थानमण्डपे ॥ २१.१०१ ॥
prākāreṣu ca sarvatra tathaiva snapanālaye . puṣpasaṃcayadeśe ca dvāre cāsthānamaṇḍape .. 21.101 ..
अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमाथ् । कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै ॥ २१.१०२ ॥
anyeṣvapi ca sarvatra dīpānuddīpayetkramāth . kārpāsatūlaṃ saṃbaddhya śarāveṣughṛtena vai .. 21.102 ..
पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेथ् । नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ॥ २१.१०३ ॥
pūrvoktenaiva mantreṇa coddīpanamathācareth . nṛttageyādivādyaiśca ghoṣayitvā prayatnataḥ .. 21.103 ..
तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे । अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ॥ २१.१०४ ॥
taccharāvasthadīpaṃ ca balipīṭhasya paścime . adhidevaṃ samārādhya nikṣipeddīpamaṇḍape .. 21.104 ..
शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रेऽन्यांश्च निक्षिपेथ् । निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ॥ २१.१०५ ॥
śubhrājyoti'riti procya daṇḍrāgre'nyāṃśca nikṣipeth . nivedya bahūdhā devaṃ pṛthukādīnviśeṣataḥ .. 21.105 ..
भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः । ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतं ॥ २१.१०६ ॥
bhakṣyāṇi guḍamiśrāṇiprabhūtaṃ ca mahāhaviḥ . grāmaṃ pradakṣiṇaṃ kṛtvā sarvālaṅkārasaṃyutaṃ .. 21.106 ..
पुनर्देवं समादाय जीवस्थाने निवेशयेथ् । सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदं ॥ २१.१०७ ॥
punardevaṃ samādāya jīvasthāne niveśayeth . so'pi saṃvatsaraphalaṃ prāpya gacchetparaṃ padaṃ .. 21.107 ..
ग्रहणाराधनम्
अथातस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः । अर्चनादिविधिं सम्यक्देवदेवस्य शार्ङ्गिणः ॥ २१.१०८ ॥
athātassaṃpravakṣyāmi sūryasomoparāgayoḥ . arcanādividhiṃ samyakdevadevasya śārṅgiṇaḥ .. 21.108 ..
सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे । नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ॥ २१.१०९ ॥
sūryagrahe caturyāmaṃ triyāmaṃ tu vidhugrahe . nāśnanti havyakavyāni devatāḥ pitarastathā .. 21.109 ..
आलये तु हरेः पूजां न त्यजन्ति महर्षयः । हविर्निवेदनं हित्वापूजां सर्वां समाचरेथ् ॥ २१.११० ॥
ālaye tu hareḥ pūjāṃ na tyajanti maharṣayaḥ . havirnivedanaṃ hitvāpūjāṃ sarvāṃ samācareth .. 21.110 ..
ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमं । कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ॥ २१.१११ ॥
grahaṇe vartamānetu snāpayetpuruṣottamaṃ . koṭiyajñaphalaṃ prāpya brahmaloke mahīyate .. 21.111 ..
ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि । तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीथ् ॥ २१.११२ ॥
grastāstagrahaṇe kuryātsnapanaṃ tu pare'hani . tathā grastodaye kuryāditi śātātapo'bravīth .. 21.112 ..
सर्वधा वरमाने तु ग्रहणेस्नपनं चरेथ् । ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकं ॥ २१.११३ ॥
sarvadhā varamāne tu grahaṇesnapanaṃ careth . grahaṇaṃ saṃkramo hasticchāyā ca viṣuvādikaṃ .. 21.113 ..
युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः । निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ॥ २१.११४ ॥
yugādi va mādyāstu puṇyakālāḥ prakīrtitāḥ . niṣethaḥ kathitaḥ prājñairhavirdāsavadutsave .. 21.114 ..
नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेथ् । स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ॥ २१.११५ ॥
nityārcanaṃ cotsavaṃ ca snapanātpūrvamācareth . snāpayitvā hṛṣīkeśaṃ havirdānaṃ praśasyate .. 21.115 ..
वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः । पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेथ् ॥ २१.११६ ॥
vāstuśuddhiṃ sadā kuryādgrahaṇe candrasūryayoḥ . purāṇāni ca bhāṇḍāni tyaktvānyāni samāhareth .. 21.116 ..
कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते । अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ॥ २१.११७ ॥
kuśāgrāṇāṃ samutkṣepādvāsasāṃ śuddhiriṣyate . apakvānāṃ ca vastūnāṃ na pakvaṃ parigṛhṇate .. 21.117 ..
अदृश्यमुपरागन्तु नोपरागं प्रचक्षते । दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ॥ २१.११८ ॥
adṛśyamuparāgantu noparāgaṃ pracakṣate . dīkṣitasya tathānyasya snānaṃ syātsparśamokṣayoḥ .. 21.118 ..
यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिं । मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ॥ २१.११९ ॥
yāvānādyantakālassyāttāvatākīrtayeddhariṃ . maunī japādikaṃ kuryādūrdhvapuṇḍradharaśśuciḥ .. 21.119 ..
सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् । ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ॥ २१.१२० ॥
saptavātāhataṃ vastramārdraṃ dhṛtvā na doṣabhāk . grahaṇe bhagavatsevā sarvāśubhavināśinī .. 21.120 ..
दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे । तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयं ॥ २१.१२१ ॥
dadyāddhānāni śaktyā vai sakāmo harimandire . tadanantaṃ bhavetsākṣī yatrānanto harissvayaṃ .. 21.121 ..
प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरं । रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृथ् ॥ २१.१२२ ॥
prabhūtaṃ tu nivedyātha bhuñjīyāttadanantaraṃ . rātrau śrāddhaṃ prakurvīta grahaṇe tannadoṣakṛth .. 21.122 ..
दूषिते तूक्तकाले तु तस्यापगम एव च । विपरीते महान्दोष इति शास्त्रविदो विदुः ॥ २१.१२३ ॥
dūṣite tūktakāle tu tasyāpagama eva ca . viparīte mahāndoṣa iti śāstravido viduḥ .. 21.123 ..
न निशीथात्परं श्राद्धमापत्स्वपि विधीयते । स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व ॥ २१.१२४ ॥
na niśīthātparaṃ śrāddhamāpatsvapi vidhīyate . snānamāśaucināṃ nityaṃ te'pi dānaṃ ca kurva .. 21.124 ..
न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः । यदा राश्यन्तरं राशेः काले संक्रमते रविः ॥ २१.१२५ ॥
na japo na tapasteṣāmaśuddhā mokṣaṇe punaḥ . yadā rāśyantaraṃ rāśeḥ kāle saṃkramate raviḥ .. 21.125 ..
तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेथ् । कटकेविंशतिः पूर्वं मकरे विंशतिः परे ॥ २१.१२६ ॥
tadā tu puṇyakālassyātsnapanādyatra kārayeth . kaṭakeviṃśatiḥ pūrvaṃ makare viṃśatiḥ pare .. 21.126 ..
पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेथ् । यदास्तमयवेलायां संध्यायां संक्रमोरवेः ॥ २१.१२७ ॥
puṇyāntu ghaṭikāḥ proktā statra grahaṇavaccareth . yadāstamayavelāyāṃ saṃdhyāyāṃ saṃkramoraveḥ .. 21.127 ..
पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः । अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ॥ २१.१२८ ॥
pūrve'hṇi puṇyakālassyādaparāhṇātparassmṛtaḥ . ardhāstamita āditye tathā cār'dhodite sati .. 21.128 ..
पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः । उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः ॥ २१.१२९ ॥
pāścātyapūrvaghaṭīkāstisrassaṃdhyā prakīrtitāḥ . uparāge'pi kuryādvai utsave'vabhṛthaṃ hareḥ .. 21.129 ..
विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे । त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ॥ २१.१३० ॥
vidhugrahe niśāṃ sarvāmahorātraṃ ravigrahe . tyajecchubhe tadā kuryānnaiva dīpotsavaṃ hareḥ .. 21.130 ..
पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न । अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहं ॥ २१.१३१ ॥
paścānniśīthādgrahaṇe dīpaṃ dāsyanti ke ca na . aviddheparvaṇi proktaṃ dīpadānaṃ śubhāvahaṃ .. 21.131 ..
ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेथ् । अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनं ॥ २१.१३२ ॥
grahaṇe'pi bhaveddīpamaviddhā pūrṇimā na ceth . aparvaṇyarpitaṃ dīpaṃ hanti puṇyaṃ purātanaṃ .. 21.132 ..
मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा । अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ॥ २१.१३३ ॥
māsarkṣeṣvanyapuṇvarkṣe viṣṇupañcadine tathā . arcanārthāya devasya kālo madhyāhna ucyate .. 21.133 ..
काम्ये तु सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्.
kāmye tu sumuhūrte syātpūjanaṃ nānyadhā caret.
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे एकविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre ekaviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In