| |
|

This overlay will guide you through the buttons:

अथैकोनत्रिंशोऽध्यायः.
अथ एकोनत्रिंशः अध्यायः।
atha ekonatriṃśaḥ adhyāyaḥ.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिं । ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति ॥ २९.१ ॥
अथ वक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिम् । ताम्रजम् शैलजम् च एव मूर्तिकम् दारवम् तु इति ॥ २९।१ ॥
atha vakṣye viśeṣeṇa dhruvaberasya niṣkṛtim . tāmrajam śailajam ca eva mūrtikam dāravam tu iti .. 29.1 ..
चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितं । षण्मानसहितं कृत्वासनालं पादपद्मकं ॥ २९.२ ॥
चातुर्विध्यम् ध्रुवस्य अत्र पूर्वम् एव मया उदितम् । षण्मान-सहितम् पाद-पद्मकम् ॥ २९।२ ॥
cāturvidhyam dhruvasya atra pūrvam eva mayā uditam . ṣaṇmāna-sahitam pāda-padmakam .. 29.2 ..
कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना । कृत्वाक्ष्युन्मोचनं चाधिवासान्संस्थाप्य चाचलं ॥ २९.३ ॥
कृत्वा तु ताम्र-जम् बिंबम् कौतुकस्य उक्त-वर्त्मना । कृत्वा अक्षि-उन्मोचनम् च अधिवासान् संस्थाप्य च अचलम् ॥ २९।३ ॥
kṛtvā tu tāmra-jam biṃbam kautukasya ukta-vartmanā . kṛtvā akṣi-unmocanam ca adhivāsān saṃsthāpya ca acalam .. 29.3 ..
स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु । शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच ॥ २९.४ ॥
स्थापयेत् सह देव्यौ च शुद्धि-अर्थम् प्रति पर्व तु । शुद्धोदैः अभिषिच्य एव भूषणैः च विभूष्य च ॥ २९।४ ॥
sthāpayet saha devyau ca śuddhi-artham prati parva tu . śuddhodaiḥ abhiṣicya eva bhūṣaṇaiḥ ca vibhūṣya ca .. 29.4 ..
पुष्पन्यासं च कृत्वैव सर्वान्परिषदः क्रमाथ् । शैलानेव प्रकुर्वीत यथा शातातपोऽब्रवीथ् ॥ २९.५ ॥
पुष्प-न्यासम् च कृत्वा एव सर्वान् परिषदः । शैलान् एव प्रकुर्वीत यथा शातातपः अब्रवीथ् ॥ २९।५ ॥
puṣpa-nyāsam ca kṛtvā eva sarvān pariṣadaḥ . śailān eva prakurvīta yathā śātātapaḥ abravīth .. 29.5 ..
शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च । पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमाथ् ॥ २९.६ ॥
शैलम् ध्रुवम् तथा चित्रम् चित्रार्धम् वा विधाय च । पूर्व-उक्तेन विधानेन परम् संस्कृत्य ॥ २९।६ ॥
śailam dhruvam tathā citram citrārdham vā vidhāya ca . pūrva-uktena vidhānena param saṃskṛtya .. 29.6 ..
देव्यावन्यांश्च देवांश्च तदालयगतानपि । तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतं ॥ २९.७ ॥
देव्यौ अन्यान् च देवान् च तद्-आलय-गतान् अपि । तद्-द्रव्येण प्रकुर्वीत ध्रुवम् षष्-मान-संयुतम् ॥ २९।७ ॥
devyau anyān ca devān ca tad-ālaya-gatān api . tad-dravyeṇa prakurvīta dhruvam ṣaṣ-māna-saṃyutam .. 29.7 ..
कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि । करपादतले चैव नखेषु मुकुटेऽपि च ॥ २९.८ ॥
कृत्वा अक्ष्णोः च भ्रुवोः तद्वत् ओष्ठयोः उभयोः अपि । कर-पाद-तले च एव नखेषु मुकुटे अपि च ॥ २९।८ ॥
kṛtvā akṣṇoḥ ca bhruvoḥ tadvat oṣṭhayoḥ ubhayoḥ api . kara-pāda-tale ca eva nakheṣu mukuṭe api ca .. 29.8 ..
भूषणेषु विधानेन तत्तद्वर्णेन लेपयेथ् । मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः ॥ २९.९ ॥
भूषणेषु विधानेन तद्-तद्-वर्णेन । मृण्मयम् दारवम् वा चेद् तद्-द्रव्येण एव देवताः ॥ २९।९ ॥
bhūṣaṇeṣu vidhānena tad-tad-varṇena . mṛṇmayam dāravam vā ced tad-dravyeṇa eva devatāḥ .. 29.9 ..
तदालयगताः कुर्यादन्यथा विपरीतकृथ् । अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेथ् ॥ २९.१० ॥
तद्-आलय-गताः कुर्यात् अन्यथा । अथ वा वर्ण-हीनम् तु शैलम् सर्वत्र ॥ २९।१० ॥
tad-ālaya-gatāḥ kuryāt anyathā . atha vā varṇa-hīnam tu śailam sarvatra .. 29.10 ..
अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि । प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह ॥ २९.११ ॥
अर्धचित्रस्य शैलस्य गेषु च एव हि । प्रत्यङ्गेषु तथा उपाङ्गेषु अनिष्टम् तत् भवेत् इह ॥ २९।११ ॥
ardhacitrasya śailasya geṣu ca eva hi . pratyaṅgeṣu tathā upāṅgeṣu aniṣṭam tat bhavet iha .. 29.11 ..
बालागारेऽथ तच्छक्तिं नीत्वा बिंबं समाहरेथ् । भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च ॥ २९.१२ ॥
बालागारे अथ तद्-शक्तिम् नीत्वा बिंबम् । भूमौ पिधाय तस्य ऊर्ध्वे पद्म-अग्निम् परिकल्प्य च ॥ २९।१२ ॥
bālāgāre atha tad-śaktim nītvā biṃbam . bhūmau pidhāya tasya ūrdhve padma-agnim parikalpya ca .. 29.12 ..
हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा । तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेथ् ॥ २९.१३ ॥
हुत्वा च महतीम् शान्तिम् शिला-ग्रहण-वत् तथा । तद्-तद्-अङ्ग-समुत्पत्तिम् युक्त्या तक्ष्णा तु ॥ २९।१३ ॥
hutvā ca mahatīm śāntim śilā-grahaṇa-vat tathā . tad-tad-aṅga-samutpattim yuktyā takṣṇā tu .. 29.13 ..
हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ । त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेथ् ॥ २९.१४ ॥
हीने महा-अङ्गे तत् बेरम् अयुक्तम् चेद् समीकृतौ । त्यक्त्वा तद्-विधिना बेरम् पुनर् अन्यत् समाहरेथ् ॥ २९।१४ ॥
hīne mahā-aṅge tat beram ayuktam ced samīkṛtau . tyaktvā tad-vidhinā beram punar anyat samāhareth .. 29.14 ..
बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि । विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेथ् ॥ २९.१५ ॥
बेरम् संधान-योग्यम् यः त्यजेत् पापी भवेत् स हि । विनष्टम् च भवेत् सर्वंसंधानम् शक्तितः ॥ २९।१५ ॥
beram saṃdhāna-yogyam yaḥ tyajet pāpī bhavet sa hi . vinaṣṭam ca bhavet sarvaṃsaṃdhānam śaktitaḥ .. 29.15 ..
ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयं । अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः ॥ २९.१६ ॥
च कर्तुम् पूर्वम् इव द्वयम् । अशक्तः चेद् ध्रुव-अर्चान् तु कृत्वा च एकम् स्व-शक्तितः ॥ २९।१६ ॥
ca kartum pūrvam iva dvayam . aśaktaḥ ced dhruva-arcān tu kṛtvā ca ekam sva-śaktitaḥ .. 29.16 ..
प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः । एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः ॥ २९.१७ ॥
प्रतिष्ठाप्य अर्चयेत् सम्यक् इति के चित् मनीषिणः । एकबेर-प्रतिष्ठायाम् एषः एव विधिः स्मृतः ॥ २९।१७ ॥
pratiṣṭhāpya arcayet samyak iti ke cit manīṣiṇaḥ . ekabera-pratiṣṭhāyām eṣaḥ eva vidhiḥ smṛtaḥ .. 29.17 ..
अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा । सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेथ् ॥ २९.१८ ॥
अशक्तः चेद् ध्रुवम् बेरम् अर्चा-बेरम् अथ अपि वा । सहितम् रहितम् वा अथ देवीभ्याम् स्थाप्य ॥ २९।१८ ॥
aśaktaḥ ced dhruvam beram arcā-beram atha api vā . sahitam rahitam vā atha devībhyām sthāpya .. 29.18 ..
मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेथ् । तं देवीसहितं कृत्वा विमानं च विशेषतः ॥ २९.१९ ॥
मृद्-आलये ब्रह्मस्थाने ध्रुव-अर्चा-बेरम् आहरेथ् । तम् देवी-सहितम् कृत्वा विमानम् च विशेषतः ॥ २९।१९ ॥
mṛd-ālaye brahmasthāne dhruva-arcā-beram āhareth . tam devī-sahitam kṛtvā vimānam ca viśeṣataḥ .. 29.19 ..
शैलं तु कर्तुमिच्छेच्चेद्देवो दैविकमाश्रयेथ् । यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः ॥ २९.२० ॥
शैलम् तु कर्तुम् इच्छेत् चेद् देवः दैविकम् आश्रयेथ् । यथा तथा प्रकल्प्य एव विमानम् कौतुकम् पुनर् ॥ २९।२० ॥
śailam tu kartum icchet ced devaḥ daivikam āśrayeth . yathā tathā prakalpya eva vimānam kautukam punar .. 29.20 ..
लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेथ् । कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेथ् ॥ २९.२१ ॥
लोह-जम् जङ्गमम् कृत्वा समाचरेथ् । कौतुकम् शैल-जम् चेद् तु स्थावरम् तु एव ॥ २९।२१ ॥
loha-jam jaṅgamam kṛtvā samācareth . kautukam śaila-jam ced tu sthāvaram tu eva .. 29.21 ..
लघुबेरं प्रतिष्ठाप्य विमाने मृण्मयेऽर्चिते । कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजं ॥ २९.२२ ॥
लघु-बेरम् प्रतिष्ठाप्य विमाने मृण्मये अर्चिते । कर्तुम् इच्छेत् ध्रुवम् बेरम् विमानम् च एव शैलजम् ॥ २९।२२ ॥
laghu-beram pratiṣṭhāpya vimāne mṛṇmaye arcite . kartum icchet dhruvam beram vimānam ca eva śailajam .. 29.22 ..
विमानं परिकल्प्यैव विधिना हस्तमानतः । देवीभ्यां सहितं देवं दैविकांशे विधाय च ॥ २९.२३ ॥
विमानम् परिकल्प्य एव विधिना हस्त-मानतः । देवीभ्याम् सहितम् देवम् दैविक-अंशे विधाय च ॥ २९।२३ ॥
vimānam parikalpya eva vidhinā hasta-mānataḥ . devībhyām sahitam devam daivika-aṃśe vidhāya ca .. 29.23 ..
पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि । तस्योत्तरे चौत्सवादीन्प्रतिष्ठाप्य समर्चयेथ् ॥ २९.२४ ॥
पूर्व-अर्चिताम् गृहीत्वा एव बेरम् कौतुक-कर्मणि । तस्य उत्तरे च औत्सव-आदीन् प्रतिष्ठाप्य समर्चयेथ् ॥ २९।२४ ॥
pūrva-arcitām gṛhītvā eva beram kautuka-karmaṇi . tasya uttare ca autsava-ādīn pratiṣṭhāpya samarcayeth .. 29.24 ..
पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये । शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया ॥ २९.२५ ॥
पूर्वम् अर्च्यमाने मृदा आलये । शिलाभिः इष्टकाभिः वा विमानम् कर्तुम् इच्छया ॥ २९।२५ ॥
pūrvam arcyamāne mṛdā ālaye . śilābhiḥ iṣṭakābhiḥ vā vimānam kartum icchayā .. 29.25 ..
रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये । काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः ॥ २९.२६ ॥
रक्षा-अर्थम् तस्य बेरस्य शिल्पि-स्पर्श-निवृत्तये । काष्ठेन पञ्जरम् कृत्वा बालागारम् दृढम् ततस् ॥ २९।२६ ॥
rakṣā-artham tasya berasya śilpi-sparśa-nivṛttaye . kāṣṭhena pañjaram kṛtvā bālāgāram dṛḍham tatas .. 29.26 ..
संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः । विमानं युग्महस्तेन तद्बेरस्य वशादपि ॥ २९.२७ ॥
संशोध्य शल्यम् च अधस्तात् युक्त्या परमाया पुनर् । विमानम् युग्म-हस्तेन तद्-बेरस्य वशात् अपि ॥ २९।२७ ॥
saṃśodhya śalyam ca adhastāt yuktyā paramāyā punar . vimānam yugma-hastena tad-berasya vaśāt api .. 29.27 ..
यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेथ् । तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकं ॥ २९.२८ ॥
यथा विभव-विस्तारम् सौधम् कृत्वा सु रक्षयेथ् । द्विगुणम् चतुरश्रकम् ॥ २९।२८ ॥
yathā vibhava-vistāram saudham kṛtvā su rakṣayeth . dviguṇam caturaśrakam .. 29.28 ..
अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितं । कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा ॥ २९.२९ ॥
अधमम् मध्यमम् तद्वत् उत्तमम् त्रिविध-उदितम् । कृत्वा तस्य चतुर्-भागम् त्रि-भागम् च अर्धम् एव वा ॥ २९।२९ ॥
adhamam madhyamam tadvat uttamam trividha-uditam . kṛtvā tasya catur-bhāgam tri-bhāgam ca ardham eva vā .. 29.29 ..
गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च । समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः ॥ २९.३० ॥
गर्भागारम् भवेत् शेषम् भित्ति-विष्कंभम् एव च । स मण्टपम् विमानम् तु पूर्ववत् कारयेत् विधिः ॥ २९।३० ॥
garbhāgāram bhavet śeṣam bhitti-viṣkaṃbham eva ca . sa maṇṭapam vimānam tu pūrvavat kārayet vidhiḥ .. 29.30 ..
शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा । कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशं ॥ २९.३१ ॥
शिला-इष्टका-विमाने तु वर्गस्य अन्ते परस्य वा । कारयेत् मिश्रम् अथ चेद् अशक्तः कर्तुम् ईदृशम् ॥ २९।३१ ॥
śilā-iṣṭakā-vimāne tu vargasya ante parasya vā . kārayet miśram atha ced aśaktaḥ kartum īdṛśam .. 29.31 ..
अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः । मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेथ् ॥ २९.३२ ॥
अधिष्ठानस्य च ऊर्ध्वम् हि यथा इष्ट-स्थानके पुनर् । मिश्र-द्रव्येण कुर्यात् तु शक्ति-लोभम् न ॥ २९।३२ ॥
adhiṣṭhānasya ca ūrdhvam hi yathā iṣṭa-sthānake punar . miśra-dravyeṇa kuryāt tu śakti-lobham na .. 29.32 ..
वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः । अल्पदोषेऽपि वाशक्तिं ध्रुवबेरस्थितां तदा ॥ २९.३३ ॥
दोष-संफदे स्फुटित-आदिभिः । अल्प-दोषे अपि वा अशक्तिम् ध्रुव-बेर-स्थिताम् तदा ॥ २९।३३ ॥
doṣa-saṃphade sphuṭita-ādibhiḥ . alpa-doṣe api vā aśaktim dhruva-bera-sthitām tadā .. 29.33 ..
कुंभेऽंभसि समावाह्य तत्कुंभं कौतुकादि च । समादाय विधानेन मालिकायां तु मण्डपे ॥ २९.३४ ॥
कुंभे अंभसि समावाह्य तद्-कुंभम् कौतुक-आदि च । समादाय विधानेन मालिकायाम् तु मण्डपे ॥ २९।३४ ॥
kuṃbhe aṃbhasi samāvāhya tad-kuṃbham kautuka-ādi ca . samādāya vidhānena mālikāyām tu maṇḍape .. 29.34 ..
सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेथ् । काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेथ् ॥ २९.३५ ॥
सन् न्यस्य कौतुक-आदौ तु समावाह्य समर्चयेथ् । काले कुंभे समारोप्य क्रियाः सर्वाः समाचरेथ् ॥ २९।३५ ॥
san nyasya kautuka-ādau tu samāvāhya samarcayeth . kāle kuṃbhe samāropya kriyāḥ sarvāḥ samācareth .. 29.35 ..
अतीते द्विदिने कुंभमन्यदादायचात्वरः । कुंभाच्छक्तिं समादाय कुंभेऽन्यस्मिन्विधालतः ॥ २९.३६ ॥
अतीते द्वि-दिने कुंभम् अन्यत् आदाय चात्वरः । कुंभात् शक्तिम् समादाय कुंभे अन्यस्मिन् विधालतः ॥ २९।३६ ॥
atīte dvi-dine kuṃbham anyat ādāya cātvaraḥ . kuṃbhāt śaktim samādāya kuṃbhe anyasmin vidhālataḥ .. 29.36 ..
अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेथ् । पश्चाच्च वर्णलेपादीन्कृत्वा संशोद्य चैवहि ॥ २९.३७ ॥
अर्चयेत् त्रि-दिने च एवम् कुंभ-संशोधनम् । पश्चात् च वर्ण-लेप-आदीन् कृत्वा संशोद्य च एव हि ॥ २९।३७ ॥
arcayet tri-dine ca evam kuṃbha-saṃśodhanam . paścāt ca varṇa-lepa-ādīn kṛtvā saṃśodya ca eva hi .. 29.37 ..
वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेथ् । कुंभं बिंबं समादाय प्रविश्याभ्यन्तरं ततः ॥ २९.३८ ॥
वास्तु-होमम् च पुण्य-अहम् ध्रुव-शुद्धिम् च कारयेथ् । कुंभम् बिंबम् समादाय प्रविश्य अभ्यन्तरम् ततस् ॥ २९।३८ ॥
vāstu-homam ca puṇya-aham dhruva-śuddhim ca kārayeth . kuṃbham biṃbam samādāya praviśya abhyantaram tatas .. 29.38 ..
कौतुकादीन्सुसंस्थाप्य न्यासादींश्च विधाय च । कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् ॥ २९.३९ ॥
कौतुक-आदीन् सु संस्थाप्य न्यास-आदीन् च विधाय च । कुंभ-स्थाम् शक्तिम् आदाय ध्रुव-बेरे अवरोपयेथ् ॥ २९।३९ ॥
kautuka-ādīn su saṃsthāpya nyāsa-ādīn ca vidhāya ca . kuṃbha-sthām śaktim ādāya dhruva-bere avaropayeth .. 29.39 ..
ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेथ् । दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते ॥ २९.४० ॥
ध्रुवात् पुनर् तु । दोषाणाम् गोरवात् मासात् ऊर्ध्वम् काल-इतु-अपेक्षिते ॥ २९।४० ॥
dhruvāt punar tu . doṣāṇām goravāt māsāt ūrdhvam kāla-itu-apekṣite .. 29.40 ..
देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः । यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमाथ् ॥ २९.४१ ॥
देवम् बाल-आलये स्थाप्य शोधयेत् मृण्मयम् पुनर् । यावत् शूलम् पुनर् शैलम् शिला-अन्तम् शोधयेत् क्रमाथ् ॥ २९।४१ ॥
devam bāla-ālaye sthāpya śodhayet mṛṇmayam punar . yāvat śūlam punar śailam śilā-antam śodhayet kramāth .. 29.41 ..
नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतं । यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च ॥ २९.४२ ॥
नव-षष्-पञ्च-मूर्तीनाम् विमाने दोष-संयुतम् । यत् तलम् तत् तलम् गृह्य बालस्थानम् प्रकल्प्य च ॥ २९।४२ ॥
nava-ṣaṣ-pañca-mūrtīnām vimāne doṣa-saṃyutam . yat talam tat talam gṛhya bālasthānam prakalpya ca .. 29.42 ..
कौतुकादीन्सुसंस्थाप्य विधिना सम्यगर्चयेथ् । पश्चात्तले तु निर्दुष्टे कौतुकादीन्प्रगृह्य च ॥ २९.४३ ॥
कौतुक-आदीन् सु संस्थाप्य विधिना सम्यक् अर्चयेथ् । पश्चात् तले तु निर्दुष्टे कौतुक-आदीन् प्रगृह्य च ॥ २९।४३ ॥
kautuka-ādīn su saṃsthāpya vidhinā samyak arcayeth . paścāt tale tu nirduṣṭe kautuka-ādīn pragṛhya ca .. 29.43 ..
स्थापयित्वा पुनश्चैव विधिनापि समर्चयेथ् । अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमाथ् ॥ २९.४४ ॥
स्थापयित्वा पुनर् च एव विधिना अपि । अथ वक्ष्ये जीर्ण-बेर-परित्याग-विधिम् ॥ २९।४४ ॥
sthāpayitvā punar ca eva vidhinā api . atha vakṣye jīrṇa-bera-parityāga-vidhim .. 29.44 ..
ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि । कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयं ॥ २९.४५ ॥
ध्रुवस्य अङ्ग-विहीने तु त्यजेत् तत् सद्यस् एव हि । कर्तृ-आराधकयोः ग्राह्यम् अन्यथा स्यात् महत् भयम् ॥ २९।४५ ॥
dhruvasya aṅga-vihīne tu tyajet tat sadyas eva hi . kartṛ-ārādhakayoḥ grāhyam anyathā syāt mahat bhayam .. 29.45 ..
तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः । नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः ॥ २९.४६ ॥
तस्मात् सर्व-प्रयत्नेन जीर्णम् संशोध्य सर्वतस् । नव-वस्त्रैः समाच्छाद्य बद्ध्वा च कुश-रज्जुभिः ॥ २९।४६ ॥
tasmāt sarva-prayatnena jīrṇam saṃśodhya sarvatas . nava-vastraiḥ samācchādya baddhvā ca kuśa-rajjubhiḥ .. 29.46 ..
ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगां । अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे ॥ २९.४७ ॥
ब्राह्मणैः वाहयित्वा एव नदीम् स्फाराम् समुद्र-गाम् । अशोष्यम् वा जलाधारम् अन्यत् नीत्वा अथ तत् तटे ॥ २९।४७ ॥
brāhmaṇaiḥ vāhayitvā eva nadīm sphārām samudra-gām . aśoṣyam vā jalādhāram anyat nītvā atha tat taṭe .. 29.47 ..
प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः । आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः ॥ २९.४८ ॥
प्रपाम् कृत्वा अग्निम् आधाय च औपासनम् अतन्द्रितः । आघार-अन्ते तु जुहुयात् वैष्णवम् शतशस् ततस् ॥ २९।४८ ॥
prapām kṛtvā agnim ādhāya ca aupāsanam atandritaḥ . āghāra-ante tu juhuyāt vaiṣṇavam śataśas tatas .. 29.48 ..
दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः । वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः ॥ २९.४९ ॥
दद्भ्यः स्व आह इति अङ्ग-होमम् व्याहृति-अन्तम् हुनेत् भुधः । वस्त्र-बन्धम् विमोच्य एव प्राच्-मुख-उदक्-मुखः गुरुः ॥ २९।४९ ॥
dadbhyaḥ sva āha iti aṅga-homam vyāhṛti-antam hunet bhudhaḥ . vastra-bandham vimocya eva prāc-mukha-udak-mukhaḥ guruḥ .. 29.49 ..
वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले । स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः ॥ २९.५० ॥
वारुणम् वैष्णवम् च एव प्रक्षिप्य एव च तद्-जले । स्नायात् संस्मृत्य देवेशम् दारवे तु विशेषतः ॥ २९।५० ॥
vāruṇam vaiṣṇavam ca eva prakṣipya eva ca tad-jale . snāyāt saṃsmṛtya deveśam dārave tu viśeṣataḥ .. 29.50 ..
दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले । देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवं ॥ २९.५१ ॥
दग्ध्वा अग्निना अथ तत् भस्म निक्षिपेत् तादृशे जले । देवी-आदीनाम् पर्षदाम् च तत् तत् मन्त्रम् स वैष्णवम् ॥ २९।५१ ॥
dagdhvā agninā atha tat bhasma nikṣipet tādṛśe jale . devī-ādīnām parṣadām ca tat tat mantram sa vaiṣṇavam .. 29.51 ..
हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणां । अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते ॥ २९.५२ ॥
हुनेत् जले क्षिपेत् पश्चात् दद्यात् आचार्य दक्षिणाम् । अथ चेद् कौतुक-आदीनाम् मङ्ग-हानिः तत् उच्यते ॥ २९।५२ ॥
hunet jale kṣipet paścāt dadyāt ācārya dakṣiṇām . atha ced kautuka-ādīnām maṅga-hāniḥ tat ucyate .. 29.52 ..
महाङ्गानि शिरः कुक्षि वक्षः कण्ठान्प्रचक्षते । पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि ॥ २९.५३ ॥
महा-अङ्गानि शिरः कुक्षि वक्षः कण्ठान् प्रचक्षते । पादौ हस्तौ बाहवः च इति अङ्गानि प्रवदन्ति हि ॥ २९।५३ ॥
mahā-aṅgāni śiraḥ kukṣi vakṣaḥ kaṇṭhān pracakṣate . pādau hastau bāhavaḥ ca iti aṅgāni pravadanti hi .. 29.53 ..
अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः । शिरश्चक्रं च पीठं च प्रभामण्डलमेव च ॥ २९.५४ ॥
अङ्गुल्यः कर्ण-नासा-आद्याः प्रत्यङ्गानि विदुः बुधाः । शिरः चक्रम् च पीठम् च प्रभा-मण्डलम् एव च ॥ २९।५४ ॥
aṅgulyaḥ karṇa-nāsā-ādyāḥ pratyaṅgāni viduḥ budhāḥ . śiraḥ cakram ca pīṭham ca prabhā-maṇḍalam eva ca .. 29.54 ..
उपाङ्गान्यूचिरे भूषणायुधांबरपूर्वकान् । तत्रोपाङ्गस्य हीने तु कुंभं संसाध्य पूर्ववथ् ॥ २९.५५ ॥
उपाङ्गानि ऊचिरे भूषण-आयुध-अंबर-पूर्वकान् । तत्र उपाङ्गस्य हीने तु कुंभम् संसाध्य ॥ २९।५५ ॥
upāṅgāni ūcire bhūṣaṇa-āyudha-aṃbara-pūrvakān . tatra upāṅgasya hīne tu kuṃbham saṃsādhya .. 29.55 ..
आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववथ् । कृत्वा जलाधिवासादीन्वास्तुहोमं विधाय च ॥ २९.५६ ॥
आवाह्य कुंभे तद्-शक्तिम् बिंबम् संधाय । कृत्वा जल-अधिवास-आदीन् वास्तु-होमम् विधाय च ॥ २९।५६ ॥
āvāhya kuṃbhe tad-śaktim biṃbam saṃdhāya . kṛtvā jala-adhivāsa-ādīn vāstu-homam vidhāya ca .. 29.56 ..
संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः । सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादराथ् ॥ २९.५७ ॥
संशोद्य पञ्चगव्यैः च कुश-उदैः च विशेषतः । सप्तभिः कलशैः थ्साप्य कुंभ-स्थाम् शक्तिम् आदराथ् ॥ २९।५७ ॥
saṃśodya pañcagavyaiḥ ca kuśa-udaiḥ ca viśeṣataḥ . saptabhiḥ kalaśaiḥ thsāpya kuṃbha-sthām śaktim ādarāth .. 29.57 ..
समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेथ् । प्रत्यङ्गहीने तच्छक्तिं महाबेरेऽवरोप्य च ॥ २९.५८ ॥
समावाह्य पुनर् बिंबे विधिना सम्यक् अर्चयेथ् । प्रत्यङ्ग-हीने तद्-शक्तिम् महाबेरे अवरोप्य च ॥ २९।५८ ॥
samāvāhya punar biṃbe vidhinā samyak arcayeth . pratyaṅga-hīne tad-śaktim mahābere avaropya ca .. 29.58 ..
उध्रुत्य बिंबं संप्रोक्ष्य पञ्चगव्यैः कुशोदकैः । तुल्यलोहेन संधाय चाधिवास्य कुशादिषु ॥ २९.५९ ॥
उध्रुत्य बिंबम् संप्रोक्ष्य पञ्चगव्यैः कुश-उदकैः । तुल्य-लोहेन संधाय च अधिवास्य कुश-आदिषु ॥ २९।५९ ॥
udhrutya biṃbam saṃprokṣya pañcagavyaiḥ kuśa-udakaiḥ . tulya-lohena saṃdhāya ca adhivāsya kuśa-ādiṣu .. 29.59 ..
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेथ् । अङ्गहीनेतु संधानयोग्यं संधाय पूर्ववथ् ॥ २९.६० ॥
पुनर् प्रतिष्ठा-मार्गेण प्रतिष्ठाम् पुनर् आचरेथ् । संधान-योग्यम् संधाय ॥ २९।६० ॥
punar pratiṣṭhā-mārgeṇa pratiṣṭhām punar ācareth . saṃdhāna-yogyam saṃdhāya .. 29.60 ..
अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके । भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमाथ् ॥ २९.६१ ॥
अर्चयेत् अन्यथा वा अपि महा-अङ्गके । भूमौ पिधाय तत् बेरम् तद्-ऊर्ध्वे जुहुयात् क्रमाथ् ॥ २९।६१ ॥
arcayet anyathā vā api mahā-aṅgake . bhūmau pidhāya tat beram tad-ūrdhve juhuyāt kramāth .. 29.61 ..
अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनं । उद्धृत्य बिंबं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः ॥ २९.६२ ॥
अङ्ग-होमम् महाशान्तिम् अपोह्य एव च तत् दिनम् । उद्धृत्य बिंबम् प्रक्षाल्य पञ्चगव्यैः कुश-उदकैः ॥ २९।६२ ॥
aṅga-homam mahāśāntim apohya eva ca tat dinam . uddhṛtya biṃbam prakṣālya pañcagavyaiḥ kuśa-udakaiḥ .. 29.62 ..
त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा । राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः ॥ २९.६३ ॥
त्रिस् अग्नौ संपरिक्षिप्य शोधयेत् आम्ल-वारिणा । राजतम् द्विस् सकृत् रौक्मम् दहेत् अग्नौ इति क्रमः ॥ २९।६३ ॥
tris agnau saṃparikṣipya śodhayet āmla-vāriṇā . rājatam dvis sakṛt raukmam dahet agnau iti kramaḥ .. 29.63 ..
कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमं । पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमाथ् ॥ २९.६४ ॥
कृत्वा तेन एव द्रव्येण बिंबम् पूर्ववत् उत्तमम् । पुनर् प्रतिष्ठाम् कृत्वा एव कारयेत् अर्चनम् ॥ २९।६४ ॥
kṛtvā tena eva dravyeṇa biṃbam pūrvavat uttamam . punar pratiṣṭhām kṛtvā eva kārayet arcanam .. 29.64 ..
पटे कुड्येऽथ वा लिख्य बेरे विधिवदर्चिते । जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले ॥ २९.६५ ॥
पटे कुड्ये अथ वा लिख्य बेरे विधिवत् अर्चिते । जीर्णम् आलोक्य तद्-शक्तिम् आरोप्य एव अर्क-मण्डले ॥ २९।६५ ॥
paṭe kuḍye atha vā likhya bere vidhivat arcite . jīrṇam ālokya tad-śaktim āropya eva arka-maṇḍale .. 29.65 ..
नवीकृत्य पुनस्तस्मिन्प्रतिष्ठाप्य समर्चयेथ् । आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः ॥ २९.६६ ॥
नवीकृत्य पुनर् तस्मिन् प्रतिष्ठाप्य समर्चयेथ् । आचार्येण च येन आदौ कर्षण-आद्याः कृताः क्रियाः ॥ २९।६६ ॥
navīkṛtya punar tasmin pratiṣṭhāpya samarcayeth . ācāryeṇa ca yena ādau karṣaṇa-ādyāḥ kṛtāḥ kriyāḥ .. 29.66 ..
प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेथ् । नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि ॥ २९.६७ ॥
प्रतिष्ठा वा कृता विष्णोः तेन एव अन्यान् च । नित्य-अर्चन-उत्सव-आदीन् च प्रायश्चित्त-आदिकान् अपि ॥ २९।६७ ॥
pratiṣṭhā vā kṛtā viṣṇoḥ tena eva anyān ca . nitya-arcana-utsava-ādīn ca prāyaścitta-ādikān api .. 29.67 ..
तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च । तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः ॥ २९.६८ ॥
तद्-अभावे च तद्-पुत्रम् पौत्रम् नप्तारम् एव च । तद्-वंश-जम् वा तद्-शिष्यम् तद्-नियुक्तम् अथ अन्ततस् ॥ २९।६८ ॥
tad-abhāve ca tad-putram pautram naptāram eva ca . tad-vaṃśa-jam vā tad-śiṣyam tad-niyuktam atha antatas .. 29.68 ..
आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचिथ् । वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयं ॥ २९.६९ ॥
आचार्य-सन्निधौ न अन्यम् आचार्यम् वरयेत् । वरयेत् यदि राष्ट्रस्य राज्ञः च अपि महत् भयम् ॥ २९।६९ ॥
ācārya-sannidhau na anyam ācāryam varayet . varayet yadi rāṣṭrasya rājñaḥ ca api mahat bhayam .. 29.69 ..
भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति । तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरं ॥ २९.७० ॥
भवेत् च निष्फला पूजा सर्वम् कार्यम् विनश्यति । तस्मात् सर्व-प्रयत्नेन न कुर्यात् गुरु-संकरम् ॥ २९।७० ॥
bhavet ca niṣphalā pūjā sarvam kāryam vinaśyati . tasmāt sarva-prayatnena na kuryāt guru-saṃkaram .. 29.70 ..
अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे । अब्जानले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुं ॥ २९.७१ ॥
अज्ञानात् अर्थ-लोभात् वा कृते तु आचार्य-संकरे । अब्ज-अनले महाशान्तिम् हुत्वा गुरुम् ॥ २९।७१ ॥
ajñānāt artha-lobhāt vā kṛte tu ācārya-saṃkare . abja-anale mahāśāntim hutvā gurum .. 29.71 ..
याचयित्वा क्षमऽऽस्वेति पूजयित्वा विशेषतः । पनस्तेनैव तत्कर्म कारयेदिति शासनं ॥ २९.७२ ॥
याचयित्वा क्षम आस्व इति पूजयित्वा विशेषतः । पनः तेन एव तत् कर्म कारयेत् इति शासनम् ॥ २९।७२ ॥
yācayitvā kṣama āsva iti pūjayitvā viśeṣataḥ . panaḥ tena eva tat karma kārayet iti śāsanam .. 29.72 ..
आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे । तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा ॥ २९.७३ ॥
आचार्य-दीनाम् अलाभे तु तद्-रूपम् लेखयेत् पटे । तद्-सन्निधौ युक्तम् अन्यम् आचार्यम् वरयेत् तथा ॥ २९।७३ ॥
ācārya-dīnām alābhe tu tad-rūpam lekhayet paṭe . tad-sannidhau yuktam anyam ācāryam varayet tathā .. 29.73 ..
एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणां । आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः ॥ २९.७४ ॥
एकस्मिन् आलये स्यात् चेद् सन्निपातः तु कर्मणाम् । आचार्यम् संप्रणम्य एव तद्-पुत्र-आद्यैः विधानतः ॥ २९।७४ ॥
ekasmin ālaye syāt ced sannipātaḥ tu karmaṇām . ācāryam saṃpraṇamya eva tad-putra-ādyaiḥ vidhānataḥ .. 29.74 ..
कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः । पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः ॥ २९.७५ ॥
कारयेत् तद्-अलाभे तु कारयेत् तन्त्रतः गुरुः । पूर्वम् तु योग-मार्गेण प्रतिष्ठाप्य अर्चिते पुनर् ॥ २९।७५ ॥
kārayet tad-alābhe tu kārayet tantrataḥ guruḥ . pūrvam tu yoga-mārgeṇa pratiṣṭhāpya arcite punar .. 29.75 ..
देवीभ्यां सह पश्चात्तु कारयेत्स्थापनं यदि । आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृथ् ॥ २९.७६ ॥
देवीभ्याम् सह पश्चात् तु कारयेत् स्थापनम् यदि । आभिचारिकम् एव स्यात् राज-राष्ट्र-विनाश-कृथ् ॥ २९।७६ ॥
devībhyām saha paścāt tu kārayet sthāpanam yadi . ābhicārikam eva syāt rāja-rāṣṭra-vināśa-kṛth .. 29.76 ..
ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः । विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, ॥ २९.७७ ॥
ध्रुव-कौतुक-संयुक्ते पूज्यमाने पुरा ततस् । विमान-ध्रुवयोः नाशे ब्रह्मस्थाने ध्रुव-अर्चनम्, ॥ २९।७७ ॥
dhruva-kautuka-saṃyukte pūjyamāne purā tatas . vimāna-dhruvayoḥ nāśe brahmasthāne dhruva-arcanam, .. 29.77 ..
कौतुकं चोत्सवस्थाने स्थापयेदिति के चन । स्थानके चासनं कुर्याच्छयनं वापि चेच्छया ॥ २९.७८ ॥
कौतुकम् च उत्सव-स्थाने स्थापयेत् इति के चन । स्थानके च आसनम् कुर्यात् शयनम् वा अपि च इच्छया ॥ २९।७८ ॥
kautukam ca utsava-sthāne sthāpayet iti ke cana . sthānake ca āsanam kuryāt śayanam vā api ca icchayā .. 29.78 ..
असनेशयनं कुर्यात्थ्सानकं न तु कारयेथ् । शयने नासनं चैव स्थानकं कारयेद्विधिः ॥ २९.७९ ॥
असनेशयनम् न तु कारयेथ् । शयने न आसनम् च एव स्थानकम् कारयेत् विधिः ॥ २९।७९ ॥
asaneśayanam na tu kārayeth . śayane na āsanam ca eva sthānakam kārayet vidhiḥ .. 29.79 ..
कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा । असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा ॥ २९.८० ॥
कौतुकम् स्थितम् आसीन मा औत्सवम् कारयेत् तथा । कौतुकम् कुर्यात् थ्सितम् औत्सवम् एव वा ॥ २९।८० ॥
kautukam sthitam āsīna mā autsavam kārayet tathā . kautukam kuryāt thsitam autsavam eva vā .. 29.80 ..
स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेथ् । अवतारगणस्यैव मूर्तीनां पञ्चकस्य च ॥ २९.८१ ॥
स्नपनम् बलिबेरम् च स्थितम् सर्वत्र । अवतार-गणस्य एव मूर्तीनाम् पञ्चकस्य च ॥ २९।८१ ॥
snapanam baliberam ca sthitam sarvatra . avatāra-gaṇasya eva mūrtīnām pañcakasya ca .. 29.81 ..
अन्योन्यसंकरेणैव स्थापने कौतुकस्य च । महत्तरो भवेद्दो, स्तद्दोषशमवाय वै ॥ २९.८२ ॥
अन्योन्य-संकरेण एव स्थापने कौतुकस्य च । महत्तरः भवेत् दः, वै ॥ २९।८२ ॥
anyonya-saṃkareṇa eva sthāpane kautukasya ca . mahattaraḥ bhavet daḥ, vai .. 29.82 ..
हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेथ् । अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनं ॥ २९.८३ ॥
हुत्वा तु महतीम् शान्तिम् यथास्थाने तु स्थापयेथ् । अथ वक्ष्ये विशेषेण शान्ति-पञ्चक-कल्पनम् ॥ २९।८३ ॥
hutvā tu mahatīm śāntim yathāsthāne tu sthāpayeth . atha vakṣye viśeṣeṇa śānti-pañcaka-kalpanam .. 29.83 ..
नराणां पापबाहुल्यादपराधविशेषतः । देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरं ॥ २९.८४ ॥
नराणाम् पाप-बाहुल्यात् अपराध-विशेषतः । देवाः सृजन्ति अद्भुतानि तेषु दृष्टेषु स त्वरम् ॥ २९।८४ ॥
narāṇām pāpa-bāhulyāt aparādha-viśeṣataḥ . devāḥ sṛjanti adbhutāni teṣu dṛṣṭeṣu sa tvaram .. 29.84 ..
कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृथ् । कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः ॥ २९.८५ ॥
कुर्यात् शान्तिम् विपरीते तु । कर्तृ-आराधकयोः च एव राज्ञः राष्ट्रस्य वास्तुवः ॥ २९।८५ ॥
kuryāt śāntim viparīte tu . kartṛ-ārādhakayoḥ ca eva rājñaḥ rāṣṭrasya vāstuvaḥ .. 29.85 ..
संक्षोभो जायते सद्यो विनाशो भवति ध्रुवं । द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः ॥ २९.८६ ॥
संक्षोभः जायते सद्यस् विनाशः भवति ध्रुवम् । द्वादश-अह-अन्तरे तस्मात् शान्तिम् कुर्यात् विधानतः ॥ २९।८६ ॥
saṃkṣobhaḥ jāyate sadyas vināśaḥ bhavati dhruvam . dvādaśa-aha-antare tasmāt śāntim kuryāt vidhānataḥ .. 29.86 ..
अतीते द्वादशाहेतु महाशान्तिपुरस्सरं । संपूज्य वैष्णवान्शक्त्यादत्वा वै भूरिदक्षिणां ॥ २९.८७ ॥
अतीते महाशान्ति-पुरस्सरम् । संपूज्य वैष्णवान् शक्त्या दत्वा वै भूरि-दक्षिणाम् ॥ २९।८७ ॥
atīte mahāśānti-purassaram . saṃpūjya vaiṣṇavān śaktyā datvā vai bhūri-dakṣiṇām .. 29.87 ..
आरभेदुत्तरं कर्म मासेऽतीते विशेषतः । सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा ॥ २९.८८ ॥
आरभेत् उत्तरम् कर्म मासे अतीते विशेषतः । सप्त-अहम् तु महाशान्तिम् हुत्वा विप्र-शतम् तथा ॥ २९।८८ ॥
ārabhet uttaram karma māse atīte viśeṣataḥ . sapta-aham tu mahāśāntim hutvā vipra-śatam tathā .. 29.88 ..
भोजयित्वा च देवेशमनुमान्य तु कारयेथ् । षण्मासे समतीते तु रमते तत्र नोहरिः ॥ २९.८९ ॥
भोजयित्वा च देवेशम् अनुमान्य तु । षष्-मासे समतीते तु रमते तत्र नोहरिः ॥ २९।८९ ॥
bhojayitvā ca deveśam anumānya tu . ṣaṣ-māse samatīte tu ramate tatra nohariḥ .. 29.89 ..
तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदितां । भ्ॐआन्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतं ॥ २९.९० ॥
तस्मात् सर्व-प्रयत्नेन कुर्यात् शान्तिम् यथा उदिताम् । भों आन्तरिक्ष-दिव्य-आख्य-भेदात् त्रिविधम् अद्भुतम् ॥ २९।९० ॥
tasmāt sarva-prayatnena kuryāt śāntim yathā uditām . bhoṃ āntarikṣa-divya-ākhya-bhedāt trividham adbhutam .. 29.90 ..
ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले । सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनं ॥ २९.९१ ॥
ग्रह-युद्धः च भेदः च विकारः ग्रह-मण्डले । सर्व-ग्रास-उपरागः च दुर्भिक्षः च अक्ष-भेदनम् ॥ २९।९१ ॥
graha-yuddhaḥ ca bhedaḥ ca vikāraḥ graha-maṇḍale . sarva-grāsa-uparāgaḥ ca durbhikṣaḥ ca akṣa-bhedanam .. 29.91 ..
एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते । आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः ॥ २९.९२ ॥
एवमादीनि दिव्यानि तु अद्भुतानि प्रचक्षते । आन्तरिक्षाणि च अर्क-इन्द्वोः परिवेषः निरन्तरः ॥ २९।९२ ॥
evamādīni divyāni tu adbhutāni pracakṣate . āntarikṣāṇi ca arka-indvoḥ pariveṣaḥ nirantaraḥ .. 29.92 ..
वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः । रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले ॥ २९.९३ ॥
वर्ण-अन्तरेण बाहुल्यात् परिवेषः तथाविधः । रात्रौ इन्द्रधमः देवसद्म च आकाश-मण्डले ॥ २९।९३ ॥
varṇa-antareṇa bāhulyāt pariveṣaḥ tathāvidhaḥ . rātrau indradhamaḥ devasadma ca ākāśa-maṇḍale .. 29.93 ..
अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनं । नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनं ॥ २९.९४ ॥
अशनि-उल्का-आदि-पातः च राहु-पुच्छ-आदि-दर्शनम् । नक्षत्र-पतनम् केतोः धूमस्य इन्द्रस्य दर्शनम् ॥ २९।९४ ॥
aśani-ulkā-ādi-pātaḥ ca rāhu-puccha-ādi-darśanam . nakṣatra-patanam ketoḥ dhūmasya indrasya darśanam .. 29.94 ..
गन्धर्वनगरस्यापि दर्शनं पतनं तु वा । प्रतिसूर्याब्जनक्षत्रदर्शनं संप्रचक्षते ॥ २९.९५ ॥
गन्धर्वनगरस्य अपि दर्शनम् पतनम् तु वा । प्रति सूर्य-अब्ज-नक्षत्र-दर्शनम् संप्रचक्षते ॥ २९।९५ ॥
gandharvanagarasya api darśanam patanam tu vā . prati sūrya-abja-nakṣatra-darśanam saṃpracakṣate .. 29.95 ..
भ्ॐआन्यनेकथोक्तानि चरस्थिरविभेदतः । देशकालस्वभावादिविरुद्धं प्रसवादिकं ॥ २९.९६ ॥
चर-स्थिर-विभेदतः । देश-काल-स्वभाव-आदि-विरुद्धम् प्रसव-आदिकम् ॥ २९।९६ ॥
cara-sthira-vibhedataḥ . deśa-kāla-svabhāva-ādi-viruddham prasava-ādikam .. 29.96 ..
पृषदंशकसर्पाश्वयोनिजानां विशेषतः । गोनागमहिषाद्येषु तिर्यक्षु जननं तथा ॥ २९.९७ ॥
पृषत्-अंशक-सर्प-अश्व-योनि-जानाम् विशेषतः । गोनाग-महिष-आद्येषु तिर्यक्षु जननम् तथा ॥ २९।९७ ॥
pṛṣat-aṃśaka-sarpa-aśva-yoni-jānām viśeṣataḥ . gonāga-mahiṣa-ādyeṣu tiryakṣu jananam tathā .. 29.97 ..
कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु । विवर्णाकारवासादिराश्रयादिस्तथालये ॥ २९.९८ ॥
कृमि-कीट-पतङ्गेषु विष्किरेषु अण्डज-आदिषु । विवर्ण-आकार-वास-आदिः आश्रय-आदिः तथा आलये ॥ २९।९८ ॥
kṛmi-kīṭa-pataṅgeṣu viṣkireṣu aṇḍaja-ādiṣu . vivarṇa-ākāra-vāsa-ādiḥ āśraya-ādiḥ tathā ālaye .. 29.98 ..
रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु । दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमं ॥ २९.९९ ॥
रक्त-स्त्री-दर्शन-आदीनि च अद्भुतानि चरेषु तु । दिव्यानि च अन्तरिक्षाणि तेषाम् अत्र उत्तमोत्तमम् ॥ २९।९९ ॥
rakta-strī-darśana-ādīni ca adbhutāni careṣu tu . divyāni ca antarikṣāṇi teṣām atra uttamottamam .. 29.99 ..
नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमं । सरीसृपादिषु भवान्यथमानि वदन्तिहि ॥ २९.१०० ॥
नाराणि च उत्तमानि स्युः माहिष-आद्यानि मध्यमम् । सरीसृप-आदिषु ॥ २९।१०० ॥
nārāṇi ca uttamāni syuḥ māhiṣa-ādyāni madhyamam . sarīsṛpa-ādiṣu .. 29.100 ..
रोदनं हसनं जल्पो ज्वलनं परिवर्तनं । स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः ॥ २९.१०१ ॥
रोदनम् हसनम् जल्पः ज्वलनम् परिवर्तनम् । स्वेदः च रुधिर-स्रावः कृमि-कीन-आदि-संभवः ॥ २९।१०१ ॥
rodanam hasanam jalpaḥ jvalanam parivartanam . svedaḥ ca rudhira-srāvaḥ kṛmi-kīna-ādi-saṃbhavaḥ .. 29.101 ..
अकालस्फोटनं धूमश्चाङ्गकंपनमेव च । स्वापनास्वादनेचैव तृणवल्मीक संभवः ॥ २९.१०२ ॥
अकाल-स्फोटनम् धूमः च अङ्ग-कंपनम् एव च । तृण-वल्मीक-संभवः ॥ २९।१०२ ॥
akāla-sphoṭanam dhūmaḥ ca aṅga-kaṃpanam eva ca . tṛṇa-valmīka-saṃbhavaḥ .. 29.102 ..
प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा । पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा ॥ २९.१०३ ॥
प्रतिमायाम् भवेत् चेद् तु रक्त-स्त्री-दर्शनम् तथा । पाषण्ड-प्रतिलोम-अन्त्य-जातिभिः ॥ २९।१०३ ॥
pratimāyām bhavet ced tu rakta-strī-darśanam tathā . pāṣaṇḍa-pratiloma-antya-jātibhiḥ .. 29.103 ..
सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने । स्थूणाविरोहणे चैव चलने परिवर्तने ॥ २९.१०४ ॥
सृगाल-आदिभिः अस्पृश्यैः स्पर्शने च प्रवेशने । स्थूणा-विरोहणे च एव चलने परिवर्तने ॥ २९।१०४ ॥
sṛgāla-ādibhiḥ aspṛśyaiḥ sparśane ca praveśane . sthūṇā-virohaṇe ca eva calane parivartane .. 29.104 ..
तथापसर्पणे चैव कवाटशयनासने । भित्त्यायुधांबरे तद्वदग्निहोत्राद्युपस्करे ॥ २९.१०५ ॥
तथा अपसर्पणे च एव कवाट-शयन-आसने । भित्ति-आयुध-अंबरे तद्वत् अग्निहोत्र-आदि-उपस्करे ॥ २९।१०५ ॥
tathā apasarpaṇe ca eva kavāṭa-śayana-āsane . bhitti-āyudha-aṃbare tadvat agnihotra-ādi-upaskare .. 29.105 ..
विमाने च विकारश्च मक्षिकावृक्षपातने । प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च ॥ २९.१०६ ॥
विमाने च विकारः च मक्षिका-वृक्ष-पातने । प्रवर्तने च उपसर्पे पर्ण-पुष्प-फलेषु च ॥ २९।१०६ ॥
vimāne ca vikāraḥ ca makṣikā-vṛkṣa-pātane . pravartane ca upasarpe parṇa-puṣpa-phaleṣu ca .. 29.106 ..
शाखादौ विपरीतस्य दर्शनं च विशेषतः । रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु ॥ २९.१०७ ॥
शाखा-आदौ विपरीतस्य दर्शनम् च विशेषतः । रक्त-स्रावः जल-स्रावः च अद्भुतानि स्थिरेषु तु ॥ २९।१०७ ॥
śākhā-ādau viparītasya darśanam ca viśeṣataḥ . rakta-srāvaḥ jala-srāvaḥ ca adbhutāni sthireṣu tu .. 29.107 ..
तेषु गर्भकृहे चैव पीठे चैव भवानि तु । राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः ॥ २९.१०८ ॥
तेषु गर्भकृहे च एव पीठे च एव भवानि तु । राज्ञोः राष्ट्रस्य विप्राणाम् विशेषतः ॥ २९।१०८ ॥
teṣu garbhakṛhe ca eva pīṭhe ca eva bhavāni tu . rājñoḥ rāṣṭrasya viprāṇām viśeṣataḥ .. 29.108 ..
कर्त्राराधकयोर्नाश इति शातातपोऽब्रवीथ् । प्रासादजानि राज्ञां स्युः प्रासादेऽपि विशेषतः ॥ २९.१०९ ॥
कर्तृ-आराधकयोः नाशः इति शातातपः अब्रवीथ् । प्रासाद-जानि राज्ञाम् स्युः प्रासादे अपि विशेषतः ॥ २९।१०९ ॥
kartṛ-ārādhakayoḥ nāśaḥ iti śātātapaḥ abravīth . prāsāda-jāni rājñām syuḥ prāsāde api viśeṣataḥ .. 29.109 ..
अधिष्ठाने च पादे च प्रस्तरे च गलेऽपि च । शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु ॥ २९.११० ॥
अधिष्ठाने च पादे च प्रस्तरे च गले अपि च । शिखरे च भवानि स्युः क्षत्रियाणाम् क्रमेण तु ॥ २९।११० ॥
adhiṣṭhāne ca pāde ca prastare ca gale api ca . śikhare ca bhavāni syuḥ kṣatriyāṇām krameṇa tu .. 29.110 ..
अभिषेकस्य योग्यस्य युवराजस्य चैव हि । अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु ॥ २९.१११ ॥
अभिषेकस्य योग्यस्य युवराजस्य च एव हि । अभिषिक्तस्य सम्राजः च अत्याहित-कराणि तु ॥ २९।१११ ॥
abhiṣekasya yogyasya yuvarājasya ca eva hi . abhiṣiktasya samrājaḥ ca atyāhita-karāṇi tu .. 29.111 ..
प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा । पुरोहितस्य तन्मण्डलाधिपानां महद्भयं ॥ २९.११२ ॥
प्रथम-आवरणे वैश्य-जातीनाम् मन्त्रिणाम् तथा । पुरोहितस्य तत् मण्डल-अधिपानाम् महत् भयम् ॥ २९।११२ ॥
prathama-āvaraṇe vaiśya-jātīnām mantriṇām tathā . purohitasya tat maṇḍala-adhipānām mahat bhayam .. 29.112 ..
शूद्रजातिविपद्धेत्द्वितीयावरणादिषु । सस्यनाशो गजाश्वादिपशुनाशस्च जायते ॥ २९.११३ ॥
शूद्र-जाति-विपद्-हेत् द्वितीय-आवरण-आदिषु । सस्य-नाशः गज-अश्व-आदि-पशु-नाशः च जायते ॥ २९।११३ ॥
śūdra-jāti-vipad-het dvitīya-āvaraṇa-ādiṣu . sasya-nāśaḥ gaja-aśva-ādi-paśu-nāśaḥ ca jāyate .. 29.113 ..
पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनां । रुद्रालये तु सर्वेषां नृपस्य तु गुहालये ॥ २९.११४ ॥
पुरोधसः च अग्निकुण्डे ब्रह्मस्थाने द्विजन्मनाम् । रुद्र-आलये तु सर्वेषाम् नृपस्य तु गुहालये ॥ २९।११४ ॥
purodhasaḥ ca agnikuṇḍe brahmasthāne dvijanmanām . rudra-ālaye tu sarveṣām nṛpasya tu guhālaye .. 29.114 ..
सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा । श्षालये राजपत्नीनां दुर्गास्थानेऽन्ययोषितां ॥ २९.११५ ॥
सेनेशानाम् विपत्तिः स्यात् वक्रतुण्ड-आलये तथा । राज-पत्नीनाम् दुर्गा-स्थाने अन्य-योषिताम् ॥ २९।११५ ॥
seneśānām vipattiḥ syāt vakratuṇḍa-ālaye tathā . rāja-patnīnām durgā-sthāne anya-yoṣitām .. 29.115 ..
मातृस्थानेऽन्त्यजातीनामोषधीनां कुबेरके । नृपवाहनशस्त्रोपजीविनां भास्करालये ॥ २९.११६ ॥
मातृ-स्थाने अन्त्य-जातीनाम् ओषधीनाम् कुबेरके । नृप-वाहन-शस्त्र-उपजीविनाम् भास्कर-आलये ॥ २९।११६ ॥
mātṛ-sthāne antya-jātīnām oṣadhīnām kuberake . nṛpa-vāhana-śastra-upajīvinām bhāskara-ālaye .. 29.116 ..
अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेथ् । आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च ॥ २९.११७ ॥
अन्य-देवालये तद्-तद्-भोक्तानाम् अपि । आस्थान-मण्डप-सङ्ग-मण्डब-प्राङ्गणेषु च ॥ २९।११७ ॥
anya-devālaye tad-tad-bhoktānām api . āsthāna-maṇḍapa-saṅga-maṇḍaba-prāṅgaṇeṣu ca .. 29.117 ..
महानसे नृपावासे क्रीडास्थाने विशेषतः । आचार्ययजमानादिपदार्थिनिलयेषु च ॥ २९.११८ ॥
महानसे नृप-आवासे क्रीडा-स्थाने विशेषतः । आचार्य-यजमान-आदि-पद-अर्थि-निलयेषु च ॥ २९।११८ ॥
mahānase nṛpa-āvāse krīḍā-sthāne viśeṣataḥ . ācārya-yajamāna-ādi-pada-arthi-nilayeṣu ca .. 29.118 ..
चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः । वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः ॥ २९.११९ ॥
चैत्य-वृक्ष-आदिषु उद्भूताः रक्त-स्त्री-दर्शन-आदयः । वल्मीक-आद्याः च फल-दाः तद्-तद्-दिशि उक्त-मार्गतः ॥ २९।११९ ॥
caitya-vṛkṣa-ādiṣu udbhūtāḥ rakta-strī-darśana-ādayaḥ . valmīka-ādyāḥ ca phala-dāḥ tad-tad-diśi ukta-mārgataḥ .. 29.119 ..
भ्ॐएषु देवबेरार्चापीठगर्भगृहार्ते । जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः ॥ २९.१२० ॥
भोंएषु देव-बेर-अर्चा-पीठ-गर्भगृह-आर्ते । संप्रोक्ताः उत्तम-उत्तम-संज्ञिताः ॥ २९।१२० ॥
bhoṃeṣu deva-bera-arcā-pīṭha-garbhagṛha-ārte . saṃproktāḥ uttama-uttama-saṃjñitāḥ .. 29.120 ..
उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे । मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः ॥ २९.१२१ ॥
उत्तमाः तु पुनर् जाताः प्राकारे मुख-मण्डपे । मध्यमाः प्रथम-आवरणे शेषेषु उक्ताः तथा अधमाः ॥ २९।१२१ ॥
uttamāḥ tu punar jātāḥ prākāre mukha-maṇḍape . madhyamāḥ prathama-āvaraṇe śeṣeṣu uktāḥ tathā adhamāḥ .. 29.121 ..
तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः । अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः ॥ २९.१२२ ॥
तथा राज-अङ्गणे च उत्तमोत्तमाः परितस् ततस् । अङ्कणेषु उत्तमाः अन्तर्वास्तुके मध्यमाः स्मृताः ॥ २९।१२२ ॥
tathā rāja-aṅgaṇe ca uttamottamāḥ paritas tatas . aṅkaṇeṣu uttamāḥ antarvāstuke madhyamāḥ smṛtāḥ .. 29.122 ..
अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतं । दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते ॥ २९.१२३ ॥
अधमा वास्तुनः बाह्ये तारतम्यम् इति स्मृतम् । दिव्य-आन्तरिक्षयोः ना अस्ति चिकित्सा शान्तिः इष्यते ॥ २९।१२३ ॥
adhamā vāstunaḥ bāhye tāratamyam iti smṛtam . divya-āntarikṣayoḥ nā asti cikitsā śāntiḥ iṣyate .. 29.123 ..
भ्ॐएषु तु चरेष्वत्र निमित्तं च निमित्तिनं । देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेथ् ॥ २९.१२४ ॥
भोंएषु तु चरेषु अत्र निमित्तम् च निमित्तिनम् । देश-अन्तरे वासयित्वा शान्तिम् तत्र समाचरेथ् ॥ २९।१२४ ॥
bhoṃeṣu tu careṣu atra nimittam ca nimittinam . deśa-antare vāsayitvā śāntim tatra samācareth .. 29.124 ..
स्थिरेषु प्रतिमानां तु रोदने हसने तथा । ज्वलने च तथा देवं संस्थाप्य तरुणालये ॥ २९.१२५ ॥
स्थिरेषु प्रतिमानाम् तु रोदने हसने तथा । ज्वलने च तथा देवम् संस्थाप्य तरुण-आलये ॥ २९।१२५ ॥
sthireṣu pratimānām tu rodane hasane tathā . jvalane ca tathā devam saṃsthāpya taruṇa-ālaye .. 29.125 ..
तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः । शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमाथ् ॥ २९.१२६ ॥
तद्-बेर-स्थाम् समारोप्य शक्तिम् तत्र विधानतः । शान्तिम् कृत्वा पुनर् ॥ २९।१२६ ॥
tad-bera-sthām samāropya śaktim tatra vidhānataḥ . śāntim kṛtvā punar .. 29.126 ..
परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववथ् । स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेथ् ॥ २९.१२७ ॥
परिवृत्तौ कुर्यात् शान्ति-आदि । स्वेदे च रुधिर-स्रावे सर्वम् रोदन-वत् चरेथ् ॥ २९।१२७ ॥
parivṛttau kuryāt śānti-ādi . svede ca rudhira-srāve sarvam rodana-vat careth .. 29.127 ..
कृमिकीटपतङ्गानां कृणादीनामथोद्भवे । आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः ॥ २९.१२८ ॥
कृमि-कीट-पतङ्गानाम् कृण-आदीनाम् अथ उद्भवे । आरोप्य पूर्ववत् शक्तिम् पुनर् संधाय युक्तितः ॥ २९।१२८ ॥
kṛmi-kīṭa-pataṅgānām kṛṇa-ādīnām atha udbhave . āropya pūrvavat śaktim punar saṃdhāya yuktitaḥ .. 29.128 ..
शान्त्यादीनाचरेदेवमकालस्फोटनादिके । बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च ॥ २९.१२९ ॥
शान्ति-आदीन् आचरेत् एवम् अकाल-स्फोटन-आदिके । बेर-अर्चा-पीठके च ॥ २९।१२९ ॥
śānti-ādīn ācaret evam akāla-sphoṭana-ādike . bera-arcā-pīṭhake ca .. 29.129 ..
वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये । यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः ॥ २९.१३० ॥
वल्मीक-आदि-उद्भवे देवम् संस्थाप्य तरुण-आलये । यावद्दोषम् खनित्वा एव गव्यैः अभ्युक्ष्य पञ्चभिः ॥ २९।१३० ॥
valmīka-ādi-udbhave devam saṃsthāpya taruṇa-ālaye . yāvaddoṣam khanitvā eva gavyaiḥ abhyukṣya pañcabhiḥ .. 29.130 ..
संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेथ् । प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते ॥ २९.१३१ ॥
संशोध्य सर्वम् संधाय मा आचरेथ् । प्रासाद-बाह्ये च उत्पन्ने विवरे विशदीकृते ॥ २९।१३१ ॥
saṃśodhya sarvam saṃdhāya mā ācareth . prāsāda-bāhye ca utpanne vivare viśadīkṛte .. 29.131 ..
पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना । आलिप्य शर्करां कुर्याच्छान्तिं दिव्यप्रचोदितां ॥ २९.१३२ ॥
पेषयित्वा मरीचि-आदि-जलेन आपूर्य च अश्मना । आलिप्य शर्कराम् कुर्यात् शान्तिम् दिव्य-प्रचोदिताम् ॥ २९।१३२ ॥
peṣayitvā marīci-ādi-jalena āpūrya ca aśmanā . ālipya śarkarām kuryāt śāntim divya-pracoditām .. 29.132 ..
पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः । मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितं ॥ २९.१३३ ॥
पुनर् अपि उदिते कुर्यात् एवम् एव तु युक्तितः । मक्षिका-दर्शने तत् त्यद्-व्यपोह्य-त्व-विलंबितम् ॥ २९।१३३ ॥
punar api udite kuryāt evam eva tu yuktitaḥ . makṣikā-darśane tat tyad-vyapohya-tva-vilaṃbitam .. 29.133 ..
शोधयित्वा ततश्शान्तिमारभेत विचक्षणः । अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेथ् ॥ २९.१३४ ॥
शोधयित्वा ततस् शान्तिम् आरभेत विचक्षणः । अ स्पृश्य-स्पक्शने तद्वत् कृत्वा शान्तिम् समाचरेथ् ॥ २९।१३४ ॥
śodhayitvā tatas śāntim ārabheta vicakṣaṇaḥ . a spṛśya-spakśane tadvat kṛtvā śāntim samācareth .. 29.134 ..
स्थूणाविरोहणादौ च पुनस्संधाय चाचरेथ् । हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका ॥ २९.१३५ ॥
स्थूणा-विरोहण-आदौ च पुनर् संधाय च आचरेथ् । हठात् वृक्ष-अधिपतिने शान्तिः स् तद्-त्याग-पूर्विका ॥ २९।१३५ ॥
sthūṇā-virohaṇa-ādau ca punar saṃdhāya ca ācareth . haṭhāt vṛkṣa-adhipatine śāntiḥ s tad-tyāga-pūrvikā .. 29.135 ..
राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः । वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचितां ॥ २९.१३६ ॥
राज-अङ्गणे समुत्पन्ने राजानम् स बलम् पुनर् । वेश्म-अन्तरम् वासयित्वा शान्तिम् कृत्वा यथोचिताम् ॥ २९।१३६ ॥
rāja-aṅgaṇe samutpanne rājānam sa balam punar . veśma-antaram vāsayitvā śāntim kṛtvā yathocitām .. 29.136 ..
अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेथ् । अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च ॥ २९.१३७ ॥
अभिषिच्य पुनर् युक्तेदिने राष्ट्रम् प्रवेशयेथ् । अथ उत्तम-उत्तमस्य उत्तमस्य स्यात् मध्यमस्य च ॥ २९।१३७ ॥
abhiṣicya punar yuktedine rāṣṭram praveśayeth . atha uttama-uttamasya uttamasya syāt madhyamasya ca .. 29.137 ..
अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमं । क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा ॥ २९.१३८ ॥
अधमस्य अपि च अ स्पृश्य-स्पर्शनस्य यथाक्रमम् । क्रमेण अद्भुत-शान्तिः तु प्रभूता महती तथा ॥ २९।१३८ ॥
adhamasya api ca a spṛśya-sparśanasya yathākramam . krameṇa adbhuta-śāntiḥ tu prabhūtā mahatī tathā .. 29.138 ..
शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते । आलयाभिमुखे तद्वदैशान्यां चोत्तरेऽथ वा ॥ २९.१३९ ॥
शान्तिः शुद्धिः इति प्राज्ञैः पञ्चधा शान्तिः उच्यते । आलय-अभिमुखे तद्वत् ऐशान्याम् च उत्तरे अथ वा ॥ २९।१३९ ॥
śāntiḥ śuddhiḥ iti prājñaiḥ pañcadhā śāntiḥ ucyate . ālaya-abhimukhe tadvat aiśānyām ca uttare atha vā .. 29.139 ..
पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपां । कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरं ॥ २९.१४० ॥
पर्वत-अग्रे तटाकस्य तीरे वा मण्डपम् प्रपाम् । कूटम् वा षोडश-स्तंभ-संयुक्ताम् सु मनोहरम् ॥ २९।१४० ॥
parvata-agre taṭākasya tīre vā maṇḍapam prapām . kūṭam vā ṣoḍaśa-staṃbha-saṃyuktām su manoharam .. 29.140 ..
चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुतां । तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः ॥ २९.१४१ ॥
चतुर्-हस्त-प्रमाण-अन्तर् त्संभ-अन्तर-समायुताम् । तान-उन्नत-अचल-आयुक्ताम्? कृत्वा मध्ये विधानतः ॥ २९।१४१ ॥
catur-hasta-pramāṇa-antar tsaṃbha-antara-samāyutām . tāna-unnata-acala-āyuktām? kṛtvā madhye vidhānataḥ .. 29.141 ..
कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलं । खनित्वैव चत्प्राच्यां द्विहस्तायत विस्तृतं ॥ २९.१४२ ॥
कुण्डम् श्रामणक-उक्तम् तु कृत्वा अधस् द्वादश-अङ्गुलम् । खनित्वा एव विस्तृतम् ॥ २९।१४२ ॥
kuṇḍam śrāmaṇaka-uktam tu kṛtvā adhas dvādaśa-aṅgulam . khanitvā eva vistṛtam .. 29.142 ..
हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमं । प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकं ॥ २९.१४३ ॥
हस्त-मात्र-समुत्सेधम् कृत्वा स्थण्डिलम् उत्तमम् । प्राच्-आदिषु चतुः धिक्षु क्रमेण आहवनीयकम् ॥ २९।१४३ ॥
hasta-mātra-samutsedham kṛtvā sthaṇḍilam uttamam . prāc-ādiṣu catuḥ dhikṣu krameṇa āhavanīyakam .. 29.143 ..
अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेथ् । अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च ॥ २९.१४४ ॥
अन्वाहार्यम् च आवसथ्यम् गार्हपत्यम् च कारयेथ् । अग्नेय-आदिषु कोणेषु कुण्डानि औपासनानि च ॥ २९।१४४ ॥
anvāhāryam ca āvasathyam gārhapatyam ca kārayeth . agneya-ādiṣu koṇeṣu kuṇḍāni aupāsanāni ca .. 29.144 ..
कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेथ् । पूर्मकंभैरङ्कुरैश्च कदलीभिर्ध्वजैरपि ॥ २९.१४५ ॥
कृत्वा अद्वारेषु विधिना तोरण-आदि । पूर्म-कंभैः अङ्कुरैः च कदलीभिः ध्वजैः अपि ॥ २९।१४५ ॥
kṛtvā advāreṣu vidhinā toraṇa-ādi . pūrma-kaṃbhaiḥ aṅkuraiḥ ca kadalībhiḥ dhvajaiḥ api .. 29.145 ..
स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च । अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरं ॥ २९.१४६ ॥
स्तंभ-वेष्टनक-आद्यैः च दर्भ-मालाभिः एव च । अलङ्कृत्य वितान-आद्यैः यथा विभव-स्तरम् ॥ २९।१४६ ॥
staṃbha-veṣṭanaka-ādyaiḥ ca darbha-mālābhiḥ eva ca . alaṅkṛtya vitāna-ādyaiḥ yathā vibhava-staram .. 29.146 ..
स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे । पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे ॥ २९.१४७ ॥
स्थण्डिले धान्य-राशिम् तु कृत्वा तस्य च मध्यमे । पद्मम् अष्ट-दलम् कृत्वा तण्डुलैः तस्य मध्यमे ॥ २९।१४७ ॥
sthaṇḍile dhānya-rāśim tu kṛtvā tasya ca madhyame . padmam aṣṭa-dalam kṛtvā taṇḍulaiḥ tasya madhyame .. 29.147 ..
सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः । द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवथ् ॥ २९.१४८ ॥
सौवर्णम् राजतम् ताम्रम् कृण्मयम् वा स्व-शक्तितः । द्वात्रिंशत्-प्रस्थ-संपूर्णम् कंभम् आदाय ॥ २९।१४८ ॥
sauvarṇam rājatam tāmram kṛṇmayam vā sva-śaktitaḥ . dvātriṃśat-prastha-saṃpūrṇam kaṃbham ādāya .. 29.148 ..
तन्तुना परिष्ट्यैव यवान्तरमनन्तं । वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च ॥ २९.१४९ ॥
तन्तुना परिष्ट्य एव यव-अन्तरम् अनन्तम् । वस्त्र-युग्मेन संवेष्ट्य भूषणैः च विभूष्य च ॥ २९।१४९ ॥
tantunā pariṣṭya eva yava-antaram anantam . vastra-yugmena saṃveṣṭya bhūṣaṇaiḥ ca vibhūṣya ca .. 29.149 ..
सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च । वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि ॥ २९.१५० ॥
सौवर्ण-मङ्गलानि अष्टौ तथा पञ्च आयुधानि च । वर्ण-चिह्नानि तादृंशि च अहीनानि अङ्गुलात् अपि ॥ २९।१५० ॥
sauvarṇa-maṅgalāni aṣṭau tathā pañca āyudhāni ca . varṇa-cihnāni tādṛṃśi ca ahīnāni aṅgulāt api .. 29.150 ..
रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु । सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि ॥ २९.१५१ ॥
रत्नानि हेम रजतम् ताम्रम् कांस्यम् तथा त्रपु । सीस-अयः-तीक्ष्णुक-अन्तानि ग्रह-रूपाणि च एव हि ॥ २९।१५१ ॥
ratnāni hema rajatam tāmram kāṃsyam tathā trapu . sīsa-ayaḥ-tīkṣṇuka-antāni graha-rūpāṇi ca eva hi .. 29.151 ..
निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः । कर्पूरचन्दनोशीरलवङ्गैलादिकानपि ॥ २९.१५२ ॥
निक्षिप्य आपूर्य तोय-इव शुद्धेन तु विधानतः । कर्पूर-चन्दन-उशीर-लवङ्ग-एला-आदिकान् अपि ॥ २९।१५२ ॥
nikṣipya āpūrya toya-iva śuddhena tu vidhānataḥ . karpūra-candana-uśīra-lavaṅga-elā-ādikān api .. 29.152 ..
गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् । तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै ॥ २९.१५३ ॥
गन्ध-द्रव्याणि च अन्यानि न्यस्य चूत-आदि-पल्लवान् । तद्-मुखम् तु पिधाना इव पिदध्यात् सदृशेन वै ॥ २९।१५३ ॥
gandha-dravyāṇi ca anyāni nyasya cūta-ādi-pallavān . tad-mukham tu pidhānā iva pidadhyāt sadṛśena vai .. 29.153 ..
आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः । नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः ॥ २९.१५४ ॥
आचार्यम् ऋत्विजः च अपि वृत्वा शास्त्र-विधानतः । नव-वस्त्र-उत्तरीय-आद्यैः पञ्चाङ्ग-अर्पित-भूषणैः ॥ २९।१५४ ॥
ācāryam ṛtvijaḥ ca api vṛtvā śāstra-vidhānataḥ . nava-vastra-uttarīya-ādyaiḥ pañcāṅga-arpita-bhūṣaṇaiḥ .. 29.154 ..
अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितं । मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा ॥ २९.१५५ ॥
अलङ्कृत्य अग्निकुण्डेषु हुत्वा आघारम् यथा उदितम् । मध्ये सूर्यम् तथा इन्द्र-आदि भार्गव-अङ्गारकौ तथा ॥ २९।१५५ ॥
alaṅkṛtya agnikuṇḍeṣu hutvā āghāram yathā uditam . madhye sūryam tathā indra-ādi bhārgava-aṅgārakau tathā .. 29.155 ..
मन्दं गुरुं पावकादि चन्द्रराहुध्वजान्बुधं । प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत्ततः ॥ २९.१५६ ॥
मन्दम् गुरुम् पावक-आदि चन्द्र-राहु-ध्वजान् बुधम् । प्रदक्षिण-वशेन एव ध्यात्वा अवाङ्या आ आङ्याः आ चयेत् ततस् ॥ २९।१५६ ॥
mandam gurum pāvaka-ādi candra-rāhu-dhvajān budham . pradakṣiṇa-vaśena eva dhyātvā avāṅyā ā āṅyāḥ ā cayet tatas .. 29.156 ..
अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतं । अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै ॥ २९.१५७ ॥
अष्ट-अक्षरेण अयुतम् वा सहस्रम् च अष्ट-संयुतम् । अभिमृश्य विधानेन ग्रह-यज्ञ-उदितेन वै ॥ २९।१५७ ॥
aṣṭa-akṣareṇa ayutam vā sahasram ca aṣṭa-saṃyutam . abhimṛśya vidhānena graha-yajña-uditena vai .. 29.157 ..
हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमाथ् । हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले ॥ २९.१५८ ॥
हुनेत् च तद्-तद्-दैवत्यम् समिध्-चरु-घृतैः । हुत्वा अष्ट-उत्तर-साहस्रम् ततस् वैखानस-अनले ॥ २९।१५८ ॥
hunet ca tad-tad-daivatyam samidh-caru-ghṛtaiḥ . hutvā aṣṭa-uttara-sāhasram tatas vaikhānasa-anale .. 29.158 ..
घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकं । हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः ॥ २९.१५९ ॥
घृत-आप्लुतैः बिल्व-दलैः अष्टोत्तर-सहस्रकम् । हुनेत् अष्ट-अक्षरम् नित्यम् तथा ॥ २९।१५९ ॥
ghṛta-āplutaiḥ bilva-dalaiḥ aṣṭottara-sahasrakam . hunet aṣṭa-akṣaram nityam tathā .. 29.159 ..
दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः । वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः ॥ २९.१६० ॥
दूर्वा-अपूप-व्रीहि-तिल-चरु-लाज-अब्ज-सक्तुभिः । वैष्णव्या च एव गायत् सा पूर्ववत् जुहुयात् गुरुः ॥ २९।१६० ॥
dūrvā-apūpa-vrīhi-tila-caru-lāja-abja-saktubhiḥ . vaiṣṇavyā ca eva gāyat sā pūrvavat juhuyāt guruḥ .. 29.160 ..
घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतं । हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकं ॥ २९.१६१ ॥
घृतेन अष्ट-अक्षरेण एव सहस्रम् च अष्ट-संयुतम् । हुत्वा अन्ते तु घृतेन एव वैष्णवम् विष्णुसूक्तकम् ॥ २९।१६१ ॥
ghṛtena aṣṭa-akṣareṇa eva sahasram ca aṣṭa-saṃyutam . hutvā ante tu ghṛtena eva vaiṣṇavam viṣṇusūktakam .. 29.161 ..
जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेथ् । यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमाथ् ॥ २९.१६२ ॥
जुहुयात् पौरुषम् सूक्तम् नृत्तैः गेयैः च । यथादिशम् चतुर्-वेदान् नित्यम् अध्यापयेत् क्रमात् ॥ २९।१६२ ॥
juhuyāt pauruṣam sūktam nṛttaiḥ geyaiḥ ca . yathādiśam catur-vedān nityam adhyāpayet kramāt .. 29.162 ..
कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा । स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः ॥ २९.१६३ ॥
कल्पसूत्रम् अथ औखेयम् प्रणीतम् गुरुणा पुरा । स्वाध्यायः यत्र यत्र उक्तः तत्र अध्येयम् विधानतः ॥ २९।१६३ ॥
kalpasūtram atha aukheyam praṇītam guruṇā purā . svādhyāyaḥ yatra yatra uktaḥ tatra adhyeyam vidhānataḥ .. 29.163 ..
ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेथ् । यदि देवालये दोषः कुंभपार्श्वेथ स्थण्डिले ॥ २९.१६४ ॥
ऋत्विग्भ्यः दक्षिणाम् दद्यात् एवम् सप्त-अहम् आचरेथ् । यदि देवालये दोषः स्थण्डिले ॥ २९।१६४ ॥
ṛtvigbhyaḥ dakṣiṇām dadyāt evam sapta-aham ācareth . yadi devālaye doṣaḥ sthaṇḍile .. 29.164 ..
देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः । देवस्याभिमुखे हुत्वा होममन्ते यथाविधि ॥ २९.१६५ ॥
देवम् तम् स्थाप्य च अभ्यर्छ्य निवेद्य च महाहविः । देवस्य अभिमुखे हुत्वा होमम् अन्ते यथाविधि ॥ २९।१६५ ॥
devam tam sthāpya ca abhyarchya nivedya ca mahāhaviḥ . devasya abhimukhe hutvā homam ante yathāvidhi .. 29.165 ..
नवाहं वाथ स्ताहं उत्सवं कारयेद्विधिः । दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपं ॥ २९.१६६ ॥
नव-अहम् वा अथ स्ताहम् उत्सवम् कारयेत् विधिः । दिव्य-अन्तरिक्षयोः कुंभ-जलेन प्लावयेत् नृपम् ॥ २९।१६६ ॥
nava-aham vā atha stāham utsavam kārayet vidhiḥ . divya-antarikṣayoḥ kuṃbha-jalena plāvayet nṛpam .. 29.166 ..
भ्ॐएषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपं । तत्पत्नीं चाभिषिञ्चेच्च गुरुं संपूज्य पार्थिवः ॥ २९.१६७ ॥
भोंएषु तत्थ्सलम् प्राक्ष्य शिष्ट-तोयेन वै नृपम् । तद्-पत्नीम् च अभिषिञ्चेत् च गुरुम् संपूज्य पार्थिवः ॥ २९।१६७ ॥
bhoṃeṣu tatthsalam prākṣya śiṣṭa-toyena vai nṛpam . tad-patnīm ca abhiṣiñcet ca gurum saṃpūjya pārthivaḥ .. 29.167 ..
सुवर्णपशुभूम्यादीन्दद्यादृत्विग्भ्य एव च । दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा ॥ २९.१६८ ॥
सुवर्ण-पशु-भूमि-आदीन् दद्यात् ऋत्विग्भ्यः एव च । दक्षिणाम् बहुलाम् दद्यात् जीवः यज्ञस्य दक्षिणा ॥ २९।१६८ ॥
suvarṇa-paśu-bhūmi-ādīn dadyāt ṛtvigbhyaḥ eva ca . dakṣiṇām bahulām dadyāt jīvaḥ yajñasya dakṣiṇā .. 29.168 ..
यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके । पूर्ववद्ग्रहयज्ञं च होमं श्रामणकेऽनले ॥ २९.१६९ ॥
यदि राज-गृहे दोषः कृत्वा मण्डपम् अन्तिके । पूर्ववत् ग्रह-यज्ञम् च होमम् श्रामणके अनले ॥ २९।१६९ ॥
yadi rāja-gṛhe doṣaḥ kṛtvā maṇḍapam antike . pūrvavat graha-yajñam ca homam śrāmaṇake anale .. 29.169 ..
कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा । स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै ॥ २९.१७० ॥
कुंभस्य साधनम् कृत्वा सप्त-अह-अन्ते प्रभुम् तथा । स्नापयेत् कुंभ-तोयेन प्रतिष्ठा-अन्त-क्रमेण वै ॥ २९।१७० ॥
kuṃbhasya sādhanam kṛtvā sapta-aha-ante prabhum tathā . snāpayet kuṃbha-toyena pratiṣṭhā-anta-krameṇa vai .. 29.170 ..
दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांकुरार्ऽपणं । शुभेऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनं ॥ २९.१७१ ॥
दक्षिणाम् गुरु-पूर्वेभ्यः द-त्वा कृत्वा अंकुर-आर्ऽपणम् । शुभे अनुकूले नक्षत्रे कृत्वा च एव अभिषेचनम् ॥ २९।१७१ ॥
dakṣiṇām guru-pūrvebhyaḥ da-tvā kṛtvā aṃkura-ār'paṇam . śubhe anukūle nakṣatre kṛtvā ca eva abhiṣecanam .. 29.171 ..
प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः । एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः ॥ २९.१७२ ॥
प्रविशेत् पूर्व-गेहम् तु धर्म-सिद्ध्यै गुरु-उदितः । एषः एव विधिः प्रोक्तः गृहिणाम् अपि सम्मतः ॥ २९।१७२ ॥
praviśet pūrva-geham tu dharma-siddhyai guru-uditaḥ . eṣaḥ eva vidhiḥ proktaḥ gṛhiṇām api sammataḥ .. 29.172 ..
राज्ञां परार्थवृत्तित्वात्सोऽत्र तु प्रकृतीकृतः । सर्वग्रासोपरागादिदिव्याद्भुतशमायवै ॥ २९.१७३ ॥
राज्ञाम् परार्थ-वृत्ति-त्वात् सः अत्र तु प्रकृतीकृतः । सर्व-ग्रास-उपराग-आदि-दिव्य-अद्भुत-शमाय वै ॥ २९।१७३ ॥
rājñām parārtha-vṛtti-tvāt saḥ atra tu prakṛtīkṛtaḥ . sarva-grāsa-uparāga-ādi-divya-adbhuta-śamāya vai .. 29.173 ..
यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि । दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मितां ॥ २९.१७४ ॥
यथाशक्ति ब्राह्मणेभ्यः स्वर्णम् भूमिम् पशून् अपि । दद्यात् तथा विशेषेण दक्षिणाम् भूरि-सम्मिताम् ॥ २९।१७४ ॥
yathāśakti brāhmaṇebhyaḥ svarṇam bhūmim paśūn api . dadyāt tathā viśeṣeṇa dakṣiṇām bhūri-sammitām .. 29.174 ..
अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववथ् । सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः ॥ २९.१७५ ॥
अनावृष्टि-निवृत्ति-अर्थम् कुंभम् संगृह्य । सर्व-तीर्थम् समावाह्य समभ्यर्च्य अग्रतस् हरेः ॥ २९।१७५ ॥
anāvṛṣṭi-nivṛtti-artham kuṃbham saṃgṛhya . sarva-tīrtham samāvāhya samabhyarcya agratas hareḥ .. 29.175 ..
ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतं । हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च ॥ २९.१७६ ॥
ध्यान्य-पीठे तु सौवर्णम् पद्मम् अष्ट-दलैः युतम् । हेम-पात्रे तु सन्न्यस्य देवम् आवाह्य तत्र च ॥ २९।१७६ ॥
dhyānya-pīṭhe tu sauvarṇam padmam aṣṭa-dalaiḥ yutam . hema-pātre tu sannyasya devam āvāhya tatra ca .. 29.176 ..
अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च । कुंभमूले तु सुषिरं सूचीमात्रं विधाय च ॥ २९.१७७ ॥
अभ्यर्च्य तस्य पीठे कुंभम् निधाय च । कुंभ-मूले तु सुषिरम् सूची-मात्रम् विधाय च ॥ २९।१७७ ॥
abhyarcya tasya pīṭhe kuṃbham nidhāya ca . kuṃbha-mūle tu suṣiram sūcī-mātram vidhāya ca .. 29.177 ..
तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिं । समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा ॥ २९.१७८ ॥
तद्-धारया तु अविच्छिन्न-रूपया सेचयेत् हरिम् । समिद्भिः वैतसीभिः तु पालाशीभिः अथ अपि वा ॥ २९।१७८ ॥
tad-dhārayā tu avicchinna-rūpayā secayet harim . samidbhiḥ vaitasībhiḥ tu pālāśībhiḥ atha api vā .. 29.178 ..
अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणं । अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववथ् ॥ २९.१७९ ॥
अष्ठोत्तरसहस्त्रम् तु जुहुयात् पञ्ज-वारुणम् । अग्नौ श्रामणके पश्चाद्दिशा-होमेषु ॥ २९।१७९ ॥
aṣṭhottarasahastram tu juhuyāt pañja-vāruṇam . agnau śrāmaṇake paścāddiśā-homeṣu .. 29.179 ..
अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणं । समिद्भिर्जुहुयाद्विद्वान्वैतसीभिर्यधाविथि ॥ २९.१८० ॥
अष्टात्तरसहस्रम् तु प्रत्येकम् पञ्च-वारुणम् । समिद्भिः जुहुयात् विद्वान् वैतसीभिः ॥ २९।१८० ॥
aṣṭāttarasahasram tu pratyekam pañca-vāruṇam . samidbhiḥ juhuyāt vidvān vaitasībhiḥ .. 29.180 ..
समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेथ् । अष्टाधिकसहस्रं तु "इन्द्रं प्रणयन्तऽऽ मित्यपि ॥ २९.१८१ ॥
समिद्भिः पुनर् आज्येन वैतसीभिः पृथक् हुनेथ् । अष्ट-अधिक-सहस्रम् तु "इन्द्रम् प्रणयन्तः मिति अपि ॥ २९।१८१ ॥
samidbhiḥ punar ājyena vaitasībhiḥ pṛthak huneth . aṣṭa-adhika-sahasram tu "indram praṇayantaḥ miti api .. 29.181 ..
श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणं । आवाह्य तु समभ्यर्च्य "शचीसहाऽऽयेति होमयेथ् ॥ २९.१८२ ॥
श्रामणाग्निम् विधाय एकम् दक्षिणे तस्य वज्रिणम् । आवाह्य तु समभ्यर्च्य "शची-सहः आय इति होमयेथ् ॥ २९।१८२ ॥
śrāmaṇāgnim vidhāya ekam dakṣiṇe tasya vajriṇam . āvāhya tu samabhyarcya "śacī-sahaḥ āya iti homayeth .. 29.182 ..
देवं विशेषतोऽभ्यर्च्य कारयेत्स्नपनादिकं । एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवं ॥ २९.१८३ ॥
देवम् विशेषतः अभ्यर्च्य कारयेत् स्नपन-आदिकम् । एवम् ज्ञात्वा विधानेन तद्-तद्-कर्मसु गौरवम् ॥ २९।१८३ ॥
devam viśeṣataḥ abhyarcya kārayet snapana-ādikam . evam jñātvā vidhānena tad-tad-karmasu gauravam .. 29.183 ..
त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि । दिने दिने पूरयित्वा कुंभं तेनैव सेचयेथ् ॥ २९.१८४ ॥
त्षह-आदि त्रिंशत्-घस्र-अन्तम् श्रामणाग्नौ । दिने दिने पूरयित्वा कुंभम् तेन एव सेचयेथ् ॥ २९।१८४ ॥
tṣaha-ādi triṃśat-ghasra-antam śrāmaṇāgnau . dine dine pūrayitvā kuṃbham tena eva secayeth .. 29.184 ..
सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेथ् । कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेथ् ॥ २९.१८५ ॥
सर्व-अन्ते देवम् आस्नाप्य समभ्यर्च्य हविः ददेथ् । कर्मान्ते स्यात् महा-वृष्टिः तस्मात् यत्नेन ॥ २९।१८५ ॥
sarva-ante devam āsnāpya samabhyarcya haviḥ dadeth . karmānte syāt mahā-vṛṣṭiḥ tasmāt yatnena .. 29.185 ..
अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः । सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः ॥ २९.१८६ ॥
अथ वा वर्ष-कामी वा मोक्ष-अर्थी पशु-कामनः । सर्व-उपद्रव-शान्ति-अर्थी विजय-अर्थी विशेषतः ॥ २९।१८६ ॥
atha vā varṣa-kāmī vā mokṣa-arthī paśu-kāmanaḥ . sarva-upadrava-śānti-arthī vijaya-arthī viśeṣataḥ .. 29.186 ..
स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववथ् । कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः ॥ २९.१८७ ॥
स्नपन-आलयम् आसाद्य अलङ्कृत्य च । कर्म-गौरवम् आज्ञाय संभृत्य बहुधा पयः ॥ २९।१८७ ॥
snapana-ālayam āsādya alaṅkṛtya ca . karma-gauravam ājñāya saṃbhṛtya bahudhā payaḥ .. 29.187 ..
पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः । आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः ॥ २९.१८८ ॥
पूजयेत् प्रथमम् यत्नात् आचार्यम् स हि धारकः । आचार्यः सु प्रसन्न-आत्मा श्वभ्रात् प्राच्याम् तु तण्डुलैः ॥ २९।१८८ ॥
pūjayet prathamam yatnāt ācāryam sa hi dhārakaḥ . ācāryaḥ su prasanna-ātmā śvabhrāt prācyām tu taṇḍulaiḥ .. 29.188 ..
कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तरां । श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु ॥ २९.१८९ ॥
कृत्वा पङ्क्तिम् दक्षिण-उत्तर-आयताम् विपुल-अन्तराम् । श्वभ्रात् दक्षिणतस् कृत्वा कुण्डम् श्रामणकस्य तु ॥ २९।१८९ ॥
kṛtvā paṅktim dakṣiṇa-uttara-āyatām vipula-antarām . śvabhrāt dakṣiṇatas kṛtvā kuṇḍam śrāmaṇakasya tu .. 29.189 ..
अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तन्तुना । अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः ॥ २९.१९० ॥
अग्निम् आधाय कुंभाम् स्तु नव संवेष्ट्य तन्तुना । अद्भिः प्रक्षाल्य च उत्पूय कुश-कूर्चेन ॥ २९।१९० ॥
agnim ādhāya kuṃbhām stu nava saṃveṣṭya tantunā . adbhiḥ prakṣālya ca utpūya kuśa-kūrcena .. 29.190 ..
क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै । पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमाथ् ॥ २९.१९१ ॥
क्षीरेण पूरयित्वा एव च उत्बूतेन क्रमेण वै । पङ्क्तिम् निधाय अपिधानैः अपिधाय उपरि ॥ २९।१९१ ॥
kṣīreṇa pūrayitvā eva ca utbūtena krameṇa vai . paṅktim nidhāya apidhānaiḥ apidhāya upari .. 29.191 ..
वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिं । स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे ॥ २९.१९२ ॥
वस्त्रेण आच्छादयेत् श्वभ्रम् पूजा-अन्तेभ्यः अर्च्य वै हरिम् । स्वस्ति-सूक्तेन च आनम्य संस्थाप्य श्वभ्र-मध्यमे ॥ २९।१९२ ॥
vastreṇa ācchādayet śvabhram pūjā-antebhyaḥ arcya vai harim . svasti-sūktena ca ānamya saṃsthāpya śvabhra-madhyame .. 29.192 ..
अर्चनोक्तविधानेन सर्वं पूर्वनदायरेथ् । तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः ॥ २९.१९३ ॥
अर्चन-उक्त-विधानेन सर्वम् । तन्तुना वेष्टिते क्षीरम् कृहीत्वा अ करके पूनः ॥ २९।१९३ ॥
arcana-ukta-vidhānena sarvam . tantunā veṣṭite kṣīram kṛhītvā a karake pūnaḥ .. 29.193 ..
विष्णुसूक्तेन "चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः । तया संस्नापयेद्देनमुक्तयो क्षीरधारया ॥ २९.१९४ ॥
विष्णुसूक्तेन "च इषे आत्वा इत्याद्यैः मन्त्रैः क्रमात् गुरुः । तया क्षीर-धारया ॥ २९।१९४ ॥
viṣṇusūktena "ca iṣe ātvā ityādyaiḥ mantraiḥ kramāt guruḥ . tayā kṣīra-dhārayā .. 29.194 ..
तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः । अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा ॥ २९.१९५ ॥
तथा एव परिषिच्य अग्निम् मन्त्रैः"र्विष्णोः नु आका-आदिभिः । अतोदेव-आदि-आभिः तद्वत् अष्ट-अर्ण मनुना तथा ॥ २९।१९५ ॥
tathā eva pariṣicya agnim mantraiḥ"rviṣṇoḥ nu ākā-ādibhiḥ . atodeva-ādi-ābhiḥ tadvat aṣṭa-arṇa manunā tathā .. 29.195 ..
जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकं । अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः ॥ २९.१९६ ॥
जुहुयात् विष्णु-गायत्षा अष्ट-अधिक-सहस्रकम् । अथ वा स्नपनम् यावत् तावत् उद्वर्त्य मन्त्रतः ॥ २९।१९६ ॥
juhuyāt viṣṇu-gāyatṣā aṣṭa-adhika-sahasrakam . atha vā snapanam yāvat tāvat udvartya mantrataḥ .. 29.196 ..
हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः । गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः ॥ २९.१९७ ॥
हारिद्रेन तु चूर्णेन संशोध्य अम्ल-आदिभिः ततस् । गन्धोदेन सु संस्नाप्य प्लोतेन विमृजेत् ततस् ॥ २९।१९७ ॥
hāridrena tu cūrṇena saṃśodhya amla-ādibhiḥ tatas . gandhodena su saṃsnāpya plotena vimṛjet tatas .. 29.197 ..
वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः । पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणां ॥ २९.१९८ ॥
वस्त्र-आदिभिः अलङ्कृत्य समभ्यर्च्य विधानतः । पायस-आदि हविः दद्यात् दप्यात् आचार्य-दक्षिणाम् ॥ २९।१९८ ॥
vastra-ādibhiḥ alaṅkṛtya samabhyarcya vidhānataḥ . pāyasa-ādi haviḥ dadyāt dapyāt ācārya-dakṣiṇām .. 29.198 ..
अनेन सर्वान्कामांश्च लभेताविशयं नरः । ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटं ॥ २९.१९९ ॥
अनेन सर्वान् कामान् च लभेत अविशयम् नरः । ध्रुव-बेर-अर्चने चेद् तु संस्नाप्य प्रमुखे घटम् ॥ २९।१९९ ॥
anena sarvān kāmān ca labheta aviśayam naraḥ . dhruva-bera-arcane ced tu saṃsnāpya pramukhe ghaṭam .. 29.199 ..
तस्मादानीय तत्रैव स्नापयेदुक्तगौरवाथ् । सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेथ् ॥ २९.२०० ॥
तस्मात् आनीय तत्र एव स्नापयेत् उक्त-गौरवात् । क्षीर-स्नानम् ॥ २९।२०० ॥
tasmāt ānīya tatra eva snāpayet ukta-gauravāt . kṣīra-snānam .. 29.200 ..
एवं घृताभिषेकं च कारयेत्सदृशं फलं । इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते ॥ २९.२०१ ॥
एवम् घृत-अभिषेकम् च कारयेत् सदृशम् फलम् । इमाम् अद्भुत-अशान्तिम् तु काश्यप-आद्याः प्रचक्षते ॥ २९।२०१ ॥
evam ghṛta-abhiṣekam ca kārayet sadṛśam phalam . imām adbhuta-aśāntim tu kāśyapa-ādyāḥ pracakṣate .. 29.201 ..
अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः । पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि ॥ २९.२०२ ॥
अथ प्रभूतशान्तिम् तु प्रवक्ष्यामि तपोधनाः । पूर्ववत् मण्टप-आदीनि कारयित्वा यथाविधि ॥ २९।२०२ ॥
atha prabhūtaśāntim tu pravakṣyāmi tapodhanāḥ . pūrvavat maṇṭapa-ādīni kārayitvā yathāvidhi .. 29.202 ..
विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितं । कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः ॥ २९.२०३ ॥
विशा-होमम् चकृत्वा एव श्रामणाग्नौ यथा उदितम् । कुंभम् संसाध्य च प्राग्वत् सप्त-अह-अन्ते विशेषतः ॥ २९।२०३ ॥
viśā-homam cakṛtvā eva śrāmaṇāgnau yathā uditam . kuṃbham saṃsādhya ca prāgvat sapta-aha-ante viśeṣataḥ .. 29.203 ..
अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा । संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च ॥ २९.२०४ ॥
अष्टोत्तरशतम् वा अष्टचत्वारिंशत् अथ अथ वा । संगृह्य कलशानाम् तु समभ्यर्च्य अभिषेच्य च ॥ २९।२०४ ॥
aṣṭottaraśatam vā aṣṭacatvāriṃśat atha atha vā . saṃgṛhya kalaśānām tu samabhyarcya abhiṣecya ca .. 29.204 ..
देवं विशेषतोऽभ्यर्च्य हविर्दद्यादयं विधिः । महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनं ॥ २९.२०५ ॥
देवम् विशेषतः अभ्यर्च्य हविः दद्यात् अयम् विधिः । महाशान्ति-क्रमम् वक्ष्ये विना कुंभस्य साधनम् ॥ २९।२०५ ॥
devam viśeṣataḥ abhyarcya haviḥ dadyāt ayam vidhiḥ . mahāśānti-kramam vakṣye vinā kuṃbhasya sādhanam .. 29.205 ..
अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमाथ् । अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु ॥ २९.२०६ ॥
अग्नौ श्रामणके बिल्व-पत्रैः आज्य-आप्लुतैः । अष्ट-अधिक-सहस्रम् वै हुनेत् अष्ट-अक्षरेण तु ॥ २९।२०६ ॥
agnau śrāmaṇake bilva-patraiḥ ājya-āplutaiḥ . aṣṭa-adhika-sahasram vai hunet aṣṭa-akṣareṇa tu .. 29.206 ..
आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च । हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना ॥ २९.२०७ ॥
आज्येन वैष्णवम् विष्णुसूक्तम् पौरुषम् एव च । हुत्वा संस्नाप्य शुद्ध-स्नपन-वर्त्मना ॥ २९।२०७ ॥
ājyena vaiṣṇavam viṣṇusūktam pauruṣam eva ca . hutvā saṃsnāpya śuddha-snapana-vartmanā .. 29.207 ..
समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेथ् । औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः ॥ २९.२०८ ॥
समभ्यर्च्य हविः दद्यात् महाशान्तिः इयम् । औपासन-अग्नौ एक-अहम् हुत्वा शान्तिम् विधानतः ॥ २९।२०८ ॥
samabhyarcya haviḥ dadyāt mahāśāntiḥ iyam . aupāsana-agnau eka-aham hutvā śāntim vidhānataḥ .. 29.208 ..
ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणां । अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः ॥ २९.२०९ ॥
ब्राह्मणान् भोजयित्वा एव दद्यात् आचार्य-दक्षिणाम् । अथ शुद्धि-विधिम् वक्ष्ये वास्तु-होमम् हुनेत् ततस् ॥ २९।२०९ ॥
brāhmaṇān bhojayitvā eva dadyāt ācārya-dakṣiṇām . atha śuddhi-vidhim vakṣye vāstu-homam hunet tatas .. 29.209 ..
बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतं । पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि ॥ २९.२१० ॥
बिल्व-पत्र-आदिभिः हुत्वा पृथक् अष्ट-उत्तरम् शतम् । पुण्याह-अन्ते गुरुम् पूज्य भोजयेत् ब्राह्मणान् अपि ॥ २९।२१० ॥
bilva-patra-ādibhiḥ hutvā pṛthak aṣṭa-uttaram śatam . puṇyāha-ante gurum pūjya bhojayet brāhmaṇān api .. 29.210 ..
सर्वत्रतु विकल्पेन घटसंस्कारमाचरेथ् । अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा ॥ २९.२११ ॥
सर्वत्र तु विकल्पेन घट-संस्कारम् आचरेथ् । अथ अतस् सर्व-शान्तिः स्यात् अपमृत्यु-भये तथा ॥ २९।२११ ॥
sarvatra tu vikalpena ghaṭa-saṃskāram ācareth . atha atas sarva-śāntiḥ syāt apamṛtyu-bhaye tathā .. 29.211 ..
ग्रहकोपे महाव्याधौ परचक्रभये तथा । अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये ॥ २९.२१२ ॥
ग्रह-कोपे महा-व्याधौ पर-चक्र-भये तथा । अर्थ-बन्धु-विनाशे च दुर्भिक्षे च पराजये ॥ २९।२१२ ॥
graha-kope mahā-vyādhau para-cakra-bhaye tathā . artha-bandhu-vināśe ca durbhikṣe ca parājaye .. 29.212 ..
अभिचारभये चैव तापत्रयनिपीडने । विरुद्धेऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेथ् ॥ २९.२१३ ॥
अभिचार-भये च एव ताप-त्रय-निपीडने । विरुद्धे अ च्-आत्मनः प्राप्ते सर्व-शान्तिम् समाचरेथ् ॥ २९।२१३ ॥
abhicāra-bhaye ca eva tāpa-traya-nipīḍane . viruddhe a c-ātmanaḥ prāpte sarva-śāntim samācareth .. 29.213 ..
सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् । अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमाथ् ॥ २९.२१४ ॥
सप्त-अहम् वा नव-अहम् वा द्वादश-अर्णेन वै पृथक् । तु जुहुयात् विधिना ॥ २९।२१४ ॥
sapta-aham vā nava-aham vā dvādaśa-arṇena vai pṛthak . tu juhuyāt vidhinā .. 29.214 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशोऽध्यः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् सिहितायाम् प्रकीर्ण-अधिकारे एकोनत्रिंशः अध्यः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām sihitāyām prakīrṇa-adhikāre ekonatriṃśaḥ adhyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In