| |
|

This overlay will guide you through the buttons:

अथ पञ्चदशोऽध्यायः.
अथ पञ्चदशः अध्यायः।
atha pañcadaśaḥ adhyāyaḥ.
दशावतार कल्पः (रामः) भार्गवः
अतः परशुरामस्य स्थापनं वक्ष्यतेऽधुना । बहुभिर्बलवद्भिस्तु राजभिर्धरणी हता ॥ १५.१ ॥
अतस् परशुरामस्य स्थापनम् वक्ष्यते अधुना । बहुभिः बलवद्भिः तु राजभिः धरणी हता ॥ १५।१ ॥
atas paraśurāmasya sthāpanam vakṣyate adhunā . bahubhiḥ balavadbhiḥ tu rājabhiḥ dharaṇī hatā .. 15.1 ..
तद्वधाय कृतोद्योगो जमदग्निसुतो हरिः । भूत्वावतीर्णो लोकेस्मिन्भारनिर्हरणाय वै ॥ १५.२ ॥
तद्-वधाय कृत-उद्योगः जमदग्नि-सुतः हरिः । भूत्वा अवतीर्णः लोके इस्मिन् भार-निर्हरणाय वै ॥ १५।२ ॥
tad-vadhāya kṛta-udyogaḥ jamadagni-sutaḥ hariḥ . bhūtvā avatīrṇaḥ loke ismin bhāra-nirharaṇāya vai .. 15.2 ..
परशुं च गृहीत्वोर्व्यां नृपान्सर्वान्प्रगृह्य च । जघान किलभूयोऽपि रामो भीमपराक्रमः ॥ १५.३ ॥
परशुम् च गृहीत्वा उर्व्याम् नृपान् सर्वान् प्रगृह्य च । जघान किल भूयस् अपि रामः भीम-पराक्रमः ॥ १५।३ ॥
paraśum ca gṛhītvā urvyām nṛpān sarvān pragṛhya ca . jaghāna kila bhūyas api rāmaḥ bhīma-parākramaḥ .. 15.3 ..
स्थापयेच्छत्रुनाशाय रामं परशुधारिणं । श्रीप्रतिष्ठितके चैव अङ्गनाकार एव च ॥ १५.४ ॥
स्थापयेत् शत्रु-नाशाय रामम् परशु-धारिणम् । श्रीप्रतिष्ठितके च एव अङ्गनाकारे एव च ॥ १५।४ ॥
sthāpayet śatru-nāśāya rāmam paraśu-dhāriṇam . śrīpratiṣṭhitake ca eva aṅganākāre eva ca .. 15.4 ..
मध्यमं दशतालेन रामं द्विभुजमाचरेथ् । परशं दक्षिणे हस्ते धृत्वाचैव विचक्षणं ॥ १५.५ ॥
मध्यमम् दश-तालेन रामम् द्वि-भुजम् आचरेथ् । परशम् दक्षिणे हस्ते धृत्वा आ च एव विचक्षणम् ॥ १५।५ ॥
madhyamam daśa-tālena rāmam dvi-bhujam ācareth . paraśam dakṣiṇe haste dhṛtvā ā ca eva vicakṣaṇam .. 15.5 ..
वाममुद्देशहस्तं च जटामुकुटशोभितं । रक्तवर्णयुतं चैव श्वेतांबरधरं तथा ॥ १५.६ ॥
वामम् उद्देश-हस्तम् च जटा-मुकुट-शोभितम् । रक्त-वर्ण-युतम् च एव श्वेत-अंबर-धरम् तथा ॥ १५।६ ॥
vāmam uddeśa-hastam ca jaṭā-mukuṭa-śobhitam . rakta-varṇa-yutam ca eva śveta-aṃbara-dharam tathā .. 15.6 ..
सर्पाभरणसंयुक्तं स्थानकं तत्र कारयेथ् । तद्रूपं कौतुकं कुर्यादथ वा तं चतुर्भुजं ॥ १५.७ ॥
सर्प-आभरण-संयुक्तम् स्थानकम् तत्र । तद्-रूपम् कौतुकम् कुर्यात् अथ वा तम् चतुर्-भुजम् ॥ १५।७ ॥
sarpa-ābharaṇa-saṃyuktam sthānakam tatra . tad-rūpam kautukam kuryāt atha vā tam catur-bhujam .. 15.7 ..
अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेथ् । रामं ऋषिसुतं विष्णुं परशुपाणिऽमितीरयेथ् ॥ १५.८ ॥
अन्वाहार्ये प्रधान-अग्नौ हौत्र-शंसनम् आचरेथ् । रामम् ऋषि-सुतम् विष्णुम् परशु-पाणिम् इति ईरयेथ् ॥ १५।८ ॥
anvāhārye pradhāna-agnau hautra-śaṃsanam ācareth . rāmam ṛṣi-sutam viṣṇum paraśu-pāṇim iti īrayeth .. 15.8 ..
इत्येवमुक्त्वा चावाह्य निरुप्याज्याहुतीर्यजेथ् । विष्णुर्वरिष्ठऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ॥ १५.९ ॥
इति एवम् उक्त्वा च आवाह्य निरुप्य आज्य-आहुतीः यजेथ् । विष्णुः वरिष्ठः इति उक्त्वा शतम् अष्ट-अधिकम् यजेथ् ॥ १५।९ ॥
iti evam uktvā ca āvāhya nirupya ājya-āhutīḥ yajeth . viṣṇuḥ variṣṭhaḥ iti uktvā śatam aṣṭa-adhikam yajeth .. 15.9 ..
उत्सवस्नपनादीनि विष्णुवत्सर्वमाचरेत्दाशरधिः । रावणो बहुभिः क्रूरै राक्षसैश्च महाबलैः ॥ १५.१० ॥
उत्सव-स्नपन-आदीनि विष्णु-वत् सर्वम् आचरेत् दाशरधिः । रावणः बहुभिः क्रूरैः राक्षसैः च महा-बलैः ॥ १५।१० ॥
utsava-snapana-ādīni viṣṇu-vat sarvam ācaret dāśaradhiḥ . rāvaṇaḥ bahubhiḥ krūraiḥ rākṣasaiḥ ca mahā-balaiḥ .. 15.10 ..
त्रीन्लोकान्पीडयामास वरदानेन गर्वितः । देवास्संपीडितास्सर्वे मुनयश्चाखिलास्तथा ॥ १५.११ ॥
त्रीन् लोकान् पीडयामास वर-दानेन गर्वितः । देवाः संपीडिताः सर्वे मुनयः च अखिलाः तथा ॥ १५।११ ॥
trīn lokān pīḍayāmāsa vara-dānena garvitaḥ . devāḥ saṃpīḍitāḥ sarve munayaḥ ca akhilāḥ tathā .. 15.11 ..
तैर्देवैर्मुनिभिस्सर्वैः संस्तुतो हरिरव्ययः । तद्वधाय कृतोद्योगो मानुषं रूपमास्थितः ॥ १५.१२ ॥
तैः देवैः मुनिभिः सर्वैः संस्तुतः हरिः अव्ययः । तद्-वधाय कृत-उद्योगः मानुषम् रूपम् आस्थितः ॥ १५।१२ ॥
taiḥ devaiḥ munibhiḥ sarvaiḥ saṃstutaḥ hariḥ avyayaḥ . tad-vadhāya kṛta-udyogaḥ mānuṣam rūpam āsthitaḥ .. 15.12 ..
अवतीर्णस्सुतो भूत्वा राज्ञो दशरथस्य चऽ । रामस्तु राक्षसान्हत्वा सर्वान्लोकानपालयते ॥ १५.१३ ॥
अवतीर्णः सुतः भूत्वा राज्ञः दशरथस्य च । रामः तु राक्षसान् हत्वा सर्वान् लोकान् अपालयते ॥ १५।१३ ॥
avatīrṇaḥ sutaḥ bhūtvā rājñaḥ daśarathasya ca . rāmaḥ tu rākṣasān hatvā sarvān lokān apālayate .. 15.13 ..
पुष्ट्यर्थी विजयार्थी च वीरार्थी च विशेषतः । कूटागारेंगनाकारे फेलाकारं चतुष्फुटं ॥ १५.१४ ॥
पुष्टि-अर्थी विजय-अर्थी च वीर-अर्थी च विशेषतः । फेला-आकारम् चतुष्फुटम् ॥ १५।१४ ॥
puṣṭi-arthī vijaya-arthī ca vīra-arthī ca viśeṣataḥ . phelā-ākāram catuṣphuṭam .. 15.14 ..
स्वस्तिकं वा विमानस्तु कृत्वाचैव विचक्षणः । राघवं तु प्रतिष्ठाप्य यथा वत्संप्रपूजयेथ् ॥ १५.१५ ॥
स्वस्तिकम् वा विमानः तु विचक्षणः । राघवम् तु प्रतिष्ठाप्य यथा वत् संप्रपूजयेथ् ॥ १५।१५ ॥
svastikam vā vimānaḥ tu vicakṣaṇaḥ . rāghavam tu pratiṣṭhāpya yathā vat saṃprapūjayeth .. 15.15 ..
अथातस्संप्रवक्ष्यामि रामलक्ष्मण लक्षणं । सीताया वायुपुत्रस्य भरतस्यासुजस्य च ॥ १५.१६ ॥
अथ अतस् संप्रवक्ष्यामि राम-लक्ष्मण लक्षणम् । सीतायाः वायुपुत्रस्य भरतस्य असुजस्य च ॥ १५।१६ ॥
atha atas saṃpravakṣyāmi rāma-lakṣmaṇa lakṣaṇam . sītāyāḥ vāyuputrasya bharatasya asujasya ca .. 15.16 ..
मानोन्मानप्रमाणानि वक्ष्ये संक्षेपतः क्रमाथ् । उत्तमं दशतालेन मध्यमेन यथाक्रमं ॥ १५.१७ ॥
मान-उन्मान-प्रमाणानि वक्ष्ये संक्षेपतः । उत्तमम् दश-तालेन मध्यमेन यथाक्रमम् ॥ १५।१७ ॥
māna-unmāna-pramāṇāni vakṣye saṃkṣepataḥ . uttamam daśa-tālena madhyamena yathākramam .. 15.17 ..
उत्तमं राघवेन्द्रस्य मध्यमं लक्ष्मणस्य च । अन्तेनै व तु मासेन सीतायास्तूच्छ्रयो भवेथ् ॥ १५.१८ ॥
उत्तमम् राघव-इन्द्रस्य मध्यमम् लक्ष्मणस्य च । अन्तेन तु मासेन सीतायाः तु उच्छ्रयः ॥ १५।१८ ॥
uttamam rāghava-indrasya madhyamam lakṣmaṇasya ca . antena tu māsena sītāyāḥ tu ucchrayaḥ .. 15.18 ..
नवतालेन मानेन वायुपुत्रं प्रकल्पयेथ् । अधमं दशतालेन भरतस्यानुजस्य च ॥ १५.१९ ॥
नव-तालेन मानेन वायुपुत्रम् । अधमम् दश-तालेन भरतस्य अनुजस्य च ॥ १५।१९ ॥
nava-tālena mānena vāyuputram . adhamam daśa-tālena bharatasya anujasya ca .. 15.19 ..
एवं युक्तियुतेनैव क्रियते शास्त्रवित्तमैः । गर्भद्वारविमानाभ्यां बेरमानमिहोच्यते ॥ १५.२० ॥
एवम् युक्ति-युतेन एव क्रियते शास्त्र-वित्तमैः । गर्भद्वार-विमानाभ्याम् बेर-मानम् इह उच्यते ॥ १५।२० ॥
evam yukti-yutena eva kriyate śāstra-vittamaiḥ . garbhadvāra-vimānābhyām bera-mānam iha ucyate .. 15.20 ..
उत्सव प्रतिमायान्तु सर्वेषामालयेषु वै । तद्देवभेदं मूर्तीनां तत्प्रमाणेन योजयेथ् ॥ १५.२१ ॥
सर्वेषाम् आलयेषु वै । तद्-देव-भेदम् मूर्तीनाम् तद्-प्रमाणेन ॥ १५।२१ ॥
sarveṣām ālayeṣu vai . tad-deva-bhedam mūrtīnām tad-pramāṇena .. 15.21 ..
इष्यते गर्भमानन्तु पुष्यमानं? विभज्य च । उत्तमं पञ्चभागं तु चतुर्भागं तु मध्यमं ॥ १५.२२ ॥
इष्यते गर्भ-मानम् तु पुष्यमानम्? विभज्य च । उत्तमम् पञ्च-भागम् तु चतुर्-भागम् तु मध्यमम् ॥ १५।२२ ॥
iṣyate garbha-mānam tu puṣyamānam? vibhajya ca . uttamam pañca-bhāgam tu catur-bhāgam tu madhyamam .. 15.22 ..
त्रिभागमधमं प्रोक्तं यथावच्छास्त्रवित्तमाः । गर्भमानं प्रवक्ष्यन्ति द्वारमानन्तु वक्ष्यते ॥ १५.२३ ॥
त्रि-भागम् अधमम् प्रोक्तम् यथावत् शास्त्र-वित्तमाः । गर्भ-मानम् प्रवक्ष्यन्ति द्वार-मानम् तु वक्ष्यते ॥ १५।२३ ॥
tri-bhāgam adhamam proktam yathāvat śāstra-vittamāḥ . garbha-mānam pravakṣyanti dvāra-mānam tu vakṣyate .. 15.23 ..
सप्तभागे चतुर्भागमुत्तमं तु विधीयते । त्षंशं तु मध्यमं प्रोक्तमर्थांशमधमं भवेथ् ॥ १५.२४ ॥
सप्त-भागे चतुर्-भागम् उत्तमम् तु विधीयते । तु मध्यमम् प्रोक्तम् अर्थ-अंशम् अधमम् ॥ १५।२४ ॥
sapta-bhāge catur-bhāgam uttamam tu vidhīyate . tu madhyamam proktam artha-aṃśam adhamam .. 15.24 ..
द्वारमानमिदं प्रोक्तं क्रियायान्तु विशेषतः । रामस्याथ ललाटान्तं नासान्तं लक्ष्मणोच्छ्रयं ॥ १५.२५ ॥
द्वार-मानम् इदम् प्रोक्तम् क्रियायाः तु विशेषतः । रामस्य अथ ललाट-अन्तम् नासा-अन्तम् लक्ष्मण-उच्छ्रयम् ॥ १५।२५ ॥
dvāra-mānam idam proktam kriyāyāḥ tu viśeṣataḥ . rāmasya atha lalāṭa-antam nāsā-antam lakṣmaṇa-ucchrayam .. 15.25 ..
आस्यान्तमथ वा कुर्याद्वायुपुत्रस्य लक्षणं । भरतस्यामजस्यापि तथा गलसमं भवेथ् ॥ १५.२६ ॥
आस्य-अन्तम् अथ वा कुर्यात् वायुपुत्रस्य लक्षणम् । भरतस्याम् अजस्य अपि तथा गल-समम् ॥ १५।२६ ॥
āsya-antam atha vā kuryāt vāyuputrasya lakṣaṇam . bharatasyām ajasya api tathā gala-samam .. 15.26 ..
उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलं । षष्टिद्विगोलगं विद्यादेकत्षंशत्रिभागीकम्? ॥ १५.२७ ॥
उष्णीषात् पाद-पर्यन्तम् चतुर्विंशत्-शत-अङ्गुलम् । विद्यात्? ॥ १५।२७ ॥
uṣṇīṣāt pāda-paryantam caturviṃśat-śata-aṅgulam . vidyāt? .. 15.27 ..
तालानि दशभागैकमुत्तमं दशतालकं । चतुर्भागाष्टभागं स्याच्चतुस्तालं तथैव च ॥ १५.२८ ॥
तालानि दश-भाग-एकम् उत्तमम् दश-तालकम् । चतुर्-भाग-अष्ट-भागम् स्यात् चतुर्-तालम् तथा एव च ॥ १५।२८ ॥
tālāni daśa-bhāga-ekam uttamam daśa-tālakam . catur-bhāga-aṣṭa-bhāgam syāt catur-tālam tathā eva ca .. 15.28 ..
दशतालस्य त्षंशेन उत्तमं मध्यमाधमं । मध्यमादधमं हीनं मुखे वार्धाङ्गुलक्षयं ॥ १५.२९ ॥
दश-तालस्य त्षंशेन उत्तमम् मध्यम-अधमम् । मध्यमात् अधमम् हीनम् मुखे वा अर्ध-अङ्गुल-क्षयम् ॥ १५।२९ ॥
daśa-tālasya tṣaṃśena uttamam madhyama-adhamam . madhyamāt adhamam hīnam mukhe vā ardha-aṅgula-kṣayam .. 15.29 ..
उष्णीषमङ्गुलं नेत्रं शिरस्त्षङ्गुलमिष्यते । ललाटे हनुपर्यन्तं त्रयोदशार्धाङ्गुलं भवेथ् ॥ १५.३० ॥
उष्णीषम् अङ्गुलम् नेत्रम् शिरः तु षङ्गुलम् इष्यते । ललाटे हनु-पर्यन्तम् त्रयोदश-अर्ध-अङ्गुलम् ॥ १५।३० ॥
uṣṇīṣam aṅgulam netram śiraḥ tu ṣaṅgulam iṣyate . lalāṭe hanu-paryantam trayodaśa-ardha-aṅgulam .. 15.30 ..
गलं चतुर्यवाः प्रोक्ताग्रीवा सार्धत्रियङ्गुला । हिक्का हृदयानाभ्यन्तं मेढ्रमूलं मुखत्रयं ॥ १५.३१ ॥
गलम् चतुर्-यवाः प्रोक्ता ग्रीवा सार्ध-त्रि-यङ्गुला । हिक्का मेढ्र-मूलम् मुख-त्रयम् ॥ १५।३१ ॥
galam catur-yavāḥ proktā grīvā sārdha-tri-yaṅgulā . hikkā meḍhra-mūlam mukha-trayam .. 15.31 ..
मुखायामं चतुर्मात्रं लिङ्गं पञ्चाङ्गुलायतं । नाभिरर्धाङ्गुलं ज्ञेयं निम्नार्धवरितालका ॥ १५.३२ ॥
मुख-आयामम् चतुर्-मात्रम् लिङ्गम् पञ्च-अङ्गुल-आयतम् । नाभिः अर्ध-अङ्गुलम् ज्ञेयम् निम्न-अर्ध-वरितालका ॥ १५।३२ ॥
mukha-āyāmam catur-mātram liṅgam pañca-aṅgula-āyatam . nābhiḥ ardha-aṅgulam jñeyam nimna-ardha-varitālakā .. 15.32 ..
श्रोणी भागार्धमेवं स्यात्कटिः पञ्चाङ्गुलं भवेथ् । मेढ्रमूलादिजान्वन्तं सप्तविंशतिकांगुलं ॥ १५.३३ ॥
श्रोणी भाग-अर्धम् एवम् स्यात् कटिः पञ्च-अङ्गुलम् । मेढ्र-मूल-आदि-जानु-अन्तम् सप्तविंशतिक-अङ्गुलम् ॥ १५।३३ ॥
śroṇī bhāga-ardham evam syāt kaṭiḥ pañca-aṅgulam . meḍhra-mūla-ādi-jānu-antam saptaviṃśatika-aṅgulam .. 15.33 ..
जानुभागमिति प्रोक्तं जङ्घोरू सुसमायुतौ । चरणं चतुरङ्गुल्यं मनोर्देशविधानतः ॥ १५.३४ ॥
जानुभागम् इति प्रोक्तम् जङ्घा-ऊरू सु समायुतौ । चरणम् चतुर्-अङ्गुल्यम् मनोः देश-विधानतः ॥ १५।३४ ॥
jānubhāgam iti proktam jaṅghā-ūrū su samāyutau . caraṇam catur-aṅgulyam manoḥ deśa-vidhānataḥ .. 15.34 ..
ब्रह्माङ्गुलमूखायामं त्रयोदशांगुलमेव च । कनिष्ठांगुलमायाममेकादशांगुलं भवेथ् ॥ १५.३५ ॥
ब्रह्म-अङ्गुलम् ऊखायामम् त्रयोदश-अङ्गुलम् एव च । कनिष्ठा-अंगुलम् आयामम् एकादश-अंगुलम् ॥ १५।३५ ॥
brahma-aṅgulam ūkhāyāmam trayodaśa-aṅgulam eva ca . kaniṣṭhā-aṃgulam āyāmam ekādaśa-aṃgulam .. 15.35 ..
अक्ष्णामुष्णीषपर्यन्तं भागार्धाङ्गुलमुच्छ्रयं । हिक्कासूत्रान्तमेवं स्वात्स्कन्धमूलद्वयं भवेथ् ॥ १५.३६ ॥
अक्ष्णाम् उष्णीष-पर्यन्तम् भाग-अर्ध-अङ्गुलम् उच्छ्रयम् । हिक्का-सूत्र-अन्तम् एवम् स्वात् स्कन्ध-मूल-द्वयम् ॥ १५।३६ ॥
akṣṇām uṣṇīṣa-paryantam bhāga-ardha-aṅgulam ucchrayam . hikkā-sūtra-antam evam svāt skandha-mūla-dvayam .. 15.36 ..
स्कन्धं भुजसमोत्सेधं भुजोर्ध्वं गोलकं भवेथ् । भुजद्विमुखमायामं कूर्परं च कलायतं ॥ १५.३७ ॥
स्कन्धम् भुज-सम-उत्सेधम् भुज-ऊर्ध्वम् गोलकम् । भुज-द्विमुखम् आयामम् कूर्परम् च ॥ १५।३७ ॥
skandham bhuja-sama-utsedham bhuja-ūrdhvam golakam . bhuja-dvimukham āyāmam kūrparam ca .. 15.37 ..
प्रकोष्ठं विंशदङ्गुल्यं हस्तायाममिति स्मृतं । नास्यानि नाभिवामेभ्यो रक्षान्तं सूत्रदक्षिणं ॥ १५.३८ ॥
प्रकोष्ठम् विंशत्-अङ्गुल्यम् हस्त-आयामम् इति स्मृतम् । नास्यानि नाभि-वामेभ्यः रक्ष अन्तम् सूत्र-दक्षिणम् ॥ १५।३८ ॥
prakoṣṭham viṃśat-aṅgulyam hasta-āyāmam iti smṛtam . nāsyāni nābhi-vāmebhyaḥ rakṣa antam sūtra-dakṣiṇam .. 15.38 ..
आदिसूत्रमिदं प्रोक्तमन्यत्सूत्रं च कारयेथ् । ईषत्कुञ्चितमात्रन्तु मात्रार्धं समकुञ्चितं ॥ १५.३९ ॥
आदि-सूत्रम् इदम् प्रोक्तम् अन्यत् सूत्रम् च । ईषत् कुञ्चित-मात्रम् तु मात्रा-अर्धम् सम-कुञ्चितम् ॥ १५।३९ ॥
ādi-sūtram idam proktam anyat sūtram ca . īṣat kuñcita-mātram tu mātrā-ardham sama-kuñcitam .. 15.39 ..
द्विकलाकुञ्चितं ज्ञेयं त्रिविधं कुञ्चितं भवेथ् । पाष्णोन्य्रन्तरसंयुक्तं पञ्चागुलसमन्वितं ॥ १५.४० ॥
द्वि-कला-कुञ्चितम् ज्ञेयम् त्रिविधम् कुञ्चितम् । पाष्णः न्य्रन्तर-संयुक्तम् पञ्च-अगुल-समन्वितम् ॥ १५।४० ॥
dvi-kalā-kuñcitam jñeyam trividham kuñcitam . pāṣṇaḥ nyrantara-saṃyuktam pañca-agula-samanvitam .. 15.40 ..
पादाङ्गुष्ठान्तरं चैव त्रयोदशांगुलमीरितं । उष्णीषात्पार्श्वकर्णान्तं वामहस्तोच्छ्रयं भवेथ् ॥ १५.४१ ॥
पादाङ्गुष्ठ-अन्तरम् च एव त्रयोदश-अंगुलम् ईरितम् । उष्णीषात् पार्श्व-कर्ण-अन्तम् वाम-हस्त-उच्छ्रयम् ॥ १५।४१ ॥
pādāṅguṣṭha-antaram ca eva trayodaśa-aṃgulam īritam . uṣṇīṣāt pārśva-karṇa-antam vāma-hasta-ucchrayam .. 15.41 ..
नीव्रं कण्ठयवानान्त द्विमुखं विस्तरं भवेथ् । दक्षिणे लंबहस्तन्तु ऊरुमूलौ समं भवेथ् ॥ १५.४२ ॥
नीव्रम् द्वि-मुखम् विस्तरम् । दक्षिणे ऊरु-मूलौ समम् ॥ १५।४२ ॥
nīvram dvi-mukham vistaram . dakṣiṇe ūru-mūlau samam .. 15.42 ..
नीव्रं पञ्चांगुलं चैवत्रयोदशांगुलमीरितं । हस्तन्तु द्व्यङ्गुल चेति कटीबाहू षडङ्गुलं ॥ १५.४३ ॥
नीव्रम् पञ्च-अंगुलम् च एव त्रयोदश-अंगुलम् ईरितम् । द्वि-अङ्गुल-च इति कटी-बाहू षष्-अङ्गुलम् ॥ १५।४३ ॥
nīvram pañca-aṃgulam ca eva trayodaśa-aṃgulam īritam . dvi-aṅgula-ca iti kaṭī-bāhū ṣaṣ-aṅgulam .. 15.43 ..
त्रियुजा कुञ्चितं स्थित्या त्रिभङ्गाग्र विराजितं । दक्षिणे कटिदेशे तु वाममक्षान्वितं भवेथ् ॥ १५.४४ ॥
त्रि-युजा कुञ्चितम् स्थित्या विराजितम् । दक्षिणे कटि-देशे तु वामम् अक्ष-अन्वितम् ॥ १५।४४ ॥
tri-yujā kuñcitam sthityā virājitam . dakṣiṇe kaṭi-deśe tu vāmam akṣa-anvitam .. 15.44 ..
दक्षिणं मुखमाश्रित्य त्रिभङ्गाङ्ग मथोच्यते । श्रुङ्गारगुणसंयुक्तं किरीटं वा विशेषतः ॥ १५.४५ ॥
दक्षिणम् मुखम् आश्रित्य त्रि-भङ्ग-अङ्ग मथा उच्यते । श्रुङ्गार-गुण-संयुक्तम् किरीटम् वा विशेषतः ॥ १५।४५ ॥
dakṣiṇam mukham āśritya tri-bhaṅga-aṅga mathā ucyate . śruṅgāra-guṇa-saṃyuktam kirīṭam vā viśeṣataḥ .. 15.45 ..
वज्रं पुल्लिङ्गवायुक्तं मकरकुण्डलमंयुतं । किरीटमुकुटौ ज्ञेयो हारकेयूरसंयुतं ॥ १५.४६ ॥
वज्रम् मकर-कुण्डल-मंयुतम् । किरीट-मुकुटौ ज्ञेयः हार-केयूर-संयुतम् ॥ १५।४६ ॥
vajram makara-kuṇḍala-maṃyutam . kirīṭa-mukuṭau jñeyaḥ hāra-keyūra-saṃyutam .. 15.46 ..
उष्णीषं केशपृष्ठान्ते त्रयोदशांगुलमायतं । ग्रीवायां मध्यमं भागं ककुद्भागात्क्रमोन्नतिः ॥ १५.४७ ॥
उष्णीषम् केश-पृष्ठ-अन्ते त्रयोदश-अंगुलम् आयतम् । ग्रीवायाम् मध्यमम् भागम् ककुद्-भागात् क्रम-उन्नतिः ॥ १५।४७ ॥
uṣṇīṣam keśa-pṛṣṭha-ante trayodaśa-aṃgulam āyatam . grīvāyām madhyamam bhāgam kakud-bhāgāt krama-unnatiḥ .. 15.47 ..
जानकीं समभङ्गेन वामहस्तेव पुष्पधृथ् । दक्षिणं संप्रसार्यैव रुक्मवर्णान्तु कारयेथ् ॥ १५.४८ ॥
जानकीम् सम-भङ्गेन वाम-हस्ता इव पुष्पधृथ् । दक्षिणम् संप्रसार्य एव रुक्म-वर्णान् तु कारयेथ् ॥ १५।४८ ॥
jānakīm sama-bhaṅgena vāma-hastā iva puṣpadhṛth . dakṣiṇam saṃprasārya eva rukma-varṇān tu kārayeth .. 15.48 ..
श्यामवस्त्रधरां चैव दिव्यस्त्रीमण्डनोपमां । लक्ष्मणं समभङ्गेन तप्तकाञ्चनसन्निभं ॥ १५.४९ ॥
श्याम-वस्त्र-धराम् च एव दिव्य-स्त्री-मण्डन-उपमाम् । लक्ष्मणम् सम-भङ्गेन तप्त-काञ्चन-सन्निभम् ॥ १५।४९ ॥
śyāma-vastra-dharām ca eva divya-strī-maṇḍana-upamām . lakṣmaṇam sama-bhaṅgena tapta-kāñcana-sannibham .. 15.49 ..
भरतं श्यामवर्णन्तु शत्रुघ्नन्तु सुवर्णकं । लक्ष्मणस्याथ वामे तु स्थितौ बाणधनुर्धरौ ॥ १५.५० ॥
भरतम् श्याम-वर्णन्तु शत्रु-घ्नन्तु सुवर्णकम् । लक्ष्मणस्य अथ वामे तु स्थितौ बाण-धनुः-धरौ ॥ १५।५० ॥
bharatam śyāma-varṇantu śatru-ghnantu suvarṇakam . lakṣmaṇasya atha vāme tu sthitau bāṇa-dhanuḥ-dharau .. 15.50 ..
हनूमन्तं पिङ्गलाभं वार्ताविज्ञापने परं । एवं सायुधवर्गन्तु वक्ष्यतेऽत्र निरायुधं ॥ १५.५१ ॥
हनूमन्तम् पिङ्गल-आभम् वार्ता-विज्ञापने परम् । एवम् वक्ष्यते अत्र निरायुधम् ॥ १५।५१ ॥
hanūmantam piṅgala-ābham vārtā-vijñāpane param . evam vakṣyate atra nirāyudham .. 15.51 ..
प्रसारि दक्षिणं पादमितरच्चैव कुञ्चितं । दक्षिणे नाभयं हस्तं वामं कटिकमुच्यते ॥ १५.५२ ॥
प्रसारि दक्षिणम् पादम् इतरत् च एव कुञ्चितम् । दक्षिणे नाभयम् हस्तम् वामम् कटिकम् उच्यते ॥ १५।५२ ॥
prasāri dakṣiṇam pādam itarat ca eva kuñcitam . dakṣiṇe nābhayam hastam vāmam kaṭikam ucyate .. 15.52 ..
स्थापनादिक्रियास्सर्वाः पूर्ववत्कारयेत्ततः । दक्षिणाग्नौ प्रधानेतु हौत्रशंसनमाचरेथ् ॥ १५.५३ ॥
स्थापन-आदि-क्रियाः सर्वाः पूर्ववत् कारयेत् ततस् । दक्षिणाग्नौ हौत्र-शंसनम् आचरेथ् ॥ १५।५३ ॥
sthāpana-ādi-kriyāḥ sarvāḥ pūrvavat kārayet tatas . dakṣiṇāgnau hautra-śaṃsanam ācareth .. 15.53 ..
रामं दाशरथिं विष्णुं काकुत्स्थऽमिति चाह्वयेथ् । सीतामयोनिजां लक्ष्मीं वैदेहीऽमिति चाह्वयेथ् ॥ १५.५४ ॥
रामम् दाशरथिम् विष्णुम् काकुत्स्थ इति । सीताम् अयोनिजाम् लक्ष्मीम् वैदेहीम् इति ॥ १५।५४ ॥
rāmam dāśarathim viṣṇum kākutstha iti . sītām ayonijām lakṣmīm vaidehīm iti .. 15.54 ..
रामानुजं च स्ॐइत्रिं लक्ष्मणं लक्ष्मिवर्धनम्ऽ । भरतं रामप्रियं चेति कैकैयीसुतमेव च ॥ १५.५५ ॥
रामानुजम् च सों इत्रिम् लक्ष्मणम् लक्ष्मि-वर्धनम् । भरतम् रामप्रियम् च इति कैकैयी-सुतम् एव च ॥ १५।५५ ॥
rāmānujam ca soṃ itrim lakṣmaṇam lakṣmi-vardhanam . bharatam rāmapriyam ca iti kaikaiyī-sutam eva ca .. 15.55 ..
सद्वृत्तऽमिति चावाह्य भरतस्य विशेषतः । शत्रुघ्नं सुमनस्कं च लक्ष्मणानुजमेव च ॥ १५.५६ ॥
सत्-वृत्तम् इति च आवाह्य भरतस्य विशेषतः । शत्रुघ्नम् सुमनस्कम् च लक्ष्मण-अनुजम् एव च ॥ १५।५६ ॥
sat-vṛttam iti ca āvāhya bharatasya viśeṣataḥ . śatrughnam sumanaskam ca lakṣmaṇa-anujam eva ca .. 15.56 ..
दशरथोद्भवऽमित्येव शत्रुघ्नं च समाह्वयेत्कपिराजं हनूमन्तं शब्दराशिं महामतिम्, ॥ १५.५७ ॥
दशरथ-उद्भव इति एव शत्रुघ्नम् च समाह्वयेत् कपि-राजम् हनूमन्तम् शब्दराशिम् महामतिम्, ॥ १५।५७ ॥
daśaratha-udbhava iti eva śatrughnam ca samāhvayet kapi-rājam hanūmantam śabdarāśim mahāmatim, .. 15.57 ..
जुष्टाकारादिसर्वं च पूर्ववत्कारयेद्बुधः । रायामीऽशेति मन्त्रेण शतमष्टाधिकं यजेथ् ॥ १५.५८ ॥
जुष्ट-आकार-आदि-सर्वम् च पूर्ववत् कारयेत् बुधः । मन्त्रेण शतम् अष्ट-अधिकम् यजेथ् ॥ १५।५८ ॥
juṣṭa-ākāra-ādi-sarvam ca pūrvavat kārayet budhaḥ . mantreṇa śatam aṣṭa-adhikam yajeth .. 15.58 ..
श्रिये जातऽश्च सीताया होमे मन्त्र उदीरितः । तन्मा यशोग्रऽ मन्त्रेण भरतस्य च हूयते ॥ १५.५९ ॥
श्रिये जातः च सीतायाः होमे मन्त्रः उदीरितः । तत् मा यशः उग्र मन्त्रेण भरतस्य च हूयते ॥ १५।५९ ॥
śriye jātaḥ ca sītāyāḥ home mantraḥ udīritaḥ . tat mā yaśaḥ ugra mantreṇa bharatasya ca hūyate .. 15.59 ..
शन्नो निधत्ताऽमुच्चार्य लक्ष्मणस्य हुनेत्सुधीः । भूमानन्तोग्रऽ इत्युक्त्वा शत्रुघ्नस्य समाचरेथ् ॥ १५.६० ॥
शत् नः निधत्ता आम् उच्चार्य लक्ष्मणस्य हुनेत् सुधीः । भूमा अनन्त-उग्रः इति उक्त्वा शत्रुघ्नस्य समाचरेथ् ॥ १५।६० ॥
śat naḥ nidhattā ām uccārya lakṣmaṇasya hunet sudhīḥ . bhūmā ananta-ugraḥ iti uktvā śatrughnasya samācareth .. 15.60 ..
मरुतः परमाऽत्मेति मारुतस्येव मारुते । सर्वत्र जुहुयान्मन्त्रं शतमष्टाधिकं बुधः ॥ १५.६१ ॥
मरुतः परमा आत्मा इति मारुतस्य इव मारुते । सर्वत्र जुहुयात् मन्त्रम् शतम् अष्ट-अधिकम् बुधः ॥ १५।६१ ॥
marutaḥ paramā ātmā iti mārutasya iva mārute . sarvatra juhuyāt mantram śatam aṣṭa-adhikam budhaḥ .. 15.61 ..
अर्चनं चोत्सवं चैव स्नपने च हरेरिव । हली दैत्यानां तु वधार्थाय यदुश्रेष्ठं मलाबलं ॥ १५.६२ ॥
अर्चनम् च उत्सवम् च एव स्नपने च हरेः इव । हली दैत्यानाम् तु वध-अर्थाय यदुश्रेष्ठम् मलाबलम् ॥ १५।६२ ॥
arcanam ca utsavam ca eva snapane ca hareḥ iva . halī daityānām tu vadha-arthāya yaduśreṣṭham malābalam .. 15.62 ..
बलभद्रं विदुस्सोऽपि वसुदेवस्य संबभौ । भूभारमोचनार्थाय विष्णुस्सबलभद्रकः ॥ १५.६३ ॥
बलभद्रम् विदुः सः अपि वसुदेवस्य संबभौ । भू-भार-मोचन-अर्थाय विष्णुः स बलभद्रकः ॥ १५।६३ ॥
balabhadram viduḥ saḥ api vasudevasya saṃbabhau . bhū-bhāra-mocana-arthāya viṣṇuḥ sa balabhadrakaḥ .. 15.63 ..
हत्वानरककंसादीन्सर्वान्लोकानपालयथ् । एवं स्थापयितुं राममिच्छेत्कारयितं च यः ॥ १५.६४ ॥
हत्वा अनरक-कंस-आदीन् सर्वान् लोकान् अपालयथ् । एवम् स्थापयितुम् रामम् इच्छेत् कारयितम् च यः ॥ १५।६४ ॥
hatvā anaraka-kaṃsa-ādīn sarvān lokān apālayath . evam sthāpayitum rāmam icchet kārayitam ca yaḥ .. 15.64 ..
सोमछन्दविमाने वा हस्तिपृष्ठेऽथ वाबुधः । तृतीयं राममास्थाप्य द्विभुजं स्वेतवर्णकं ॥ १५.६५ ॥
सोमछन्द-विमाने वा हस्ति-पृष्ठे अथ वा अबुधः । तृतीयम् रामम् आस्थाप्य द्वि-भुजम् स्वेत-वर्णकम् ॥ १५।६५ ॥
somachanda-vimāne vā hasti-pṛṣṭhe atha vā abudhaḥ . tṛtīyam rāmam āsthāpya dvi-bhujam sveta-varṇakam .. 15.65 ..
दशतानेन मानेन कृत्वा रूपं समाहितः । दक्षिणेतरहस्ताभ्यां मुसलं खड्गमेव च ॥ १५.६६ ॥
दश-तानेन मानेन कृत्वा रूपम् समाहितः । दक्षिणेतर-हस्ताभ्याम् मुसलम् खड्गम् एव च ॥ १५।६६ ॥
daśa-tānena mānena kṛtvā rūpam samāhitaḥ . dakṣiṇetara-hastābhyām musalam khaḍgam eva ca .. 15.66 ..
श्रोणीनूत्रसमेनैव मुष्टिं समुसलं दृढं । बाहुसूत्रसमं कुर्याद्धलं वामे तथैवच ॥ १५.६७ ॥
श्रोणी-नूत्र-समेन एव मुष्टिम् स मुसलम् दृढम् । बाहु-सूत्र-समम् कुर्यात् हलम् वामे तथा एव च ॥ १५।६७ ॥
śroṇī-nūtra-samena eva muṣṭim sa musalam dṛḍham . bāhu-sūtra-samam kuryāt halam vāme tathā eva ca .. 15.67 ..
तस्य दक्षिणपार्श्वेतु लक्ष्मीवद्रोहिणीं चरेथ् । एवं तु सायुधं कुर्याद्वक्ष्येऽहं तु निरायुधं ॥ १५.६८ ॥
तस्य लक्ष्मीवत्-रोहिणीम् चरेथ् । एवम् तु स आयुधम् कुर्यात् वक्ष्ये अहम् तु निरायुधम् ॥ १५।६८ ॥
tasya lakṣmīvat-rohiṇīm careth . evam tu sa āyudham kuryāt vakṣye aham tu nirāyudham .. 15.68 ..
वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । अभयं दक्षिणं हस्तं वाममूरौ च विन्यसेथ् ॥ १५.६९ ॥
वाम-पादम् समाकुञ्च्य दक्षिणम् संप्रसार्य च । अभयम् दक्षिणम् हस्तम् वामम् ऊरौ च विन्यसेथ् ॥ १५।६९ ॥
vāma-pādam samākuñcya dakṣiṇam saṃprasārya ca . abhayam dakṣiṇam hastam vāmam ūrau ca vinyaseth .. 15.69 ..
अग्नावाहवनीयेतु हौत्रं तत्र प्रशंसयेथ् । रामं यदुवरं विष्णुं हलायुधऽमितिक्रमाथ् ॥ १५.७० ॥
अग्नौ आहवनीये इतु हौत्रम् तत्र । रामम् यदु-वरम् विष्णुम् ॥ १५।७० ॥
agnau āhavanīye itu hautram tatra . rāmam yadu-varam viṣṇum .. 15.70 ..
इन्दिरां रेवतीं चैव लक्ष्मीं रामप्रियाऽमिति । एवमावाहनं कृत्वाजुष्टाकारादि पूर्ववथ् ॥ १५.७१ ॥
इन्दिराम् रेवतीम् च एव लक्ष्मीम् रामप्रियाम् इति । एवम् आवाहनम् कृत्वा अजुष्ट-आकार-आदि ॥ १५।७१ ॥
indirām revatīm ca eva lakṣmīm rāmapriyām iti . evam āvāhanam kṛtvā ajuṣṭa-ākāra-ādi .. 15.71 ..
क्ष्मामेकाऽमिति मन्त्रेण शतमष्टाधिकं यजेथ् । अर्चनं चोत्सवं चैव स्नपनं च हरेरिव ॥ १५.७२ ॥
क्ष्माम् एका इति मन्त्रेण शतम् अष्ट-अधिकम् यजेथ् । अर्चनम् च उत्सवम् च एव स्नपनम् च हरेः इव ॥ १५।७२ ॥
kṣmām ekā iti mantreṇa śatam aṣṭa-adhikam yajeth . arcanam ca utsavam ca eva snapanam ca hareḥ iva .. 15.72 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णऽधिकारे पञ्चदशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे पञ्चदशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre pañcadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In