| |
|

This overlay will guide you through the buttons:

अथ पञ्चत्रिंशोऽध्यायः.
अथ पञ्चत्रिंशः अध्यायः।
atha pañcatriṃśaḥ adhyāyaḥ.
फलश्रुतिः
अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलं । यस्तु देवालयं दारुशिलालोहविलेखनैः ॥ ३५.१ ॥
अथ वक्ष्ये विशेषेण क्रिया-योग-श्रितम् फलम् । यः तु देवालयम् दारु-शिला-लोह-विलेखनैः ॥ ३५।१ ॥
atha vakṣye viśeṣeṇa kriyā-yoga-śritam phalam . yaḥ tu devālayam dāru-śilā-loha-vilekhanaiḥ .. 35.1 ..
कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतं । अहन्यहनि यज्ञेन यजतो यन्महत्फलं ॥ ३५.२ ॥
कारयेत् मृण्मयम् वा अपि तस्य अनन्त-फलम् स्मृतम् । अहनि अहनि यज्ञेन यजतः यत् महत् फलम् ॥ ३५।२ ॥
kārayet mṛṇmayam vā api tasya ananta-phalam smṛtam . ahani ahani yajñena yajataḥ yat mahat phalam .. 35.2 ..
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरं । कुलानां शतमागामि समतीतं तथा शतं ॥ ३५.३ ॥
प्राप्नोति तत् फलम् विष्णोः यः कारयति मन्दिरम् । कुलानाम् शतम् आगामि समतीतम् तथा शतम् ॥ ३५।३ ॥
prāpnoti tat phalam viṣṇoḥ yaḥ kārayati mandiram . kulānām śatam āgāmi samatītam tathā śatam .. 35.3 ..
तारयेद्भगवद्गेहमिति बुद्धिं करोति यः । सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ॥ ३५.४ ॥
तारयेत् भगवत्-गेहम् इति बुद्धिम् करोति यः । सप्त-जन्म-कृतम् पापम् अल्पम् वा यदि वा बहु ॥ ३५।४ ॥
tārayet bhagavat-geham iti buddhim karoti yaḥ . sapta-janma-kṛtam pāpam alpam vā yadi vā bahu .. 35.4 ..
विष्णोरालयविन्यासप्रारंभादेव नश्यति । सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहं ॥ ३५.५ ॥
विष्णोः आलय-विन्यास-प्रारंभात् एव नश्यति । सप्त-लोक-मयः विष्णुः तस्य यः कुरुते गृहम् ॥ ३५।५ ॥
viṣṇoḥ ālaya-vinyāsa-prāraṃbhāt eva naśyati . sapta-loka-mayaḥ viṣṇuḥ tasya yaḥ kurute gṛham .. 35.5 ..
प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीं । प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ॥ ३५.६ ॥
प्रतिष्ठाम् समपाप्नोति स नरः साप्तलौकिकीम् । प्रशस्त-देशे भूभागे यः नरः भवनम् हरेः ॥ ३५।६ ॥
pratiṣṭhām samapāpnoti sa naraḥ sāptalaukikīm . praśasta-deśe bhūbhāge yaḥ naraḥ bhavanam hareḥ .. 35.6 ..
कारयत्यक्षयान्लोकान्स वरः प्रतिपद्यते । इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ॥ ३५.७ ॥
कारयति अक्षयान् लोकान् स वरः प्रतिपद्यते । इष्टका-चय-विन्यासः यावत् वर्षाणि तिष्ठति ॥ ३५।७ ॥
kārayati akṣayān lokān sa varaḥ pratipadyate . iṣṭakā-caya-vinyāsaḥ yāvat varṣāṇi tiṣṭhati .. 35.7 ..
तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते । प्रतिमां लक्षणवतीं यः कारयति मानवः ॥ ३५.८ ॥
तावत्-वर्ष-सहस्राणि तद्-कर्ता अदिवि मोदते । प्रतिमाम् लक्षणवतीम् यः कारयति मानवः ॥ ३५।८ ॥
tāvat-varṣa-sahasrāṇi tad-kartā adivi modate . pratimām lakṣaṇavatīm yaḥ kārayati mānavaḥ .. 35.8 ..
केसवस्य स तल्लोकमक्षयं प्रतिपद्यते । षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ॥ ३५.९ ॥
केसवस्य स तत् लोकम् अक्षयम् प्रतिपद्यते । षष्टिम् वर्ष-सहस्राणाम् सहस्राणि स मोगते ॥ ३५।९ ॥
kesavasya sa tat lokam akṣayam pratipadyate . ṣaṣṭim varṣa-sahasrāṇām sahasrāṇi sa mogate .. 35.9 ..
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः । ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ॥ ३५.१० ॥
स्वर्गौकसाम् निवासेषु प्रत्येकम् अरि-सूदनः । ततस् प्रयाति वैकुण्ठम् निस्सम-अभ्यधिकम् महः ॥ ३५।१० ॥
svargaukasām nivāseṣu pratyekam ari-sūdanaḥ . tatas prayāti vaikuṇṭham nissama-abhyadhikam mahaḥ .. 35.10 ..
प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेथ् ॥ ३५.११ ॥
प्रतीष्ठाप्य हरेः अर्चाम् सु प्रशस्ते निवेशने । पुरुषः कृतकृत्य-त्वात् न एनम् श्वस् मरणम् ॥ ३५।११ ॥
pratīṣṭhāpya hareḥ arcām su praśaste niveśane . puruṣaḥ kṛtakṛtya-tvāt na enam śvas maraṇam .. 35.11 ..
ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ॥ ३५.१२ ॥
ये भविष्यन्ति ये अतीताः आ कल्पाः पुरुषाः कुले । तान् तारयति संस्थाप्य देवस्य प्रतियाम् हरेः ॥ ३५।१२ ॥
ye bhaviṣyanti ye atītāḥ ā kalpāḥ puruṣāḥ kule . tān tārayati saṃsthāpya devasya pratiyām hareḥ .. 35.12 ..
बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा । अतीते यजमानेऽपि चिरमस्या अवस्थिते ॥ ३५.१३ ॥
बेर-पूजा तु इयम् प्रोक्ता पूजानाम् उत्तमोत्तमा । अतीते यजमाने अपि चिरम् अस्याः अवस्थिते ॥ ३५।१३ ॥
bera-pūjā tu iyam proktā pūjānām uttamottamā . atīte yajamāne api ciram asyāḥ avasthite .. 35.13 ..
अनुशस्ताः किल पुरा यमेव यमकिङ्कराः । पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ॥ ३५.१४ ॥
अनुशस्ताः किल पुरा यम-इव यम-किङ्कराः । पाश-धण्ड-धराः क्रूराः प्रजा-संयमन-उद्यताः ॥ ३५।१४ ॥
anuśastāḥ kila purā yama-iva yama-kiṅkarāḥ . pāśa-dhaṇḍa-dharāḥ krūrāḥ prajā-saṃyamana-udyatāḥ .. 35.14 ..
विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यतां । नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचिथ् ॥ ३५.१५ ॥
विहरध्वम् यथान्याय्यम् नियोगः मे अनुपाल्यताम् । न आज्ञा-भङ्गम् करिष्यन्ति भवताम् जन्तवः ॥ ३५।१५ ॥
viharadhvam yathānyāyyam niyogaḥ me anupālyatām . na ājñā-bhaṅgam kariṣyanti bhavatām jantavaḥ .. 35.15 ..
केवलं ये जगन्नाथमनस्तं समुपाश्रिताः । भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥ ३५.१६ ॥
केवलम् ये जगन्नाथ-मनः तम् समुपाश्रिताः । भवद्भिः परिहर्तव्याः तेषाम् न अस्ति अत्र संस्थितिः ॥ ३५।१६ ॥
kevalam ye jagannātha-manaḥ tam samupāśritāḥ . bhavadbhiḥ parihartavyāḥ teṣām na asti atra saṃsthitiḥ .. 35.16 ..
ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥ ३५.१७ ॥
ये तु भागवताः लोके तद्-चित्ताः तद्-परायणाः । पूजयन्ति सदा विष्णुम् ते वः त्याज्याः सु दूरतस् ॥ ३५।१७ ॥
ye tu bhāgavatāḥ loke tad-cittāḥ tad-parāyaṇāḥ . pūjayanti sadā viṣṇum te vaḥ tyājyāḥ su dūratas .. 35.17 ..
यस्तिष्ठन्यस्स्वपन्भुञ्जनुत्तिष्ठन्स्खलितेषु च । संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ॥ ३५.१८ ॥
यः तिष्ठन् यः स्वपन् भुञ्जन् उत्तिष्ठन् स्खलितेषु च । संकीर्तयति गोविन्दम् स वः त्याज्यः सु दूरतस् ॥ ३५।१८ ॥
yaḥ tiṣṭhan yaḥ svapan bhuñjan uttiṣṭhan skhaliteṣu ca . saṃkīrtayati govindam sa vaḥ tyājyaḥ su dūratas .. 35.18 ..
नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनं । नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिं ॥ ३५.१९ ॥
नित्य-नैमित्तिकैः देवम् ये यजन्ते जनार्दनम् । न अवलोक्याः भवद्भिः ते तत् तेजः हन्ति वौ गतिम् ॥ ३५।१९ ॥
nitya-naimittikaiḥ devam ye yajante janārdanam . na avalokyāḥ bhavadbhiḥ te tat tejaḥ hanti vau gatim .. 35.19 ..
ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः । अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ॥ ३५.२० ॥
ये धूप-पुष्प-वासोभिः भूषणैः च अपि दुर्लभैः । अर्चयन्ति न ते ग्राह्या नराः कृष्ण-आश्रय-उद्धताः ॥ ३५।२० ॥
ye dhūpa-puṣpa-vāsobhiḥ bhūṣaṇaiḥ ca api durlabhaiḥ . arcayanti na te grāhyā narāḥ kṛṣṇa-āśraya-uddhatāḥ .. 35.20 ..
उपलेपनकर्तारस्सम्मार्जनकराश्च ये । कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलं ॥ ३५.२१ ॥
उपलेपन-कर्तारः सम्मार्जन-कराः च ये । कृष्ण-आलये परित्याज्याः तेषाम् त्रि-पूरुषम् कुलम् ॥ ३५।२१ ॥
upalepana-kartāraḥ sammārjana-karāḥ ca ye . kṛṣṇa-ālaye parityājyāḥ teṣām tri-pūruṣam kulam .. 35.21 ..
येन चायतनं विष्णोः कारितं तत्कुलोद्भवं । पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥ ३५.२२ ॥
येन च आयतनम् विष्णोः कारितम् तद्-कुल-उद्भवम् । पुंसाम् कुलम् न अवलोक्यम् भवद्भिः दुष्ट-चक्षुषा ॥ ३५।२२ ॥
yena ca āyatanam viṣṇoḥ kāritam tad-kula-udbhavam . puṃsām kulam na avalokyam bhavadbhiḥ duṣṭa-cakṣuṣā .. 35.22 ..
येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता । नरायुतं तत्कुलजं भवतां शासनातिगं ॥ ३५.२३ ॥
येन अर्चा भगवत्-भक्त्या वासुदेवस्य कारिता । नर-अयुतम् तत् कुल-जम् भवताम् शासन-अतिगम् ॥ ३५।२३ ॥
yena arcā bhagavat-bhaktyā vāsudevasya kāritā . nara-ayutam tat kula-jam bhavatām śāsana-atigam .. 35.23 ..
भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया । विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचिथ् ॥ ३५.२४ ॥
भवताम् भ्रमताम् अत्र विष्णु-संश्रय-मुद्रया । विना आज्ञा-भङ्ग-कृत् ना एव भविष्यति ॥ ३५।२४ ॥
bhavatām bhramatām atra viṣṇu-saṃśraya-mudrayā . vinā ājñā-bhaṅga-kṛt nā eva bhaviṣyati .. 35.24 ..
यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः । तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ॥ ३५.२५ ॥
यज्ञाः नराणाम् पाप-ओघ-क्षालनाः सर्व-काम-दाः । तथा एवा इज्या जगद्धातुः सर्व-यज्ञ-मयः हरिः ॥ ३५।२५ ॥
yajñāḥ narāṇām pāpa-ogha-kṣālanāḥ sarva-kāma-dāḥ . tathā evā ijyā jagaddhātuḥ sarva-yajña-mayaḥ hariḥ .. 35.25 ..
स्थापितं प्रतिमा विष्णोस्सम्यक्संपूज्य मानवः । यं यं कामयते कामं तं तमाप्नोत्यसंशयं ॥ ३५.२६ ॥
स्थापितम् प्रतिमाः विष्णोः सम्यक् संपूज्य मानवः । यम् यम् कामयते कामम् तम् तम् आप्नोति असंशयम् ॥ ३५।२६ ॥
sthāpitam pratimāḥ viṣṇoḥ samyak saṃpūjya mānavaḥ . yam yam kāmayate kāmam tam tam āpnoti asaṃśayam .. 35.26 ..
यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनां । शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणां ॥ ३५.२७ ॥
यथा हि ज्वलनः वह्निः तमः-हानिन् तद्-अर्थिनाम् । शीत-हानिन् तद्-अन्येषाम् स्वेदम् स्वेद-अभिलाषिणाम् ॥ ३५।२७ ॥
yathā hi jvalanaḥ vahniḥ tamaḥ-hānin tad-arthinām . śīta-hānin tad-anyeṣām svedam sveda-abhilāṣiṇām .. 35.27 ..
करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी । तथैव कामान्भूतेशस्सददाति यथेप्सितं ॥ ३५.२८ ॥
करोति क्षुधितानाम् च भोज्याम् पाक-क्रियाम् शिखी । तथा एव कामान् भूतेशः सददाति यथा ईप्सितम् ॥ ३५।२८ ॥
karoti kṣudhitānām ca bhojyām pāka-kriyām śikhī . tathā eva kāmān bhūteśaḥ sadadāti yathā īpsitam .. 35.28 ..
कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते । यस्सदायतने विष्णोः कुरुते मार्जनक्रियां ॥ ३५.२९ ॥
कल्पद्रुमात् इव हरेः यत् इष्टम् तत् अवाप्यते । यः सत्-आयतने विष्णोः कुरुते मार्जन-क्रियाम् ॥ ३५।२९ ॥
kalpadrumāt iva hareḥ yat iṣṭam tat avāpyate . yaḥ sat-āyatane viṣṇoḥ kurute mārjana-kriyām .. 35.29 ..
सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति । यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ॥ ३५.३० ॥
स पांसु-भुम्यैः? देहस्य सर्वम् पापम् व्यपोहाति । यावन्तः पांसु-कणिकाः मार्ज्यन्ते केशव-आलये ॥ ३५।३० ॥
sa pāṃsu-bhumyaiḥ? dehasya sarvam pāpam vyapohāti . yāvantaḥ pāṃsu-kaṇikāḥ mārjyante keśava-ālaye .. 35.30 ..
वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः । अहन्यहनि यत्पापं कुरुते विषयी नरः ॥ ३५.३१ ॥
वर्षाणि दिवि तावन्ते वसति अस्त-मलः नरः । अहनि अहनि यत् पापम् कुरुते विषयी नरः ॥ ३५।३१ ॥
varṣāṇi divi tāvante vasati asta-malaḥ naraḥ . ahani ahani yat pāpam kurute viṣayī naraḥ .. 35.31 ..
यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये । सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेथ् ॥ ३५.३२ ॥
यः बाह्य-अभ्यन्तरम् वेश्म मार्जयेत् केशवालये । स बाह्य-अभ्यन्तरम् तस्य कायः निष्कल्मषः ॥ ३५।३२ ॥
yaḥ bāhya-abhyantaram veśma mārjayet keśavālaye . sa bāhya-abhyantaram tasya kāyaḥ niṣkalmaṣaḥ .. 35.32 ..
गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये । सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ॥ ३५.३३ ॥
गोचर्म-मात्रम् सम्मृज्य हन्ति तत् केशव-आलये । स बाह्य-अभ्यन्तरम् यत् च मार्जयेत् अच्युत-आलये ॥ ३५।३३ ॥
gocarma-mātram sammṛjya hanti tat keśava-ālaye . sa bāhya-abhyantaram yat ca mārjayet acyuta-ālaye .. 35.33 ..
सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? । उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ॥ ३५.३४ ॥
स बाह्य-अभ्यन्तरम् तस्य कायम् निष्कल्मषम् विदुः? । उदक-अभ्युक्षणम् विष्णोः यः करोति सता गृहे ॥ ३५।३४ ॥
sa bāhya-abhyantaram tasya kāyam niṣkalmaṣam viduḥ? . udaka-abhyukṣaṇam viṣṇoḥ yaḥ karoti satā gṛhe .. 35.34 ..
सोऽपिगच्छति यत्रास्ते भगवान्यादसां पतिः । मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ॥ ३५.३५ ॥
सः अपिगच्छति यत्र आस्ते भगवान् यादसाम् पतिः । मृदा धातु-विकारैः वा वर्णकैः गोमयेन वा ॥ ३५।३५ ॥
saḥ apigacchati yatra āste bhagavān yādasām patiḥ . mṛdā dhātu-vikāraiḥ vā varṇakaiḥ gomayena vā .. 35.35 ..
विष्णोरायतने नित्यं यः करोत्यनु लेपनं । प्रवाते वाति गुणवद्वर्षास्वतिमनोहरं ॥ ३५.३६ ॥
विष्णोः आयतने नित्यम् यः करोति अनु लेपनम् । प्रवाते वाति गुणवत्-वर्षासु अति मनोहरम् ॥ ३५।३६ ॥
viṣṇoḥ āyatane nityam yaḥ karoti anu lepanam . pravāte vāti guṇavat-varṣāsu ati manoharam .. 35.36 ..
स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः । पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलं ॥ ३५.३७ ॥
सु अनुलिप्तम् शूभ-आकारम् स्व-कृहम् लभते नरः । पूर्ण-धान्य-हिरण्य-आदि-मणि-मुक्ताफल-उज्ज्वलम् ॥ ३५।३७ ॥
su anuliptam śūbha-ākāram sva-kṛham labhate naraḥ . pūrṇa-dhānya-hiraṇya-ādi-maṇi-muktāphala-ujjvalam .. 35.37 ..
प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनं । सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमं ॥ ३५.३८ ॥
प्रत्यासन्न-जल-उपेतम् गृहम् प्राप्नोति शोभनम् । सामन्त-स्व-जनानाम् च सर्वेषाम् उत्तमोत्तमम् ॥ ३५।३८ ॥
pratyāsanna-jala-upetam gṛham prāpnoti śobhanam . sāmanta-sva-janānām ca sarveṣām uttamottamam .. 35.38 ..
तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः । येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ॥ ३५.३९ ॥
तत् आप्नोति गृहम् रम्यम् उपलेपन-कृत् नरः । येन अनुलिप्ते तिष्टन्ति विष्णु-आयतन-भू-तले ॥ ३५।३९ ॥
tat āpnoti gṛham ramyam upalepana-kṛt naraḥ . yena anulipte tiṣṭanti viṣṇu-āyatana-bhū-tale .. 35.39 ..
ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा । तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ॥ ३५.४० ॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रः साध्वी अस्त्रियः तथा । तस्य पुण्य-फलम् वक्तुम् न अलम् देवाः सह अनुगाः ॥ ३५।४० ॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdraḥ sādhvī astriyaḥ tathā . tasya puṇya-phalam vaktum na alam devāḥ saha anugāḥ .. 35.40 ..
अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलं । श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयाथ् ॥ ३५.४१ ॥
अप्सरः-गण-संकीर्णम् मुक्ता-हाल-शत-उज्ज्वलम् । श्रेष्ठम् सर्व-विमानानाम् स्वर्ग-धिष्ण्यम् अवाप्नुयाथ् ॥ ३५।४१ ॥
apsaraḥ-gaṇa-saṃkīrṇam muktā-hāla-śata-ujjvalam . śreṣṭham sarva-vimānānām svarga-dhiṣṇyam avāpnuyāth .. 35.41 ..
यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः । तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ॥ ३५.४२ ॥
यावन्तः स्तिथयः लिप्ताः दिव्य-अब्दान् तावतः नरः । तस्मिन् विमाने स नरः त्स्री वा तिष्ठति शोभने ॥ ३५।४२ ॥
yāvantaḥ stithayaḥ liptāḥ divya-abdān tāvataḥ naraḥ . tasmin vimāne sa naraḥ tsrī vā tiṣṭhati śobhane .. 35.42 ..
स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः । गन्धर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति ॥ ३५.४३ ॥
स्रज्-गन्ध-वस्त्र-संयुक्तः सर्व-भूषण-भूषितः । गन्धर्व-अप्सरसाम् संघैः पूज्यमानः स तिष्ठति ॥ ३५।४३ ॥
sraj-gandha-vastra-saṃyuktaḥ sarva-bhūṣaṇa-bhūṣitaḥ . gandharva-apsarasām saṃghaiḥ pūjyamānaḥ sa tiṣṭhati .. 35.43 ..
लिप्ता च यावता हस्ता विष्णोरायतने मही । तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेथ् ॥ ३५.४४ ॥
लिप्ता च यावता हस्ताः विष्णोः आयतने मही । तावत्-योजन-विस्तीर्ण-स्वर्ग-स्थान-अधिपः ॥ ३५।४४ ॥
liptā ca yāvatā hastāḥ viṣṇoḥ āyatane mahī . tāvat-yojana-vistīrṇa-svarga-sthāna-adhipaḥ .. 35.44 ..
पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः । मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवं ॥ ३५.४५ ॥
पूज्यमानः सुर-गणैः शीत-उष्ण-आदि-विवर्जितः । मनोज्ञ-गात्रः विप्र-इन्द्रैः तिष्ठति आभूतसंप्लवम् ॥ ३५।४५ ॥
pūjyamānaḥ sura-gaṇaiḥ śīta-uṣṇa-ādi-vivarjitaḥ . manojña-gātraḥ vipra-indraiḥ tiṣṭhati ābhūtasaṃplavam .. 35.45 ..
तत्क्षयादिह चागत्य विशिष्टे जायते कुले । अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवाञ्छितं ॥ ३५.४६ ॥
तद्-क्षयात् इह च आगत्य विशिष्टे जायते कुले । अति उत्कृष्ट-गृहम् प्राप्य मर्त्य-लोके अभिवाञ्छितम् ॥ ३५।४६ ॥
tad-kṣayāt iha ca āgatya viśiṣṭe jāyate kule . ati utkṛṣṭa-gṛham prāpya martya-loke abhivāñchitam .. 35.46 ..
नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः । न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ॥ ३५.४७ ॥
न तत्र तावत् दारिद्षम् न उपसर्गः न वाकलिः । न तावत् मृत-निष्क्रान्तिः यावत् जीवन्ति साक्षिणः ॥ ३५।४७ ॥
na tatra tāvat dāridṣam na upasargaḥ na vākaliḥ . na tāvat mṛta-niṣkrāntiḥ yāvat jīvanti sākṣiṇaḥ .. 35.47 ..
विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै । तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा ॥ ३५.४८ ॥
विष्णुः समस्त-भूतानि ससर्ज एतानि यानि वै । तेषाम् मध्ये जगद्धातुः अतीव इष्टा वसुंधरा ॥ ३५।४८ ॥
viṣṇuḥ samasta-bhūtāni sasarja etāni yāni vai . teṣām madhye jagaddhātuḥ atīva iṣṭā vasuṃdharā .. 35.48 ..
कृते सम्मार्जने तस्यास्तथा चैवानुलेपने । प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ॥ ३५.४९ ॥
कृते सम्मार्जने तस्याः तथा च एव अनुलेपने । प्रयाति परमम् तोषम् विष्णुः भूः वैष्णवीयतः ॥ ३५।४९ ॥
kṛte sammārjane tasyāḥ tathā ca eva anulepane . prayāti paramam toṣam viṣṇuḥ bhūḥ vaiṣṇavīyataḥ .. 35.49 ..
उपोषितो नरो नारी यःकरोत्यनुलेपनं । न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ॥ ३५.५० ॥
उपोषितः नरः नारी यः करोति अनुलेपनम् । न तस्य जायते भङ्गः गार्हस्थ्ये तु कदा च न ॥ ३५।५० ॥
upoṣitaḥ naraḥ nārī yaḥ karoti anulepanam . na tasya jāyate bhaṅgaḥ gārhasthye tu kadā ca na .. 35.50 ..
या च नारी करोत्येवं यथावदनुलेपनं । नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ॥ ३५.५१ ॥
या च नारी करोति एवम् यथावत् अनुलेपनम् । ना आप्नोति सा अपि वैधव्यम् गृह-भङ्गम् कदा च न ॥ ३५।५१ ॥
yā ca nārī karoti evam yathāvat anulepanam . nā āpnoti sā api vaidhavyam gṛha-bhaṅgam kadā ca na .. 35.51 ..
सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान् । गोमहिष्यादिसंभागं गृहमाप्नोति मानव ॥ ३५.५२ ॥
सर्व-आभरण-संपूर्णः सर्व-उपस्कर-धान्यवान् । गो-महिषी-आदि-संभागम् गृहम् आप्नोति मानव ॥ ३५।५२ ॥
sarva-ābharaṇa-saṃpūrṇaḥ sarva-upaskara-dhānyavān . go-mahiṣī-ādi-saṃbhāgam gṛham āpnoti mānava .. 35.52 ..
तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितं । विष्णोरायतने कार्यं सहसै वोपलेपनं ॥ ३५.५३ ॥
तस्मात् अभीप्सता सम्यक् गार्हस्थ्यम् तत् अखण्डितम् । विष्णोः आयतने कार्यम् सहसा वा उपलेपनम् ॥ ३५।५३ ॥
tasmāt abhīpsatā samyak gārhasthyam tat akhaṇḍitam . viṣṇoḥ āyatane kāryam sahasā vā upalepanam .. 35.53 ..
यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः । सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ॥ ३५.५४ ॥
यः च अनुलेपनम् कुर्यात् विष्णोः आयतने नरः । सः अपि लोकम् समासाद्य मोदत इवै शतक्रतोः ॥ ३५।५४ ॥
yaḥ ca anulepanam kuryāt viṣṇoḥ āyatane naraḥ . saḥ api lokam samāsādya modata ivai śatakratoḥ .. 35.54 ..
पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये । उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयाथ् ॥ ३५.५५ ॥
पुष्प-प्रकीर्णम् अत्यर्थम् सुगन्धम् केशव-आलये । उपलिप्ते नरः द-त्वा न दुर्गतिम् अवाप्नुयाथ् ॥ ३५।५५ ॥
puṣpa-prakīrṇam atyartham sugandham keśava-ālaye . upalipte naraḥ da-tvā na durgatim avāpnuyāth .. 35.55 ..
स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक् । स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ॥ ३५.५६ ॥
स्नान-पान-अंभसाम् विष्णोः प्रदानात् तद्-स लोक-भाज् । स्नानीय-द्रव्य-दानेन नीरोगः प्रीत्य मोदते ॥ ३५।५६ ॥
snāna-pāna-aṃbhasām viṣṇoḥ pradānāt tad-sa loka-bhāj . snānīya-dravya-dānena nīrogaḥ prītya modate .. 35.56 ..
क्ष्ॐआदिदानादाप्नोति परलोके महत्सुखं । आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ॥ ३५.५७ ॥
क्षों आदि-दानात् आप्नोति पर-लोके महत् सुखम् । आलेपन-द्रव्य-दानात् कामान् आप्नोति शाश्वतान् ॥ ३५।५७ ॥
kṣoṃ ādi-dānāt āpnoti para-loke mahat sukham . ālepana-dravya-dānāt kāmān āpnoti śāśvatān .. 35.57 ..
एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी । परत्रेह च लोके स्याद्दीर्घकालमसंशयः ॥ ३५.५८ ॥
एला-कर्पूर-तांबूली-तैल-आदि स्पर्शनात् पुखी । परत्र इह च लोके स्यात् दीर्घ-कालम् असंशयः ॥ ३५।५८ ॥
elā-karpūra-tāṃbūlī-taila-ādi sparśanāt pukhī . paratra iha ca loke syāt dīrgha-kālam asaṃśayaḥ .. 35.58 ..
सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः । जायते येषु लोकेषु पुलकस्संगमोमहान् ॥ ३५.५९ ॥
सर्व-यज्ञ-मयः विष्णुः गव्यानाम् परमः स्मृतः । जायते येषु लोकेषु पुलकः संगमः महान् ॥ ३५।५९ ॥
sarva-yajña-mayaḥ viṣṇuḥ gavyānām paramaḥ smṛtaḥ . jāyate yeṣu lokeṣu pulakaḥ saṃgamaḥ mahān .. 35.59 ..
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः । तान्लोकान्पुरुषा यान्तिक्षीरस्नानकरा हरेः ॥ ३५.६० ॥
येषु क्षीर-वहाः नद्यः ह्रदाः पायस-कर्दमाः । तान् लोकान् पुरुषाः यान्ति क्षीर-स्नान-कराः हरेः ॥ ३५।६० ॥
yeṣu kṣīra-vahāḥ nadyaḥ hradāḥ pāyasa-kardamāḥ . tān lokān puruṣāḥ yānti kṣīra-snāna-karāḥ hareḥ .. 35.60 ..
आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता । सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥ ३५.६१ ॥
आह्गादम् निर्वृतिम् स्वास्थ्यम् आरोग्यम् चारु-रूप-ता । सप्त-जन्मानि अवाप्नोति क्षीर-स्नान-करः हरेः ॥ ३५।६१ ॥
āhgādam nirvṛtim svāsthyam ārogyam cāru-rūpa-tā . sapta-janmāni avāpnoti kṣīra-snāna-karaḥ hareḥ .. 35.61 ..
दध्यादीनां विकाराणां क्षीरतस्संभवो यथा । तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥ ३५.६२ ॥
दधि-आदीनाम् विकाराणाम् क्षीरतः संभवः यथा । तथा एव अशेष-कामानाम् क्षीर-स्नापनतः हरेः ॥ ३५।६२ ॥
dadhi-ādīnām vikārāṇām kṣīrataḥ saṃbhavaḥ yathā . tathā eva aśeṣa-kāmānām kṣīra-snāpanataḥ hareḥ .. 35.62 ..
यथा च विमलं क्षीरं यथा निर्वृतिकारकं । तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदं ॥ ३५.६३ ॥
यथा च विमलम् क्षीरम् यथा निर्वृति-कारकम् । तथा अस्य निर्मलम् ज्ञानम् भवति अति फल-प्रदम् ॥ ३५।६३ ॥
yathā ca vimalam kṣīram yathā nirvṛti-kārakam . tathā asya nirmalam jñānam bhavati ati phala-pradam .. 35.63 ..
ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने । करोति भगवान्विष्णुःक्षीरस्नापनतोषितः ॥ ३५.६४ ॥
ग्रह-अनुकूल-ताम् पुष्टिम् प्रियम् च अपि अखिले जने । करोति भगवान् विष्णुः क्षीर-स्नापन-तोषितः ॥ ३५।६४ ॥
graha-anukūla-tām puṣṭim priyam ca api akhile jane . karoti bhagavān viṣṇuḥ kṣīra-snāpana-toṣitaḥ .. 35.64 ..
सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति । यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ॥ ३५.६५ ॥
सर्वः असि अस्निग्ध-ताम् एति दृष्टिमात् प्रात् प्रसीदति । यः स्नापयति देवस्य घृतेन प्रतिमाम् हरेः ॥ ३५।६५ ॥
sarvaḥ asi asnigdha-tām eti dṛṣṭimāt prāt prasīdati . yaḥ snāpayati devasya ghṛtena pratimām hareḥ .. 35.65 ..
इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतं । गवां शतस्य विप्राणां न दत्तस्य भवेत्फलं ॥ ३५.६६ ॥
इन्द्रप्रस्थे द्विजाग्षाणाम् स ददाति गवाम् शतम् । गवाम् शतस्य विप्राणाम् न दत्तस्य भवेत् फलम् ॥ ३५।६६ ॥
indraprasthe dvijāgṣāṇām sa dadāti gavām śatam . gavām śatasya viprāṇām na dattasya bhavet phalam .. 35.66 ..
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनां । पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ॥ ३५.६७ ॥
घृत-प्रस्थेन तत् विष्णोः लभेत् स्नान-उपयोगिनाम् । पुरा राजर्षिभिः प्राप्ता सप्त-द्वीपा वसुन्धरा ॥ ३५।६७ ॥
ghṛta-prasthena tat viṣṇoḥ labhet snāna-upayoginām . purā rājarṣibhiḥ prāptā sapta-dvīpā vasundharā .. 35.67 ..
घृताढकेन गोविन्द प्रतिमास्नापनात्किल । प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिं ॥ ३५.६८ ॥
घृत-आढकेन गोविन्द प्रतिमा-स्नापनात् किल । प्रतिमासम् सित-अष्टम्याम् घृतेन जगतः पतिम् ॥ ३५।६८ ॥
ghṛta-āḍhakena govinda pratimā-snāpanāt kila . pratimāsam sita-aṣṭamyām ghṛtena jagataḥ patim .. 35.68 ..
स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते । द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ॥ ३५.६९ ॥
स्नापयित्वा समस्तेभ्यः पापेभ्यः अपि प्रमुच्यते । द्वादश्याम् पौर्णमास्याम् च गव्येन हविषा हरेः ॥ ३५।६९ ॥
snāpayitvā samastebhyaḥ pāpebhyaḥ api pramucyate . dvādaśyām paurṇamāsyām ca gavyena haviṣā hareḥ .. 35.69 ..
स्नापनं देवदेवस्य महापातकनाशनं । ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ॥ ३५.७० ॥
स्नापनम् देवदेवस्य महापातक-नाशनम् । ज्ञानतः अज्ञानतः वा अपि यत् पापम् कुरुते नरः ॥ ३५।७० ॥
snāpanam devadevasya mahāpātaka-nāśanam . jñānataḥ ajñānataḥ vā api yat pāpam kurute naraḥ .. 35.70 ..
तत्क्षालयति संध्यायां घृतेन स्नापयन्हरिं । घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥ ३५.७१ ॥
तत् क्षालयति संध्यायाम् घृतेन स्नापयन् हरिम् । घृत-क्षीरेण देवेशे स्नापिते मधुसूदने ॥ ३५।७१ ॥
tat kṣālayati saṃdhyāyām ghṛtena snāpayan harim . ghṛta-kṣīreṇa deveśe snāpite madhusūdane .. 35.71 ..
स गत्वावैष्णवं धाम मोदते सह सूरिभिः । स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ॥ ३५.७२ ॥
स गत्वा अवैष्णवम् धाम मोदते सह सूरिभिः । स्रजम् बद्ध्वा सुमनसाम् यः प्रयच्छति विष्णवे ॥ ३५।७२ ॥
sa gatvā avaiṣṇavam dhāma modate saha sūribhiḥ . srajam baddhvā sumanasām yaḥ prayacchati viṣṇave .. 35.72 ..
स भुक्त्वा विपुलान्भोगान्नाकपृष्ठे विराजते । चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ॥ ३५.७३ ॥
स भुक्त्वा विपुलान् भोगान् नाक-पृष्ठे विराजते । चामर-व्यजन छत्र-दानात् स्वाराज्यम् अश्नु ते ॥ ३५।७३ ॥
sa bhuktvā vipulān bhogān nāka-pṛṣṭhe virājate . cāmara-vyajana chatra-dānāt svārājyam aśnu te .. 35.73 ..
दानादाभरणादीनां तेजस्वी दिविमोदते । दानाच्च नवरत्नावां देवसालोक्यमश्नुते ॥ ३५.७४ ॥
दानात् आभरण-आदीनाम् तेजस्वी दिवि मोदते । दानात् च नव-रत्न-आवाम् देव-सालोक्यम् अश्नुते ॥ ३५।७४ ॥
dānāt ābharaṇa-ādīnām tejasvī divi modate . dānāt ca nava-ratna-āvām deva-sālokyam aśnute .. 35.74 ..
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति । गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेथ् ॥ ३५.७५ ॥
आदर्शन-प्रदानेन दृश्यः सर्वैः भविष्यति । गन्ध-द्रव्य-प्रदानेन ॥ ३५।७५ ॥
ādarśana-pradānena dṛśyaḥ sarvaiḥ bhaviṣyati . gandha-dravya-pradānena .. 35.75 ..
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेथ् । उपानहौ पादुके च वाहनं यानमेव च ॥ ३५.७६ ॥
धूप-द्रव्य-प्रदानेन स्व-स्थानम् स्वर्गिणाम् । उपानहौ पादुके च वाहनम् यानम् एव च ॥ ३५।७६ ॥
dhūpa-dravya-pradānena sva-sthānam svargiṇām . upānahau pāduke ca vāhanam yānam eva ca .. 35.76 ..
ददाति यो संदयित्वा? मणिकाञ्चनचित्रितं । स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ॥ ३५.७७ ॥
ददाति यः संदयित्वा? मणि-काञ्चन-चित्रितम् । स विमानम् तु दुत्प्रापम् प्राप्नोति एव न संशयः ॥ ३५।७७ ॥
dadāti yaḥ saṃdayitvā? maṇi-kāñcana-citritam . sa vimānam tu dutprāpam prāpnoti eva na saṃśayaḥ .. 35.77 ..
अलङ्कृतं भद्रपीठं प्रयच्छन्सर्वकामभाक् । विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ॥ ३५.७८ ॥
अलङ्कृतम् भद्रपीठम् प्रयच्छन् सर्व-काम-भाज् । विनता-नन्दन-स्थानम् ध्वजम् उत्पाद्य दर्शयन् ॥ ३५।७८ ॥
alaṅkṛtam bhadrapīṭham prayacchan sarva-kāma-bhāj . vinatā-nandana-sthānam dhvajam utpādya darśayan .. 35.78 ..
सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः । ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ॥ ३५.७९ ॥
सामीप्यम् सहसा विष्णोः याति सद्यो स संशयः । ध्वजम् च वाद्यम् उत्पाद्य विष्णुसात् कुरुते तु यः ॥ ३५।७९ ॥
sāmīpyam sahasā viṣṇoḥ yāti sadyo sa saṃśayaḥ . dhvajam ca vādyam utpādya viṣṇusāt kurute tu yaḥ .. 35.79 ..
स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते । दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ॥ ३५.८० ॥
स दिव्य-दुन्दुभि प्रायन् स्थानम् प्राप्य विराजते । दासी-दासम् च ॥ ३५।८० ॥
sa divya-dundubhi prāyan sthānam prāpya virājate . dāsī-dāsam ca .. 35.80 ..
वासुदेवाय दास्येन मुक्तिः करतलेस्थिता । नृत्तभेदैर्गीतभेदैस्तथा वाद्यैरनेकथा ॥ ३५.८१ ॥
वासुदेवाय दास्येन मुक्तिः कर-तले स्थिता । नृत्त-भेदैः गीत-भेदैः तथा वाद्यैः अनेकथा ॥ ३५।८१ ॥
vāsudevāya dāsyena muktiḥ kara-tale sthitā . nṛtta-bhedaiḥ gīta-bhedaiḥ tathā vādyaiḥ anekathā .. 35.81 ..
श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ । आसीनमुपचारैस्तैर्ये समाराधयन्तिते ॥ ३५.८२ ॥
श्रोतव्यैः अपि दृश्यैः च देवदेवस्य सन्निधौ । आसीनम् उपचारैः तैः ये समाराधयन्ति ते ॥ ३५।८२ ॥
śrotavyaiḥ api dṛśyaiḥ ca devadevasya sannidhau . āsīnam upacāraiḥ taiḥ ye samārādhayanti te .. 35.82 ..
प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः । दीपं प्रयच्छति नरो विष्णोरायतने हि यः ॥ ३५.८३ ॥
प्रेत्य दिव्येषु लोकेषु पूज्यन्ते एतैः न संशयः । दीपम् प्रयच्छति नरः विष्णोः आयतने हि यः ॥ ३५।८३ ॥
pretya divyeṣu lokeṣu pūjyante etaiḥ na saṃśayaḥ . dīpam prayacchati naraḥ viṣṇoḥ āyatane hi yaḥ .. 35.83 ..
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः । आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ॥ ३५.८४ ॥
स दक्षिणस्य यज्ञस्य फलम् प्राप्नोति असंशयः । आहोरात्रम् अनिर्वाणम् दीपम् आरोपयेत् नरः ॥ ३५।८४ ॥
sa dakṣiṇasya yajñasya phalam prāpnoti asaṃśayaḥ . āhorātram anirvāṇam dīpam āropayet naraḥ .. 35.84 ..
सर्वपाप विशुद्धात्मा विष्णुलोके महीयते । दिनेदिने जपन्नाम केशवेति समाहितः ॥ ३५.८५ ॥
सर्व-पाप विशुद्ध-आत्मा विष्णु-लोके महीयते । दिने दिने जपन् नाम केशव इति समाहितः ॥ ३५।८५ ॥
sarva-pāpa viśuddha-ātmā viṣṇu-loke mahīyate . dine dine japan nāma keśava iti samāhitaḥ .. 35.85 ..
सकृद्ददातियोविप्रःप्रदीपं केशवालये । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ॥ ३५.८६ ॥
सकृत् ददाति यः विप्रः प्रदीपम् केशवालये । जातिस्मर-त्वम् प्रज्ञाम् च प्राकाश्यम् सर्व-वन्तुषु ॥ ३५।८६ ॥
sakṛt dadāti yaḥ vipraḥ pradīpam keśavālaye . jātismara-tvam prajñām ca prākāśyam sarva-vantuṣu .. 35.86 ..
अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः ॥ ३५.८७ ॥
अव्याहत-इन्द्रिय-त्वम् च समाप्नोति न संशयः । सर्वकालम् च चक्षुष्मान् मेधावी दीप-दः नरः ॥ ३५।८७ ॥
avyāhata-indriya-tvam ca samāpnoti na saṃśayaḥ . sarvakālam ca cakṣuṣmān medhāvī dīpa-daḥ naraḥ .. 35.87 ..
जायते नरकं चापि तमस्संज्ञं न पश्यति । सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनं ॥ ३५.८८ ॥
जायते नरकम् च अपि तमः-संज्ञम् न पश्यति । सुवर्ण-मणि-मुक्ता-आढ्यम् मनोज्ञम् अति शोभनम् ॥ ३५।८८ ॥
jāyate narakam ca api tamaḥ-saṃjñam na paśyati . suvarṇa-maṇi-muktā-āḍhyam manojñam ati śobhanam .. 35.88 ..
दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ॥ ३५.८९ ॥
दीप-माला-आकुलम् दिव्यम् विमानम् अधिरोहति । तस्मात् आयतने विष्णोः दद्यात् दीपम् प्रयत्नतः ॥ ३५।८९ ॥
dīpa-mālā-ākulam divyam vimānam adhirohati . tasmāt āyatane viṣṇoḥ dadyāt dīpam prayatnataḥ .. 35.89 ..
तांश्चदत्वान्नहीनस्ते? न च तैलवियोजनं । कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ॥ ३५.९० ॥
तान् च दत्वा अन्न-हीनः ते? न च तैल-वियोजनम् । कुर्वीत दीप-हर्ता अच मूकू-अन्धः जायते जडः ॥ ३५।९० ॥
tān ca datvā anna-hīnaḥ te? na ca taila-viyojanam . kurvīta dīpa-hartā aca mūkū-andhaḥ jāyate jaḍaḥ .. 35.90 ..
अन्धेतमसि दुष्पारे नरके पतितान्किल । विक्रोशमानान्मनुजान्वक्ष्यन्ति यमकिङ्कराः ॥ ३५.९१ ॥
अन्धेतमसि दुष्पारे नरके पतितान् किल । विक्रोशमानान् मनुजान् वक्ष्यन्ति यम-किङ्कराः ॥ ३५।९१ ॥
andhetamasi duṣpāre narake patitān kila . vikrośamānān manujān vakṣyanti yama-kiṅkarāḥ .. 35.91 ..
विलापैरल मत्रेवं किंवो विलपिते फलं । तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥ ३५.९२ ॥
विलापैः अल किंवः विलपिते फलम् । तथा प्रमादिभिः पूर्वम् आत्मा अत्यन्तम् उपेक्षितः ॥ ३५।९२ ॥
vilāpaiḥ ala kiṃvaḥ vilapite phalam . tathā pramādibhiḥ pūrvam ātmā atyantam upekṣitaḥ .. 35.92 ..
पुर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातना भौगाःकिं विलापः करिष्यति ॥ ३५.९३ ॥
पुर्वम् आलोचितम् न एतत् कथम् अन्ते भविष्यति । इदानीम् यातना भौगाः किम् विलापः करिष्यति ॥ ३५।९३ ॥
purvam ālocitam na etat katham ante bhaviṣyati . idānīm yātanā bhaugāḥ kim vilāpaḥ kariṣyati .. 35.93 ..
देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः । एतत्कोन विजानाति येन यूयं प्रमादिनः ॥ ३५.९४ ॥
देह-उदितानि सु अल्पानि विषयाः च अतिकर्षकाः । विजानाति येन यूयम् प्रमादिनः ॥ ३५।९४ ॥
deha-uditāni su alpāni viṣayāḥ ca atikarṣakāḥ . vijānāti yena yūyam pramādinaḥ .. 35.94 ..
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि । तत्राप्यतिविमाढत्वात्किंभोगानभिधावति ॥ ३५.९५ ॥
जन्तुः जन्म-सहस्रेभ्यः हि एकस्मिन् मानुषः यदि । तत्र अपि अति विमाढ-त्वात् किंभोगान् अभिधावति ॥ ३५।९५ ॥
jantuḥ janma-sahasrebhyaḥ hi ekasmin mānuṣaḥ yadi . tatra api ati vimāḍha-tvāt kiṃbhogān abhidhāvati .. 35.95 ..
कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते । वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखं ॥ ३५.९६ ॥
कः अतिभारः हरेः नाम्नि जिह्वया परिकीर्तिते । वर्णिते तुल्य-मूले तु यत् अग्निः लभ्यते सुखम् ॥ ३५।९६ ॥
kaḥ atibhāraḥ hareḥ nāmni jihvayā parikīrtite . varṇite tulya-mūle tu yat agniḥ labhyate sukham .. 35.96 ..
अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा । येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ॥ ३५.९७ ॥
अतस् अधिकरः लाभः अभवत् तथा । येन आयतेषु हस्तेषु दीपकः ॥ ३५।९७ ॥
atas adhikaraḥ lābhaḥ abhavat tathā . yena āyateṣu hasteṣu dīpakaḥ .. 35.97 ..
महाफलो विष्णुगृहे न दत्तो नरकापहाः । न वो विलपिते किं चिदिदानीं दृश्यते फलं ॥ ३५.९८ ॥
महा-फलः विष्णु-गृहे न दत्तः नरक-अपहाः । न वः विलपिते किम् चित् इदानीम् दृश्यते फलम् ॥ ३५।९८ ॥
mahā-phalaḥ viṣṇu-gṛhe na dattaḥ naraka-apahāḥ . na vaḥ vilapite kim cit idānīm dṛśyate phalam .. 35.98 ..
अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनां । अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशं ॥ ३५.९९ ॥
अ स्वातन्त्षे विलपताम् स्वातन्त्षे तु प्रमादिनाम् । अवश्यंपातिनः प्राणाः भोक्ताजीवः अपि अहर्निशम् ॥ ३५।९९ ॥
a svātantṣe vilapatām svātantṣe tu pramādinām . avaśyaṃpātinaḥ prāṇāḥ bhoktājīvaḥ api aharniśam .. 35.99 ..
दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा । एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुं ॥ ३५.१०० ॥
दत्तम् च लभते भोक्तुम् कामयन् विषयान् तदा । एतत् स्वातन्त्षवद्भिः वः युक्तम् आसीत् परीक्षितुम् ॥ ३५।१०० ॥
dattam ca labhate bhoktum kāmayan viṣayān tadā . etat svātantṣavadbhiḥ vaḥ yuktam āsīt parīkṣitum .. 35.100 ..
इदानीं किं विलापेन सहध्वं यदुपागतं । यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितं ॥ ३५.१०१ ॥
इदानीम् किम् विलापेन सहध्वम् यत् उपागतम् । यदि एतत् अनभीष्टम् वः यत् दुःखम् समुपस्थितम् ॥ ३५।१०१ ॥
idānīm kim vilāpena sahadhvam yat upāgatam . yadi etat anabhīṣṭam vaḥ yat duḥkham samupasthitam .. 35.101 ..
यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न । पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनं ॥ ३५.१०२ ॥
यत् भूयस् अपि मतिः पापे न कर्तव्या कथम् च न । पाप-कर्मणि निर्वृत्ते अपि अज्ञानात् अघ-नाशनम् ॥ ३५।१०२ ॥
yat bhūyas api matiḥ pāpe na kartavyā katham ca na . pāpa-karmaṇi nirvṛtte api ajñānāt agha-nāśanam .. 35.102 ..
कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनं । विमानमतिविद्योति सर्वरत्नमयं दिवि ॥ ३५.१०३ ॥
कर्तव्यम् अपि अविच्छिन्नम् स्मरद्भिः मधुसूदनम् । विमानम् अति विद्योति सर्व-रत्न-मयम् दिवि ॥ ३५।१०३ ॥
kartavyam api avicchinnam smaradbhiḥ madhusūdanam . vimānam ati vidyoti sarva-ratna-mayam divi .. 35.103 ..
समाप्नोति नरो दत्वा प्रदीपं केशवालये । हविषां पायसादीनां हरये च निवेदनाथ् ॥ ३५.१०४ ॥
समाप्नोति नरः द-त्वा प्रदीपम् केशवालये । हविषाम् पायस-आदीनाम् हरये च निवेदना ॥ ३५।१०४ ॥
samāpnoti naraḥ da-tvā pradīpam keśavālaye . haviṣām pāyasa-ādīnām haraye ca nivedanā .. 35.104 ..
सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ । भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ॥ ३५.१०५ ॥
सुख-एक-रस-पूर्ण-त्मा राजते विष्णु-सन्निधौ । भक्ष्य-पानीय-भोज्यानाम् अन्येषाम् अपि दानतः ॥ ३५।१०५ ॥
sukha-eka-rasa-pūrṇa-tmā rājate viṣṇu-sannidhau . bhakṣya-pānīya-bhojyānām anyeṣām api dānataḥ .. 35.105 ..
श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा । बहुनात्र किमुक्तेन वासुदेवार्थमादराथ् ॥ ३५.१०६ ॥
श्वेतद्वीपे तद्-समीपे वसन्ति सुखिनः सदा । बहुना अत्र किम् उक्तेन वासुदेव-अर्थम् आदराथ् ॥ ३५।१०६ ॥
śvetadvīpe tad-samīpe vasanti sukhinaḥ sadā . bahunā atra kim uktena vāsudeva-artham ādarāth .. 35.106 ..
ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितं । कर्मणां मार्जनादीनां फलभोगादनन्तरं ॥ ३५.१०७ ॥
ददाति वस्तु-दानम्? प्राप्नोति च ईप्सितम् । कर्मणाम् मार्जन-आदीनाम् फल-भोगात् अनन्तरम् ॥ ३५।१०७ ॥
dadāti vastu-dānam? prāpnoti ca īpsitam . karmaṇām mārjana-ādīnām phala-bhogāt anantaram .. 35.107 ..
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु । उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ॥ ३५.१०८ ॥
कर्म-शेषैः पुनर्जन्म कर्म-अनुगुण-योनिषु । उत्कृष्ट-अस्वेन भोक्तारः लभन्ते सुखिनः सदा ॥ ३५।१०८ ॥
karma-śeṣaiḥ punarjanma karma-anuguṇa-yoniṣu . utkṛṣṭa-asvena bhoktāraḥ labhante sukhinaḥ sadā .. 35.108 ..
आरामाणां तटाकानां प्रपाणां च प्रवर्तनाथ् । विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ॥ ३५.१०९ ॥
आरामाणाम् तटाकानाम् प्रपाणाम् च । विष्णोः आलय-सामीप्ये तद्-फलम् केन वर्ण्यते ॥ ३५।१०९ ॥
ārāmāṇām taṭākānām prapāṇām ca . viṣṇoḥ ālaya-sāmīpye tad-phalam kena varṇyate .. 35.109 ..
सुप्रदर्शा बलवती चित्रा धातुविभूषिता । उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥ ३५.११० ॥
सु प्रदर्शा बलवती चित्रा धातु-विभूषिता । उपेता सर्व-भूतैः च श्रेष्ठा भूमिः इह उच्यते ॥ ३५।११० ॥
su pradarśā balavatī citrā dhātu-vibhūṣitā . upetā sarva-bhūtaiḥ ca śreṣṭhā bhūmiḥ iha ucyate .. 35.110 ..
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनं । औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ ३५.१११ ॥
तस्याः क्षेत्र-विशेषाः च तटाकानाम् च बन्धनम् । औदकानि च सर्वाणि प्रवक्ष्यामि अनुपूर्वशस् ॥ ३५।१११ ॥
tasyāḥ kṣetra-viśeṣāḥ ca taṭākānām ca bandhanam . audakāni ca sarvāṇi pravakṣyāmi anupūrvaśas .. 35.111 ..
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ॥ ३५.११२ ॥
तटाकानाम् च वक्ष्यामि कृतानाम् च अपि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ॥ ३५।११२ ॥
taṭākānām ca vakṣyāmi kṛtānām ca api ye guṇāḥ . triṣu lokeṣu sarvatra pūjanīyaḥ pratāpavān .. 35.112 ..
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनं । कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनं ॥ ३५.११३ ॥
अथ वा मित्र-सदनम् मैत्रम् मित्र-विवर्धनम् । कीर्ति-संजननम् श्रेष्ठम् तटाकानाम् निवेशनम् ॥ ३५।११३ ॥
atha vā mitra-sadanam maitram mitra-vivardhanam . kīrti-saṃjananam śreṣṭham taṭākānām niveśanam .. 35.113 ..
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयं ॥ ३५.११४ ॥
धर्मस्य अर्थस्य कामस्य फलम् आहुः मनीषिणः । तटाकम् सु कृतम् देशेक्षेत्रम् एकम् महा-आश्रयम् ॥ ३५।११४ ॥
dharmasya arthasya kāmasya phalam āhuḥ manīṣiṇaḥ . taṭākam su kṛtam deśekṣetram ekam mahā-āśrayam .. 35.114 ..
चतुर्विधानां भूतानां तटाकमुपलक्षयेथ् । तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमां ॥ ३५.११५ ॥
चतुर्विधानाम् भूतानाम् तटाकम् उपलक्षयेथ् । तटाकानि च सर्वाणि दिशन्ति श्रियम् उत्तमाम् ॥ ३५।११५ ॥
caturvidhānām bhūtānām taṭākam upalakṣayeth . taṭākāni ca sarvāṇi diśanti śriyam uttamām .. 35.115 ..
देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयं ॥ ३५.११६ ॥
देवाः मनुष्याः गन्धर्वाः पितरः यक्ष-राक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ३५।११६ ॥
devāḥ manuṣyāḥ gandharvāḥ pitaraḥ yakṣa-rākṣasāḥ . sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam .. 35.116 ..
तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः । या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ॥ ३५.११७ ॥
तस्मात् तान् तु प्रवक्ष्यामि तटाके ये गुणाः स्मृताः । या च तत्र फल-अवाप्तिः ऋषिभिः समुदाहृता ॥ ३५।११७ ॥
tasmāt tān tu pravakṣyāmi taṭāke ye guṇāḥ smṛtāḥ . yā ca tatra phala-avāptiḥ ṛṣibhiḥ samudāhṛtā .. 35.117 ..
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ ३५.११८ ॥
वर्षा-काले तटाके तु सलिलम् यस्य तिष्ठति । अग्निहोत्र-फलम् तस्य फलम् आहुः मनीषिणः ॥ ३५।११८ ॥
varṣā-kāle taṭāke tu salilam yasya tiṣṭhati . agnihotra-phalam tasya phalam āhuḥ manīṣiṇaḥ .. 35.118 ..
शरत्का ले तु सलिलं तटाके यस्य तिष्ठति । गोसहस्रस्य संप्रेत्य लभते फलमुत्तमं ॥ ३५.११९ ॥
शरद्-का ले तु सलिलम् तटाके यस्य तिष्ठति । गो-सहस्रस्य संप्रेत्य लभते फलम् उत्तमम् ॥ ३५।११९ ॥
śarad-kā le tu salilam taṭāke yasya tiṣṭhati . go-sahasrasya saṃpretya labhate phalam uttamam .. 35.119 ..
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलं ॥ ३५.१२० ॥
हेमन्त-काले सलिलम् तटाके यस्य तिष्ठति । स वै बहु-सुवर्णस्य यज्ञस्य लभते फलम् ॥ ३५।१२० ॥
hemanta-kāle salilam taṭāke yasya tiṣṭhati . sa vai bahu-suvarṇasya yajñasya labhate phalam .. 35.120 ..
यस्य वै शैशिरे काले तटाके सलिलं भवेथ् । तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ॥ ३५.१२१ ॥
यस्य वै शैशिरे काले तटाके सलिलम् । तस्य अग्निष्टोम-यज्ञस्य भलम् ऊहुः मनीषिणः ॥ ३५।१२१ ॥
yasya vai śaiśire kāle taṭāke salilam . tasya agniṣṭoma-yajñasya bhalam ūhuḥ manīṣiṇaḥ .. 35.121 ..
तटाकं सुकृतं यस्य वसन्तेतं महाश्रयं । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ ३५.१२२ ॥
तटाकम् सु कृतम् यस्य वसन्त-इतम् महा-आश्रयम् । अतिरात्रस्य यज्ञस्य फलम् स समुपाश्नुते ॥ ३५।१२२ ॥
taṭākam su kṛtam yasya vasanta-itam mahā-āśrayam . atirātrasya yajñasya phalam sa samupāśnute .. 35.122 ..
निदाघकाले पानीयं तटाके यस्य तिष्ठति । वाजिमेधपलं तस्य फलं वै मुनयो विदुः ॥ ३५.१२३ ॥
निदाघ-काले पानीयम् तटाके यस्य तिष्ठति । वाजिमेध-पलम् तस्य फलम् वै मुनयः विदुः ॥ ३५।१२३ ॥
nidāgha-kāle pānīyam taṭāke yasya tiṣṭhati . vājimedha-palam tasya phalam vai munayaḥ viduḥ .. 35.123 ..
स कुलं तारयेत्सर्वं यस्य खाते जलाशये । गावः पिबन्ति सलिलं साधवश्च नरास्सदा ॥ ३५.१२४ ॥
स कुलम् तारयेत् सर्वम् यस्य खाते जलाशये । गावः पिबन्ति सलिलम् साधवः च नराः सदा ॥ ३५।१२४ ॥
sa kulam tārayet sarvam yasya khāte jalāśaye . gāvaḥ pibanti salilam sādhavaḥ ca narāḥ sadā .. 35.124 ..
तटाके यस्य गावस्तु पिबन्ति तृषिता जलं । मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेथ् ॥ ३५.१२५ ॥
तटाके यस्य गावः तु पिबन्ति तृषिताः जलम् । सः अश्वमेध-फलम् ॥ ३५।१२५ ॥
taṭāke yasya gāvaḥ tu pibanti tṛṣitāḥ jalam . saḥ aśvamedha-phalam .. 35.125 ..
यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच । तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ ३५.१२६ ॥
यत् पिबन्ति जलम् तत्र स्त्यायन्ते विश्रमन्ति च । तटाकदस्य तत् सर्वम् प्रेत्य आनन्त्याय कल्पते ॥ ३५।१२६ ॥
yat pibanti jalam tatra styāyante viśramanti ca . taṭākadasya tat sarvam pretya ānantyāya kalpate .. 35.126 ..
दुर्लभं सलिलं चेह विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ ३५.१२७ ॥
दुर्लभम् सलिलम् च इह विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिः भवति शाश्वती ॥ ३५।१२७ ॥
durlabham salilam ca iha viśeṣeṇa paratra vai . pānīyasya pradānena prītiḥ bhavati śāśvatī .. 35.127 ..
तटाके यस्य पानीयं पानीयाय जगत्पतेः । तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ॥ ३५.१२८ ॥
तटाके यस्य पानीयम् पानीयाय जगत्पतेः । तस्य पुण्य-फलम् वक्तुम् न अलम् देवाः सह अनु गाः ॥ ३५।१२८ ॥
taṭāke yasya pānīyam pānīyāya jagatpateḥ . tasya puṇya-phalam vaktum na alam devāḥ saha anu gāḥ .. 35.128 ..
तटाके यस्य पानीये सायं प्रातर्द्विजातयः । स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेथ् ॥ ३५.१२९ ॥
तटाके यस्य पानीये सायम् प्रातर् द्विजातयः । स्नात्वा कुर्वन्ति कर्माणि तस्य ॥ ३५।१२९ ॥
taṭāke yasya pānīye sāyam prātar dvijātayaḥ . snātvā kurvanti karmāṇi tasya .. 35.129 ..
तटाके यस्य देवस्य स्नापनं चाधिवासनं । तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ॥ ३५.१३० ॥
तटाके यस्य देवस्य स्नापनम् च अधिवासनम् । तस्य लोकाः भवन्ति एव पावनाः क्षति-वर्जिताः ॥ ३५।१३० ॥
taṭāke yasya devasya snāpanam ca adhivāsanam . tasya lokāḥ bhavanti eva pāvanāḥ kṣati-varjitāḥ .. 35.130 ..
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । पानीयावासदानं तु देवस्याग्रे प्रशस्यते ॥ ३५.१३१ ॥
सर्व-दानैः गुरुतरम् सर्व-दानैः विशिष्यते । पानीय-आवास-दानम् तु देवस्य अग्रे प्रशस्यते ॥ ३५।१३१ ॥
sarva-dānaiḥ gurutaram sarva-dānaiḥ viśiṣyate . pānīya-āvāsa-dānam tu devasya agre praśasyate .. 35.131 ..
अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणं । स्थानराणां च भूतानां जातयष्षट्प्रकीर्तिताः ॥ ३५.१३२ ॥
अथ वक्ष्ये विशेषेण वृक्षाणाम् अवरोपणम् । स्थानराणाम् च भूतानाम् जातयः षड् प्रकीर्तिताः ॥ ३५।१३२ ॥
atha vakṣye viśeṣeṇa vṛkṣāṇām avaropaṇam . sthānarāṇām ca bhūtānām jātayaḥ ṣaḍ prakīrtitāḥ .. 35.132 ..
वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः । एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥ ३५.१३३ ॥
त्वच्-चाराः तृण-जातयः । एताः जात्यः तु वृक्षाणाम् तेषाम् रोपे गुणाः तु इमे ॥ ३५।१३३ ॥
tvac-cārāḥ tṛṇa-jātayaḥ . etāḥ jātyaḥ tu vṛkṣāṇām teṣām rope guṇāḥ tu ime .. 35.133 ..
कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभं । लभते नाम लोके च पितृभिश्च महीयते ॥ ३५.१३४ ॥
कीर्तिः च मानवे लोके प्रेत्य च एव फलम् शुभम् । लभते नाम लोके च पितृभिः च महीयते ॥ ३५।१३४ ॥
kīrtiḥ ca mānave loke pretya ca eva phalam śubham . labhate nāma loke ca pitṛbhiḥ ca mahīyate .. 35.134 ..
देवलोकगतस्यापि नामतस्य न नश्यति । अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा ॥ ३५.१३५ ॥
देव-लोक-गतस्य अपि न आमतस्य न नश्यति । अतीते अनागते च उभे पितृ-वम् शे अन्यतस् तथा ॥ ३५।१३५ ॥
deva-loka-gatasya api na āmatasya na naśyati . atīte anāgate ca ubhe pitṛ-vam śe anyatas tathā .. 35.135 ..
तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेथ् । तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ॥ ३५.१३६ ॥
तारयेत् वृक्ष-रूपी च तस्मात् वृक्षान् च । तस्य पुत्राः भवन्ति एते पादपाः न अत्र संशयः ॥ ३५।१३६ ॥
tārayet vṛkṣa-rūpī ca tasmāt vṛkṣān ca . tasya putrāḥ bhavanti ete pādapāḥ na atra saṃśayaḥ .. 35.136 ..
परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् । पुष्पैस्सुरगणान्वृक्षाः फलैश्चापि तथा पितृन् ॥ ३५.१३७ ॥
पर-लोक-गतः स्वर्गम् लोकान् च आप्नोति सः अव्ययान् । पुष्पैः सुर-गणान् वृक्षाः फलैः च अपि तथा पितृन् ॥ ३५।१३७ ॥
para-loka-gataḥ svargam lokān ca āpnoti saḥ avyayān . puṣpaiḥ sura-gaṇān vṛkṣāḥ phalaiḥ ca api tathā pitṛn .. 35.137 ..
चायया चातिथींश्चापि पूजयन्ति महीरुहाः । किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ ३५.१३८ ॥
चायया च अतिथीन् च अपि पूजयन्ति महीरुहाः । किन्नर-उरग-रक्षांसि देव-गन्धर्व-मानवाः ॥ ३५।१३८ ॥
cāyayā ca atithīn ca api pūjayanti mahīruhāḥ . kinnara-uraga-rakṣāṃsi deva-gandharva-mānavāḥ .. 35.138 ..
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् । पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ ३५.१३९ ॥
तथा ऋषि-गणाः च एव संश्रयन्ति महीरुहान् । पुष्पिताः फलवन्तः च तर्पयन्ति इह मानवान् ॥ ३५।१३९ ॥
tathā ṛṣi-gaṇāḥ ca eva saṃśrayanti mahīruhān . puṣpitāḥ phalavantaḥ ca tarpayanti iha mānavān .. 35.139 ..
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु । पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते ॥ ३५.१४० ॥
वृक्ष-दम् पुत्र-वत् वृक्षाः तारयन्ति परत्र तु । पत्रम् फलम् वा पुष्पम् वा यस्य आरामे अवरोपिते ॥ ३५।१४० ॥
vṛkṣa-dam putra-vat vṛkṣāḥ tārayanti paratra tu . patram phalam vā puṣpam vā yasya ārāme avaropite .. 35.140 ..
अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवं । पत्रैःफलैर्वापुष्पैर्वा प्रीयते भगवान्हरिः ॥ ३५.१४१ ॥
अच्युतस्य पदम् प्राप्तम् लोकाः तस्य अच्युताः ध्रुवम् । पत्रैः फलैः वा अ पुष्पैः वा प्रीयते भगवान् हरिः ॥ ३५।१४१ ॥
acyutasya padam prāptam lokāḥ tasya acyutāḥ dhruvam . patraiḥ phalaiḥ vā a puṣpaiḥ vā prīyate bhagavān hariḥ .. 35.141 ..
तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा । पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ॥ ३५.१४२ ॥
तस्मात् तट-आरे तद्-वृक्षाः रोप्याः श्रेयः-ऋथिना सदा । पुत्र-वत् परिपाल्याः च पुत्राः ते धर्मतः स्मृताः ॥ ३५।१४२ ॥
tasmāt taṭa-āre tad-vṛkṣāḥ ropyāḥ śreyaḥ-ṛthinā sadā . putra-vat paripālyāḥ ca putrāḥ te dharmataḥ smṛtāḥ .. 35.142 ..
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः । एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ ३५.१४३ ॥
तटाक-कृत् वृक्ष-रोपी इष्ट-यज्ञः च यः नरः । एते स्वर्गे महीयन्ते ये च अन्ये सत्य-वादिनः ॥ ३५।१४३ ॥
taṭāka-kṛt vṛkṣa-ropī iṣṭa-yajñaḥ ca yaḥ naraḥ . ete svarge mahīyante ye ca anye satya-vādinaḥ .. 35.143 ..
तस्मात्तटाकान्कुर्वीत आरामांश्चैव रोपयेथ् । यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेथ् ॥ ३५.१४४ ॥
तस्मात् तटाकान् कुर्वीत आरामान् च एव । यजेत् च विविधैः यज्ञैः सत्यम् च सततम् ॥ ३५।१४४ ॥
tasmāt taṭākān kurvīta ārāmān ca eva . yajet ca vividhaiḥ yajñaiḥ satyam ca satatam .. 35.144 ..
गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे । अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ॥ ३५.१४५ ॥
गो-भू-हिरण्य-दानानि कृत्वा आचार्याय विष्णवे । अर्चकाय विशेषेण स्वर् गतः सुखम् एधते ॥ ३५।१४५ ॥
go-bhū-hiraṇya-dānāni kṛtvā ācāryāya viṣṇave . arcakāya viśeṣeṇa svar gataḥ sukham edhate .. 35.145 ..
अतिदानं तु सर्वेषां भूमिदानमिहोच्यते । अचला ह्यक्षयो भूमिस्सर्वान्कामान्प्रयच्छति ॥ ३५.१४६ ॥
अतिदानम् तु सर्वेषाम् भूमि-दानम् इह उच्यते । अचला हि अक्षयः भूमिः सर्वान् कामान् प्रयच्छति ॥ ३५।१४६ ॥
atidānam tu sarveṣām bhūmi-dānam iha ucyate . acalā hi akṣayaḥ bhūmiḥ sarvān kāmān prayacchati .. 35.146 ..
यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि । तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ॥ ३५.१४७ ॥
यः तु दद्यात् भूमि-दानम् । तस्य ऐहिकम् भवेत् पुण्यम् तथा पारत्रिकम् बहु ॥ ३५।१४७ ॥
yaḥ tu dadyāt bhūmi-dānam . tasya aihikam bhavet puṇyam tathā pāratrikam bahu .. 35.147 ..
यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधरां । तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ॥ ३५.१४८ ॥
यः तु दद्यात् स्व-नाम्ना एव पूजकाय वसुंधराम् । तस्य कामाः प्ररोहन्ति सर्वम् ऐहिकम् अश्नुते ॥ ३५।१४८ ॥
yaḥ tu dadyāt sva-nāmnā eva pūjakāya vasuṃdharām . tasya kāmāḥ prarohanti sarvam aihikam aśnute .. 35.148 ..
देवकार्याय वैदद्याद्यो देवाय वसुन्धरां । देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलं ॥ ३५.१४९ ॥
देव-कार्याय वैदद्यात् यः देवाय वसुन्धराम् । देव-नाम्ना एव तस्य स्यात् केवल-आमुष्मिकम् फलम् ॥ ३५।१४९ ॥
deva-kāryāya vaidadyāt yaḥ devāya vasundharām . deva-nāmnā eva tasya syāt kevala-āmuṣmikam phalam .. 35.149 ..
ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन । देवाय देवकार्याय ब्राह्मणायाधिकारिणे ॥ ३५.१५० ॥
ब्रह्म-अर्पण-धिया यः तु गुप्तम् दास्यति किम् चन । देवाय देव-कार्याय ब्राह्मणाय अधिकारिणे ॥ ३५।१५० ॥
brahma-arpaṇa-dhiyā yaḥ tu guptam dāsyati kim cana . devāya deva-kāryāya brāhmaṇāya adhikāriṇe .. 35.150 ..
यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेथ् । यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेथ् ॥ ३५.१५१ ॥
यावत् जीवति तत् दानम् स्वर्ग-इतस्य स्थितिः । यम् यम् कामम् तु मनसि कृत्वा यत् यत् च ॥ ३५।१५१ ॥
yāvat jīvati tat dānam svarga-itasya sthitiḥ . yam yam kāmam tu manasi kṛtvā yat yat ca .. 35.151 ..
तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरं । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ॥ ३५.१५२ ॥
तम् तम् एव फलम् लब्ध्वा अ कर्ता सम्मोदते चिरम् । किम् अलभ्यम् भगवति प्रसन्ने श्रीनिकेतने ॥ ३५।१५२ ॥
tam tam eva phalam labdhvā a kartā sammodate ciram . kim alabhyam bhagavati prasanne śrīniketane .. 35.152 ..
आचार्यायार्पिता भूमिरत्यन्तफलदायिनी । ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ॥ ३५.१५३ ॥
आचार्याय अर्पिता भूमिः अत्यन्त-फल-दायिनी । दद्यात् अनन्तम् फलम् उच्यते ॥ ३५।१५३ ॥
ācāryāya arpitā bhūmiḥ atyanta-phala-dāyinī . dadyāt anantam phalam ucyate .. 35.153 ..
पदार्थिनामथान्वेषां तथान्यविभवस्य च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ३५.१५४ ॥
पदार्थिनाम् अथ अन्वेषाम् तथा अन्य-विभवस्य च । सर्वम् एव भवेत् दत्तम् वसुधाम् यः प्रयच्छति ॥ ३५।१५४ ॥
padārthinām atha anveṣām tathā anya-vibhavasya ca . sarvam eva bhavet dattam vasudhām yaḥ prayacchati .. 35.154 ..
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५.१५५ ॥
फाल-कृष्टाम् महीम् दद्यात् स बीजाम् सस्य-मालिनीम् । यावत् सूर्य-कराः लोके तावत् स्वर्गे महीयते ॥ ३५।१५५ ॥
phāla-kṛṣṭām mahīm dadyāt sa bījām sasya-mālinīm . yāvat sūrya-karāḥ loke tāvat svarge mahīyate .. 35.155 ..
फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ॥ ३५.१५६ ॥
फाल-कृष्टाम् महीम् दद्यात् स बीजाम् सस्य-मालिनीम् । यावत् सूर्य-कराः लोके तावत् स्वर्गे महीयते ॥ ३५।१५६ ॥
phāla-kṛṣṭām mahīm dadyāt sa bījām sasya-mālinīm . yāvat sūrya-karāḥ loke tāvat svarge mahīyate .. 35.156 ..
यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः । अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ॥ ३५.१५७ ॥
यः च अपि कुरुते पापम् पुरुषः वृत्ति-कर्शितः । अपि गोकर्ण-मात्रेण भूमि-दानेन शुद्धि-अति ॥ ३५।१५७ ॥
yaḥ ca api kurute pāpam puruṣaḥ vṛtti-karśitaḥ . api gokarṇa-mātreṇa bhūmi-dānena śuddhi-ati .. 35.157 ..
सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनं । स शतान्येव गोकर्णमिति वेदविदो विदः ॥ ३५.१५८ ॥
सप्त-हस्तेन वा सम्यक् त्रिंशत्-दण्डेन वर्धनम् । स शतानि एव गोकर्णम् इति वेद-विदः विदः ॥ ३५।१५८ ॥
sapta-hastena vā samyak triṃśat-daṇḍena vardhanam . sa śatāni eva gokarṇam iti veda-vidaḥ vidaḥ .. 35.158 ..
जितेन्द्रयाय गुणिने पूजकाय तपस्विने । दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतं ॥ ३५.१५९ ॥
जित-इन्द्रयाय गुणिने पूजकाय तपस्विने । दद्यात् महीम् भदेत् तस्य फलम् अक्षयम् अच्युतम् ॥ ३५।१५९ ॥
jita-indrayāya guṇine pūjakāya tapasvine . dadyāt mahīm bhadet tasya phalam akṣayam acyutam .. 35.159 ..
यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति । एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ॥ ३५.१६० ॥
यथा अप्सु पतितः सद्यस् तैल-बिन्दुः प्ररोहति । एवम् भूमि-कृतम् दानम् सस्ये सस्ये प्ररोहति ॥ ३५।१६० ॥
yathā apsu patitaḥ sadyas taila-binduḥ prarohati . evam bhūmi-kṛtam dānam sasye sasye prarohati .. 35.160 ..
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ॥ ३५.१६१ ॥
यथा बीजानि रोहन्ति प्रकीर्णानि मही-तले । एवम् कामाः प्ररोहन्ति भूमि-दान-समार्जिताः ॥ ३५।१६१ ॥
yathā bījāni rohanti prakīrṇāni mahī-tale . evam kāmāḥ prarohanti bhūmi-dāna-samārjitāḥ .. 35.161 ..
यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेथ् । एवं दत्ताचिरं कालं भूमिर्भरति भूमिदं ॥ ३५.१६२ ॥
यथा गौः भरते वत्सम् क्षीरिणी क्षीरम् उत्सृजेथ् । एवम् दत्ता अचिरम् कालम् भूमिः भरति भूमि-दम् ॥ ३५।१६२ ॥
yathā gauḥ bharate vatsam kṣīriṇī kṣīram utsṛjeth . evam dattā aciram kālam bhūmiḥ bharati bhūmi-dam .. 35.162 ..
इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः । यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ॥ ३५.१६३ ॥
इक्षुभिः सतताम् भूमिम् यव-गोधूम-शाद्वलैः । यः ददाति नर-श्रेष्ठः स न प्रच्यवते दिवः ॥ ३५।१६३ ॥
ikṣubhiḥ satatām bhūmim yava-godhūma-śādvalaiḥ . yaḥ dadāti nara-śreṣṭhaḥ sa na pracyavate divaḥ .. 35.163 ..
शुभं भद्रासनं छत्रं वराश्च वरयोषितः । भूमिदानस्य चिह्नानि फलमेतन्न संशयः ॥ ३५.१६४ ॥
शुभम् भद्रासनम् छत्रम् वराः च वर-योषितः । भूमि-दानस्य चिह्नानि फलम् एतत् न संशयः ॥ ३५।१६४ ॥
śubham bhadrāsanam chatram varāḥ ca vara-yoṣitaḥ . bhūmi-dānasya cihnāni phalam etat na saṃśayaḥ .. 35.164 ..
आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दन्ति भूमिदं ॥ ३५.१६५ ॥
आदित्य वसवः विष्णुः ब्रह्मा सोमः हुताशनः । शूलपाणिः च भगवान् अभिनन्दन्ति भूमि-दम् ॥ ३५।१६५ ॥
āditya vasavaḥ viṣṇuḥ brahmā somaḥ hutāśanaḥ . śūlapāṇiḥ ca bhagavān abhinandanti bhūmi-dam .. 35.165 ..
सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ॥ ३५.१६६ ॥
सौवर्ण-छत्र-हक्म्याणि वसोर्धाराः च काम-दाः । गन्धर्व-अप्सरसः यत्र तत्र तिष्ठन्ति भूमि-दाः ॥ ३५।१६६ ॥
sauvarṇa-chatra-hakmyāṇi vasordhārāḥ ca kāma-dāḥ . gandharva-apsarasaḥ yatra tatra tiṣṭhanti bhūmi-dāḥ .. 35.166 ..
इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः । अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः ॥ ३५.१६७ ॥
इयम् एव पुरा भूमिः पालिता बहुभिः नृपैः । अन्यैः च बहुभिः दत्ता राजभिः सत्य-संगरैः ॥ ३५।१६७ ॥
iyam eva purā bhūmiḥ pālitā bahubhiḥ nṛpaiḥ . anyaiḥ ca bahubhiḥ dattā rājabhiḥ satya-saṃgaraiḥ .. 35.167 ..
यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ॥ ३५.१६८ ॥
यस्य यस्य यदा भूमिः स्तस्य तस्य तदा फलम् । भूमिम् यः प्रतिगृह्णाति यः च भूमिम् प्रयच्छति ॥ ३५।१६८ ॥
yasya yasya yadā bhūmiḥ stasya tasya tadā phalam . bhūmim yaḥ pratigṛhṇāti yaḥ ca bhūmim prayacchati .. 35.168 ..
तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ । दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनं ॥ ३५.१६९ ॥
तौ उभौ पुण्य-कर्माणौ नियतौ स्वर्ग-गामिनौ । दान-पालनयोः मध्ये दानात् श्रेयः-अनुपालनम् ॥ ३५।१६९ ॥
tau ubhau puṇya-karmāṇau niyatau svarga-gāminau . dāna-pālanayoḥ madhye dānāt śreyaḥ-anupālanam .. 35.169 ..
दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनं ॥ ३५.१७० ॥
दानात् स्वर्गम् अवाप्नोति पालनात् अच्युतम् पदम् । स्व-दत्तात् द्विगुणम् पुण्यम् पर-दत्त-अनुपालनम् ॥ ३५।१७० ॥
dānāt svargam avāpnoti pālanāt acyutam padam . sva-dattāt dviguṇam puṇyam para-datta-anupālanam .. 35.170 ..
भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः । पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवं ॥ ३५.१७१ ॥
भूमि-दः स्वर्गम् आरुह्य शास्वतीः रेधते समाः । पुनर् च जन्म संपाप्य भवेत् भूमि पतिः ध्रुवम् ॥ ३५।१७१ ॥
bhūmi-daḥ svargam āruhya śāsvatīḥ redhate samāḥ . punar ca janma saṃpāpya bhavet bhūmi patiḥ dhruvam .. 35.171 ..
यथा भूमिस्सदा देवी दातारं कुरुते पतिं । एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपं ॥ ३५.१७२ ॥
यथा भूमिः सदा देवी दातारम् कुरुते पतिम् । एवम् स दक्षिणा दत्ता आकुरुते गौः जनाधिपम् ॥ ३५।१७२ ॥
yathā bhūmiḥ sadā devī dātāram kurute patim . evam sa dakṣiṇā dattā ākurute gauḥ janādhipam .. 35.172 ..
अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदं । महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ॥ ३५.१७३ ॥
अपि पाप-कृतम् प्राप्य प्रतिगृह्णाति भूमि-दम् । महीम् ददत् पवित्रः स्यात् पुण्या च जगती यतस् ॥ ३५।१७३ ॥
api pāpa-kṛtam prāpya pratigṛhṇāti bhūmi-dam . mahīm dadat pavitraḥ syāt puṇyā ca jagatī yatas .. 35.173 ..
नामैव प्रियदत्तेति गुह्यामेतत्सनातनं । तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ॥ ३५.१७४ ॥
नाम एव प्रिय-दत्ता इति गुह्याम् एतत् सनातनम् । तत् अस्याः सततम् प्रीत्या ए कीर्तनीया प्रयच्छता ॥ ३५।१७४ ॥
nāma eva priya-dattā iti guhyām etat sanātanam . tat asyāḥ satatam prītyā e kīrtanīyā prayacchatā .. 35.174 ..
तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता । गुरुदैवतपूजा च नातिक्रामति भूमिदं ॥ ३५.१७५ ॥
तपः-यज्ञ-आश्रितम् शीलम् अलोभः सत्य-वादि-ता । गुरु-दैवत-पूजा च न अतिक्रामति भूमि-दम् ॥ ३५।१७५ ॥
tapaḥ-yajña-āśritam śīlam alobhaḥ satya-vādi-tā . guru-daivata-pūjā ca na atikrāmati bhūmi-dam .. 35.175 ..
भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः । ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदं ॥ ३५.१७६ ॥
भर्तुः निश्श्रेयसे युक्ताः स्त्यक्त-आत्म-आदोरणे हताः । ब्रह्म-लोक-गताः सन्तः न अतिक्रामन्ति भूमि-दम् ॥ ३५।१७६ ॥
bhartuḥ niśśreyase yuktāḥ styakta-ātma-ādoraṇe hatāḥ . brahma-loka-gatāḥ santaḥ na atikrāmanti bhūmi-dam .. 35.176 ..
यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा । एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ॥ ३५.१७७ ॥
यथा जनित्री क्षीरेण पुष्णाति स्व-सुतम् मुदा । एवम् सर्व-गुणैः भूमिः दातारम् अनुपुष्यति ॥ ३५।१७७ ॥
yathā janitrī kṣīreṇa puṣṇāti sva-sutam mudā . evam sarva-guṇaiḥ bhūmiḥ dātāram anupuṣyati .. 35.177 ..
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ॥ ३५.१७८ ॥
अग्निष्टोम-आदिभिः यज्ञैः इष्ट्वा विपुल-दक्षिणैः । न तत् फलम् अवाप्नोति यत् दत्वा वसुधाम् पुनर् ॥ ३५।१७८ ॥
agniṣṭoma-ādibhiḥ yajñaiḥ iṣṭvā vipula-dakṣiṇaiḥ . na tat phalam avāpnoti yat datvā vasudhām punar .. 35.178 ..
मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदं ॥ ३५.१७९ ॥
मृत्योः हि किङ्कराः दण्डाः हि अग्नि-तापाः सु दारुणाः । घोराः च वारुणाः पाशाः न उपसर्पन्ति भूमि-दम् ॥ ३५।१७९ ॥
mṛtyoḥ hi kiṅkarāḥ daṇḍāḥ hi agni-tāpāḥ su dāruṇāḥ . ghorāḥ ca vāruṇāḥ pāśāḥ na upasarpanti bhūmi-dam .. 35.179 ..
पीतरः पितृलोकस्था देवलोके दिवौकसः । सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः ॥ ३५.१८० ॥
पीतरः पितृ-लोक-स्थाः देव-लोके दिवौकसः । सन्तर्पयन्ति दातारम् भूमेः प्रभवताम् नरः ॥ ३५।१८० ॥
pītaraḥ pitṛ-loka-sthāḥ deva-loke divaukasaḥ . santarpayanti dātāram bhūmeḥ prabhavatām naraḥ .. 35.180 ..
आदित्या इव दीप्यन्ते तेजसा दि मानवाः । ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ॥ ३५.१८१ ॥
आदित्याः इव दीप्यन्ते तेजसा मानवाः । ये प्रयच्छन्ति वसुधाम् हरये लोकसाक्षिणे ॥ ३५।१८१ ॥
ādityāḥ iva dīpyante tejasā mānavāḥ . ye prayacchanti vasudhām haraye lokasākṣiṇe .. 35.181 ..
कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते । देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ॥ ३५.१८२ ॥
कृशाय कृश-भृत्याय वृत्तिम् क्षीणाय सीदते । विप्राय सुश्रीः भवति मानवः ॥ ३५।१८२ ॥
kṛśāya kṛśa-bhṛtyāya vṛttim kṣīṇāya sīdate . viprāya suśrīḥ bhavati mānavaḥ .. 35.182 ..
आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः । भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ॥ ३५.१८३ ॥
आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः । भूमि-दः नः कुले जातः सवः सन्तारयिष्यति ॥ ३५।१८३ ॥
āsphoṭayanti pitaraḥ pranṛtya ni pitāmahāḥ . bhūmi-daḥ naḥ kule jātaḥ savaḥ santārayiṣyati .. 35.183 ..
स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः । स दाता स च विक्रान्तो यो ददाति वसुंधरां ॥ ३५.१८४ ॥
स नः कुलस्य पुरुषः सनः बन्धुः सनः गुरुः । स दाता स च विक्रान्तः यः ददाति वसुंधराम् ॥ ३५।१८४ ॥
sa naḥ kulasya puruṣaḥ sanaḥ bandhuḥ sanaḥ guruḥ . sa dātā sa ca vikrāntaḥ yaḥ dadāti vasuṃdharām .. 35.184 ..
लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा । वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ॥ ३५.१८५ ॥
लोकान् तु सृजता पूर्वम् गावः सृष्टाः स्वयंभुवा । वृद्धि-अर्थम् सर्व-भूतानाम् तस्मात् ताः मातरः स्मृताः ॥ ३५।१८५ ॥
lokān tu sṛjatā pūrvam gāvaḥ sṛṣṭāḥ svayaṃbhuvā . vṛddhi-artham sarva-bhūtānām tasmāt tāḥ mātaraḥ smṛtāḥ .. 35.185 ..
तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते । धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीं ॥ ३५.१८६ ॥
ताः तुद त्वा सौरभेयीः स्वर्गे लोके महीयते । धेनुम् द-त्वा सुव्रताम् च स उपधानाम् पयस्विनीम् ॥ ३५।१८६ ॥
tāḥ tuda tvā saurabheyīḥ svarge loke mahīyate . dhenum da-tvā suvratām ca sa upadhānām payasvinīm .. 35.186 ..
सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च । देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ॥ ३५.१८७ ॥
स वत्साम् कपिलाम् दिव्याम् आचार्याय अर्चकाय च । देवदेवस्य तुष्टि-अर्थम् देवाय ब्राह्मणाय वा ॥ ३५।१८७ ॥
sa vatsām kapilām divyām ācāryāya arcakāya ca . devadevasya tuṣṭi-artham devāya brāhmaṇāya vā .. 35.187 ..
न तस्य शक्यते वक्तुं फलं वर्षशतैरपि । यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ॥ ३५.१८८ ॥
न तस्य शक्यते वक्तुम् फलम् वर्ष-शतैः अपि । यावन्ति धेन्वा अलोमानि वत्सायाः च विशेषतः ॥ ३५।१८८ ॥
na tasya śakyate vaktum phalam varṣa-śataiḥ api . yāvanti dhenvā alomāni vatsāyāḥ ca viśeṣataḥ .. 35.188 ..
तावद्वर्ष सहस्राणि कामान्दुह्येत सा वरा । प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनां ॥ ३५.१८९ ॥
तावत् वर्ष सहस्राणि कामान् दुह्येत सा वरा । प्रयच्छते यः कपिलाम् स वत्साम् कांस्य-जोहनाम् ॥ ३५।१८९ ॥
tāvat varṣa sahasrāṇi kāmān duhyeta sā varā . prayacchate yaḥ kapilām sa vatsām kāṃsya-johanām .. 35.189 ..
स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः । सा गौः कामदुघा भूत्वा दातारमुपसर्पति ॥ ३५.१९० ॥
स्वर्ण-श्रुङ्गीम् रौप्य-खुराम् तैः तैः द्रव्य-गुणैः पुनर् । सा गौः कामदुघा भूत्वा दातारम् उपसर्पति ॥ ३५।१९० ॥
svarṇa-śruṅgīm raupya-khurām taiḥ taiḥ dravya-guṇaiḥ punar . sā gauḥ kāmadughā bhūtvā dātāram upasarpati .. 35.190 ..
गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतं । परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ॥ ३५.१९१ ॥
गो-सहस्रम् तु यः दद्यात् सर्व-रत्नैः अलङ्कृतम् । पराम् वृद्धिम् श्रियम् प्राप्य स्वर्ग-लोके महीयते ॥ ३५।१९१ ॥
go-sahasram tu yaḥ dadyāt sarva-ratnaiḥ alaṅkṛtam . parām vṛddhim śriyam prāpya svarga-loke mahīyate .. 35.191 ..
दश चोभयतःप्रेत्य माता महपितामहाः । गच्छेत्सुकृतिनां लोकान्गावो दत्वा यथाविधि ॥ ३५.१९२ ॥
दश च उभयतस् प्रेत्य माता मह-पितामहाः । गच्छेत् सु कृतिनाम् लोकान् गावः द-त्वा यथाविधि ॥ ३५।१९२ ॥
daśa ca ubhayatas pretya mātā maha-pitāmahāḥ . gacchet su kṛtinām lokān gāvaḥ da-tvā yathāvidhi .. 35.192 ..
दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेथ् । तस्यापि चाक्षया लोका भवन्तीह परत्र च ॥ ३५.१९३ ॥
दायाद्य-लब्धैः योग-आद्यैः गावः सम्पाद्य । तस्य अपि च अक्षयाः लोकाः भवन्ति इह परत्र च ॥ ३५।१९३ ॥
dāyādya-labdhaiḥ yoga-ādyaiḥ gāvaḥ sampādya . tasya api ca akṣayāḥ lokāḥ bhavanti iha paratra ca .. 35.193 ..
यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति । स गच्छेद्विरजान्लोकान्गोप्रदानफलार्जितान् ॥ ३५.१९४ ॥
यः वा द्यूते धनम् जित्वा अ गावः क्रीत्वा प्रयच्छति । स गच्छेत् विरजान् लोकान् गो-प्रदान-फल-अर्जितान् ॥ ३५।१९४ ॥
yaḥ vā dyūte dhanam jitvā a gāvaḥ krītvā prayacchati . sa gacchet virajān lokān go-pradāna-phala-arjitān .. 35.194 ..
प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा । स गत्वा दुर्लभं स्थानममरैस्सह मोदते ॥ ३५.१९५ ॥
प्रतिगृह्यतु यः दद्यात् गावः शुद्धेन चेतसा । स गत्वा दुर्लभम् स्थानम् अमरैः सह मोदते ॥ ३५।१९५ ॥
pratigṛhyatu yaḥ dadyāt gāvaḥ śuddhena cetasā . sa gatvā durlabham sthānam amaraiḥ saha modate .. 35.195 ..
यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि । स गत्वा विरजान्लोकान्सुखं वसति देववथ् ॥ ३५.१९६ ॥
यः च आत्म-विक्रयम् कृत्वा गावः दद्यात् यधाविधि । स गत्वा विरजान् लोकान् सुखम् वसति ॥ ३५।१९६ ॥
yaḥ ca ātma-vikrayam kṛtvā gāvaḥ dadyāt yadhāvidhi . sa gatvā virajān lokān sukham vasati .. 35.196 ..
संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति । देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ॥ ३५.१९७ ॥
संग्रामे यः तनुम् त्यक्त्वा त्वक्त्वा गावः प्रयच्छति । देह-विक्रय-मूल्याः ताः श्शाश्वताः काम-दोहनाः ॥ ३५।१९७ ॥
saṃgrāme yaḥ tanum tyaktvā tvaktvā gāvaḥ prayacchati . deha-vikraya-mūlyāḥ tāḥ śśāśvatāḥ kāma-dohanāḥ .. 35.197 ..
जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, । तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेथ् ॥ ३५.१९८ ॥
जीर्णाम् जरत्-गाम् शील-वर्जिताम्, । तमः प्रविशते द-त्वा द्विजम् क्लेशेन ॥ ३५।१९८ ॥
jīrṇām jarat-gām śīla-varjitām, . tamaḥ praviśate da-tvā dvijam kleśena .. 35.198 ..
दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी । युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेथ् ॥ ३५.१९९ ॥
दान-योग्या कृशा दुष्टा पलायिनी । युञ्ज्यात् केशैः तु यः विप्रम् द-त्वा एनाम् तद्-वृधा ॥ ३५।१९९ ॥
dāna-yogyā kṛśā duṣṭā palāyinī . yuñjyāt keśaiḥ tu yaḥ vipram da-tvā enām tad-vṛdhā .. 35.199 ..
युवानं बलिनं श्यामं हलेन सह यूथपं । गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतं ॥ ३५.२०० ॥
युवानम् बलिनम् श्यामम् हलेन सह यूथपम् । गोपतिम् हरये दद्यात् भूरि-श्रुङ्गम् अलङ्कृतम् ॥ ३५।२०० ॥
yuvānam balinam śyāmam halena saha yūthapam . gopatim haraye dadyāt bhūri-śruṅgam alaṅkṛtam .. 35.200 ..
ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतं । एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ ३५.२०१ ॥
ब्राह्मणानाम् गवाम् च एव कुलम् एकम् द्विधा कृतम् । एकत्र मन्त्राः स्तिष्ठन्ति हविः एकत्र तिष्ठति ॥ ३५।२०१ ॥
brāhmaṇānām gavām ca eva kulam ekam dvidhā kṛtam . ekatra mantrāḥ stiṣṭhanti haviḥ ekatra tiṣṭhati .. 35.201 ..
उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा । यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ॥ ३५.२०२ ॥
उपगम्य तु यः दद्यात् गावः शुद्धेन चेतसा । यावन्ति तासाम् रोमाणि तावत् स्वर्गे महीयते ॥ ३५।२०२ ॥
upagamya tu yaḥ dadyāt gāvaḥ śuddhena cetasā . yāvanti tāsām romāṇi tāvat svarge mahīyate .. 35.202 ..
प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः । मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ॥ ३५.२०३ ॥
प्रवक्ष्यामि गवाम् लोकाः यादृशाः यत्र संस्थिताः । मनोज्ञाः रमणीयाः च सर्व-कामदुहाः सदा ॥ ३५।२०३ ॥
pravakṣyāmi gavām lokāḥ yādṛśāḥ yatra saṃsthitāḥ . manojñāḥ ramaṇīyāḥ ca sarva-kāmaduhāḥ sadā .. 35.203 ..
पुण्याःपापहराश्चेव गवां लोका न संशयः । अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ॥ ३५.२०४ ॥
पुण्याः पाप-हराः च इव गवाम् लोकाः न संशयः । अत्यन्त-सुखिनः तत्र सर्व-पाप-विवर्जिताः ॥ ३५।२०४ ॥
puṇyāḥ pāpa-harāḥ ca iva gavām lokāḥ na saṃśayaḥ . atyanta-sukhinaḥ tatra sarva-pāpa-vivarjitāḥ .. 35.204 ..
प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः । तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ॥ ३५.२०५ ॥
प्रमोदन्ते महास्थ्साने नराः विगत-कल्मषाः । तुल्य-प्रभावाः देवैः ते मोदन्ते प्सरसाम् गणैः ॥ ३५।२०५ ॥
pramodante mahāsthsāne narāḥ vigata-kalmaṣāḥ . tulya-prabhāvāḥ devaiḥ te modante psarasām gaṇaiḥ .. 35.205 ..
गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः । ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः ॥ ३५.२०६ ॥
गन्धर्वैः उपगीयन्ते गो शरण्याः न संशयः । ब्राह्मणाः साधु-वृत्ताः च दयावन्तः अनुकंपकाः ॥ ३५।२०६ ॥
gandharvaiḥ upagīyante go śaraṇyāḥ na saṃśayaḥ . brāhmaṇāḥ sādhu-vṛttāḥ ca dayāvantaḥ anukaṃpakāḥ .. 35.206 ..
घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह । यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ॥ ३५.२०७ ॥
घृणिनः शुभ-कर्तारः मोदन्ते दैवतैः सह । यथा एव सलिले मत्स्यः सलिलेन सह उष्य ते ॥ ३५।२०७ ॥
ghṛṇinaḥ śubha-kartāraḥ modante daivataiḥ saha . yathā eva salile matsyaḥ salilena saha uṣya te .. 35.207 ..
गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते । मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ॥ ३५.२०८ ॥
गोभिः पाप-कृतम् कर्म दृढम् एव व्यपोह्यते । मातरः सर्व-भूतानाम् प्रजानाम् रक्षणे कृताः ॥ ३५।२०८ ॥
gobhiḥ pāpa-kṛtam karma dṛḍham eva vyapohyate . mātaraḥ sarva-bhūtānām prajānām rakṣaṇe kṛtāḥ .. 35.208 ..
ब्रह्माणा लोकसारेण गावःपापभयापहाः । तानु दत्तासु लोकेऽस्मिन्किं न दत्तं भवेदिह ॥ ३५.२०९ ॥
ब्रह्माणा लोक-सारेण गावः पाप-भय-अपहाः । तान् उ दत्तासु लोके अस्मिन् किम् न दत्तम् भवेत् इह ॥ ३५।२०९ ॥
brahmāṇā loka-sāreṇa gāvaḥ pāpa-bhaya-apahāḥ . tān u dattāsu loke asmin kim na dattam bhavet iha .. 35.209 ..
देवेशाय विशेषेण तत्क्रियाय तथा पुनः । प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ॥ ३५.२१० ॥
देवेशाय विशेषेण तद्-क्रियाय तथा पुनर् । प्रतिपाद्याः सदा गानः भूतिम् स्भाराम् अभीप्सुभिः ॥ ३५।२१० ॥
deveśāya viśeṣeṇa tad-kriyāya tathā punar . pratipādyāḥ sadā gānaḥ bhūtim sbhārām abhīpsubhiḥ .. 35.210 ..
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । एतत्पवित्रं परममेतत्स्वस्त्ययनं महथ् ॥ ३५.२११ ॥
सुवर्णम् परमम् दानम् सुवर्णम् दक्षिणा परा । एतत् पवित्रम् परमम् एतत् स्वस्त्ययनम् ॥ ३५।२११ ॥
suvarṇam paramam dānam suvarṇam dakṣiṇā parā . etat pavitram paramam etat svastyayanam .. 35.211 ..
दशपूर्वान्परान्वंश्यानात्मानं च विशेषतः । अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेथ् ॥ ३५.२१२ ॥
दश-पूर्वान् परान् वंश्यान् आत्मानम् च विशेषतः । अपिपाप-शतम् कृत्वा दत्तम् विप्रिषु ॥ ३५।२१२ ॥
daśa-pūrvān parān vaṃśyān ātmānam ca viśeṣataḥ . apipāpa-śatam kṛtvā dattam vipriṣu .. 35.212 ..
सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा । देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतं ॥ ३५.२१३ ॥
सुवर्णम् ये प्रयच्छन्ति नराः शुद्धा इव चेतसा । देवताः ते प्रयच्छन्ति समस्तम् इति नः श्रुतम् ॥ ३५।२१३ ॥
suvarṇam ye prayacchanti narāḥ śuddhā iva cetasā . devatāḥ te prayacchanti samastam iti naḥ śrutam .. 35.213 ..
अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः । तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ॥ ३५.२१४ ॥
अग्निः हि देवताः सर्वाः सुवर्णम् च हुताशनः । तस्मात् सुवर्णम् ददता दत्ताः सर्वाः च देवताः ॥ ३५।२१४ ॥
agniḥ hi devatāḥ sarvāḥ suvarṇam ca hutāśanaḥ . tasmāt suvarṇam dadatā dattāḥ sarvāḥ ca devatāḥ .. 35.214 ..
अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनं । सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनाथ् ॥ ३५.२१५ ॥
अग्नि-अभावे च कुर्वन्ति वह्नि-स्थाने च काञ्चनम् । सर्व-देव-प्रमाण-ज्ञाः वेद-श्रुति-निदर्शनाः ॥ ३५।२१५ ॥
agni-abhāve ca kurvanti vahni-sthāne ca kāñcanam . sarva-deva-pramāṇa-jñāḥ veda-śruti-nidarśanāḥ .. 35.215 ..
यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति । दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयाथ् ॥ ३५.२१६ ॥
यः तु एनम् ज्वलयेत् अग्निम् आदित्य-उदयनम् प्रति । दद्यात् वै देवम् उद्दिश्य सर्वान् कामान् अवाप्नुयात् ॥ ३५।२१६ ॥
yaḥ tu enam jvalayet agnim āditya-udayanam prati . dadyāt vai devam uddiśya sarvān kāmān avāpnuyāt .. 35.216 ..
सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते । विरजांबरसंवीतः परियाति ततस्ततः ॥ ३५.२१७ ॥
सुवर्ण-दः सर्व-लोके कामान् इष्टान् अवाप्नुते । विरज-अंबर-संवीतः परियाति ततस् ततस् ॥ ३५।२१७ ॥
suvarṇa-daḥ sarva-loke kāmān iṣṭān avāpnute . viraja-aṃbara-saṃvītaḥ pariyāti tatas tatas .. 35.217 ..
विमानेनार्कवर्णेन भास्वरेण विराजता । अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा ॥ ३५.२१८ ॥
विमानेन अर्क-वर्णेन भास्वरेण विराजता । अप्सरः-गण-संकीर्णः भास्वरः तेन तेजसा ॥ ३५।२१८ ॥
vimānena arka-varṇena bhāsvareṇa virājatā . apsaraḥ-gaṇa-saṃkīrṇaḥ bhāsvaraḥ tena tejasā .. 35.218 ..
हंसबर्हिणयुक्तेन कामगेन नरोत्तमः । दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ॥ ३५.२१९ ॥
हंस-बर्हिण-युक्तेन कामगेन नर-उत्तमः । दिव्य-गन्ध-वहः स्वर्गे परिगच्छन् इतस् ततस् ॥ ३५।२१९ ॥
haṃsa-barhiṇa-yuktena kāmagena nara-uttamaḥ . divya-gandha-vahaḥ svarge parigacchan itas tatas .. 35.219 ..
तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि । विमानेनार्कवर्णेन स याति स्वर्गमुत्तमं ॥ ३५.२२० ॥
तस्मात् स्व-शक्त्या दातव्यम् काञ्चनम् मानवैः भुवि । विमानेन अर्क-वर्णेन स याति स्वर्गम् उत्तमम् ॥ ३५।२२० ॥
tasmāt sva-śaktyā dātavyam kāñcanam mānavaiḥ bhuvi . vimānena arka-varṇena sa yāti svargam uttamam .. 35.220 ..
न ह्यतः परमं लोके सद्यः पापविनाशनं । ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ॥ ३५.२२१ ॥
न हि अतस् परमम् लोके सद्यस् पाप-विनाशनम् । ब्रह्म-कोशस्य शुद्धस्य सुवर्णम् यः प्रयच्छति ॥ ३५।२२१ ॥
na hi atas paramam loke sadyas pāpa-vināśanam . brahma-kośasya śuddhasya suvarṇam yaḥ prayacchati .. 35.221 ..
बहून्यब्दसहस्राणि स्वर्गेलोके महीयते । इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया ॥ ३५.२२२ ॥
बहूनि अब्द-सहस्राणि स्वर्गे लोके महीयते । इति संक्षेपतः प्रोक्तम् स्वर्ण-दान-फलम् मया ॥ ३५।२२२ ॥
bahūni abda-sahasrāṇi svarge loke mahīyate . iti saṃkṣepataḥ proktam svarṇa-dāna-phalam mayā .. 35.222 ..
अथ वक्ष्ये विशेषेण फलमन्नस्य दापनाथ् । विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ॥ ३५.२२३ ॥
अथ वक्ष्ये विशेषेण फलम् अन्नस्य दापना अथ् । विष्णवे च श्रियै भूम्यै सर्व-देवेभ्यः एव च ॥ ३५।२२३ ॥
atha vakṣye viśeṣeṇa phalam annasya dāpanā ath . viṣṇave ca śriyai bhūmyai sarva-devebhyaḥ eva ca .. 35.223 ..
तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदराथ् । न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ॥ ३५.२२४ ॥
तत् नि वेदित शेषस्य दानात् च अर्थिभ्यः आदराथ् । न शक्यते फलम् तस्य वक्तुम् वर्ष-शतैः अपि ॥ ३५।२२४ ॥
tat ni vedita śeṣasya dānāt ca arthibhyaḥ ādarāth . na śakyate phalam tasya vaktum varṣa-śataiḥ api .. 35.224 ..
तथापि गीयते यत्तु विस्तारात्परमर्षिभिः । संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलं ॥ ३५.२२५ ॥
तथा अपि गीयते यत् तु विस्तारात् परम-ऋषिभिः । संक्षेपतः प्रवक्ष्यामि अन्न-दान-अर्जितम् फलम् ॥ ३५।२२५ ॥
tathā api gīyate yat tu vistārāt parama-ṛṣibhiḥ . saṃkṣepataḥ pravakṣyāmi anna-dāna-arjitam phalam .. 35.225 ..
प्रसादममृतं ब्रूयादन्नं देवनिवेदितं । तीर्थं चामृतमित्येव देवपादोदकं वदेथ् ॥ ३५.२२६ ॥
प्रसादम् अमृतम् ब्रूयात् अन्नम् देव-निवेदितम् । तीर्थम् च अमृतम् इति एव देव-पाद-उदकम् वदेथ् ॥ ३५।२२६ ॥
prasādam amṛtam brūyāt annam deva-niveditam . tīrtham ca amṛtam iti eva deva-pāda-udakam vadeth .. 35.226 ..
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा । लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितं ॥ ३५.२२७ ॥
अन्नम् एव प्रशंसन्ति देवाः ऋषि-गणाः तथा । लोकतन्त्रम् हि संज्ञाः च सर्वम् अन्ने प्रतिष्ठितम् ॥ ३५।२२७ ॥
annam eva praśaṃsanti devāḥ ṛṣi-gaṇāḥ tathā . lokatantram hi saṃjñāḥ ca sarvam anne pratiṣṭhitam .. 35.227 ..
अन्नेन सदृशं दानं न भूतो न भविष्यति । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ ३५.२२८ ॥
अन्नेन सदृशम् दानम् न भूतः न भविष्यति । तस्मात् अन्नम् विशेषेण दातुम् इच्छन्ति मानवाः ॥ ३५।२२८ ॥
annena sadṛśam dānam na bhūtaḥ na bhaviṣyati . tasmāt annam viśeṣeṇa dātum icchanti mānavāḥ .. 35.228 ..
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वं विश्वं जगदिदं महथ् ॥ ३५.२२९ ॥
अन्नम् ऊर्जस्करम् लोके प्राणाः च अन्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वम् विश्वम् जगत् इदम् ॥ ३५।२२९ ॥
annam ūrjaskaram loke prāṇāḥ ca anne pratiṣṭhitāḥ . annena dhāryate sarvam viśvam jagat idam .. 35.229 ..
अन्नाद्गृहस्था लोकेस्मिन्भिक्षवस्तापसास्तथा । अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥ ३५.२३० ॥
अन्नात् गृहस्थाः लोके इस्मिन् भिक्षवः तापसाः तथा । अन्नात् भवन्ति वै प्राणाः प्रत्यक्षम् न अत्र संशयः ॥ ३५।२३० ॥
annāt gṛhasthāḥ loke ismin bhikṣavaḥ tāpasāḥ tathā . annāt bhavanti vai prāṇāḥ pratyakṣam na atra saṃśayaḥ .. 35.230 ..
कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ ३५.२३१ ॥
कुटुंबम् पीडयित्वा तु ब्राह्मणाय महात्मने । दातव्यम् भिक्षवे च अन्नम् आत्मनः भूतिम् इच्छता ॥ ३५।२३१ ॥
kuṭuṃbam pīḍayitvā tu brāhmaṇāya mahātmane . dātavyam bhikṣave ca annam ātmanaḥ bhūtim icchatā .. 35.231 ..
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ ३५.२३२ ॥
ब्राह्मणाय अभिरूपाय यः दद्यात् अन्नम् अर्थिने । विदधाति निधिम् श्रेष्ठम् पारलौकिकम् आत्मनः ॥ ३५।२३२ ॥
brāhmaṇāya abhirūpāya yaḥ dadyāt annam arthine . vidadhāti nidhim śreṣṭham pāralaukikam ātmanaḥ .. 35.232 ..
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितं । अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतं ॥ ३५.२३३ ॥
श्रान्तम् अध्वनि वर्तन्तम् वृद्धम् अर्हम् उपस्थितम् । अर्चयेत् भूतिम् अन्विच्छन् गृहस्थः गृहम् आगतम् ॥ ३५।२३३ ॥
śrāntam adhvani vartantam vṛddham arham upasthitam . arcayet bhūtim anvicchan gṛhasthaḥ gṛham āgatam .. 35.233 ..
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखं ॥ ३५.२३४ ॥
क्रोधम् उत्पतितम् हित्वा सु शीलः वीत-मत्सरः । अन्न-दः प्राप्नुते यः भुवि च इह च यत् सुखम् ॥ ३५।२३४ ॥
krodham utpatitam hitvā su śīlaḥ vīta-matsaraḥ . anna-daḥ prāpnute yaḥ bhuvi ca iha ca yat sukham .. 35.234 ..
नावमन्येदभिगतं न प्रणुद्यात्कथं चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ ३५.२३५ ॥
न अवमन्येत् अभिगतम् न प्रणुद्यात् कथम् चन । अपि श्वपाके शुनि वा न दानम् विप्रणश्यति ॥ ३५।२३५ ॥
na avamanyet abhigatam na praṇudyāt katham cana . api śvapāke śuni vā na dānam vipraṇaśyati .. 35.235 ..
यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते । शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयाथ् ॥ ३५.२३६ ॥
यः दद्यात् अपरिक्लिष्टम् अन्न मध्वनि वर्तते । शान्ताय अ दृष्ट-पूर्वाय स महत् धर्मम् आप्नुयाथ् ॥ ३५।२३६ ॥
yaḥ dadyāt aparikliṣṭam anna madhvani vartate . śāntāya a dṛṣṭa-pūrvāya sa mahat dharmam āpnuyāth .. 35.236 ..
पितॄन्देवानृषीन्विप्रानतिथींश्च विशेषतः । यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महथ् ॥ ३५.२३७ ॥
पितॄन् देवान् ऋषीन् विप्रान् अतिथीन् च विशेषतः । यः नरः प्रीणयति अन्नैः तस्य पुण्य-फलम् ॥ ३५।२३७ ॥
pitṝn devān ṛṣīn viprān atithīn ca viśeṣataḥ . yaḥ naraḥ prīṇayati annaiḥ tasya puṇya-phalam .. 35.237 ..
कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने । ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ ३५.२३८ ॥
कृत्वा अतिपातकम् दद्यात् अन्नम् अर्थिने । ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ ३५।२३८ ॥
kṛtvā atipātakam dadyāt annam arthine . brāhmaṇāya viśeṣeṇa na sa pāpena muhyate .. 35.238 ..
ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलं । अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ॥ ३५.२३९ ॥
ब्राह्मणेषु अक्षयम् नाम्नाम् शूद्रे महत् भलम् । अन्न-दाम् अपि शूद्रे च ब्राह्मणस्य विशिष्यते ॥ ३५।२३९ ॥
brāhmaṇeṣu akṣayam nāmnām śūdre mahat bhalam . anna-dām api śūdre ca brāhmaṇasya viśiṣyate .. 35.239 ..
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च । भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ॥ ३५.२४० ॥
न पृच्छेत् गोत्र-चरणम् स्वाध्यायम् देशमेन च । भिक्षितः ब्राह्मणेन इह दद्यात् अन्नम् प्रयाचितः ॥ ३५।२४० ॥
na pṛcchet gotra-caraṇam svādhyāyam deśamena ca . bhikṣitaḥ brāhmaṇena iha dadyāt annam prayācitaḥ .. 35.240 ..
अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः । भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ॥ ३५.२४१ ॥
अन्न-दस्य अन्न-वृक्षाः च सर्व-काम-फल-प्रदाः । भवन्ति च इह न अमुत्र नृपतेः न अत्र संशयः ॥ ३५।२४१ ॥
anna-dasya anna-vṛkṣāḥ ca sarva-kāma-phala-pradāḥ . bhavanti ca iha na amutra nṛpateḥ na atra saṃśayaḥ .. 35.241 ..
आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः । अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ ३५.२४२ ॥
आशंसते हि पितरः सु वृष्टिम् इव कर्षकाः । अस्माकम् अपि पुत्रः वा पौत्रः वा अन्नम् प्रदास्यति ॥ ३५।२४२ ॥
āśaṃsate hi pitaraḥ su vṛṣṭim iva karṣakāḥ . asmākam api putraḥ vā pautraḥ vā annam pradāsyati .. 35.242 ..
ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते । अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयाथ् ॥ ३५.२४३ ॥
महत् भूतम् स्वयम् देहि इति याचते । अकामः उ वा स कामः वा द-त्वा पुण्यम् अवाप्नुयाथ् ॥ ३५।२४३ ॥
mahat bhūtam svayam dehi iti yācate . akāmaḥ u vā sa kāmaḥ vā da-tvā puṇyam avāpnuyāth .. 35.243 ..
ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् । विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ॥ ३५.२४४ ॥
ब्राह्मणः सर्व-भूतानाम् अतिधिः प्रसृत-अग्र-भुज् । विप्राः यम् अधिगच्छन्ति भिक्षमाणाः गृहम् सदा ॥ ३५।२४४ ॥
brāhmaṇaḥ sarva-bhūtānām atidhiḥ prasṛta-agra-bhuj . viprāḥ yam adhigacchanti bhikṣamāṇāḥ gṛham sadā .. 35.244 ..
सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते । महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ॥ ३५.२४५ ॥
सत्कृतात् च निवर्तन्ते तत् अतीव प्रवर्थते । महा-भोगे कुले प्रेत्य जन्म च आप्नोति नित्यशस् ॥ ३५।२४५ ॥
satkṛtāt ca nivartante tat atīva pravarthate . mahā-bhoge kule pretya janma ca āpnoti nityaśas .. 35.245 ..
दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमं । नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ ३५.२४६ ॥
नरः लोके यथास्थानम् अनुत्तमम् । नित्यम् मृष्ट-अन्न-दायी तु स्वर्गे वसति सत्कृतः ॥ ३५।२४६ ॥
naraḥ loke yathāsthānam anuttamam . nityam mṛṣṭa-anna-dāyī tu svarge vasati satkṛtaḥ .. 35.246 ..
अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितं । अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ ३५.२४७ ॥
अन्नम् प्राणाः नराणाम् हि सर्वम् अन्ने प्रतिष्ठितम् । अन्न-दः पशुमान् पुत्री धनवान् भोगवान् अपि ॥ ३५।२४७ ॥
annam prāṇāḥ narāṇām hi sarvam anne pratiṣṭhitam . anna-daḥ paśumān putrī dhanavān bhogavān api .. 35.247 ..
प्राणवांश्चापि भवति रूपवांश्च तथा भवेथ् । अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ ३५.२४८ ॥
प्राणवान् च अपि भवति रूपवान् च तथा । अन्न-दः प्राण-दः लोके सर्व-दः प्रोच्यते तु सः ॥ ३५।२४८ ॥
prāṇavān ca api bhavati rūpavān ca tathā . anna-daḥ prāṇa-daḥ loke sarva-daḥ procyate tu saḥ .. 35.248 ..
अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि । प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ॥ ३५.२४९ ॥
अन्नम् हिदत्वा अतिथये ब्राह्मणाय यथाविधि । प्रदाता सुखम् आप्नोति दैवतैः च अपि पूज्यते ॥ ३५।२४९ ॥
annam hidatvā atithaye brāhmaṇāya yathāvidhi . pradātā sukham āpnoti daivataiḥ ca api pūjyate .. 35.249 ..
ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते । उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महथ् ॥ ३५.२५० ॥
ब्राह्मणः हि महत् भूतम् क्षेत्र-भूतम् इह उच्यते । उप्यते यत्र तत् बीजम् तत् हि पुण्य-फलम् ॥ ३५।२५० ॥
brāhmaṇaḥ hi mahat bhūtam kṣetra-bhūtam iha ucyate . upyate yatra tat bījam tat hi puṇya-phalam .. 35.250 ..
प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत । सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ ३५.२५१ ॥
प्रत्यक्ष-प्रीति-जननम् भोक्तुः दातुः भवति उत । सर्वाणि अन्यानि दानानि परोक्ष-फलवन्ति उत ॥ ३५।२५१ ॥
pratyakṣa-prīti-jananam bhoktuḥ dātuḥ bhavati uta . sarvāṇi anyāni dānāni parokṣa-phalavanti uta .. 35.251 ..
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते । धक्मार्थावन्नतो विद्यात्रोगनाशस्तथान्नतः ॥ ३५.२५२ ॥
अन्नात् हि प्रसवम् यान्ति रतिः अन्नात् हि जायते । विद्या-त्रोग-नाशः तथा अन्नतः ॥ ३५।२५२ ॥
annāt hi prasavam yānti ratiḥ annāt hi jāyate . vidyā-troga-nāśaḥ tathā annataḥ .. 35.252 ..
अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः । अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितं ॥ ३५.२५३ ॥
अन्नम् हि अद्भुतम् इति आह पुरा कल्पे प्रजापतिः । अन्नम् भुवम् दिवम् खम् च सर्वम् अन्ने प्रतिष्ठितम् ॥ ३५।२५३ ॥
annam hi adbhutam iti āha purā kalpe prajāpatiḥ . annam bhuvam divam kham ca sarvam anne pratiṣṭhitam .. 35.253 ..
अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥ ३५.२५४ ॥
अन्न-प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलम् बलवतः अपि इह प्रणश्यति अन्न-हानितः ॥ ३५।२५४ ॥
anna-praṇāśe bhidyante śarīre pañca dhātavaḥ . balam balavataḥ api iha praṇaśyati anna-hānitaḥ .. 35.254 ..
आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा । निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ॥ ३५.२५५ ॥
आवाहाः च विवाहाः च यज्ञाः च अन्न-कृते तथा । निवर्तन्ते विशेषेण ब्रह्म च अत्र प्रदीयते ॥ ३५।२५५ ॥
āvāhāḥ ca vivāhāḥ ca yajñāḥ ca anna-kṛte tathā . nivartante viśeṣeṇa brahma ca atra pradīyate .. 35.255 ..
अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमं । त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ॥ ३५.२५६ ॥
अन्नतः सर्वम् एतत् हि यत् किञ्चिद् स्थाणु जङ्गमम् । त्रिषु लोकेषु धर्म-अर्थम् अन्नम् देयम् ततस् बुधैः ॥ ३५।२५६ ॥
annataḥ sarvam etat hi yat kiñcid sthāṇu jaṅgamam . triṣu lokeṣu dharma-artham annam deyam tatas budhaiḥ .. 35.256 ..
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च । आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितं ॥ ३५.२५७ ॥
अन्न-दस्य मनुष्यस्य बलम् ओजः यशांसि च । आयुः च वर्धते तद्वत् तेषु लोकेषु निश्चितम् ॥ ३५।२५७ ॥
anna-dasya manuṣyasya balam ojaḥ yaśāṃsi ca . āyuḥ ca vardhate tadvat teṣu lokeṣu niścitam .. 35.257 ..
मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः । यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ॥ ३५.२५८ ॥
मेघात् ऊर्ध्वम् सन्निधत्ते प्राणानाम् पवनः पतिः । यत् च मेघ-गतम् वारि शक्रः वर्षति हर्षितः ॥ ३५।२५८ ॥
meghāt ūrdhvam sannidhatte prāṇānām pavanaḥ patiḥ . yat ca megha-gatam vāri śakraḥ varṣati harṣitaḥ .. 35.258 ..
आदत्ते च रसान्भ्ॐआनादित्यस्स्वगभस्तिभिः । वायुरादित्यतप्तांश्च रसान्देवःप्रवर्षति ॥ ३५.२५९ ॥
आदत्ते च रसान् भोंआन् आदित्यः स्व-गभस्तिभिः । वायुः आदित्य-तप्तान् च रसान् देवः प्रवर्षति ॥ ३५।२५९ ॥
ādatte ca rasān bhoṃān ādityaḥ sva-gabhastibhiḥ . vāyuḥ āditya-taptān ca rasān devaḥ pravarṣati .. 35.259 ..
तद्यथा मेघतो वारि पतितं भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भाविता ॥ ३५.२६० ॥
तत् यथा मेघतः वारि पतितम् भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भाविता ॥ ३५।२६० ॥
tat yathā meghataḥ vāri patitam bhavati kṣitau . tadā vasumatī devī snigdhā bhavati bhāvitā .. 35.260 ..
ततस्सस्यानि रोहन्ति येन वर्तयते जगथ् । मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ ३५.२६१ ॥
ततस् सस्यानि रोहन्ति येन वर्तयते । मांस-मेदः-अस्थि-शुक्राणाम् प्रादुर्भावः ततस् पुनर् ॥ ३५।२६१ ॥
tatas sasyāni rohanti yena vartayate . māṃsa-medaḥ-asthi-śukrāṇām prādurbhāvaḥ tatas punar .. 35.261 ..
संभवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले । अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह ॥ ३५.२६२ ॥
संभवन्ति ततस् शुक्रात् प्राणिनः पृधिवी-तले । अग्निष्टोमौ हि तत् श्रक्रम् सृजतः पुष्यतः च ह ॥ ३५।२६२ ॥
saṃbhavanti tatas śukrāt prāṇinaḥ pṛdhivī-tale . agniṣṭomau hi tat śrakram sṛjataḥ puṣyataḥ ca ha .. 35.262 ..
एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच । एक एव स्मृतो राशिस्ततो भूतानि जङ्गिरे ॥ ३५.२६३ ॥
एवम् अन्नात् हि सूर्यः च पवनः शुक्रम् एव च । एकः एव स्मृतः राशिः ततस् भूतानि जङ्गिरे ॥ ३५।२६३ ॥
evam annāt hi sūryaḥ ca pavanaḥ śukram eva ca . ekaḥ eva smṛtaḥ rāśiḥ tatas bhūtāni jaṅgire .. 35.263 ..
प्राणान्ददाति भूतानां तेजश्च सततप्रभं । गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥ ३५.२६४ ॥
प्राणान् ददाति भूतानाम् तेजः च सतत-प्रभम् । गृहम् अभ्यागताय अथ यः दद्यात् अन्नम् अर्थिने ॥ ३५।२६४ ॥
prāṇān dadāti bhūtānām tejaḥ ca satata-prabham . gṛham abhyāgatāya atha yaḥ dadyāt annam arthine .. 35.264 ..
अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः । भवनानि प्रकाशन्ते दिवि तेषां महात्मनां ॥ ३५.२६५ ॥
अन्न-दानात् हि ये लोकाः तान् श्रुणुध्वम् समाहिताः । भवनानि प्रकाशन्ते दिवि तेषाम् महात्मनाम् ॥ ३५।२६५ ॥
anna-dānāt hi ye lokāḥ tān śruṇudhvam samāhitāḥ . bhavanāni prakāśante divi teṣām mahātmanām .. 35.265 ..
तारासंस्थानरूपाणि नाना स्तंभान्वितानि च । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ ३५.२६६ ॥
तारा-संस्थान-रूपाणि नाना स्तंभ-अन्वितानि च । चन्द्र-मण्डल-शुभ्राणि किङ्किणी-जालवन्ति च ॥ ३५।२६६ ॥
tārā-saṃsthāna-rūpāṇi nānā staṃbha-anvitāni ca . candra-maṇḍala-śubhrāṇi kiṅkiṇī-jālavanti ca .. 35.266 ..
तरुणादित्यवर्णानि स्थावराणि चराणिच । अनेकशतभ्ॐआनि सांतर्जलचराणि च ॥ ३५.२६७ ॥
तरुण-आदित्य-वर्णानि स्थावराणि चराणि च । अनेक-शत-भोंआनि स अंतर् जलचराणि च ॥ ३५।२६७ ॥
taruṇa-āditya-varṇāni sthāvarāṇi carāṇi ca . aneka-śata-bhoṃāni sa aṃtar jalacarāṇi ca .. 35.267 ..
वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च । सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ ३५.२६८ ॥
वैडूर्य-अर्क-प्रकाशानि रौक्म-रूप्य-मयानि च । सर्व-काम-फलाः च अपि वृक्षाः भवन-संस्थिताः ॥ ३५।२६८ ॥
vaiḍūrya-arka-prakāśāni raukma-rūpya-mayāni ca . sarva-kāma-phalāḥ ca api vṛkṣāḥ bhavana-saṃsthitāḥ .. 35.268 ..
वाप्यो वीथ्यः सभाः कूपादीर्घि काश्चैव सर्वशः । घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः ॥ ३५.२६९ ॥
वाप्यः वीथ्यः सभाः कूप-अदीर्घि-काः च एव सर्वशस् । घोषवन्ति अथ यानानि मुक्तानि अथ सहस्रशस् ॥ ३५।२६९ ॥
vāpyaḥ vīthyaḥ sabhāḥ kūpa-adīrghi-kāḥ ca eva sarvaśas . ghoṣavanti atha yānāni muktāni atha sahasraśas .. 35.269 ..
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च । क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः ॥ ३५.२७० ॥
भक्ष्य-भोज्य-मयाः शैलाः वासांसि आभरणानि च । क्षीरम् स्रवन्ति सरितः तथा च एव अन्न पर्वताः ॥ ३५।२७० ॥
bhakṣya-bhojya-mayāḥ śailāḥ vāsāṃsi ābharaṇāni ca . kṣīram sravanti saritaḥ tathā ca eva anna parvatāḥ .. 35.270 ..
प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः । तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा ॥ ३५.२७१ ॥
प्रासादाः पाण्डुर-अभ्र-आभाः शय्याः च कनक-उज्ज्वलाः । तानि अन्न-दाः प्रपद्यन्ते तस्मात् अन्नम् ददेत् सदा ॥ ३५।२७१ ॥
prāsādāḥ pāṇḍura-abhra-ābhāḥ śayyāḥ ca kanaka-ujjvalāḥ . tāni anna-dāḥ prapadyante tasmāt annam dadet sadā .. 35.271 ..
दद्यादद्यात्सदैवान्नं विष्णवे विनिवेदितं । हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा ॥ ३५.२७२ ॥
दद्यात् दद्यात् सदा एव अन्नम् विष्णवे विनिवेदितम् । हविः-पात्र-आदि सौवर्णम् राजतम् ताम्रम् एव वा ॥ ३५।२७२ ॥
dadyāt dadyāt sadā eva annam viṣṇave viniveditam . haviḥ-pātra-ādi sauvarṇam rājatam tāmram eva vā .. 35.272 ..
कांस्यं वाप्यथ यो दद्यादर्घ्य पात्रादिकानपि । कलशान्करकान्कुंभानन्यांश्चैव परिच्छदान् ॥ ३५.२७३ ॥
कांस्यम् वा अपि अथ यः दद्यात् अर्घ्य पात्र-आदिकान् अपि । कलशान् करकान् कुंभान् अन्यान् च एव परिच्छदान् ॥ ३५।२७३ ॥
kāṃsyam vā api atha yaḥ dadyāt arghya pātra-ādikān api . kalaśān karakān kuṃbhān anyān ca eva paricchadān .. 35.273 ..
शक्तिलोभमकृत्वैव तस्य पुण्यफलं महथ् । सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलं ॥ ३५.२७४ ॥
शक्ति-लोभम् अ कृत्वा एव तस्य पुण्य-फलम् । सौवर्णानि एवयः दद्यात् सारूप्यम् लभते फलम् ॥ ३५।२७४ ॥
śakti-lobham a kṛtvā eva tasya puṇya-phalam . sauvarṇāni evayaḥ dadyāt sārūpyam labhate phalam .. 35.274 ..
राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयाथ् । दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः ॥ ३५.२७५ ॥
राजतानि अथ यः दद्यात् सामीप्यम् फलम् आप्नुयात् । दद्यात् ताम्राणि कांस्यानि सारोक्यम् पदम् एति सः ॥ ३५।२७५ ॥
rājatāni atha yaḥ dadyāt sāmīpyam phalam āpnuyāt . dadyāt tāmrāṇi kāṃsyāni sārokyam padam eti saḥ .. 35.275 ..
ध्वचान्विचित्रान्यो दद्यान्नानावर्ण समायुतान् । सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति ॥ ३५.२७६ ॥
ध्वचान् विचित्रान् यः दद्यात् नाना वर्ण समायुतान् । सर्वेषाम् उत्तमः भूत्वा कुल-केतुः भविष्यति ॥ ३५।२७६ ॥
dhvacān vicitrān yaḥ dadyāt nānā varṇa samāyutān . sarveṣām uttamaḥ bhūtvā kula-ketuḥ bhaviṣyati .. 35.276 ..
श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलं । दुकूलेनाथ पट्टेन तन्तुनान्येन वा कृतं ॥ ३५.२७७ ॥
श्वेतम् वितानम् रक्तम् वा कृष्णम् पीतम् च श्यामलम् । दुकूलेन अथ पट्टेन तन्तुना अन्येन वा कृतम् ॥ ३५।२७७ ॥
śvetam vitānam raktam vā kṛṣṇam pītam ca śyāmalam . dukūlena atha paṭṭena tantunā anyena vā kṛtam .. 35.277 ..
यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदं । सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः ॥ ३५.२७८ ॥
यः दद्यात् देवदेवस्य स गच्छेत् वैष्णवम् पदम् । स उपधानाम् स तल्पाम् च खट्वाम् दद्यात् च यः हरेः ॥ ३५।२७८ ॥
yaḥ dadyāt devadevasya sa gacchet vaiṣṇavam padam . sa upadhānām sa talpām ca khaṭvām dadyāt ca yaḥ hareḥ .. 35.278 ..
कुबेरलोकमासाद्य तत्र सम्मोदते चिरं । आतपत्रं तथा हैमं मुक्तादामविभूषितं ॥ ३५.२७९ ॥
कुबेर-लोकम् आसाद्य तत्र सम्मोदते चिरम् । तथा हैमम् मुक्ता-दाम-विभूषितम् ॥ ३५।२७९ ॥
kubera-lokam āsādya tatra sammodate ciram . tathā haimam muktā-dāma-vibhūṣitam .. 35.279 ..
हैमदण्डयुतं दद्यादिन्द्रलोकं स गच्छति । राज्यकामी तु राजा स्यात्सार्वभ्ॐओऽपि जायते ॥ ३५.२८० ॥
हैम-दण्ड-युतम् दद्यात् इन्द्र-लोकम् स गच्छति । राज्य-कामी तु राजा स्यात् सार्वभोंअः अपि जायते ॥ ३५।२८० ॥
haima-daṇḍa-yutam dadyāt indra-lokam sa gacchati . rājya-kāmī tu rājā syāt sārvabhoṃaḥ api jāyate .. 35.280 ..
मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयाथ् । चामरं हेमदण्डं च व्यजनं रत्नभूषितं ॥ ३५.२८१ ॥
मयूर-छत्र-दानात् तु वारुणम् लोकम् आप्नुयाथ् । चामरम् हेम-दण्डम् च व्यजनम् रत्न-भूषितम् ॥ ३५।२८१ ॥
mayūra-chatra-dānāt tu vāruṇam lokam āpnuyāth . cāmaram hema-daṇḍam ca vyajanam ratna-bhūṣitam .. 35.281 ..
केवलं हेमदण्डं वा भक्त्या शक्त्या च संयुतं । अर्पयेद्धरये यस्तु देवलोके महीयते ॥ ३५.२८२ ॥
केवलम् हेम-दण्डम् वा भक्त्या शक्त्या च संयुतम् । अर्पयेत् हरये यः तु देव-लोके महीयते ॥ ३५।२८२ ॥
kevalam hema-daṇḍam vā bhaktyā śaktyā ca saṃyutam . arpayet haraye yaḥ tu deva-loke mahīyate .. 35.282 ..
मयूरव्यजनं तद्वद्रुक्मदण्डं च शक्तितः । भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते ॥ ३५.२८३ ॥
मयूर-व्यजनम् तद्वत् रुक्म-दण्डम् च शक्तितः । भक्त्या एव यः हरेः दद्यात् वायु-लोके महीयते ॥ ३५।२८३ ॥
mayūra-vyajanam tadvat rukma-daṇḍam ca śaktitaḥ . bhaktyā eva yaḥ hareḥ dadyāt vāyu-loke mahīyate .. 35.283 ..
विमानं हैवसंच्छन्नं विष्णोर्यः कारयेन्नरः । अशक्यं तत्फलं वक्तुं सर्वैरपि सुरासुरैः ॥ ३५.२८४ ॥
विमानम् ह एव संच्छन्नम् विष्णोः यः कारयेत् नरः । अशक्यम् तद्-फलम् वक्तुम् सर्वैः अपि सुर-असुरैः ॥ ३५।२८४ ॥
vimānam ha eva saṃcchannam viṣṇoḥ yaḥ kārayet naraḥ . aśakyam tad-phalam vaktum sarvaiḥ api sura-asuraiḥ .. 35.284 ..
सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेथ् । तस्यापि यत्फलं सर्वमनन्तमिति नश्श्रुतं ॥ ३५.२८५ ॥
सौवर्मम् विष्णु-रूपम् तु यः भक्त्या एव तु । तस्य अपि यत् फलम् सर्वम् अनन्तम् इति नः श्रुतम् ॥ ३५।२८५ ॥
sauvarmam viṣṇu-rūpam tu yaḥ bhaktyā eva tu . tasya api yat phalam sarvam anantam iti naḥ śrutam .. 35.285 ..
मण्डपं वा प्रपां वाथ रत्नमुक्तोपशोभितं । हेमलंब? समायुक्तं हैमस्तंभपरिष्कृतं ॥ ३५.२८६ ॥
मण्डपम् वा प्रपाम् वा अथ रत्न-मुक्ता-उपशोभितम् । हेमलंब? समायुक्तम् हैम-स्तंभ-परिष्कृतम् ॥ ३५।२८६ ॥
maṇḍapam vā prapām vā atha ratna-muktā-upaśobhitam . hemalaṃba? samāyuktam haima-staṃbha-pariṣkṛtam .. 35.286 ..
कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभं । हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवार्ऽपयेद्धरेः ॥ ३५.२८७ ॥
कल्पयेत् विष्णु-सालोक्यम् प्राप्नोति अमर-दुर्लभम् । हैमम् सिंहासनम् श्रेष्ठम् यः भक्त्या एव अर्ऽपयेत् हरेः ॥ ३५।२८७ ॥
kalpayet viṣṇu-sālokyam prāpnoti amara-durlabham . haimam siṃhāsanam śreṣṭham yaḥ bhaktyā eva ar'payet hareḥ .. 35.287 ..
सिंहासनं समास्थाय माहेन्द्रीं संपदं व्रजेथ् । हैमीर्याश्शिबिकाश्चैव रङ्गादीन्यश्च कारयेथ् ॥ ३५.२८८ ॥
सिंहासनम् समास्थाय माहेन्द्रीम् संपदम् व्रजेथ् । हैमीः इर्याः शिबिकाः च एव रङ्ग-आदीन् यः च ॥ ३५।२८८ ॥
siṃhāsanam samāsthāya māhendrīm saṃpadam vrajeth . haimīḥ iryāḥ śibikāḥ ca eva raṅga-ādīn yaḥ ca .. 35.288 ..
हैमं यानं तथारुह्य विष्णुलोकं स गच्छति । अशक्तोदारवान्वाथरङ्गादीन्शिबिकास्तथा ॥ ३५.२८९ ॥
हैमम् यानम् तथा आरुह्य विष्णु-लोकम् स गच्छति । अशक्त-उदारवान् वा अथ रङ्ग-आदीन् शिबिकाः तथा ॥ ३५।२८९ ॥
haimam yānam tathā āruhya viṣṇu-lokam sa gacchati . aśakta-udāravān vā atha raṅga-ādīn śibikāḥ tathā .. 35.289 ..
सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति । यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेथ् ॥ ३५.२९० ॥
सिंहासनम् वा यः दद्यात् सोम-लोकम् स गच्छति । यः च कांस्य-मयीम् घण्टाम् हृदि अध्वनि-युताम् ॥ ३५।२९० ॥
siṃhāsanam vā yaḥ dadyāt soma-lokam sa gacchati . yaḥ ca kāṃsya-mayīm ghaṇṭām hṛdi adhvani-yutām .. 35.290 ..
हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः । शङ्खभेर्यादिदानेन शक्रलोके स पूज्यते ॥ ३५.२९१ ॥
हृद्य-वाच्-सु स्वरः हृद्यः वाग्मी स तु भवेत् नरः । शङ्ख-भेरी-आदि-दानेन शक्र-लोके स पूज्यते ॥ ३५।२९१ ॥
hṛdya-vāc-su svaraḥ hṛdyaḥ vāgmī sa tu bhavet naraḥ . śaṅkha-bherī-ādi-dānena śakra-loke sa pūjyate .. 35.291 ..
नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः । नर्तयेदप्सरोभिर्वा गान्धर्वं लोकमाप्नुयाथ् ॥ ३५.२९२ ॥
नृत्त-गेय-आदिभिः वाद्यैः घोषणम् कारयेत् तु यः । नर्तयेत् अप्सरोभिः वा गान्धर्वम् लोकम् आप्नुयाथ् ॥ ३५।२९२ ॥
nṛtta-geya-ādibhiḥ vādyaiḥ ghoṣaṇam kārayet tu yaḥ . nartayet apsarobhiḥ vā gāndharvam lokam āpnuyāth .. 35.292 ..
वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिं । भुक्त्वात्रमहदैश्वर्यं वैष्णवं पदमाप्नुयाथ् ॥ ३५.२९३ ॥
वीणा-वेणु-विनादैः च शक्त्या यः पूजयेत् हरिम् । भुक्त्वा अत्र महत् ऐश्वर्यम् वैष्णवम् पदम् आप्नुयाथ् ॥ ३५।२९३ ॥
vīṇā-veṇu-vinādaiḥ ca śaktyā yaḥ pūjayet harim . bhuktvā atra mahat aiśvaryam vaiṣṇavam padam āpnuyāth .. 35.293 ..
यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः । तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः ॥ ३५.२९४ ॥
यत् यत् द्रव्यम् मुदा युक्तः दद्यात् तु हरये नरः । तद्-अग्रे पूजकेभ्यः च गुरवे च विशेषतः ॥ ३५।२९४ ॥
yat yat dravyam mudā yuktaḥ dadyāt tu haraye naraḥ . tad-agre pūjakebhyaḥ ca gurave ca viśeṣataḥ .. 35.294 ..
तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः । समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयं ॥ ३५.२९५ ॥
तद्-प्रीत्यै च इतरेभ्यः च ब्राह्मणेभ्यः विधानतः । समृद्धिम् तस्य तस्य एव द्रव्यस्य आप्नोति असंशयम् ॥ ३५।२९५ ॥
tad-prītyai ca itarebhyaḥ ca brāhmaṇebhyaḥ vidhānataḥ . samṛddhim tasya tasya eva dravyasya āpnoti asaṃśayam .. 35.295 ..
यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः । यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या ॥ ३५.२९६ ॥
यम् कामयित्वा दद्यात् यत् तत् सर्वम् स लभेत् नरः । यत् यत् कर्म तद्-अर्थम् स्यात् परिचर्या च तस्य या ॥ ३५।२९६ ॥
yam kāmayitvā dadyāt yat tat sarvam sa labhet naraḥ . yat yat karma tad-artham syāt paricaryā ca tasya yā .. 35.296 ..
तस्योपचारं यत्कर्म करोति श्रद्धया तु यः । सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु याथ् ॥ ३५.२९७ ॥
तस्य उपचारम् यत् कर्म करोति श्रद्धया तु यः । सर्व-यज्ञ-फलम् प्राप्य नामीप्यम् पदम् आप्नु याथ् ॥ ३५।२९७ ॥
tasya upacāram yat karma karoti śraddhayā tu yaḥ . sarva-yajña-phalam prāpya nāmīpyam padam āpnu yāth .. 35.297 ..
तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरं । शक्तिलोभमकृत्वैव विभवानाञ्चभक्तितः ॥ ३५.२९८ ॥
तस्मात् अत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरम् । शक्ति-लोभम् अ कृत्वा एव विभवानाम् च भक्तितः ॥ ३५।२९८ ॥
tasmāt atra pratiṣṭhāpya devadevasya mandiram . śakti-lobham a kṛtvā eva vibhavānām ca bhaktitaḥ .. 35.298 ..
बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमं । अथार्ऽचने फलं वक्ष्ये विशेषेण मधुद्विषः ॥ ३५.२९९ ॥
बहुधा बहुलाम् वृत्तिम् कल्पयेत् चेद् तत् उत्तमम् । अथ अर्ऽचने फलम् वक्ष्ये विशेषेण मधुद्विषः ॥ ३५।२९९ ॥
bahudhā bahulām vṛttim kalpayet ced tat uttamam . atha ar'cane phalam vakṣye viśeṣeṇa madhudviṣaḥ .. 35.299 ..
भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः । सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन् ॥ ३५.३०० ॥
भक्त्या अप्रदक्षिणम् कुर्वन् नित्यम् विष्णु-आलये नरः । सायम् प्रातर् च देवेशम् नमस्यन् अथ चिन्तयन् ॥ ३५।३०० ॥
bhaktyā apradakṣiṇam kurvan nityam viṣṇu-ālaye naraḥ . sāyam prātar ca deveśam namasyan atha cintayan .. 35.300 ..
यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेथ् । उपचारविशेषाणाद्वक्ष्यते फलं ॥ ३५.३०१ ॥
यः प्रमामम् मुहुर् कुर्यात् स तु यज्ञ-फलम् । उपचार-विशेषाणात् वक्ष्यते फलम् ॥ ३५।३०१ ॥
yaḥ pramāmam muhur kuryāt sa tu yajña-phalam . upacāra-viśeṣāṇāt vakṣyate phalam .. 35.301 ..
ध्यानमावाहनं कृत्वा सर्वान्कामानवाप्नुयाथ् । अष्टाङ्गयोगमार्गेण मनसा भावयन्हरिं ॥ ३५.३०२ ॥
ध्यानम् आवाहनम् कृत्वा सर्वान् कामान् अवाप्नुयाथ् । अष्टाङ्ग-योग-मार्गेण मनसा भावयन् हरिम् ॥ ३५।३०२ ॥
dhyānam āvāhanam kṛtvā sarvān kāmān avāpnuyāth . aṣṭāṅga-yoga-mārgeṇa manasā bhāvayan harim .. 35.302 ..
संचिन्त्य मनसा पूर्वं पूतकायो महामनाः । यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवं ॥ ३५.३०३ ॥
संचिन्त्य मनसा पूर्वम् पूत-कायः महा-मनाः । यः कुर्यात् पूजनम् विष्णोः तत्र देवः वसेत् ध्रुवम् ॥ ३५।३०३ ॥
saṃcintya manasā pūrvam pūta-kāyaḥ mahā-manāḥ . yaḥ kuryāt pūjanam viṣṇoḥ tatra devaḥ vaset dhruvam .. 35.303 ..
अर्चकस्य तपोयोगात्पूजाया श्चातिशायनाथ् । आभिरूप्याच्च बिंबस्य सन्निधेः प्रोच्यते हरेः ॥ ३५.३०४ ॥
अर्चकस्य तपः-योगात् पूजायाः च अतिशायनात् । आभिरूप्यात् च बिंबस्य सन्निधेः प्रोच्यते हरेः ॥ ३५।३०४ ॥
arcakasya tapaḥ-yogāt pūjāyāḥ ca atiśāyanāt . ābhirūpyāt ca biṃbasya sannidheḥ procyate hareḥ .. 35.304 ..
आसनं हरये दत्वा प्रतिष्ठां लभते चिरं । स्वागतेनानुमानेन यः पूजयति माधवं ॥ ३५.३०५ ॥
आसनम् हरये द-त्वा प्रतिष्ठाम् लभते चिरम् । स्वागतेन अनुमानेन यः पूजयति माधवम् ॥ ३५।३०५ ॥
āsanam haraye da-tvā pratiṣṭhām labhate ciram . svāgatena anumānena yaḥ pūjayati mādhavam .. 35.305 ..
सर्वैरनुमतो भूत्वा स्वागतं सोऽभिपद्यते । पाद्यमाचमनीयं च समर्प्य हरये नरः ॥ ३५.३०६ ॥
सर्वैः अनुमतः भूत्वा स्वागतम् सः अभिपद्यते । पाद्यम् आचमनीयम् च समर्प्य हरये नरः ॥ ३५।३०६ ॥
sarvaiḥ anumataḥ bhūtvā svāgatam saḥ abhipadyate . pādyam ācamanīyam ca samarpya haraye naraḥ .. 35.306 ..
बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते । नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेथ् ॥ ३५.३०७ ॥
बाह्यम् आभ्यन्तरम् यत् तु पापम् तेन विमुच्यते । नित्यम् पुष्पाणि पुण्यानि भक्त्या यः तु ॥ ३५।३०७ ॥
bāhyam ābhyantaram yat tu pāpam tena vimucyate . nityam puṣpāṇi puṇyāni bhaktyā yaḥ tu .. 35.307 ..
सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः । विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरं ॥ ३५.३०८ ॥
सूर्य-कोटि-निभम् दिव्यम् विमानम् अधिरुह्यसः । विष्णु-लोकम् गतः सत्यम् विष्णु-वत् मोदते चिरम् ॥ ३५।३०८ ॥
sūrya-koṭi-nibham divyam vimānam adhiruhyasaḥ . viṣṇu-lokam gataḥ satyam viṣṇu-vat modate ciram .. 35.308 ..
देवेशं पुष्पमालाद्यैरलङ्कुर्याच्च यो बुधः । तस्यानन्तफलं प्रोक्त मनन्तो भगवान्हरिः ॥ ३५.३०९ ॥
देवेशम् पुष्प-माला-आद्यैः अलङ्कुर्यात् च यः बुधः । तस्य अनन्त-फलम् प्रोक्त मनन्तः भगवान् हरिः ॥ ३५।३०९ ॥
deveśam puṣpa-mālā-ādyaiḥ alaṅkuryāt ca yaḥ budhaḥ . tasya ananta-phalam prokta manantaḥ bhagavān hariḥ .. 35.309 ..
चंपकाशोकपुन्नाग जातीमलयपङ्कजं । समर्प्य देवदेवाय शुभानामाश्रयो भवेथ् ॥ ३५.३१० ॥
चंपक-अशोक-पुन्नाग-जाती-मलय-पङ्कजम् । समर्प्य देवदेवाय शुभानाम् आश्रयः ॥ ३५।३१० ॥
caṃpaka-aśoka-punnāga-jātī-malaya-paṅkajam . samarpya devadevāya śubhānām āśrayaḥ .. 35.310 ..
दमनोशीरलामज्जा केतक्युत्पलमर्पयेथ् । मङ्गलं तस्य निश्छिद्रं भवेदेव न संशयः ॥ ३५.३११ ॥
दमन-उशीर-ला-मज्जा केतकी-उत्पलम् अर्पयेथ् । मङ्गलम् तस्य निश्छिद्रम् भवेत् एव न संशयः ॥ ३५।३११ ॥
damana-uśīra-lā-majjā ketakī-utpalam arpayeth . maṅgalam tasya niśchidram bhavet eva na saṃśayaḥ .. 35.311 ..
तुलसीमर्पयेद्विद्वान्पादयोर्भक्तितो हरेः । स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ ॥ ३५.३१२ ॥
तुलसीम् अर्पयेत् विद्वान् पादयोः भक्तितः हरेः । स च अन् न्त-फलम् प्राप्य मोदते विष्णु-सन्नेधौ ॥ ३५।३१२ ॥
tulasīm arpayet vidvān pādayoḥ bhaktitaḥ hareḥ . sa ca an nta-phalam prāpya modate viṣṇu-sannedhau .. 35.312 ..
सुगन्धिपुष्पदानेन सुगन्धिर्जायते नरः । बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः ॥ ३५.३१३ ॥
सुगन्धि-पुष्प-दानेन सुगन्धिः जायते नरः । बहु-पुष्प-प्रदानेन बहुधा तुष्यते?हरिः ॥ ३५।३१३ ॥
sugandhi-puṣpa-dānena sugandhiḥ jāyate naraḥ . bahu-puṣpa-pradānena bahudhā tuṣyate?hariḥ .. 35.313 ..
बहुजातिसुमानां च दानेन प्रीयते स वै । पादयोरर्पणाद्विष्णोः पुष्पाणां संचयं सकृथ् ॥ ३५.३१४ ॥
बहु-जाति-सुमानाम् च दानेन प्रीयते स वै । पादयोः अर्पणात् विष्णोः पुष्पाणाम् संचयम् ॥ ३५।३१४ ॥
bahu-jāti-sumānām ca dānena prīyate sa vai . pādayoḥ arpaṇāt viṣṇoḥ puṣpāṇām saṃcayam .. 35.314 ..
पदेपदे चाश्वमेधफलं प्राप्नोत्यसंशयं । तुलसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ॥ ३५.३१५ ॥
पदे पदे च अश्वमेध-फलम् प्राप्नोति असंशयम् । तुलसीम् मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ॥ ३५।३१५ ॥
pade pade ca aśvamedha-phalam prāpnoti asaṃśayam . tulasīm mūrthni devasya samarpya madhuvidviṣaḥ .. 35.315 ..
नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते । सर्वाङ्गेष्वर्पयन्पुष्पं सर्वगस्य नरो हरेः ॥ ३५.३१६ ॥
नरः पापात् विमुच्येत कर्मणा न उपलिप्यते । सर्व-अङ्गेषु अर्पयन् पुष्पम् सर्वगस्य नरः हरेः ॥ ३५।३१६ ॥
naraḥ pāpāt vimucyeta karmaṇā na upalipyate . sarva-aṅgeṣu arpayan puṣpam sarvagasya naraḥ hareḥ .. 35.316 ..
सर्वदा सर्वलोकेषु कामचोरो भविष्यति । अलङ्कृत्य फलैर्देवं पुष्पार्पणफलं लभेथ् ॥ ३५.३१७ ॥
सर्वदा सर्व-लोकेषु काम-चोरः भविष्यति । अलङ्कृत्य फलैः देवम् पुष्प-अर्पण-फलम् लभेथ् ॥ ३५।३१७ ॥
sarvadā sarva-lokeṣu kāma-coraḥ bhaviṣyati . alaṅkṛtya phalaiḥ devam puṣpa-arpaṇa-phalam labheth .. 35.317 ..
संगन्धचन्दनद्रव्यं कर्पूरादियुतं तथा । यथार्हमर्पयेदङ्गेश्लक्ष्णं सर्वाङ्गसुन्दरं ॥ ३५.३१८ ॥
संगन्ध-चन्दन-द्रव्यम् कर्पूर-आदि-युतम् तथा । यथार्हम् अर्पयेत् अङ्गेः श्लक्ष्णम् सर्व-अङ्ग-सुन्दरम् ॥ ३५।३१८ ॥
saṃgandha-candana-dravyam karpūra-ādi-yutam tathā . yathārham arpayet aṅgeḥ ślakṣṇam sarva-aṅga-sundaram .. 35.318 ..
स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभं । स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवं ॥ ३५.३१९ ॥
स नरः विष्णु-सालोक्यम् प्रयाति अमर-दुर्लभम् । स्वयम् एव आहृतैः पुष्पैः पूजयेत् यः तु माधवम् ॥ ३५।३१९ ॥
sa naraḥ viṣṇu-sālokyam prayāti amara-durlabham . svayam eva āhṛtaiḥ puṣpaiḥ pūjayet yaḥ tu mādhavam .. 35.319 ..
स सर्वान्समवाप्नोति पुष्पार्पणफलादिकान् । सर्वेषामपि पुष्पाणां तुलसी प्रीतिदा हरेः ॥ ३५.३२० ॥
स सर्वान् समवाप्नोति पुष्प-अर्पण-फल-आदिकान् । सर्वेषाम् अपि पुष्पाणाम् तुलसी प्रीति-दा हरेः ॥ ३५।३२० ॥
sa sarvān samavāpnoti puṣpa-arpaṇa-phala-ādikān . sarveṣām api puṣpāṇām tulasī prīti-dā hareḥ .. 35.320 ..
तुलसीदलमादाय यत्र गच्छति पूजकः । अनुगच्छति तं देवो यथा गोर्वत्सला भृशं ॥ ३५.३२१ ॥
तुलसी-दलम् आदाय यत्र गच्छति पूजकः । अनुगच्छति तम् देवः यथा गोः वत्सला भृशम् ॥ ३५।३२१ ॥
tulasī-dalam ādāya yatra gacchati pūjakaḥ . anugacchati tam devaḥ yathā goḥ vatsalā bhṛśam .. 35.321 ..
प्रत्यहं पूजयेद्यस्तु तुलस्या गरुडध्वजं । जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयाथ् ॥ ३५.३२२ ॥
प्रत्यहम् पूजयेत् यः तु तुलस्या गरुडध्वजम् । जन्म-मृत्यु-जरा-व्याधि-मुक्तः मुक्तिम् अवाप्नुयाथ् ॥ ३५।३२२ ॥
pratyaham pūjayet yaḥ tu tulasyā garuḍadhvajam . janma-mṛtyu-jarā-vyādhi-muktaḥ muktim avāpnuyāth .. 35.322 ..
मणिकाञ्चनपुष्पाणि मुक्तावैदूर्यकानि च । तुलसीदलदानस्य कलां नार्ऽहन्ति षोडशीं ॥ ३५.३२३ ॥
मणि-काञ्चन-पुष्पाणि मुक्ता-वैदूर्यकानि च । तुलसी-दल-दानस्य कलाम् न अर्ऽहन्ति षोडशीम् ॥ ३५।३२३ ॥
maṇi-kāñcana-puṣpāṇi muktā-vaidūryakāni ca . tulasī-dala-dānasya kalām na ar'hanti ṣoḍaśīm .. 35.323 ..
सुमञ्जरीदलैर्युक्तैः कोमलैस्तुलसीदलैः । ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे ॥ ३५.३२४ ॥
सुमञ्जरी-दलैः युक्तैः कोमलैः तुलसी-दलैः । ये कुर्वन्ति हरेः पूजाम् ते कृतार्थाः कलौ युगे ॥ ३५।३२४ ॥
sumañjarī-dalaiḥ yuktaiḥ komalaiḥ tulasī-dalaiḥ . ye kurvanti hareḥ pūjām te kṛtārthāḥ kalau yuge .. 35.324 ..
शुष्कं पर्युषितं वार्ऽद्रं काष्ठं वा तुलसीदलं । अर्चने वासुदेवस्य लक्षकोटिगुणं भवेथ् ॥ ३५.३२५ ॥
शुष्कम् पर्युषितम् काष्ठम् वा तुलसी-दलम् । अर्चने वासुदेवस्य लक्ष-कोटि-गुणम् ॥ ३५।३२५ ॥
śuṣkam paryuṣitam kāṣṭham vā tulasī-dalam . arcane vāsudevasya lakṣa-koṭi-guṇam .. 35.325 ..
तुलसीग्रहणं शस्तं विष्णोरर्चनहेतवे । वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुलसीदलं ॥ ३५.३२६ ॥
तुलसी-ग्रहणम् शस्तम् विष्णोः अर्चन-हेतवे । वर्ज्यम् पर्युषितम् पुष्पम् न वर्ज्यम् तुलसी-दलम् ॥ ३५।३२६ ॥
tulasī-grahaṇam śastam viṣṇoḥ arcana-hetave . varjyam paryuṣitam puṣpam na varjyam tulasī-dalam .. 35.326 ..
वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलं । अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकं ॥ ३५.३२७ ॥
वर्ज्यम् पर्युषितम् तोयम् न वर्ज्यम् जाह्नवी-जलम् । अन्यत् पर्युषितम् वर्ज्यम् न वर्ज्यम् पद्म-पुष्पकम् ॥ ३५।३२७ ॥
varjyam paryuṣitam toyam na varjyam jāhnavī-jalam . anyat paryuṣitam varjyam na varjyam padma-puṣpakam .. 35.327 ..
शुष्कैः पर्युषितैर्वापि काष्ठमूलमृदादिभिः । अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः ॥ ३५.३२८ ॥
शुष्कैः पर्युषितैः वा अपि काष्ठ-मूल-मृद्-आदिभिः । अर्चनात् वासुदेवस्य मुक्तः भवति पूरुषः ॥ ३५।३२८ ॥
śuṣkaiḥ paryuṣitaiḥ vā api kāṣṭha-mūla-mṛd-ādibhiḥ . arcanāt vāsudevasya muktaḥ bhavati pūruṣaḥ .. 35.328 ..
पुष्कराद्यानि तीर्थानि गङ्गाद्यास्सरितस्तथा । देवा दिविस्थिता ये वैतिष्ठन्ति तुलसीदले ॥ ३५.३२९ ॥
पुष्कर-आद्यानि तीर्थानि गङ्गा-आद्याः सरितः तथा । देवाः दिवि स्थिताः ये वा एतिष्ठन्ति तुलसी-दले ॥ ३५।३२९ ॥
puṣkara-ādyāni tīrthāni gaṅgā-ādyāḥ saritaḥ tathā . devāḥ divi sthitāḥ ye vā etiṣṭhanti tulasī-dale .. 35.329 ..
तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः । यावन्न प्राप्यते पुण्या तुलसी विष्णुवल्लभा ॥ ३५.३३० ॥
तावत् गर्जन्ति पुष्पाणि मालती-आदीनि गर्वतः । यावत् न प्राप्यते पुण्या तुलसी विष्णु-वल्लभा ॥ ३५।३३० ॥
tāvat garjanti puṣpāṇi mālatī-ādīni garvataḥ . yāvat na prāpyate puṇyā tulasī viṣṇu-vallabhā .. 35.330 ..
सकृदभ्यर्च्य गोविन्दं तुलस्या चैव मानवः । मुक्तिभागी निरातङ्कं कृष्णस्यानुचरो भवेथ् ॥ ३५.३३१ ॥
सकृत् अभ्यर्च्य गोविन्दम् तुलस्या च एव मानवः । मुक्ति-भागी निरातङ्कम् कृष्णस्य अनुचरः ॥ ३५।३३१ ॥
sakṛt abhyarcya govindam tulasyā ca eva mānavaḥ . mukti-bhāgī nirātaṅkam kṛṣṇasya anucaraḥ .. 35.331 ..
नाक्षतैरर्चयेद्विष्णुं न शंभुं शङ्खवारिणा । नार्चयेद्दूर्वया दुर्गां न तुलस्या सुरान्तरं ॥ ३५.३३२ ॥
न अक्षतैः अर्चयेत् विष्णुम् न शंभुम् शङ्ख-वारिणा । न अर्चयेत् दूर्वया दुर्गाम् न तुलस्या सुर-अन्तरम् ॥ ३५।३३२ ॥
na akṣataiḥ arcayet viṣṇum na śaṃbhum śaṅkha-vāriṇā . na arcayet dūrvayā durgām na tulasyā sura-antaram .. 35.332 ..
दलालाभे तुलस्यास्तु पत्रैराराधयेद्धरिं । पत्रालाभे शिफाभिर्वा शिफाभावे शिफालवैः ॥ ३५.३३३ ॥
दल-अलाभे तुलस्याः तु पत्रैः आराधयेत् हरिम् । पत्र-अलाभे शिफाभिः वा शिफा-अभावे शिफा-लवैः ॥ ३५।३३३ ॥
dala-alābhe tulasyāḥ tu patraiḥ ārādhayet harim . patra-alābhe śiphābhiḥ vā śiphā-abhāve śiphā-lavaiḥ .. 35.333 ..
लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिं । हरेरभ्यर्चनायां च तुलसी साधनं परं ॥ ३५.३३४ ॥
लव-अलाभे मृदा तत्र भक्तिमान् अर्चयेत् हरिम् । हरेः अभ्यर्चनायाम् च तुलसी साधनम् परम् ॥ ३५।३३४ ॥
lava-alābhe mṛdā tatra bhaktimān arcayet harim . hareḥ abhyarcanāyām ca tulasī sādhanam param .. 35.334 ..
अलाभे तुलसी च तन्नामग्रहणं परं । भगवानरविन्दाक्षस्सन्तुष्यति सहस्रधा ॥ ३५.३३५ ॥
अलाभे तुलसी च तद्-नाम-ग्रहणम् परम् । भगवान् अरविन्द-अक्षः सन्तुष्यति सहस्रधा ॥ ३५।३३५ ॥
alābhe tulasī ca tad-nāma-grahaṇam param . bhagavān aravinda-akṣaḥ santuṣyati sahasradhā .. 35.335 ..
न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि । तथा तुष्यति गोविन्दो यथैन तुलसीदलैः ॥ ३५.३३६ ॥
न पद्मैः ना अपि कल्हारैः न हेम-कुसुमैः अपि । तथा तुष्यति गोविन्दः तुलसी-दलैः ॥ ३५।३३६ ॥
na padmaiḥ nā api kalhāraiḥ na hema-kusumaiḥ api . tathā tuṣyati govindaḥ tulasī-dalaiḥ .. 35.336 ..
संगृह्य तुलसीं भक्त्या सर्वानिष्ट । तुलस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि ॥ ३५.३३७ ॥
संगृह्य तुलसीम् भक्त्या सर्वान् इष्ट । तुलस्या एव हरेः पूजाम् ये कुर्वन्ति सदा भुवि ॥ ३५।३३७ ॥
saṃgṛhya tulasīm bhaktyā sarvān iṣṭa . tulasyā eva hareḥ pūjām ye kurvanti sadā bhuvi .. 35.337 ..
तस्मात्तुलस्या सदृशं स च भूतं न भावि च । तुलसीकाननामोदवापिता यत्र मारुताः ॥ ३५.३३८ ॥
तस्मात् तुलस्या सदृशम् स च भूतम् न भावि च । तुलसी-कानन-आमोद-वापिताः यत्र मारुताः ॥ ३५।३३८ ॥
tasmāt tulasyā sadṛśam sa ca bhūtam na bhāvi ca . tulasī-kānana-āmoda-vāpitāḥ yatra mārutāḥ .. 35.338 ..
न तत्र धरणीभागे चरन्ति यमकिङ्कराः । तुलसी तुलसीऽऽत्येवं नामान्यावर्तयन्तिये ॥ ३५.३३९ ॥
न तत्र धरणी-भागे चरन्ति यम-किङ्कराः । तुलसी तुलसी इति एवम् नामानि आवर्तयन्ति ये ॥ ३५।३३९ ॥
na tatra dharaṇī-bhāge caranti yama-kiṅkarāḥ . tulasī tulasī iti evam nāmāni āvartayanti ye .. 35.339 ..
ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनं । दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि ॥ ३५.३४० ॥
ते विष्णु-लोकम् आसाद्य पश्यन्ति मधुसूदनम् । दर्शनात् श्रवणात् स्वर्शात् स्मरणात् कीर्तनात् अपि ॥ ३५।३४० ॥
te viṣṇu-lokam āsādya paśyanti madhusūdanam . darśanāt śravaṇāt svarśāt smaraṇāt kīrtanāt api .. 35.340 ..
पुनाति तुलसी पुण्या दशपूर्वान्दशावरान् । तुलसीकाननं यत्र यत्र वा हरिकीर्तनं ॥ ३५.३४१ ॥
पुनाति तुलसी पुण्या दश-पूर्वान् दश अवरान् । तुलसी-काननम् यत्र यत्र वा हरि-कीर्तनम् ॥ ३५।३४१ ॥
punāti tulasī puṇyā daśa-pūrvān daśa avarān . tulasī-kānanam yatra yatra vā hari-kīrtanam .. 35.341 ..
तत्रैवास्ते हरिश्श्रीमान्शङ्खचक्रगदायुधः । यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः ॥ ३५.३४२ ॥
तत्र एव आस्ते हरिः श्रीमान् शङ्ख-चक्र-गदा-आयुधः । यः पूजयेत् फलैः विष्णुम् नु पक्वैः अमृत-उपमैः ॥ ३५।३४२ ॥
tatra eva āste hariḥ śrīmān śaṅkha-cakra-gadā-āyudhaḥ . yaḥ pūjayet phalaiḥ viṣṇum nu pakvaiḥ amṛta-upamaiḥ .. 35.342 ..
पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते । चन्दनागुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः ॥ ३५.३४३ ॥
पुण्य-वृक्ष-समुद्भूतैः तद्-फलम् केन वर्ण्यते । चन्दन-अगुरु-कोष्ठु-आद्यैः भूपम् आघ्रापयेत् चयः ॥ ३५।३४३ ॥
puṇya-vṛkṣa-samudbhūtaiḥ tad-phalam kena varṇyate . candana-aguru-koṣṭhu-ādyaiḥ bhūpam āghrāpayet cayaḥ .. 35.343 ..
सूर्यलोकं स गत्वैव याति विष्णोः परं पदं । घृतेन कापिलेनैव दृढवर्तियुतं तु यः ॥ ३५.३४४ ॥
सूर्य-लोकम् स गत्वा एव याति विष्णोः परम् पदम् । घृतेन कापिलेन एव दृढ-वर्ति-युतम् तु यः ॥ ३५।३४४ ॥
sūrya-lokam sa gatvā eva yāti viṣṇoḥ param padam . ghṛtena kāpilena eva dṛḍha-varti-yutam tu yaḥ .. 35.344 ..
दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरं । सोऽन्धं नैव प्रविशति नरकं नरपुङ्गवः ॥ ३५.३४५ ॥
दर्शयेत् देवदेवस्य दीपम् दृष्टि-मनोहरम् । सः अन्धम् ना एव प्रविशति नरकम् नर-पुङ्गवः ॥ ३५।३४५ ॥
darśayet devadevasya dīpam dṛṣṭi-manoharam . saḥ andham nā eva praviśati narakam nara-puṅgavaḥ .. 35.345 ..
यस्तु तैलेन संदीप्तं दर्शयेद्दीपमुज्ज्वलं । विमानमतिविद्योति यात्यारुह्य तमःपरं ॥ ३५.३४६ ॥
यः तु तैलेन संदीप्तम् दर्शयेत् दीपम् उज्ज्वलम् । विमानम् अति विद्योति याति आरुह्य तमः-परम् ॥ ३५।३४६ ॥
yaḥ tu tailena saṃdīptam darśayet dīpam ujjvalam . vimānam ati vidyoti yāti āruhya tamaḥ-param .. 35.346 ..
कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः । तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति ॥ ३५.३४७ ॥
कर्बूर-दीपम् यः भक्त्या दर्शयेत् हरये नरः । तस्य पापानि नश्यन्ति निर्लेपः स भविष्यति ॥ ३५।३४७ ॥
karbūra-dīpam yaḥ bhaktyā darśayet haraye naraḥ . tasya pāpāni naśyanti nirlepaḥ sa bhaviṣyati .. 35.347 ..
विधिनार्ऽघ्यं हरेर्दद्यादष्ठाङ्गं भक्तितो नरः । न्द्रलोकं स गत्वैव याति विष्णोः परं पदं ॥ ३५.३४८ ॥
विधिना अर्ऽघ्यम् हरेः दद्यात् अष्ठ-अङ्गम् भक्तितः नरः । न्द्र-लोकम् स गत्वा एव याति विष्णोः परम् पदम् ॥ ३५।३४८ ॥
vidhinā ar'ghyam hareḥ dadyāt aṣṭha-aṅgam bhaktitaḥ naraḥ . ndra-lokam sa gatvā eva yāti viṣṇoḥ param padam .. 35.348 ..
सुगन्धि शुभमुत्पूतं स्नानतोयं च यो ददेथ् । देवेशस्य विशेषण स भवेद्वीतकल्मषः ॥ ३५.३४९ ॥
सुगन्धि शुभम् उत्पूतम् स्नान-तोयम् च यः ददेथ् । देवेशस्य स भवेत् वीत-कल्मषः ॥ ३५।३४९ ॥
sugandhi śubham utpūtam snāna-toyam ca yaḥ dadeth . deveśasya sa bhavet vīta-kalmaṣaḥ .. 35.349 ..
ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते । प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च ॥ ३५.३५० ॥
ततस् च वारुणम् लोकम् प्राप्य तत्र एव मोदते । प्लोत-वस्त्र-उत्तरीयाणि विशुद्धानि मृदूनि च ॥ ३५।३५० ॥
tatas ca vāruṇam lokam prāpya tatra eva modate . plota-vastra-uttarīyāṇi viśuddhāni mṛdūni ca .. 35.350 ..
देवदेवस्य दत्वा तु स्ॐयं लोकमवाप्नुयाथ् । कार्पासमथ च क्ष्ॐअं कौशेयं राङ्कवं तथा ॥ ३५.३५१ ॥
देवदेवस्य द-त्वा तु सः ओंयम् लोकम् अवाप्नुयाथ् । कार्पासम् अथ च क्षोंअम् कौशेयम् राङ्कवम् तथा ॥ ३५।३५१ ॥
devadevasya da-tvā tu saḥ oṃyam lokam avāpnuyāth . kārpāsam atha ca kṣoṃam kauśeyam rāṅkavam tathā .. 35.351 ..
यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते । कार्पासाद्राङ्गवं तस्मात्कौ शेयं क्ष्ॐअमित्यपि ॥ ३५.३५२ ॥
यथाशक्ति समर्प्य एव फलम् च अनन्तम् अश्नुते । कार्पासात् राङ्गवम् तस्मात् कौ शेयम् क्षोंअम् इति अपि ॥ ३५।३५२ ॥
yathāśakti samarpya eva phalam ca anantam aśnute . kārpāsāt rāṅgavam tasmāt kau śeyam kṣoṃam iti api .. 35.352 ..
प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः । सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा ॥ ३५.३५३ ॥
प्रशस्तम् कथितम् वस्त्रम् यथा शक्ति-अनुरूपतः । सौवर्ण-आभरणानि अत्र मुक्ता-मणि-कृतानि वा ॥ ३५।३५३ ॥
praśastam kathitam vastram yathā śakti-anurūpataḥ . sauvarṇa-ābharaṇāni atra muktā-maṇi-kṛtāni vā .. 35.353 ..
अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि । जांबूनदं शातकुंभं हाटकं वैणवं तथा ॥ ३५.३५४ ॥
अर्पयेत् देवदेवस्य भवेत् भूमिपतिः स हि । जांबूनदम् शातकुंभम् हाटकम् वैणवम् तथा ॥ ३५।३५४ ॥
arpayet devadevasya bhavet bhūmipatiḥ sa hi . jāṃbūnadam śātakuṃbham hāṭakam vaiṇavam tathā .. 35.354 ..
श्रुङ्गी च शुक्तिजं चैव जातरूपमतः परं । रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि ॥ ३५.३५५ ॥
श्रुङ्गी च शुक्तिजम् च एव जातरूपम् अतस् परम् । रस-विद्धम् तथा प्रोक्तम् आकर-उद्गतम् इति अपि ॥ ३५।३५५ ॥
śruṅgī ca śuktijam ca eva jātarūpam atas param . rasa-viddham tathā proktam ākara-udgatam iti api .. 35.355 ..
प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परं । प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः ॥ ३५.३५६ ॥
प्रोक्तम् बहुविधम् हेम पूर्वात् पूर्वात् परम् परम् । प्रत्युप्तानि विशेषेण रत्नैः नावाविधैः हरेः ॥ ३५।३५६ ॥
proktam bahuvidham hema pūrvāt pūrvāt param param . pratyuptāni viśeṣeṇa ratnaiḥ nāvāvidhaiḥ hareḥ .. 35.356 ..
भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः । राजश्रियं च भुक्त्वा न्ते विष्णुलोकं स गच्छति ॥ ३५.३५७ ॥
भूषणानि अर्पयेत् भक्त्या मित्राणि अस्य नव-ग्रहाः । राज-श्रियम् च भुक्त्वा न्ते विष्णु-लोकम् स गच्छति ॥ ३५।३५७ ॥
bhūṣaṇāni arpayet bhaktyā mitrāṇi asya nava-grahāḥ . rāja-śriyam ca bhuktvā nte viṣṇu-lokam sa gacchati .. 35.357 ..
उपवीतं तु यो दद्यात्सौवर्णैस्तन्तुभिः कृतां । द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयाथ् ॥ ३५.३५८ ॥
उपवीतम् तु यः दद्यात् सौवर्णैः तन्तुभिः कृताम् । द्विजोत्तमः स्यात् विज्ञानी ब्रह्म-लोकम् अवाप्नुयाथ् ॥ ३५।३५८ ॥
upavītam tu yaḥ dadyāt sauvarṇaiḥ tantubhiḥ kṛtām . dvijottamaḥ syāt vijñānī brahma-lokam avāpnuyāth .. 35.358 ..
सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः । अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिं ॥ ३५.३५९ ॥
सालग्रामैः च बहुभिः निर्मिताम् मालिकाम् तु यः । अर्पयेत् देवदेवस्य स विष्णोः याति सन्निधिम् ॥ ३५।३५९ ॥
sālagrāmaiḥ ca bahubhiḥ nirmitām mālikām tu yaḥ . arpayet devadevasya sa viṣṇoḥ yāti sannidhim .. 35.359 ..
लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्यानपायिनी । स्वसंकाल्पानुविद्धा च शक्तिस्सर्वात्मिका परा ॥ ३५.३६० ॥
लक्ष्मीः प्रियतमा विष्णोः सा हि नित्य-अनपायिनी । च शक्तिः सर्व-आत्मिका परा ॥ ३५।३६० ॥
lakṣmīḥ priyatamā viṣṇoḥ sā hi nitya-anapāyinī . ca śaktiḥ sarva-ātmikā parā .. 35.360 ..
प्रकृतेर्मूलभूता च स्वामिनी जगतां सतां । लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना ॥ ३५.३६१ ॥
प्रकृतेः मूल-भूता च स्वामिनी जगताम् सताम् । लक्ष्मी-प्रतिकृतिम् कृत्वा मणि-मुक्ता-आदिभिः मुना ॥ ३५।३६१ ॥
prakṛteḥ mūla-bhūtā ca svāminī jagatām satām . lakṣmī-pratikṛtim kṛtvā maṇi-muktā-ādibhiḥ munā .. 35.361 ..
आबध्य मालिकायां यो देवेशाय समर्पयेथ् । तस्य प्रसन्नौ जायेते दंपती जगतः पती ॥ ३५.३६२ ॥
आबध्य मालिकायाम् यः देवेशाय । तस्य प्रसन्नौ जायेते दंपती जगतः पती ॥ ३५।३६२ ॥
ābadhya mālikāyām yaḥ deveśāya . tasya prasannau jāyete daṃpatī jagataḥ patī .. 35.362 ..
मात्रां च देवदेस्य दत्वा हस्ते विशेषतः । सर्वान्कामानवाप्नोति चरांशस्तर्पितो हरेः ॥ ३५.३६३ ॥
मात्राम् च देवदेस्य द-त्वा हस्ते विशेषतः । सर्वान् कामान् अवाप्नोति चर-अंशः तर्पितः हरेः ॥ ३५।३६३ ॥
mātrām ca devadesya da-tvā haste viśeṣataḥ . sarvān kāmān avāpnoti cara-aṃśaḥ tarpitaḥ hareḥ .. 35.363 ..
मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः । विरजांऽ बरसंवीतश्शशाङ्कधवलो मुदा ॥ ३५.३६४ ॥
मधुपर्कम् हरेः दद्यात् भक्त्या प्रीति-करम् हरेः । विरजाम् बर-संवीतः शशाङ्क-धवलः मुदा ॥ ३५।३६४ ॥
madhuparkam hareḥ dadyāt bhaktyā prīti-karam hareḥ . virajām bara-saṃvītaḥ śaśāṅka-dhavalaḥ mudā .. 35.364 ..
चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महथ् । हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते ॥ ३५.३६५ ॥
चन्द्र-लोक-अधिपः भूत्वा यायात् विष्णु-पदम् । हविः नि वेद्य देवस्य प्रतिष्ठा-फलम् अश्नुते ॥ ३५।३६५ ॥
candra-loka-adhipaḥ bhūtvā yāyāt viṣṇu-padam . haviḥ ni vedya devasya pratiṣṭhā-phalam aśnute .. 35.365 ..
प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा । पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः ॥ ३५.३६६ ॥
प्रभूतम् विनिवेद्य एव जीर्ण-उद्धार-फलम् तथा । पायसम् विनिदेद्य एव हरेः भक्त्या विशेषतः ॥ ३५।३६६ ॥
prabhūtam vinivedya eva jīrṇa-uddhāra-phalam tathā . pāyasam vinidedya eva hareḥ bhaktyā viśeṣataḥ .. 35.366 ..
पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु । कृसरं विनिवेद्यैव देवस्य मुदितो नरः ॥ ३५.३६७ ॥
पयः-ह्रदैः च पितरः तृप्तिम् आयान्ति तस्य तु । कृसरम् विनिवेद्य एव देवस्य मुदितः नरः ॥ ३५।३६७ ॥
payaḥ-hradaiḥ ca pitaraḥ tṛptim āyānti tasya tu . kṛsaram vinivedya eva devasya muditaḥ naraḥ .. 35.367 ..
अक्षयं प्रतिपद्येत स्वगृहेऽन्नं चिरं चिरं । गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ॥ ३५.३६८ ॥
अक्षयम् प्रतिपद्येत स्व-गृहे अन्नम् चिरम् चिरम् । गौल्यम् निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ॥ ३५।३६८ ॥
akṣayam pratipadyeta sva-gṛhe annam ciram ciram . gaulyam nivedya devasya prāpnoti guḍaparvatān .. 35.368 ..
मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयाथ् । यवोदनस्य दोनेन नीरोगो भवति ध्रुवं ॥ ३५.३६९ ॥
मुद्ग-अन्नस्य प्रदानेन मुद्ग-राशिम् समाप्नुयाथ् । यवोदनस्य दोनेन नीरोगः भवति ध्रुवम् ॥ ३५।३६९ ॥
mudga-annasya pradānena mudga-rāśim samāpnuyāth . yavodanasya donena nīrogaḥ bhavati dhruvam .. 35.369 ..
शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा । अपूपादिप्रदानेन मनस्वी जायते नरः ॥ ३५.३७० ॥
शुद्ध-अन्नस्य प्रदानेन त्रि-शुद्धा भवति प्रजा । अपूप-आदि-प्रदानेन मनस्वी जायते नरः ॥ ३५।३७० ॥
śuddha-annasya pradānena tri-śuddhā bhavati prajā . apūpa-ādi-pradānena manasvī jāyate naraḥ .. 35.370 ..
उपदंशादिदानेन नोपदंशो भविष्यति? । सुगन्धि स्वादु शुद्धं च पानीयं यो हरेर्ददेथ् ॥ ३५.३७१ ॥
उपदंश-आदि-दानेन न उपदंशः भविष्यति? । सुगन्धि स्वादु शुद्धम् च पानीयम् यः हरेः ददेथ् ॥ ३५।३७१ ॥
upadaṃśa-ādi-dānena na upadaṃśaḥ bhaviṣyati? . sugandhi svādu śuddham ca pānīyam yaḥ hareḥ dadeth .. 35.371 ..
हविर्दानफलस्यार्धं फलं सम्यक्समश्नुते । कदल्या नारिकेलस्य चूतस्य पनसस्य च ॥ ३५.३७२ ॥
हविः-दान-फलस्य अर्धम् फलम् सम्यक् समश्नुते । कदल्याः नारिकेलस्य चूतस्य पनसस्य च ॥ ३५।३७२ ॥
haviḥ-dāna-phalasya ardham phalam samyak samaśnute . kadalyāḥ nārikelasya cūtasya panasasya ca .. 35.372 ..
फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेथ् । हविर्दानाच्चतुर्भागं फलं सोऽपि समाप्नुयाथ् ॥ ३५.३७३ ॥
फलानि च नुपक्वानि भक्त्या शुद्धानि यः । हविः-दानात् चतुर्-भागम् फलम् सः अपि ॥ ३५।३७३ ॥
phalāni ca nupakvāni bhaktyā śuddhāni yaḥ . haviḥ-dānāt catur-bhāgam phalam saḥ api .. 35.373 ..
कर्पूरैलालवङ्गैश्च तथा जातीफलादिभिः । मातुलुङ्गफलैश्शुद्धैस्सुपक्वैश्च युतं तथा ॥ ३५.३७४ ॥
कर्पूर-एला-लवङ्गैः च तथा जातीफल-आदिभिः । मातुलुङ्ग-फलैः शुद्धैः सुपक्वैः च युतम् तथा ॥ ३५।३७४ ॥
karpūra-elā-lavaṅgaiḥ ca tathā jātīphala-ādibhiḥ . mātuluṅga-phalaiḥ śuddhaiḥ supakvaiḥ ca yutam tathā .. 35.374 ..
तांबूलं क्रमुकैर्युक्तं मुखवासं च यो ददेथ् । सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति ॥ ३५.३७५ ॥
तांबूलम् क्रमुकैः युक्तम् मुख-वासम् च यः । सर्व-ऐश्वर्यम् अवाप्नोति विष्णु-लोकम् च गच्छति ॥ ३५।३७५ ॥
tāṃbūlam kramukaiḥ yuktam mukha-vāsam ca yaḥ . sarva-aiśvaryam avāpnoti viṣṇu-lokam ca gacchati .. 35.375 ..
विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणं । बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति ॥ ३५.३७६ ॥
विधिना बलिम् आराध्य कारयेत् यः प्रदक्षिणम् । बलम् बलवताम् लब्ध्वा विष्णु-लोकम् स गच्छति ॥ ३५।३७६ ॥
vidhinā balim ārādhya kārayet yaḥ pradakṣiṇam . balam balavatām labdhvā viṣṇu-lokam sa gacchati .. 35.376 ..
बलिं सेवेत यो भक्त्या सोऽपि यज्ञफलं लभेथ् । देवस्य मण्डपं कुर्याद्गन्धपुष्पैः प्रपान्तुवा ॥ ३५.३७७ ॥
बलिम् सेवेत यः भक्त्या सः अपि यज्ञ-फलम् । देवस्य मण्डपम् कुर्यात् गन्ध-पुष्पैः ॥ ३५।३७७ ॥
balim seveta yaḥ bhaktyā saḥ api yajña-phalam . devasya maṇḍapam kuryāt gandha-puṣpaiḥ .. 35.377 ..
सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेथ् । विष्णोः कथास्तु संकीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः ॥ ३५.३७८ ॥
सर्व-ऐश्वर्यम् अवाप्य एव नित्य-पुष्प-फलम् व्रजेथ् । विष्णोः कथा अस्तु संकीर्त्य स्तोत्रैः स्तुत्वा च वैष्णवैः ॥ ३५।३७८ ॥
sarva-aiśvaryam avāpya eva nitya-puṣpa-phalam vrajeth . viṣṇoḥ kathā astu saṃkīrtya stotraiḥ stutvā ca vaiṣṇavaiḥ .. 35.378 ..
श्रुत्वाभक्त्या हरिं ध्यायन्विष्णुलोके महीयते । स्ॐयान्पुण्यानिमान्विष्णोश्चतुरोऽप्यर्चनाविधीन् ॥ ३५.३७९ ॥
श्रुत्वा अभक्त्या हरिम् ध्यायन् विष्णु-लोके महीयते । सः ओम् यान् पुण्यान् इमान् विष्णोः चतुरः अपि अर्चना-विधीन् ॥ ३५।३७९ ॥
śrutvā abhaktyā harim dhyāyan viṣṇu-loke mahīyate . saḥ om yān puṇyān imān viṣṇoḥ caturaḥ api arcanā-vidhīn .. 35.379 ..
श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि । सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ॥ ३५.३८० ॥
श्रावयेत् यः बुधः भक्त्या तथा यः श्रुणुयात् अपि । सर्व-पाप-विनिर्मुक्ताः वैष्णवम् पदम् आप्नुयुः ॥ ३५।३८० ॥
śrāvayet yaḥ budhaḥ bhaktyā tathā yaḥ śruṇuyāt api . sarva-pāpa-vinirmuktāḥ vaiṣṇavam padam āpnuyuḥ .. 35.380 ..
अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः । सकामानां फलं काम्यमकामानां परं पदं ॥ ३५.३८१ ॥
अथ उत्सव-आदि-करणे फलम् वक्ष्ये मधुद्विषः । स कामानाम् फलम् काम्यम् अकामानाम् परम् पदम् ॥ ३५।३८१ ॥
atha utsava-ādi-karaṇe phalam vakṣye madhudviṣaḥ . sa kāmānām phalam kāmyam akāmānām param padam .. 35.381 ..
उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः । उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ॥ ३५.३८२ ॥
उत्सवम् तु प्रवक्ष्यन्ति देवदेव-अर्चनाम् सुराः । उत्साहः उत्सवः प्रोक्तः मनुष्याणाम् विशेषेतर् ॥ ३५।३८२ ॥
utsavam tu pravakṣyanti devadeva-arcanām surāḥ . utsāhaḥ utsavaḥ proktaḥ manuṣyāṇām viśeṣetar .. 35.382 ..
उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः । तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ॥ ३५.३८३ ॥
उद् इति उत्कृष्ट-शब्दः अयम् सवः यज्ञः उदाहृतः । तस्मात् उत्तम-यज्ञ-त्वात् उत्सवः परिभाष्यते ॥ ३५।३८३ ॥
ud iti utkṛṣṭa-śabdaḥ ayam savaḥ yajñaḥ udāhṛtaḥ . tasmāt uttama-yajña-tvāt utsavaḥ paribhāṣyate .. 35.383 ..
वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः । उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकं ॥ ३५.३८४ ॥
वाजिमेधाः तया आगानाम् तस्मात् देव-उत्सवः वरः । उत्सवम् देवदेवस्य यः कुर्यात् स्व-कुलम् स्वकम् ॥ ३५।३८४ ॥
vājimedhāḥ tayā āgānām tasmāt deva-utsavaḥ varaḥ . utsavam devadevasya yaḥ kuryāt sva-kulam svakam .. 35.384 ..
उत्तारयन्स्वयं विष्णोस्स याति परमं पदं । सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ॥ ३५.३८५ ॥
उत्तारयन् स्वयम् विष्णोः स याति परमम् पदम् । सवात् उत्तारणम् यस्मात् उत्सवः परिकीर्त्यते ॥ ३५।३८५ ॥
uttārayan svayam viṣṇoḥ sa yāti paramam padam . savāt uttāraṇam yasmāt utsavaḥ parikīrtyate .. 35.385 ..
स यज्ञो वो नरान्युष्मानुत्तारयति निश्चयं । इति वेदा वदन्तीति स उत्सव उदीर्य ते ॥ ३५.३८६ ॥
स यज्ञः वः नरान् युष्मान् उत्तारयति निश्चयम् । इति वेदाः वदन्ति इति सः उत्सवः उदीर्य ते ॥ ३५।३८६ ॥
sa yajñaḥ vaḥ narān yuṣmān uttārayati niścayam . iti vedāḥ vadanti iti saḥ utsavaḥ udīrya te .. 35.386 ..
वाजीमेधसहस्रेण यजतो यत्फलं भवेथ् । यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतं ॥ ३५.३८७ ॥
वाजीमेध-सहस्रेण यजतः यत् फलम् । यः च उत्सवेन यजते तयोः तुल्यम् फलम् ॥ ३५।३८७ ॥
vājīmedha-sahasreṇa yajataḥ yat phalam . yaḥ ca utsavena yajate tayoḥ tulyam phalam .. 35.387 ..
यागानामपि सर्वेषां फलमुत्सवकर्मणा । देवस्याश्नुवते सर्वं ये यजन्ते संशयः ॥ ३५.३८८ ॥
यागानाम् अपि सर्वेषाम् फलम् उत्सव-कर्मणा । देवस्य अश्नुवते सर्वम् ये यजन्ते संशयः ॥ ३५।३८८ ॥
yāgānām api sarveṣām phalam utsava-karmaṇā . devasya aśnuvate sarvam ye yajante saṃśayaḥ .. 35.388 ..
सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते । उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ॥ ३५.३८९ ॥
सवान् उत्क्रमते यस्मात् तस्मात् उत्सवः उछ्यते । उपकुर्वन्ति ये मर्त्याः देवस्य उत्सव-कर्मणि ॥ ३५।३८९ ॥
savān utkramate yasmāt tasmāt utsavaḥ uchyate . upakurvanti ye martyāḥ devasya utsava-karmaṇi .. 35.389 ..
कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु । ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ॥ ३५.३९० ॥
कर्माणा मनसा वाचा ते अपि यान्ति फलम् बहु । ग्रामे वा रगरे पत्तने वा महा-उत्सवः ॥ ३५।३९० ॥
karmāṇā manasā vācā te api yānti phalam bahu . grāme vā ragare pattane vā mahā-utsavaḥ .. 35.390 ..
यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ॥ ३५.३९१ ॥
यत्र प्रवर्तते विष्णोः संपदः सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा पि उत्सवः हरेः ॥ ३५।३९१ ॥
yatra pravartate viṣṇoḥ saṃpadaḥ santi tatra vai . yatra deśe janapade rāṣṭre vā pi utsavaḥ hareḥ .. 35.391 ..
नापमृत्युभयं तत्र नैनावग्रहसंभवः । नैव चोराद्युपहतिर्न तापत्रयसंगतिः ॥ ३५.३९२ ॥
न अपमृत्यु-भयम् तत्र । ना एव चोर-आदि-उपहतिः न ताप-त्रय-संगतिः ॥ ३५।३९२ ॥
na apamṛtyu-bhayam tatra . nā eva cora-ādi-upahatiḥ na tāpa-traya-saṃgatiḥ .. 35.392 ..
धर्मश्चतुष्पाद्वर्तेत कलौ तत्रादिमो युगः । धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः ॥ ३५.३९३ ॥
धर्मः चतुष्पाद् वर्तेत कलौ तत्र आदिमः युगः । धार्मिकः च भवेत् राजा प्रजाः धर्म-परायणाः ॥ ३५।३९३ ॥
dharmaḥ catuṣpād varteta kalau tatra ādimaḥ yugaḥ . dhārmikaḥ ca bhavet rājā prajāḥ dharma-parāyaṇāḥ .. 35.393 ..
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः । महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते ॥ ३५.३९४ ॥
भवन्ति सुखिनः सर्वे सर्व-दुःख-विवर्जिताः । महा-उत्सवे वर्तमाने यत् अर्थिभ्यः प्रदीयते ॥ ३५।३९४ ॥
bhavanti sukhinaḥ sarve sarva-duḥkha-vivarjitāḥ . mahā-utsave vartamāne yat arthibhyaḥ pradīyate .. 35.394 ..
पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेथ् । पुष्पमुलफलैरिज्या देवस्याभरणादिकैः ॥ ३५.३९५ ॥
पानीयम् अन्नम् वस्त्रम् वा तत् सहस्रगुणम् । पुष्प-मुल-फलैः इज्या देवस्य आभरण-आदिकैः ॥ ३५।३९५ ॥
pānīyam annam vastram vā tat sahasraguṇam . puṣpa-mula-phalaiḥ ijyā devasya ābharaṇa-ādikaiḥ .. 35.395 ..
क्रियमाणा यथाशक्ति नित्यानन्त्याय कल्पते । सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः ॥ ३५.३९६ ॥
क्रियमाणा यथाशक्ति नित्य-आनन्त्याय कल्पते । सेवन्ते तत्र ये देवम् अहर्निशम् अतन्द्रिताः ॥ ३५।३९६ ॥
kriyamāṇā yathāśakti nitya-ānantyāya kalpate . sevante tatra ye devam aharniśam atandritāḥ .. 35.396 ..
तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः । आलेपनं मार्जनं च रजः प्रशमनं तथा ॥ ३५.३९७ ॥
तेषाम् पुण्य-फलम् वक्तुम् न अलम् देवाः सह असुराः । आलेपनम् मार्जनम् च रजः प्रशमनम् तथा ॥ ३५।३९७ ॥
teṣām puṇya-phalam vaktum na alam devāḥ saha asurāḥ . ālepanam mārjanam ca rajaḥ praśamanam tathā .. 35.397 ..
वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकं । कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभं ॥ ३५.३९८ ॥
वारि-भीः दीपिका-आरोपम् क्ष्वेलन-आस्फोटन-आदिकम् । कुर्वन्ति ये ब्राह्म-लोकम् प्रयान्ति अमर-दुर्लभम् ॥ ३५।३९८ ॥
vāri-bhīḥ dīpikā-āropam kṣvelana-āsphoṭana-ādikam . kurvanti ye brāhma-lokam prayānti amara-durlabham .. 35.398 ..
यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदं । रथं वहन्ति ये चाश्वास्तेऽपि यान्तिसुरालयं ॥ ३५.३९९ ॥
यानम् वहन्ति ये विप्राः ते यान्ति ब्रह्मणः पदम् । रथम् वहन्ति ये च अश्वाः ते अपि यान्ति सुरालयम् ॥ ३५।३९९ ॥
yānam vahanti ye viprāḥ te yānti brahmaṇaḥ padam . ratham vahanti ye ca aśvāḥ te api yānti surālayam .. 35.399 ..
छत्रादिधारिणश्चापि मोदन्ते दिवि मानवाः । आचार्याश्चार्चकाश्चैव तथैव परिचारकाः ॥ ३५.४०० ॥
छत्र-आदि-धारिणः च अपि मोदन्ते दिवि मानवाः । आचार्याः च अर्चकाः च एव तथा एव परिचारकाः ॥ ३५।४०० ॥
chatra-ādi-dhāriṇaḥ ca api modante divi mānavāḥ . ācāryāḥ ca arcakāḥ ca eva tathā eva paricārakāḥ .. 35.400 ..
उत्सवेऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितं । ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ॥ ३५.४०१ ॥
उत्सवे अधिकृताः विष्णोः प्राप्नुवन्ति यथा ईप्सितम् । ऋचः यजूंषि सामानि ये तत्र अधीयते जनाः ॥ ३५।४०१ ॥
utsave adhikṛtāḥ viṣṇoḥ prāpnuvanti yathā īpsitam . ṛcaḥ yajūṃṣi sāmāni ye tatra adhīyate janāḥ .. 35.401 ..
ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः । सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमं ॥ ३५.४०२ ॥
ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः । सर्व-शान्ति-करम् सर्व-दुःख-उत्सादनम् उत्तमम् ॥ ३५।४०२ ॥
te pare vyomni devasya pārśve vartanti nisspṛhāḥ . sarva-śānti-karam sarva-duḥkha-utsādanam uttamam .. 35.402 ..
राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनं । प्रजानां वासुदेवस्य कल्याणाराधनं महथ् ॥ ३५.४०३ ॥
राज्ञः राष्ट्रस्य सुख-दम् आयुः आरोग्य-वर्धनम् । प्रजानाम् वासुदेवस्य कल्याण-आराधनम् ॥ ३५।४०३ ॥
rājñaḥ rāṣṭrasya sukha-dam āyuḥ ārogya-vardhanam . prajānām vāsudevasya kalyāṇa-ārādhanam .. 35.403 ..
इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमं । कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभं ॥ ३५.४०४ ॥
इमम् देव-आदयः सर्वे विष्णोः उत्सवम् उत्तमम् । कृत्वा शाश्वतिकम् स्थानम् प्राप्नुवन्ति अति दुर्लभम् ॥ ३५।४०४ ॥
imam deva-ādayaḥ sarve viṣṇoḥ utsavam uttamam . kṛtvā śāśvatikam sthānam prāpnuvanti ati durlabham .. 35.404 ..
अथ वक्ष्ये विशेषेण महास्नपनजं फलं । येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः ॥ ३५.४०५ ॥
अथ वक्ष्ये विशेषेण महास्नपन-जम् फलम् । येन द्रव्येण देवेशम् स्नापयेत् यः तु भक्तितः ॥ ३५।४०५ ॥
atha vakṣye viśeṣeṇa mahāsnapana-jam phalam . yena dravyeṇa deveśam snāpayet yaḥ tu bhaktitaḥ .. 35.405 ..
तद्द्रव्यं वर्थते तस्य नश्यं त्येवाशुभानि तु । राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति ॥ ३५.४०६ ॥
तत् द्रव्यम् तस्य तु । राज्ञः राष्ट्रस्य तत् द्रव्यम् समृद्ध्या एव भविष्यति ॥ ३५।४०६ ॥
tat dravyam tasya tu . rājñaḥ rāṣṭrasya tat dravyam samṛddhyā eva bhaviṣyati .. 35.406 ..
अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च । निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै ॥ ३५.४०७ ॥
अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च । निर्माति यः प्रपाम् विष्णोः देवस्य न्नपनाय वै ॥ ३५।४०७ ॥
aśubhāni vinaśyanti śūbhāni prabhavanti ca . nirmāti yaḥ prapām viṣṇoḥ devasya nnapanāya vai .. 35.407 ..
तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः । मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्यान्विता भवेथ् ॥ ३५.४०८ ॥
तस्य निर्मीयते गेहः स्वर्गे स्वर्ग-निवासिभिः । मृद्भिः संस्नापनात् भूमिः सर्व-सस्य-अन्विता ॥ ३५।४०८ ॥
tasya nirmīyate gehaḥ svarge svarga-nivāsibhiḥ . mṛdbhiḥ saṃsnāpanāt bhūmiḥ sarva-sasya-anvitā .. 35.408 ..
नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते । धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते ॥ ३५.४०९ ॥
नगैः प्रदक्षिणात् एव गोत्रस्य स्थितिः आप्यते । धान्यैः संस्नापनात् विष्णोः धान्यानाम् वृद्धिः आप्यते ॥ ३५।४०९ ॥
nagaiḥ pradakṣiṇāt eva gotrasya sthitiḥ āpyate . dhānyaiḥ saṃsnāpanāt viṣṇoḥ dhānyānām vṛddhiḥ āpyate .. 35.409 ..
अङ्कुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति । मङ्गलैः पूजनात्सर्वमङ्गलानि भवन्ति वै ॥ ३५.४१० ॥
अङ्कुरैः अर्चनात् विष्णोः प्रजा-वृद्धिः भविष्यति । मङ्गलैः पूजनात् सर्व-मङ्गलानि भवन्ति वै ॥ ३५।४१० ॥
aṅkuraiḥ arcanāt viṣṇoḥ prajā-vṛddhiḥ bhaviṣyati . maṅgalaiḥ pūjanāt sarva-maṅgalāni bhavanti vai .. 35.410 ..
स्नापनात्पञ्चभिर्गव्यैः पापं सश्यति सर्वधा । घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलं ॥ ३५.४११ ॥
स्नापनात् पञ्चभिः गव्यैः पापम् सश्यति सर्वधा । घृतेन स्नापनात् भुयात् साम-अध्ययन-जम् फलम् ॥ ३५।४११ ॥
snāpanāt pañcabhiḥ gavyaiḥ pāpam saśyati sarvadhā . ghṛtena snāpanāt bhuyāt sāma-adhyayana-jam phalam .. 35.411 ..
क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियाथ् । मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः ॥ ३५.४१२ ॥
क्षीरेण स्नापयेत् विष्णुम् गाः च क्षीरवतीः इयाथ् । मधुना स्नापयेत् विष्णुम् मधु-स्यन्दि भवेत् वचः ॥ ३५।४१२ ॥
kṣīreṇa snāpayet viṣṇum gāḥ ca kṣīravatīḥ iyāth . madhunā snāpayet viṣṇum madhu-syandi bhavet vacaḥ .. 35.412 ..
दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः । गन्धोदस्नापनाद्विष्णोस्सर्वसंपद्वृतोभवेथ् ॥ ३५.४१३ ॥
दध्ना संस्नापयेत् देवम् अच्छम् तस्य भवेत् यशः । गन्ध-उद-स्नापनात् विष्णोः सर्व-संपद्-वृतः भवेथ् ॥ ३५।४१३ ॥
dadhnā saṃsnāpayet devam accham tasya bhavet yaśaḥ . gandha-uda-snāpanāt viṣṇoḥ sarva-saṃpad-vṛtaḥ bhaveth .. 35.413 ..
स्नापयेदक्षतोदैस्तु प्रजा तस्याक्षता भवेथ् । फलोदकस्नापनेन शुभानीयात्फलानि तु ॥ ३५.४१४ ॥
स्नापयेत् अक्षत-उदैः तु प्रजा तस्य अक्षता । फल-उदक-स्नापनेन शुभानि ईयात् फलानि तु ॥ ३५।४१४ ॥
snāpayet akṣata-udaiḥ tu prajā tasya akṣatā . phala-udaka-snāpanena śubhāni īyāt phalāni tu .. 35.414 ..
स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयाथ् । रत्नोदकस्नापनेन मणिरत्नादि वर्धयेथ् ॥ ३५.४१५ ॥
स्नापनात् तु कुश-उदेन ब्रह्मवर्चसम् आप्नुयाथ् । रत्न-उदक-स्नापनेन मणि-रत्न-आदि ॥ ३५।४१५ ॥
snāpanāt tu kuśa-udena brahmavarcasam āpnuyāth . ratna-udaka-snāpanena maṇi-ratna-ādi .. 35.415 ..
जप्योदकस्य स्नानेन सर्वजापफलं लभेथ् । भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवाथ् ॥ ३५.४१६ ॥
जप्य-उदकस्य स्नानेन सर्व-जाप-फलम् लभेथ् । भवन्ति ओषधयः सर्वाः सर्व-ओषधि-उदक-आप्लवाः ॥ ३५।४१६ ॥
japya-udakasya snānena sarva-jāpa-phalam labheth . bhavanti oṣadhayaḥ sarvāḥ sarva-oṣadhi-udaka-āplavāḥ .. 35.416 ..
पुण्यपुष्पार्चनेनैव पुण्यवान्जायते नरः । चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः ॥ ३५.४१७ ॥
पुण्य-पुष्प-अर्चनेन एव पुण्यवान् जायते नरः । चूर्णैः श्रीवेष्टक-आदीनि ईम् अर्पणात् वृद्धिः आयुषः ॥ ३५।४१७ ॥
puṇya-puṣpa-arcanena eva puṇyavān jāyate naraḥ . cūrṇaiḥ śrīveṣṭaka-ādīni īm arpaṇāt vṛddhiḥ āyuṣaḥ .. 35.417 ..
उद्वर्तनात्कषायेण चूर्णेनावाप्यते रुचिः । तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेथ् ॥ ३५.४१८ ॥
उद्वर्तनात् कषायेण चूर्णेन अवाप्यते रुचिः । तीर्थ-उद-स्नापनेन एव तीर्थ-यात्रा-फलम् ॥ ३५।४१८ ॥
udvartanāt kaṣāyeṇa cūrṇena avāpyate ruciḥ . tīrtha-uda-snāpanena eva tīrtha-yātrā-phalam .. 35.418 ..
वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता । हारिद्रचूर्णस्नानेन प्रीतो भवति चाच्युतः ॥ ३५.४१९ ॥
वन-ओषधीभिः संस्पर्शात् भवेत् नित्यम् अरोग-ता । हारिद्र-चूर्ण-स्नानेन प्रीतः भवति च अच्युतः ॥ ३५।४१९ ॥
vana-oṣadhībhiḥ saṃsparśāt bhavet nityam aroga-tā . hāridra-cūrṇa-snānena prītaḥ bhavati ca acyutaḥ .. 35.419 ..
मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला । मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः ॥ ३५.४२० ॥
मार्जनात् सर्व-गन्धैः च श्रीः भवति अचला चला । मार्जनात् मूल-गन्धैः च कुलम् एधेत नित्यशस् ॥ ३५।४२० ॥
mārjanāt sarva-gandhaiḥ ca śrīḥ bhavati acalā calā . mārjanāt mūla-gandhaiḥ ca kulam edheta nityaśas .. 35.420 ..
धातुभिश्चाप्यलङ्काराद्धातुवृद्धिर्भविष्यति । अन्यैरनुक्तैर्वा यस्तुद्रव्यैः स्नापनकर्मणि ॥ ३५.४२१ ॥
धातुभिः च अपि अलङ्कारात् धातु-वृद्धिः भविष्यति । अन्यैः अनुक्तैः वा यः तु द्रव्यैः स्नापन-कर्मणि ॥ ३५।४२१ ॥
dhātubhiḥ ca api alaṅkārāt dhātu-vṛddhiḥ bhaviṣyati . anyaiḥ anuktaiḥ vā yaḥ tu dravyaiḥ snāpana-karmaṇi .. 35.421 ..
उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतं । यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः ॥ ३५.४२२ ॥
उपतिष्ठेत् जगद्योनिम् फलम् प्राप्नोति विस्तृतम् । यः तु कुर्यात् जल-द्रोणीम् स्नान-पीठम् च शार्ङ्गिणः ॥ ३५।४२२ ॥
upatiṣṭhet jagadyonim phalam prāpnoti vistṛtam . yaḥ tu kuryāt jala-droṇīm snāna-pīṭham ca śārṅgiṇaḥ .. 35.422 ..
स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेथ् । एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः ॥ ३५.४२३ ॥
स सर्वैः पूज्य-यानन्तु पीठे । एवम् यः स्नपनम् विष्णोः कारयेत् शक्तितस् नरः ॥ ३५।४२३ ॥
sa sarvaiḥ pūjya-yānantu pīṭhe . evam yaḥ snapanam viṣṇoḥ kārayet śaktitas naraḥ .. 35.423 ..
यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि । अन्ते विमासमारुह्य हैमं देवैः परीवृतः ॥ ३५.४२४ ॥
यथा उक्तानि इह लब्ध्वा एव फलानि सु चिरम् भुवि । अन्ते विमासम् आरुह्य हैमम् देवैः परीवृतः ॥ ३५।४२४ ॥
yathā uktāni iha labdhvā eva phalāni su ciram bhuvi . ante vimāsam āruhya haimam devaiḥ parīvṛtaḥ .. 35.424 ..
किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः । यक्षैर्वृतोऽथ गन्धर्वैस्त्सूयामानो मुदान्वितः ॥ ३५.४२५ ॥
किन्नरैः अप्सरोभिः च नृत्तैः गेयैः च तर्पितः । यक्षैः वृतः अथ गन्धर्वैः त्सूयामानः मुदा अन्वितः ॥ ३५।४२५ ॥
kinnaraiḥ apsarobhiḥ ca nṛttaiḥ geyaiḥ ca tarpitaḥ . yakṣaiḥ vṛtaḥ atha gandharvaiḥ tsūyāmānaḥ mudā anvitaḥ .. 35.425 ..
सर्वलोकात्परं पुण्यं वैकुण्ठं लोकमाप्नुयाथ् । देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः ॥ ३५.४२६ ॥
सर्व-लोकात् परम् पुण्यम् वैकुण्ठम् लोकम् आप्नुयाथ् । देवदेवस्य विष्णोः तु स्नपनम् भक्तिमान् तु यः ॥ ३५।४२६ ॥
sarva-lokāt param puṇyam vaikuṇṭham lokam āpnuyāth . devadevasya viṣṇoḥ tu snapanam bhaktimān tu yaḥ .. 35.426 ..
सेवेत सोऽपि पाप्मभ्यो मुच्यते नात्र संशयः । स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेथ् ॥ ३५.४२७ ॥
सेवेत सः अपि पाप्मभ्यः मुच्यते न अत्र संशयः । स्नापन-अन्ते तु देवेशस्य उत्सवम् यः च ॥ ३५।४२७ ॥
seveta saḥ api pāpmabhyaḥ mucyate na atra saṃśayaḥ . snāpana-ante tu deveśasya utsavam yaḥ ca .. 35.427 ..
प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः । उत्सवं सेवतेयस्तु सोऽपि यज्ञफलं लभेथ् ॥ ३५.४२८ ॥
प्रजा-वृद्धिम् श्रियम् स्फाराम् समाप्नोति विशेषतः । उत्सवम् सेवते इयः तु सः अपि यज्ञ-फलम् ॥ ३५।४२८ ॥
prajā-vṛddhim śriyam sphārām samāpnoti viśeṣataḥ . utsavam sevate iyaḥ tu saḥ api yajña-phalam .. 35.428 ..
विष्णुपञ्चदिने यस्तु देवेशं स्नापयेत्प्रभुं । तस्य स्यान्महती संपत्पशुपुत्रादि सम्मिता ॥ ३५.४२९ ॥
विष्णुपञ्चदिने यः तु देवेशम् स्नापयेत् प्रभुम् । तस्य स्यात् महती संपद् पशु-पुत्र-आदि सम्मिता ॥ ३५।४२९ ॥
viṣṇupañcadine yaḥ tu deveśam snāpayet prabhum . tasya syāt mahatī saṃpad paśu-putra-ādi sammitā .. 35.429 ..
ग्रहणे विषुवे तद्वत्संक्रमादिषु चैवहि । अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुं ॥ ३५.४३० ॥
ग्रहणे विषुवे तद्वत् संक्रम-आदिषु च एव हि । अन्येषु अपि च पुण्येषु कार्येषु जगतः प्रभुम् ॥ ३५।४३० ॥
grahaṇe viṣuve tadvat saṃkrama-ādiṣu ca eva hi . anyeṣu api ca puṇyeṣu kāryeṣu jagataḥ prabhum .. 35.430 ..
स्नापयेद्यश्च सेवेत फलमाप्नोति सोऽपि सः । यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः ॥ ३५.४३१ ॥
स्नापयेत् यः च सेवेत फलम् आप्नोति सः अपि सः । यः कुर्यात् वैष्णवम् धाम भक्ति-श्रद्धा-समन्वितः ॥ ३५।४३१ ॥
snāpayet yaḥ ca seveta phalam āpnoti saḥ api saḥ . yaḥ kuryāt vaiṣṇavam dhāma bhakti-śraddhā-samanvitaḥ .. 35.431 ..
खण्डिते स्फटिते धाम्नि दूषिते च सूधादिभिः । समादध्यात्पुनर्धाम स लोकं याति वैष्णवं ॥ ३५.४३२ ॥
खण्डिते स्फटिते धाम्नि दूषिते च सूध-आदिभिः । समादध्यात् पुनर् धाम स लोकम् याति वैष्णवम् ॥ ३५।४३२ ॥
khaṇḍite sphaṭite dhāmni dūṣite ca sūdha-ādibhiḥ . samādadhyāt punar dhāma sa lokam yāti vaiṣṇavam .. 35.432 ..
चोरैरपहृते बिंबेयः कुर्यात्प्रतिमां पुनः । स्थापयेद्भक्ति युक्तश्च स याति परमां गतिं ॥ ३५.४३३ ॥
चोरैः अपहृते बिंबेयः कुर्यात् प्रतिमाम् पुनर् । स्थापयेत् भक्ति युक्तः च स याति परमाम् गतिम् ॥ ३५।४३३ ॥
coraiḥ apahṛte biṃbeyaḥ kuryāt pratimām punar . sthāpayet bhakti yuktaḥ ca sa yāti paramām gatim .. 35.433 ..
प्रमादात्पतिते बिंबे स्फुटते दूषितेऽथ वा । यः सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा ॥ ३५.४३४ ॥
प्रमादात् पतिते बिंबे स्फुटते दूषिते अथ वा । यः सन्धाय पुनर् कुर्यात् प्रितिष्ठाम् पूर्ववत् मुदा ॥ ३५।४३४ ॥
pramādāt patite biṃbe sphuṭate dūṣite atha vā . yaḥ sandhāya punar kuryāt pritiṣṭhām pūrvavat mudā .. 35.434 ..
तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति । शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः ॥ ३५.४३५ ॥
तस्य तष्यति देवेशः वरम् इष्टम् प्रदास्यति । शीर्णे जीर्णे तथा भिन्ने भूषण-आदौ विशेषतः ॥ ३५।४३५ ॥
tasya taṣyati deveśaḥ varam iṣṭam pradāsyati . śīrṇe jīrṇe tathā bhinne bhūṣaṇa-ādau viśeṣataḥ .. 35.435 ..
नवीकृत्यार्ऽपयेद्यस्तु तस्य पापं प्रणश्यति । यानानि रथङ्गादीन्यालोक्य शिथिलानि वै ॥ ३५.४३६ ॥
नवीकृत्य अर्ऽपयेत् यः तु तस्य पापम् प्रणश्यति । यानानि रथङ्ग-आदीनि आलोक्य शिथिलानि वै ॥ ३५।४३६ ॥
navīkṛtya ar'payet yaḥ tu tasya pāpam praṇaśyati . yānāni rathaṅga-ādīni ālokya śithilāni vai .. 35.436 ..
समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ ३५.४३७ ॥
समीकृत्य तु यः दद्यात् तानि भक्त्या हरेत् नरः । तस्य काय-कृतम् पापम् तद्-क्षणात् एव नश्यति ॥ ३५।४३७ ॥
samīkṛtya tu yaḥ dadyāt tāni bhaktyā haret naraḥ . tasya kāya-kṛtam pāpam tad-kṣaṇāt eva naśyati .. 35.437 ..
यस्तु वीक्ष्य हरेरर्चां पतमानामनादराथ् । नर्धयेद्धनदानेन तस्य लोका मधुद्विषः ॥ ३५.४३८ ॥
यः तु वीक्ष्य हरेः अर्चाम् पतमानाम् अनादराथ् । न ऋधयेत् धन-दानेन तस्य लोकाः मधु-द्विषः ॥ ३५।४३८ ॥
yaḥ tu vīkṣya hareḥ arcām patamānām anādarāth . na ṛdhayet dhana-dānena tasya lokāḥ madhu-dviṣaḥ .. 35.438 ..
सीदतां वृत्तिहीनानां देवस्याघ्रे पदार्थिनां । यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति ॥ ३५.४३९ ॥
सीदताम् वृत्ति-हीनानाम् देवस्य अघ्रे पदार्थिनाम् । यः दद्यात् उचिताम् वृत्तिम् स यमम् न उपसर्पति ॥ ३५।४३९ ॥
sīdatām vṛtti-hīnānām devasya aghre padārthinām . yaḥ dadyāt ucitām vṛttim sa yamam na upasarpati .. 35.439 ..
यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः । लुप्तप्रायाणि तस्याऽऽपि भवेत्फलमन न्तकं ॥ ३५.४४० ॥
यः तु देव-उत्सव-आदीनि कारयेत् भक्ति-संयुतः । लुप्त-प्रायाणि भवेत् फलम् अनन्तकम् ॥ ३५।४४० ॥
yaḥ tu deva-utsava-ādīni kārayet bhakti-saṃyutaḥ . lupta-prāyāṇi bhavet phalam anantakam .. 35.440 ..
यः कुर्याद्देवतागारे लुप्तकार्याणि सत्तमः । न तस्य कृतकृत्यत्वादमात्या यमकिङ्कराः ॥ ३५.४४१ ॥
यः कुर्यात् देवतागारे लुप्त-कार्याणि सत्तमः । न तस्य कृतकृत्य-त्वात् अमात्याः यम-किङ्कराः ॥ ३५।४४१ ॥
yaḥ kuryāt devatāgāre lupta-kāryāṇi sattamaḥ . na tasya kṛtakṛtya-tvāt amātyāḥ yama-kiṅkarāḥ .. 35.441 ..
देवार्धे ब्राह्मणस्यार्ऽथे यस्त्यजेत्तनुमुत्तमां । तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश ॥ ३५.४४२ ॥
देव-अर्धे ब्राह्मणस्य अर्ऽथे यः त्यजेत् तनुम् उत्तमाम् । तस्य वासः भवेत् स्वर्गे तुर्धश ॥ ३५।४४२ ॥
deva-ardhe brāhmaṇasya ar'the yaḥ tyajet tanum uttamām . tasya vāsaḥ bhavet svarge turdhaśa .. 35.442 ..
देवार्थे ब्राह्मणस्यार्ऽधे सर्वस्वं स्वन्त्यजेत्तु यः । तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते ॥ ३५.४४३ ॥
देव-अर्थे ब्राह्मणस्य अर्ऽधे सर्व-स्वम् सु अन्त्यजेत् तु यः । तस्य तुष्यति देवेशः स तु स्वाराज्यम् अश्नु ते ॥ ३५।४४३ ॥
deva-arthe brāhmaṇasya ar'dhe sarva-svam su antyajet tu yaḥ . tasya tuṣyati deveśaḥ sa tu svārājyam aśnu te .. 35.443 ..
प्रायश्चित्तनिमित्तानि संभूतानितु धामनि । दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते ॥ ३५.४४४ ॥
प्रायश्चित्त-निमित्तानि संभूतानि तु धामनि । दृष्ट्वा च श्रद्धया युक्तः यः देवम् उपतिष्ठते ॥ ३५।४४४ ॥
prāyaścitta-nimittāni saṃbhūtāni tu dhāmani . dṛṣṭvā ca śraddhayā yuktaḥ yaḥ devam upatiṣṭhate .. 35.444 ..
तस्य तुष्यति देवेशः प्र हृष्टस्संप्रसीदति । प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै ॥ ३५.४४५ ॥
तस्य तुष्यति देवेशः प्र हृष्टः संप्रसीदति । प्रायश्चित्तानि अशेषाणि पाप-ओघ-ध्वंसनाय वै ॥ ३५।४४५ ॥
tasya tuṣyati deveśaḥ pra hṛṣṭaḥ saṃprasīdati . prāyaścittāni aśeṣāṇi pāpa-ogha-dhvaṃsanāya vai .. 35.445 ..
निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना । लोकानुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः ॥ ३५.४४६ ॥
निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना । लोक-अनुग्रह-लेतोः वै गुरुः अत्वरः ॥ ३५।४४६ ॥
nirdiṣṭāni purākalpe brahmaṇā parameṣṭhinā . loka-anugraha-letoḥ vai guruḥ atvaraḥ .. 35.446 ..
नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः । प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः ॥ ३५.४४७ ॥
नराणाम् सीदताम् दृष्ट्वा चित्त-वृत्तीः सु दुर्मलाः । प्रायश्चित्त-विधानम् तु प्रोवाच जगताम् हितः ॥ ३५।४४७ ॥
narāṇām sīdatām dṛṣṭvā citta-vṛttīḥ su durmalāḥ . prāyaścitta-vidhānam tu provāca jagatām hitaḥ .. 35.447 ..
न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमाथ् । तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेथ् ॥ ३५.४४८ ॥
न कश्चिद् ना आचरेत् कर्म शास्त्र-उक्तम् सकलम् । तस्मात् सर्व-प्रयत्नेन प्रायश्चित्तम् समाचरेथ् ॥ ३५।४४८ ॥
na kaścid nā ācaret karma śāstra-uktam sakalam . tasmāt sarva-prayatnena prāyaścittam samācareth .. 35.448 ..
प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियां । तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनं ॥ ३५.४४९ ॥
प्रायश्चित्तम् तु कृत्वा एव यः उक्ताम् आचरेत् क्रियाम् । तस्य स्यात् द्विगुणम् पुण्यम् मतः स्यात् अनुपालनम् ॥ ३५।४४९ ॥
prāyaścittam tu kṛtvā eva yaḥ uktām ācaret kriyām . tasya syāt dviguṇam puṇyam mataḥ syāt anupālanam .. 35.449 ..
भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमाथ् । देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः ॥ ३५.४५० ॥
भक्ति-श्रद्धा-अन्वितः यः तु कुर्यात् वा कारयेत् क्रमाथ् । देवेशस्य प्रतिष्ठा-आदि-प्रायश्चित्त-अन्त-सत्क्रियाः ॥ ३५।४५० ॥
bhakti-śraddhā-anvitaḥ yaḥ tu kuryāt vā kārayet kramāth . deveśasya pratiṣṭhā-ādi-prāyaścitta-anta-satkriyāḥ .. 35.450 ..
तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । इह लोकेऽखिलान्कामाननुभूय सुखं चिराथ् ॥ ३५.४५१ ॥
तस्य पुण्य-फलम् वक्तुम् न शक्यम् त्रिदशैः अपि । इह लोके अखिलान् कामान् अनुभूय सुखम् ॥ ३५।४५१ ॥
tasya puṇya-phalam vaktum na śakyam tridaśaiḥ api . iha loke akhilān kāmān anubhūya sukham .. 35.451 ..
देहन्तेजायते सद्यश्शङ्खचक्रगदाधरः । श्रीवत्सांकश्चतुर्बाहुश्श्यामलाङ्गस्सु सुन्दरः ॥ ३५.४५२ ॥
देहन्ते जायते सद्यस् शङ्ख-चक्र-गदा-धरः । श्रीवत्स-अंकः चतुर्-बाहुः श्यामल-अङ्गः सु सुन्दरः ॥ ३५।४५२ ॥
dehante jāyate sadyas śaṅkha-cakra-gadā-dharaḥ . śrīvatsa-aṃkaḥ catur-bāhuḥ śyāmala-aṅgaḥ su sundaraḥ .. 35.452 ..
गगने गरुडारूढस्सर्व देवनमस्कृतः । अदित्यमण्डलं भित्वा गत्वा शुभ्रांशुमण्डलं ॥ ३५.४५३ ॥
गगने गरुड-आरूढः सर्व-देव-नमस्कृतः । अदित्य-मण्डलम् भित्वा गत्वा शुभ्र-अंशु-मण्डलम् ॥ ३५।४५३ ॥
gagane garuḍa-ārūḍhaḥ sarva-deva-namaskṛtaḥ . aditya-maṇḍalam bhitvā gatvā śubhra-aṃśu-maṇḍalam .. 35.453 ..
ततोऽवतीर्य निखिलान्लोकानपि यथाक्रमं । सत्यस्थं सत्यरोकस्थं जगतः प्रभवाप्ययं ॥ ३५.४५४ ॥
ततस् अवतीर्य निखिलान् लोकान् अपि यथाक्रमम् । सत्य-स्थम् सत्य-रोक-स्थम् जगतः प्रभव-अप्ययम् ॥ ३५।४५४ ॥
tatas avatīrya nikhilān lokān api yathākramam . satya-stham satya-roka-stham jagataḥ prabhava-apyayam .. 35.454 ..
तथाशेषविशेषं च नित्यानन्दं निरञ्जनं । सुधारससमास्वादतुलितं नित्यतृप्तिदं ॥ ३५.४५५ ॥
तथा अशेष-विशेषम् च नित्य-आनन्दम् निरञ्जनम् । ॥ ३५।४५५ ॥
tathā aśeṣa-viśeṣam ca nitya-ānandam nirañjanam . .. 35.455 ..
शाश्वतं तत्परञ्ज्योतिः प्रविशेन्नात्र संशयः । अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलं ॥ ३५.४५६ ॥
शाश्वतम् तत् परन् ज्योतिः प्रविशेत् न अत्र संशयः । अथ वक्ष्ये विशेषेण क्रिया-लोपे च यत् फलम् ॥ ३५।४५६ ॥
śāśvatam tat paran jyotiḥ praviśet na atra saṃśayaḥ . atha vakṣye viśeṣeṇa kriyā-lope ca yat phalam .. 35.456 ..
निर्मातुमालयं यस्तु संकल्प्य मतिमान्नरः । परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते ॥ ३५.४५७ ॥
निर्मातुम् आलयम् यः तु संकल्प्य मतिमान् नरः । परेण इद् बोधितः भूयस् तस्मै वर्तते ॥ ३५।४५७ ॥
nirmātum ālayam yaḥ tu saṃkalpya matimān naraḥ . pareṇa id bodhitaḥ bhūyas tasmai vartate .. 35.457 ..
तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ । कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ॥ ३५.४५८ ॥
तौ उभौ नरकम् प्रेत्य भवेताम् दुःख-भागिनौ । कर्ता कारयिता च एव प्रेरकः च अनुमोदकः ॥ ३५।४५८ ॥
tau ubhau narakam pretya bhavetām duḥkha-bhāginau . kartā kārayitā ca eva prerakaḥ ca anumodakaḥ .. 35.458 ..
सुकृते दुष्कृते चैव वदन्ति समभागिनः । निर्मातुमिच्छया धाम देवस्य मधुविद्विषः ॥ ३५.४५९ ॥
सुकृते दुष्कृते च एव वदन्ति सम-भागिनः । निर्मातुम् इच्छया धाम देवस्य मधुविद्विषः ॥ ३५।४५९ ॥
sukṛte duṣkṛte ca eva vadanti sama-bhāginaḥ . nirmātum icchayā dhāma devasya madhuvidviṣaḥ .. 35.459 ..
स्वयं निवर्तते यस्तु तस्य स्यान्महती विपथ् । संकल्प्य देवतागारं निर्मातुं यो विशेषतः ॥ ३५.४६० ॥
स्वयम् निवर्तते यः तु तस्य स्यात् महती विपथ् । संकल्प्य देवतागारम् निर्मातुम् यः विशेषतः ॥ ३५।४६० ॥
svayam nivartate yaḥ tu tasya syāt mahatī vipath . saṃkalpya devatāgāram nirmātum yaḥ viśeṣataḥ .. 35.460 ..
आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति । आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः ॥ ३५.४६१ ॥
आचार्यम् वृणुयात् नो चेद् तस्य कार्यम् प्रणश्यति । आचार्यः सततम् गोप्ता आचार्यः तु पिता स्मृतः ॥ ३५।४६१ ॥
ācāryam vṛṇuyāt no ced tasya kāryam praṇaśyati . ācāryaḥ satatam goptā ācāryaḥ tu pitā smṛtaḥ .. 35.461 ..
आचार्यस्सर्वमेवेति यो मन्येत स मन्यते । आरभ्य गेहनिर्माणं देवस्य जगतः पतेः ॥ ३५.४६२ ॥
आचार्यः सर्वम् एव इति यः मन्येत स मन्यते । आरभ्य गेह-निर्माणम् देवस्य जगतः पतेः ॥ ३५।४६२ ॥
ācāryaḥ sarvam eva iti yaḥ manyeta sa manyate . ārabhya geha-nirmāṇam devasya jagataḥ pateḥ .. 35.462 ..
असमाप्य तु यो मूढो निवर्ते प्रविलोभतः । तस्य संपद्विनाशस्स्यात्क्रुद्धो भवति चाव्ययः ॥ ३५.४६३ ॥
अ समाप्य तु यः मूढः निवर्ते प्रविलोभतः । तस्य संपद्-विनाशः स्यात् क्रुद्धः भवति च अव्ययः ॥ ३५।४६३ ॥
a samāpya tu yaḥ mūḍhaḥ nivarte pravilobhataḥ . tasya saṃpad-vināśaḥ syāt kruddhaḥ bhavati ca avyayaḥ .. 35.463 ..
प्रवृत्तायां प्रतिष्ठायां येन केनापि हेतुना । यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति ॥ ३५.४६४ ॥
प्रवृत्तायाम् प्रतिष्ठायाम् येन केन अपि हेतुना । यः कुर्यात् अन्तरायम् तु तस्य पुण्यम् विनश्यति ॥ ३५।४६४ ॥
pravṛttāyām pratiṣṭhāyām yena kena api hetunā . yaḥ kuryāt antarāyam tu tasya puṇyam vinaśyati .. 35.464 ..
येन विघ्नस्तदा भूयात्तं हत्वापि न दोषभाक् । यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनं ॥ ३५.४६५ ॥
येन विघ्नः तदा भूयात् तम् हत्वा अपि न दोष-भाज् । यः तु शास्त्र-उदितम् कर्म कुर्वन्तम् च पदार्थिनम् ॥ ३५।४६५ ॥
yena vighnaḥ tadā bhūyāt tam hatvā api na doṣa-bhāj . yaḥ tu śāstra-uditam karma kurvantam ca padārthinam .. 35.465 ..
शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचिथ् । विवदेत य उच्छास्त्रमाचार्येण पदार्थिना ॥ ३५.४६६ ॥
शिल्पिनम् विवदेत् मूढः तस्य नास्ति-फलम् । विवदेत यः उच्छास्त्रम् आचार्येण पदार्थिना ॥ ३५।४६६ ॥
śilpinam vivadet mūḍhaḥ tasya nāsti-phalam . vivadeta yaḥ ucchāstram ācāryeṇa padārthinā .. 35.466 ..
तस्याशुभानि भूयांसि भवेयुर्नात्र संशयः । अध्वरे वर्तमाने तु संभारान्शास्त्रचोदितान् ॥ ३५.४६७ ॥
तस्य अशुभानि भूयांसि भवेयुः न अत्र संशयः । अध्वरे वर्तमाने तु संभारान् शास्त्र-चोदितान् ॥ ३५।४६७ ॥
tasya aśubhāni bhūyāṃsi bhaveyuḥ na atra saṃśayaḥ . adhvare vartamāne tu saṃbhārān śāstra-coditān .. 35.467 ..
यो न दद्यात्स पापीयान्नाप्नुयात्कर्मजं फलं । प्रतिष्ठाप्य हरेर्बिंबं यो न सत्कुरुते गुरुं ॥ ३५.४६८ ॥
यः न दद्यात् स पापीयान् न आप्नुयात् कर्म-जम् फलम् । प्रतिष्ठाप्य हरेः बिंबम् यः न सत्कुरुते गुरुम् ॥ ३५।४६८ ॥
yaḥ na dadyāt sa pāpīyān na āpnuyāt karma-jam phalam . pratiṣṭhāpya hareḥ biṃbam yaḥ na satkurute gurum .. 35.468 ..
अन्यान्पदार्थिनश्चापि स किञ्चिन्नाप्नुयात्फलं । प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुं ॥ ३५.४६९ ॥
अन्यान् पदार्थिनः च अपि स किञ्चिद् ना आप्नुयात् फलम् । प्रतिष्ठा-अन्ते तथा नित्यम् अविच्छिन्नम् तु पूजितुम् ॥ ३५।४६९ ॥
anyān padārthinaḥ ca api sa kiñcid nā āpnuyāt phalam . pratiṣṭhā-ante tathā nityam avicchinnam tu pūjitum .. 35.469 ..
अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति । अर्चकं च तथाचार्यमन्यांश्चापि पदार्थिनः ॥ ३५.४७० ॥
अर्चकम् वृणुयात् नो चेद् यजमानः विनश्यति । अर्चकम् च तथा आचार्यम् अन्यान् च अपि पदार्थिनः ॥ ३५।४७० ॥
arcakam vṛṇuyāt no ced yajamānaḥ vinaśyati . arcakam ca tathā ācāryam anyān ca api padārthinaḥ .. 35.470 ..
कालावधिं विनिश्चित्य यः कर्मसु नियोजयेथ् । स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति ॥ ३५.४७१ ॥
काल-अवधिम् विनिश्चित्य यः कर्मसु । स भवेत् ब्रह्म-हा च एव धनम् तस्य विलुप्यति ॥ ३५।४७१ ॥
kāla-avadhim viniścitya yaḥ karmasu . sa bhavet brahma-hā ca eva dhanam tasya vilupyati .. 35.471 ..
दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि । यजमानो विपद्येत देवावासो नशिष्यति ॥ ३५.४७२ ॥
दाय-अर्हाम् कायेत् व्रत्तिम् अर्चकस्य न चेद् यदि । यजमानः विपद्येत देवावासः नशिष्यति ॥ ३५।४७२ ॥
dāya-arhām kāyet vrattim arcakasya na ced yadi . yajamānaḥ vipadyeta devāvāsaḥ naśiṣyati .. 35.472 ..
आचार्यमर्चकं कुर्यात्स्वस्थानाद्योऽवरोपितं । अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः ॥ ३५.४७३ ॥
आचार्यम् अर्चकम् कुर्यात् स्व-स्थानात् यः अवरोपितम् । अन्यम् वा योजयेत् तत्र तौ उभौ विनशिष्यतः ॥ ३५।४७३ ॥
ācāryam arcakam kuryāt sva-sthānāt yaḥ avaropitam . anyam vā yojayet tatra tau ubhau vinaśiṣyataḥ .. 35.473 ..
आपद्यपि च कष्ठायां न कदाप्यन्यमर्चकं । पूर्वावरोपणादेव नियुञ्ज्यात्तु कथं चन ॥ ३५.४७४ ॥
आपदि अपि च कष्ठायाम् न कदापि अन्यम् अर्चकम् । पूर्व-अवरोपणात् एव नियुञ्ज्यात् तु कथम् चन ॥ ३५।४७४ ॥
āpadi api ca kaṣṭhāyām na kadāpi anyam arcakam . pūrva-avaropaṇāt eva niyuñjyāt tu katham cana .. 35.474 ..
आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः । सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः ॥ ३५.४७५ ॥
आद्य-अर्चकस्य वंशे तु जायन्ते ये महा-आशयाः । सर्वे च क्रमशस् पूजाम् कर्तुम् अर्हन्ति ते यतस् ॥ ३५।४७५ ॥
ādya-arcakasya vaṃśe tu jāyante ye mahā-āśayāḥ . sarve ca kramaśas pūjām kartum arhanti te yatas .. 35.475 ..
पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः । तस्मात्तद्वंशजान्हित्वा यद्यन्यैः कारितार्ऽचना ॥ ३५.४७६ ॥
पित्र्यम् भवति देवस्य दायाद्यम् पूजनम् स्वतस् । तस्मात् तद्-वंश-जान् हित्वा यदि अन्यैः कारिता ऋचना ॥ ३५।४७६ ॥
pitryam bhavati devasya dāyādyam pūjanam svatas . tasmāt tad-vaṃśa-jān hitvā yadi anyaiḥ kāritā ṛcanā .. 35.476 ..
ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेथ् । यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनं ॥ ३५.४७७ ॥
ब्रह्महत्या भवेत् तस्य तद्-बूजा निष्फला । यः तु दद्यात् अर्चकाय भृति-अर्थम् के वलम् धनम् ॥ ३५।४७७ ॥
brahmahatyā bhavet tasya tad-būjā niṣphalā . yaḥ tu dadyāt arcakāya bhṛti-artham ke valam dhanam .. 35.477 ..
अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति । लोभान्मोहादथाज्ञानाद्य आदत्तेर्ऽचको धनं ॥ ३५.४७८ ॥
अन्यत् वा अपि अस्थिरम् वस्तु न हरिः तेन तुष्यति । लोभात् मोहात् अथ अज्ञानात् यः आदत्तेः अचकः धनम् ॥ ३५।४७८ ॥
anyat vā api asthiram vastu na hariḥ tena tuṣyati . lobhāt mohāt atha ajñānāt yaḥ ādatteḥ acakaḥ dhanam .. 35.478 ..
वेतनार्धं तथा दद्याद्यजमानो विमूढधीः । उभौतौनरकं यातो यादच्चन्द्र दिवाकरं ॥ ३५.४७९ ॥
वेतन-अर्धम् तथा दद्यात् यजमानः विमूढ-धीः । उभौतौनरकम् यातः यादत् चन्द्र दिवाकरम् ॥ ३५।४७९ ॥
vetana-ardham tathā dadyāt yajamānaḥ vimūḍha-dhīḥ . ubhautaunarakam yātaḥ yādat candra divākaram .. 35.479 ..
वित्तार्थं पूजयेद्यस्तु नियम्याप्यवधिं हरिं । सवैदेवलको नाम सर्वकर्म बहिर्कृतः ॥ ३५.४८० ॥
वित्त-अर्थम् पूजयेत् यः तु नियम्य अपि अवधिम् हरिम् । स वैदेवलकः नाम सर्व-कर्म बहिर्कृतः ॥ ३५।४८० ॥
vitta-artham pūjayet yaḥ tu niyamya api avadhim harim . sa vaidevalakaḥ nāma sarva-karma bahirkṛtaḥ .. 35.480 ..
अदत्वा वसुधामग्रे पूजनार्थ मथार्चके । निर्माति ब्राह्मणं भूयो यजमानस्तु देवलं ॥ ३५.४८१ ॥
अ दत्वा वसुधाम् अग्रे पूजन-अर्थ । निर्माति ब्राह्मणम् भूयस् यजमानः तु देवलम् ॥ ३५।४८१ ॥
a datvā vasudhām agre pūjana-artha . nirmāti brāhmaṇam bhūyas yajamānaḥ tu devalam .. 35.481 ..
नह्यस्मात्पातकं किञ्चि द्ब्राह्मणायाऽपराध्यति । अलब्ध्वादेवतागारनिर्माणसदृशं फलं ॥ ३५.४८२ ॥
न हि अस्मात् पातकम् किञ्चिद् ब्राह्मणाय अपराध्यति । अ लब्ध्वा देवतागार-निर्माण-सदृशम् फलम् ॥ ३५।४८२ ॥
na hi asmāt pātakam kiñcid brāhmaṇāya aparādhyati . a labdhvā devatāgāra-nirmāṇa-sadṛśam phalam .. 35.482 ..
ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः । हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः ॥ ३५.४८३ ॥
ब्रह्म-घ्न-त्वम् अनुप्राप्य विनश्यति न संशयः । हर्ता हारयिता भूमेः दत्तस्य दनु-शासिनः ॥ ३५।४८३ ॥
brahma-ghna-tvam anuprāpya vinaśyati na saṃśayaḥ . hartā hārayitā bhūmeḥ dattasya danu-śāsinaḥ .. 35.483 ..
तत्किङ्कराणामन्येषां यो मूढस्स तमोवृतः । संबद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः ॥ ३५.४८४ ॥
तत् किङ्कराणाम् अन्येषाम् यः मूढः स तमः-वृतः । संबद्धः वारुणैः पाशैः कृष्यमाणः समन्ततः ॥ ३५।४८४ ॥
tat kiṅkarāṇām anyeṣām yaḥ mūḍhaḥ sa tamaḥ-vṛtaḥ . saṃbaddhaḥ vāruṇaiḥ pāśaiḥ kṛṣyamāṇaḥ samantataḥ .. 35.484 ..
दुःखितो नरके भूयस्तिर्यग्योनिषु जायते । स्वदत्तां वरदत्तां वा यो हरेत वसुन्धरां ॥ ३५.४८५ ॥
दुःखितः नरके भूयस् तिर्यग्योनिषु जायते । स्व-दत्ताम् वर-दत्ताम् वा यः हरेत वसुन्धराम् ॥ ३५।४८५ ॥
duḥkhitaḥ narake bhūyas tiryagyoniṣu jāyate . sva-dattām vara-dattām vā yaḥ hareta vasundharām .. 35.485 ..
षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनं ॥ ३५.४८६ ॥
षष्टिः वर्ष-सहस्राणि विष्ठायाम् जायते कृमिः । स्व-दत्तात् द्विगुणम् पुण्यम् पर-दत्त-अनु पालनम् ॥ ३५।४८६ ॥
ṣaṣṭiḥ varṣa-sahasrāṇi viṣṭhāyām jāyate kṛmiḥ . sva-dattāt dviguṇam puṇyam para-datta-anu pālanam .. 35.486 ..
परदत्तापहारेण स्वदत्तं निष्पलं भवेथ् । अन्यायेन हृता भूमिरन्यायेनैन हारिता ॥ ३५.४८७ ॥
पर-दत्त-अपहारेण स्व-दत्तम् निष्पलम् । अन्यायेन हृता भूमिः अन्यायेन एन हारिता ॥ ३५।४८७ ॥
para-datta-apahāreṇa sva-dattam niṣpalam . anyāyena hṛtā bhūmiḥ anyāyena ena hāritā .. 35.487 ..
हरतो हारकस्यापि दहत्यासप्तमं कुलं । पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥ ३५.४८८ ॥
हरतः हारकस्य अपि दहति आसप्तमम् कुलम् । पञ्च कन्या-अनृते हन्ति दश हन्ति गव-अनृते ॥ ३५।४८८ ॥
harataḥ hārakasya api dahati āsaptamam kulam . pañca kanyā-anṛte hanti daśa hanti gava-anṛte .. 35.488 ..
शतमश्वानृते हन्ति सहस्रं पुरुषानृते । हन्ति जातानजातांश्च हिरण्यार्ऽधेऽनृतं वदन् ॥ ३५.४८९ ॥
शतम् अश्व-अनृते हन्ति सहस्रम् पुरुष-अनृते । हन्ति जातान् अजातान् च हिरण्यार्ऽधे अनृतम् वदन् ॥ ३५।४८९ ॥
śatam aśva-anṛte hanti sahasram puruṣa-anṛte . hanti jātān ajātān ca hiraṇyār'dhe anṛtam vadan .. 35.489 ..
सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचिथ् । विन्ध्याटवीष्वतोयासु शुष्ककोजरवासिनः ॥ ३५.४९० ॥
सर्वम् भूमि-अनृते हन्ति नः ब्रूयात् अनृतम् । विन्ध्य-अटवीषु अतोयासु शुष्क-कोजर-वासिनः ॥ ३५।४९० ॥
sarvam bhūmi-anṛte hanti naḥ brūyāt anṛtam . vindhya-aṭavīṣu atoyāsu śuṣka-kojara-vāsinaḥ .. 35.490 ..
कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः । तटाकानां सहस्रेण हयमेधशतेन च ॥ ३५.४९१ ॥
कृष्ण-सर्पाः प्रजायन्ते देव-ब्रह्म-स्व-हारिणः । तटाकानाम् सहस्रेण हयमेध-शतेन च ॥ ३५।४९१ ॥
kṛṣṇa-sarpāḥ prajāyante deva-brahma-sva-hāriṇaḥ . taṭākānām sahasreṇa hayamedha-śatena ca .. 35.491 ..
गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति । ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनं ॥ ३५.४९२ ॥
गवाम् कोटि-प्रदानेन शुद्धि-अति । ब्रह्म-स्वम् ब्रह्महत्या च दरिद्रस्य च यत् धनम् ॥ ३५।४९२ ॥
gavām koṭi-pradānena śuddhi-ati . brahma-svam brahmahatyā ca daridrasya ca yat dhanam .. 35.492 ..
गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेथ् । ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कण्ठगतैरपि ॥ ३५.४९३ ॥
गुरु-मित्र-धनम् च एव स्वर्ग-स्थम् अपि । ब्रह्म-स्वे नः मतिम् कुर्यात् प्राणैः कण्ठ-गतैः अपि ॥ ३५।४९३ ॥
guru-mitra-dhanam ca eva svarga-stham api . brahma-sve naḥ matim kuryāt prāṇaiḥ kaṇṭha-gataiḥ api .. 35.493 ..
अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ ३५.४९४ ॥
अग्नि-दग्धाः प्ररोहान्ति ब्रह्म-दग्धः न रोहति । न विषम् विषम् इति आहुः ब्रह्म-स्वम् विषम् उच्यते ॥ ३५।४९४ ॥
agni-dagdhāḥ prarohānti brahma-dagdhaḥ na rohati . na viṣam viṣam iti āhuḥ brahma-svam viṣam ucyate .. 35.494 ..
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकं । ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलं ॥ ३५.४९५ ॥
विषम् एकाकिनम् हन्ति ब्रह्म-स्वम् पुत्र-पौत्रकम् । ब्रह्म-स्वम् प्रणयात् भुक्तम् दहति आसप्तमम् कुलम् ॥ ३५।४९५ ॥
viṣam ekākinam hanti brahma-svam putra-pautrakam . brahma-svam praṇayāt bhuktam dahati āsaptamam kulam .. 35.495 ..
विक्रमेण तु भोक्तॄणां दशपूर्वान्दशावरान् । लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान् ॥ ३५.४९६ ॥
विक्रमेण तु भोक्तॄणाम् दश-पूर्वान् दश अवरान् । लोह-चूर्णान् च चूर्णान् च विषम् वा जरयेत् पुमान् ॥ ३५।४९६ ॥
vikrameṇa tu bhoktṝṇām daśa-pūrvān daśa avarān . loha-cūrṇān ca cūrṇān ca viṣam vā jarayet pumān .. 35.496 ..
ब्रह्मस्वं त्रिषु लोकेषु कःपुमान्जरयिष्यति । देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः ॥ ३५.४९७ ॥
ब्रह्म-स्वम् त्रिषु लोकेषु कः पुमान् जरयिष्यति । देव-स्वम् ब्राह्मण-स्वम् च लोभेन उ पहिनस्ति यः ॥ ३५।४९७ ॥
brahma-svam triṣu lokeṣu kaḥ pumān jarayiṣyati . deva-svam brāhmaṇa-svam ca lobhena u pahinasti yaḥ .. 35.497 ..
स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति । देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ॥ ३५.४९८ ॥
स पापात् तु परे लोके गृध्र-उच्छिष्टेन जीवति । देव-द्रव्य-विनाशेन ब्रह्म-स्व-हरणेन च ॥ ३५।४९८ ॥
sa pāpāt tu pare loke gṛdhra-ucchiṣṭena jīvati . deva-dravya-vināśena brahma-sva-haraṇena ca .. 35.498 ..
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । सहस्रसम्मिता धेनुरनड्वान्दशधेनवः ॥ ३५.४९९ ॥
कुलानि अकुल-ताम् यान्ति ब्राह्मण-अतिक्रमेण च । सहस्र-सम्मिता धेनुः अनड्वान् दश-धेनवः ॥ ३५।४९९ ॥
kulāni akula-tām yānti brāhmaṇa-atikrameṇa ca . sahasra-sammitā dhenuḥ anaḍvān daśa-dhenavaḥ .. 35.499 ..
दशावड्वत्समं यानं दशयानसमो हयः । दशवाजिसमा कन्या भूमिदानेन सा समा ॥ ३५.५०० ॥
दश-अवड्वत्-समम् यानम् दश-यान-समः हयः । दश-वाजि-समा कन्या भूमि-दानेन सा समा ॥ ३५।५०० ॥
daśa-avaḍvat-samam yānam daśa-yāna-samaḥ hayaḥ . daśa-vāji-samā kanyā bhūmi-dānena sā samā .. 35.500 ..
षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः । आच्छेत्ताचानुमन्ता च तान्येन नरके वसेथ् ॥ ३५.५०१ ॥
षष्टिः वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः । आच्छेत्ता अचा अनुमन्ता च नरके वसेथ् ॥ ३५।५०१ ॥
ṣaṣṭiḥ varṣa sahasrāṇi svarge tiṣṭhati bhūmidhaḥ . ācchettā acā anumantā ca narake vaseth .. 35.501 ..
पतन्त्यश्रूणि रुदतां दीनानामवसीदतां । ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलं ॥ ३५.५०२ ॥
पतन्ति अश्रूणि रुदताम् दीनानाम् अवसीदताम् । ब्राह्मणानाम् हृते क्षेत्रे हन्यात् आसप्तमम् कुलम् ॥ ३५।५०२ ॥
patanti aśrūṇi rudatām dīnānām avasīdatām . brāhmaṇānām hṛte kṣetre hanyāt āsaptamam kulam .. 35.502 ..
साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचिथ् । ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमां ॥ ३५.५०३ ॥
साधुभ्यः भूमिम् आक्षिप्य न भूमिम् । ददत् हि भूमिम् साधुभ्यः विन्दते फूमिम् उत्तमाम् ॥ ३५।५०३ ॥
sādhubhyaḥ bhūmim ākṣipya na bhūmim . dadat hi bhūmim sādhubhyaḥ vindate phūmim uttamām .. 35.503 ..
अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः । स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते ॥ ३५.५०४ ॥
अर्चकः प्रणिधिः यस्मात् देवेशस्य जगत्पतेः । स देवः ब्राह्मणः साधुः महत् भूतम् प्रचक्षते ॥ ३५।५०४ ॥
arcakaḥ praṇidhiḥ yasmāt deveśasya jagatpateḥ . sa devaḥ brāhmaṇaḥ sādhuḥ mahat bhūtam pracakṣate .. 35.504 ..
तस्मात्तदर्पितां वृत्तिं नैव शङ्केत बुद्धिमान् । तदर्चकार्पितां भूमिं यो हरेत यतेत वा ॥ ३५.५०५ ॥
तस्मात् तद्-अर्पिताम् वृत्तिम् न एव शङ्केत बुद्धिमान् । तद्-अर्चक-अर्पिताम् भूमिम् यः हरेत यतेत वा ॥ ३५।५०५ ॥
tasmāt tad-arpitām vṛttim na eva śaṅketa buddhimān . tad-arcaka-arpitām bhūmim yaḥ hareta yateta vā .. 35.505 ..
किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः । न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः ॥ ३५.५०६ ॥
किम् पुनर् तस्य वक्तव्यम् न भवेत् तस्य निष्कृतिः । न वाचा शक्यते वक्तुम् गतिः तस्य दुरात्मनः ॥ ३५।५०६ ॥
kim punar tasya vaktavyam na bhavet tasya niṣkṛtiḥ . na vācā śakyate vaktum gatiḥ tasya durātmanaḥ .. 35.506 ..
म्रियेत सद्य एवासौ जायतेऽथ पुनः पुनः । न तस्य शरणं क्वापि लभ्यते पापकर्मणः ॥ ३५.५०७ ॥
म्रियेत सद्यस् एव असौ जायते अथ पुनर् पुनर् । न तस्य शरणम् क्वापि लभ्यते पाप-कर्मणः ॥ ३५।५०७ ॥
mriyeta sadyas eva asau jāyate atha punar punar . na tasya śaraṇam kvāpi labhyate pāpa-karmaṇaḥ .. 35.507 ..
देवस्येऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचिथ् । प्रासादमण्डपादीनां भोक्तारः कैटभद्विषः ॥ ३५.५०८ ॥
देवस्ये अपि मतिम् कुर्यात् प्रह्म-स्वम् न हरेत् क्वचिद् । प्रासाद-मण्डप-आदीनाम् भोक्तारः कैटभद्विषः ॥ ३५।५०८ ॥
devasye api matim kuryāt prahma-svam na haret kvacid . prāsāda-maṇḍapa-ādīnām bhoktāraḥ kaiṭabhadviṣaḥ .. 35.508 ..
तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः । वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवं ॥ ३५.५०९ ॥
ते मूढ-मतयः प्रेत्य नरकेषु निरत्ययाः । वसन्ति भूयस् जायन्ते नीच-योनिषु च ध्रुवम् ॥ ३५।५०९ ॥
te mūḍha-matayaḥ pretya narakeṣu niratyayāḥ . vasanti bhūyas jāyante nīca-yoniṣu ca dhruvam .. 35.509 ..
भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः । गले निगलितः पाशैः कृष्यते निरयेषु सः ॥ ३५.५१० ॥
भूषण-छत्र-वस्त्र-आदि-हर्ता यः दुर्मतिः नरः । गले निगलितः पाशैः कृष्यते निरयेषु सः ॥ ३५।५१० ॥
bhūṣaṇa-chatra-vastra-ādi-hartā yaḥ durmatiḥ naraḥ . gale nigalitaḥ pāśaiḥ kṛṣyate nirayeṣu saḥ .. 35.510 ..
वाहनानि च यानानि वैष्णवानि हरन्तिये । मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे ॥ ३५.५११ ॥
वाहनानि च यानानि वैष्णवानि हरन्तिये । मोहात् वसन्ति ते दीर्घ मङ्गार-नरक-उदरे ॥ ३५।५११ ॥
vāhanāni ca yānāni vaiṣṇavāni harantiye . mohāt vasanti te dīrgha maṅgāra-naraka-udare .. 35.511 ..
प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु । चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ॥ ३५.५१२ ॥
प्रेत्य भूयस् अपि जायन्ते गर्दभ-उष्ट्र-आदि-योनिषु । चन्दन-आदीनि वस्तूनि पुष्पाणि सुरभीणि अपि ॥ ३५।५१२ ॥
pretya bhūyas api jāyante gardabha-uṣṭra-ādi-yoniṣu . candana-ādīni vastūni puṣpāṇi surabhīṇi api .. 35.512 ..
व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्? । अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः ॥ ३५.५१३ ॥
व्रजन्ति स्वानि विष्णोः ते व्रजन्ते याम्य-यातनाम्? । अनुभूय पुनर् भूयस् जायन्ते गन्धमूषिकाः ॥ ३५।५१३ ॥
vrajanti svāni viṣṇoḥ te vrajante yāmya-yātanām? . anubhūya punar bhūyas jāyante gandhamūṣikāḥ .. 35.513 ..
उपानत्पादुकापीठवाहनानि हरन्तिये । उषित्वा नरकेष्वेते जायन्ते फणिनां कुले ॥ ३५.५१४ ॥
उपानह् पादुका-पीठ-वाहनानि हरन्ति ये । उषित्वा नरकेषु एते जायन्ते फणिनाम् कुले ॥ ३५।५१४ ॥
upānah pādukā-pīṭha-vāhanāni haranti ye . uṣitvā narakeṣu ete jāyante phaṇinām kule .. 35.514 ..
गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहं । आहृत्य येऽनुभुञ्जन्ते नरकेषु दुरत्ययाः ॥ ३५.५१५ ॥
गो-भू-हिरण्य-वस्त्र-आदि धनम् विष्णोः परिग्रहम् । आहृत्य ये अनुभुञ्जन्ते नरकेषु दुरत्ययाः ॥ ३५।५१५ ॥
go-bhū-hiraṇya-vastra-ādi dhanam viṣṇoḥ parigraham . āhṛtya ye anubhuñjante narakeṣu duratyayāḥ .. 35.515 ..
उषित्वा प्रेत्य भूयोऽपि जायन्ते श्वादियोनिषु । सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ॥ ३५.५१६ ॥
उषित्वा प्रेत्य भूयस् अपि जायन्ते श्व-आदि-योनिषु । सर्वेषु नरकेषु एवम् देव-ब्रह्म-स्व-हारिणः ॥ ३५।५१६ ॥
uṣitvā pretya bhūyas api jāyante śva-ādi-yoniṣu . sarveṣu narakeṣu evam deva-brahma-sva-hāriṇaḥ .. 35.516 ..
नसन्ति मूढमतयो याम्यदुःखेषु यातनाः । वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ॥ ३५.५१७ ॥
नसन्ति मूढ-मतयः याम्य-दुःखेषु यातनाः । वासुदेव-प्रतिकृतेः भेदन-छेदन-आदिषु ॥ ३५।५१७ ॥
nasanti mūḍha-matayaḥ yāmya-duḥkheṣu yātanāḥ . vāsudeva-pratikṛteḥ bhedana-chedana-ādiṣu .. 35.517 ..
विक्रीडादीनियान्येषु यतन्ते पापचेतसः । एते यान्ति क्रमात्सर्वास्नरकान्भृशदारुणान् ॥ ३५.५१८ ॥
विक्रीडा-आदीनि इयान् येषु यतन्ते पाप-चेतसः । एते यान्ति क्रमात् सर्वान् नरकान् भृश-दारुणान् ॥ ३५।५१८ ॥
vikrīḍā-ādīni iyān yeṣu yatante pāpa-cetasaḥ . ete yānti kramāt sarvān narakān bhṛśa-dāruṇān .. 35.518 ..
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः । कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः ॥ ३५.५१९ ॥
अन्येषु अपि अपचारेषु स्थूल-सूक्ष्मेषु मानवाः । कृतिनः प्रेत्य नरके पच्यन्ते दुःख-भागिनः ॥ ३५।५१९ ॥
anyeṣu api apacāreṣu sthūla-sūkṣmeṣu mānavāḥ . kṛtinaḥ pretya narake pacyante duḥkha-bhāginaḥ .. 35.519 ..
अथनित्यार्चनायां वै देवेशस्य विशेषतः । उपचारादिहानो तु पापस्येदं फलं भवेथ् ॥ ३५.५२० ॥
अथ नित्य-अर्चनायाम् वै देवेशस्य विशेषतः । तु पापस्य इदम् फलम् ॥ ३५।५२० ॥
atha nitya-arcanāyām vai deveśasya viśeṣataḥ . tu pāpasya idam phalam .. 35.520 ..
आसनस्य विहीने तु धर्मनाशो भविष्यति । स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके ॥ ३५.५२१ ॥
आसनस्य विहीने तु धर्म-नाशः भविष्यति । स्वागते बुद्धि-नाशः स्यात् मूक-त्वम् अनुमानके ॥ ३५।५२१ ॥
āsanasya vihīne tu dharma-nāśaḥ bhaviṣyati . svāgate buddhi-nāśaḥ syāt mūka-tvam anumānake .. 35.521 ..
विहीने पादुकायास्तु पङ्गुत्वं संभवत्युत । पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति ॥ ३५.५२२ ॥
विहीने पादुकायाः तु पङ्गु-त्वम् संभवति उत । पाद्य-हीने महान् रोगः क्लेशः च अपि भविष्यति ॥ ३५।५२२ ॥
vihīne pādukāyāḥ tu paṅgu-tvam saṃbhavati uta . pādya-hīne mahān rogaḥ kleśaḥ ca api bhaviṣyati .. 35.522 ..
दन्त धावनहीने च दुष्टदन्तोऽभिजायते । तांबूलहीने विद्वेषं कुष्टं तैलविहीनके ॥ ३५.५२३ ॥
दन्त धावन-हीने च दुष्ट-दन्तः अभिजायते । तांबूल-हीने विद्वेषम् कुष्टम् तैल-विहीनके ॥ ३५।५२३ ॥
danta dhāvana-hīne ca duṣṭa-dantaḥ abhijāyate . tāṃbūla-hīne vidveṣam kuṣṭam taila-vihīnake .. 35.523 ..
केशसंशोधने हीने गलरोगो भविष्यति । स्नानद्रव्यविहीने च स्नानहीने तथैव च ॥ ३५.५२४ ॥
केश-संशोधने हीने गल-रोगः भविष्यति । स्नान-द्रव्य-विहीने च स्नान-हीने तथा एव च ॥ ३५।५२४ ॥
keśa-saṃśodhane hīne gala-rogaḥ bhaviṣyati . snāna-dravya-vihīne ca snāna-hīne tathā eva ca .. 35.524 ..
राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः । प्लोतहीने वातरोगो वस्त्रहीने जलोदरः ॥ ३५.५२५ ॥
राजयक्ष्मा भवेत् रोगः पापिष्ठः च सु दारुणः । प्लोत-हीने वात-रोगः वस्त्र-हीने जलोदरः ॥ ३५।५२५ ॥
rājayakṣmā bhavet rogaḥ pāpiṣṭhaḥ ca su dāruṇaḥ . plota-hīne vāta-rogaḥ vastra-hīne jalodaraḥ .. 35.525 ..
संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके । अग्निदाहभयं चैव मन्दाग्नित्वं च जायते ॥ ३५.५२६ ॥
संव्यान-हीने हृद्-रोगः यज्ञसूत्र-विहीनके । अग्नि-दाह-भयम् च एव मन्द-अग्नि-त्वम् च जायते ॥ ३५।५२६ ॥
saṃvyāna-hīne hṛd-rogaḥ yajñasūtra-vihīnake . agni-dāha-bhayam ca eva manda-agni-tvam ca jāyate .. 35.526 ..
गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयं । पुष्पहीने त्वलाभस्स्यात्तथा च कफसंभवः ॥ ३५.५२७ ॥
गन्ध-हीने च कुष्ठः स्यात् भूषा-हीने महत् भयम् । पुष्प-हीने तु अलाभः स्यात् तथा च कफ-संभवः ॥ ३५।५२७ ॥
gandha-hīne ca kuṣṭhaḥ syāt bhūṣā-hīne mahat bhayam . puṣpa-hīne tu alābhaḥ syāt tathā ca kapha-saṃbhavaḥ .. 35.527 ..
(शूद्राहृतैः क्रयक्रीतैरर्चनं निष्फलं सुमैः । अरण्याद्वागृहाद्वापि विक्रीतान्यापणान्तराथ् ॥ ३५.५२८ ॥
(शूद्र-आहृतैः क्रय-क्रीतैः अर्चनम् निष्फलम् सुमैः । अरण्यात् वा अगृहात् वा अपि विक्रीतानि आपण-अन्तरा ॥ ३५।५२८ ॥
(śūdra-āhṛtaiḥ kraya-krītaiḥ arcanam niṣphalam sumaiḥ . araṇyāt vā agṛhāt vā api vikrītāni āpaṇa-antarā .. 35.528 ..
अयाचितानि पुष्पाणि लब्धान्यर्हाणि नार्ऽचने । तथा पर्युषितैर्यापि जन्तुभिर्दूषितैरपि ॥ ३५.५२९ ॥
अ याचितानि पुष्पाणि लब्धानि अर्हाणि न अर्ऽचने । तथा पर्युषितैः या अपि जन्तुभिः दूषितैः अपि ॥ ३५।५२९ ॥
a yācitāni puṣpāṇi labdhāni arhāṇi na ar'cane . tathā paryuṣitaiḥ yā api jantubhiḥ dūṣitaiḥ api .. 35.529 ..
म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गन्धैः पादलङ्घितैः । प्रतिलोमान्त्यजानीतैरर्चनं त्वफलं भवेथ् ॥ ३५.५३० ॥
म्लानैः अस्पृश्य-संस्पृष्टैः दुर्गन्धैः पाद-लङ्घितैः । प्रतिलोम-अन्त्य-जानीतैः अर्चनम् तु अफलम् ॥ ३५।५३० ॥
mlānaiḥ aspṛśya-saṃspṛṣṭaiḥ durgandhaiḥ pāda-laṅghitaiḥ . pratiloma-antya-jānītaiḥ arcanam tu aphalam .. 35.530 ..
उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते । अधमं तु क्रयक्रीतं पारक्यमधमाधमं ॥ ३५.५३१ ॥
उत्तमम् स्व-अर्जितम् पुष्पम् मध्यमम् वन्यम् उच्यते । अधमम् तु क्रय-क्रीतम् पारक्यम् अधम-अधमम् ॥ ३५।५३१ ॥
uttamam sva-arjitam puṣpam madhyamam vanyam ucyate . adhamam tu kraya-krītam pārakyam adhama-adhamam .. 35.531 ..
हस्तानीतं पटानीतं स्वयं पतितमेव वा । अन्यारामोद्भवं पुष्पं नार्ऽपयेदिति के चन ॥ ३५.५३२ ॥
हस्त-आनीतम् पट-आनीतम् स्वयम् पतितम् एव वा । अन्य-आराम-उद्भवम् पुष्पम् न आर्ऽपयेत् इति के चन ॥ ३५।५३२ ॥
hasta-ānītam paṭa-ānītam svayam patitam eva vā . anya-ārāma-udbhavam puṣpam na ār'payet iti ke cana .. 35.532 ..
आरहरे च शुक्रे च मन्वादिषु युगादिषु । नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्तथा ॥ ३५.५३३ ॥
आरहरे च शुक्रे च मनु-आदिषु युग-आदिषु । न आहरेत् तुलसी-पत्रम् मध्याह्नात् परतस् तथा ॥ ३५।५३३ ॥
ārahare ca śukre ca manu-ādiṣu yuga-ādiṣu . na āharet tulasī-patram madhyāhnāt paratas tathā .. 35.533 ..
संक्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि संध्ययोः । तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ॥ ३५.५३४ ॥
संक्रान्त्याम् पक्षयोः अन्ते द्वादश्योः निशि संध्ययोः । तुलसीम् ये विचिन्वन्ति ते कृन्तन्ति हरेः शिरः ॥ ३५।५३४ ॥
saṃkrāntyām pakṣayoḥ ante dvādaśyoḥ niśi saṃdhyayoḥ . tulasīm ye vicinvanti te kṛntanti hareḥ śiraḥ .. 35.534 ..
भृग्वर्कांगारके वारे द्वादश्यां पञ्चपर्वसु । नाहरेत्तुलसीपत्रं नन्दायां श्रवणेऽपि च ॥ ३५.५३५ ॥
भृगु-अर्क-अंगारके वारे द्वादश्याम् पञ्च-पर्वसु । न आहरेत् तुलसी-पत्रम् नन्दायाम् श्रवणे अपि च ॥ ३५।५३५ ॥
bhṛgu-arka-aṃgārake vāre dvādaśyām pañca-parvasu . na āharet tulasī-patram nandāyām śravaṇe api ca .. 35.535 ..
केशकीटापविद्धानि शीर्णपर्युषितानि च । भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाहरेथ् ॥ ३५.५३६ ॥
केश-कीट-अपविद्धानि शीर्ण-पर्युषितानि च । भुग्न-पत्रम् न च ग्राह्यम् कृमि-दुष्टम् च ॥ ३५।५३६ ॥
keśa-kīṭa-apaviddhāni śīrṇa-paryuṣitāni ca . bhugna-patram na ca grāhyam kṛmi-duṣṭam ca .. 35.536 ..
वर्जयेदूर्णनाभेन वासितं यदि शोभनं । स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु ॥ ३५.५३७ ॥
वर्जयेत् ऊर्णनाभेन वासितम् यदि शोभनम् । स्थल-जम् ना उद्धरेत् पुष्पम् छेदयेत् जल-जम् न तु ॥ ३५।५३७ ॥
varjayet ūrṇanābhena vāsitam yadi śobhanam . sthala-jam nā uddharet puṣpam chedayet jala-jam na tu .. 35.537 ..
निषिद्धैर्दुःखदैर्देवं नार्ऽचयेत कदा चन । न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः ॥ ३५.५३८ ॥
निषिद्धैः दुःख-दैः देवम् न आर्ऽचयेत कदा चन । न शुष्कैः पूजयेत् देवम् कुनुमैः न मही-गतैः ॥ ३५।५३८ ॥
niṣiddhaiḥ duḥkha-daiḥ devam na ār'cayeta kadā cana . na śuṣkaiḥ pūjayet devam kunumaiḥ na mahī-gataiḥ .. 35.538 ..
न विशीर्णतरैश्शिष्टैर्नाशुभैर्नाविकासिभिः । पूतिगन्धोग्रन्धानि ह्युग्रगन्धानि वर्जयेथ् ॥ ३५.५३९ ॥
न विशीर्णतरैः शिष्टैः न अशुभैः न अविकासिभिः । पूति-गन्ध-उग्रन्धानि हि उग्र-गन्धानि ॥ ३५।५३९ ॥
na viśīrṇataraiḥ śiṣṭaiḥ na aśubhaiḥ na avikāsibhiḥ . pūti-gandha-ugrandhāni hi ugra-gandhāni .. 35.539 ..
स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः । देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः ॥ ३५.५४० ॥
स्नानम् कृत्वा तु ये के चित् पुष्पम् गृह्णन्ति वै द्विजाः । देवताः तत् न गृह्णन्ति तत् न गृह्णन्ति मानवाः ॥ ३५।५४० ॥
snānam kṛtvā tu ye ke cit puṣpam gṛhṇanti vai dvijāḥ . devatāḥ tat na gṛhṇanti tat na gṛhṇanti mānavāḥ .. 35.540 ..
पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवथ् । स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेथ् ॥ ३५.५४१ ॥
पितरः तत् न गृह्णन्ति भस्मीभवति । स्नानम् कृत्वा तु मध्याह्ने पुष्पाणि न ॥ ३५।५४१ ॥
pitaraḥ tat na gṛhṇanti bhasmībhavati . snānam kṛtvā tu madhyāhne puṣpāṇi na .. 35.541 ..
तेभ्यःक्रुद्धोऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति । अन्यदेवार्ऽथसन्दिष्टैः पूजयेद्यो हरिं प्रभुं ॥ ३५.५४२ ॥
तेभ्यः क्रुद्धः अक्षयम् दुःखम् क्रोधात् विष्णुः प्रयच्छति । अन्य-देव-अर्ऽथ-सन्दिष्टैः पूजयेत् यः हरिम् प्रभुम् ॥ ३५।५४२ ॥
tebhyaḥ kruddhaḥ akṣayam duḥkham krodhāt viṣṇuḥ prayacchati . anya-deva-ar'tha-sandiṣṭaiḥ pūjayet yaḥ harim prabhum .. 35.542 ..
स तु तेनैव पापेन मण्डूको जायते नरः । ततस्स नरकं याति यावदाभूतसंप्लवं ॥ ३५.५४३ ॥
स तु तेन एव पापेन मण्डूकः जायते नरः । ततस् स नरकम् याति यावत् आभूतसंप्लवम् ॥ ३५।५४३ ॥
sa tu tena eva pāpena maṇḍūkaḥ jāyate naraḥ . tatas sa narakam yāti yāvat ābhūtasaṃplavam .. 35.543 ..
कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः । स पूति गन्धसंयुक्तः कुष्ठी चैव प्रजायते ॥ ३५.५४४ ॥
कुसुमानाम् निवेद्यानाम् गन्धम् आघ्राति यः नरः । स पूति गन्ध-संयुक्तः कुष्ठी च एव प्रजायते ॥ ३५।५४४ ॥
kusumānām nivedyānām gandham āghrāti yaḥ naraḥ . sa pūti gandha-saṃyuktaḥ kuṣṭhī ca eva prajāyate .. 35.544 ..
जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः । असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनं ॥ ३५.५४५ ॥
जन्म-द्वयम् तु वै मूढः शूद्र-ताम् याति मानवः । अ सूत्र-ग्रथितम् पुष्पम् अस्नेह-अक्तम् तथा ओदनम् ॥ ३५।५४५ ॥
janma-dvayam tu vai mūḍhaḥ śūdra-tām yāti mānavaḥ . a sūtra-grathitam puṣpam asneha-aktam tathā odanam .. 35.545 ..
अवालुकायुतं तोयं सर्वं पर्युषितं भवेथ् । एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः ॥ ३५.५४६ ॥
अ वालुका-युतम् तोयम् सर्वम् पर्युषितम् । एतैः तु पूजनात् सद्यस् निष्फलाः सकलाः क्रियाः ॥ ३५।५४६ ॥
a vālukā-yutam toyam sarvam paryuṣitam . etaiḥ tu pūjanāt sadyas niṣphalāḥ sakalāḥ kriyāḥ .. 35.546 ..
आदर्शनविहीने तु कामिला च भविष्यति । बाधिर्यं धूपहीने च दीपहीनेऽन्धतामियाथ् ॥ ३५.५४७ ॥
आदर्शन-विहीने तु कामिला च भविष्यति । बाधिर्यम् धूप-हीने च दीप-हीने अन्ध-ताम् इयाथ् ॥ ३५।५४७ ॥
ādarśana-vihīne tu kāmilā ca bhaviṣyati . bādhiryam dhūpa-hīne ca dīpa-hīne andha-tām iyāth .. 35.547 ..
अर्घ्यहीने तु देवस्य कुलं भवति निन्दितं । मधुपर्कविहीने च मधुमेहो भविष्यति ॥ ३५.५४८ ॥
अर्घ्य-हीने तु देवस्य कुलम् भवति निन्दितम् । मधुपर्क-विहीने च मधुमेहः भविष्यति ॥ ३५।५४८ ॥
arghya-hīne tu devasya kulam bhavati ninditam . madhuparka-vihīne ca madhumehaḥ bhaviṣyati .. 35.548 ..
मात्रादानविहीने तु सर्वनाशो भविष्यति । रक्षानीराजने हीने राङ्गसैर्(?) आवृतिर्भवेथ् ॥ ३५.५४९ ॥
मात्रा-दान-विहीने तु सर्व-नाशः भविष्यति । रक्षा-नीराजने हीने राङ्गसैः(?) आवृतिः भवेथ् ॥ ३५।५४९ ॥
mātrā-dāna-vihīne tu sarva-nāśaḥ bhaviṣyati . rakṣā-nīrājane hīne rāṅgasaiḥ(?) āvṛtiḥ bhaveth .. 35.549 ..
वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवं । हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवं ॥ ३५.५५० ॥
वेद-अध्ययन-हीने तु कर्म-लोपः भवेत् ध्रुवम् । हविः-निवेदने हीने दुर्भिक्षम् भवति ध्रुवम् ॥ ३५।५५० ॥
veda-adhyayana-hīne tu karma-lopaḥ bhavet dhruvam . haviḥ-nivedane hīne durbhikṣam bhavati dhruvam .. 35.550 ..
उपदंशविहीने च दारिद्षं ग्रामवासिनां । नालिकेरफले हीने हीने क्षीरादिके तथा ॥ ३५.५५१ ॥
उपदंश-विहीने च दारिद्षम् ग्राम-वासिनाम् । नालिकेर-फले हीने हीने क्षीर-आदिके तथा ॥ ३५।५५१ ॥
upadaṃśa-vihīne ca dāridṣam grāma-vāsinām . nālikera-phale hīne hīne kṣīra-ādike tathā .. 35.551 ..
विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवं । हीने भक्ष्यादिके चैव विविधे हविषी प्रभो ॥ ३५.५५२ ॥
विनाशः सर्व-सस्यानाम् दुर्भिक्षम् च । हीने भक्ष्य-आदिके च एव विविधे हविषी प्रभो ॥ ३५।५५२ ॥
vināśaḥ sarva-sasyānām durbhikṣam ca . hīne bhakṣya-ādike ca eva vividhe haviṣī prabho .. 35.552 ..
तद्ग्रामयजमानस्य विशेषेणाशुभं भवेथ् । विनियोगक्रमस्यात्रहीने पूजैव नश्यति ॥ ३५.५५३ ॥
तत् ग्राम-यजमानस्य विशेषेण अशुभम् । विनियोग-क्रमस्य अत्र हीने पूजा एव नश्यति ॥ ३५।५५३ ॥
tat grāma-yajamānasya viśeṣeṇa aśubham . viniyoga-kramasya atra hīne pūjā eva naśyati .. 35.553 ..
काले यवनिकाहीने कर्ता चैव विनश्यति । द्वारपूजाविहीने तु तस्क रादिप्रवेशनं ॥ ३५.५५४ ॥
काले यवनिका-हीने कर्ता च एव विनश्यति । द्वार-पूजा-विहीने तु तस्क-आदि-प्रवेशनम् ॥ ३५।५५४ ॥
kāle yavanikā-hīne kartā ca eva vinaśyati . dvāra-pūjā-vihīne tu taska-ādi-praveśanam .. 35.554 ..
द्वारपालकपूजायो हीने चौराद्युपद्रवः । शान्तस्य पूजने हीने तथा चैवानपायिनां ॥ ३५.५५५ ॥
द्वारपालक-पूजा-अयः हीने चौर-आदि-उपद्रवः । शान्तस्य पूजने हीने तथा च एव अनपायिनाम् ॥ ३५।५५५ ॥
dvārapālaka-pūjā-ayaḥ hīne caura-ādi-upadravaḥ . śāntasya pūjane hīne tathā ca eva anapāyinām .. 35.555 ..
राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः । यजमानस्य तत्रापि परराजाद्युपद्रवः ॥ ३५.५५६ ॥
राज्ञः राष्ट्रस्य सर्वस्य विनाशः स्यात् न संशयः । यजमानस्य तत्र अपि पर-राज-आदि-उपद्रवः ॥ ३५।५५६ ॥
rājñaḥ rāṣṭrasya sarvasya vināśaḥ syāt na saṃśayaḥ . yajamānasya tatra api para-rāja-ādi-upadravaḥ .. 35.556 ..
पापरोगादिपीडा च भविष्यति तथा पुनः, । सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु ॥ ३५.५५७ ॥
पाप-रोग-आदि-पीडा च भविष्यति तथा पुनर्, । सर्प-वृश्चिक-लूता-आद्यैः हानिः च एव भवेत् बहु ॥ ३५।५५७ ॥
pāpa-roga-ādi-pīḍā ca bhaviṣyati tathā punar, . sarpa-vṛścika-lūtā-ādyaiḥ hāniḥ ca eva bhavet bahu .. 35.557 ..
पुष्पन्यासेर्ऽचनेहीने न्यूने वा मन्त्रवर्जिते, । तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति ॥ ३५.५५८ ॥
न्यूने वा मन्त्र-वर्जिते, । तद्-ग्राम-वासिनाम् च एव राज-द्वेषः भविष्यति ॥ ३५।५५८ ॥
nyūne vā mantra-varjite, . tad-grāma-vāsinām ca eva rāja-dveṣaḥ bhaviṣyati .. 35.558 ..
भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, । भूतादिनागपर्यन्तं बल्यर्चनविहीनके ॥ ३५.५५९ ॥
भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, । भूत-आदि-नाग-पर्यन्तम् बलि-अर्चन-विहीनके ॥ ३५।५५९ ॥
bhūtapīṭhasya pārśve vā dakṣiṇe vā viśeṣataḥ, . bhūta-ādi-nāga-paryantam bali-arcana-vihīnake .. 35.559 ..
शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः । श्रीदेव्या अर्चने हीने संपदां तु भवेत्क्षयः ॥ ३५.५६० ॥
शाकिनी-आदि-ग्रहाः सर्वे प्रविशन्ति न संशयः । श्री-देव्याः अर्चने हीने संपदाम् तु भवेत् क्षयः ॥ ३५।५६० ॥
śākinī-ādi-grahāḥ sarve praviśanti na saṃśayaḥ . śrī-devyāḥ arcane hīne saṃpadām tu bhavet kṣayaḥ .. 35.560 ..
हरिण्यर्चनहीने च स्थाननाशो भविष्यति, । अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते ॥ ३५.५६१ ॥
हरिणी-अर्चन-हीने च स्थान-नाशः भविष्यति, । अग्नि-पूजा-विहीने तु न्यूने वा मन्त्र-वर्जिते ॥ ३५।५६१ ॥
hariṇī-arcana-hīne ca sthāna-nāśaḥ bhaviṣyati, . agni-pūjā-vihīne tu nyūne vā mantra-varjite .. 35.561 ..
निवेदनाज्यहीने वा संभवेद्वर्णसंकरः, । वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेथ् ॥ ३५.५६२ ॥
निवेदन-आज्य-हीने वा संभवेत् वर्ण-संकरः, । वर्ण-आश्रम-आदि-हानिः च ब्राह्मणानाम् ॥ ३५।५६२ ॥
nivedana-ājya-hīne vā saṃbhavet varṇa-saṃkaraḥ, . varṇa-āśrama-ādi-hāniḥ ca brāhmaṇānām .. 35.562 ..
पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः, । मुखवासविहीने तु जनविद्वेषणं भवेथ् ॥ ३५.५६३ ॥
पानीय-हीने देवस्य भवेत् तत्र तु अवग्रहः, । मुख-वास-विहीने तु जन-विद्वेषणम् ॥ ३५।५६३ ॥
pānīya-hīne devasya bhavet tatra tu avagrahaḥ, . mukha-vāsa-vihīne tu jana-vidveṣaṇam .. 35.563 ..
बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते । बलक्षयो जनानां स्यात्पितॄणां पतनं भवेथ् ॥ ३५.५६४ ॥
बलि-द्रव्य-विहीने तु न्यूने मन्त्र-विवर्जिते । बल-क्षयः जनानाम् स्यात् पितॄणाम् पतनम् ॥ ३५।५६४ ॥
bali-dravya-vihīne tu nyūne mantra-vivarjite . bala-kṣayaḥ janānām syāt pitṝṇām patanam .. 35.564 ..
पुष्पांजलिविहीने तु राजकोपा भविष्यति, । प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, ॥ ३५.५६५ ॥
पुष्प-अंजलि-विहीने तु राज-कोपा भविष्यति, । प्रणाम-स्तुति-हीने तु सद्यस् मृत्युः भविष्यति, ॥ ३५।५६५ ॥
puṣpa-aṃjali-vihīne tu rāja-kopā bhaviṣyati, . praṇāma-stuti-hīne tu sadyas mṛtyuḥ bhaviṣyati, .. 35.565 ..
ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेथ् । प्राणायामविहीने तु परचक्रभयं भवेथ् ॥ ३५.५६६ ॥
ध्यान-हीने कुलम् हन्ति न्यास-हीने विपद् भवेथ् । प्राणायाम-विहीने तु पर-चक्र-भयम् ॥ ३५।५६६ ॥
dhyāna-hīne kulam hanti nyāsa-hīne vipad bhaveth . prāṇāyāma-vihīne tu para-cakra-bhayam .. 35.566 ..
शौचाचारविहीने तु पशुपुत्रादिनाशनं । बिंबन्यासविहीने तु कलत्रं तस्य नश्यति ॥ ३५.५६७ ॥
शौच-आचार-विहीने तु पशु-पुत्र-आदि-नाशनम् । बिंबन्यास-विहीने तु कलत्रम् तस्य नश्यति ॥ ३५।५६७ ॥
śauca-ācāra-vihīne tu paśu-putra-ādi-nāśanam . biṃbanyāsa-vihīne tu kalatram tasya naśyati .. 35.567 ..
प्रदक्षिणविहीने तु पातकी जायते नरः । नित्यमर्चावसानेतु पूजकाचार्ययोर्मुदे ॥ ३५.५६८ ॥
प्रदक्षिण-विहीने तु पातकी जायते नरः । नित्यम् अर्चा-अवसाने तु पूजक-आचार्ययोः मुदे ॥ ३५।५६८ ॥
pradakṣiṇa-vihīne tu pātakī jāyate naraḥ . nityam arcā-avasāne tu pūjaka-ācāryayoḥ mude .. 35.568 ..
दक्षिणादानहीने तु सा पूजा निष्फला भवेथ् । राष्ट्रस्य यजमानस्य राज्ञश्चापि भवेद्भयं ॥ ३५.५६९ ॥
दक्षिणा-दान-हीने तु सा पूजा निष्फला । राष्ट्रस्य यजमानस्य राज्ञः च अपि भवेत् भयम् ॥ ३५।५६९ ॥
dakṣiṇā-dāna-hīne tu sā pūjā niṣphalā . rāṣṭrasya yajamānasya rājñaḥ ca api bhavet bhayam .. 35.569 ..
हीने तु पाचकादीनां दक्षिणादानकर्मणि । पशुवाहननाशश्च तद्ग्रामे संभवेन्नृणां ॥ ३५.५७० ॥
हीने तु पाचक-आदीनाम् दक्षिणा-दान-कर्मणि । पशु-वाहन-नाशः च तद्-ग्रामे संभवेत् नृणाम् ॥ ३५।५७० ॥
hīne tu pācaka-ādīnām dakṣiṇā-dāna-karmaṇi . paśu-vāhana-nāśaḥ ca tad-grāme saṃbhavet nṛṇām .. 35.570 ..
प्रातः पूजाविहीने तु तद्ग्रामेऽवग्रहो भवेथ् । ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनं ॥ ३५.५७१ ॥
प्रातर् पूजा-विहीने तु तद्-ग्रामे अवग्रहः । ब्राह्मणानाम् क्रिया-हानिः सर्व-कर्म-विनाशनम् ॥ ३५।५७१ ॥
prātar pūjā-vihīne tu tad-grāme avagrahaḥ . brāhmaṇānām kriyā-hāniḥ sarva-karma-vināśanam .. 35.571 ..
मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति । सायङ्कालार्ऽचने हीने तद्ग्रामयजमानयोः ॥ ३५.५७२ ॥
मध्याह्न-पूजा-हीने तु राष्ट्र-क्षोभः भविष्यति । सायङ्काल-अर्ऽचने हीने तत् ग्राम-यजमानयोः ॥ ३५।५७२ ॥
madhyāhna-pūjā-hīne tu rāṣṭra-kṣobhaḥ bhaviṣyati . sāyaṅkāla-ar'cane hīne tat grāma-yajamānayoḥ .. 35.572 ..
अर्थहानिः प्रजाहानिर्भविष्यति न संशयः । उपसंध्यार्चने हीने कर्मलोपो भविष्यति ॥ ३५.५७३ ॥
अर्थ-हानिः प्रजा-हानिः भविष्यति न संशयः । उपसंध्या-अर्चने हीने कर्म-लोपः भविष्यति ॥ ३५।५७३ ॥
artha-hāniḥ prajā-hāniḥ bhaviṣyati na saṃśayaḥ . upasaṃdhyā-arcane hīne karma-lopaḥ bhaviṣyati .. 35.573 ..
विष्णुपञ्चदिने चैव हीने स्नानेर्ऽचने तथा । उत्सवे च विशेषण यजमानभयं भवेथ् ॥ ३५.५७४ ॥
विष्णु-पञ्च-दिने च एव हीने तथा । उत्सवे च यजमान-भयम् ॥ ३५।५७४ ॥
viṣṇu-pañca-dine ca eva hīne tathā . utsave ca yajamāna-bhayam .. 35.574 ..
मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति । विषुदे चायने चैव हीने तत्रोक्तकर्मणि ॥ ३५.५७५ ॥
मास-पूजा-विहीने तु भ्रातृ-द्वेषः भविष्यति । विषुदे च अयने च एव हीने तत्र उक्त-कर्मणि ॥ ३५।५७५ ॥
māsa-pūjā-vihīne tu bhrātṛ-dveṣaḥ bhaviṣyati . viṣude ca ayane ca eva hīne tatra ukta-karmaṇi .. 35.575 ..
ग्रामस्य यजमानस्य यशोहानिर्भविष्यति । स्नपनोक्ते तथान्यस्मिन्दिवसे स्नानवर्जिते ॥ ३५.५७६ ॥
ग्रामस्य यजमानस्य यशः-हानिः भविष्यति । स्नपन-उक्ते तथा अन्यस्मिन् दिवसे स्नान-वर्जिते ॥ ३५।५७६ ॥
grāmasya yajamānasya yaśaḥ-hāniḥ bhaviṣyati . snapana-ukte tathā anyasmin divase snāna-varjite .. 35.576 ..
अकाले च कृते वापि भवेत्क्षामभयं तथा । नित्योत्सवविहीने तु निरानन्दो भवेज्जनः ॥ ३५.५७७ ॥
अकाले च कृते वा अपि भवेत् क्षाम-भयम् तथा । नित्य-उत्सव-विहीने तु निरानन्दः भवेत् जनः ॥ ३५।५७७ ॥
akāle ca kṛte vā api bhavet kṣāma-bhayam tathā . nitya-utsava-vihīne tu nirānandaḥ bhavet janaḥ .. 35.577 ..
अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेथ् । निमित्ते यदि संप्राप्ते स्नापयेच्चेन्न माधवं ॥ ३५.५७८ ॥
अन्यस्मिन् अर्चन-द्रव्ये विहीने दोषः । निमित्ते यदि संप्राप्ते स्नापयेत् चेद् न माधवम् ॥ ३५।५७८ ॥
anyasmin arcana-dravye vihīne doṣaḥ . nimitte yadi saṃprāpte snāpayet ced na mādhavam .. 35.578 ..
तस्य पापफलं नक्तुं न केनापि हि शक्यते । राज्ञो राष्ट्रस्य च भवेत्सर्वत्रात्याहितं ध्रुवं ॥ ३५.५७९ ॥
तस्य पाप-फलम् नक्तुम् न केन अपि हि शक्यते । राज्ञः राष्ट्रस्य च भवेत् सर्वत्र अत्याहितम् ध्रुवम् ॥ ३५।५७९ ॥
tasya pāpa-phalam naktum na kena api hi śakyate . rājñaḥ rāṣṭrasya ca bhavet sarvatra atyāhitam dhruvam .. 35.579 ..
गृहनाशः प्रपाहीने हीनायां चाप्यलङ्कृतौ । मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः ॥ ३५.५८० ॥
गृह-नाशः प्रपा-हीने हीनायाम् च अपि अलङ्कृतौ । मृद् सु हीना अनु नाशः स्यात् सस्यानाम् तु न संशयः ॥ ३५।५८० ॥
gṛha-nāśaḥ prapā-hīne hīnāyām ca api alaṅkṛtau . mṛd su hīnā anu nāśaḥ syāt sasyānām tu na saṃśayaḥ .. 35.580 ..
पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते । धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा ॥ ३५.५८१ ॥
पर्वतेषु विहीनेषु स्थैर्यम् तस्य विलुप्यते । धान्येषु तु विहीनेषु भवेत् तथा ॥ ३५।५८१ ॥
parvateṣu vihīneṣu sthairyam tasya vilupyate . dhānyeṣu tu vihīneṣu bhavet tathā .. 35.581 ..
अङ्कुराणामभावे तु प्रजाहानिश्च संभवेथ् । मङ्गलेष्वथ हीनेषु तस्य भूयादमङ्गलं ॥ ३५.५८२ ॥
अङ्कुराणाम् अभावे तु प्रजा-हानिः च । मङ्गलेषु अथ हीनेषु तस्य भूयात् अमङ्गलम् ॥ ३५।५८२ ॥
aṅkurāṇām abhāve tu prajā-hāniḥ ca . maṅgaleṣu atha hīneṣu tasya bhūyāt amaṅgalam .. 35.582 ..
पञ्चगव्यविहीने तु गोहत्या समवाप्यते । घृतहीने बुद्धिनाशोऽनायुष्यं क्षीरहीनके ॥ ३५.५८३ ॥
पञ्चगव्य-विहीने तु गोहत्या समवाप्यते । घृत-हीने बुद्धि-नाशः अनायुष्यम् क्षीर-हीनके ॥ ३५।५८३ ॥
pañcagavya-vihīne tu gohatyā samavāpyate . ghṛta-hīne buddhi-nāśaḥ anāyuṣyam kṣīra-hīnake .. 35.583 ..
मधुहीने महान्व्याधिर्दधिहीने तु संज्वरः । क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि ॥ ३५.५८४ ॥
मधु-हीने महान् व्याधिः दधि-हीने तु संज्वरः । क्षीर-हीने भवेत् तस्य मलिना कीर्तिः एव हि ॥ ३५।५८४ ॥
madhu-hīne mahān vyādhiḥ dadhi-hīne tu saṃjvaraḥ . kṣīra-hīne bhavet tasya malinā kīrtiḥ eva hi .. 35.584 ..
गन्धोदकविहीने तु दुर्गन्धो जायते भृशं । अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते ॥ ३५.५८५ ॥
गन्ध-उदक-विहीने तु दुर्गन्धः जायते भृशम् । अक्षत-उदक-हीने तु क्षतिः तस्य प्रजायते ॥ ३५।५८५ ॥
gandha-udaka-vihīne tu durgandhaḥ jāyate bhṛśam . akṣata-udaka-hīne tu kṣatiḥ tasya prajāyate .. 35.585 ..
फलोदकविहीने तु विफलं तस्य जीवितं । कुशोदकविहीने च नैधेत ब्रह्मवर्चसं ॥ ३५.५८६ ॥
फल-उदक-विहीने तु विफलम् तस्य जीवितम् । कुश-उदक-विहीने च न एधेत ब्रह्मवर्चसम् ॥ ३५।५८६ ॥
phala-udaka-vihīne tu viphalam tasya jīvitam . kuśa-udaka-vihīne ca na edheta brahmavarcasam .. 35.586 ..
रत्नोदकविहीने च धनध्यान्य विनाशनं । अभावे चौषधीनान्तु व्याधिपीडा भविष्यति ॥ ३५.५८७ ॥
रत्न-उदक-विहीने च विनाशनम् । अभावे च ओषधीनाम् तु व्याधि-पीडा भविष्यति ॥ ३५।५८७ ॥
ratna-udaka-vihīne ca vināśanam . abhāve ca oṣadhīnām tu vyādhi-pīḍā bhaviṣyati .. 35.587 ..
उपस्नानविहीने तु मलिनं जायते कुलं । उष्णांभसामभोवे तु भवेदुष्णशरीरता ॥ ३५.५८८ ॥
उपस्नान-विहीने तु मलिनम् जायते कुलम् । तु भवेत् उष्ण-शरीर-ता ॥ ३५।५८८ ॥
upasnāna-vihīne tu malinam jāyate kulam . tu bhavet uṣṇa-śarīra-tā .. 35.588 ..
पुण्यपुष्पविहिने तु पापीयान्जायते नरः । जातीफलादिचूर्णस्य चाभावे तु विपद्भवेथ् ॥ ३५.५८९ ॥
पुण्य-पुष्प-विहिने तु पापीयान् जायते नरः । जातीफल-आदि-चूर्णस्य च अभावे तु ॥ ३५।५८९ ॥
puṇya-puṣpa-vihine tu pāpīyān jāyate naraḥ . jātīphala-ādi-cūrṇasya ca abhāve tu .. 35.589 ..
कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः । वनौषधीनां चालाभे रोगी भवति निश्चयः ॥ ३५.५९० ॥
कषाय-चूर्ण-हीने तु कान्ति-हीनः भवेत् नरः । वन-ओषधीनाम् च अलाभे रोगी भवति निश्चयः ॥ ३५।५९० ॥
kaṣāya-cūrṇa-hīne tu kānti-hīnaḥ bhavet naraḥ . vana-oṣadhīnām ca alābhe rogī bhavati niścayaḥ .. 35.590 ..
हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः । मूलगन्धविहीने तु वार्धक्यं भवति ध्रवं ॥ ३५.५९१ ॥
हारिद्र-चूर्ण-हीने तु गत-श्रीः जायते नरः । मूल-गन्ध-विहीने तु वार्धक्यम् भवति ध्रवम् ॥ ३५।५९१ ॥
hāridra-cūrṇa-hīne tu gata-śrīḥ jāyate naraḥ . mūla-gandha-vihīne tu vārdhakyam bhavati dhravam .. 35.591 ..
धातूनामप्यभावेतु सिर्धातुर्जायते नरः । प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके ॥ ३५.५९२ ॥
धातूनाम् अपि अभावे तु सिः धातुः जायते नरः । प्लोत-वस्त्र-उत्तरीयाणाम् भूषणानाम् विहीनके ॥ ३५।५९२ ॥
dhātūnām api abhāve tu siḥ dhātuḥ jāyate naraḥ . plota-vastra-uttarīyāṇām bhūṣaṇānām vihīnake .. 35.592 ..
कर्मनाशो भवेदेव न तुष्टति रमापतिः । आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनां ॥ ३५.५९३ ॥
कर्म-नाशः भवेत् एव न तुष्टति रमापतिः । आचार्यस्य ऋत्विजाम् तद्वत् अन्येषाम् च पदार्थिनाम् ॥ ३५।५९३ ॥
karma-nāśaḥ bhavet eva na tuṣṭati ramāpatiḥ . ācāryasya ṛtvijām tadvat anyeṣām ca padārthinām .. 35.593 ..
दक्षिणादानहीने च सर्वनाशो भविष्यति । हीने हविषि देवस्य निष्फलं स्नपनं भवेथ् ॥ ३५.५९४ ॥
दक्षिणा-दान-हीने च सर्व-नाशः भविष्यति । हीने हविषि देवस्य निष्फलम् स्नपनम् ॥ ३५।५९४ ॥
dakṣiṇā-dāna-hīne ca sarva-nāśaḥ bhaviṣyati . hīne haviṣi devasya niṣphalam snapanam .. 35.594 ..
स्नपनान्तोत्सवे हीने न देवःपरितुष्यति । शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः ॥ ३५.५९५ ॥
स्नपन-अन्त-उत्सवे हीने न देवः परितुष्यति । शिथिलम् भगवत्-गेहम् दृष्ट्या श्रुत्वा च ॥ ३५।५९५ ॥
snapana-anta-utsave hīne na devaḥ parituṣyati . śithilam bhagavat-geham dṛṣṭyā śrutvā ca .. 35.595 ..
तत्क्रिया लोपिता वापि स भवेद्देवहा ध्रुवं । तद्ग्रामवासिनस्सर्वे राजा चान्योधनी पुनः ॥ ३५.५९६ ॥
तद्-क्रिया लोपिता वा अपि स भवेत् देव-हा ध्रुवम् । तद्-ग्राम-वासिनः सर्वे राजा च अन् योधनी पुनर् ॥ ३५।५९६ ॥
tad-kriyā lopitā vā api sa bhavet deva-hā dhruvam . tad-grāma-vāsinaḥ sarve rājā ca an yodhanī punar .. 35.596 ..
शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेथ् । अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति ॥ ३५.५९७ ॥
शीघ्रम् सर्वम् समीकृत्य पूर्ववत् पुनर् आचरेथ् । अन्यथा यदि कुर्यात् शेत् राज-राष्ट्रम् विनश्यति ॥ ३५।५९७ ॥
śīghram sarvam samīkṛtya pūrvavat punar ācareth . anyathā yadi kuryāt śet rāja-rāṣṭram vinaśyati .. 35.597 ..
धर्मसेतुमिमं विन्द्यात्सर्वसाधारणं नरः । पालनीयस्सदा सोऽयं जगतां यत्र संस्थितिः ॥ ३५.५९८ ॥
धर्म-सेतुम् इमम् विन्द्यात् सर्व-साधारणम् नरः । पालनीयः सदा सः अयम् जगताम् यत्र संस्थितिः ॥ ३५।५९८ ॥
dharma-setum imam vindyāt sarva-sādhāraṇam naraḥ . pālanīyaḥ sadā saḥ ayam jagatām yatra saṃsthitiḥ .. 35.598 ..
प्रायश्चित्तनिमित्तेतु संप्राप्ते यस्तु मूढधीः । अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरं ॥ ३५.५९९ ॥
प्रायश्चित्त-निमित्ते तु संप्राप्ते यः तु मूढ-धीः । अ कृत्वा निष्कृतिम् कुर्यात् कारयेत् कर्म च उत्तरम् ॥ ३५।५९९ ॥
prāyaścitta-nimitte tu saṃprāpte yaḥ tu mūḍha-dhīḥ . a kṛtvā niṣkṛtim kuryāt kārayet karma ca uttaram .. 35.599 ..
लोभान्मोहदथाज्ञानादनादृत्य च शासनं । भगवच्छासनद्रोही स भवेत्पातकी जनः ॥ ३५.६०० ॥
लोभात् मोह-दथा अज्ञानात् अन् आदृत्य च शासनम् । भगवत्-शासन-द्रोही स भवेत् पातकी जनः ॥ ३५।६०० ॥
lobhāt moha-dathā ajñānāt an ādṛtya ca śāsanam . bhagavat-śāsana-drohī sa bhavet pātakī janaḥ .. 35.600 ..
प्रमादिनां मनुष्याणां स्खलनं नियतं यतः । निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचिथ् ॥ ३५.६०१ ॥
प्रमादिनाम् मनुष्याणाम् स्खलनम् नियतम् यतस् । निष्कृतिः विहिता पूर्वैः नताम् अतिचरेत् ॥ ३५।६०१ ॥
pramādinām manuṣyāṇām skhalanam niyatam yatas . niṣkṛtiḥ vihitā pūrvaiḥ natām aticaret .. 35.601 ..
ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः । तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचिथ् ॥ ३५.६०२ ॥
ब्रह्म-आद्यैः अपि यत् देवैः अशक्यम् पूजनम् हरेः । तद्-उक्ता निष्कृतिः पूर्वैः नताम् अतिपतेत् क्वचिद् ॥ ३५।६०२ ॥
brahma-ādyaiḥ api yat devaiḥ aśakyam pūjanam hareḥ . tad-uktā niṣkṛtiḥ pūrvaiḥ natām atipatet kvacid .. 35.602 ..
निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितं । न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेथ् ॥ ३५.६०३ ॥
निमित्ते यः तु अ कृत्वा एव प्रायश्चित्तम् यथोचितम् । न्नित्यम् नैमित्तिकम् काम्यम् कुर्यात् तत् अकृतम् ॥ ३५।६०३ ॥
nimitte yaḥ tu a kṛtvā eva prāyaścittam yathocitam . nnityam naimittikam kāmyam kuryāt tat akṛtam .. 35.603 ..
तस्मान्निमित्ते संप्राप्ते निष्कृतिं सद्य आचरेथ् । इति संक्षेपतः प्रोक्तं क्रियायोगाश्रितं फलं ॥ ३५.६०४ ॥
तस्मात् निमित्ते संप्राप्ते निष्कृतिम् सद्यस् आचरेथ् । इति संक्षेपतः प्रोक्तम् क्रिया-योग-आश्रितम् फलम् ॥ ३५।६०४ ॥
tasmāt nimitte saṃprāpte niṣkṛtim sadyas ācareth . iti saṃkṣepataḥ proktam kriyā-yoga-āśritam phalam .. 35.604 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे पञ्चत्रिंशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगुप्रोक्तायाम् सहितायाम् प्रकीर्ण-अधिकारे पञ्चत्रिंशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛguproktāyām sahitāyām prakīrṇa-adhikāre pañcatriṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In