| |
|

This overlay will guide you through the buttons:

अथैकोनत्रिंशोऽध्यायः.
athaikonatriṃśo'dhyāyaḥ.
प्रायश्चित्तम्
अथवक्ष्ये विशेषेण ध्रुवबेरस्य निष्कृतिं । ताम्रजं शैलजं चैव मूर्तिकं दारवं त्विति ॥ २९.१ ॥
athavakṣye viśeṣeṇa dhruvaberasya niṣkṛtiṃ . tāmrajaṃ śailajaṃ caiva mūrtikaṃ dāravaṃ tviti .. 29.1 ..
चातुर्विध्यं ध्रुवस्यात्र पूर्वमेव मयोदितं । षण्मानसहितं कृत्वासनालं पादपद्मकं ॥ २९.२ ॥
cāturvidhyaṃ dhruvasyātra pūrvameva mayoditaṃ . ṣaṇmānasahitaṃ kṛtvāsanālaṃ pādapadmakaṃ .. 29.2 ..
कृत्वा तु ताम्रजं बिंबं कौतुकस्योक्तवर्त्मना । कृत्वाक्ष्युन्मोचनं चाधिवासान्संस्थाप्य चाचलं ॥ २९.३ ॥
kṛtvā tu tāmrajaṃ biṃbaṃ kautukasyoktavartmanā . kṛtvākṣyunmocanaṃ cādhivāsānsaṃsthāpya cācalaṃ .. 29.3 ..
स्थापयेत्सह देव्यौच शुद्ध्यर्थं प्रतिपर्वतु । शुद्धोदैरभिषिच्यैव भूषणैश्च विभूष्यच ॥ २९.४ ॥
sthāpayetsaha devyauca śuddhyarthaṃ pratiparvatu . śuddhodairabhiṣicyaiva bhūṣaṇaiśca vibhūṣyaca .. 29.4 ..
पुष्पन्यासं च कृत्वैव सर्वान्परिषदः क्रमाथ् । शैलानेव प्रकुर्वीत यथा शातातपोऽब्रवीथ् ॥ २९.५ ॥
puṣpanyāsaṃ ca kṛtvaiva sarvānpariṣadaḥ kramāth . śailāneva prakurvīta yathā śātātapo'bravīth .. 29.5 ..
शैलं ध्रुवं तथा चित्रं चित्रार्धं वा विधाय च । पूर्वोक्तेन विधानेन परं संस्कृत्य तत्क्रमाथ् ॥ २९.६ ॥
śailaṃ dhruvaṃ tathā citraṃ citrārdhaṃ vā vidhāya ca . pūrvoktena vidhānena paraṃ saṃskṛtya tatkramāth .. 29.6 ..
देव्यावन्यांश्च देवांश्च तदालयगतानपि । तद्द्रव्येण प्रकुर्वीत ध्रुवं षण्मानसंयुतं ॥ २९.७ ॥
devyāvanyāṃśca devāṃśca tadālayagatānapi . taddravyeṇa prakurvīta dhruvaṃ ṣaṇmānasaṃyutaṃ .. 29.7 ..
कृत्वाक्ष्णोश्च भ्रुवोस्तद्वदोष्ठयोरुभयोरपि । करपादतले चैव नखेषु मुकुटेऽपि च ॥ २९.८ ॥
kṛtvākṣṇośca bhruvostadvadoṣṭhayorubhayorapi . karapādatale caiva nakheṣu mukuṭe'pi ca .. 29.8 ..
भूषणेषु विधानेन तत्तद्वर्णेन लेपयेथ् । मृण्मयं दारवं वा चेत्तद्द्रव्येणैव देवताः ॥ २९.९ ॥
bhūṣaṇeṣu vidhānena tattadvarṇena lepayeth . mṛṇmayaṃ dāravaṃ vā cettaddravyeṇaiva devatāḥ .. 29.9 ..
तदालयगताः कुर्यादन्यथा विपरीतकृथ् । अथ वा वर्णहीनं तु शैलं सर्वत्र कारयेथ् ॥ २९.१० ॥
tadālayagatāḥ kuryādanyathā viparītakṛth . atha vā varṇahīnaṃ tu śailaṃ sarvatra kārayeth .. 29.10 ..
अर्धचित्रस्य शैलस्य हीनेष्वं गेषु चैव हि । प्रत्यङ्गेषु तथोपाङ्गेष्वनिष्टं तद्भवेदिह ॥ २९.११ ॥
ardhacitrasya śailasya hīneṣvaṃ geṣu caiva hi . pratyaṅgeṣu tathopāṅgeṣvaniṣṭaṃ tadbhavediha .. 29.11 ..
बालागारेऽथ तच्छक्तिं नीत्वा बिंबं समाहरेथ् । भूमौ पिधाय तस्योर्ध्वे पद्माग्निं परिकल्प्य च ॥ २९.१२ ॥
bālāgāre'tha tacchaktiṃ nītvā biṃbaṃ samāhareth . bhūmau pidhāya tasyordhve padmāgniṃ parikalpya ca .. 29.12 ..
हुत्वा च महतीं शान्तिं शिलाग्रहणवत्तथा । तत्तदङ्गसमुत्पत्तिं युक्त्या तक्ष्णा तु कारयेथ् ॥ २९.१३ ॥
hutvā ca mahatīṃ śāntiṃ śilāgrahaṇavattathā . tattadaṅgasamutpattiṃ yuktyā takṣṇā tu kārayeth .. 29.13 ..
हीने महाङ्गे तद्बेरमयुक्तं चेत्समीकृतौ । त्यक्त्वा तद्विधिना बेरं पुनरन्यत्समाहरेथ् ॥ २९.१४ ॥
hīne mahāṅge tadberamayuktaṃ cetsamīkṛtau . tyaktvā tadvidhinā beraṃ punaranyatsamāhareth .. 29.14 ..
बेरं संधानयोग्यं यस्त्यजेत्पापी भवेत्स हि । विनष्टं च भवेत्सर्वंसंधानं शक्तितश्चरेथ् ॥ २९.१५ ॥
beraṃ saṃdhānayogyaṃ yastyajetpāpī bhavetsa hi . vinaṣṭaṃ ca bhavetsarvaṃsaṃdhānaṃ śaktitaścareth .. 29.15 ..
ध्रुवबेरमथार्ऽचां च कर्तुं पूर्वमिवद्वयं । अशक्तश्चेद्ध्रुवार्चान्तु कृत्वा चैकं स्वशक्तितः ॥ २९.१६ ॥
dhruvaberamathār'cāṃ ca kartuṃ pūrvamivadvayaṃ . aśaktaśceddhruvārcāntu kṛtvā caikaṃ svaśaktitaḥ .. 29.16 ..
प्रतिष्ठाप्यार्चयेत्सम्यगिति के चिन्मनीषिणः । एकबेरप्रतिष्ठायामेष एव विधिस्स्मृतः ॥ २९.१७ ॥
pratiṣṭhāpyārcayetsamyagiti ke cinmanīṣiṇaḥ . ekaberapratiṣṭhāyāmeṣa eva vidhissmṛtaḥ .. 29.17 ..
अशक्तश्चेद्ध्रुवं बेरमर्चाबेरमथापि वा । सहितं रहितं वाथ देवीभ्यांस्थाप्य चार्चयेथ् ॥ २९.१८ ॥
aśaktaśceddhruvaṃ beramarcāberamathāpi vā . sahitaṃ rahitaṃ vātha devībhyāṃsthāpya cārcayeth .. 29.18 ..
मृदालये ब्रह्मस्थाने ध्रुवार्चाबेरमाहरेथ् । तं देवीसहितं कृत्वा विमानं च विशेषतः ॥ २९.१९ ॥
mṛdālaye brahmasthāne dhruvārcāberamāhareth . taṃ devīsahitaṃ kṛtvā vimānaṃ ca viśeṣataḥ .. 29.19 ..
शैलं तु कर्तुमिच्छेच्चेद्देवो दैविकमाश्रयेथ् । यथा तथा प्रकल्प्यैव विमानं कौतुकं पुनः ॥ २९.२० ॥
śailaṃ tu kartumicchecceddevo daivikamāśrayeth . yathā tathā prakalpyaiva vimānaṃ kautukaṃ punaḥ .. 29.20 ..
लोहजं जङ्गमं कृत्वा ब्रङ्मस्थाने समाचरेथ् । कौतुकं शैलजं चेत्तु स्थावरं त्वेव स्थापयेथ् ॥ २९.२१ ॥
lohajaṃ jaṅgamaṃ kṛtvā braṅmasthāne samācareth . kautukaṃ śailajaṃ cettu sthāvaraṃ tveva sthāpayeth .. 29.21 ..
लघुबेरं प्रतिष्ठाप्य विमाने मृण्मयेऽर्चिते । कर्तुमिच्छेद्ध्रुवं बेरं विमानं चैव शैलजं ॥ २९.२२ ॥
laghuberaṃ pratiṣṭhāpya vimāne mṛṇmaye'rcite . kartumiccheddhruvaṃ beraṃ vimānaṃ caiva śailajaṃ .. 29.22 ..
विमानं परिकल्प्यैव विधिना हस्तमानतः । देवीभ्यां सहितं देवं दैविकांशे विधाय च ॥ २९.२३ ॥
vimānaṃ parikalpyaiva vidhinā hastamānataḥ . devībhyāṃ sahitaṃ devaṃ daivikāṃśe vidhāya ca .. 29.23 ..
पूर्वार्चितां गृहीत्वैव बेरं कौतुककर्मणि । तस्योत्तरे चौत्सवादीन्प्रतिष्ठाप्य समर्चयेथ् ॥ २९.२४ ॥
pūrvārcitāṃ gṛhītvaiva beraṃ kautukakarmaṇi . tasyottare cautsavādīnpratiṣṭhāpya samarcayeth .. 29.24 ..
पूर्वं ध्रुवार्चाबेरेतु अर्च्यमाने मृदालये । शिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छया ॥ २९.२५ ॥
pūrvaṃ dhruvārcāberetu arcyamāne mṛdālaye . śilābhiriṣṭakābhirvā vimānaṃ kartumicchayā .. 29.25 ..
रक्षार्थं तस्य बेरस्य शिल्पिस्पर्शनिवृत्तये । काष्ठेन पञ्जरं कृत्वा बालागारं दृढं ततः ॥ २९.२६ ॥
rakṣārthaṃ tasya berasya śilpisparśanivṛttaye . kāṣṭhena pañjaraṃ kṛtvā bālāgāraṃ dṛḍhaṃ tataḥ .. 29.26 ..
संशोध्य शल्यं चाधस्ताद्युक्त्या परमाया पुनः । विमानं युग्महस्तेन तद्बेरस्य वशादपि ॥ २९.२७ ॥
saṃśodhya śalyaṃ cādhastādyuktyā paramāyā punaḥ . vimānaṃ yugmahastena tadberasya vaśādapi .. 29.27 ..
यथाविभवविस्तारं सौधं कृत्वा सुरक्षयेथ् । तद्बेरसममध्यर्धं द्विगुणं चतुरश्रकं ॥ २९.२८ ॥
yathāvibhavavistāraṃ saudhaṃ kṛtvā surakṣayeth . tadberasamamadhyardhaṃ dviguṇaṃ caturaśrakaṃ .. 29.28 ..
अधमं मध्यमं तद्वदुत्तमं त्रिविधोदितं । कृत्वा तस्य चतुर्भागं त्रिभागं चार्धमेववा ॥ २९.२९ ॥
adhamaṃ madhyamaṃ tadvaduttamaṃ trividhoditaṃ . kṛtvā tasya caturbhāgaṃ tribhāgaṃ cārdhamevavā .. 29.29 ..
गर्भागारं भवेच्छेषं भित्तिविष्कंभमेव च । समण्टपं विमानं तु पूर्ववत्कारयेद्विधिः ॥ २९.३० ॥
garbhāgāraṃ bhaveccheṣaṃ bhittiviṣkaṃbhameva ca . samaṇṭapaṃ vimānaṃ tu pūrvavatkārayedvidhiḥ .. 29.30 ..
शिलेष्टकाविमाने तु वर्गस्यान्ते परस्य वा । कारयेन्मिश्रमथ चेदशक्तः कर्तुमीदृशं ॥ २९.३१ ॥
śileṣṭakāvimāne tu vargasyānte parasya vā . kārayenmiśramatha cedaśaktaḥ kartumīdṛśaṃ .. 29.31 ..
अधिष्ठानस्य चोर्ध्वं हि यथेष्टस्थानके पुनः । मिश्रद्रव्येण कुर्यात्तु शक्तिलोभं न कारयेथ् ॥ २९.३२ ॥
adhiṣṭhānasya cordhvaṃ hi yatheṣṭasthānake punaḥ . miśradravyeṇa kuryāttu śaktilobhaṃ na kārayeth .. 29.32 ..
वर्णक्षयेध्रुवे दोषसंफदे स्फुटितादिभिः । अल्पदोषेऽपि वाशक्तिं ध्रुवबेरस्थितां तदा ॥ २९.३३ ॥
varṇakṣayedhruve doṣasaṃphade sphuṭitādibhiḥ . alpadoṣe'pi vāśaktiṃ dhruvaberasthitāṃ tadā .. 29.33 ..
कुंभेऽंभसि समावाह्य तत्कुंभं कौतुकादि च । समादाय विधानेन मालिकायां तु मण्डपे ॥ २९.३४ ॥
kuṃbhe'ṃbhasi samāvāhya tatkuṃbhaṃ kautukādi ca . samādāya vidhānena mālikāyāṃ tu maṇḍape .. 29.34 ..
सन्न्यस्य कौतुकादौ तु समावाह्य समर्चयेथ् । काले कुंभे समारोप्य क्रियास्सर्वास्समाचरेथ् ॥ २९.३५ ॥
sannyasya kautukādau tu samāvāhya samarcayeth . kāle kuṃbhe samāropya kriyāssarvāssamācareth .. 29.35 ..
अतीते द्विदिने कुंभमन्यदादायचात्वरः । कुंभाच्छक्तिं समादाय कुंभेऽन्यस्मिन्विधालतः ॥ २९.३६ ॥
atīte dvidine kuṃbhamanyadādāyacātvaraḥ . kuṃbhācchaktiṃ samādāya kuṃbhe'nyasminvidhālataḥ .. 29.36 ..
अर्चयेत्त्रिदिने चैवं कुंभसंशोधनं चरेथ् । पश्चाच्च वर्णलेपादीन्कृत्वा संशोद्य चैवहि ॥ २९.३७ ॥
arcayettridine caivaṃ kuṃbhasaṃśodhanaṃ careth . paścācca varṇalepādīnkṛtvā saṃśodya caivahi .. 29.37 ..
वास्तुहोमं च पुण्याहं ध्रुवशुद्धिं च कारयेथ् । कुंभं बिंबं समादाय प्रविश्याभ्यन्तरं ततः ॥ २९.३८ ॥
vāstuhomaṃ ca puṇyāhaṃ dhruvaśuddhiṃ ca kārayeth . kuṃbhaṃ biṃbaṃ samādāya praviśyābhyantaraṃ tataḥ .. 29.38 ..
कौतुकादीन्सुसंस्थाप्य न्यासादींश्च विधाय च । कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् ॥ २९.३९ ॥
kautukādīnsusaṃsthāpya nyāsādīṃśca vidhāya ca . kuṃbhasthāṃ śaktimādāya dhruvabere'varopayeth .. 29.39 ..
ध्रुवात्पुनः कौतुकादिष्वावाङ्य तु समर्चयेथ् । दोषाणां गोरवान्मासादूर्ध्वं कालेत्वपेक्षिते ॥ २९.४० ॥
dhruvātpunaḥ kautukādiṣvāvāṅya tu samarcayeth . doṣāṇāṃ goravānmāsādūrdhvaṃ kāletvapekṣite .. 29.40 ..
देवं बालालये स्थाप्य शोधयेन्मृण्मयं पुनः । यावच्छूलं पुनश्शैलं शिलान्तं शोधयेत्क्रमाथ् ॥ २९.४१ ॥
devaṃ bālālaye sthāpya śodhayenmṛṇmayaṃ punaḥ . yāvacchūlaṃ punaśśailaṃ śilāntaṃ śodhayetkramāth .. 29.41 ..
नवषट्पञ्चमूर्तीनां विमाने दोषसंयुतं । यत्तलं तत्तलं गृह्य बालस्थानं प्रकल्प्य च ॥ २९.४२ ॥
navaṣaṭpañcamūrtīnāṃ vimāne doṣasaṃyutaṃ . yattalaṃ tattalaṃ gṛhya bālasthānaṃ prakalpya ca .. 29.42 ..
कौतुकादीन्सुसंस्थाप्य विधिना सम्यगर्चयेथ् । पश्चात्तले तु निर्दुष्टे कौतुकादीन्प्रगृह्य च ॥ २९.४३ ॥
kautukādīnsusaṃsthāpya vidhinā samyagarcayeth . paścāttale tu nirduṣṭe kautukādīnpragṛhya ca .. 29.43 ..
स्थापयित्वा पुनश्चैव विधिनापि समर्चयेथ् । अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमाथ् ॥ २९.४४ ॥
sthāpayitvā punaścaiva vidhināpi samarcayeth . atha vakṣye jīrṇaberaparityāgavidhiṃ kramāth .. 29.44 ..
ध्रुवस्याङ्गविहीने तु त्यजेत्तत्सद्य एव हि । कर्त्राराधकयोर्ग्राह्यमन्यथा स्यान्महद्भयं ॥ २९.४५ ॥
dhruvasyāṅgavihīne tu tyajettatsadya eva hi . kartrārādhakayorgrāhyamanyathā syānmahadbhayaṃ .. 29.45 ..
तस्मात्सर्वप्रयत्नेन जीर्णं संशोध्य सर्वतः । नववस्त्रैस्समाच्छाद्य बद्ध्वा च कुशरज्जुभिः ॥ २९.४६ ॥
tasmātsarvaprayatnena jīrṇaṃ saṃśodhya sarvataḥ . navavastraissamācchādya baddhvā ca kuśarajjubhiḥ .. 29.46 ..
ब्राह्मणैर्वाहयित्वैव नदीं स्फारां समुद्रगां । अशोष्यं वा जलाधारमन्यन्नीत्वाथ तत्तटे ॥ २९.४७ ॥
brāhmaṇairvāhayitvaiva nadīṃ sphārāṃ samudragāṃ . aśoṣyaṃ vā jalādhāramanyannītvātha tattaṭe .. 29.47 ..
प्रपां कृत्वाग्निमाधाय चौपासनमतन्द्रितः । आघारान्ते तु जुहुयाद्वैष्णवं शतशस्ततः ॥ २९.४८ ॥
prapāṃ kṛtvāgnimādhāya caupāsanamatandritaḥ . āghārānte tu juhuyādvaiṣṇavaṃ śataśastataḥ .. 29.48 ..
दद्भ्यस्स्वाऽऽहेत्यङ्गहोमं व्याहृत्यन्तं हुनेद्भुधः । वस्त्रबन्धं विमोच्यैव प्राङ्मुखोदङ्मुखो गुरुः ॥ २९.४९ ॥
dadbhyassvā''hetyaṅgahomaṃ vyāhṛtyantaṃ hunedbhudhaḥ . vastrabandhaṃ vimocyaiva prāṅmukhodaṅmukho guruḥ .. 29.49 ..
वारुणं वैष्णवं चैव प्रक्षिप्यैव च तज्जले । स्नायात्संस्मृत्य देवेशं दारवे तु विशेषतः ॥ २९.५० ॥
vāruṇaṃ vaiṣṇavaṃ caiva prakṣipyaiva ca tajjale . snāyātsaṃsmṛtya deveśaṃ dārave tu viśeṣataḥ .. 29.50 ..
दग्ध्वाग्निनाथ तद्भस्म निक्षिपेत्तादृशे जले । देव्यादीनां पर्षदां च तत्तन्मन्त्रं सवैष्णवं ॥ २९.५१ ॥
dagdhvāgninātha tadbhasma nikṣipettādṛśe jale . devyādīnāṃ parṣadāṃ ca tattanmantraṃ savaiṣṇavaṃ .. 29.51 ..
हुनेज्जलेक्षिपेत्पश्चाद्दद्यादाचार्य दक्षिणां । अथ चेत्कौतुकादीना मङ्गहानिस्तदुच्यते ॥ २९.५२ ॥
hunejjalekṣipetpaścāddadyādācārya dakṣiṇāṃ . atha cetkautukādīnā maṅgahānistaducyate .. 29.52 ..
महाङ्गानि शिरः कुक्षि वक्षः कण्ठान्प्रचक्षते । पादौहस्तौ बाहवश्चेत्यङ्गानि प्रवदन्तिहि ॥ २९.५३ ॥
mahāṅgāni śiraḥ kukṣi vakṣaḥ kaṇṭhānpracakṣate . pādauhastau bāhavaścetyaṅgāni pravadantihi .. 29.53 ..
अङ्गुल्यः कर्णनासाद्याः प्रत्यङ्गानि विदुर्बुधाः । शिरश्चक्रं च पीठं च प्रभामण्डलमेव च ॥ २९.५४ ॥
aṅgulyaḥ karṇanāsādyāḥ pratyaṅgāni vidurbudhāḥ . śiraścakraṃ ca pīṭhaṃ ca prabhāmaṇḍalameva ca .. 29.54 ..
उपाङ्गान्यूचिरे भूषणायुधांबरपूर्वकान् । तत्रोपाङ्गस्य हीने तु कुंभं संसाध्य पूर्ववथ् ॥ २९.५५ ॥
upāṅgānyūcire bhūṣaṇāyudhāṃbarapūrvakān . tatropāṅgasya hīne tu kuṃbhaṃ saṃsādhya pūrvavath .. 29.55 ..
आवाह्य कुंभे तच्छक्तिं बिंबं संधाय पूर्ववथ् । कृत्वा जलाधिवासादीन्वास्तुहोमं विधाय च ॥ २९.५६ ॥
āvāhya kuṃbhe tacchaktiṃ biṃbaṃ saṃdhāya pūrvavath . kṛtvā jalādhivāsādīnvāstuhomaṃ vidhāya ca .. 29.56 ..
संशोद्य पञ्चगव्यैश्च कुशोदैश्च विशेषतः । सप्तभिः कलशैस्थ्साप्य कुंभस्थां शक्तिमादराथ् ॥ २९.५७ ॥
saṃśodya pañcagavyaiśca kuśodaiśca viśeṣataḥ . saptabhiḥ kalaśaisthsāpya kuṃbhasthāṃ śaktimādarāth .. 29.57 ..
समावाह्य पुनर्बिंबे विधिना सम्यगर्चयेथ् । प्रत्यङ्गहीने तच्छक्तिं महाबेरेऽवरोप्य च ॥ २९.५८ ॥
samāvāhya punarbiṃbe vidhinā samyagarcayeth . pratyaṅgahīne tacchaktiṃ mahābere'varopya ca .. 29.58 ..
उध्रुत्य बिंबं संप्रोक्ष्य पञ्चगव्यैः कुशोदकैः । तुल्यलोहेन संधाय चाधिवास्य कुशादिषु ॥ २९.५९ ॥
udhrutya biṃbaṃ saṃprokṣya pañcagavyaiḥ kuśodakaiḥ . tulyalohena saṃdhāya cādhivāsya kuśādiṣu .. 29.59 ..
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेथ् । अङ्गहीनेतु संधानयोग्यं संधाय पूर्ववथ् ॥ २९.६० ॥
punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāṃ punarācareth . aṅgahīnetu saṃdhānayogyaṃ saṃdhāya pūrvavath .. 29.60 ..
अर्चयेदन्यथा युक्तेहीने वापि महाङ्गके । भूमौ पिधाय तद्बेरं तदूर्ध्वे जुहुयात्क्रमाथ् ॥ २९.६१ ॥
arcayedanyathā yuktehīne vāpi mahāṅgake . bhūmau pidhāya tadberaṃ tadūrdhve juhuyātkramāth .. 29.61 ..
अङ्गहोमं महाशान्तिमपोह्यैव च तद्दिनं । उद्धृत्य बिंबं प्रक्षाल्य पञ्चगव्यैः कुशोदकैः ॥ २९.६२ ॥
aṅgahomaṃ mahāśāntimapohyaiva ca taddinaṃ . uddhṛtya biṃbaṃ prakṣālya pañcagavyaiḥ kuśodakaiḥ .. 29.62 ..
त्रिरग्नौ संपरिक्षिप्य शोधयेदाम्लवारिणा । राजतं द्विस्सकृद्रौक्मं दहेदग्नाविति क्रमः ॥ २९.६३ ॥
triragnau saṃparikṣipya śodhayedāmlavāriṇā . rājataṃ dvissakṛdraukmaṃ dahedagnāviti kramaḥ .. 29.63 ..
कृत्वातेनैव द्रव्येण बिंबं पूर्ववदुत्तमं । पुनःप्रतिष्ठां कृत्वैव कारयेदर्चनं क्रमाथ् ॥ २९.६४ ॥
kṛtvātenaiva dravyeṇa biṃbaṃ pūrvavaduttamaṃ . punaḥpratiṣṭhāṃ kṛtvaiva kārayedarcanaṃ kramāth .. 29.64 ..
पटे कुड्येऽथ वा लिख्य बेरे विधिवदर्चिते । जीर्णमालोक्य तच्छक्तिमारोप्यैवार्कमण्डले ॥ २९.६५ ॥
paṭe kuḍye'tha vā likhya bere vidhivadarcite . jīrṇamālokya tacchaktimāropyaivārkamaṇḍale .. 29.65 ..
नवीकृत्य पुनस्तस्मिन्प्रतिष्ठाप्य समर्चयेथ् । आचार्येण च येनादौ कर्षणाद्याः कृताः क्रियाः ॥ २९.६६ ॥
navīkṛtya punastasminpratiṣṭhāpya samarcayeth . ācāryeṇa ca yenādau karṣaṇādyāḥ kṛtāḥ kriyāḥ .. 29.66 ..
प्रतिष्ठा वा कृता विष्णोस्तेनैवान्यांश्च कारयेथ् । नित्यार्चनोत्सवादींश्च प्रायश्चित्तादिकानपि ॥ २९.६७ ॥
pratiṣṭhā vā kṛtā viṣṇostenaivānyāṃśca kārayeth . nityārcanotsavādīṃśca prāyaścittādikānapi .. 29.67 ..
तदभावे च तत्पुत्रं पौत्रं नप्तारमेव च । तद्वंशजं वा तच्छिष्यं तन्नियुक्तमथान्ततः ॥ २९.६८ ॥
tadabhāve ca tatputraṃ pautraṃ naptārameva ca . tadvaṃśajaṃ vā tacchiṣyaṃ tanniyuktamathāntataḥ .. 29.68 ..
आचार्यसन्निधौ नान्यमाचार्यं वरयेत्क्वचिथ् । वरयेद्यदि राष्ट्रस्य राज्ञश्चापि महद्भयं ॥ २९.६९ ॥
ācāryasannidhau nānyamācāryaṃ varayetkvacith . varayedyadi rāṣṭrasya rājñaścāpi mahadbhayaṃ .. 29.69 ..
भवेच्च निष्फला पूजा सर्वं कार्यं विनश्यति । तस्मात्सर्वप्रयत्नेन न कुर्याद्गुरुसंकरं ॥ २९.७० ॥
bhavecca niṣphalā pūjā sarvaṃ kāryaṃ vinaśyati . tasmātsarvaprayatnena na kuryādgurusaṃkaraṃ .. 29.70 ..
अज्ञानादर्थलोभाद्वा कृते त्वाचार्यसंकरे । अब्जानले महाशान्तिं हुत्वा संप्रार्थ्यवै गुरुं ॥ २९.७१ ॥
ajñānādarthalobhādvā kṛte tvācāryasaṃkare . abjānale mahāśāntiṃ hutvā saṃprārthyavai guruṃ .. 29.71 ..
याचयित्वा क्षमऽऽस्वेति पूजयित्वा विशेषतः । पनस्तेनैव तत्कर्म कारयेदिति शासनं ॥ २९.७२ ॥
yācayitvā kṣama''sveti pūjayitvā viśeṣataḥ . panastenaiva tatkarma kārayediti śāsanaṃ .. 29.72 ..
आचार्यदीनामलाभे तु तद्रूपं लेखयेत्पटे । तत्सन्निधौ युक्तमन्यमाचार्यं वरयेत्तथा ॥ २९.७३ ॥
ācāryadīnāmalābhe tu tadrūpaṃ lekhayetpaṭe . tatsannidhau yuktamanyamācāryaṃ varayettathā .. 29.73 ..
एकस्मिन्नालये स्याच्चेत्सन्निपातस्तु कर्मणां । आचार्यं संप्रणम्यैव तत्पुत्राद्यैर्विधानतः ॥ २९.७४ ॥
ekasminnālaye syāccetsannipātastu karmaṇāṃ . ācāryaṃ saṃpraṇamyaiva tatputrādyairvidhānataḥ .. 29.74 ..
कारयेत्तदलाभेतु कारयेत्तन्त्रतो गुरुः । पूर्वं तु योगमार्गेण प्रतिष्ठाप्यार्चिते पुनः ॥ २९.७५ ॥
kārayettadalābhetu kārayettantrato guruḥ . pūrvaṃ tu yogamārgeṇa pratiṣṭhāpyārcite punaḥ .. 29.75 ..
देवीभ्यां सह पश्चात्तु कारयेत्स्थापनं यदि । आभिचारिकमेव स्याद्राजराष्ट्रविनाशकृथ् ॥ २९.७६ ॥
devībhyāṃ saha paścāttu kārayetsthāpanaṃ yadi . ābhicārikameva syādrājarāṣṭravināśakṛth .. 29.76 ..
ध्रुवकौतुक संयुक्ते पूज्यमाने पुरा ततः । विमानध्रुवयोर्नाशे ब्रह्मस्थाने ध्रुवार्चनम्, ॥ २९.७७ ॥
dhruvakautuka saṃyukte pūjyamāne purā tataḥ . vimānadhruvayornāśe brahmasthāne dhruvārcanam, .. 29.77 ..
कौतुकं चोत्सवस्थाने स्थापयेदिति के चन । स्थानके चासनं कुर्याच्छयनं वापि चेच्छया ॥ २९.७८ ॥
kautukaṃ cotsavasthāne sthāpayediti ke cana . sthānake cāsanaṃ kuryācchayanaṃ vāpi cecchayā .. 29.78 ..
असनेशयनं कुर्यात्थ्सानकं न तु कारयेथ् । शयने नासनं चैव स्थानकं कारयेद्विधिः ॥ २९.७९ ॥
asaneśayanaṃ kuryātthsānakaṃ na tu kārayeth . śayane nāsanaṃ caiva sthānakaṃ kārayedvidhiḥ .. 29.79 ..
कौतुकं स्थितमासीन मौत्सवं कारयेत्तथा । असीनं कौतुकं कुर्यात्थ्सितमौत्सवमेव वा ॥ २९.८० ॥
kautukaṃ sthitamāsīna mautsavaṃ kārayettathā . asīnaṃ kautukaṃ kuryātthsitamautsavameva vā .. 29.80 ..
स्नपनं बलिबेरं च स्थितं सर्वत्र कारयेथ् । अवतारगणस्यैव मूर्तीनां पञ्चकस्य च ॥ २९.८१ ॥
snapanaṃ baliberaṃ ca sthitaṃ sarvatra kārayeth . avatāragaṇasyaiva mūrtīnāṃ pañcakasya ca .. 29.81 ..
अन्योन्यसंकरेणैव स्थापने कौतुकस्य च । महत्तरो भवेद्दो, स्तद्दोषशमवाय वै ॥ २९.८२ ॥
anyonyasaṃkareṇaiva sthāpane kautukasya ca . mahattaro bhaveddo, staddoṣaśamavāya vai .. 29.82 ..
हुत्वा तु महतीं शान्तिं यथास्थाने तु स्थापयेथ् । अथ वक्ष्ये विशेषेण शान्तिपञ्चककल्पनं ॥ २९.८३ ॥
hutvā tu mahatīṃ śāntiṃ yathāsthāne tu sthāpayeth . atha vakṣye viśeṣeṇa śāntipañcakakalpanaṃ .. 29.83 ..
नराणां पापबाहुल्यादपराधविशेषतः । देवास्सृजन्त्यद्भुतानि तेषु दृष्टेषु सत्वरं ॥ २९.८४ ॥
narāṇāṃ pāpabāhulyādaparādhaviśeṣataḥ . devāssṛjantyadbhutāni teṣu dṛṣṭeṣu satvaraṃ .. 29.84 ..
कुर्याच्छान्तिं यथोक्तान्तु विपरीते त्वनर्थकृथ् । कर्त्राराधकयोश्चैव राज्ञो राष्ट्रस्य वास्तुवः ॥ २९.८५ ॥
kuryācchāntiṃ yathoktāntu viparīte tvanarthakṛth . kartrārādhakayoścaiva rājño rāṣṭrasya vāstuvaḥ .. 29.85 ..
संक्षोभो जायते सद्यो विनाशो भवति ध्रुवं । द्वादशाहान्तरे तस्माच्छान्तिं कुर्याद्विधानतः ॥ २९.८६ ॥
saṃkṣobho jāyate sadyo vināśo bhavati dhruvaṃ . dvādaśāhāntare tasmācchāntiṃ kuryādvidhānataḥ .. 29.86 ..
अतीते द्वादशाहेतु महाशान्तिपुरस्सरं । संपूज्य वैष्णवान्शक्त्यादत्वा वै भूरिदक्षिणां ॥ २९.८७ ॥
atīte dvādaśāhetu mahāśāntipurassaraṃ . saṃpūjya vaiṣṇavānśaktyādatvā vai bhūridakṣiṇāṃ .. 29.87 ..
आरभेदुत्तरं कर्म मासेऽतीते विशेषतः । सप्ताहं तु महाशान्तिं हुत्वा विप्रशतं तथा ॥ २९.८८ ॥
ārabheduttaraṃ karma māse'tīte viśeṣataḥ . saptāhaṃ tu mahāśāntiṃ hutvā vipraśataṃ tathā .. 29.88 ..
भोजयित्वा च देवेशमनुमान्य तु कारयेथ् । षण्मासे समतीते तु रमते तत्र नोहरिः ॥ २९.८९ ॥
bhojayitvā ca deveśamanumānya tu kārayeth . ṣaṇmāse samatīte tu ramate tatra nohariḥ .. 29.89 ..
तस्मात्सर्वप्रयत्नेन कुर्याच्छान्तिं यथोदितां । भ्ॐआन्तरिक्षदिव्याख्यभेदात्त्रिविधमद्भुतं ॥ २९.९० ॥
tasmātsarvaprayatnena kuryācchāntiṃ yathoditāṃ . bh_oṃāntarikṣadivyākhyabhedāttrividhamadbhutaṃ .. 29.90 ..
ग्रहयुद्धश्च भेदश्च विकारो ग्रहमण्डले । सर्वग्रासोपरागश्च दुर्भिक्षश्चाक्षभेदनं ॥ २९.९१ ॥
grahayuddhaśca bhedaśca vikāro grahamaṇḍale . sarvagrāsoparāgaśca durbhikṣaścākṣabhedanaṃ .. 29.91 ..
एवमादीनि दिव्यानि त्वद्भुतानि प्रचक्षते । आन्तरिक्षाणि चार्केन्द्वोः परिवेषो निरन्तरः ॥ २९.९२ ॥
evamādīni divyāni tvadbhutāni pracakṣate . āntarikṣāṇi cārkendvoḥ pariveṣo nirantaraḥ .. 29.92 ..
वर्णान्तरेण बाहुल्यात्परिवेषस्तथाविधः । रात्राविन्द्रधमर्देवसद्म चाकाशमण्डले ॥ २९.९३ ॥
varṇāntareṇa bāhulyātpariveṣastathāvidhaḥ . rātrāvindradhamardevasadma cākāśamaṇḍale .. 29.93 ..
अशन्युल्कादिपातश्च राहुपुच्छादिदर्शनं । नक्षत्रपतनं केतोर्धूमस्येन्द्रस्य दर्शनं ॥ २९.९४ ॥
aśanyulkādipātaśca rāhupucchādidarśanaṃ . nakṣatrapatanaṃ ketordhūmasyendrasya darśanaṃ .. 29.94 ..
गन्धर्वनगरस्यापि दर्शनं पतनं तु वा । प्रतिसूर्याब्जनक्षत्रदर्शनं संप्रचक्षते ॥ २९.९५ ॥
gandharvanagarasyāpi darśanaṃ patanaṃ tu vā . pratisūryābjanakṣatradarśanaṃ saṃpracakṣate .. 29.95 ..
भ्ॐआन्यनेकथोक्तानि चरस्थिरविभेदतः । देशकालस्वभावादिविरुद्धं प्रसवादिकं ॥ २९.९६ ॥
bh_oṃānyanekathoktāni carasthiravibhedataḥ . deśakālasvabhāvādiviruddhaṃ prasavādikaṃ .. 29.96 ..
पृषदंशकसर्पाश्वयोनिजानां विशेषतः । गोनागमहिषाद्येषु तिर्यक्षु जननं तथा ॥ २९.९७ ॥
pṛṣadaṃśakasarpāśvayonijānāṃ viśeṣataḥ . gonāgamahiṣādyeṣu tiryakṣu jananaṃ tathā .. 29.97 ..
कृमिकीटपतङ्गेषु विष्किरेष्वण्डजादिषु । विवर्णाकारवासादिराश्रयादिस्तथालये ॥ २९.९८ ॥
kṛmikīṭapataṅgeṣu viṣkireṣvaṇḍajādiṣu . vivarṇākāravāsādirāśrayādistathālaye .. 29.98 ..
रक्तस्त्रीदर्शनादीनि चाद्भुतानि चरेषु तु । दिव्यानि चान्तरिक्षाणि तेषामत्रोत्तमोत्तमं ॥ २९.९९ ॥
raktastrīdarśanādīni cādbhutāni careṣu tu . divyāni cāntarikṣāṇi teṣāmatrottamottamaṃ .. 29.99 ..
नाराणि चोत्तमानि स्युर्माहिषाद्यानि मध्यमं । सरीसृपादिषु भवान्यथमानि वदन्तिहि ॥ २९.१०० ॥
nārāṇi cottamāni syurmāhiṣādyāni madhyamaṃ . sarīsṛpādiṣu bhavānyathamāni vadantihi .. 29.100 ..
रोदनं हसनं जल्पो ज्वलनं परिवर्तनं । स्वेदश्च रुधिरस्रावः कृमिकीनादिसंभवः ॥ २९.१०१ ॥
rodanaṃ hasanaṃ jalpo jvalanaṃ parivartanaṃ . svedaśca rudhirasrāvaḥ kṛmikīnādisaṃbhavaḥ .. 29.101 ..
अकालस्फोटनं धूमश्चाङ्गकंपनमेव च । स्वापनास्वादनेचैव तृणवल्मीक संभवः ॥ २९.१०२ ॥
akālasphoṭanaṃ dhūmaścāṅgakaṃpanameva ca . svāpanāsvādanecaiva tṛṇavalmīka saṃbhavaḥ .. 29.102 ..
प्रतिमायां भवेच्चेत्तु रक्तस्त्रीदर्शनं तथा । पाषण्डप्रतिलोमान्त्यजातिभिः पतितैस्थथा ॥ २९.१०३ ॥
pratimāyāṃ bhaveccettu raktastrīdarśanaṃ tathā . pāṣaṇḍapratilomāntyajātibhiḥ patitaisthathā .. 29.103 ..
सृगालादिभिरस्पृश्यैस्स्पर्शने च प्रवेशने । स्थूणाविरोहणे चैव चलने परिवर्तने ॥ २९.१०४ ॥
sṛgālādibhiraspṛśyaissparśane ca praveśane . sthūṇāvirohaṇe caiva calane parivartane .. 29.104 ..
तथापसर्पणे चैव कवाटशयनासने । भित्त्यायुधांबरे तद्वदग्निहोत्राद्युपस्करे ॥ २९.१०५ ॥
tathāpasarpaṇe caiva kavāṭaśayanāsane . bhittyāyudhāṃbare tadvadagnihotrādyupaskare .. 29.105 ..
विमाने च विकारश्च मक्षिकावृक्षपातने । प्रवर्तने चोपसर्पे पर्णपुष्पफलेषु च ॥ २९.१०६ ॥
vimāne ca vikāraśca makṣikāvṛkṣapātane . pravartane copasarpe parṇapuṣpaphaleṣu ca .. 29.106 ..
शाखादौ विपरीतस्य दर्शनं च विशेषतः । रक्तस्रावो जलस्रावश्चाद्भुतानि स्थिरेषु तु ॥ २९.१०७ ॥
śākhādau viparītasya darśanaṃ ca viśeṣataḥ . raktasrāvo jalasrāvaścādbhutāni sthireṣu tu .. 29.107 ..
तेषु गर्भकृहे चैव पीठे चैव भवानि तु । राज्ञोराष्ट्रस्य विप्राणां नाशकानि विशेषतः ॥ २९.१०८ ॥
teṣu garbhakṛhe caiva pīṭhe caiva bhavāni tu . rājñorāṣṭrasya viprāṇāṃ nāśakāni viśeṣataḥ .. 29.108 ..
कर्त्राराधकयोर्नाश इति शातातपोऽब्रवीथ् । प्रासादजानि राज्ञां स्युः प्रासादेऽपि विशेषतः ॥ २९.१०९ ॥
kartrārādhakayornāśa iti śātātapo'bravīth . prāsādajāni rājñāṃ syuḥ prāsāde'pi viśeṣataḥ .. 29.109 ..
अधिष्ठाने च पादे च प्रस्तरे च गलेऽपि च । शिखरे च भवानि स्युःक्षत्रियाणां क्रमेण तु ॥ २९.११० ॥
adhiṣṭhāne ca pāde ca prastare ca gale'pi ca . śikhare ca bhavāni syuḥkṣatriyāṇāṃ krameṇa tu .. 29.110 ..
अभिषेकस्य योग्यस्य युवराजस्य चैव हि । अभिषिक्तस्य सम्राजश्चात्याहितकराणि तु ॥ २९.१११ ॥
abhiṣekasya yogyasya yuvarājasya caiva hi . abhiṣiktasya samrājaścātyāhitakarāṇi tu .. 29.111 ..
प्रथमावरणे वैश्यजातीनां मन्त्रिणां तथा । पुरोहितस्य तन्मण्डलाधिपानां महद्भयं ॥ २९.११२ ॥
prathamāvaraṇe vaiśyajātīnāṃ mantriṇāṃ tathā . purohitasya tanmaṇḍalādhipānāṃ mahadbhayaṃ .. 29.112 ..
शूद्रजातिविपद्धेत्द्वितीयावरणादिषु । सस्यनाशो गजाश्वादिपशुनाशस्च जायते ॥ २९.११३ ॥
śūdrajātivipaddhetdvitīyāvaraṇādiṣu . sasyanāśo gajāśvādipaśunāśasca jāyate .. 29.113 ..
पुरोधसश्चाग्निकुण्डे ब्रह्मस्थाने द्विजन्मनां । रुद्रालये तु सर्वेषां नृपस्य तु गुहालये ॥ २९.११४ ॥
purodhasaścāgnikuṇḍe brahmasthāne dvijanmanāṃ . rudrālaye tu sarveṣāṃ nṛpasya tu guhālaye .. 29.114 ..
सेनेशानां विपत्तिः स्याद्वक्रतुण्डालये तथा । श्षालये राजपत्नीनां दुर्गास्थानेऽन्ययोषितां ॥ २९.११५ ॥
seneśānāṃ vipattiḥ syādvakratuṇḍālaye tathā . śṣālaye rājapatnīnāṃ durgāsthāne'nyayoṣitāṃ .. 29.115 ..
मातृस्थानेऽन्त्यजातीनामोषधीनां कुबेरके । नृपवाहनशस्त्रोपजीविनां भास्करालये ॥ २९.११६ ॥
mātṛsthāne'ntyajātīnāmoṣadhīnāṃ kuberake . nṛpavāhanaśastropajīvināṃ bhāskarālaye .. 29.116 ..
अन्यदेवालये तत्तद्भोक्तानामपि लक्षयेथ् । आस्थानमण्डपसङ्गमण्डबप्राङ्गणेषु च ॥ २९.११७ ॥
anyadevālaye tattadbhoktānāmapi lakṣayeth . āsthānamaṇḍapasaṅgamaṇḍabaprāṅgaṇeṣu ca .. 29.117 ..
महानसे नृपावासे क्रीडास्थाने विशेषतः । आचार्ययजमानादिपदार्थिनिलयेषु च ॥ २९.११८ ॥
mahānase nṛpāvāse krīḍāsthāne viśeṣataḥ . ācāryayajamānādipadārthinilayeṣu ca .. 29.118 ..
चैत्यवृक्षादिषूद्भूता रक्तस्त्रीदर्शनादयः । वल्मीकाद्याश्च फलदास्तत्तद्दिश्युक्तमार्गतः ॥ २९.११९ ॥
caityavṛkṣādiṣūdbhūtā raktastrīdarśanādayaḥ . valmīkādyāśca phaladāstattaddiśyuktamārgataḥ .. 29.119 ..
भ्ॐएषु देवबेरार्चापीठगर्भगृहार्ते । जातादोषान्तु संप्रोक्ता उत्तमोत्तमसंज्ञिताः ॥ २९.१२० ॥
bh_oṃeṣu devaberārcāpīṭhagarbhagṛhārte . jātādoṣāntu saṃproktā uttamottamasaṃjñitāḥ .. 29.120 ..
उत्तमास्तुपुनर्जाताः प्राकारेमुखमण्डपे । मध्यमाः प्रथमावरणे शेषेषूक्तास्तथाधमाः ॥ २९.१२१ ॥
uttamāstupunarjātāḥ prākāremukhamaṇḍape . madhyamāḥ prathamāvaraṇe śeṣeṣūktāstathādhamāḥ .. 29.121 ..
तथा राजाङ्गणे चोत्तमोत्तमाः परितस्ततः । अङ्कणेषूत्तमा अन्तर्वास्तुके मध्यमास्स्मृताः ॥ २९.१२२ ॥
tathā rājāṅgaṇe cottamottamāḥ paritastataḥ . aṅkaṇeṣūttamā antarvāstuke madhyamāssmṛtāḥ .. 29.122 ..
अधमा वास्तुनो बाह्ये तारतम्यमिति स्मृतं । दिव्यान्तरिक्षयोर्नास्ति चिकित्सा शान्तिरिष्यते ॥ २९.१२३ ॥
adhamā vāstuno bāhye tāratamyamiti smṛtaṃ . divyāntarikṣayornāsti cikitsā śāntiriṣyate .. 29.123 ..
भ्ॐएषु तु चरेष्वत्र निमित्तं च निमित्तिनं । देशान्तरे वासयित्वा शान्तिन्तत्र समाचरेथ् ॥ २९.१२४ ॥
bh_oṃeṣu tu careṣvatra nimittaṃ ca nimittinaṃ . deśāntare vāsayitvā śāntintatra samācareth .. 29.124 ..
स्थिरेषु प्रतिमानां तु रोदने हसने तथा । ज्वलने च तथा देवं संस्थाप्य तरुणालये ॥ २९.१२५ ॥
sthireṣu pratimānāṃ tu rodane hasane tathā . jvalane ca tathā devaṃ saṃsthāpya taruṇālaye .. 29.125 ..
तद्बेरस्थां समारोप्य शक्तिं तत्र विधानतः । शान्तिं कृत्वा पुनः कुर्यात्थ्सापनं चार्चनं क्रमाथ् ॥ २९.१२६ ॥
tadberasthāṃ samāropya śaktiṃ tatra vidhānataḥ . śāntiṃ kṛtvā punaḥ kuryātthsāpanaṃ cārcanaṃ kramāth .. 29.126 ..
परिवृत्तौ पुनस्थ्साप्य कुर्याच्छान्त्यादि पूर्ववथ् । स्वेदे च रुधिरस्रावे सर्वं रोदनवच्चरेथ् ॥ २९.१२७ ॥
parivṛttau punasthsāpya kuryācchāntyādi pūrvavath . svede ca rudhirasrāve sarvaṃ rodanavaccareth .. 29.127 ..
कृमिकीटपतङ्गानां कृणादीनामथोद्भवे । आरोप्य पूर्ववच्छक्तिं पुनस्संधाय युक्तितः ॥ २९.१२८ ॥
kṛmikīṭapataṅgānāṃ kṛṇādīnāmathodbhave . āropya pūrvavacchaktiṃ punassaṃdhāya yuktitaḥ .. 29.128 ..
शान्त्यादीनाचरेदेवमकालस्फोटनादिके । बेरार्चापीठके तद्वदालयाभ्यन्तरेपे च ॥ २९.१२९ ॥
śāntyādīnācaredevamakālasphoṭanādike . berārcāpīṭhake tadvadālayābhyantarepe ca .. 29.129 ..
वल्मीकाद्युद्भवे देवं संस्थाप्य तरुणालये । यावद्दोषं खनित्वैव गव्यैरभ्युक्ष्य पञ्चभिः ॥ २९.१३० ॥
valmīkādyudbhave devaṃ saṃsthāpya taruṇālaye . yāvaddoṣaṃ khanitvaiva gavyairabhyukṣya pañcabhiḥ .. 29.130 ..
संशोध्य सर्वं संधाय पुनस्थ्सापन माचरेथ् । प्रासादबाह्ये चोत्पन्ने विवरे विशदीकृते ॥ २९.१३१ ॥
saṃśodhya sarvaṃ saṃdhāya punasthsāpana mācareth . prāsādabāhye cotpanne vivare viśadīkṛte .. 29.131 ..
पेषयित्वा मरीच्यादिजलेनापूर्य चाश्मना । आलिप्य शर्करां कुर्याच्छान्तिं दिव्यप्रचोदितां ॥ २९.१३२ ॥
peṣayitvā marīcyādijalenāpūrya cāśmanā . ālipya śarkarāṃ kuryācchāntiṃ divyapracoditāṃ .. 29.132 ..
पुनरप्युदिते कुर्यादेवमेव तुयुक्तितः । मक्षिकादर्शने तत्त्यद्व्यपोह्यत्वविलंबितं ॥ २९.१३३ ॥
punarapyudite kuryādevameva tuyuktitaḥ . makṣikādarśane tattyadvyapohyatvavilaṃbitaṃ .. 29.133 ..
शोधयित्वा ततश्शान्तिमारभेत विचक्षणः । अस्पृश्यस्पक्शने तद्वत्कृत्वा शान्तिं समाचरेथ् ॥ २९.१३४ ॥
śodhayitvā tataśśāntimārabheta vicakṣaṇaḥ . aspṛśyaspakśane tadvatkṛtvā śāntiṃ samācareth .. 29.134 ..
स्थूणाविरोहणादौ च पुनस्संधाय चाचरेथ् । हठाद्वृक्षाधिपतिने शान्ति स्तत्त्यागपूर्विका ॥ २९.१३५ ॥
sthūṇāvirohaṇādau ca punassaṃdhāya cācareth . haṭhādvṛkṣādhipatine śānti stattyāgapūrvikā .. 29.135 ..
राजाङ्गणे समुत्पन्ने राजानं सबलं पुनः । वेश्मान्तरं वासयित्वा शान्तिं कृत्वा यथोचितां ॥ २९.१३६ ॥
rājāṅgaṇe samutpanne rājānaṃ sabalaṃ punaḥ . veśmāntaraṃ vāsayitvā śāntiṃ kṛtvā yathocitāṃ .. 29.136 ..
अभिषिच्य पुनर्युक्तेदिने राष्ट्रं प्रवेशयेथ् । अथोत्तमोत्तमस्योत्तमस्य स्यान्मध्यमस्य च ॥ २९.१३७ ॥
abhiṣicya punaryuktedine rāṣṭraṃ praveśayeth . athottamottamasyottamasya syānmadhyamasya ca .. 29.137 ..
अधमस्यापि चास्पृश्यस्पर्शनस्य यथाक्रमं । क्रमेणाद्भुतशान्तिस्तु प्रभूता महती तथा ॥ २९.१३८ ॥
adhamasyāpi cāspṛśyasparśanasya yathākramaṃ . krameṇādbhutaśāntistu prabhūtā mahatī tathā .. 29.138 ..
शान्तिश्शुद्धिरिति प्राज्ञैः पञ्चधा शान्तिरुच्यते । आलयाभिमुखे तद्वदैशान्यां चोत्तरेऽथ वा ॥ २९.१३९ ॥
śāntiśśuddhiriti prājñaiḥ pañcadhā śāntirucyate . ālayābhimukhe tadvadaiśānyāṃ cottare'tha vā .. 29.139 ..
पर्वताग्रे तटाकस्य तीरे वा मण्डपं प्रपां । कूटं वा षोडशस्तंभसंयुक्तां सुमनोहरं ॥ २९.१४० ॥
parvatāgre taṭākasya tīre vā maṇḍapaṃ prapāṃ . kūṭaṃ vā ṣoḍaśastaṃbhasaṃyuktāṃ sumanoharaṃ .. 29.140 ..
चतुर्हस्तप्रमाणान्तस्त्संभान्तरसमायुतां । तानोन्नताचलायुक्तां? कृत्वा मध्ये विधानतः ॥ २९.१४१ ॥
caturhastapramāṇāntastsaṃbhāntarasamāyutāṃ . tānonnatācalāyuktāṃ? kṛtvā madhye vidhānataḥ .. 29.141 ..
कुण्डं श्रामणकोक्तं तु कृत्वाधो द्वादशाङ्गुलं । खनित्वैव चत्प्राच्यां द्विहस्तायत विस्तृतं ॥ २९.१४२ ॥
kuṇḍaṃ śrāmaṇakoktaṃ tu kṛtvādho dvādaśāṅgulaṃ . khanitvaiva catprācyāṃ dvihastāyata vistṛtaṃ .. 29.142 ..
हस्तमात्रसमुत्सेधं कृत्वा स्थण्डिलमुत्तमं । प्रागादिषु चतुर्धिक्षु क्रमेणाहवनीयकं ॥ २९.१४३ ॥
hastamātrasamutsedhaṃ kṛtvā sthaṇḍilamuttamaṃ . prāgādiṣu caturdhikṣu krameṇāhavanīyakaṃ .. 29.143 ..
अन्वाहार्यं चावसथ्यं गार्हपत्यं च कारयेथ् । अग्नेयादिषु कोणेषु कुण्डान्यौपासनानि च ॥ २९.१४४ ॥
anvāhāryaṃ cāvasathyaṃ gārhapatyaṃ ca kārayeth . agneyādiṣu koṇeṣu kuṇḍānyaupāsanāni ca .. 29.144 ..
कृत्वाद्वारेषु विधिना तोरणादि प्रकल्पयेथ् । पूर्मकंभैरङ्कुरैश्च कदलीभिर्ध्वजैरपि ॥ २९.१४५ ॥
kṛtvādvāreṣu vidhinā toraṇādi prakalpayeth . pūrmakaṃbhairaṅkuraiśca kadalībhirdhvajairapi .. 29.145 ..
स्तंभ वेष्टनकाद्यैश्च दर्भमालाभिरेव च । अलङ्कृत्य वितानाद्यैर्यथाविभवस्तरं ॥ २९.१४६ ॥
staṃbha veṣṭanakādyaiśca darbhamālābhireva ca . alaṅkṛtya vitānādyairyathāvibhavastaraṃ .. 29.146 ..
स्थण्डिले धान्यराशिं तु कृत्वा तस्य च मध्यमे । पद्ममष्टदलं कृत्वा तण्डुलैस्तस्य मध्यमे ॥ २९.१४७ ॥
sthaṇḍile dhānyarāśiṃ tu kṛtvā tasya ca madhyame . padmamaṣṭadalaṃ kṛtvā taṇḍulaistasya madhyame .. 29.147 ..
सौवर्णं राजतं ताम्रं कृण्मयं वा स्वशक्तितः । द्वात्रिंशत्प्रस्थसंपूर्णं कंभमादाय शास्त्रवथ् ॥ २९.१४८ ॥
sauvarṇaṃ rājataṃ tāmraṃ kṛṇmayaṃ vā svaśaktitaḥ . dvātriṃśatprasthasaṃpūrṇaṃ kaṃbhamādāya śāstravath .. 29.148 ..
तन्तुना परिष्ट्यैव यवान्तरमनन्तं । वस्त्रयुग्मेन संवेष्ट्य भूषणैश्च विभूष्य च ॥ २९.१४९ ॥
tantunā pariṣṭyaiva yavāntaramanantaṃ . vastrayugmena saṃveṣṭya bhūṣaṇaiśca vibhūṣya ca .. 29.149 ..
सौवर्ण मङ्गलान्यष्टौ तथा पञ्चायुधानि च । वर्णचिह्नानि तादृंशि चाहीनान्यङ्गुलादपि ॥ २९.१५० ॥
sauvarṇa maṅgalānyaṣṭau tathā pañcāyudhāni ca . varṇacihnāni tādṛṃśi cāhīnānyaṅgulādapi .. 29.150 ..
रत्नानि हेम रजतं ताम्रं कांस्यं तथा त्रपु । सीसायस्तीक्ष्णुकान्तानि ग्रहरूपाणि चैव हि ॥ २९.१५१ ॥
ratnāni hema rajataṃ tāmraṃ kāṃsyaṃ tathā trapu . sīsāyastīkṣṇukāntāni graharūpāṇi caiva hi .. 29.151 ..
निक्षिप्यापूर्य तोयेव शुद्धेन तु विधानतः । कर्पूरचन्दनोशीरलवङ्गैलादिकानपि ॥ २९.१५२ ॥
nikṣipyāpūrya toyeva śuddhena tu vidhānataḥ . karpūracandanośīralavaṅgailādikānapi .. 29.152 ..
गन्धद्रव्याणि चान्यानि न्यस्य चूतादिपल्लवान् । तन्मुखं तु पिधानेव पिदध्यात्सदृशेनवै ॥ २९.१५३ ॥
gandhadravyāṇi cānyāni nyasya cūtādipallavān . tanmukhaṃ tu pidhāneva pidadhyātsadṛśenavai .. 29.153 ..
आचार्यमृत्विजश्चापि वृत्वा शास्त्रविधानतः । नववस्त्रोत्तरीयाद्यैः पञ्चाङ्गार्पितभूषणैः ॥ २९.१५४ ॥
ācāryamṛtvijaścāpi vṛtvā śāstravidhānataḥ . navavastrottarīyādyaiḥ pañcāṅgārpitabhūṣaṇaiḥ .. 29.154 ..
अलङ्कृत्याग्निकुण्डेषु हुत्वाघारं यथोदितं । मध्ये सूर्यं तथेन्द्रादि भार्गवाङ्गारकौ तथा ॥ २९.१५५ ॥
alaṅkṛtyāgnikuṇḍeṣu hutvāghāraṃ yathoditaṃ . madhye sūryaṃ tathendrādi bhārgavāṅgārakau tathā .. 29.155 ..
मन्दं गुरुं पावकादि चन्द्रराहुध्वजान्बुधं । प्रदक्षिणवशेनैव ध्यात्वावाङ्यार्ऽचयेत्ततः ॥ २९.१५६ ॥
mandaṃ guruṃ pāvakādi candrarāhudhvajānbudhaṃ . pradakṣiṇavaśenaiva dhyātvāvāṅyār'cayettataḥ .. 29.156 ..
अष्टाक्षरेणायुतं वा सहस्रं चाष्टसंयुतं । अभिमृश्य विधानेन ग्रहयज्ञोदितेन वै ॥ २९.१५७ ॥
aṣṭākṣareṇāyutaṃ vā sahasraṃ cāṣṭasaṃyutaṃ . abhimṛśya vidhānena grahayajñoditena vai .. 29.157 ..
हुनेच्च तत्तद्दैवत्यं समिच्चरुघृतैः क्रमाथ् । हुत्वाष्टोत्तरसाहस्रं ततो वैखानसानले ॥ २९.१५८ ॥
hunecca tattaddaivatyaṃ samiccarughṛtaiḥ kramāth . hutvāṣṭottarasāhasraṃ tato vaikhānasānale .. 29.158 ..
घृताप्लुतैर्बिल्वदलैरष्टोत्तर सहस्रकं । हुनेदष्टाक्षरं नित्यं तथा बिल्वसमिद्घेतैः ॥ २९.१५९ ॥
ghṛtāplutairbilvadalairaṣṭottara sahasrakaṃ . hunedaṣṭākṣaraṃ nityaṃ tathā bilvasamidghetaiḥ .. 29.159 ..
दूर्वापूपव्रीहितिलचरुलाजाब्जसक्तुभिः । वैष्णव्याचैव गायत्षा पूर्ववज्जुहुयाद्गुरुः ॥ २९.१६० ॥
dūrvāpūpavrīhitilacarulājābjasaktubhiḥ . vaiṣṇavyācaiva gāyatṣā pūrvavajjuhuyādguruḥ .. 29.160 ..
घृतेनाष्टाक्षरेणैव सहस्रं चाष्टसंयुतं । हुत्वान्ते तु घृतेनैव वैष्णवं विष्णुसूक्तकं ॥ २९.१६१ ॥
ghṛtenāṣṭākṣareṇaiva sahasraṃ cāṣṭasaṃyutaṃ . hutvānte tu ghṛtenaiva vaiṣṇavaṃ viṣṇusūktakaṃ .. 29.161 ..
जुहुयात्पौरुषं सूक्तं नृत्तैर्गेयैश्च घोषयेथ् । यथादिशं चतुर्वेदान्नित्यमध्यापयेत्क्रमाथ् ॥ २९.१६२ ॥
juhuyātpauruṣaṃ sūktaṃ nṛttairgeyaiśca ghoṣayeth . yathādiśaṃ caturvedānnityamadhyāpayetkramāth .. 29.162 ..
कल्पसूत्रमथौखेयं प्रणीतं गुरुणा पुरा । स्वाध्यायो यत्र यत्रोक्तस्तत्राध्येयं विधानतः ॥ २९.१६३ ॥
kalpasūtramathaukheyaṃ praṇītaṃ guruṇā purā . svādhyāyo yatra yatroktastatrādhyeyaṃ vidhānataḥ .. 29.163 ..
ऋत्विग्भ्यो दक्षिणां दद्यादेवं सप्ताहमाचरेथ् । यदि देवालये दोषः कुंभपार्श्वेथ स्थण्डिले ॥ २९.१६४ ॥
ṛtvigbhyo dakṣiṇāṃ dadyādevaṃ saptāhamācareth . yadi devālaye doṣaḥ kuṃbhapārśvetha sthaṇḍile .. 29.164 ..
देवं तं स्थाप्य चाभ्यर्छ्य निवेद्य च महाहविः । देवस्याभिमुखे हुत्वा होममन्ते यथाविधि ॥ २९.१६५ ॥
devaṃ taṃ sthāpya cābhyarchya nivedya ca mahāhaviḥ . devasyābhimukhe hutvā homamante yathāvidhi .. 29.165 ..
नवाहं वाथ स्ताहं उत्सवं कारयेद्विधिः । दिव्यान्तरिक्षयोः कुंभजलेना प्लावयेन्नृपं ॥ २९.१६६ ॥
navāhaṃ vātha stāhaṃ utsavaṃ kārayedvidhiḥ . divyāntarikṣayoḥ kuṃbhajalenā plāvayennṛpaṃ .. 29.166 ..
भ्ॐएषु तत्थ्सलं प्राक्ष्य शिष्टतोयेन वै नृपं । तत्पत्नीं चाभिषिञ्चेच्च गुरुं संपूज्य पार्थिवः ॥ २९.१६७ ॥
bh_oṃeṣu tatthsalaṃ prākṣya śiṣṭatoyena vai nṛpaṃ . tatpatnīṃ cābhiṣiñcecca guruṃ saṃpūjya pārthivaḥ .. 29.167 ..
सुवर्णपशुभूम्यादीन्दद्यादृत्विग्भ्य एव च । दक्षिणां बहुलां दद्याज्जीवो यज्ञस्य दक्षिणा ॥ २९.१६८ ॥
suvarṇapaśubhūmyādīndadyādṛtvigbhya eva ca . dakṣiṇāṃ bahulāṃ dadyājjīvo yajñasya dakṣiṇā .. 29.168 ..
यदि राजगृहे दोषः कृत्वा मण्डपमन्तिके । पूर्ववद्ग्रहयज्ञं च होमं श्रामणकेऽनले ॥ २९.१६९ ॥
yadi rājagṛhe doṣaḥ kṛtvā maṇḍapamantike . pūrvavadgrahayajñaṃ ca homaṃ śrāmaṇake'nale .. 29.169 ..
कुंभस्य साधनं कृत्वा सप्ताहान्ते प्रभुं तथा । स्नापयेत्कुंभतोयेन प्रतिष्ठान्तक्रमेण वै ॥ २९.१७० ॥
kuṃbhasya sādhanaṃ kṛtvā saptāhānte prabhuṃ tathā . snāpayetkuṃbhatoyena pratiṣṭhāntakrameṇa vai .. 29.170 ..
दक्षिणां गुरुपूर्वेभ्यो दत्वा कृत्वांकुरार्ऽपणं । शुभेऽनुकूले नक्षत्रे कृत्वा चैवाभिषेचनं ॥ २९.१७१ ॥
dakṣiṇāṃ gurupūrvebhyo datvā kṛtvāṃkurār'paṇaṃ . śubhe'nukūle nakṣatre kṛtvā caivābhiṣecanaṃ .. 29.171 ..
प्रविशेत्पूर्वगेहं तु धर्मसिद्ध्यैगुरूदितः । एष एव विधिः प्रोक्तो गृहिणामपि सम्मतः ॥ २९.१७२ ॥
praviśetpūrvagehaṃ tu dharmasiddhyaigurūditaḥ . eṣa eva vidhiḥ prokto gṛhiṇāmapi sammataḥ .. 29.172 ..
राज्ञां परार्थवृत्तित्वात्सोऽत्र तु प्रकृतीकृतः । सर्वग्रासोपरागादिदिव्याद्भुतशमायवै ॥ २९.१७३ ॥
rājñāṃ parārthavṛttitvātso'tra tu prakṛtīkṛtaḥ . sarvagrāsoparāgādidivyādbhutaśamāyavai .. 29.173 ..
यथाशक्ति ब्राह्मणेभ्यस्स्वर्णं भूमिं पशूनपि । दद्यात्तथा विशेषेण दक्षिणां भूरिसम्मितां ॥ २९.१७४ ॥
yathāśakti brāhmaṇebhyassvarṇaṃ bhūmiṃ paśūnapi . dadyāttathā viśeṣeṇa dakṣiṇāṃ bhūrisammitāṃ .. 29.174 ..
अनावृष्टिनिवृत्त्यर्थं कुंभं संगृह्य पूर्ववथ् । सर्वतीर्थं समावाह्य समभ्यर्च्याग्रतो हरेः ॥ २९.१७५ ॥
anāvṛṣṭinivṛttyarthaṃ kuṃbhaṃ saṃgṛhya pūrvavath . sarvatīrthaṃ samāvāhya samabhyarcyāgrato hareḥ .. 29.175 ..
ध्यान्यपीठे तु सौवर्णं पद्ममष्टदलैर्युतं । हेमपात्रे तु सन्न्यस्य देवमावाह्य तत्र च ॥ २९.१७६ ॥
dhyānyapīṭhe tu sauvarṇaṃ padmamaṣṭadalairyutaṃ . hemapātre tu sannyasya devamāvāhya tatra ca .. 29.176 ..
अभ्यर्च्य तस्य चोर्ध्वेतु पीठे कुंभं निधाय च । कुंभमूले तु सुषिरं सूचीमात्रं विधाय च ॥ २९.१७७ ॥
abhyarcya tasya cordhvetu pīṭhe kuṃbhaṃ nidhāya ca . kuṃbhamūle tu suṣiraṃ sūcīmātraṃ vidhāya ca .. 29.177 ..
तद्धारया त्वविच्छिन्नरूपया सेचयेद्धरिं । समिद्भिर्वैतसीभिस्तु पालाशीभिरथापि वा ॥ २९.१७८ ॥
taddhārayā tvavicchinnarūpayā secayeddhariṃ . samidbhirvaitasībhistu pālāśībhirathāpi vā .. 29.178 ..
अष्ठोत्तरसहस्त्रं तु जुहुयात्पञ्जवारुणं । अग्नौ श्रामणके पश्चाद्दिशाहोमेषु पूर्ववथ् ॥ २९.१७९ ॥
aṣṭhottarasahastraṃ tu juhuyātpañjavāruṇaṃ . agnau śrāmaṇake paścāddiśāhomeṣu pūrvavath .. 29.179 ..
अष्टात्तरसहस्रं तु प्रत्येकं पञ्चवारुणं । समिद्भिर्जुहुयाद्विद्वान्वैतसीभिर्यधाविथि ॥ २९.१८० ॥
aṣṭāttarasahasraṃ tu pratyekaṃ pañcavāruṇaṃ . samidbhirjuhuyādvidvānvaitasībhiryadhāvithi .. 29.180 ..
समिद्भिः पुनराज्येन वैतसीभिः पृथग्घुनेथ् । अष्टाधिकसहस्रं तु "इन्द्रं प्रणयन्तऽऽ मित्यपि ॥ २९.१८१ ॥
samidbhiḥ punarājyena vaitasībhiḥ pṛthagghuneth . aṣṭādhikasahasraṃ tu "indraṃ praṇayanta'' mityapi .. 29.181 ..
श्रामणाग्निं विधायैकं दक्षिणे तस्य वज्रिणं । आवाह्य तु समभ्यर्च्य "शचीसहाऽऽयेति होमयेथ् ॥ २९.१८२ ॥
śrāmaṇāgniṃ vidhāyaikaṃ dakṣiṇe tasya vajriṇaṃ . āvāhya tu samabhyarcya "śacīsahā''yeti homayeth .. 29.182 ..
देवं विशेषतोऽभ्यर्च्य कारयेत्स्नपनादिकं । एवं ज्ञात्वा विधानेन तत्तत्कर्मसु गौरवं ॥ २९.१८३ ॥
devaṃ viśeṣato'bhyarcya kārayetsnapanādikaṃ . evaṃ jñātvā vidhānena tattatkarmasu gauravaṃ .. 29.183 ..
त्षहादि त्रिंशद्घस्रान्तं श्रामणाग्नौ यथाविथि । दिने दिने पूरयित्वा कुंभं तेनैव सेचयेथ् ॥ २९.१८४ ॥
tṣahādi triṃśadghasrāntaṃ śrāmaṇāgnau yathāvithi . dine dine pūrayitvā kuṃbhaṃ tenaiva secayeth .. 29.184 ..
सर्वान्ते देवमास्नाप्य समभ्यर्च्य हविर्ददेथ् । कर्मान्ते स्यान्महावृष्टिस्तस्माद्यत्नेन कारयेथ् ॥ २९.१८५ ॥
sarvānte devamāsnāpya samabhyarcya havirdadeth . karmānte syānmahāvṛṣṭistasmādyatnena kārayeth .. 29.185 ..
अथ वा वर्ष कामी वा मोक्षार्थी पशुकामनः । सर्वोपद्रवशान्त्यर्थी विजयार्थी विशेषतः ॥ २९.१८६ ॥
atha vā varṣa kāmī vā mokṣārthī paśukāmanaḥ . sarvopadravaśāntyarthī vijayārthī viśeṣataḥ .. 29.186 ..
स्नपनालयमासाद्य अलङ्कृत्य च पूर्ववथ् । कर्मगौरवमाज्ञाय संभृत्य बहुधा पयः ॥ २९.१८७ ॥
snapanālayamāsādya alaṅkṛtya ca pūrvavath . karmagauravamājñāya saṃbhṛtya bahudhā payaḥ .. 29.187 ..
पूजयेत्प्रथमं यत्नादाचार्यं सहि धारकः । आचार्यस्सुप्रसन्नात्मा श्वभ्रात्प्राच्यां तु तण्डुलैः ॥ २९.१८८ ॥
pūjayetprathamaṃ yatnādācāryaṃ sahi dhārakaḥ . ācāryassuprasannātmā śvabhrātprācyāṃ tu taṇḍulaiḥ .. 29.188 ..
कृत्वा पङ्क्तिं दक्षिणोत्तरायतां विपुलान्तरां । श्वभ्राद्दक्षिणतः कृत्वा कुण्डं श्रामणकस्य तु ॥ २९.१८९ ॥
kṛtvā paṅktiṃ dakṣiṇottarāyatāṃ vipulāntarāṃ . śvabhrāddakṣiṇataḥ kṛtvā kuṇḍaṃ śrāmaṇakasya tu .. 29.189 ..
अग्निमाधाय कुंभां स्तु नव संवेष्ट्य तन्तुना । अद्भिः प्रक्षाल्य चोत्पूय कुशकूर्चेन चात्वरः ॥ २९.१९० ॥
agnimādhāya kuṃbhāṃ stu nava saṃveṣṭya tantunā . adbhiḥ prakṣālya cotpūya kuśakūrcena cātvaraḥ .. 29.190 ..
क्षीरेण पूरयित्वैव चोत्बूतेन क्रमेण वै । पङ्क्तिं निधायापिधानैरपिधायोपरि क्रमाथ् ॥ २९.१९१ ॥
kṣīreṇa pūrayitvaiva cotbūtena krameṇa vai . paṅktiṃ nidhāyāpidhānairapidhāyopari kramāth .. 29.191 ..
वस्त्रेणाच्छादयेच्छ्वभ्रंपूजान्तेभ्यर्च्य वै हरिं । स्वस्तिसूक्तेन चानम्य संस्थाप्य श्वभ्रमध्यमे ॥ २९.१९२ ॥
vastreṇācchādayecchvabhraṃpūjāntebhyarcya vai hariṃ . svastisūktena cānamya saṃsthāpya śvabhramadhyame .. 29.192 ..
अर्चनोक्तविधानेन सर्वं पूर्वनदायरेथ् । तन्तुना वेष्टिते क्षीरं कृहीत्वाकरके पूनः ॥ २९.१९३ ॥
arcanoktavidhānena sarvaṃ pūrvanadāyareth . tantunā veṣṭite kṣīraṃ kṛhītvākarake pūnaḥ .. 29.193 ..
विष्णुसूक्तेन "चेषेऽऽत्वेत्याद्यैर्मन्त्रैः क्रमाद्गुरुः । तया संस्नापयेद्देनमुक्तयो क्षीरधारया ॥ २९.१९४ ॥
viṣṇusūktena "ceṣe''tvetyādyairmantraiḥ kramādguruḥ . tayā saṃsnāpayeddenamuktayo kṣīradhārayā .. 29.194 ..
तथैव परिषिच्याग्निं मन्त्रै"र्विष्णोर्नुऽऽकादिभिः । अतोदेवादिऽऽभिस्तद्वदष्टार्ण मनुना तथा ॥ २९.१९५ ॥
tathaiva pariṣicyāgniṃ mantrai"rviṣṇornu''kādibhiḥ . atodevādi''bhistadvadaṣṭārṇa manunā tathā .. 29.195 ..
जुहुयाद्विष्णुगायत्षा अष्टाधिकसहस्रकं । अथ वा स्नपनं यावत्तावदुद्वर्त्य मन्त्रतः ॥ २९.१९६ ॥
juhuyādviṣṇugāyatṣā aṣṭādhikasahasrakaṃ . atha vā snapanaṃ yāvattāvadudvartya mantrataḥ .. 29.196 ..
हारिद्रेन तु चूर्णेन संशोध्याम्लादिभिस्ततः । गन्धोदेन सुसंस्नाप्य प्लोतेन विमृजेत्ततः ॥ २९.१९७ ॥
hāridrena tu cūrṇena saṃśodhyāmlādibhistataḥ . gandhodena susaṃsnāpya plotena vimṛjettataḥ .. 29.197 ..
वस्त्रादिभिरलङ्कृत्य समभ्यर्च्य विधानतः । पायसादि हविर्दद्याद्दप्यादाचार्यदक्षिणां ॥ २९.१९८ ॥
vastrādibhiralaṅkṛtya samabhyarcya vidhānataḥ . pāyasādi havirdadyāddapyādācāryadakṣiṇāṃ .. 29.198 ..
अनेन सर्वान्कामांश्च लभेताविशयं नरः । ध्रुवबेरार्चने चेत्तु संस्नाप्य प्रमुखे घटं ॥ २९.१९९ ॥
anena sarvānkāmāṃśca labhetāviśayaṃ naraḥ . dhruvaberārcane cettu saṃsnāpya pramukhe ghaṭaṃ .. 29.199 ..
तस्मादानीय तत्रैव स्नापयेदुक्तगौरवाथ् । सप्तपञ्चत्षहान्यत्र क्षीरस्नानं प्रकल्पयेथ् ॥ २९.२०० ॥
tasmādānīya tatraiva snāpayeduktagauravāth . saptapañcatṣahānyatra kṣīrasnānaṃ prakalpayeth .. 29.200 ..
एवं घृताभिषेकं च कारयेत्सदृशं फलं । इमामद्भुताशान्तिन्तु काश्यपाद्याः प्रचक्षते ॥ २९.२०१ ॥
evaṃ ghṛtābhiṣekaṃ ca kārayetsadṛśaṃ phalaṃ . imāmadbhutāśāntintu kāśyapādyāḥ pracakṣate .. 29.201 ..
अथ प्रभूतशान्तिं तु प्रवक्ष्यामि तपोधनाः । पूर्ववन्मण्टपादीनि कारयित्वा यथाविधि ॥ २९.२०२ ॥
atha prabhūtaśāntiṃ tu pravakṣyāmi tapodhanāḥ . pūrvavanmaṇṭapādīni kārayitvā yathāvidhi .. 29.202 ..
विशाहोमं चकृत्वैव श्रामणाग्नौ यथोदितं । कुंभं संसाध्य च प्राग्वत्सप्ताहान्ते विशेषतः ॥ २९.२०३ ॥
viśāhomaṃ cakṛtvaiva śrāmaṇāgnau yathoditaṃ . kuṃbhaṃ saṃsādhya ca prāgvatsaptāhānte viśeṣataḥ .. 29.203 ..
अष्टोत्तरशतं वाष्टचत्वारिंशदथाथ वा । संगृह्य कलशानान्तु समभ्यर्च्यऽभिषेच्य च ॥ २९.२०४ ॥
aṣṭottaraśataṃ vāṣṭacatvāriṃśadathātha vā . saṃgṛhya kalaśānāntu samabhyarcya'bhiṣecya ca .. 29.204 ..
देवं विशेषतोऽभ्यर्च्य हविर्दद्यादयं विधिः । महाशान्तिक्रमं वक्ष्ये विना कुंभस्य साधनं ॥ २९.२०५ ॥
devaṃ viśeṣato'bhyarcya havirdadyādayaṃ vidhiḥ . mahāśāntikramaṃ vakṣye vinā kuṃbhasya sādhanaṃ .. 29.205 ..
अग्नौ श्रामणके बिल्वपत्रैराज्याप्लुतैःक्रमाथ् । अष्टाधिकसहस्रं वै हुनेदष्टाक्षरेण तु ॥ २९.२०६ ॥
agnau śrāmaṇake bilvapatrairājyāplutaiḥkramāth . aṣṭādhikasahasraṃ vai hunedaṣṭākṣareṇa tu .. 29.206 ..
आज्येन वैष्णवं विष्णुसूक्तं पौरुषमेव च । हुत्वा त्षहान्ते संस्नाप्य शुद्धस्नपनवर्त्मना ॥ २९.२०७ ॥
ājyena vaiṣṇavaṃ viṣṇusūktaṃ pauruṣameva ca . hutvā tṣahānte saṃsnāpya śuddhasnapanavartmanā .. 29.207 ..
समभ्यर्च्य हविर्दद्यान्महाशान्तिरियं भवेथ् । औपासनाग्नावेकाहं हुत्वा शान्तिं विधानतः ॥ २९.२०८ ॥
samabhyarcya havirdadyānmahāśāntiriyaṃ bhaveth . aupāsanāgnāvekāhaṃ hutvā śāntiṃ vidhānataḥ .. 29.208 ..
ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणां । अथ शुद्धिविधिं वक्ष्ये वास्तुहोमं हुनेत्ततः ॥ २९.२०९ ॥
brāhmaṇānbhojayitvaiva dadyādācāryadakṣiṇāṃ . atha śuddhividhiṃ vakṣye vāstuhomaṃ hunettataḥ .. 29.209 ..
बिल्वपत्रादिभिर्हुत्वा पृथगष्टोत्तरं शतं । पुण्याहान्ते गुरुं पूज्य भोजयेद्ब्राह्मणानपि ॥ २९.२१० ॥
bilvapatrādibhirhutvā pṛthagaṣṭottaraṃ śataṃ . puṇyāhānte guruṃ pūjya bhojayedbrāhmaṇānapi .. 29.210 ..
सर्वत्रतु विकल्पेन घटसंस्कारमाचरेथ् । अथातस्सर्वशान्तिस्स्यादपमृत्युभये तथा ॥ २९.२११ ॥
sarvatratu vikalpena ghaṭasaṃskāramācareth . athātassarvaśāntissyādapamṛtyubhaye tathā .. 29.211 ..
ग्रहकोपे महाव्याधौ परचक्रभये तथा । अर्थबन्धुविनाशे च दुर्भिक्षे च पराजये ॥ २९.२१२ ॥
grahakope mahāvyādhau paracakrabhaye tathā . arthabandhuvināśe ca durbhikṣe ca parājaye .. 29.212 ..
अभिचारभये चैव तापत्रयनिपीडने । विरुद्धेऽचात्मनः प्राप्ते सर्वशान्तिं समाचरेथ् ॥ २९.२१३ ॥
abhicārabhaye caiva tāpatrayanipīḍane . viruddhe'cātmanaḥ prāpte sarvaśāntiṃ samācareth .. 29.213 ..
सप्ताहं वा नवाहं वा द्वादशार्णेन वै पृथक् । अष्टोत्तर सहस्रं तु जुहुयाद्विधिना क्रमाथ् ॥ २९.२१४ ॥
saptāhaṃ vā navāhaṃ vā dvādaśārṇena vai pṛthak . aṣṭottara sahasraṃ tu juhuyādvidhinā kramāth .. 29.214 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे एकोनत्रिंशोऽध्यः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sihitāyāṃ prakīrṇādhikāre ekonatriṃśo'dhyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In