| |
|

This overlay will guide you through the buttons:

अथ नवमोऽध्यायः.
atha navamo'dhyāyaḥ.
रज्जुबन्धनम् अथातस्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमाथ् । यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ॥ ९.१ ॥
rajjubandhanam athātassaṃpravakṣyāmi rajjubandhavidhiṃ kramāth . yathoktaṃ ca mṛdassarvāssamāhṛtya vidhānataḥ .. 9.1 ..
संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधं । चूर्णानि च यथोक्तानि कषायाणि विधानतः ॥ ९.२ ॥
saṃpiṣya śodhayitvaiva yathoktaṃ sarva mauṣadhaṃ . cūrṇāni ca yathoktāni kaṣāyāṇi vidhānataḥ .. 9.2 ..
योजयित्वा यथाभागं गव्यैरपि इहैवच । निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ॥ ९.३ ॥
yojayitvā yathābhāgaṃ gavyairapi ihaivaca . niryāsena kapiddhasya yuktaṃ nādeyavāriṇā .. 9.3 ..
पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः । साधयित्वाथ वा वामं सार्धंवापि निधाय च ॥ ९.४ ॥
peṣayitvā mṛdā samyaksaṃpiṣya ca vidhānataḥ . sādhayitvātha vā vāmaṃ sārdhaṃvāpi nidhāya ca .. 9.4 ..
नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेथ् । सरज्जुं बन्धयेच्छूलं यथातत्सुदृढं तथा ॥ ९.५ ॥
nālikerasya sāreṇa trivṛtāṃ rajjumāhareth . sarajjuṃ bandhayecchūlaṃ yathātatsudṛḍhaṃ tathā .. 9.5 ..
बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः । मृदं च तां समादाय शूल मालोपयेत्तथा ॥ ९.६ ॥
bandhayitvāṣṭabandhaṃ ca śūlamālipya sarvaśaḥ . mṛdaṃ ca tāṃ samādāya śūla mālopayettathā .. 9.6 ..
शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच । तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतं ॥ ९.७ ॥
śūlopari pramāṇaṃ yaccaturbhāgaṃ vibhajyaca . tattribhāgaṃ mṛdākuryā drajjubandhasamāyutaṃ .. 9.7 ..
घटशर्करया वस्त्रमौक्तिकैर्वर्णकैर्युतं । पूरये दन्यभागं च तत्प्रमाणविधानतः ॥ ९.८ ॥
ghaṭaśarkarayā vastramauktikairvarṇakairyutaṃ . pūraye danyabhāgaṃ ca tatpramāṇavidhānataḥ .. 9.8 ..
शर्करां च समालिप्य पटं संयोज्य पूर्ववथ् । मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ॥ ९.९ ॥
śarkarāṃ ca samālipya paṭaṃ saṃyojya pūrvavath . mauktikākṛti mālipya bhūṣaṇāni prakalpyaca .. 9.9 ..
यथोक्तेन विधानेन वर्णानपि सुयोजयेथ् । मृण्मयं ध्रवबेरं चेत्कारये देवमैव तथ् ॥ ९.१० ॥
yathoktena vidhānena varṇānapi suyojayeth . mṛṇmayaṃ dhravaberaṃ cetkāraye devamaiva tath .. 9.10 ..
अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयं । शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतं ॥ ९.११ ॥
ardhacitraṃ na kurvīta dhruvaberaṃ tu mṛṇmayaṃ . śūlārdhaṃ tu dvayaṃ kuryāttāmranālasamāyutaṃ .. 9.11 ..
खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेथ् । छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेथ् ॥ ९.१२ ॥
khādiraṃ tāmradaṇḍaṃ vābhittisthaṃ sudṛḍhaṃ careth . chidraṃ kṛtvātadādhāre śūlaṃ yantreṇa yojayeth .. 9.12 ..
दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे । तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेथ् ॥ ९.१३ ॥
dṛḍhaṃ tadyojayitvaiva berapṛṣṭhasya madhyame . tatpṛṣṭheskandhamadhye ca tadādhāreṇa yojayeth .. 9.13 ..
भगवत्प्रतिष्ठाविधिः
शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति । ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ॥ ९.१४ ॥
śūle chidraṃ nakartavyaṃ kuryācchetsa vinaśyati . tāmreṇa dhruvaberaṃ cenmadhūcchiṣṭavidhānataḥ .. 9.14 ..
आचार्यलक्षणम्
मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि । पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ॥ ९.१५ ॥
mṛṇmayaṃ dvividhaṃ prokta mapakvaṃ pakvamityapi . pūrvoktaṃ mṛṇmayaṃ yattadapakva mabhidhīyate .. 9.15 ..
मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितं । अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ॥ ९.१६ ॥
mṛdākṛtvāgvinādagdhaṃ yattatpakvamitīritaṃ . apakvaṃ mṛṇmaye viṣṇoḥ kārayettu vidhānataḥ .. 9.16 ..
यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेथ् । योगादिस्थानानि स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ॥ ९.१७ ॥
yadi pakvaṃ tu kuryācchettadvināśakaṃ bhaveth . yogādisthānāni sthānaṃ caturvidhaṃ vindyādyogaṃ bhogaṃ tathaiva ca .. 9.17 ..
सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते । सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितं ॥ ९.१८ ॥
sṛṣṭiḥ saṃhāra ityeṣāṃ sthānabhedaḥ pravakṣyate . sarvato bhadrakaṃ nandyāvartakaṃ śrīpratiṣṭhitaṃ .. 9.18 ..
स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच । प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखं ॥ ९.१९ ॥
svastikaṃ parvatākāraṃ vṛttabhedaṃ tathaivaca . pralīnaka mathodyogaṃ padmañcaiva caturmukhaṃ .. 9.19 ..
ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेथ् । योगकान्तं भवेद्योगं स्थानकस्य विधीयते ॥ ९.२० ॥
brahmādīśānaparyantaṃ krameṇaiva niveśayeth . yogakāntaṃ bhavedyogaṃ sthānakasya vidhīyate .. 9.20 ..
चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु । आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ॥ ९.२१ ॥
caturaśraṃ vṛttagehaṃ prāsādaṃ sthānakasya tu . āsanānāṃ caturbhedaṃ pūrvoktena krameṇa tu .. 9.21 ..
प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखं । विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ॥ ९.२२ ॥
pralīnaṃ sarvatobhadraṃ vimānaṃ vā caturmukhaṃ . viṣṇuchandavimānaṃ ca śrīpratiṣṭhitakaṃ tathā .. 9.22 ..
पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च । महापद्मविमानं च प्रलीनक वीमानकं ॥ ९.२३ ॥
parvatākṛtikañcaiva nandyāvartaṃ tathaiva ca . mahāpadmavimānaṃ ca pralīnaka vīmānakaṃ .. 9.23 ..
अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च । महापद्मं च वृत्तं च चतुर्मुखविमानकं ॥ ९.२४ ॥
aṣṭāṅgaṃ sarmatobhadraṃ citraśilpaṃ tathaiva ca . mahāpadmaṃ ca vṛttaṃ ca caturmukhavimānakaṃ .. 9.24 ..
एवं विमानकं चैव आसनस्य विधीयते । स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकं ॥ ९.२५ ॥
evaṃ vimānakaṃ caiva āsanasya vidhīyate . svastikaṃ vṛttabhadraṃ ca vṛttagarbha mavedikaṃ .. 9.25 ..
प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितं । मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटं ॥ ९.२६ ॥
prekṣya gṛhālpabhūrājachandaṃ ca śrīpratiṣṭhitaṃ . martalaṃ ca śanairyogaṃ mārtāṇḍaṃ ca catuṣphuṭaṃ .. 9.26 ..
गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकं । एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ॥ ९.२७ ॥
gaṇikāviśālaṃ saṃśuddhaṃ svastikaṃ dhvajamānakaṃ . evamākhyāya tantrāṇi vartulādyāyutāni ca .. 9.27 ..
शयानकेन योग्यानि कथितानि मनीषिभिः । आयादिविचारः आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ॥ ९.२८ ॥
śayānakena yogyāni kathitāni manīṣibhiḥ . āyādivicāraḥ āyavyayādi ṛkṣāṃścayoniḥ paścādvidhīyate .. 9.28 ..
बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते । चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनं ॥ ९.२९ ॥
berodayaṃ triguṇitaṃ śiṣṭamāyaṃ nage hṛte . caturbhirguṇitaṃ sapta sauravārādikaṃ dinaṃ .. 9.29 ..
बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतं । शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणं ॥ ९.३० ॥
berocca maṣṭaguṇitaṃ saptaviśadibhirhṛtaṃ . śiṣṭa maśvyādibhaṃ vindyāttaccheṣaṃ syāccaturguṇaṃ .. 9.30 ..
रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतं । बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतं ॥ ९.३१ ॥
randhrehṛte navāṃśaṃ taccheṣaṃ bhāṃśayugairhṛtaṃ . berodayaṃ triguṇitaṃ yonissyā daṣṭabhirhṛtaṃ .. 9.31 ..
आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर्व्ययाधिके । वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ॥ ९.३२ ॥
āyādhikye śubhaṃ prokta mṛṇavṛddhirvyayādhike . vāreṣu saurisūryārairvinānye śubhadāssmṛtāḥ .. 9.32 ..
तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च । निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलं ॥ ९.३३ ॥
taskaraṃ bhuktiśaktī ca dhanaṃ rājyaṃ klibādi ca . nirhṛtya cādhanaṃ preṣyaṃ tannāmasadṛśaṃ phalaṃ .. 9.33 ..
नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेथ् । यदाकारं ध्रुवाकारं तदाकारं च कौतुकं ॥ ९.३४ ॥
nāmakartṛnṛparkṣādyā nāmarkṣānuguṇaṃ bhaveth . yadākāraṃ dhruvākāraṃ tadākāraṃ ca kautukaṃ .. 9.34 ..
आसने स्थानकंवापि शयाने स्थान मासनं । देवे स्थिते न देव्यौ च आसीने स्थानकासने ॥ ९.३५ ॥
āsane sthānakaṃvāpi śayāne sthāna māsanaṃ . deve sthite na devyau ca āsīne sthānakāsane .. 9.35 ..
विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः । तालनियमः श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ॥ ९.३६ ॥
viparītaṃ na kurvīta sarvaśāstraviśāradāḥ . tālaniyamaḥ śreṣṭhaṃ prādurbhavaṃ tālaṃ kevalaṃ keśavasya tu .. 9.36 ..
तद्देवीनां सरस्वत्या मध्यमं दशतालकं । चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ॥ ९.३७ ॥
taddevīnāṃ sarasvatyā madhyamaṃ daśatālakaṃ . candrendrānalakīnāśavaruṇānilaśūlinaḥ .. 9.37 ..
ऋषयो वसवो रुद्रा मार्कण्डेयोऽमितो भृगुः । आर्याश्चैव गुहो हीनदशतालमिता मताः ॥ ९.३८ ॥
ṛṣayo vasavo rudrā mārkaṇḍeyo'mito bhṛguḥ . āryāścaiva guho hīnadaśatālamitā matāḥ .. 9.38 ..
मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः । तधान्येतु त्रिधा साध्या नवतालमिता मताः ॥ ९.३९ ॥
maruto'pi ca yakṣeśadevavadhvaśśubhāgrahāḥ . tadhānyetu tridhā sādhyā navatālamitā matāḥ .. 9.39 ..
दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः । कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ॥ ९.४० ॥
daityayakṣeśa? randhāśca siddhagandharvacāraṇāḥ . kujārkarāhava śśreṣṭhanavatālena sammatāḥ .. 9.40 ..
नवतालैर्मुनींश्चैव गणांश्चैव तु मानयेथ् । उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ॥ ९.४१ ॥
navatālairmunīṃścaiva gaṇāṃścaiva tu mānayeth . uṅgāścāraṇāścānye navatālamitodayāḥ .. 9.41 ..
मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकं । षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ॥ ९.४२ ॥
martyāścāṣṭāyatāḥ proktāḥ pretānāṃ saptatālakaṃ . ṣaḍyamāḥ kubjakāḥ proktā vāmanāḥ pañcatālagāḥ .. 9.42 ..
भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः । कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ॥ ९.४३ ॥
bhūgatānāṃ catustālaṃ kinnarāstu tritālakāḥ . kūśmāṇḍā dvitayāścaiva kabandhā stvekatālakā? .. 9.43 ..
श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै । प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ॥ ९.४४ ॥
śreṣṭhamadhyakaniṣṭhāni tritālānāntu tatra nai . pravakṣyāmi madhūcchiṣṭakriyāṃ pratividhānataḥ .. 9.44 ..
यजमानगृहेवापि आलये वा मनोरमे । अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियाथ् ॥ ९.४५ ॥
yajamānagṛhevāpi ālaye vā manorame . alaṅkṛtya vitānādyaiḥ kuṇḍa maupāsanaṃ kriyāth .. 9.45 ..
आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा । विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ॥ ९.४६ ॥
āghāraṃ vidhivatkṛtvā vaiṣṇavaṃ ca yajettathā . viṣṇusūktaṃ ca hutvātu brāhmaṃ raudraṃ tathaiva ca .. 9.46 ..
वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते । तस्याग्नेर्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा ॥ ९.४७ ॥
vīśaśaiṣikacakrāṃśca vighneśaṃ ca suhūyate . tasyāgnerdakṣiṇe kuryā dvrīhibhi sthsaṃḍilaṃ tathā .. 9.47 ..
चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभं । चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेथ् ॥ ९.४८ ॥
caturaśraṃ tato vṛttaṃ samāstīrya yathā śubhaṃ . cakraśaiṣikavīśāṃśca krameṇaiva supūjayeth .. 9.48 ..
शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु । इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानांगं प्रकल्पयेथ् ॥ ९.४९ ॥
śodhitaṃ tu madhūcchiṣṭa mādāya praṇavena tu . iṣetvorje'tveti mantreṇa pradhānāṃgaṃ prakalpayeth .. 9.49 ..
अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च । वैष्णवं च ततो हुत्वा देवा नन्यान्विसृज्य च ॥ ९.५० ॥
akṣarāṇi ca sannyasya caivaṃ dhyātvābhimṛśya ca . vaiṣṇavaṃ ca tato hutvā devā nanyānvisṛjya ca .. 9.50 ..
देव्यादीन्पार्षदां स्तत्र तत्तन्मन्त्रेण हूयतां । तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ॥ ९.५१ ॥
devyādīnpārṣadāṃ statra tattanmantreṇa hūyatāṃ . tatsiddhaṃ śilpihaste tu nidhāyaiva hariṃsmaran .. 9.51 ..
यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेथ् । तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकं ॥ ९.५२ ॥
yathā nagendriyaṃ grāhyaṃ yoniṣveva samarpayeth . tathā tantu gṛhītvaiva sthāpanīyantu garbhakaṃ .. 9.52 ..
मानोन्मानप्रमाणेन मतिमान्शिल्पिनाचरेथ् । शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ॥ ९.५३ ॥
mānonmānapramāṇena matimānśilpinācareth . śanairālipya saṃśoṣya mṛdbhiśca bahirāyasaiḥ .. 9.53 ..
पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेथ् । यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेथ् ॥ ९.५४ ॥
paṭṭairābaddhya vidhinā punarālipya śoṣayeth . yajamānānukūlarkṣe pūrvavaddhoma mācareth .. 9.54 ..
तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै । युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेथ् ॥ ९.५५ ॥
tathā tulyaṃ ca saṃsthāpya jalatulyakrameṇa vai . yuktāṃ siddhiṃ ca saṃprāpya taṃ ca garbhaṃ pratāpayeth .. 9.55 ..
शनैर्मृद्भेदनं कृत्वा विधिना बेरमाहरेथ् ॥ ९.५६ ॥
śanairmṛdbhedanaṃ kṛtvā vidhinā beramāhareth .. 9.56 ..
इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमोऽध्यायः.
iti śrīvaikhānase phagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre navamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In