| |
|

This overlay will guide you through the buttons:

अथैकोनविंशोऽध्यायः.
अथ एकोनविंशः अध्यायः।
atha ekonaviṃśaḥ adhyāyaḥ.
भगवदर्चनम्
अत ऊर्ध्वं ध्रुवार्चायां अर्चनं संप्रवक्ष्यते । मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत् ॥ १९.१ ॥
अतस् ऊर्ध्वम् ध्रुव-अर्चायाम् अर्चनम् संप्रवक्ष्यते । मूर्ध-आदि पीठात् सन्न्यस्त-पुष्प-आदीनि अपि शोधयेत् ॥ १९।१ ॥
atas ūrdhvam dhruva-arcāyām arcanam saṃpravakṣyate . mūrdha-ādi pīṭhāt sannyasta-puṣpa-ādīni api śodhayet .. 19.1 ..
योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेथ् । प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनं ॥ १९.२ ॥
योगवीर-अर्चनम् स्यात् चेद् त्रि-कालम् स्नानम् आचरेथ् । प्रातर् मध्याह्नयोः वा अथ योगपीठे ध्रुवाः रचनम् ॥ १९।२ ॥
yogavīra-arcanam syāt ced tri-kālam snānam ācareth . prātar madhyāhnayoḥ vā atha yogapīṭhe dhruvāḥ racanam .. 19.2 ..
भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि । त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः ॥ १९.३ ॥
भोगम् एव ध्रुव-अर्चायाम् प्रातर् मध्याह्न-योः अपि । त्रि-कालम् वा अथ संस्नाप्य ध्रुव-अर्चायाम् विशेषतः ॥ १९।३ ॥
bhogam eva dhruva-arcāyām prātar madhyāhna-yoḥ api . tri-kālam vā atha saṃsnāpya dhruva-arcāyām viśeṣataḥ .. 19.3 ..
वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत् । शिवादीनर्चयित्वातु पादपीठे समन्ततः ॥ १९.४ ॥
वस्त्र-आदीनि अपि संशोध्य पुष्प-न्यासम् च पूर्ववत् । शिव-आदीन् अर्चयित्वा तु पाद-पीठे समन्ततः ॥ १९।४ ॥
vastra-ādīni api saṃśodhya puṣpa-nyāsam ca pūrvavat . śiva-ādīn arcayitvā tu pāda-pīṭhe samantataḥ .. 19.4 ..
तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः । अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत् ॥ १९.५ ॥
तथा आसन-आद्यैः सर्वैः च त्रिसंध्यम् च अर्चयेत् बुधः । अर्ध-यामे तु पूर्व-अन्तम् अर्चयित्वा च पूर्ववत् ॥ १९।५ ॥
tathā āsana-ādyaiḥ sarvaiḥ ca trisaṃdhyam ca arcayet budhaḥ . ardha-yāme tu pūrva-antam arcayitvā ca pūrvavat .. 19.5 ..
हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववथ् । आवाहनविसर्गौ तुन कुर्यादिति शासनं ॥ १९.६ ॥
वेदयेत् च एव अन् उक्तम् अस्यत् च । आवाहन-विसर्गौ तु न कुर्यात् इति शासनम् ॥ १९।६ ॥
vedayet ca eva an uktam asyat ca . āvāhana-visargau tu na kuryāt iti śāsanam .. 19.6 ..
अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणां । सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेथ् ॥ १९.७ ॥
अथ वक्ष्येः विधानम् प्रति कर्मणाम् । सौवर्णम् उत्तमम् पात्रम् राजतम् मध्यमे ॥ १९।७ ॥
atha vakṣyeḥ vidhānam prati karmaṇām . sauvarṇam uttamam pātram rājatam madhyame .. 19.7 ..
अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते । त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत् ॥ १९.८ ॥
अधमम् ताम्र-पात्रम् तु त्रिविधम् मुच्यते । त्रि-तालम् उत्तमम् प्रोक्तम् द्वि-तालम् मध्यमम् भवेत् ॥ १९।८ ॥
adhamam tāmra-pātram tu trividham mucyate . tri-tālam uttamam proktam dvi-tālam madhyamam bhavet .. 19.8 ..
अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरं । विस्तारेण समाख्यातं तयोर्मध्यममध्यमं ॥ १९.९ ॥
अधमम् तु एक-तालम् स्यात् त्रिविधम् पात्र-विस्तरम् । विस्तारेण समाख्यातम् तयोः मध्यम-मध्यमम् ॥ १९।९ ॥
adhamam tu eka-tālam syāt trividham pātra-vistaram . vistāreṇa samākhyātam tayoḥ madhyama-madhyamam .. 19.9 ..
तस्य मध्ये त्रिभागैकं कर्णिकांगुलमुच्छ्रयं । परेतोऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः ॥ १९.१० ॥
तस्य मध्ये त्रि-भाग-एकम् कर्णिका-अंगुलम् उच्छ्रयम् । परेतः अष्टदलम् कुर्यात् कर्णिका-उच्छ्रय-मानतः ॥ १९।१० ॥
tasya madhye tri-bhāga-ekam karṇikā-aṃgulam ucchrayam . paretaḥ aṣṭadalam kuryāt karṇikā-ucchraya-mānataḥ .. 19.10 ..
द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकं । किञ्चित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः ॥ १९.११ ॥
द्वि-अङ्गुलम् मूलनाहम् स्यात् तद्-अग्रम् तु अर्धनाहकम् । किञ्चिद् फल-अंबुज-आकारम् अग्रम् कुर्यात् विचक्षणः ॥ १९।११ ॥
dvi-aṅgulam mūlanāham syāt tad-agram tu ardhanāhakam . kiñcid phala-aṃbuja-ākāram agram kuryāt vicakṣaṇaḥ .. 19.11 ..
द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत् । अभिघार्य घृतेनैव अष्टांगुलसमुन्नतं ॥ १९.१२ ॥
द्वि-प्रस्थ-तण्डुलैः पक्वम् अन्नम् तत्र एव निक्षिपेत् । अभिघार्य घृतेन एव अष्ट-अंगुल-समुन्नतम् ॥ १९।१२ ॥
dvi-prastha-taṇḍulaiḥ pakvam annam tatra eva nikṣipet . abhighārya ghṛtena eva aṣṭa-aṃgula-samunnatam .. 19.12 ..
दशाङ्गुलं वा उत्सेधं द्वादशांगुलमेववा । तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च ॥ १९.१३ ॥
दश-अङ्गुलम् वै उत्सेधम् द्वादश-अंगुलम् एव वा । तत् पात्रञ्च च समादाय कौतुक-अग्रे निधाय च ॥ १९।१३ ॥
daśa-aṅgulam vai utsedham dvādaśa-aṃgulam eva vā . tat pātrañca ca samādāya kautuka-agre nidhāya ca .. 19.13 ..
कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः । परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि ॥ १९.१४ ॥
कौतुकात् शक्तिम् आदाय च अर्चयेत् अष्ट-विग्रहैः । पर-ब्रह्माणम् इति उक्त्वा परमात्मानम् इति अपि ॥ १९।१४ ॥
kautukāt śaktim ādāya ca arcayet aṣṭa-vigrahaiḥ . para-brahmāṇam iti uktvā paramātmānam iti api .. 19.14 ..
भक्तवत्सलं योगेशंऽ चतुर्मूर्तिभिरर्चयेथ् । प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा ॥ १९.१५ ॥
भक्त-वत्सलम् योगेशम् चतुर्-मूर्तिभिः अर्चयेथ् । प्रातर् पुष्प-बलिम् कुर्यात् मध्याह्न-इन्न-बलिम् तथा ॥ १९।१५ ॥
bhakta-vatsalam yogeśam catur-mūrtibhiḥ arcayeth . prātar puṣpa-balim kuryāt madhyāhna-inna-balim tathā .. 19.15 ..
साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितं । तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा ॥ १९.१६ ॥
साये तु अर्घ्य-बलिम् कुर्यात् पूर्वम् एव प्रचोदितम् । तण्डुलैः कुडुबैः च अपि यथालाभम् अथ अपि वा ॥ १९।१६ ॥
sāye tu arghya-balim kuryāt pūrvam eva pracoditam . taṇḍulaiḥ kuḍubaiḥ ca api yathālābham atha api vā .. 19.16 ..
श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलं । शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकं ॥ १९.१७ ॥
श्रुतम् च अर्घ्य-बलिम् कुर्यात् पुष्बम् तु चतुर्-अङ्गुलम् । शिष्यम् आहूय तद्-काले स उष्णीषम् स उत्तरीयकम् ॥ १९।१७ ॥
śrutam ca arghya-balim kuryāt puṣbam tu catur-aṅgulam . śiṣyam āhūya tad-kāle sa uṣṇīṣam sa uttarīyakam .. 19.17 ..
शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै । उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेथ् ॥ १९.१८ ॥
शिष्यम् गरुड वत् स्मृत्वा पात्रम् उद्धृत्य तत्र वै । मन्त्रेण शिष्यः तद्-शिरसि ॥ १९।१८ ॥
śiṣyam garuḍa vat smṛtvā pātram uddhṛtya tatra vai . mantreṇa śiṣyaḥ tad-śirasi .. 19.18 ..
प्रदक्षिणं ततः कुर्यात्कुर्याच्छब्दरवैर्युतं । वितानछत्रसंयुक्तं पिञ्छचामरसंयुतं ॥ १९.१९ ॥
प्रदक्षिणम् ततस् कुर्यात् कुर्यात् शब्द-रवैः युतम् । वितान-छत्र-संयुक्तम् पिञ्छ-चामर-संयुतम् ॥ १९।१९ ॥
pradakṣiṇam tatas kuryāt kuryāt śabda-ravaiḥ yutam . vitāna-chatra-saṃyuktam piñcha-cāmara-saṃyutam .. 19.19 ..
धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणं । प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः ॥ १९.२० ॥
धूप-दीप-समायुक्तम् शनैस् कुर्यात् प्रदक्षिणम् । प्रदक्षिण-त्रयम् कृत्वा प्रविशेत् आलयम् भुधः ॥ १९।२० ॥
dhūpa-dīpa-samāyuktam śanais kuryāt pradakṣiṇam . pradakṣiṇa-trayam kṛtvā praviśet ālayam bhudhaḥ .. 19.20 ..
भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः । कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत् ॥ १९.२१ ॥
भूतपीठ-अन्तरे तिष्ठेत् गृह्णीयात् तु तद्-अर्चकः । कौतुक-अग्रे तु सन् न्यस्य ओङ्कारेण निवेशयेत् ॥ १९।२१ ॥
bhūtapīṭha-antare tiṣṭhet gṛhṇīyāt tu tad-arcakaḥ . kautuka-agre tu san nyasya oṅkāreṇa niveśayet .. 19.21 ..
बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेथ् । तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत् ॥ १९.२२ ॥
बलि-अग्रम् खण्डयित्वा तु सेनेशाय । तद्-शेषम् स उदकम् च एव भूतपीठे तु निक्षिपेत् ॥ १९।२२ ॥
bali-agram khaṇḍayitvā tu seneśāya . tad-śeṣam sa udakam ca eva bhūtapīṭhe tu nikṣipet .. 19.22 ..
उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमं । सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत् ॥ १९.२३ ॥
उत्सवम् कर्तु-कामः चेद् त्रि-संधिषु एवम् उत्तमम् । सायम् प्रातर् मध्यमम् स्यात् सायम् च एव अधमम् भवेत् ॥ १९।२३ ॥
utsavam kartu-kāmaḥ ced tri-saṃdhiṣu evam uttamam . sāyam prātar madhyamam syāt sāyam ca eva adhamam bhavet .. 19.23 ..
बलिं च बलिबेरं वा कारयेदिति के च न । बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतं ॥ १९.२४ ॥
बलिम् च बलिबेरम् वा कारयेत् इति के च न । बलि-अर्थम् च ऊर्ध्व-मानम् उदाहृतम् ॥ १९।२४ ॥
balim ca baliberam vā kārayet iti ke ca na . bali-artham ca ūrdhva-mānam udāhṛtam .. 19.24 ..
महाबेरस्य हस्तेन चैकविंशतिकांगुलं । सप्तदशाङ्गुलं विद्याद्द्वादशांगुलमेव वा ॥ १९.२५ ॥
महाबेरस्य हस्तेन च एकविंशतिक-अङ्गुलम् । सप्तदश-अङ्गुलम् विद्यात् द्वादश-अङ्गुलम् एव वा ॥ १९।२५ ॥
mahāberasya hastena ca ekaviṃśatika-aṅgulam . saptadaśa-aṅgulam vidyāt dvādaśa-aṅgulam eva vā .. 19.25 ..
श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेथ् । अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेथ् ॥ १९.२६ ॥
श्रेष्ठ-मध्य-कनिष्ठानि त्रिविधम् मानम् आचरेथ् । अर्चा-बेर-त्रि-भागैः ॥ १९।२६ ॥
śreṣṭha-madhya-kaniṣṭhāni trividham mānam ācareth . arcā-bera-tri-bhāgaiḥ .. 19.26 ..
तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् । मध्यमस्य दशांशेन त्वेकोनमधमं भवेत् ॥ १९.२७ ॥
तद्-मानस्य दश-अंशेन तु एकोनम् मध्यमम् भवेत् । मध्यमस्य दश-अंशेन तु एकोनम् अधमम् भवेत् ॥ १९।२७ ॥
tad-mānasya daśa-aṃśena tu ekonam madhyamam bhavet . madhyamasya daśa-aṃśena tu ekonam adhamam bhavet .. 19.27 ..
महतो मूलबेरस्य मुखायामं प्रशस्यते । बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत् ॥ १९.२८ ॥
महतः मूलबेरस्य मुख-आयामम् प्रशस्यते । बलि-अर्थम् प्रतिमाम् कुर्यात् सर्वेषाम् स्थापनम् भवेत् ॥ १९।२८ ॥
mahataḥ mūlaberasya mukha-āyāmam praśasyate . bali-artham pratimām kuryāt sarveṣām sthāpanam bhavet .. 19.28 ..
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः । रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते ॥ १९.२९ ॥
सौवर्णम् राजतम् ताम्रम् श्रेष्ठ-मध्यम-गौणतः । रत्न-ज-प्रतिमाम् कुर्यात् मान-उन्मानम् न विद्यते ॥ १९।२९ ॥
sauvarṇam rājatam tāmram śreṣṭha-madhyama-gauṇataḥ . ratna-ja-pratimām kuryāt māna-unmānam na vidyate .. 19.29 ..
उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकं । केशान्तार्चा समं भागं संगमात्पुटसूत्रकं ॥ १९.३० ॥
उष्णीषम् गोलकम् ज्ञेयम् शिरः-मानम् त्रि-मात्रकम् । केशान्त-अर्चा समम् भागम् संगमात् पुट-सूत्रकम् ॥ १९।३० ॥
uṣṇīṣam golakam jñeyam śiraḥ-mānam tri-mātrakam . keśānta-arcā samam bhāgam saṃgamāt puṭa-sūtrakam .. 19.30 ..
पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः । गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते ॥ १९.३१ ॥
पुट-सूत्रात् धनु-पर्यन्तम् एकम् एकम् तु भागशस् । गलम् अर्ध-अङ्गुलम् विन्द्यात् मात्रा-अर्धम् ग्रीवम् उच्यते ॥ १९।३१ ॥
puṭa-sūtrāt dhanu-paryantam ekam ekam tu bhāgaśas . galam ardha-aṅgulam vindyāt mātrā-ardham grīvam ucyate .. 19.31 ..
हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेथ् । हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समं ॥ १९.३२ ॥
हिक्का-हृदय-पर्यन्तम् मुखम् मात्रा-अधिकम् । हृदयम् नाभि तथा एव उक्तम् तद्-अधस्तात् तु तत् समम् ॥ १९।३२ ॥
hikkā-hṛdaya-paryantam mukham mātrā-adhikam . hṛdayam nābhi tathā eva uktam tad-adhastāt tu tat samam .. 19.32 ..
ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते । चरणं जानुमानं च कालायपुरतो परम्? ॥ १९.३३ ॥
ऊरू च द्वि-मुख-आयामम् गोलक-उत्सेधम् इष्यते । चरणम् जानु-मानम् च परम्? ॥ १९।३३ ॥
ūrū ca dvi-mukha-āyāmam golaka-utsedham iṣyate . caraṇam jānu-mānam ca param? .. 19.33 ..
हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकं । प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत् । १९.३४ ॥
हिक्का-सूत्रात् अधस्तात् तु बाहु-द्वि-मुख-नेत्रकम् । प्रकोष्ठम् मुखबन्धम् च मुखम् अर्ध-अधिकम् भवेत् । १९।३४ ॥
hikkā-sūtrāt adhastāt tu bāhu-dvi-mukha-netrakam . prakoṣṭham mukhabandham ca mukham ardha-adhikam bhavet . 19.34 ..
मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते । चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतं ॥ १९.३५ ॥
मणिबन्ध-अङ्गुलस्य अग्रे मुख-यामम् प्रशस्यते । चतुर्-भुजम् च कृत्वा तु मानम् एवम् उदाहृतम् ॥ १९।३५ ॥
maṇibandha-aṅgulasya agre mukha-yāmam praśasyate . catur-bhujam ca kṛtvā tu mānam evam udāhṛtam .. 19.35 ..
.........वकुर्यात्पद्माकारं तु गोलकं । अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः ॥ १९.३६ ॥
॥॥॥॥।वकुर्यात् पद्म-आकारम् तु गोलकम् । अथ वक्ष्ये विशेषेण हविष्पाकम् विधानतः ॥ १९।३६ ॥
.........vakuryāt padma-ākāram tu golakam . atha vakṣye viśeṣeṇa haviṣpākam vidhānataḥ .. 19.36 ..
पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेथ् । अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ १९.३७ ॥
पक्त्वा वित्त-अनुसारेण हवींषि अपि च । अल्पे महति वा तुल्यम् फलम् आढ्य-दरिद्रयोः ॥ १९।३७ ॥
paktvā vitta-anusāreṇa havīṃṣi api ca . alpe mahati vā tulyam phalam āḍhya-daridrayoḥ .. 19.37 ..
निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः । अवदत्वा? घृतं यत्तु कल्याणमशुभायवै ॥ १९.३८ ॥
निवेदयित्वा देवेशम् कल्याणम् कारयेत् बुधः । अ वद त्वा? घृतम् यत् तु कल्याणम् अशुभाय वै ॥ १९।३८ ॥
nivedayitvā deveśam kalyāṇam kārayet budhaḥ . a vada tvā? ghṛtam yat tu kalyāṇam aśubhāya vai .. 19.38 ..
अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस्तथा ।
अलाभे च एव सर्वेषाम् व्रीहीणाम् तण्डुलाम् ःस् तथा ।
alābhe ca eva sarveṣām vrīhīṇām taṇḍulām ḥs tathā .
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यथ् । शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेथ् ॥ १९.४० ॥
शत-द्वयम् पञ्चविंशत्-व्रीहिभिः पूरितम् तु यथा । शुक्ति-मात्रम् इति ख्यातम् मानम् तेन एव ॥ १९।४० ॥
śata-dvayam pañcaviṃśat-vrīhibhiḥ pūritam tu yathā . śukti-mātram iti khyātam mānam tena eva .. 19.40 ..
तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयं । प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयं ॥ १९.४१ ॥
तद्-द्वयम् तिलम् इति उक्तम् प्रकुञ्चम् स्यात् तिल-द्वयम् । प्रसृतिः तद्-द्वयम् प्रोक्तम् कुडुबम् प्रसृति-द्वयम् ॥ १९।४१ ॥
tad-dvayam tilam iti uktam prakuñcam syāt tila-dvayam . prasṛtiḥ tad-dvayam proktam kuḍubam prasṛti-dvayam .. 19.41 ..
अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयं । पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेथ् ॥ १९.४२ ॥
अञ्जलिः स्तद्-द्वयम् प्रोक्तम् प्रस्थम् स्यात् अञ्जलि-द्वयम् । पात्रम् प्रस्थ-द्वयम् प्रोक्तम् आढकम् तद्-द्वयम् ॥ १९।४२ ॥
añjaliḥ stad-dvayam proktam prastham syāt añjali-dvayam . pātram prastha-dvayam proktam āḍhakam tad-dvayam .. 19.42 ..
चतुराढकसंयुक्तं द्रोणमित्यभिधीयते । द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत् ॥ १९.४३ ॥
चतुर्-आढक-संयुक्तम् द्रोणम् इति अभिधीयते । भवेत् भारङ्खारी-द्वयम् भवेत् ॥ १९।४३ ॥
catur-āḍhaka-saṃyuktam droṇam iti abhidhīyate . bhavet bhāraṅkhārī-dvayam bhavet .. 19.43 ..
द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते । तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेथ् ॥ १९.४४ ॥
द्रोण-तण्डुल-संयुक्तम् उत्तमम् हविः उच्यते । तद्-अर्धम् मध्यमम् प्रोक्तन् तद्-अर्धम् अधमम् ॥ १९।४४ ॥
droṇa-taṇḍula-saṃyuktam uttamam haviḥ ucyate . tad-ardham madhyamam proktan tad-ardham adhamam .. 19.44 ..
उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः । अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः ॥ १९.४५ ॥
उत्तमोत्तमम् इति उक्तम् अष्ट-द्रोणैः तु तण्डुलैः । अधिकम् यत् भवेत् तस्मात् प्रोक्तम् सर्वम् महाहविः ॥ १९।४५ ॥
uttamottamam iti uktam aṣṭa-droṇaiḥ tu taṇḍulaiḥ . adhikam yat bhavet tasmāt proktam sarvam mahāhaviḥ .. 19.45 ..
तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते । षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमं ॥ १९.४६ ॥
तद्-अर्धैः तण्डुलैः सिद्धम् मध्यमम् हविः उच्यते । षष्-द्रोणैः तण्डुलैः सिद्धम् हविः उत्तम-मध्यमम् ॥ १९।४६ ॥
tad-ardhaiḥ taṇḍulaiḥ siddham madhyamam haviḥ ucyate . ṣaṣ-droṇaiḥ taṇḍulaiḥ siddham haviḥ uttama-madhyamam .. 19.46 ..
द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते । मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः ॥ १९.४७ ॥
द्रोण-हीनम् भवेत् तस्मात् उत्तम-अधमम् उच्यते । मध्यम-उत्तमम् इति उक्तम् चतुर्-द्रेणैः तु तण्डुलैः ॥ १९।४७ ॥
droṇa-hīnam bhavet tasmāt uttama-adhamam ucyate . madhyama-uttamam iti uktam catur-dreṇaiḥ tu taṇḍulaiḥ .. 19.47 ..
द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमं । मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः ॥ १९.४८ ॥
द्रोण-त्रयम् भवेत् यत्र कृतम् । मध्यम-अधमम् इति उक्तम् द्रोण-द्वय-कृतम् हविः ॥ १९।४८ ॥
droṇa-trayam bhavet yatra kṛtam . madhyama-adhamam iti uktam droṇa-dvaya-kṛtam haviḥ .. 19.48 ..
द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमं । तस्य मध्यममित्युक्तमाढकद्वय सम्मितं ॥ १९.४९ ॥
द्रोणेन तण्डुलेन एव निवेद्य अम्-अधम-उत्तमम् । तस्य मध्यमम् इति उक्तम् आढक-द्वय-सम्मितम् ॥ १९।४९ ॥
droṇena taṇḍulena eva nivedya am-adhama-uttamam . tasya madhyamam iti uktam āḍhaka-dvaya-sammitam .. 19.49 ..
आढकेन तु संयुक्त मधसूधममुच्यते । तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत् ॥ १९.५० ॥
आढकेन तु संयुक्त । तण्डुल-अनाढक-अर्धम् तु देवीनाम् तु प्रकल्पयेत् ॥ १९।५० ॥
āḍhakena tu saṃyukta . taṇḍula-anāḍhaka-ardham tu devīnām tu prakalpayet .. 19.50 ..
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते । प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत् ॥ १९.५१ ॥
चरु-प्रस्थ-द्वयम् प्रोक्तम् हविः आढकम् उच्यते । प्रस्थम् कुडुब-संयुक्तम् पिशाचानाम् बलिः भवेत् ॥ १९।५१ ॥
caru-prastha-dvayam proktam haviḥ āḍhakam ucyate . prastham kuḍuba-saṃyuktam piśācānām baliḥ bhavet .. 19.51 ..
गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा । प्रक्षाल्य तण्डुलान्सम्यक्निष्बीड्य च पुनःपुनः ॥ १९.५२ ॥
गन्ध-वर्ण-रसैः जुष्टाः प्रग्राह्याः तण्डुलाः तथा । प्रक्षाल्य तण्डुलान् सम्यक् निष्बीड्य च पुनर् पुनर् ॥ १९।५२ ॥
gandha-varṇa-rasaiḥ juṣṭāḥ pragrāhyāḥ taṇḍulāḥ tathā . prakṣālya taṇḍulān samyak niṣbīḍya ca punar punar .. 19.52 ..
चतुः प्रक्षालनं कृत्वा प्रजास्थाऽलीति मन्त्रतः । ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ॥ १९.५३ ॥
चतुः प्रक्षालनम् कृत्वा प्रजा-स्था अली इति मन्त्रतः । ऊर्जस्वति इति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ॥ १९।५३ ॥
catuḥ prakṣālanam kṛtvā prajā-sthā alī iti mantrataḥ . ūrjasvati iti mantreṇa pātre prakṣipya taṇḍulān .. 19.53 ..
छुल्ल्यामारोपयेत्पश्चा द्विष्णवे जुष्टऽमित्यपि । वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत् ॥ १९.५४ ॥
छुल्ल्याम् आरोपयेत् पश्चात् द्विष्णवे जुष्टम् इति अपि । वाचस्पति इति मन्त्रेण हविः स्विन्नन्तु पाचयेत् ॥ १९।५४ ॥
chullyām āropayet paścāt dviṣṇave juṣṭam iti api . vācaspati iti mantreṇa haviḥ svinnantu pācayet .. 19.54 ..
धूमगन्धरसं स्विन्नमतिपक्वं च शीतलं । केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा ॥ १९.५५ ॥
धूम-गन्ध-रसम् स्विन्नम् अतिपक्वम् च शीतलम् । केश-कीट-अपविद्धम् तु त्यजेत् पर्युषितम् तथा ॥ १९।५५ ॥
dhūma-gandha-rasam svinnam atipakvam ca śītalam . keśa-kīṭa-apaviddham tu tyajet paryuṣitam tathā .. 19.55 ..
मुद्गं चैव महामुद्गं कूटस्थं राजमाषकं । कदली पनसं चैव कूश्माण्डं बृहती तथा ॥ १९.५६ ॥
मुद्गम् च एव महामुद्गम् कूटस्थम् राजमाषकम् । कदली पनसम् च एव कूश्माण्डम् बृहती तथा ॥ १९।५६ ॥
mudgam ca eva mahāmudgam kūṭastham rājamāṣakam . kadalī panasam ca eva kūśmāṇḍam bṛhatī tathā .. 19.56 ..
कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः । गुडं दधि समायुक्तमाज्ययुक्तं......... ॥ १९.५७ ॥
कन्द-मूल-फलानि अन्ये सार-आढ्याः उपदंशकाः । गुडम् दधि समायुक्तम् आज्य-युक्तम्॥॥॥॥। ॥ १९।५७ ॥
kanda-mūla-phalāni anye sāra-āḍhyāḥ upadaṃśakāḥ . guḍam dadhi samāyuktam ājya-yuktam......... .. 19.57 ..
हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेथ् । अधस्तादेकभागेन होमार्थं बलये तथा ॥ १९.५८ ॥
हविः कृत्वा चतुर्भागम् ऊर्ध्वभागे निवेदयेथ् । अधस्तात् एक-भागेन होम-अर्थम् बलये तथा ॥ १९।५८ ॥
haviḥ kṛtvā caturbhāgam ūrdhvabhāge nivedayeth . adhastāt eka-bhāgena homa-artham balaye tathā .. 19.58 ..
यदंशं पात्रसंशिष्टं पूजायैव च निर्मितं । सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ॥ १९.५९ ॥
यद्-अंशम् पात्र-संशिष्टम् पूजाय एव च निर्मितम् । सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ॥ १९।५९ ॥
yad-aṃśam pātra-saṃśiṣṭam pūjāya eva ca nirmitam . sauvarṇe rājate pātre kāñcye tāmre nivedayet .. 19.59 ..
अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः । तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः ॥ १९.६० ॥
अग्नि कार्य-अवशिष्टम् च बलि-शिष्टम् च यत् हविः । तत् सर्वम् पूजकाय एव प्रोक्तम् एवम् मनीषिभिः ॥ १९।६० ॥
agni kārya-avaśiṣṭam ca bali-śiṣṭam ca yat haviḥ . tat sarvam pūjakāya eva proktam evam manīṣibhiḥ .. 19.60 ..
द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयं । अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत् ॥ १९.६१ ॥
द्वितीय-आवरणे प्रोक्तम् आग्नेय्याम् पचन-आलयम् । अर्चकस्य गृहे वा अपि पाचयित्वा निवेदयेत् ॥ १९।६१ ॥
dvitīya-āvaraṇe proktam āgneyyām pacana-ālayam . arcakasya gṛhe vā api pācayitvā nivedayet .. 19.61 ..
प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च । अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितं ॥ १९.६२ ॥
प्रणिधिम् च आज्य-स्थालीम् च प्रोक्षणी-पात्रम् एव च । अर्घ्य-प्रदान-पात्रम् च कुडुबेन प्रपूरितम् ॥ १९।६२ ॥
praṇidhim ca ājya-sthālīm ca prokṣaṇī-pātram eva ca . arghya-pradāna-pātram ca kuḍubena prapūritam .. 19.62 ..
हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः । पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा ॥ १९.६३ ॥
बलि-पात्र-प्रमाणतः । पानीय-दान-पात्रम् च कांस्यम् शुक्तिजम् एव वा ॥ १९।६३ ॥
bali-pātra-pramāṇataḥ . pānīya-dāna-pātram ca kāṃsyam śuktijam eva vā .. 19.63 ..
हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतं । तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि ॥ १९.६४ ॥
हिरण्मयम् वा रौप्यम् वा यधाशोभम् अलङ्कृतम् । तांबूल-दाने पि एवम् स्यात् सौवर्णम् कांस्यम् एव हि ॥ १९।६४ ॥
hiraṇmayam vā raupyam vā yadhāśobham alaṅkṛtam . tāṃbūla-dāne pi evam syāt sauvarṇam kāṃsyam eva hi .. 19.64 ..
दपन्णं च प्रदातव्यं ध्रुवानससमं भवेथ् । आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितं ॥ १९.६५ ॥
च प्रदातव्यम् ध्रुव-आनस-समम् । आवाहन-अर्थ-प्रणिथिम् प्रस्थ-मात्र-प्रपूरितम् ॥ १९।६५ ॥
ca pradātavyam dhruva-ānasa-samam . āvāhana-artha-praṇithim prastha-mātra-prapūritam .. 19.65 ..
कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितं । गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितं ॥ १९.६६ ॥
कलुषम् कृमि-शैवाल-युक्तम् सूत्र-विवर्जितम् । गन्ध-वर्ण-रसैः जुष्टम् अशुचि-स्थानम् आश्रितम् ॥ १९।६६ ॥
kaluṣam kṛmi-śaivāla-yuktam sūtra-vivarjitam . gandha-varṇa-rasaiḥ juṣṭam aśuci-sthānam āśritam .. 19.66 ..
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकं । अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितं ॥ १९.६७ ॥
पङ्क-अश्म-दूषितम् च एव सामुद्रम् पल्वल-उदकम् । अग्राह्यम् उदकम् ग्राह्यम् एभिः देषैः विवर्जितम् ॥ १९।६७ ॥
paṅka-aśma-dūṣitam ca eva sāmudram palvala-udakam . agrāhyam udakam grāhyam ebhiḥ deṣaiḥ vivarjitam .. 19.67 ..
उत्तमं त्रिगुणैरद्भिस्सानं चाथममुच्यते । अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेथ् ॥ १९.६८ ॥
उत्तमम् त्रिगुणैः अद्भिः सानम् च अथमम् उच्यते । अभिषेकः मध्यमे मध्यमम् बवेथ् ॥ १९।६८ ॥
uttamam triguṇaiḥ adbhiḥ sānam ca athamam ucyate . abhiṣekaḥ madhyame madhyamam baveth .. 19.68 ..
उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते । एलालवङ्गतक्कोलजातीफलसमन्वितं ॥ १९.६९ ॥
उशीर-चन्दन-उपेतम् यत् जलम् पाद्यम् उच्यते । एला-लवङ्ग-तक्कोल-जातीफल-समन्वितम् ॥ १९।६९ ॥
uśīra-candana-upetam yat jalam pādyam ucyate . elā-lavaṅga-takkola-jātīphala-samanvitam .. 19.69 ..
आप आचमनीयार्थमुशीरामयचन्दनैः । आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः ॥ १९.७० ॥
आपः आचमनीय-अर्थम् उशीर-आमय-चन्दनैः । आपः क्षीर-कुश-अग्र-आदि यव-सिद्धार्थ-तण्डुलैः ॥ १९।७० ॥
āpaḥ ācamanīya-artham uśīra-āmaya-candanaiḥ . āpaḥ kṣīra-kuśa-agra-ādi yava-siddhārtha-taṇḍulaiḥ .. 19.70 ..
तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते । चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते, ॥ १९.७१ ॥
तिल-व्रीहि-समायुक्तैः अर्घ्यम् अष्टाङ्ग मुच्यते । चन्दनम् च अगुरुः च एव कुङ्कुमम् गन्धः उच्यते, ॥ १९।७१ ॥
tila-vrīhi-samāyuktaiḥ arghyam aṣṭāṅga mucyate . candanam ca aguruḥ ca eva kuṅkumam gandhaḥ ucyate, .. 19.71 ..
एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयं । उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतं ॥ १९.७२ ॥
एकम् द्वयम् त्रयम् वा अपि कर्बूरेण चतुष्टयम् । उशीर-चन्टन-उपेतम् घृत-युक्तम् घृत-आप्लुतम् ॥ १९।७२ ॥
ekam dvayam trayam vā api karbūreṇa catuṣṭayam . uśīra-canṭana-upetam ghṛta-yuktam ghṛta-āplutam .. 19.72 ..
किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः । गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते ॥ १९.७३ ॥
किञ्चिद् कर्बूर-संयुक्तम् धूपम् इति उच्यते बुधैः । गो-घृतेन कृतम् यत् तु दीपम् उत्तमम् उच्यते ॥ १९।७३ ॥
kiñcid karbūra-saṃyuktam dhūpam iti ucyate budhaiḥ . go-ghṛtena kṛtam yat tu dīpam uttamam ucyate .. 19.73 ..
चतुरङ्गुलमायामं राजसं दीपमेव हि । दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते ॥ १९.७४ ॥
चतुर्-अङ्गुलम् आयामम् राजसम् दीपम् एव हि । दीपम् मध्यमम् दीपम् उच्यते ॥ १९।७४ ॥
catur-aṅgulam āyāmam rājasam dīpam eva hi . dīpam madhyamam dīpam ucyate .. 19.74 ..
अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितं । कापिलेन गृतेनापि कृतं कर्बूरवर्तिकं ॥ १९.७५ ॥
अधमम् तु भवेत् दीपम् अङ्गुल-द्वय-सम्मितम् । कापिलेन गृतेन अपि कृतम् कर्बूरवर्तिकम् ॥ १९।७५ ॥
adhamam tu bhavet dīpam aṅgula-dvaya-sammitam . kāpilena gṛtena api kṛtam karbūravartikam .. 19.75 ..
दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकं । तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा ॥ १९.७६ ॥
सर्व । तामसम् तु भवेत् दीपम् माहिषेण तु सर्पिषा ॥ १९।७६ ॥
sarva . tāmasam tu bhavet dīpam māhiṣeṇa tu sarpiṣā .. 19.76 ..
वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते । तामसं वापि पैशाचमयोग्यं दीपमुच्यते ॥ १९.७७ ॥
वृक्ष-बीज-उद्भव-स्नेह-दीपम् पैशाचम् उच्यते । तामसम् वा अपि पैशाचम् अयोग्यम् दीपम् उच्यते ॥ १९।७७ ॥
vṛkṣa-bīja-udbhava-sneha-dīpam paiśācam ucyate . tāmasam vā api paiśācam ayogyam dīpam ucyate .. 19.77 ..
क्ष्ॐअं कार्पासजं वस्त्रं वक्षभेदाङ्गसंभवं । दशहस्तायतं चैव विस्तारं तु द्विहस्तकं ॥ १९.७८ ॥
क्षोंअम् कार्पास-जम् वस्त्रम् वक्षभेद-अङ्ग-संभवम् । दश-हस्त-आयतम् च एव विस्तारम् तु द्वि-हस्तकम् ॥ १९।७८ ॥
kṣoṃam kārpāsa-jam vastram vakṣabheda-aṅga-saṃbhavam . daśa-hasta-āyatam ca eva vistāram tu dvi-hastakam .. 19.78 ..
मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते । बेरायामार्धमानेन वस्त्रविस्तार मुच्यते ॥ १९.७९ ॥
मनोहरम् तु सु श्लक्ष्णम् विशेषम् वस्त्रम् उच्यते । मुच्यते ॥ १९।७९ ॥
manoharam tu su ślakṣṇam viśeṣam vastram ucyate . mucyate .. 19.79 ..
विस्ताराष्टगुणायामं सदशं तु सलक्षणं । मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतं ॥ १९.८० ॥
विस्तार-अष्टगुण-आयामम् स दशम् तु स लक्षणम् । मयूर-पिञ्छैः कुर्यात् तु चतुर्-तालम् तु विस्तृतम् ॥ १९।८० ॥
vistāra-aṣṭaguṇa-āyāmam sa daśam tu sa lakṣaṇam . mayūra-piñchaiḥ kuryāt tu catur-tālam tu vistṛtam .. 19.80 ..
अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा । पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा ॥ १९.८१ ॥
अधोमुखम् तु कर्तव्यम् अतस् ऊर्ध्व-मुखम् तथा । पञ्च-अरत्नि-प्रमाणा इव दण्डः स्यात् अधमम् तथा ॥ १९।८१ ॥
adhomukham tu kartavyam atas ūrdhva-mukham tathā . pañca-aratni-pramāṇā iva daṇḍaḥ syāt adhamam tathā .. 19.81 ..
अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा । एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते ॥ १९.८२ ॥
अधिकम् द्वादश-अङ्गुल्यम् वा । एवम् पिञ्छम् समाख्यातम् छत्र-लक्षणम् उच्यते ॥ १९।८२ ॥
adhikam dvādaśa-aṅgulyam vā . evam piñcham samākhyātam chatra-lakṣaṇam ucyate .. 19.82 ..
षट्तानं छत्रविस्तारमुत्तमं समुदाहृतं । मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमं ॥ १९.८३ ॥
षष्-तानम् छत्र-विस्तारम् उत्तमम् समुदाहृतम् । मध्यमम् पञ्च-तालम् स्यात् च तुः-तालम् अथ अधमम् ॥ १९।८३ ॥
ṣaṣ-tānam chatra-vistāram uttamam samudāhṛtam . madhyamam pañca-tālam syāt ca tuḥ-tālam atha adhamam .. 19.83 ..
मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा । वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा ॥ १९.८४ ॥
मौक्तिकम् तु भवेत् छत्रम् वस्त्र-ईश-अपि हितम् तथा । वस्त्रेण वा तथा कुर्यात् तालपत्रम् अथ अपि वा ॥ १९।८४ ॥
mauktikam tu bhavet chatram vastra-īśa-api hitam tathā . vastreṇa vā tathā kuryāt tālapatram atha api vā .. 19.84 ..
छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवथ् । सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकं ॥ १९.८५ ॥
छत्रम् तु अधोमुखम् प्रोक्तम् दण्डम् पिञ्छस्य । सुवर्ण-रत्न-संयुक्तम् कुर्यात् आभरण-आदिकम् ॥ १९।८५ ॥
chatram tu adhomukham proktam daṇḍam piñchasya . suvarṇa-ratna-saṃyuktam kuryāt ābharaṇa-ādikam .. 19.85 ..
मुकुटं कुण्डलं चैव हारं कैयूरकं तथा । कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे ॥ १९.८६ ॥
मुकुटम् कुण्डलम् च एव हारम् कैयूरकम् तथा । कटकम् कटिसूत्रम् च पुष्पम् वै हार-नूपुरे ॥ १९।८६ ॥
mukuṭam kuṇḍalam ca eva hāram kaiyūrakam tathā . kaṭakam kaṭisūtram ca puṣpam vai hāra-nūpure .. 19.86 ..
कुर्यादुदरबन्धं च रत्नहारं च मेखलां । हारं च कर्णपुष्पं च प्रतिमाया यथार्हकं ॥ १९.८७ ॥
कुर्यात् उदर-बन्धम् च रत्न-हारम् च मेखलाम् । हारम् च कर्ण-पुष्पम् च प्रतिमायाः यथार्हकम् ॥ १९।८७ ॥
kuryāt udara-bandham ca ratna-hāram ca mekhalām . hāram ca karṇa-puṣpam ca pratimāyāḥ yathārhakam .. 19.87 ..
चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः । दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकं ॥ १९.८८ ॥
चामरैः चामरम् कुर्यात् पिञ्छैः वा अपि मयूर-जैः । दण्डम् हक्त-प्रमाणम् स्यात् बाल-दण्ड-प्रमाणकम् ॥ १९।८८ ॥
cāmaraiḥ cāmaram kuryāt piñchaiḥ vā api mayūra-jaiḥ . daṇḍam hakta-pramāṇam syāt bāla-daṇḍa-pramāṇakam .. 19.88 ..
हेमरत्नमयं दण्डं तारताम्रमयं तथा । अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेथ् ॥ १९.८९ ॥
हेम-रत्न-मयम् दण्डम् तार-ताम्र-मयम् तथा । अथ वा दारु-दण्डम् स्यात् मयूर-पिञ्छम् च ॥ १९।८९ ॥
hema-ratna-mayam daṇḍam tāra-tāmra-mayam tathā . atha vā dāru-daṇḍam syāt mayūra-piñcham ca .. 19.89 ..
एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते । क्ष्ॐअकार्पाससंयुक्तं द्वारमानन्तु कारयेथ् ॥ १९.९० ॥
एवम् तु चामरम् प्रोक्तम् प्रच्छन्नपटम् उच्यते । क्षों अ कार्पास-संयुक्तम् ॥ १९।९० ॥
evam tu cāmaram proktam pracchannapaṭam ucyate . kṣoṃ a kārpāsa-saṃyuktam .. 19.90 ..
अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमं । सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः ॥ १९.९१ ॥
अथ वक्ष्ये विशेषेण सहस्रधारा-विधि-क्रमम् । सौवर्णम् राजतम् वा अपि ताम्रम् वा अपि स्व-शक्तितः ॥ १९।९१ ॥
atha vakṣye viśeṣeṇa sahasradhārā-vidhi-kramam . sauvarṇam rājatam vā api tāmram vā api sva-śaktitaḥ .. 19.91 ..
उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशांगुलं । अष्टांगुलं तदधमं यथाशक्ति च कारयेथ् ॥ १९.९२ ॥
उत्तमम् षोडश-अङ्गुल्यम् मध्यमम् द्वादश-अंगुलम् । अष्ट-अंगुलम् तद्-अधमम् यथाशक्ति ॥ १९।९२ ॥
uttamam ṣoḍaśa-aṅgulyam madhyamam dvādaśa-aṃgulam . aṣṭa-aṃgulam tad-adhamam yathāśakti .. 19.92 ..
एतैरङ्गुलिभिस्सम्यक्भ्रमीकृत्य च चन्द्रवथ् । भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः ॥ १९.९३ ॥
एतैः अङ्गुलिभिः सम्यक् भ्रमीकृत्य च । भागम् भित्ति-उन्नतम् प्रोक्तम् गोलकम् वा विशेषतः ॥ १९।९३ ॥
etaiḥ aṅgulibhiḥ samyak bhramīkṛtya ca . bhāgam bhitti-unnatam proktam golakam vā viśeṣataḥ .. 19.93 ..
सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतं । कर्णि कायामविस्तारं गोलकं तु यवोन्नतं ॥ १९.९४ ॥
सीमावृत्तम् तु विस्तारम् अष्ट-अङ्गुलम् इति स्मृतम् । कर्णि कायाम-विस्तारम् गोलकम् तु यव-उन्नतम् ॥ १९।९४ ॥
sīmāvṛttam tu vistāram aṣṭa-aṅgulam iti smṛtam . karṇi kāyāma-vistāram golakam tu yava-unnatam .. 19.94 ..
मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेथ् । कर्णिकामभितः कुर्याद्दलान्यष्ट सुसंगतं ॥ १९.९५ ॥
मध्ये रत्नम् सुवर्णम् वा यथा शक्ति । कर्णिकाम् अभितस् कुर्यात् दलानि अष्ट सु संगतम् ॥ १९।९५ ॥
madhye ratnam suvarṇam vā yathā śakti . karṇikām abhitas kuryāt dalāni aṣṭa su saṃgatam .. 19.95 ..
परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः । चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेथ् ॥ १९.९६ ॥
परितस् षोडश-दलम् द्वात्रिंशत्-कर्णिकम् बहिस् । चतुष्षष्टि-समायुक्तम् दलम् बाह्ये ॥ १९।९६ ॥
paritas ṣoḍaśa-dalam dvātriṃśat-karṇikam bahis . catuṣṣaṣṭi-samāyuktam dalam bāhye .. 19.96 ..
दले यवद्वयघनं रेखामपि च कारयेथ् । सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेथ् ॥ १९.९७ ॥
दले यव-द्वय-घनम् रेखाम् अपि च । सहस्र-सुषिरैः युक्तम् समान-उक्तम् च ॥ १९।९७ ॥
dale yava-dvaya-ghanam rekhām api ca . sahasra-suṣiraiḥ yuktam samāna-uktam ca .. 19.97 ..
षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतं । मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतं ॥ १९.९८ ॥
षोडश-द्वादश-अष्टाभिः अङ्गुलि-आयाम-विस्तृतम् । मालम् तद्-हस्त-विस्तारम् शङ्ख-अन्तर-समीकृतम् ॥ १९।९८ ॥
ṣoḍaśa-dvādaśa-aṣṭābhiḥ aṅguli-āyāma-vistṛtam . mālam tad-hasta-vistāram śaṅkha-antara-samīkṛtam .. 19.98 ..
पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ । शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, ॥ १९.९९ ॥
पद्म-आकृतिम् च कृत्वा तु तौ च नाल-समायुतौ । शेषम् युक्त्या प्रकुर्वीत जल-निर्गमनम् बुधः,, ॥ १९।९९ ॥
padma-ākṛtim ca kṛtvā tu tau ca nāla-samāyutau . śeṣam yuktyā prakurvīta jala-nirgamanam budhaḥ,, .. 19.99 ..
सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेथ् । प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेथ् ॥ १९.१०० ॥
सर्व-सैन्दर्य-संयुक्तम् तथाकारम् च । प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेथ् ॥ १९।१०० ॥
sarva-saindarya-saṃyuktam tathākāram ca . prakṣālya pañcagavyena śodhanīyena śodhayeth .. 19.100 ..
देवालयस्य पुरितो गोमयेनोपलिप्य च । थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेथ् ॥ १९.१०१ ॥
देवालयस्य पुरितः गोमयेन उपलिप्य च । समास्तीर्य वस्त्रम् च उपरि विन्यसेथ् ॥ १९।१०१ ॥
devālayasya puritaḥ gomayena upalipya ca . samāstīrya vastram ca upari vinyaseth .. 19.101 ..
उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववथ् । आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः, ॥ १९.१०२ ॥
उत्तरे वास्तु-होमम् च पर्यक्निम् च एव पूर्ववथ् । आचार्यम् पूजयेत् तत्र नव-वस्त्र-अङ्गुलीयकाः, ॥ १९।१०२ ॥
uttare vāstu-homam ca paryaknim ca eva pūrvavath . ācāryam pūjayet tatra nava-vastra-aṅgulīyakāḥ, .. 19.102 ..
तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा । शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेथ् ॥ १९.१०३ ॥
तन्त्र-इन्दु-मण्डलम् ध्यात्वा पद्मे पद्मनिधिम् तथा । शङ्खे शङ्खनिधिम् तद्वत् आवाह्य एव ॥ १९।१०३ ॥
tantra-indu-maṇḍalam dhyātvā padme padmanidhim tathā . śaṅkhe śaṅkhanidhim tadvat āvāhya eva .. 19.103 ..
पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः । बिंबशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च ॥ १९.१०४ ॥
पुण्याहम् वाचयित्वा तु दक्षिणाम् च ददेत् पुनर् । बिंब-शुद्धिम् च कृत्वा तु मन्त्रेण एव अभिषिच्य च ॥ १९।१०४ ॥
puṇyāham vācayitvā tu dakṣiṇām ca dadet punar . biṃba-śuddhim ca kṛtvā tu mantreṇa eva abhiṣicya ca .. 19.104 ..
देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेथ् । एवं वै कृतपात्राणि देवार्थं च प्रदापयेथ् ॥ १९.१०५ ॥
देवदेवम् समभ्यर्च्य हविः तत्र निवेदयेथ् । एवम् वै कृत-पात्राणि देव-अर्थम् च ॥ १९।१०५ ॥
devadevam samabhyarcya haviḥ tatra nivedayeth . evam vai kṛta-pātrāṇi deva-artham ca .. 19.105 ..
तस्य कायकृतं पापं तत्क्षणादेव नश्यति । सर्वदोषोपशमनं विष्णुभक्तिविवर्धनं ॥ १९.१०६ ॥
तस्य काय-कृतम् पापम् तद्-क्षणात् एव नश्यति । ॥ १९।१०६ ॥
tasya kāya-kṛtam pāpam tad-kṣaṇāt eva naśyati . .. 19.106 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे एकानविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृसु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे एकानविंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛsu-proktāyām saṃhitāyām prakīrṇa-adhikāre ekānaviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In