| |
|

This overlay will guide you through the buttons:

अथैकोनविंशोऽध्यायः.
athaikonaviṃśo'dhyāyaḥ.
भगवदर्चनम्
अत ऊर्ध्वं ध्रुवार्चायां अर्चनं संप्रवक्ष्यते । मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत् ॥ १९.१ ॥
ata ūrdhvaṃ dhruvārcāyāṃ arcanaṃ saṃpravakṣyate . mūrdhādi pīṭhātsannyastapuṣpādīnyapi śodhayet .. 19.1 ..
योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेथ् । प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनं ॥ १९.२ ॥
yogavīrārcanaṃ syāccettrikālaṃ snānamācareth . prātarmadhyāhnayorvātha yogapīṭhedhruvār'canaṃ .. 19.2 ..
भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि । त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः ॥ १९.३ ॥
bhogameva dhruvārcāyāṃ prātarmadhyāhna yorapi . trikālaṃ vātha saṃsnāpya dhruvārcāyāṃ viśeṣataḥ .. 19.3 ..
वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत् । शिवादीनर्चयित्वातु पादपीठे समन्ततः ॥ १९.४ ॥
vastrādīnyapi saṃśodhya puṣpanyāsaṃ ca pūrvavat . śivādīnarcayitvātu pādapīṭhe samantataḥ .. 19.4 ..
तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः । अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत् ॥ १९.५ ॥
tathāsanādyaissarvaiśca trisaṃdhyaṃ cārcayedbudhaḥ . ardhayāme tu pūrvāntamarcayitvā ca pūrvavat .. 19.5 ..
हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववथ् । आवाहनविसर्गौ तुन कुर्यादिति शासनं ॥ १९.६ ॥
havirni vedayeccaivānuktamasyacca pūrvavath . āvāhanavisargau tuna kuryāditi śāsanaṃ .. 19.6 ..
अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणां । सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेथ् ॥ १९.७ ॥
atha vakṣyer'canāntetu vidhānaṃ prati karmaṇāṃ . sauvarṇamuttamaṃ pātraṃ rājataṃ madhyame bhaveth .. 19.7 ..
अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते । त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत् ॥ १९.८ ॥
adhamaṃ tāmrapātraṃ tu trividhaṃ pātra mucyate . tritālamuttamaṃ proktaṃ dvitālaṃ madhyamaṃ bhavet .. 19.8 ..
अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरं । विस्तारेण समाख्यातं तयोर्मध्यममध्यमं ॥ १९.९ ॥
adhamaṃ tvekatālaṃ syāttrividhaṃ pātravistaraṃ . vistāreṇa samākhyātaṃ tayormadhyamamadhyamaṃ .. 19.9 ..
तस्य मध्ये त्रिभागैकं कर्णिकांगुलमुच्छ्रयं । परेतोऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः ॥ १९.१० ॥
tasya madhye tribhāgaikaṃ karṇikāṃgulamucchrayaṃ . pareto'ṣṭadalaṃ kuryātkarṇikocchrayamānataḥ .. 19.10 ..
द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकं । किञ्चित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः ॥ १९.११ ॥
dvyaṅgulaṃ mūlanāhaṃ syāttadagraṃ tvardhanāhakaṃ . kiñcitphalāṃbujākāramagraṃ kuryādvicakṣaṇaḥ .. 19.11 ..
द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत् । अभिघार्य घृतेनैव अष्टांगुलसमुन्नतं ॥ १९.१२ ॥
dviprasthataṇḍulaiḥ pakvamannaṃ tatraiva nikṣipet . abhighārya ghṛtenaiva aṣṭāṃgulasamunnataṃ .. 19.12 ..
दशाङ्गुलं वा उत्सेधं द्वादशांगुलमेववा । तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च ॥ १९.१३ ॥
daśāṅgulaṃ vā utsedhaṃ dvādaśāṃgulamevavā . tatpātrañca samādāya kautukāgre nidhāya ca .. 19.13 ..
कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः । परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि ॥ १९.१४ ॥
kautukācchaktimādāya cārcayedaṣṭavigrahaiḥ . parabrahmāṇa mityuktvā paramātmānamityapi .. 19.14 ..
भक्तवत्सलं योगेशंऽ चतुर्मूर्तिभिरर्चयेथ् । प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा ॥ १९.१५ ॥
bhaktavatsalaṃ yogeśaṃ' caturmūrtibhirarcayeth . prātaḥpuṣpabaliṃ kuryānmadhyāhnennabaliṃ tathā .. 19.15 ..
साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितं । तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा ॥ १९.१६ ॥
sāye tvarghyabaliṃ kuryātpūrvameva pracoditaṃ . taṇḍulaiḥ kuḍubaiścāpi yathālābhamathāpi vā .. 19.16 ..
श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलं । शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकं ॥ १९.१७ ॥
śrutaṃ cārghyabaliṃ kuryātpuṣbaṃ tu caturaṅgulaṃ . śiṣyamāhūya tatkāle soṣṇīṣaṃ sottarīyakaṃ .. 19.17 ..
शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै । उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेथ् ॥ १९.१८ ॥
śiṣyaṃ garuḍa vatsmṛtvā pātramuddhṛtyatatra vai . udutya'miti mantreṇa śiṣyastacchirasi nyaseth .. 19.18 ..
प्रदक्षिणं ततः कुर्यात्कुर्याच्छब्दरवैर्युतं । वितानछत्रसंयुक्तं पिञ्छचामरसंयुतं ॥ १९.१९ ॥
pradakṣiṇaṃ tataḥ kuryātkuryācchabdaravairyutaṃ . vitānachatrasaṃyuktaṃ piñchacāmarasaṃyutaṃ .. 19.19 ..
धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणं । प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः ॥ १९.२० ॥
dhūpadīpasamāyuktaṃ śanaiḥkuryātpradakṣiṇaṃ . pradakṣiṇatrayaṃ kṛtvā praviśedālayaṃ bhudhaḥ .. 19.20 ..
भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः । कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत् ॥ १९.२१ ॥
bhūtapīṭhāntare tiṣṭhedgṛhṇīyāttu tadarcakaḥ . kautukāgretu sannyasya oṅkāreṇa niveśayet .. 19.21 ..
बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेथ् । तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत् ॥ १९.२२ ॥
balyagraṃ khaṇḍayitvātu seneśāya nivedayeth . taccheṣaṃ sodakaṃ caiva bhūtapīṭhe tu nikṣipet .. 19.22 ..
उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमं । सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत् ॥ १९.२३ ॥
utsavaṃ kartukāmaścettrisaṃdhiṣvevamuttamaṃ . sāyaṃ prātarmadhyamaṃ syātsāyaṃ caivādhamaṃ bhavet .. 19.23 ..
बलिं च बलिबेरं वा कारयेदिति के च न । बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतं ॥ १९.२४ ॥
baliṃ ca baliberaṃ vā kārayediti ke ca na . balyarthaṃ klaptadevasya cordhvamānamudāhṛtaṃ .. 19.24 ..
महाबेरस्य हस्तेन चैकविंशतिकांगुलं । सप्तदशाङ्गुलं विद्याद्द्वादशांगुलमेव वा ॥ १९.२५ ॥
mahāberasya hastena caikaviṃśatikāṃgulaṃ . saptadaśāṅgulaṃ vidyāddvādaśāṃgulameva vā .. 19.25 ..
श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेथ् । अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेथ् ॥ १९.२६ ॥
śreṣṭhamadhyakaniṣṭhāni trividhaṃ mānamācareth . arcāberatribhāgai kamuttamapratimābhaveth .. 19.26 ..
तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् । मध्यमस्य दशांशेन त्वेकोनमधमं भवेत् ॥ १९.२७ ॥
tanmānasya daśāṃśena tvekonaṃ madhyamaṃ bhavet . madhyamasya daśāṃśena tvekonamadhamaṃ bhavet .. 19.27 ..
महतो मूलबेरस्य मुखायामं प्रशस्यते । बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत् ॥ १९.२८ ॥
mahato mūlaberasya mukhāyāmaṃ praśasyate . balyarthaṃ pratimāṃ kuryātsarveṣāṃ sthāpanaṃ bhavet .. 19.28 ..
सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः । रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते ॥ १९.२९ ॥
sauvarṇaṃ rājataṃ tāmraṃ śreṣṭhamadhyamagauṇataḥ . ratnajapratimāṃ kuryānmānonmānaṃ na vidyate .. 19.29 ..
उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकं । केशान्तार्चा समं भागं संगमात्पुटसूत्रकं ॥ १९.३० ॥
uṣṇīṣaṃ golakaṃ jñeyaṃ śiromānaṃ trimātrakaṃ . keśāntārcā samaṃ bhāgaṃ saṃgamātpuṭasūtrakaṃ .. 19.30 ..
पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः । गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते ॥ १९.३१ ॥
puṭasūtrāddhanuparyantamekamekantu bhāgaśaḥ . galamardhāṅgulaṃ vindyānmātrārdhaṃ grīvamucyate .. 19.31 ..
हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेथ् । हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समं ॥ १९.३२ ॥
hikkāhṛdayaparyantaṃ mukhaṃ mātrādhikaṃ bhaveth . hṛdayaṃ nābhi tathaivoktaṃ tadadhastāttu tatsamaṃ .. 19.32 ..
ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते । चरणं जानुमानं च कालायपुरतो परम्? ॥ १९.३३ ॥
ūrū ca dvimukhāyāmaṃ golakotsedhamiṣyate . caraṇaṃ jānumānaṃ ca kālāyapurato param? .. 19.33 ..
हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकं । प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत् । १९.३४ ॥
hikkāsūtrādadhastāttu bāhudvimukhanetrakaṃ . prakoṣṭhaṃ mukhabandhaṃ ca mukhamardhādhikaṃ bhavet . 19.34 ..
मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते । चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतं ॥ १९.३५ ॥
maṇibandhāṅgulasyāgre mukhayāmaṃ praśasyate . caturbhujaṃ ca kṛtvā tu mānamevamudāhṛtaṃ .. 19.35 ..
.........वकुर्यात्पद्माकारं तु गोलकं । अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः ॥ १९.३६ ॥
.........vakuryātpadmākāraṃ tu golakaṃ . atha vakṣye viśeṣeṇa haviṣpākaṃ vidhānataḥ .. 19.36 ..
पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेथ् । अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ १९.३७ ॥
paktvā vittānusāreṇa havīṃṣyapi ca kalpayeth . alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ .. 19.37 ..
निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः । अवदत्वा? घृतं यत्तु कल्याणमशुभायवै ॥ १९.३८ ॥
nivedayitvā deveśaṃ kalyāṇaṃ kārayedbudhaḥ . avadatvā? ghṛtaṃ yattu kalyāṇamaśubhāyavai .. 19.38 ..
अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस्तथा ।
alābhe caiva sarveṣāṃ vrīhīṇāṃ taṇḍulāṃ ḥstathā .
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यथ् । शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेथ् ॥ १९.४० ॥
śatadvayaṃ pañcaviṃśadvrīhibhiḥ pūritaṃ tu yath . śuktimātramiti khyātaṃ mānaṃ tenaiva kārayeth .. 19.40 ..
तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयं । प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयं ॥ १९.४१ ॥
taddvayaṃ tilamityuktaṃ prakuñcaṃ syāttiladvayaṃ . prasṛtistaddvayaṃ proktaṃ kuḍubaṃ prasṛtidvayaṃ .. 19.41 ..
अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयं । पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेथ् ॥ १९.४२ ॥
añjali staddvayaṃ proktaṃ prasthaṃ syādañjalidvayaṃ . pātraṃ prasthadvayaṃ proktamāḍhakaṃ taddvayaṃ bhaveth .. 19.42 ..
चतुराढकसंयुक्तं द्रोणमित्यभिधीयते । द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत् ॥ १९.४३ ॥
caturāḍhakasaṃyuktaṃ droṇamityabhidhīyate . droṇadvayaṃ bhavetkhārī bhāraṅkhārīdvayaṃ bhavet .. 19.43 ..
द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते । तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेथ् ॥ १९.४४ ॥
droṇataṇḍulasaṃyuktamuttamaṃ havirucyate . tadardhaṃ madhyamaṃ proktantadardhamadhamaṃ bhaveth .. 19.44 ..
उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः । अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः ॥ १९.४५ ॥
uttamottamamityuktamaṣṭadroṇaintu taṇḍulaiḥ . adhikaṃ yadbhavettasmātproktaṃ sarvaṃ mahāhaviḥ .. 19.45 ..
तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते । षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमं ॥ १९.४६ ॥
tadardhaistaṇḍulaiḥ siddhaṃ madhyamaṃ havirucyate . ṣaḍdroṇaistaṇḍulaiḥ siddhaṃ haviruttamamadhyamaṃ .. 19.46 ..
द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते । मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः ॥ १९.४७ ॥
droṇahīnaṃ bhavettasmāduttamādhamamucyate . madhyamottamamityuktaṃ caturdreṇaistu taṇḍulaiḥ .. 19.47 ..
द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमं । मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः ॥ १९.४८ ॥
droṇatrayaṃ bhavedyatra kṛtaṃ madhyamamadhyamaṃ . madhyamādhamamityuktaṃ droṇadvayakṛtaṃ haviḥ .. 19.48 ..
द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमं । तस्य मध्यममित्युक्तमाढकद्वय सम्मितं ॥ १९.४९ ॥
droṇena taṇḍulenaiva nivedya'madhamottamaṃ . tasya madhyamamityuktamāḍhakadvaya sammitaṃ .. 19.49 ..
आढकेन तु संयुक्त मधसूधममुच्यते । तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत् ॥ १९.५० ॥
āḍhakena tu saṃyukta madhasūdhamamucyate . taṇḍulānāḍhakārdhaṃ tu devīnāṃ tu prakalpayet .. 19.50 ..
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते । प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत् ॥ १९.५१ ॥
caruprasthadvayaṃ proktaṃ havirāḍhakamucyate . prasthaṃ kuḍubasaṃyuktaṃ piśācānāṃ balirbhavet .. 19.51 ..
गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा । प्रक्षाल्य तण्डुलान्सम्यक्निष्बीड्य च पुनःपुनः ॥ १९.५२ ॥
gandhavarṇarasairjuṣṭāḥ pragrāhyāstaṇḍulāstathā . prakṣālya taṇḍulānsamyakniṣbīḍya ca punaḥpunaḥ .. 19.52 ..
चतुः प्रक्षालनं कृत्वा प्रजास्थाऽलीति मन्त्रतः । ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ॥ १९.५३ ॥
catuḥ prakṣālanaṃ kṛtvā prajāsthā'līti mantrataḥ . ūrjasva'tīti mantreṇa pātre prakṣipya taṇḍulān .. 19.53 ..
छुल्ल्यामारोपयेत्पश्चा द्विष्णवे जुष्टऽमित्यपि । वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत् ॥ १९.५४ ॥
chullyāmāropayetpaścā dviṣṇave juṣṭa'mityapi . vācaspa'tīti mantreṇa havissvinnantu pācayet .. 19.54 ..
धूमगन्धरसं स्विन्नमतिपक्वं च शीतलं । केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा ॥ १९.५५ ॥
dhūmagandharasaṃ svinnamatipakvaṃ ca śītalaṃ . keśakīṭāpaviddhantu tyajetparyuṣitaṃ tathā .. 19.55 ..
मुद्गं चैव महामुद्गं कूटस्थं राजमाषकं । कदली पनसं चैव कूश्माण्डं बृहती तथा ॥ १९.५६ ॥
mudgaṃ caiva mahāmudgaṃ kūṭasthaṃ rājamāṣakaṃ . kadalī panasaṃ caiva kūśmāṇḍaṃ bṛhatī tathā .. 19.56 ..
कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः । गुडं दधि समायुक्तमाज्ययुक्तं......... ॥ १९.५७ ॥
kandamūlaphalānyanye sārāḍhyā upadaṃśakāḥ . guḍaṃ dadhi samāyuktamājyayuktaṃ......... .. 19.57 ..
हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेथ् । अधस्तादेकभागेन होमार्थं बलये तथा ॥ १९.५८ ॥
haviḥkṛtvā caturbhāgamūrdhvabhāge nivedayeth . adhastādekabhāgena homārthaṃ balaye tathā .. 19.58 ..
यदंशं पात्रसंशिष्टं पूजायैव च निर्मितं । सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ॥ १९.५९ ॥
yadaṃśaṃ pātrasaṃśiṣṭaṃ pūjāyaiva ca nirmitaṃ . sauvarṇe rājate pātre kāñcye tāmre nivedayet .. 19.59 ..
अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः । तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः ॥ १९.६० ॥
agni kāryāvaśiṣṭaṃ ca baliśiṣṭaṃ ca yaddhaviḥ . tatsarvaṃ pūjakāyaiva proktamevaṃ manīṣibhiḥ .. 19.60 ..
द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयं । अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत् ॥ १९.६१ ॥
dvitīyāvaraṇe proktamāgneyyāṃ pacanālayaṃ . arcakasya gṛhe vāpi pācayitvā nivedayet .. 19.61 ..
प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च । अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितं ॥ १९.६२ ॥
praṇidhiṃ cājyasthālīṃ ca prokṣaṇīpātrameva ca . arghyapradānapātraṃ ca kuḍubena prapūritaṃ .. 19.62 ..
हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः । पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा ॥ १९.६३ ॥
haviḥpātrapramāṇantaṃ balipātrapramāṇataḥ . pānīyadānapātraṃ ca kāṃsyaṃ śuktijameva vā .. 19.63 ..
हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतं । तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि ॥ १९.६४ ॥
hiraṇmayaṃ vā raupyaṃ vā yadhāśobhamalaṅkṛtaṃ . tāṃbūladāne pyevaṃ syātsauvarṇaṃ kāṃsyameva hi .. 19.64 ..
दपन्णं च प्रदातव्यं ध्रुवानससमं भवेथ् । आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितं ॥ १९.६५ ॥
dapanṇaṃ ca pradātavyaṃ dhruvānasasamaṃ bhaveth . āvāhanārthapraṇithiṃ prasthamātra prapūritaṃ .. 19.65 ..
कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितं । गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितं ॥ १९.६६ ॥
kaluṣaṃ kṛmiśaivālayuktaṃ sūtravivarjitaṃ . gandhavarṇarasairjuṣṭamaśucisthānamāśritaṃ .. 19.66 ..
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकं । अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितं ॥ १९.६७ ॥
paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakaṃ . agrāhyamudakaṃ grāhyamebhirdeṣairvivarjitaṃ .. 19.67 ..
उत्तमं त्रिगुणैरद्भिस्सानं चाथममुच्यते । अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेथ् ॥ १९.६८ ॥
uttamaṃ triguṇairadbhissānaṃ cāthamamucyate . abhiṣeko nadībhnantu madhyame madhyamaṃ baveth .. 19.68 ..
उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते । एलालवङ्गतक्कोलजातीफलसमन्वितं ॥ १९.६९ ॥
uśīracandanopetaṃ yajjalaṃ pādyamucyate . elālavaṅgatakkolajātīphalasamanvitaṃ .. 19.69 ..
आप आचमनीयार्थमुशीरामयचन्दनैः । आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः ॥ १९.७० ॥
āpa ācamanīyārthamuśīrāmayacandanaiḥ . āpaḥkṣīrakuśāgrādi yavasiddhārthataṇḍulaiḥ .. 19.70 ..
तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते । चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते, ॥ १९.७१ ॥
tilavrīhi samāyuktairarghya maṣṭāṅga mucyate . candanaṃ cāguruścaiva kuṅkumaṃ gandha ucyate, .. 19.71 ..
एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयं । उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतं ॥ १९.७२ ॥
ekaṃ dvayaṃ trayaṃ vāpi karbūreṇa catuṣṭayaṃ . uśīracanṭanopetaṃ ghṛtayuktaṃ ghṛtāplutaṃ .. 19.72 ..
किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः । गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते ॥ १९.७३ ॥
kiñcitkarbūrasaṃyuktaṃ dhūpamityucyate budhaiḥ . goghṛtena kṛtaṃ yattu dīpamuttamamucyate .. 19.73 ..
चतुरङ्गुलमायामं राजसं दीपमेव हि । दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते ॥ १९.७४ ॥
caturaṅgulamāyāmaṃ rājasaṃ dīpameva hi . dīpaṃ tattṣaṅgulāyāmaṃ madhyamaṃ dīpamucyate .. 19.74 ..
अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितं । कापिलेन गृतेनापि कृतं कर्बूरवर्तिकं ॥ १९.७५ ॥
adhamaṃ tu bhaveddīpamaṅguladvayasammitaṃ . kāpilena gṛtenāpi kṛtaṃ karbūravartikaṃ .. 19.75 ..
दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकं । तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा ॥ १९.७६ ॥
dīpaṃ viṣṇupriyaṃ proktaṃ sarvasiddhipradāyakaṃ . tāmasaṃ tu bhaveddīpaṃ māhiṣeṇa tu sarpiṣā .. 19.76 ..
वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते । तामसं वापि पैशाचमयोग्यं दीपमुच्यते ॥ १९.७७ ॥
vṛkṣabījodbhavasnehadīpaṃ paiśācamucyate . tāmasaṃ vāpi paiśācamayogyaṃ dīpamucyate .. 19.77 ..
क्ष्ॐअं कार्पासजं वस्त्रं वक्षभेदाङ्गसंभवं । दशहस्तायतं चैव विस्तारं तु द्विहस्तकं ॥ १९.७८ ॥
kṣ_oṃaṃ kārpāsajaṃ vastraṃ vakṣabhedāṅgasaṃbhavaṃ . daśahastāyataṃ caiva vistāraṃ tu dvihastakaṃ .. 19.78 ..
मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते । बेरायामार्धमानेन वस्त्रविस्तार मुच्यते ॥ १९.७९ ॥
manoharaṃ tu suślakṣṇaṃ viśeṣaṃ vastramucyate . berāyāmārdhamānena vastravistāra mucyate .. 19.79 ..
विस्ताराष्टगुणायामं सदशं तु सलक्षणं । मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतं ॥ १९.८० ॥
vistārāṣṭaguṇāyāmaṃ sadaśaṃ tu salakṣaṇaṃ . mayūrapiñchaiḥkuryāttu catustālaṃ tu vistṛtaṃ .. 19.80 ..
अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा । पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा ॥ १९.८१ ॥
adhomukhaṃ tu kartavyamata ūrdhvamukhaṃ tathā . pañcāratnipramāṇeva daṇḍassyādadhamaṃ tathā .. 19.81 ..
अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा । एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते ॥ १९.८२ ॥
adhikaṃ dvādaśāṅgulyaṃ madhyamecottamepi vā . evaṃ piñchaṃ samākhyātaṃ chatralakṣaṇamucyate .. 19.82 ..
षट्तानं छत्रविस्तारमुत्तमं समुदाहृतं । मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमं ॥ १९.८३ ॥
ṣaṭtānaṃ chatravistāramuttamaṃ samudāhṛtaṃ . madhyamaṃ pañcatālaṃsyācca tustālamathādhamaṃ .. 19.83 ..
मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा । वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा ॥ १९.८४ ॥
mauktikaṃ tu bhavecchatraṃ vastreśāpi hitaṃ tathā . vastreṇa vā tathā kuryāttālapatramathāpi vā .. 19.84 ..
छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवथ् । सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकं ॥ १९.८५ ॥
chatraṃ tvadhomukhaṃ proktaṃ daṇḍaṃ piñchasya daṇḍavath . suvarṇaratnasaṃyuktaṃ kuryādābharaṇādikaṃ .. 19.85 ..
मुकुटं कुण्डलं चैव हारं कैयूरकं तथा । कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे ॥ १९.८६ ॥
mukuṭaṃ kuṇḍalaṃ caiva hāraṃ kaiyūrakaṃ tathā . kaṭakaṃ kaṭisūtraṃ ca puṣpaṃ vai hāranūpure .. 19.86 ..
कुर्यादुदरबन्धं च रत्नहारं च मेखलां । हारं च कर्णपुष्पं च प्रतिमाया यथार्हकं ॥ १९.८७ ॥
kuryādudarabandhaṃ ca ratnahāraṃ ca mekhalāṃ . hāraṃ ca karṇapuṣpaṃ ca pratimāyā yathārhakaṃ .. 19.87 ..
चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः । दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकं ॥ १९.८८ ॥
cāmarai ścāmaraṃ kuryātpiñchairvāpi mayūrajaiḥ . daṇḍaṃ haktapramāṇaṃ syādbāladaṇḍapramāṇakaṃ .. 19.88 ..
हेमरत्नमयं दण्डं तारताम्रमयं तथा । अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेथ् ॥ १९.८९ ॥
hemaratnamayaṃ daṇḍaṃ tāratāmramayaṃ tathā . atha vā dārudaṇḍaṃ syānmayūrapiñchaṃ ca yojayeth .. 19.89 ..
एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते । क्ष्ॐअकार्पाससंयुक्तं द्वारमानन्तु कारयेथ् ॥ १९.९० ॥
evaṃ tu cāmaraṃ proktaṃ pracchannapaṭamucyate . kṣ_oṃakārpāsasaṃyuktaṃ dvāramānantu kārayeth .. 19.90 ..
अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमं । सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः ॥ १९.९१ ॥
atha vakṣye viśeṣeṇa sahasradhārāvidhikramaṃ . sauvarṇaṃ rājataṃ vāpi tāmraṃ vāpi svaśaktitaḥ .. 19.91 ..
उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशांगुलं । अष्टांगुलं तदधमं यथाशक्ति च कारयेथ् ॥ १९.९२ ॥
uttamaṃ ṣoḍaśāṅgulyaṃ madhyamaṃ dvādaśāṃgulaṃ . aṣṭāṃgulaṃ tadadhamaṃ yathāśakti ca kārayeth .. 19.92 ..
एतैरङ्गुलिभिस्सम्यक्भ्रमीकृत्य च चन्द्रवथ् । भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः ॥ १९.९३ ॥
etairaṅgulibhissamyakbhramīkṛtya ca candravath . bhāgaṃ bhittyunnataṃ proktaṃ golakaṃ vā viśeṣataḥ .. 19.93 ..
सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतं । कर्णि कायामविस्तारं गोलकं तु यवोन्नतं ॥ १९.९४ ॥
sīmāvṛttaṃ tu vistāramaṣṭāṅgulamiti smṛtaṃ . karṇi kāyāmavistāraṃ golakaṃ tu yavonnataṃ .. 19.94 ..
मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेथ् । कर्णिकामभितः कुर्याद्दलान्यष्ट सुसंगतं ॥ १९.९५ ॥
madhye ratnaṃ suvarṇaṃ vā yathā śakti samarpayeth . karṇikāmabhitaḥ kuryāddalānyaṣṭa susaṃgataṃ .. 19.95 ..
परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः । चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेथ् ॥ १९.९६ ॥
paritaṣṣoḍaśadalaṃ dvātriṃśatkarṇikaṃ bahiḥ . catuṣṣaṣṭisamāyuktaṃ dalaṃ bāhye prakalpayeth .. 19.96 ..
दले यवद्वयघनं रेखामपि च कारयेथ् । सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेथ् ॥ १९.९७ ॥
dale yavadvayaghanaṃ rekhāmapi ca kārayeth . sahasrasuṣirairyuktaṃ samānoktaṃ ca kārayeth .. 19.97 ..
षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतं । मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतं ॥ १९.९८ ॥
ṣoḍaśadvādaśāṣṭābhiraṅgulyāyāmavistṛtaṃ . mālaṃ taddhastavistāraṃ śaṅkhāntarasamīkṛtaṃ .. 19.98 ..
पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ । शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, ॥ १९.९९ ॥
padmākṛtiṃ ca kṛtvā tu tau ca nālasamāyutau . śeṣaṃ yuktyā prakurvīta jalanirgamanaṃ budhaḥ,, .. 19.99 ..
सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेथ् । प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेथ् ॥ १९.१०० ॥
sarvasaindaryasaṃyuktaṃ tathākāraṃ ca kārayeth . prakṣālya pañcagavyena śodhanīyena śodhayeth .. 19.100 ..
देवालयस्य पुरितो गोमयेनोपलिप्य च । थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेथ् ॥ १९.१०१ ॥
devālayasya purito gomayenopalipya ca . thānyarāśiṃ samāstīrya vastraṃ copari vinyaseth .. 19.101 ..
उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववथ् । आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः, ॥ १९.१०२ ॥
uttare vāstuhomaṃ ca paryakniṃ caiva pūrvavath . ācāryaṃ pūjayettatra navavastrāṅgulīyakāḥ, .. 19.102 ..
तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा । शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेथ् ॥ १९.१०३ ॥
tantrendumaṇḍalaṃ dhyātvā padme padmanidhiṃ tathā . śaṅkhe śaṅkhanidhiṃ tadvadāvāhyaiva samarcayeth .. 19.103 ..
पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः । बिंबशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च ॥ १९.१०४ ॥
puṇyāhaṃ vācayitvā tu dakṣiṇāṃ ca dadetpunaḥ . biṃbaśuddhiṃ ca kṛtvātu mantreṇaivābhiṣicya ca .. 19.104 ..
देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेथ् । एवं वै कृतपात्राणि देवार्थं च प्रदापयेथ् ॥ १९.१०५ ॥
devadevaṃ samabhyarcya havistatra nivedayeth . evaṃ vai kṛtapātrāṇi devārthaṃ ca pradāpayeth .. 19.105 ..
तस्य कायकृतं पापं तत्क्षणादेव नश्यति । सर्वदोषोपशमनं विष्णुभक्तिविवर्धनं ॥ १९.१०६ ॥
tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati . sarvadoṣopaśamanaṃ viṣṇubhaktivivardhanaṃ .. 19.106 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे एकानविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre ekānaviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In