| |
|

This overlay will guide you through the buttons:

अथ नवमोऽध्यायः.
अथ नवमः अध्यायः।
atha navamaḥ adhyāyaḥ.
रज्जुबन्धनम् अथातस्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमाथ् । यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ॥ ९.१ ॥
रज्जुबन्धनम् अथ अतस् संप्रवक्ष्यामि रज्जुबन्ध-विधिम् । यथोक्तम् च मृदः सर्वाः समाहृत्य विधानतः ॥ ९।१ ॥
rajjubandhanam atha atas saṃpravakṣyāmi rajjubandha-vidhim . yathoktam ca mṛdaḥ sarvāḥ samāhṛtya vidhānataḥ .. 9.1 ..
संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधं । चूर्णानि च यथोक्तानि कषायाणि विधानतः ॥ ९.२ ॥
संपिष्य शोधयित्वा एव यथोक्तम् सर्व मौषधम् । चूर्णानि च यथा उक्तानि कषायाणि विधानतः ॥ ९।२ ॥
saṃpiṣya śodhayitvā eva yathoktam sarva mauṣadham . cūrṇāni ca yathā uktāni kaṣāyāṇi vidhānataḥ .. 9.2 ..
योजयित्वा यथाभागं गव्यैरपि इहैवच । निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ॥ ९.३ ॥
योजयित्वा यथाभागम् गव्यैः अपि इह एव च । निर्यासेन कपिद्धस्य युक्तम् नादेय-वारिणा ॥ ९।३ ॥
yojayitvā yathābhāgam gavyaiḥ api iha eva ca . niryāsena kapiddhasya yuktam nādeya-vāriṇā .. 9.3 ..
पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः । साधयित्वाथ वा वामं सार्धंवापि निधाय च ॥ ९.४ ॥
पेषयित्वा मृदा सम्यक् संपिष्य च विधानतः । साधयित्वा अथ वा वामम् सार्धम् वा अपि निधाय च ॥ ९।४ ॥
peṣayitvā mṛdā samyak saṃpiṣya ca vidhānataḥ . sādhayitvā atha vā vāmam sārdham vā api nidhāya ca .. 9.4 ..
नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेथ् । सरज्जुं बन्धयेच्छूलं यथातत्सुदृढं तथा ॥ ९.५ ॥
नालिकेरस्य सारेण त्रिवृताम् रज्जुम् आहरेथ् । स रज्जुम् बन्धयेत् शूलम् यथा तत् सु दृढम् तथा ॥ ९।५ ॥
nālikerasya sāreṇa trivṛtām rajjum āhareth . sa rajjum bandhayet śūlam yathā tat su dṛḍham tathā .. 9.5 ..
बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः । मृदं च तां समादाय शूल मालोपयेत्तथा ॥ ९.६ ॥
बन्धयित्वा अष्ट-बन्धम् च शूलम् आलिप्य सर्वशस् । मृदम् च ताम् समादाय शूल मा आलोपयेत् तथा ॥ ९।६ ॥
bandhayitvā aṣṭa-bandham ca śūlam ālipya sarvaśas . mṛdam ca tām samādāya śūla mā ālopayet tathā .. 9.6 ..
शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच । तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतं ॥ ९.७ ॥
शूल-उपरि प्रमाणम् यत् चतुर्-भागम् विभज्य च । तद्-त्रि-भागम् मृदा कुर्याः रज्जु-बन्ध-समायुतम् ॥ ९।७ ॥
śūla-upari pramāṇam yat catur-bhāgam vibhajya ca . tad-tri-bhāgam mṛdā kuryāḥ rajju-bandha-samāyutam .. 9.7 ..
घटशर्करया वस्त्रमौक्तिकैर्वर्णकैर्युतं । पूरये दन्यभागं च तत्प्रमाणविधानतः ॥ ९.८ ॥
घटशर्करया वस्त्र-मौक्तिकैः वर्णकैः युतम् । पूरये दन्य-भागम् च तद्-प्रमाण-विधानतः ॥ ९।८ ॥
ghaṭaśarkarayā vastra-mauktikaiḥ varṇakaiḥ yutam . pūraye danya-bhāgam ca tad-pramāṇa-vidhānataḥ .. 9.8 ..
शर्करां च समालिप्य पटं संयोज्य पूर्ववथ् । मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ॥ ९.९ ॥
शर्कराम् च समालिप्य पटम् संयोज्य । मौक्तिक-आकृति मालिप्य भूषणानि प्रकल्प्य च ॥ ९।९ ॥
śarkarām ca samālipya paṭam saṃyojya . mauktika-ākṛti mālipya bhūṣaṇāni prakalpya ca .. 9.9 ..
यथोक्तेन विधानेन वर्णानपि सुयोजयेथ् । मृण्मयं ध्रवबेरं चेत्कारये देवमैव तथ् ॥ ९.१० ॥
यथा उक्तेन विधानेन वर्णान् अपि । मृण्मयम् ध्रव-बेरम् चेद् कारये ॥ ९।१० ॥
yathā uktena vidhānena varṇān api . mṛṇmayam dhrava-beram ced kāraye .. 9.10 ..
अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयं । शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतं ॥ ९.११ ॥
अर्ध-चित्रम् न कुर्वीत ध्रुव-बेरम् तु मृण्मयम् । शूल-अर्धम् तु द्वयम् कुर्यात् ताम्र-नाल-समायुतम् ॥ ९।११ ॥
ardha-citram na kurvīta dhruva-beram tu mṛṇmayam . śūla-ardham tu dvayam kuryāt tāmra-nāla-samāyutam .. 9.11 ..
खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेथ् । छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेथ् ॥ ९.१२ ॥
खादिरम् ताम्र-दण्डम् वा अ भित्ति-स्थम् सु दृढम् चरेथ् । छिद्रम् कृत्वा तद्-आधारे शूलम् यन्त्रेण ॥ ९।१२ ॥
khādiram tāmra-daṇḍam vā a bhitti-stham su dṛḍham careth . chidram kṛtvā tad-ādhāre śūlam yantreṇa .. 9.12 ..
दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे । तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेथ् ॥ ९.१३ ॥
दृढम् तत् योजयित्वा एव बेर-पृष्ठस्य मध्यमे । तद्-पृष्ठे स्कन्ध-मध्ये च तद्-आधारेण ॥ ९।१३ ॥
dṛḍham tat yojayitvā eva bera-pṛṣṭhasya madhyame . tad-pṛṣṭhe skandha-madhye ca tad-ādhāreṇa .. 9.13 ..
भगवत्प्रतिष्ठाविधिः
शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति । ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ॥ ९.१४ ॥
शूले छिद्रम् न कर्तव्यम् कुर्यात् छेत् स विनश्यति । ताम्रेण ध्रुवबेरम् चेद् मधूच्छिष्ट-विधानतः ॥ ९।१४ ॥
śūle chidram na kartavyam kuryāt chet sa vinaśyati . tāmreṇa dhruvaberam ced madhūcchiṣṭa-vidhānataḥ .. 9.14 ..
आचार्यलक्षणम्
मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि । पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ॥ ९.१५ ॥
मृण्मयम् द्विविधम् प्रोक्त मपक्वम् पक्वम् इति अपि । पूर्व-उक्तम् मृण्मयम् यत् तत् अपक्वम् अभिधीयते ॥ ९।१५ ॥
mṛṇmayam dvividham prokta mapakvam pakvam iti api . pūrva-uktam mṛṇmayam yat tat apakvam abhidhīyate .. 9.15 ..
मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितं । अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ॥ ९.१६ ॥
मृदा कृत्वा अच् विना दग्धम् यत् तत् पक्वम् इति ईरितम् । अपक्वम् मृण्मये विष्णोः कारयेत् तु विधानतः ॥ ९।१६ ॥
mṛdā kṛtvā ac vinā dagdham yat tat pakvam iti īritam . apakvam mṛṇmaye viṣṇoḥ kārayet tu vidhānataḥ .. 9.16 ..
यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेथ् । योगादिस्थानानि स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ॥ ९.१७ ॥
यदि पक्वम् तु । योग-आदि-स्थानानि स्थानम् चतुर्विधम् विन्द्यात् योगम् भोगम् तथा एव च ॥ ९।१७ ॥
yadi pakvam tu . yoga-ādi-sthānāni sthānam caturvidham vindyāt yogam bhogam tathā eva ca .. 9.17 ..
सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते । सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितं ॥ ९.१८ ॥
सृष्टिः संहारः इति एषाम् स्थान-भेदः प्रवक्ष्यते । सर्वतस् भद्रकम् नन्द्यावर्तकम् श्री-प्रतिष्ठितम् ॥ ९।१८ ॥
sṛṣṭiḥ saṃhāraḥ iti eṣām sthāna-bhedaḥ pravakṣyate . sarvatas bhadrakam nandyāvartakam śrī-pratiṣṭhitam .. 9.18 ..
स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच । प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखं ॥ ९.१९ ॥
स्वस्तिकम् पर्वत-आकारम् वृत्त-भेदम् तथा एव च । प्रलीनकम् मथोद्योगम् पद्मम् च एव चतुर्मुखम् ॥ ९।१९ ॥
svastikam parvata-ākāram vṛtta-bhedam tathā eva ca . pralīnakam mathodyogam padmam ca eva caturmukham .. 9.19 ..
ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेथ् । योगकान्तं भवेद्योगं स्थानकस्य विधीयते ॥ ९.२० ॥
ब्रह्म-आदि-ईशान-पर्यन्तम् क्रमेण एव । योगक-अन्तम् भवेत् योगम् स्थानकस्य विधीयते ॥ ९।२० ॥
brahma-ādi-īśāna-paryantam krameṇa eva . yogaka-antam bhavet yogam sthānakasya vidhīyate .. 9.20 ..
चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु । आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ॥ ९.२१ ॥
चतुरश्रम् वृत्त-गेहम् प्रासादम् स्थानकस्य तु । आसनानाम् चतुर्-भेदम् पूर्व-उक्तेन क्रमेण तु ॥ ९।२१ ॥
caturaśram vṛtta-geham prāsādam sthānakasya tu . āsanānām catur-bhedam pūrva-uktena krameṇa tu .. 9.21 ..
प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखं । विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ॥ ९.२२ ॥
प्रलीनम् सर्वतोभद्रम् विमानम् वा चतुर्मुखम् । विष्णुछन्द-विमानम् च श्रीप्रतिष्ठितकम् तथा ॥ ९।२२ ॥
pralīnam sarvatobhadram vimānam vā caturmukham . viṣṇuchanda-vimānam ca śrīpratiṣṭhitakam tathā .. 9.22 ..
पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च । महापद्मविमानं च प्रलीनक वीमानकं ॥ ९.२३ ॥
पर्वत-आकृतिकम् च एव नन्द्यावर्तम् तथा एव च । महापद्म-विमानम् च प्रलीनक वीमानकम् ॥ ९।२३ ॥
parvata-ākṛtikam ca eva nandyāvartam tathā eva ca . mahāpadma-vimānam ca pralīnaka vīmānakam .. 9.23 ..
अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च । महापद्मं च वृत्तं च चतुर्मुखविमानकं ॥ ९.२४ ॥
अष्ट-अङ्गम् सर्मतोभद्रम् चित्रशिल्पम् तथा एव च । महापद्मम् च वृत्तम् च चतुर्मुख-विमानकम् ॥ ९।२४ ॥
aṣṭa-aṅgam sarmatobhadram citraśilpam tathā eva ca . mahāpadmam ca vṛttam ca caturmukha-vimānakam .. 9.24 ..
एवं विमानकं चैव आसनस्य विधीयते । स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकं ॥ ९.२५ ॥
एवम् विमानकम् च एव आसनस्य विधीयते । स्वस्तिकम् वृत्तभद्रम् च वृत्तगर्भम् मवेदिकम् ॥ ९।२५ ॥
evam vimānakam ca eva āsanasya vidhīyate . svastikam vṛttabhadram ca vṛttagarbham mavedikam .. 9.25 ..
प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितं । मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटं ॥ ९.२६ ॥
प्रेक्ष्य गृह-अल्प-भू-राज-छन्दम् च श्री-प्रतिष्ठितम् । मर्तलम् च शनैर्योगम् मार्ताण्डम् च चतुष्फुटम् ॥ ९।२६ ॥
prekṣya gṛha-alpa-bhū-rāja-chandam ca śrī-pratiṣṭhitam . martalam ca śanairyogam mārtāṇḍam ca catuṣphuṭam .. 9.26 ..
गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकं । एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ॥ ९.२७ ॥
गणिका-विशालम् संशुद्धम् स्वस्तिकम् ध्वज-मानकम् । एवम् आख्याय तन्त्राणि वर्तुल-आदि-आयुतानि च ॥ ९।२७ ॥
gaṇikā-viśālam saṃśuddham svastikam dhvaja-mānakam . evam ākhyāya tantrāṇi vartula-ādi-āyutāni ca .. 9.27 ..
शयानकेन योग्यानि कथितानि मनीषिभिः । आयादिविचारः आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ॥ ९.२८ ॥
शयानकेन योग्यानि कथितानि मनीषिभिः । आय-आदि-विचारः आय-व्यय-आदि पश्चात् विधीयते ॥ ९।२८ ॥
śayānakena yogyāni kathitāni manīṣibhiḥ . āya-ādi-vicāraḥ āya-vyaya-ādi paścāt vidhīyate .. 9.28 ..
बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते । चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनं ॥ ९.२९ ॥
बेर-उदयम् त्रि-गुणितम् शिष्ट-मायम् नगे हृते । चतुर्भिः गुणितम् सप्त सौर-वार-आदिकम् दिनम् ॥ ९।२९ ॥
bera-udayam tri-guṇitam śiṣṭa-māyam nage hṛte . caturbhiḥ guṇitam sapta saura-vāra-ādikam dinam .. 9.29 ..
बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतं । शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणं ॥ ९.३० ॥
बेर-उच्चम् अष्ट-गुणितम् हृतम् । शिष्टम् मश्व्यात् इभम् विन्द्यात् तद्-शेषम् स्यात् चतुर्गुणम् ॥ ९।३० ॥
bera-uccam aṣṭa-guṇitam hṛtam . śiṣṭam maśvyāt ibham vindyāt tad-śeṣam syāt caturguṇam .. 9.30 ..
रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतं । बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतं ॥ ९.३१ ॥
रन्ध्रेहृते नव-अंशम् तद्-शेषम् भ-अंश-युगैः हृतम् । बेर-उदयम् त्रि-गुणितम् योनिः स्याः दष्टभिः हृतम् ॥ ९।३१ ॥
randhrehṛte nava-aṃśam tad-śeṣam bha-aṃśa-yugaiḥ hṛtam . bera-udayam tri-guṇitam yoniḥ syāḥ daṣṭabhiḥ hṛtam .. 9.31 ..
आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर्व्ययाधिके । वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ॥ ९.३२ ॥
आय-आधिक्ये शुभम् मृण-वृद्धिः व्यय-अधिके । वारेषु सौरि-सूर्य-अरैः विना अन्ये शुभ-दाः स्मृताः ॥ ९।३२ ॥
āya-ādhikye śubham mṛṇa-vṛddhiḥ vyaya-adhike . vāreṣu sauri-sūrya-araiḥ vinā anye śubha-dāḥ smṛtāḥ .. 9.32 ..
तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च । निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलं ॥ ९.३३ ॥
तस्करम् भुक्ति-शक्ती च धनम् राज्यम् क्लिब-आदि च । निर्हृत्य च अधनम् प्रेष्यम् तद्-नाम-सदृशम् फलम् ॥ ९।३३ ॥
taskaram bhukti-śaktī ca dhanam rājyam kliba-ādi ca . nirhṛtya ca adhanam preṣyam tad-nāma-sadṛśam phalam .. 9.33 ..
नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेथ् । यदाकारं ध्रुवाकारं तदाकारं च कौतुकं ॥ ९.३४ ॥
नाम-कर्तृ-नृप-ऋक्ष-आद्याः नाम-ऋक्ष-अनुगुणम् । यद्-आकारम् ध्रुव-आकारम् तद्-आकारम् च कौतुकम् ॥ ९।३४ ॥
nāma-kartṛ-nṛpa-ṛkṣa-ādyāḥ nāma-ṛkṣa-anuguṇam . yad-ākāram dhruva-ākāram tad-ākāram ca kautukam .. 9.34 ..
आसने स्थानकंवापि शयाने स्थान मासनं । देवे स्थिते न देव्यौ च आसीने स्थानकासने ॥ ९.३५ ॥
आसने स्थानकम् वा अपि शयाने स्थानम् आसनम् । देवे स्थिते न देव्यौ च आसीने स्थानक-आसने ॥ ९।३५ ॥
āsane sthānakam vā api śayāne sthānam āsanam . deve sthite na devyau ca āsīne sthānaka-āsane .. 9.35 ..
विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः । तालनियमः श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ॥ ९.३६ ॥
विपरीतम् न कुर्वीत सर्व-शास्त्र-विशारदाः । ताल-नियमः श्रेष्ठम् प्रादुर्भवम् तालम् केवलम् केशवस्य तु ॥ ९।३६ ॥
viparītam na kurvīta sarva-śāstra-viśāradāḥ . tāla-niyamaḥ śreṣṭham prādurbhavam tālam kevalam keśavasya tu .. 9.36 ..
तद्देवीनां सरस्वत्या मध्यमं दशतालकं । चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ॥ ९.३७ ॥
तत् देवीनाम् सरस्वत्याः मध्यमम् दश-तालकम् । ॥ ९।३७ ॥
tat devīnām sarasvatyāḥ madhyamam daśa-tālakam . .. 9.37 ..
ऋषयो वसवो रुद्रा मार्कण्डेयोऽमितो भृगुः । आर्याश्चैव गुहो हीनदशतालमिता मताः ॥ ९.३८ ॥
ऋषयः वसवः रुद्राः मार्कण्डेयः अमितः भृगुः । आर्याः च एव गुहः हीन-दश-ताल-मिताः मताः ॥ ९।३८ ॥
ṛṣayaḥ vasavaḥ rudrāḥ mārkaṇḍeyaḥ amitaḥ bhṛguḥ . āryāḥ ca eva guhaḥ hīna-daśa-tāla-mitāḥ matāḥ .. 9.38 ..
मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः । तधान्येतु त्रिधा साध्या नवतालमिता मताः ॥ ९.३९ ॥
मरुतः अपि च यक्ष-ईश-देववध्वः शुभ-अग्रहाः । तद्-धान्ये तु त्रिधा साध्याः नव-ताल-मिताः मताः ॥ ९।३९ ॥
marutaḥ api ca yakṣa-īśa-devavadhvaḥ śubha-agrahāḥ . tad-dhānye tu tridhā sādhyāḥ nava-tāla-mitāḥ matāḥ .. 9.39 ..
दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः । कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ॥ ९.४० ॥
दैत्य-यक्ष-ईश? रन्धाः च सिद्ध-गन्धर्व-चारणाः । सम्मताः ॥ ९।४० ॥
daitya-yakṣa-īśa? randhāḥ ca siddha-gandharva-cāraṇāḥ . sammatāḥ .. 9.40 ..
नवतालैर्मुनींश्चैव गणांश्चैव तु मानयेथ् । उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ॥ ९.४१ ॥
नव-तालैः मुनीन् च एव गणान् च एव तु । उङ्गाः चारणाः च अन्ये नव-ताल-मित-उदयाः ॥ ९।४१ ॥
nava-tālaiḥ munīn ca eva gaṇān ca eva tu . uṅgāḥ cāraṇāḥ ca anye nava-tāla-mita-udayāḥ .. 9.41 ..
मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकं । षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ॥ ९.४२ ॥
मर्त्याः च अष्ट-आयताः प्रोक्ताः प्रेतानाम् सप्त-तालकम् । षट् यमाः कुब्जकाः प्रोक्ताः वामनाः पञ्च-ताल-गाः ॥ ९।४२ ॥
martyāḥ ca aṣṭa-āyatāḥ proktāḥ pretānām sapta-tālakam . ṣaṭ yamāḥ kubjakāḥ proktāḥ vāmanāḥ pañca-tāla-gāḥ .. 9.42 ..
भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः । कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ॥ ९.४३ ॥
भू-गतानाम् चतुर्-तालम् किन्नराः तु त्रि-तालकाः । कूश्माण्डाः द्वितयाः च एव कबन्धाः स्तु एकतालका? ॥ ९।४३ ॥
bhū-gatānām catur-tālam kinnarāḥ tu tri-tālakāḥ . kūśmāṇḍāḥ dvitayāḥ ca eva kabandhāḥ stu ekatālakā? .. 9.43 ..
श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै । प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ॥ ९.४४ ॥
श्रेष्ठ-मध्य-कनिष्ठानि त्रि-तालानाम् तु तत्र । प्रवक्ष्यामि मधूच्छिष्ट-क्रियाम् प्रतिविधानतः ॥ ९।४४ ॥
śreṣṭha-madhya-kaniṣṭhāni tri-tālānām tu tatra . pravakṣyāmi madhūcchiṣṭa-kriyām pratividhānataḥ .. 9.44 ..
यजमानगृहेवापि आलये वा मनोरमे । अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियाथ् ॥ ९.४५ ॥
यजमान-गृहा इव अपि आलये वा मनोरमे । अलङ्कृत्य वितान-आद्यैः मा औपासनम् ॥ ९।४५ ॥
yajamāna-gṛhā iva api ālaye vā manorame . alaṅkṛtya vitāna-ādyaiḥ mā aupāsanam .. 9.45 ..
आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा । विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ॥ ९.४६ ॥
आघारम् विधिवत् कृत्वा वैष्णवम् च यजेत् तथा । विष्णुसूक्तम् च हुत्वा तु ब्राह्मम् रौद्रम् तथा एव च ॥ ९।४६ ॥
āghāram vidhivat kṛtvā vaiṣṇavam ca yajet tathā . viṣṇusūktam ca hutvā tu brāhmam raudram tathā eva ca .. 9.46 ..
वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते । तस्याग्नेर्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा ॥ ९.४७ ॥
वीश-शैषिक-चक्रान् च विघ्नेशम् च सुहूयते । तस्य अग्नेः दक्षिणे कुर्यात् तथा ॥ ९।४७ ॥
vīśa-śaiṣika-cakrān ca vighneśam ca suhūyate . tasya agneḥ dakṣiṇe kuryāt tathā .. 9.47 ..
चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभं । चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेथ् ॥ ९.४८ ॥
चतुरश्रम् ततस् वृत्तम् समास्तीर्य यथा शुभम् । चक्र-शैषिक-वीशान् च क्रमेण एव ॥ ९।४८ ॥
caturaśram tatas vṛttam samāstīrya yathā śubham . cakra-śaiṣika-vīśān ca krameṇa eva .. 9.48 ..
शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु । इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानांगं प्रकल्पयेथ् ॥ ९.४९ ॥
शोधितम् तु मधूच्छिष्ट मादाय प्रणवेन तु । इषे इत्वा ऊर्जे अत्वा इति मन्त्रेण प्रधान-अंगम् प्रकल्पयेथ् ॥ ९।४९ ॥
śodhitam tu madhūcchiṣṭa mādāya praṇavena tu . iṣe itvā ūrje atvā iti mantreṇa pradhāna-aṃgam prakalpayeth .. 9.49 ..
अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च । वैष्णवं च ततो हुत्वा देवा नन्यान्विसृज्य च ॥ ९.५० ॥
अक्षराणि च सन्न्यस्य च एवम् ध्यात्वा अभिमृश्य च । वैष्णवम् च ततस् हुत्वा देवाः न अन्यान् विसृज्य च ॥ ९।५० ॥
akṣarāṇi ca sannyasya ca evam dhyātvā abhimṛśya ca . vaiṣṇavam ca tatas hutvā devāḥ na anyān visṛjya ca .. 9.50 ..
देव्यादीन्पार्षदां स्तत्र तत्तन्मन्त्रेण हूयतां । तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ॥ ९.५१ ॥
देवी-आदीन् पार्षदाम् तत्र तद्-तद्-मन्त्रेण हूयताम् । तत् सिद्धम् शिल्पि-हस्ते तु निधाय एव हरिम् स्मरन् ॥ ९।५१ ॥
devī-ādīn pārṣadām tatra tad-tad-mantreṇa hūyatām . tat siddham śilpi-haste tu nidhāya eva harim smaran .. 9.51 ..
यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेथ् । तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकं ॥ ९.५२ ॥
यथा नग-इन्द्रियम् ग्राह्यम् योनिषु एव समर्पयेथ् । तथा तन्तु गृहीत्वा एव स्थापनीयन्तु गर्भकम् ॥ ९।५२ ॥
yathā naga-indriyam grāhyam yoniṣu eva samarpayeth . tathā tantu gṛhītvā eva sthāpanīyantu garbhakam .. 9.52 ..
मानोन्मानप्रमाणेन मतिमान्शिल्पिनाचरेथ् । शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ॥ ९.५३ ॥
मान-उन्मान-प्रमाणेन मतिमान् शिल्पिना आचरेथ् । शनैस् आलिप्य संशोष्य मृद्भिः च बहिस् आयसैः ॥ ९।५३ ॥
māna-unmāna-pramāṇena matimān śilpinā ācareth . śanais ālipya saṃśoṣya mṛdbhiḥ ca bahis āyasaiḥ .. 9.53 ..
पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेथ् । यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेथ् ॥ ९.५४ ॥
पट्टैः आबद्ध्य विधिना पुनर् आलिप्य शोषयेथ् । यजमान-अनुकूल-ऋक्षे पूर्ववत् होमम् मा आचरेथ् ॥ ९।५४ ॥
paṭṭaiḥ ābaddhya vidhinā punar ālipya śoṣayeth . yajamāna-anukūla-ṛkṣe pūrvavat homam mā ācareth .. 9.54 ..
तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै । युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेथ् ॥ ९.५५ ॥
तथा तुल्यम् च संस्थाप्य जल-तुल्य-क्रमेण वै । युक्ताम् सिद्धिम् च संप्राप्य तम् च गर्भम् ॥ ९।५५ ॥
tathā tulyam ca saṃsthāpya jala-tulya-krameṇa vai . yuktām siddhim ca saṃprāpya tam ca garbham .. 9.55 ..
शनैर्मृद्भेदनं कृत्वा विधिना बेरमाहरेथ् ॥ ९.५६ ॥
शनैस् मृद्-भेदनम् कृत्वा विधिना बेरम् आहरेथ् ॥ ९।५६ ॥
śanais mṛd-bhedanam kṛtvā vidhinā beram āhareth .. 9.56 ..
इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमोऽध्यायः.
इति श्री-वैखानसे फगवच्छास्त्रे भृगुप्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे नवमः अध्यायः।
iti śrī-vaikhānase phagavacchāstre bhṛguproktāyām saṃhitāyām prakīrṇa-adhikāre navamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In