| |
|

This overlay will guide you through the buttons:

अथ पञ्चविंशोऽध्यायः.
अथ पञ्चविंशः अध्यायः।
atha pañcaviṃśaḥ adhyāyaḥ.
उत्सवविधिः
अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः । आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः ॥ २५.१ ॥
अथ उत्सव-विधिम् वक्ष्ये देवदेवस्य शार्ङ्गिणः । आरंभ-दिवसात् पूर्वम् यजमानः मुद्-न्वितः ॥ २५।१ ॥
atha utsava-vidhim vakṣye devadevasya śārṅgiṇaḥ . āraṃbha-divasāt pūrvam yajamānaḥ mud-nvitaḥ .. 25.1 ..
पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा । द्विगुणाराधनायैकमेकं कुंभार्चनाय च ॥ २५.२ ॥
पूर्व-उक्त-गुण-संपन्नम् वरयित्वा गुरुम् तथा । द्विगुण-आराधनाय एकम् एकम् कुंभ-अर्चनाय च ॥ २५।२ ॥
pūrva-ukta-guṇa-saṃpannam varayitvā gurum tathā . dviguṇa-ārādhanāya ekam ekam kuṃbha-arcanāya ca .. 25.2 ..
होमार्थं बलिदानार्थं तथा स्थानार्चनाय च । वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ॥ २५.३ ॥
होम-अर्थम् बलि-दान-अर्थम् तथा स्थान-अर्चनाय च । वृणेत् पदार्थिनः पञ्च तावतः परिचारकान् ॥ २५।३ ॥
homa-artham bali-dāna-artham tathā sthāna-arcanāya ca . vṛṇet padārthinaḥ pañca tāvataḥ paricārakān .. 25.3 ..
आचार्यमुपसंगम्य संपूज्य च विधानतः । कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ॥ २५.४ ॥
आचार्यम् उपसंगम्य संपूज्य च विधानतः । कर्म इदम् मे याचयेत् विनय-अन्वितः ॥ २५।४ ॥
ācāryam upasaṃgamya saṃpūjya ca vidhānataḥ . karma idam me yācayet vinaya-anvitaḥ .. 25.4 ..
आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनं । स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ॥ २५.५ ॥
आचार्यः सह शिष्यैः तु कृत्वा केश-आदि-वापनम् । स्नात्वा स्नान-विधानेन धृत्वा धौतम् यथाविधि ॥ २५।५ ॥
ācāryaḥ saha śiṣyaiḥ tu kṛtvā keśa-ādi-vāpanam . snātvā snāna-vidhānena dhṛtvā dhautam yathāvidhi .. 25.5 ..
ऊर्ध्वपुण्ड्रधरस्सम्यक्संध्यादीन्समुपास्य च । ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणं ॥ २५.६ ॥
ऊर्ध्व-पुण्ड्र-धरः सम्यक् संध्या-आदीन् समुपास्य च । ब्रह्मयज्ञम् च कृत्वा एव तथा देवर्षि तर्पणम् ॥ २५।६ ॥
ūrdhva-puṇḍra-dharaḥ samyak saṃdhyā-ādīn samupāsya ca . brahmayajñam ca kṛtvā eva tathā devarṣi tarpaṇam .. 25.6 ..
जपेद्द्वादशसूक्तानि नारायणमथारुणं । आलये संप्रविश्यैव देवेशं संप्रणम्य च ॥ २५.७ ॥
जपेत् द्वादश-सूक्तानि नारायणम् अथ अरुणम् । आलये संप्रविश्य एव देवेशम् संप्रणम्य च ॥ २५।७ ॥
japet dvādaśa-sūktāni nārāyaṇam atha aruṇam . ālaye saṃpraviśya eva deveśam saṃpraṇamya ca .. 25.7 ..
देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेथ् । यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच ॥ २५.८ ॥
देवम् विशेषतः अभ्यर्च्य कार्यम् तस्मै निवेदयेथ् । यजमानः अपि धर्म-आत्मा नित्य-कर्म समाप्य च ॥ २५।८ ॥
devam viśeṣataḥ abhyarcya kāryam tasmai nivedayeth . yajamānaḥ api dharma-ātmā nitya-karma samāpya ca .. 25.8 ..
देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः । श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ॥ २५.९ ॥
देवालयम् प्रविस् च एव पुण्याहम् कारयेत् ततस् । श्री-वैखानस-सूत्र-उक्त-मधुपर्म-विधानतः ॥ २५।९ ॥
devālayam pravis ca eva puṇyāham kārayet tatas . śrī-vaikhānasa-sūtra-ukta-madhuparma-vidhānataḥ .. 25.9 ..
आचार्यमृत्विजश्चैव संपूज्य विधिना ततः । अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ॥ २५.१० ॥
आचार्यम् ऋत्विजः च एव संपूज्य विधिना ततस् । अलङ्कुर्यात् च गन्थ-आद्यैः धूप-दीप-आदिभिः तथा ॥ २५।१० ॥
ācāryam ṛtvijaḥ ca eva saṃpūjya vidhinā tatas . alaṅkuryāt ca gantha-ādyaiḥ dhūpa-dīpa-ādibhiḥ tathā .. 25.10 ..
नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः । पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ॥ २५.११ ॥
नव-वस्त्र-उत्तरीय-आद्यैः तथा पञ्चाङ्ग-भूषणैः । पञ्चाङ्ग-भूषणम् वक्ष्ये यथा कुर्यात् अतन्द्रितः ॥ २५।११ ॥
nava-vastra-uttarīya-ādyaiḥ tathā pañcāṅga-bhūṣaṇaiḥ . pañcāṅga-bhūṣaṇam vakṣye yathā kuryāt atandritaḥ .. 25.11 ..
दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् । षण्णिष्कमानं कटकमङ्गदं चांगुलीयकं ॥ २५.१२ ॥
दश-निष्क-प्रमाणेन कुण्डल-आभरणम् पृथक् । षष् निष्क-मानम् कटकम् अङ्गदम् च अंगुलीयकम् ॥ २५।१२ ॥
daśa-niṣka-pramāṇena kuṇḍala-ābharaṇam pṛthak . ṣaṣ niṣka-mānam kaṭakam aṅgadam ca aṃgulīyakam .. 25.12 ..
एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणं । तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ॥ २५.१३ ॥
एकविंशति-निष्क-आढ्यम् कटी-सूत्रम् स लक्षणम् । तद्-अर्ध-अंश-प्रमाणा इव ग्रीवा अलङ्करणम् पृथक् ॥ २५।१३ ॥
ekaviṃśati-niṣka-āḍhyam kaṭī-sūtram sa lakṣaṇam . tad-ardha-aṃśa-pramāṇā iva grīvā alaṅkaraṇam pṛthak .. 25.13 ..
अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेथ् । अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजां ॥ २५.१४ ॥
यज्ञ-सूत्रम् च कारयेथ् । अनेन विधिना कुर्यात् गुरोः अर्ध-अर्धम् ऋत्विजाम् ॥ २५।१४ ॥
yajña-sūtram ca kārayeth . anena vidhinā kuryāt guroḥ ardha-ardham ṛtvijām .. 25.14 ..
आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः । प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरं ॥ २५.१५ ॥
आचार्यः प्रोक्ष्य च आत्मानम् यजमानम् अथ ऋत्विजः । प्राश्नीयात् पञ्चगव्यम् च पदार्थिभ्यः च सादरम् ॥ २५।१५ ॥
ācāryaḥ prokṣya ca ātmānam yajamānam atha ṛtvijaḥ . prāśnīyāt pañcagavyam ca padārthibhyaḥ ca sādaram .. 25.15 ..
यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः । ततः पद्माग्निमाधाय परिषिच्य च पावकं ॥ २५.१६ ॥
यजमानाय दद्यात् च मन्त्र-पूर्वम् विशेषतः । ततस् पद्म-अग्निम् आधाय परिषिच्य च पावकम् ॥ २५।१६ ॥
yajamānāya dadyāt ca mantra-pūrvam viśeṣataḥ . tatas padma-agnim ādhāya pariṣicya ca pāvakam .. 25.16 ..
यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः । वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनं ॥ २५.१७ ॥
यद्-देव-आदि चतुर्-सूक्तानि आज्येन जुहुयात् गुरुः । वैश्वानरेण सूक्तेन च उपतिष्ठेत् हुताशनम् ॥ २५।१७ ॥
yad-deva-ādi catur-sūktāni ājyena juhuyāt guruḥ . vaiśvānareṇa sūktena ca upatiṣṭhet hutāśanam .. 25.17 ..
क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः । कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ॥ २५.१८ ॥
क्षपयित्वा ततस् पापम् कर्म-अर्हाः ते भवन्ति अतस् । कूश्माण्ड-होमः इति उक्तः सर्व-पाप-प्रणाशनः ॥ २५।१८ ॥
kṣapayitvā tatas pāpam karma-arhāḥ te bhavanti atas . kūśmāṇḍa-homaḥ iti uktaḥ sarva-pāpa-praṇāśanaḥ .. 25.18 ..
तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरं । बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ॥ २५.१९ ॥
दीक्षिताः सर्वे विधि-मन्त्र-पुरस्सरम् । बद्ध्वा प्रतिसरम् हस्ते पश्चात् कुर्युः क्रियाम् अपि ॥ २५।१९ ॥
dīkṣitāḥ sarve vidhi-mantra-purassaram . baddhvā pratisaram haste paścāt kuryuḥ kriyām api .. 25.19 ..
ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा । हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च ॥ २५.२० ॥
ततस् प्रभृति सर्वे ते दन्त-नखाः तथा । हविष्य-भोजिनः दान्ताः स्त्रि-काल-स्नायिनः अपि च ॥ २५।२० ॥
tatas prabhṛti sarve te danta-nakhāḥ tathā . haviṣya-bhojinaḥ dāntāḥ stri-kāla-snāyinaḥ api ca .. 25.20 ..
जितेन्द्रिया भवेयुस्ते तथाऽधश्सायिनोऽपि च । स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः ॥ २५.२१ ॥
जित-इन्द्रियाः भवेयुः ते तथा अधश्सायिनः अपि च । स्त्री-शूद्राभ्याम् अ संभाष्य नारायण-परायणाः ॥ २५।२१ ॥
jita-indriyāḥ bhaveyuḥ te tathā adhaśsāyinaḥ api ca . strī-śūdrābhyām a saṃbhāṣya nārāyaṇa-parāyaṇāḥ .. 25.21 ..
यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः । सूतके मृतके वापि तेषां नाशौच इष्यते ॥ २५.२२ ॥
यावत्कालम् भवेत् दीक्षा तावत् शुद्धाः इमे स्मृताः । सूतके मृतके वा अपि तेषाम् न आशौचे इष्यते ॥ २५।२२ ॥
yāvatkālam bhavet dīkṣā tāvat śuddhāḥ ime smṛtāḥ . sūtake mṛtake vā api teṣām na āśauce iṣyate .. 25.22 ..
अथवक्ष्येंकुरार्थन्तु मृत्तिकाग्रहणे विधिं । शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ॥ २५.२३ ॥
मृत्तिका-ग्रहणे विधिम् । शान्त चक्रे समभ्यर्च्य हवींषि अपि निवेद्य च ॥ २५।२३ ॥
mṛttikā-grahaṇe vidhim . śānta cakre samabhyarcya havīṃṣi api nivedya ca .. 25.23 ..
विष्वक्सेनं समादाय यानमारोप्य नाथवथ् । आचार्यः पुरतोगच्छे द्विष्णुर्माऽमिति चोच्चरन् ॥ २५.२४ ॥
विष्वक्सेनम् समादाय यानम् आरोप्य । आचार्यः पुरतस् गच्छे द्विष्णुः मा अम् इति च उच्चरन् ॥ २५।२४ ॥
viṣvaksenam samādāya yānam āropya . ācāryaḥ puratas gacche dviṣṇuḥ mā am iti ca uccaran .. 25.24 ..
चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः । आदर्शहेमकलशपूर्णकुंभांकुरादिभिः ॥ २५.२५ ॥
चक्रस्य पश्चात् गच्छेयुः आचार्येण समन्विताः । आदर्श-हेम-कलश-पूर्ण-कुंभ-अंकुर-आदिभिः ॥ २५।२५ ॥
cakrasya paścāt gaccheyuḥ ācāryeṇa samanvitāḥ . ādarśa-hema-kalaśa-pūrṇa-kuṃbha-aṃkura-ādibhiḥ .. 25.25 ..
ध्वजत्रयादिकान्सर्वान्पुरस्कृत्य पदार्थिनः । प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनं ॥ २५.२६ ॥
ध्वज-त्रय-आदिकान् सर्वान् पुरस्कृत्य पदार्थिनः । प्राच्याम् सर्व-समृद्धिः स्यात् आग्नेय्याम् धान्य-नाशनम् ॥ २५।२६ ॥
dhvaja-traya-ādikān sarvān puraskṛtya padārthinaḥ . prācyām sarva-samṛddhiḥ syāt āgneyyām dhānya-nāśanam .. 25.26 ..
याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनं । अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ॥ २५.२७ ॥
याम्ये जन-विनाशः स्यात् नैरृत्याम् धन-नाशनम् । अनावृष्टिः च वारुण्याम् राज-कोपः च पावने ॥ २५।२७ ॥
yāmye jana-vināśaḥ syāt nairṛtyām dhana-nāśanam . anāvṛṣṭiḥ ca vāruṇyām rāja-kopaḥ ca pāvane .. 25.27 ..
स्ॐये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेथ् । एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकां ॥ २५.२८ ॥
सोंये पुत्र-समृद्धिः स्याः दैशान्याम् सुख-दम् । एतानाम् तु दिशाम् मध्ये प्रशस्ताम् शुद्ध-मृत्तिकाम् ॥ २५।२८ ॥
soṃye putra-samṛddhiḥ syāḥ daiśānyām sukha-dam . etānām tu diśām madhye praśastām śuddha-mṛttikām .. 25.28 ..
आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः । ग्रामदेवालयादारादारामेऽत्र मनोरमे ॥ २५.२९ ॥
आचार्यः साधनैः युक्तः दिशम् गत्वा स शिष्यकः । ग्राम-देवालय-आदारात् आरामे अत्र मनोरमे ॥ २५।२९ ॥
ācāryaḥ sādhanaiḥ yuktaḥ diśam gatvā sa śiṣyakaḥ . grāma-devālaya-ādārāt ārāme atra manorame .. 25.29 ..
नदीतटाकतीरे वा सीमामनतिलङ्घ्य च । प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेथ् ॥ २५.३० ॥
नदी-तटाक-तीरे वा सीमाम् अन् अतिलङ्घ्य च । प्रार्ध्य भू-देवता-मन्त्रैः शूद्धे देशे मृदम् हरेथ् ॥ २५।३० ॥
nadī-taṭāka-tīre vā sīmām an atilaṅghya ca . prārdhya bhū-devatā-mantraiḥ śūddhe deśe mṛdam hareth .. 25.30 ..
वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान्बुधः । प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेथ् ॥ २५.३१ ॥
वीशा-मितौ च चक्रम् च स्थापयेत् प्राच्-मुखान् बुधः । प्राच्-मुखः च उपलिप्य एव वृत्त-आकारम् समुल्लिखेथ् ॥ २५।३१ ॥
vīśā-mitau ca cakram ca sthāpayet prāc-mukhān budhaḥ . prāc-mukhaḥ ca upalipya eva vṛtta-ākāram samullikheth .. 25.31 ..
तत्र स्थानं च संप्रोक्ष्य "दधि क्राव्ण्णऽउच्चरन् । भूरूपं तु लिखित्वैव "भूमिर्भूऽम्नेति च ब्रुवन् ॥ २५.३२ ॥
तत्र स्थानम् च संप्रोक्ष्य "दधि क्राव्ण्णः औच्चरन् । भू-रूपम् तु लिखित्वा एव "भूमिः भू अम्ना इति च ब्रुवन् ॥ २५।३२ ॥
tatra sthānam ca saṃprokṣya "dadhi krāvṇṇaḥ auccaran . bhū-rūpam tu likhitvā eva "bhūmiḥ bhū amnā iti ca bruvan .. 25.32 ..
ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकां । देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेथ् ॥ २५.३३ ॥
ऊर्ध्व-वक्त्राम् च शयिताम् ऐशान्याम् न्यस्त-मौलिकाम् । देवीम् महीम् ताम् अभ्यर्च्य प्रोक्षणैः प्रोक्षणम् चरेथ् ॥ २५।३३ ॥
ūrdhva-vaktrām ca śayitām aiśānyām nyasta-maulikām . devīm mahīm tām abhyarcya prokṣaṇaiḥ prokṣaṇam careth .. 25.33 ..
एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेथ् । पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ॥ २५.३४ ॥
एकादश-उपचारैः च मूर्तिमन्त्रैः समर्चयेथ् । पुण्याहम् वाचयित्वा तु मेदिनी-आदि समुच्चरन् ॥ २५।३४ ॥
ekādaśa-upacāraiḥ ca mūrtimantraiḥ samarcayeth . puṇyāham vācayitvā tu medinī-ādi samuccaran .. 25.34 ..
खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते । ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदं ॥ २५.३५ ॥
खनित्रे शेषम् अभ्यर्च्य वस्त्र-आद्यैः समलङ्कृते । ललाटे सर्व-दोष-घ्नम् बाह्वोः बहु-सुख-प्रदम् ॥ २५।३५ ॥
khanitre śeṣam abhyarcya vastra-ādyaiḥ samalaṅkṛte . lalāṭe sarva-doṣa-ghnam bāhvoḥ bahu-sukha-pradam .. 25.35 ..
स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः । अधोभागे मृदं तस्या नाहरेत कदाचन ॥ २५.३६ ॥
स्तन-द्वये वयः-वृद्धिः जठरे सर्व-संपदः । अधोभागे मृदम् तस्याः न आहरेत कदाचन ॥ २५।३६ ॥
stana-dvaye vayaḥ-vṛddhiḥ jaṭhare sarva-saṃpadaḥ . adhobhāge mṛdam tasyāḥ na āhareta kadācana .. 25.36 ..
एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन् । त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ॥ २५.३७ ॥
एवम् संकल्प्य मनसा मेदिनी-आदि तदा ब्रुवन् । त्वाम् खना अमि इति मन्त्रेण वाराहम् मनसा स्मरन् ॥ २५।३७ ॥
evam saṃkalpya manasā medinī-ādi tadā bruvan . tvām khanā ami iti mantreṇa vārāham manasā smaran .. 25.37 ..
उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः । महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकं ॥ २५.३८ ॥
उभाभ्याम् च एव हस्ताभ्याम् खनित्रेण खनेत् बुधः । महीम् देवीम् अनुज्ञाप्य खनित्वा ताल-मात्रकम् ॥ २५।३८ ॥
ubhābhyām ca eva hastābhyām khanitreṇa khanet budhaḥ . mahīm devīm anujñāpya khanitvā tāla-mātrakam .. 25.38 ..
अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेथ् । वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेथ् ॥ २५.३९ ॥
अपोह्य एव च तत् सर्वम् मृदम् । वैष्णवम् मन्त्रम् उच्चार्य तत्रकार्यम् समाचरेथ् ॥ २५।३९ ॥
apohya eva ca tat sarvam mṛdam . vaiṣṇavam mantram uccārya tatrakāryam samācareth .. 25.39 ..
पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेथ् । पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेथ् ॥ २५.४० ॥
पात्र-मध्ये सु सन्न्यस्य । पश्चात् देवीम् समुद्वास्य चापटम् तत्र ॥ २५।४० ॥
pātra-madhye su sannyasya . paścāt devīm samudvāsya cāpaṭam tatra .. 25.40 ..
शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः । ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेथ् ॥ २५.४१ ॥
शिरसा धारयित्वा तु पुरस्तात् चक्र-शान्तयोः । ग्रामम् प्रदक्षिणम् कृत्वा देवालयम् उपाव्रजेथ् ॥ २५।४१ ॥
śirasā dhārayitvā tu purastāt cakra-śāntayoḥ . grāmam pradakṣiṇam kṛtvā devālayam upāvrajeth .. 25.41 ..
पूर्वस्मिन्नुत्तरे पार्श्वे वांकुरानर्पयेत्तधा । चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ॥ २५.४२ ॥
पूर्वस्मिन् उत्तरे पार्श्वे वांकुरान् अर्पयेत् तधा । चक्र-आदीन् अभिषिच्य एव हविः सम्यक् निवेद्य च ॥ २५।४२ ॥
pūrvasmin uttare pārśve vāṃkurān arpayet tadhā . cakra-ādīn abhiṣicya eva haviḥ samyak nivedya ca .. 25.42 ..
स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेथ् । अलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ २५.४३ ॥
तु संस्थाप्य पश्चात् यागम् । अलय-अभिमुखे वा अपि दक्षिणे वा मनोरमे ॥ २५।४३ ॥
tu saṃsthāpya paścāt yāgam . alaya-abhimukhe vā api dakṣiṇe vā manorame .. 25.43 ..
यमपावकयोर्मध्ये पावकांशेऽथ वा चरेथ् । ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ॥ २५.४४ ॥
यम-पावकयोः मध्ये पावक-अंशे अथ वा । ऐशान्याम् वा अथ वा केचिद् सोम-ईशान-अन्तरे तथा ॥ २५।४४ ॥
yama-pāvakayoḥ madhye pāvaka-aṃśe atha vā . aiśānyām vā atha vā kecid soma-īśāna-antare tathā .. 25.44 ..
कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः । वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेथ् ॥ २५.४५ ॥
कल्पयेत् याग-शालाम् च प्रतिष्ठा-उक्त-विधानतः । वेदिम् तद्-मध्यमे पङ्क्तौ वेदि-मानेन कारयेथ् ॥ २५।४५ ॥
kalpayet yāga-śālām ca pratiṣṭhā-ukta-vidhānataḥ . vedim tad-madhyame paṅktau vedi-mānena kārayeth .. 25.45 ..
प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमाथ् । पञ्चाग्नीन्कल्पयेद्धीमानुत्सवे चोत्तमे तथा ॥ २५.४६ ॥
प्रतिष्ठा-आदि-अर्ध-मानम् वा रत्नि-मात्र-उदयम् । पञ्च अग्नीन् कल्पयेत् धीमान् उत्सवे च उत्तमे तथा ॥ २५।४६ ॥
pratiṣṭhā-ādi-ardha-mānam vā ratni-mātra-udayam . pañca agnīn kalpayet dhīmān utsave ca uttame tathā .. 25.46 ..
त्रेताग्नीन्कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमाथ् । अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ॥ २५.४७ ॥
त्रेताग्नीन् कल्पयेत् विद्वान् मध्यमे च उत्सवे क्रमाः । अधमम् यदि चेद् सभ्यम् कल्पयेत् पूर्ववत् सुधीः ॥ २५।४७ ॥
tretāgnīn kalpayet vidvān madhyame ca utsave kramāḥ . adhamam yadi ced sabhyam kalpayet pūrvavat sudhīḥ .. 25.47 ..
त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकं । उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ॥ २५.४८ ॥
त्रेताग्नि-कल्पनम् यत्र प्रधानम् गार्हपत्यकम् । उभयोः अन्ययोः सभ्यम् प्रधानम् कल्पयेत् तथा ॥ २५।४८ ॥
tretāgni-kalpanam yatra pradhānam gārhapatyakam . ubhayoḥ anyayoḥ sabhyam pradhānam kalpayet tathā .. 25.48 ..
भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि । देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ॥ २५.४९ ॥
भूमि-यज्ञा इव सर्वत्र शोधयेत् च यथाविधि । देवम् देव्यौ समादाय स्नान-श्वभ्रे गुरु-उत्तमः ॥ २५।४९ ॥
bhūmi-yajñā iva sarvatra śodhayet ca yathāvidhi . devam devyau samādāya snāna-śvabhre guru-uttamaḥ .. 25.49 ..
परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः । नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परं ॥ २५.५० ॥
परम् रंऽह-इति मन्त्रेण स्थापयेत् च विशेषतः । नित्य-स्नान-उक्त-मार्गेण स्नापयित्वा हरिम् परम् ॥ २५।५० ॥
param raṃ'ha-iti mantreṇa sthāpayet ca viśeṣataḥ . nitya-snāna-ukta-mārgeṇa snāpayitvā harim param .. 25.50 ..
आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेथ् । देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ॥ २५.५१ ॥
आस्थाने विष्टरम् न्यस्य तद्-ऊर्ध्वे वस्त्रम् आस्तरेथ् । देवम् देव्यौ समादाय श्वेत-वस्त्रैः विभूष्य च ॥ २५।५१ ॥
āsthāne viṣṭaram nyasya tad-ūrdhve vastram āstareth . devam devyau samādāya śveta-vastraiḥ vibhūṣya ca .. 25.51 ..
कुण्डलांगदहारादिभूषणैरपि भूषयेथ् । श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ॥ २५.५२ ॥
कुण्डल-अंगद-हार-आदि-भूषणैः अपि । श्वेत-माल्यैः अलङ्कृत्य श्वेत-गन्ध-अनुलेपनैः ॥ २५।५२ ॥
kuṇḍala-aṃgada-hāra-ādi-bhūṣaṇaiḥ api . śveta-mālyaiḥ alaṅkṛtya śveta-gandha-anulepanaiḥ .. 25.52 ..
पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च । राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ॥ २५.५३ ॥
पवित्रम् च उत्तरीयम् च गत्वा देवम् प्रणम्य च । राज-वत् च उपचार-आदीन् आचरेत् देशिक-उत्तमः, ॥ २५।५३ ॥
pavitram ca uttarīyam ca gatvā devam praṇamya ca . rāja-vat ca upacāra-ādīn ācaret deśika-uttamaḥ, .. 25.53 ..
नवकुभारोपणम् पूर्वोक्तविधिना धीमान्नव कुंभान्प्रगृह्यच । इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ॥ २५.५४ ॥
नव-कुभ-आरोपणम् पूर्व-उक्त-विधिना धीमान् नव कुंभान् प्रगृह्य च । इन्द्रम् नरः नः इति उक्त्वा अ तन्तुना वेष्टयेत् तथा ॥ २५।५४ ॥
nava-kubha-āropaṇam pūrva-ukta-vidhinā dhīmān nava kuṃbhān pragṛhya ca . indram naraḥ naḥ iti uktvā a tantunā veṣṭayet tathā .. 25.54 ..
वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रविथ् । चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेथ् ॥ २५.५५ ॥
वेद्याम् उपरि पूर्व-उक्त-धान्यानि आस्तीर्य । चतुर्-सूत्रैः नव-पदम् कृत्वा कुंभान् च ॥ २५।५५ ॥
vedyām upari pūrva-ukta-dhānyāni āstīrya . catur-sūtraiḥ nava-padam kṛtvā kuṃbhān ca .. 25.55 ..
कुंभानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् । मङ्गलान्यायुधं रत्नं प्रतिकुंभं पृथक्पृथक् ॥ २५.५६ ॥
कुंभान् अद्भिः प्पपूर्य एव कुश-कूर्च-अक्षत-आदिकान् । मङ्गलानि आयुधम् रत्नम् प्रतिकुंभम् पृथक् पृथक् ॥ २५।५६ ॥
kuṃbhān adbhiḥ ppapūrya eva kuśa-kūrca-akṣata-ādikān . maṅgalāni āyudham ratnam pratikuṃbham pṛthak pṛthak .. 25.56 ..
गायत्षा चैव निक्षिव्य मध्यकुंभे विशेषतः । द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववथ् ॥ २५.५७ ॥
च एव निक्षिव्य मध्य-कुंभे विशेषतः । द्वि-अङ्गुलेन प्रमाणेन स्रुच्-आदीनि अपि ॥ २५।५७ ॥
ca eva nikṣivya madhya-kuṃbhe viśeṣataḥ . dvi-aṅgulena pramāṇena sruc-ādīni api .. 25.57 ..
हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेथ् । आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक्पृथक् ॥ २५.५८ ॥
हानकेन एव कृत्वा तु विष्णुसूक्तेन निक्षिपेथ् । आवेष्ट्य वस्त्र-युग्मेन सर्वान् अपि पृथक् पृथक् ॥ २५।५८ ॥
hānakena eva kṛtvā tu viṣṇusūktena nikṣipeth . āveṣṭya vastra-yugmena sarvān api pṛthak pṛthak .. 25.58 ..
वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखं । सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखं ॥ २५.५९ ॥
वेद्याः म् पूर्वेतु वीशम् वै पश्चिमा-मुखम् । सन्न्यस्य दक्षिणे पश्चात् चक्रम् च एव उत्तरा-मुखम् ॥ २५।५९ ॥
vedyāḥ m pūrvetu vīśam vai paścimā-mukham . sannyasya dakṣiṇe paścāt cakram ca eva uttarā-mukham .. 25.59 ..
पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा । दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेथ् ॥ २५.६० ॥
पङ्क्तीशम् प्राच्-मुखम् पश्चात् पश्चिमे च उत्तरे अथ वा । दक्षिण-अभिमुखम् शान्तम् स्थण्डिल-उपरि ॥ २५।६० ॥
paṅktīśam prāc-mukham paścāt paścime ca uttare atha vā . dakṣiṇa-abhimukham śāntam sthaṇḍila-upari .. 25.60 ..
अभावे गरुडादीनां स्थाने तत्र च तत्र च । कुंभान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमाथ् ॥ २५.६१ ॥
अभावे गरुड-आदीनाम् स्थाने तत्र च तत्र च । कुंभान् सन्न्यस्य तद्-मध्ये ध्यात्वा एव आवाहयेत् क्रमात् ॥ २५।६१ ॥
abhāve garuḍa-ādīnām sthāne tatra ca tatra ca . kuṃbhān sannyasya tad-madhye dhyātvā eva āvāhayet kramāt .. 25.61 ..
यावत्तीर्थावसानं स्यात्तावत्कुंभेतु पार्षदान् । सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ॥ २५.६२ ॥
यावत् तीर्थ-अवसानम् स्यात् तावत् कुंभेतु पार्षदान् । सायम् प्रातर् विशेषेण पूजयेत् विधिवत् सुधीः ॥ २५।६२ ॥
yāvat tīrtha-avasānam syāt tāvat kuṃbhetu pārṣadān . sāyam prātar viśeṣeṇa pūjayet vidhivat sudhīḥ .. 25.62 ..
पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेथ् । उत्तराभिमुख स्तिष्ठन्कुरुर्वेद्यास्तु दक्षिणे ॥ २५.६३ ॥
पश्चात् सभ्य-अग्निकुण्डे तु विधिना आघार । उत्तर-अभिमुखः स्तिष्ठन् कुरुः वेद्याः तु दक्षिणे ॥ २५।६३ ॥
paścāt sabhya-agnikuṇḍe tu vidhinā āghāra . uttara-abhimukhaḥ stiṣṭhan kuruḥ vedyāḥ tu dakṣiṇe .. 25.63 ..
प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेथ् । प्रधानकुंभमध्ये तु विष्णुं देव्यौ च सान्वयौ ॥ २५.६४ ॥
प्राणायामम् ततस् कृत्वा पूर्ववत् ध्यानम् आचरेथ् । प्रधान-कुंभ-मध्ये तु विष्णुम् देव्यौ च स अन्वयौ ॥ २५।६४ ॥
prāṇāyāmam tatas kṛtvā pūrvavat dhyānam ācareth . pradhāna-kuṃbha-madhye tu viṣṇum devyau ca sa anvayau .. 25.64 ..
ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमं । पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ॥ २५.६५ ॥
ध्रुवात् आवाहयेत् मन्त्री प्राच्-आदिषु यथाक्रमम् । पुरुषम् कपिलम् सत्यम् यज्ञम् अच्युतम् एव च ॥ २५।६५ ॥
dhruvāt āvāhayet mantrī prāc-ādiṣu yathākramam . puruṣam kapilam satyam yajñam acyutam eva ca .. 25.65 ..
नारायणं चानिरुद्धं ततः पुण्यं समर्चयेथ् । तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहं ॥ २५.६६ ॥
नारायणम् च अनिरुद्धम् ततस् पुण्यम् । तम् रुक्म-वर्णम् रक्त-आस्यम् रक्त-नेत्रम् सुख-उद्वहम् ॥ २५।६६ ॥
nārāyaṇam ca aniruddham tatas puṇyam . tam rukma-varṇam rakta-āsyam rakta-netram sukha-udvaham .. 25.66 ..
किरीटहारकेयूरलंबयज्ञोपवीतिनं । कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजं ॥ २५.६७ ॥
किरीट-हार-केयूर-लंब-यज्ञ-उपवीतिनम् । कौस्तुभ-उद्भासित-उरस्कम् श्रीवत्स-अंकम् चतुर्भुजम् ॥ २५।६७ ॥
kirīṭa-hāra-keyūra-laṃba-yajña-upavītinam . kaustubha-udbhāsita-uraskam śrīvatsa-aṃkam caturbhujam .. 25.67 ..
दक्षिणेनैकहस्तेन भक्तानामभयप्रदं । वामेनाप्यन्यहस्तेन स्वकट्यामवलंबितं ॥ २५.६८ ॥
दक्षिणेन एक-हस्तेन भक्तानाम् अभय-प्रदम् । वामेन अपि अन्य-हस्तेन स्व-कट्याम् अवलंबितम् ॥ २५।६८ ॥
dakṣiṇena eka-hastena bhaktānām abhaya-pradam . vāmena api anya-hastena sva-kaṭyām avalaṃbitam .. 25.68 ..
पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परं । शुकपिञ्छांबरधरं विष्णुं प्रणवरूपिणं ॥ २५.६९ ॥
पराभ्याम् तु कराभ्याम् तु शङ्ख-चक्र-धरम् परम् । शुक-पिञ्छ-अंबर-धरम् विष्णुम् प्रणव-रूपिणम् ॥ २५।६९ ॥
parābhyām tu karābhyām tu śaṅkha-cakra-dharam param . śuka-piñcha-aṃbara-dharam viṣṇum praṇava-rūpiṇam .. 25.69 ..
तप्तहाटकसंकाशां पद्मपत्रायतेक्षणां । तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभितां ॥ २५.७० ॥
तप्त-हाटक-संकाशाम् पद्म-पत्र-आयत-ईक्षणाम् । तिसृभिः पुष्प-चूडूभिः ललाट-उपरि शोभिताम् ॥ २५।७० ॥
tapta-hāṭaka-saṃkāśām padma-patra-āyata-īkṣaṇām . tisṛbhiḥ puṣpa-cūḍūbhiḥ lalāṭa-upari śobhitām .. 25.70 ..
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीं । प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां ॥ २५.७१ ॥
स पद्म-वाम-हस्त-अन्ताम् कक्ष्या-बद्ध-घन-स्तनीम् । प्रसारित-इतर-कराम् प्रसन्न-इन्दु-निभ-आननाम् ॥ २५।७१ ॥
sa padma-vāma-hasta-antām kakṣyā-baddha-ghana-stanīm . prasārita-itara-karām prasanna-indu-nibha-ānanām .. 25.71 ..
श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवां । विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीं ॥ २५.७२ ॥
श्रीवत्स-अंकित-बीज-अन्ताम् । विष्णोः दक्षिण-पार्श्व-स्थाम् हंसनिर्या-आख्य-वाहिनीम् ॥ २५।७२ ॥
śrīvatsa-aṃkita-bīja-antām . viṣṇoḥ dakṣiṇa-pārśva-sthām haṃsaniryā-ākhya-vāhinīm .. 25.72 ..
वामभागे महीं श्यामां सर्वाभरणभूषितां । वैशाखे रेवतीजातां दधतीं दक्षिणेऽंबुजं ॥ २५.७३ ॥
वाम-भागे महीम् श्यामाम् सर्व-आभरण-भूषिताम् । वैशाखे रेवती-जाताम् दधतीम् दक्षिणे अंबुजम् ॥ २५।७३ ॥
vāma-bhāge mahīm śyāmām sarva-ābharaṇa-bhūṣitām . vaiśākhe revatī-jātām dadhatīm dakṣiṇe aṃbujam .. 25.73 ..
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां । महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्वितां ॥ २५.७४ ॥
प्रसारित-इतर-कराम् प्रसन्न-इन्दु-निभ-आननाम् । महा-चातकम् आरूढाम् लक्ष्नी-पूर्व-अक्षर-अन्विताम् ॥ २५।७४ ॥
prasārita-itara-karām prasanna-indu-nibha-ānanām . mahā-cātakam ārūḍhām lakṣnī-pūrva-akṣara-anvitām .. 25.74 ..
पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ॥ २५.७५ ॥
पुरुषः प्राच्-मुखः अच्छ-आभः पीत-वासाः चतुर्-भुजः । शङ्ख-चक्र-धरः श्रीमान् सर्व-आभरण-भूषितः ॥ २५।७५ ॥
puruṣaḥ prāc-mukhaḥ accha-ābhaḥ pīta-vāsāḥ catur-bhujaḥ . śaṅkha-cakra-dharaḥ śrīmān sarva-ābharaṇa-bhūṣitaḥ .. 25.75 ..
वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः । कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक् ॥ २५.७६ ॥
वर-दः अभय-दः प्राच्याम् श्री-भूमि-सहितः हरिः । कपिलः प्राच्-मुखः अच्छ-आभः रक्त-वस्त्रः अष्ट-बाहु-युज् ॥ २५।७६ ॥
vara-daḥ abhaya-daḥ prācyām śrī-bhūmi-sahitaḥ hariḥ . kapilaḥ prāc-mukhaḥ accha-ābhaḥ rakta-vastraḥ aṣṭa-bāhu-yuj .. 25.76 ..
दक्षिणेनैकहस्तेव भक्तानामभयप्रदः । अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ॥ २५.७७ ॥
दक्षिणेन एक-हस्ता इव भक्तानाम् अभय-प्रदः । अन्यैः चक्र-असि-हलभृत् सर्व-आभरण-भूषितः ॥ २५।७७ ॥
dakṣiṇena eka-hastā iva bhaktānām abhaya-pradaḥ . anyaiḥ cakra-asi-halabhṛt sarva-ābharaṇa-bhūṣitaḥ .. 25.77 ..
वामेनाप्यन्यहस्तेन स्वकट्यामवलंब्य च । अन्यैश्संखधनुर्दण्डधरस्सुंदर विग्रहः ॥ २५.७८ ॥
वामेन अपि अन्य-हस्तेन स्व-कट्याम् अवलंब्य च । अन्यैः संख-धनुः-दण्ड-धरः सुंदर विग्रहः ॥ २५।७८ ॥
vāmena api anya-hastena sva-kaṭyām avalaṃbya ca . anyaiḥ saṃkha-dhanuḥ-daṇḍa-dharaḥ suṃdara vigrahaḥ .. 25.78 ..
आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः । सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ॥ २५.७९ ॥
आग्नेय्याम् दिशि गायतृआ सावितृआ च युतः हरिः । सत्यः याम्य-मुखः श्रीमान् अञ्जन-आभः चतुर्भुजः ॥ २५।७९ ॥
āgneyyām diśi gāyatṛā sāvitṛā ca yutaḥ hariḥ . satyaḥ yāmya-mukhaḥ śrīmān añjana-ābhaḥ caturbhujaḥ .. 25.79 ..
शङ्खचक्रधरस्य्ॐयस्सर्वाभरणभूषितः । वरदोऽभयदस्साधूरक्तवासा महाहनुः ॥ २५.८० ॥
शङ्ख-चक्र-धरस्य ॐ यः सर्व-आभरण-भूषितः । वर-दः अभय-दः साधु-रक्त-वासाः महा-हनुः ॥ २५।८० ॥
śaṅkha-cakra-dharasya oṃ yaḥ sarva-ābharaṇa-bhūṣitaḥ . vara-daḥ abhaya-daḥ sādhu-rakta-vāsāḥ mahā-hanuḥ .. 25.80 ..
देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः । यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ॥ २५.८१ ॥
देवीभ्याम् धृति-पौष्णीभ्याम् युतः याम्य-दिशि प्रभुः । यज्ञः पश्चिम-दिश्-वक्त्रः तप्त-चामीकर-प्रभः ॥ २५।८१ ॥
devībhyām dhṛti-pauṣṇībhyām yutaḥ yāmya-diśi prabhuḥ . yajñaḥ paścima-diś-vaktraḥ tapta-cāmīkara-prabhaḥ .. 25.81 ..
सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः । शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूं ॥ २५.८२ ॥
सप्त-हस्तः चतुर्-श्रुङ्गः रक्त-वासाः द्वि-शीर्षकः । शङ्ख-चक्र-आज्य-पात्र-स्रुच्-स्रुव-अन् उपभृतम् जुहूम् ॥ २५।८२ ॥
sapta-hastaḥ catur-śruṅgaḥ rakta-vāsāḥ dvi-śīrṣakaḥ . śaṅkha-cakra-ājya-pātra-sruc-sruva-an upabhṛtam juhūm .. 25.82 ..
बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः । अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ॥ २५.८३ ॥
बिभ्रत् त्रि-पादः नैरृत्याम् देवः स्वाहा-स्वधा-युतः । अच्युतः पश्चिमाशास्यः कनक-आभः चतुर्-भुजः ॥ २५।८३ ॥
bibhrat tri-pādaḥ nairṛtyām devaḥ svāhā-svadhā-yutaḥ . acyutaḥ paścimāśāsyaḥ kanaka-ābhaḥ catur-bhujaḥ .. 25.83 ..
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः ॥ २५.८४ ॥
शङ्ख-चक्र-धरः श्रीमान् सर्व-आभरण-भूषितः । वर-दः अभय-दः साक्षी सर्व-कर्म-फल-प्रदः ॥ २५।८४ ॥
śaṅkha-cakra-dharaḥ śrīmān sarva-ābharaṇa-bhūṣitaḥ . vara-daḥ abhaya-daḥ sākṣī sarva-karma-phala-pradaḥ .. 25.84 ..
युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः । नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ॥ २५.८५ ॥
युक्तः पवित्री-क्षोणीभ्याम् प्रतीच्याम् श्यामल-अंबरः । नारायणः पश्चिम-आस्यः स्फटिक-आभः चतुर्-भुजः ॥ २५।८५ ॥
yuktaḥ pavitrī-kṣoṇībhyām pratīcyām śyāmala-aṃbaraḥ . nārāyaṇaḥ paścima-āsyaḥ sphaṭika-ābhaḥ catur-bhujaḥ .. 25.85 ..
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः ॥ २५.८६ ॥
शङ्ख-चक्र-धरः श्रीमान् सर्व-आभरण-भूषितः । वर-दः अभय-दः श्याम-अंबरः श्रीवत्स-चिह्नितः ॥ २५।८६ ॥
śaṅkha-cakra-dharaḥ śrīmān sarva-ābharaṇa-bhūṣitaḥ . vara-daḥ abhaya-daḥ śyāma-aṃbaraḥ śrīvatsa-cihnitaḥ .. 25.86 ..
संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः । अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ॥ २५.८७ ॥
संयुतः कमल-इलाभ्याम् वायव्याम् जगताम् पतिः । अनिरुद्धः उदीच्य-आस्यः प्रवाल-आभः चतुर्-भुजः ॥ २५।८७ ॥
saṃyutaḥ kamala-ilābhyām vāyavyām jagatām patiḥ . aniruddhaḥ udīcya-āsyaḥ pravāla-ābhaḥ catur-bhujaḥ .. 25.87 ..
अनन्तोत्संग आसीनः पुष्पांबरधरो हरिः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ॥ २५.८८ ॥
अनन्त-उत्संगे आसीनः पुष्प-अंबर-धरः हरिः । शङ्ख-चक्र-धरः श्रीमान् सर्व-आभरण-भूषितः ॥ २५।८८ ॥
ananta-utsaṃge āsīnaḥ puṣpa-aṃbara-dharaḥ hariḥ . śaṅkha-cakra-dharaḥ śrīmān sarva-ābharaṇa-bhūṣitaḥ .. 25.88 ..
दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीं । वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः ॥ २५.८९ ॥
दधत् स्व-दक्षिणे वामे प्रमोद-आदायिनीम् महीम् । वर-दः अभय-दः देवः उदीच्याम् सर्व-सिद्धि-दः ॥ २५।८९ ॥
dadhat sva-dakṣiṇe vāme pramoda-ādāyinīm mahīm . vara-daḥ abhaya-daḥ devaḥ udīcyām sarva-siddhi-daḥ .. 25.89 ..
पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः । श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ॥ २५.९० ॥
पुण्यः प्राच्-आननः श्रीमान् स्तरुण-आदित्य-सन्निभः । सर्व ॥ २५।९० ॥
puṇyaḥ prāc-ānanaḥ śrīmān staruṇa-āditya-sannibhaḥ . sarva .. 25.90 ..
चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः । श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ॥ २५.९१ ॥
चतुर्-भुजः शङ्ख-चक्र-वर-द-अभय-चिह्नितः । श्वेत-वस्त्र-उत्तरीय-उपवीत-आद्यैः समलङ्कृतः ॥ २५।९१ ॥
catur-bhujaḥ śaṅkha-cakra-vara-da-abhaya-cihnitaḥ . śveta-vastra-uttarīya-upavīta-ādyaiḥ samalaṅkṛtaḥ .. 25.91 ..
इन्दिराधरणीनाथरिशान्यां पुण्यपूरुषः । एतान्देवान्समावाह्य समभ्यर्च्याष्टविग्रहैः ॥ २५.९२ ॥
इन्दिरा-धरणीनाथ-रिशान्याम् पुण्य-पूरुषः । एतान् देवान् समावाह्य समभ्यर्च्य अष्ट-विग्रहैः ॥ २५।९२ ॥
indirā-dharaṇīnātha-riśānyām puṇya-pūruṣaḥ . etān devān samāvāhya samabhyarcya aṣṭa-vigrahaiḥ .. 25.92 ..
वीशानसायिपङ्क्तीशशान्तान्दिक्ष्वर्चयेत्क्रमाथ् । सायं प्रातर्विना कुंभैर्देवं वीशामितैस्सह ॥ २५.९३ ॥
वीशान-सायि-पङ्क्तीश-शान्तान् दिक्षु अर्चयेत् क्रमाथ् । सायम् प्रातर् विना कुंभैः देवम् ॥ २५।९३ ॥
vīśāna-sāyi-paṅktīśa-śāntān dikṣu arcayet kramāth . sāyam prātar vinā kuṃbhaiḥ devam .. 25.93 ..
वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न । होत्रप्रशंसनम् होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेथ् ॥ २५.९४ ॥
वेद्याम् एव प्रतिष्ठाप्य पूजयेत् इति के च न । होत्र-प्रशंसनम् होता पश्चात् प्रधानाग्नौ हौत्र-शंसनम् आचरेथ् ॥ २५।९४ ॥
vedyām eva pratiṣṭhāpya pūjayet iti ke ca na . hotra-praśaṃsanam hotā paścāt pradhānāgnau hautra-śaṃsanam ācareth .. 25.94 ..
प्रतिष्ठोक्तक्रमेणैव तदालयगतान्सुरान् । अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ॥ २५.९५ ॥
प्रतिष्ठा-उक्त-क्रमेण एव तद्-आलय-गतान् सुरान् । अवाह्य तद्-क्रमेण एव निरुप्य आज्य-आहुतीः यजेथ् ॥ २५।९५ ॥
pratiṣṭhā-ukta-krameṇa eva tad-ālaya-gatān surān . avāhya tad-krameṇa eva nirupya ājya-āhutīḥ yajeth .. 25.95 ..
परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमाथ् । वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ॥ २५.९६ ॥
परिषिच्य पावकम् पश्चात् वैष्णवम् जुहुयात् क्रमाथ् । वेद्याम् तु पश्चिमे वा अथ वायव्याम् वा विशेषतः ॥ २५।९६ ॥
pariṣicya pāvakam paścāt vaiṣṇavam juhuyāt kramāth . vedyām tu paścime vā atha vāyavyām vā viśeṣataḥ .. 25.96 ..
स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् । यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ॥ २५.९७ ॥
स्थिण्डिलम् कल्पयित्वा अत्र च आस्तरेत् अण्डज-आदिकान् । यजमान-समायुक्तः गुरुः देवम् प्रणम्य च ॥ २५।९७ ॥
sthiṇḍilam kalpayitvā atra ca āstaret aṇḍaja-ādikān . yajamāna-samāyuktaḥ guruḥ devam praṇamya ca .. 25.97 ..
कुसुमाञ्जलि मुत्सृज्य प्रतद्विष्णुंऽरिति ब्रुवन् । देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ॥ २५.९८ ॥
kusumāñjali mutsṛjya pratadviṣṇuṃ'riti bruvan | devībhyāṃ saha deveśamādāya sthaṇḍilopari || 25.98 ||
kusumāñjali mutsṛjya pratadviṣṇuṃ'riti bruvan | devībhyāṃ saha deveśamādāya sthaṇḍilopari || 25.98 ||
प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः । उत्सवप्रतिमाभावे स्नापने वा विशेषतः ॥ २५.९९ ॥
प्राच्-मुखम् च एव संस्थाप्य पूजयेत् अष्ट-विग्रहैः । उत्सव-प्रतिमा-अभावे स्नापने वा विशेषतः ॥ २५।९९ ॥
prāc-mukham ca eva saṃsthāpya pūjayet aṣṭa-vigrahaiḥ . utsava-pratimā-abhāve snāpane vā viśeṣataḥ .. 25.99 ..
स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा । कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेथ् ॥ २५.१०० ॥
स्नपनस्य अव्यभावे तु कौतुके च आचरेत् तु वा । कौतुके यदि चेद् देव्यौ न एव आदाय तथा ॥ २५।१०० ॥
snapanasya avyabhāve tu kautuke ca ācaret tu vā . kautuke yadi ced devyau na eva ādāya tathā .. 25.100 ..
नादरेन्नित्यवैकल्यं विसर्गावाहने तथा । आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमं ॥ २५.१०१ ॥
न आदरेत् नित्य-वैकल्यम् विसर्ग-आवाहने तथा । आचरेत् उत्सवम् विद्वान् नित्य-अर्चान् तु यथाक्रमम् ॥ २५।१०१ ॥
na ādaret nitya-vaikalyam visarga-āvāhane tathā . ācaret utsavam vidvān nitya-arcān tu yathākramam .. 25.101 ..
कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवं । स्नापयेद्यदि चेद्विद्वान्मध्यमे चोत्सवस्य तु ॥ २५.१०२ ॥
कुर्यात् चेद् नित्य-वैकल्यम् सर्व-नाशः भवेत् ध्रुवम् । स्नापयेत् यदि चेद् विद्वान् मध्यमे च उत्सवस्य तु ॥ २५।१०२ ॥
kuryāt ced nitya-vaikalyam sarva-nāśaḥ bhavet dhruvam . snāpayet yadi ced vidvān madhyame ca utsavasya tu .. 25.102 ..
स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेथ् । स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ॥ २५.१०३ ॥
स्नपने यदि संप्राप्ते कौतुके स्नपनम् चरेथ् । स्नापन-प्रतिमा-अभावे स्नपनम् यदि च उत्सवे ॥ २५।१०३ ॥
snapane yadi saṃprāpte kautuke snapanam careth . snāpana-pratimā-abhāve snapanam yadi ca utsave .. 25.103 ..
संप्रास्ते स्नपने चात्र कौतुके चोत्सवं विना । अचरेदेव सांकर्यं नाचरेदुभयोरपि ॥ २५.१०४ ॥
संप्रास्ते स्नपने च अत्र कौतुके च उत्सवम् विना । अ चरेत् एव सांकर्यम् न आचरेत् उभयोः अपि ॥ २५।१०४ ॥
saṃprāste snapane ca atra kautuke ca utsavam vinā . a caret eva sāṃkaryam na ācaret ubhayoḥ api .. 25.104 ..
उत्सवे वर्तमाने तु कौतुके स्नपनं यदि । संभवेदुक्तकाले तु कर्मणी द्वे समाचरेथ् ॥ २५.१०५ ॥
उत्सवे वर्तमाने तु कौतुके स्नपनम् यदि । संभवेत् उक्त-काले तु कर्मणी द्वे समाचरेथ् ॥ २५।१०५ ॥
utsave vartamāne tu kautuke snapanam yadi . saṃbhavet ukta-kāle tu karmaṇī dve samācareth .. 25.105 ..
पुराप्रवृत्तकार्ये तु दोषो नानेन संभवेथ् । कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेथ् ॥ २५.१०६ ॥
पुरा प्रवृत्त-कार्ये तु दोषः न अनेन । कातुके चेद् यथा क-अग्नौ बहु-कर्म-वत् आचरेथ् ॥ २५।१०६ ॥
purā pravṛtta-kārye tu doṣaḥ na anena . kātuke ced yathā ka-agnau bahu-karma-vat ācareth .. 25.106 ..
गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना । स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनं ॥ २५.१०७ ॥
गृहे त्रेताग्नि वत् नित्यम् प्रणीय आरोपणम् विना । स्नापन-उत्सव-भेदे तु कौतुकेन दिनम् दिनम् ॥ २५।१०७ ॥
gṛhe tretāgni vat nityam praṇīya āropaṇam vinā . snāpana-utsava-bhede tu kautukena dinam dinam .. 25.107 ..
अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः । आवाह्य कर्ममामन्ते तथा साये विसर्जयेथ् ॥ २५.१०८ ॥
अरोहणम् यदि भवेत् द्रुवे तत् कर्म पूर्वतस् । आवाह्य तथा साये ॥ २५।१०८ ॥
arohaṇam yadi bhavet druve tat karma pūrvatas . āvāhya tathā sāye .. 25.108 ..
पात्र रावाहनं नित्यमर्चनादौ विशेषतः । विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ॥ २५.१०९ ॥
नित्यम् अर्चन-आदौ विशेषतः । विसर्गम् सायम् अर्चा-अन्ते कौतुके तु यथा तथा ॥ २५।१०९ ॥
nityam arcana-ādau viśeṣataḥ . visargam sāyam arcā-ante kautuke tu yathā tathā .. 25.109 ..
तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः । विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेथ् ॥ २५.११० ॥
तथा एव औत्सव-दीक्षा-अन्ते समावाह्य ध्रुवात् सुधीः । विसर्गम् न आचरेत् मध्ये ॥ २५।११० ॥
tathā eva autsava-dīkṣā-ante samāvāhya dhruvāt sudhīḥ . visargam na ācaret madhye .. 25.110 ..
अर्चनान्ते विशेषेण पुण्याहमपि वाचयेथ् । हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ॥ २५.१११ ॥
अर्चन-अन्ते विशेषेण पुण्याहम् अपि । हेम-पात्रे तु सौवर्णम् कौतुकम् तण्डुल-उपरि ॥ २५।१११ ॥
arcana-ante viśeṣeṇa puṇyāham api . hema-pātre tu sauvarṇam kautukam taṇḍula-upari .. 25.111 ..
सन्न्यस्य पूर्ववद्धीमान्बन्धयेद्दक्षिणेकरे । कुंभान्देव्यौच चक्रादीन्समाबद्ध्य समर्चयेथ् ॥ २५.११२ ॥
सन्न्यस्य पूर्ववत् धीमान् बन्धयेत् दक्षिणे करे । कुंभान् देव्यौ च चक्र-आदीन् समाबद्ध्य समर्चयेथ् ॥ २५।११२ ॥
sannyasya pūrvavat dhīmān bandhayet dakṣiṇe kare . kuṃbhān devyau ca cakra-ādīn samābaddhya samarcayeth .. 25.112 ..
परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकं । जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितं ॥ २५.११३ ॥
परिषिच्य पावकम् पश्चात् वैष्मवम् विष्मुसूक्तकम् । जुहुयात् पौरुषम् सूक्तम् श्री-भू-सूक्त-समन्वितम् ॥ २५।११३ ॥
pariṣicya pāvakam paścāt vaiṣmavam viṣmusūktakam . juhuyāt pauruṣam sūktam śrī-bhū-sūkta-samanvitam .. 25.113 ..
दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतं । तथा मासाधिदै वत्यमब्ददै वत्यमेव च ॥ २५.११४ ॥
दिन-संध्या-अधिदैवत्यम् तिथि-वार-ऋक्ष-दैवतम् । तथा च ॥ २५।११४ ॥
dina-saṃdhyā-adhidaivatyam tithi-vāra-ṛkṣa-daivatam . tathā ca .. 25.114 ..
तदालयगतानां च जुहुयान्मूर्तिभिः क्रमाथ् । व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ॥ २५.११५ ॥
तद्-आलय-गतानाम् च जुहुयात् मूर्तिभिः । व्याहृति-अन्तम् प्रधाने स्यात् ततस् आहवनीयके ॥ २५।११५ ॥
tad-ālaya-gatānām ca juhuyāt mūrtibhiḥ . vyāhṛti-antam pradhāne syāt tatas āhavanīyake .. 25.115 ..
नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ॥ २५.११६ ॥
नृसूक्तम् दक्षिणाग्नौ च वैष्णवम् तथा ॥ २५।११६ ॥
nṛsūktam dakṣiṇāgnau ca vaiṣṇavam tathā .. 25.116 ..
अवसथ्ये महीसूक्तमेकाक्षरमतो यजेथ् । जुहुयात्पैण्डरीकाग्ना "वतो देवादिऽ वैष्णवं ॥ २५.११७ ॥
अवसथ्ये मही-सूक्तम् एक-अक्षरम् अतस् यजेथ् । जुहुयात् पैण्डरीक-अग्ना "वतः देव-आदि वैष्णवम् ॥ २५।११७ ॥
avasathye mahī-sūktam eka-akṣaram atas yajeth . juhuyāt paiṇḍarīka-agnā "vataḥ deva-ādi vaiṣṇavam .. 25.117 ..
विष्णुसूक्तं पुरुषसूक्तं "यद्देवादिऽसमन्वितं । पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणं ॥ २५.११८ ॥
विष्णुसूक्तम् पुरुषसूक्तम् "यत् देव-आदि-अ समन्वितम् । पारमात्मिक-मन्त्रान् च ब्राह्मम् ऐन्द्रम् च वारुणम् ॥ २५।११८ ॥
viṣṇusūktam puruṣasūktam "yat deva-ādi-a samanvitam . pāramātmika-mantrān ca brāhmam aindram ca vāruṇam .. 25.118 ..
जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतं । अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ॥ २५.११९ ॥
जुहुयात् विष्णु-गायत्षा श्वेत-अब्जम् च घृत-आप्लुतम् । अष्टोत्तरशतम् च एव सर्व-दोष-उपशान्तये ॥ २५।११९ ॥
juhuyāt viṣṇu-gāyatṣā śveta-abjam ca ghṛta-āplutam . aṣṭottaraśatam ca eva sarva-doṣa-upaśāntaye .. 25.119 ..
एकाग्निमथ वाधाय जुहुयादधमाधमं । सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ॥ २५.१२० ॥
एक-अग्निम् अथ वा आधाय जुहुयात् अधम-अधमम् । सभ्य-होमम् च पूर्व-उक्तम् वैष्णव-आदि-विधानतः ॥ २५।१२० ॥
eka-agnim atha vā ādhāya juhuyāt adhama-adhamam . sabhya-homam ca pūrva-uktam vaiṣṇava-ādi-vidhānataḥ .. 25.120 ..
अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते । ब्राह्ममार्षं तथा रौद्रमैन्द्रं स्ॐयं च वैष्मवं ॥ २५.१२१ ॥
अथ उत्सव-आधिदैवत्यम् विशेषेण प्रवक्ष्यते । ब्राह्मम् आर्षम् तथा रौद्रम् ऐन्द्रम् च वैष्मवम् ॥ २५।१२१ ॥
atha utsava-ādhidaivatyam viśeṣeṇa pravakṣyate . brāhmam ārṣam tathā raudram aindram ca vaiṣmavam .. 25.121 ..
सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके । आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ॥ २५.१२२ ॥
सर्व-दैवत्य-याम्ये च वारुणम् च नव-आह्निके । आग्नेयम् प्राजापत्यम् च कौबेरम् वैघ्नम् एव च ॥ २५।१२२ ॥
sarva-daivatya-yāmye ca vāruṇam ca nava-āhnike . āgneyam prājāpatyam ca kauberam vaighnam eva ca .. 25.122 ..
श्रीदैवत्यं च क्ॐआरमादित्यं रौद्रमेव च । दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ॥ २५.१२३ ॥
श्री-दैवत्यम् च कोंआरम् आदित्यम् रौद्रम् एव च । दौर्गम् ऐन्द्रम् तथा याम्यम् वैष्णवम् स्कान्गम् एव ॥ २५।१२३ ॥
śrī-daivatyam ca koṃāram ādityam raudram eva ca . daurgam aindram tathā yāmyam vaiṣṇavam skāngam eva .. 25.123 ..
इशान्यं स्ॐयमित्येतत्तिथिदैवत्यमुच्यते । तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ॥ २५.१२४ ॥
सों यम् इति एतत् तिथि-दैवत्यम् उच्यते । तद्-तद्-द्वारे तु जुहुयात् मत्रैः द्वाराधिप-उचितैः ॥ २५।१२४ ॥
soṃ yam iti etat tithi-daivatyam ucyate . tad-tad-dvāre tu juhuyāt matraiḥ dvārādhipa-ucitaiḥ .. 25.124 ..
तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः । त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमाथ् ॥ २५.१२५ ॥
तथा नक्षत्र-दैवत्यम् जुहुयात् विधिना बुधः । त्रि-संधिषु हुनेत् ऐन्द्रम् सौरम् बार्हस्पतम् क्रमाथ् ॥ २५।१२५ ॥
tathā nakṣatra-daivatyam juhuyāt vidhinā budhaḥ . tri-saṃdhiṣu hunet aindram sauram bārhaspatam kramāth .. 25.125 ..
मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते । याम्यं च वैष्णवं स्ॐयं ब्राह्मं बार्हस्पतं तथा ॥ २५.१२६ ॥
मास-ऋक्ष-अधिप-दैवत्यम् मास-दैवत्यम् उच्यते । याम्यम् च वैष्णवम् सोंयम् ब्राह्मम् बार्हस्पतम् तथा ॥ २५।१२६ ॥
māsa-ṛkṣa-adhipa-daivatyam māsa-daivatyam ucyate . yāmyam ca vaiṣṇavam soṃyam brāhmam bārhaspatam tathā .. 25.126 ..
स्ॐयमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकं । मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ॥ २५.१२७ ॥
स उंयम-ऐन्द्रम् वारुणम् च शेष-अग्नि-आदित्य-भौतिकम् । मारुतम् भृगु-दैवत्यम् वारुणम् वैघ्नम् एव च ॥ २५।१२७ ॥
sa uṃyama-aindram vāruṇam ca śeṣa-agni-āditya-bhautikam . mārutam bhṛgu-daivatyam vāruṇam vaighnam eva ca .. 25.127 ..
रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं क्ॐआरमेव च । सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ॥ २५.१२८ ॥
रौद्रम् कौबेरकम् त्वाष्ट्रम् मैत्रम् कोंआरम् एव च । सावित्रीम् श्री-दैवत्यम् च एव गौरी-दैवत्यम् एव च ॥ २५।१२८ ॥
raudram kauberakam tvāṣṭram maitram koṃāram eva ca . sāvitrīm śrī-daivatyam ca eva gaurī-daivatyam eva ca .. 25.128 ..
आदित्यं पैतृकं चैवादिति दैवत्यमेव च । योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ॥ २५.१२९ ॥
आदित्यम् पैतृकम् च एव अदिति दैवत्यम् एव च । योग-दैवत्यम् एतत् क्यात् जुहुयात् विधिना बुधः ॥ २५।१२९ ॥
ādityam paitṛkam ca eva aditi daivatyam eva ca . yoga-daivatyam etat kyāt juhuyāt vidhinā budhaḥ .. 25.129 ..
ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा । भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतं ॥ २५.१३० ॥
ऐन्द्रम् च प्राजापत्यम् च मैत्रम् आर्यमणम् तथा । भूत श्री-यामि-अदैवत्यम् भार्गवम् वृष-दैवतम् ॥ २५।१३० ॥
aindram ca prājāpatyam ca maitram āryamaṇam tathā . bhūta śrī-yāmi-adaivatyam bhārgavam vṛṣa-daivatam .. 25.130 ..
कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै । देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ॥ २५.१३१ ॥
कौबेरम् वायु-दैवत्यम् जुहुयात् करणेषु वै । देवेभ्यः पितृभ्यः च इति पक्षयोः शुक्ल-कृष्णयोः ॥ २५।१३१ ॥
kauberam vāyu-daivatyam juhuyāt karaṇeṣu vai . devebhyaḥ pitṛbhyaḥ ca iti pakṣayoḥ śukla-kṛṣṇayoḥ .. 25.131 ..
सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः । मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमाथ् ॥ २५.१३२ ॥
सौरम् चान्द्रम् च जुहुयात् क्रमात् अयनयोः द्वयोः । मधुः च माधवः च इति जुहुयात् ऋतुषु ॥ २५।१३२ ॥
sauram cāndram ca juhuyāt kramāt ayanayoḥ dvayoḥ . madhuḥ ca mādhavaḥ ca iti juhuyāt ṛtuṣu .. 25.132 ..
विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः । अष्टौ लोकाधिपाः पञ्च भूता विश्वंभरादयः ॥ २५.१३३ ॥
विष्णुः प्रजापतिः शूली विघ्नेशः सप्त च ऋषयः । अष्टौ लोक-अधिपाः पञ्च भूताः विश्वंभर-आदयः ॥ २५।१३३ ॥
viṣṇuḥ prajāpatiḥ śūlī vighneśaḥ sapta ca ṛṣayaḥ . aṣṭau loka-adhipāḥ pañca bhūtāḥ viśvaṃbhara-ādayaḥ .. 25.133 ..
वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः । सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ॥ २५.१३४ ॥
वसवः अष्टौ च रोहिण्यः सप्त श्रीः चण्डिका गुहः । सूर्यः सोमः चिरञ्जीवी काशीवीश-पुरर्दराः ॥ २५।१३४ ॥
vasavaḥ aṣṭau ca rohiṇyaḥ sapta śrīḥ caṇḍikā guhaḥ . sūryaḥ somaḥ cirañjīvī kāśīvīśa-purardarāḥ .. 25.134 ..
चक्रश्शान्तो गुरुर्भ्ॐअबुधशुक्रशनैश्चराः । हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ॥ २५.१३५ ॥
चक्रः शान्तः गुरुः भों अबुध-शुक्र-शनैश्चराः । हविःपालः हि अनस्तः च गङ्गा ज्येष्ठा च मातरः ॥ २५।१३५ ॥
cakraḥ śāntaḥ guruḥ bhoṃ abudha-śukra-śanaiścarāḥ . haviḥpālaḥ hi anastaḥ ca gaṅgā jyeṣṭhā ca mātaraḥ .. 25.135 ..
प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः । तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतं ॥ २५.१३६ ॥
प्रभव-आदि क्रमात् एते विज्ञेयाः वत्सर-अधिपाः । तथा उत्सव-अधिदैवत्यम् तिथि-वार-ऋक्ष-दैवतम् ॥ २५।१३६ ॥
prabhava-ādi kramāt ete vijñeyāḥ vatsara-adhipāḥ . tathā utsava-adhidaivatyam tithi-vāra-ṛkṣa-daivatam .. 25.136 ..
चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न । पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा ॥ २५.१३७ ॥
चतुर्-दैवत्य-मात्रम् तु जुहुयात् इति के च न । पलाश-बिल्व-शामीलन्यः ग्रोथ-उदुंबराः तथा ॥ २५।१३७ ॥
catur-daivatya-mātram tu juhuyāt iti ke ca na . palāśa-bilva-śāmīlanyaḥ grotha-uduṃbarāḥ tathā .. 25.137 ..
अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे । समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ॥ २५.१३८ ॥
अश्वद्ध-खदिर-प्ल-क्ष-ब्रह्मवृक्षाः क्रमात् इमे । समिधाम् ग्राह्य वृक्षान्तु पर्णम् अश्वद्थम् एव वा ॥ २५।१३८ ॥
aśvaddha-khadira-pla-kṣa-brahmavṛkṣāḥ kramāt ime . samidhām grāhya vṛkṣāntu parṇam aśvadtham eva vā .. 25.138 ..
पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा । नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजं ॥ २५.१३९ ॥
पद्मम् च बिल्व-पत्रम् च करवीरम् कुमुदम् तथा । नन्द्यावर्तम् च तुलसी तथा एव स्थलपङ्कजम् ॥ २५।१३९ ॥
padmam ca bilva-patram ca karavīram kumudam tathā . nandyāvartam ca tulasī tathā eva sthalapaṅkajam .. 25.139 ..
विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमाथ् । अलाभे तुलसीं वाथ करवीरं च पङ्कजं ॥ २५.१४० ॥
विष्णु-क्रान्त-अरविन्दे तु पुष्पाणि एतानि अनुक्रमाः । अलाभे तुलसीम् वा अथ करवीरम् च पङ्कजम् ॥ २५।१४० ॥
viṣṇu-krānta-aravinde tu puṣpāṇi etāni anukramāḥ . alābhe tulasīm vā atha karavīram ca paṅkajam .. 25.140 ..
मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च । तिलानपूपान्लाजांश्च यवान्सक्तून्यथाक्रमं ॥ २५.१४१ ॥
मुद्गम् निष्पावकम् च एव कुलुद्धम् माषया इव च । तिलान् अपूपान् लाजान् च यवान् सक्तून् यथाक्रमम् ॥ २५।१४१ ॥
mudgam niṣpāvakam ca eva kuluddham māṣayā iva ca . tilān apūpān lājān ca yavān saktūn yathākramam .. 25.141 ..
बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकं । एवमेव विधानेन द्विकालं होममाचरेथ् ॥ २५.१४२ ॥
बलि-द्रव्याणि च उक्तानि सर्व-अभावे तु मौद्गिकम् । एवम् एव विधानेन द्वि-कालम् होमम् आचरेथ् ॥ २५।१४२ ॥
bali-dravyāṇi ca uktāni sarva-abhāve tu maudgikam . evam eva vidhānena dvi-kālam homam ācareth .. 25.142 ..
प्रातस्संध्यावसानेतु सायमर्चावसानके । होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेथ् ॥ २५.१४३ ॥
प्रातस्संध्या-अवसाने तु सायम् अर्चा-अवसानके । होमम् कृत्वा बलिम् दद्यात् द्विकालम् च उत्सवम् ॥ २५।१४३ ॥
prātassaṃdhyā-avasāne tu sāyam arcā-avasānake . homam kṛtvā balim dadyāt dvikālam ca utsavam .. 25.143 ..
उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः । बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ॥ २५.१४४ ॥
उत्सव-भ्रमणम् वक्ष्ये देवदेवस्य शार्ङ्गिणः । बलि-निर्वापण-अन्ते तु सायम् प्रातर् विशेषतः ॥ २५।१४४ ॥
utsava-bhramaṇam vakṣye devadevasya śārṅgiṇaḥ . bali-nirvāpaṇa-ante tu sāyam prātar viśeṣataḥ .. 25.144 ..
देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः । सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ॥ २५.१४५ ॥
देवदेवम् अलङ्कृत्य वस्त्र-आद्यैः भूषणैः शुभैः । सुगन्धि-पुष्प-मालाभिः गन्धैः अपि मनोहरैः ॥ २५।१४५ ॥
devadevam alaṅkṛtya vastra-ādyaiḥ bhūṣaṇaiḥ śubhaiḥ . sugandhi-puṣpa-mālābhiḥ gandhaiḥ api manoharaiḥ .. 25.145 ..
रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा । गजाश्वांदोलिकादौ वा वाहने समलङ्कृते ॥ २५.१४६ ॥
रथे वा शिबिकायाम् वा वीश-स्कन्धे अपि वा तथा । गज-अश्व-आंदोलिका-आदौ वा वाहने समलङ्कृते ॥ २५।१४६ ॥
rathe vā śibikāyām vā vīśa-skandhe api vā tathā . gaja-aśva-āṃdolikā-ādau vā vāhane samalaṅkṛte .. 25.146 ..
अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलं । अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस्तथा ॥ २५.१४७ ॥
अहम् एव इदम् अमन्त्रेण देवम् आरोप्य निश्चलम् । अष्ट-उपचारैः अभ्यर्च्य लाज-अपूप-आदिकान् तथा ॥ २५।१४७ ॥
aham eva idam amantreṇa devam āropya niścalam . aṣṭa-upacāraiḥ abhyarcya lāja-apūpa-ādikān tathā .. 25.147 ..
संक्कृतान्गुडसंमिश्रान्निवेद्य मुखवासकं । दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतं ॥ २५.१४८ ॥
संक्कृतान् गुड-संमिश्रान् निवेद्य मुखवासकम् । द-त्वा वाद्यैः समायुक्तम् सर्व-अलङ्कार-संयुतम् ॥ २५।१४८ ॥
saṃkkṛtān guḍa-saṃmiśrān nivedya mukhavāsakam . da-tvā vādyaiḥ samāyuktam sarva-alaṅkāra-saṃyutam .. 25.148 ..
दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः । ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ॥ २५.१४९ ॥
दासीभिः वाद-कैश्या एव नृत्त-गेय-समन्वितैः । ब्राह्मणैः वेद-विद्भिः च समायुक्तम् ॥ २५।१४९ ॥
dāsībhiḥ vāda-kaiśyā eva nṛtta-geya-samanvitaiḥ . brāhmaṇaiḥ veda-vidbhiḥ ca samāyuktam .. 25.149 ..
ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च । संभृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ॥ २५.१५० ॥
ध्वजैः चत्रैः आतपत्रैः तोरणैः च तथा एव च । संभृतैः संयुतम् च अन्यैः सर्वैः शृङ्गार-लक्ष्मभिः ॥ २५।१५० ॥
dhvajaiḥ catraiḥ ātapatraiḥ toraṇaiḥ ca tathā eva ca . saṃbhṛtaiḥ saṃyutam ca anyaiḥ sarvaiḥ śṛṅgāra-lakṣmabhiḥ .. 25.150 ..
वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः । वीज्यमानं विशेषेण तथा भक्तवरैरपि ॥ २५.१५१ ॥
वाल-व्यजन-हस्ताभिः दासीभिः पार्श्वयोः द्वयोः । वीज्यमानम् विशेषेण तथा भक्त-वरैः अपि ॥ २५।१५१ ॥
vāla-vyajana-hastābhiḥ dāsībhiḥ pārśvayoḥ dvayoḥ . vījyamānam viśeṣeṇa tathā bhakta-varaiḥ api .. 25.151 ..
वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः । दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ॥ २५.१५२ ॥
वाहये युः द्विजाः देवम् ब्राह्मणाः वेदपारगाः । दीपैः उदग्रैः बहुभिः परिषिक्तैः घृत-आदिना ॥ २५।१५२ ॥
vāhaye yuḥ dvijāḥ devam brāhmaṇāḥ vedapāragāḥ . dīpaiḥ udagraiḥ bahubhiḥ pariṣiktaiḥ ghṛta-ādinā .. 25.152 ..
परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः । विप्रैस्त्रयीमधीयानैर्जपस्तुतिपरायणैः ॥ २५.१५३ ॥
परस् सहस्रैः सर्वत्र दीपयेत् च शत-अवरैः । विप्रैः त्रयीम् अधीयानैः जप-स्तुति-परायणैः ॥ २५।१५३ ॥
paras sahasraiḥ sarvatra dīpayet ca śata-avaraiḥ . vipraiḥ trayīm adhīyānaiḥ japa-stuti-parāyaṇaiḥ .. 25.153 ..
नृत्यता गायता मापि गाणिक्येन सुसेवितं । वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ॥ २५.१५४ ॥
नृत्यता गायता मा अपि गाणिक्येन सु सेवितम् । वीणा-आदि-वादिभिः च एव वन्दिभिः च तथा परैः ॥ २५।१५४ ॥
nṛtyatā gāyatā mā api gāṇikyena su sevitam . vīṇā-ādi-vādibhiḥ ca eva vandibhiḥ ca tathā paraiḥ .. 25.154 ..
षड्जादिगीतनिपुणैर्वाद्यवादककोविदैः । गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलं ॥ २५.१५५ ॥
षड्ज-आदि-गीत-निपुणैः वाद्य-वादक-कोविदैः । गद्यम् पद्यम् तथा मिश्रम् पथद्भिः त्सोत्रम् उज्ज्वलम् ॥ २५।१५५ ॥
ṣaḍja-ādi-gīta-nipuṇaiḥ vādya-vādaka-kovidaiḥ . gadyam padyam tathā miśram pathadbhiḥ tsotram ujjvalam .. 25.155 ..
वै तण्डिकैस्तथा जल्पैर्निपुणैर्वादशिक्षितैः । तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ॥ २५.१५६ ॥
वै तण्डिकैः तथा जल्पैः निपुणैः वाद-शिक्षितैः । तथा तत्त्व-कथा-निष्ठैः पदार्ध-ज्ञैः च तार्किकैः ॥ २५।१५६ ॥
vai taṇḍikaiḥ tathā jalpaiḥ nipuṇaiḥ vāda-śikṣitaiḥ . tathā tattva-kathā-niṣṭhaiḥ padārdha-jñaiḥ ca tārkikaiḥ .. 25.156 ..
मीमांसकैर्याज्ञिकैश्च छान्दसैस्सांख्यकोविदैः । योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस्तत्त्ववेदिभिः ॥ २५.१५७ ॥
मीमांसकैः याज्ञिकैः च छान्दसैः सांख्य-कोविदैः । योग-ज्ञैः च पुराण-ज्ञैः शाब्दिकैः तत्त्व-वेदिभिः ॥ २५।१५७ ॥
mīmāṃsakaiḥ yājñikaiḥ ca chāndasaiḥ sāṃkhya-kovidaiḥ . yoga-jñaiḥ ca purāṇa-jñaiḥ śābdikaiḥ tattva-vedibhiḥ .. 25.157 ..
मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः । तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितं ॥ २५.१५८ ॥
मौहूर्तिकैः च गणशस् परस्पर-जीगीषुभिः । तद्-तद्-शास्त्र-उक-मार्गेण प्रमेयम् च बहु-स्थितम् ॥ २५।१५८ ॥
mauhūrtikaiḥ ca gaṇaśas paraspara-jīgīṣubhiḥ . tad-tad-śāstra-uka-mārgeṇa prameyam ca bahu-sthitam .. 25.158 ..
उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः । वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ॥ २५.१५९ ॥
उच्चैस् ब्रुवाणैः विद्वद्भिः पञ्च-काल-परायणैः । वासुदेवस्य माहात्म्यम् कथयद्भिः च सात्त्विकैः ॥ २५।१५९ ॥
uccais bruvāṇaiḥ vidvadbhiḥ pañca-kāla-parāyaṇaiḥ . vāsudevasya māhātmyam kathayadbhiḥ ca sāttvikaiḥ .. 25.159 ..
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः । देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ॥ २५.१६० ॥
शास्त्रेषु नैपुणम् सर्वम् प्रदर्शयितुम् उद्यतैः । देवस्य पुरतस् पृष्ठे पार्श्वतस् च स्थितैः जनैः ॥ २५।१६० ॥
śāstreṣu naipuṇam sarvam pradarśayitum udyataiḥ . devasya puratas pṛṣṭhe pārśvatas ca sthitaiḥ janaiḥ .. 25.160 ..
सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया । देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ॥ २५.१६१ ॥
सेनया सर्वतस् दिक्षु चतुर्-अङ्ग-बल-आढ्यया । देवस्य पार्श्वयोः पूर्दे लाक्षा-रञ्जित-मस्करैः ॥ २५।१६१ ॥
senayā sarvatas dikṣu catur-aṅga-bala-āḍhyayā . devasya pārśvayoḥ pūrde lākṣā-rañjita-maskaraiḥ .. 25.161 ..
यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः । देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ॥ २५.१६२ ॥
यत्रैः दारु-मयैः चित्रैः पक्षि-आकारैः इतस् ततस् । देवता-आकृति-यन्त्रैः च तथा यन्त्रैः गज-आदिभिः ॥ २५।१६२ ॥
yatraiḥ dāru-mayaiḥ citraiḥ pakṣi-ākāraiḥ itas tatas . devatā-ākṛti-yantraiḥ ca tathā yantraiḥ gaja-ādibhiḥ .. 25.162 ..
निषादिभिस्समारूढैस्स्त्रीभिश्च भरतोदितैः । मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतं ॥ २५.१६३ ॥
निषादिभिः समारूढैः स्त्रीभिः च भरत-उदितैः । मार्गैः बहुविधैः नृत्तम् दर्शयन्तीभिः अद्भुतम् ॥ २५।१६३ ॥
niṣādibhiḥ samārūḍhaiḥ strībhiḥ ca bharata-uditaiḥ . mārgaiḥ bahuvidhaiḥ nṛttam darśayantībhiḥ adbhutam .. 25.163 ..
लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः । गतागतानि कुर्वाणैरनुयातं समाकुलैः ॥ २५.१६४ ॥
लेखायन्त्रैः त्स्रिया आरूढैः यन्त्रैः अन्यैः तथा । गतागतानि कुर्वाणैः अनुयातम् समाकुलैः ॥ २५।१६४ ॥
lekhāyantraiḥ tsriyā ārūḍhaiḥ yantraiḥ anyaiḥ tathā . gatāgatāni kurvāṇaiḥ anuyātam samākulaiḥ .. 25.164 ..
शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः । आरभ्यावरणादाद्यादेषा परिवृतिर्भवेथ् ॥ २५.१६५ ॥
शनैस् नयेत् जगन्नाथम् यथाशक्ति समन्वितैः । आरभ्य आवरणात् आद्यात् एषा परिवृतिः ॥ २५।१६५ ॥
śanais nayet jagannātham yathāśakti samanvitaiḥ . ārabhya āvaraṇāt ādyāt eṣā parivṛtiḥ .. 25.165 ..
देवेन सार्थमाचार्यो यानमारुह्य तत्र तु । रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिं ॥ २५.१६६ ॥
देवेन सार्थम् आचार्यः यानम् आरुह्य तत्र तु । रक्षा-अर्थम् देवदेवस्य ध्यायन् उपविशेत् हरिम् ॥ २५।१६६ ॥
devena sārtham ācāryaḥ yānam āruhya tatra tu . rakṣā-artham devadevasya dhyāyan upaviśet harim .. 25.166 ..
अर्चकश्च तथासीनस्सम्यगर्चनमाचरेथ् । आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ॥ २५.१६७ ॥
अर्चकः च तथा आसीनः सम्यक् अर्चनम् आचरेथ् । आरोहणे गज-इन्द्रस्य देवदेवम् विशेषतः ॥ २५।१६७ ॥
arcakaḥ ca tathā āsīnaḥ samyak arcanam ācareth . ārohaṇe gaja-indrasya devadevam viśeṣataḥ .. 25.167 ..
वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकं । देवेशं पूर्वमारोप्य हस्तेनादायचांकुशं ॥ २५.१६८ ॥
वस्त्र-आभरण-पुष्ब-आद्यैः अलङ्कृत्य यथार्हकम् । देवेशम् पूर्वम् आरोप्य हस्तेन आदाय च अंकुशम् ॥ २५।१६८ ॥
vastra-ābharaṇa-puṣba-ādyaiḥ alaṅkṛtya yathārhakam . deveśam pūrvam āropya hastena ādāya ca aṃkuśam .. 25.168 ..
निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः । अर्चकश्छत्रमादाय तथा देवस्य धारयेथ् ॥ २५.१६९ ॥
निषीदेत् गज-पृष्ठे तु देशिकः स्वयम् अत्वरः । अर्चकः छत्रम् आदाय तथा देवस्य ॥ २५।१६९ ॥
niṣīdet gaja-pṛṣṭhe tu deśikaḥ svayam atvaraḥ . arcakaḥ chatram ādāya tathā devasya .. 25.169 ..
तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचराथ् । ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ॥ २५.१७० ॥
तोय-धाराम् पुरस्कृत्य कुर्यात् भ्रमणम् आचर अथ् । ग्रामम् प्रदक्षिणम् कुर्यात् बलिः येन कृतः ॥ २५।१७० ॥
toya-dhārām puraskṛtya kuryāt bhramaṇam ācara ath . grāmam pradakṣiṇam kuryāt baliḥ yena kṛtaḥ .. 25.170 ..
तत्काले देवमायान्तं भक्ता भागवता जनाः । स्पगृहप्रांगणे चैव प्रत्युद्थाय पुनःपुनः ॥ २५.१७१ ॥
तद्-काले देवम् आयान्तम् भक्ताः भागवताः जनाः । च एव प्रत्युद्थाय पुनर् पुनर् ॥ २५।१७१ ॥
tad-kāle devam āyāntam bhaktāḥ bhāgavatāḥ janāḥ . ca eva pratyudthāya punar punar .. 25.171 ..
प्रणम्य चोपहारांश्च दद्युर्बहुविधान्बहून् । पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ॥ २५.१७२ ॥
प्रणम्य च उपहारान् च दद्युः बहुविधान् बहून् । पत्रम् पुष्पम् फलम् पूगम् नागवल्ली-दलानि अपि ॥ २५।१७२ ॥
praṇamya ca upahārān ca dadyuḥ bahuvidhān bahūn . patram puṣpam phalam pūgam nāgavallī-dalāni api .. 25.172 ..
दक्षिणां च विशेषेण यथाशक्ति यथारुचि । नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ॥ २५.१७३ ॥
दक्षिणाम् च विशेषेण यथाशक्ति यथारुचि । नीराजन-आदि कुर्युः च बाल-वृद्ध-आतुराः तदा ॥ २५।१७३ ॥
dakṣiṇām ca viśeṣeṇa yathāśakti yathāruci . nīrājana-ādi kuryuḥ ca bāla-vṛddha-āturāḥ tadā .. 25.173 ..
तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे । भक्तानुकंपया देवे स्पगृहद्वारमागते ॥ २५.१७४ ॥
तपोभिः बहुभिः गम्ये स्वयम् एव परात्परे । भक्त-अनुकंपया देवे स्प-गृह-द्वारम् आगते ॥ २५।१७४ ॥
tapobhiḥ bahubhiḥ gamye svayam eva parātpare . bhakta-anukaṃpayā deve spa-gṛha-dvāram āgate .. 25.174 ..
को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेथ् । तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ॥ २५.१७५ ॥
कः न नन्दति मूढ-आत्मा तस्य का निष्कृतिः भवेथ् । तद्-काले च अर्पितम् द्रव्यम् यत् अपक्वम् प्रगृह्य च ॥ २५।१७५ ॥
kaḥ na nandati mūḍha-ātmā tasya kā niṣkṛtiḥ bhaveth . tad-kāle ca arpitam dravyam yat apakvam pragṛhya ca .. 25.175 ..
आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेथ् । उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ॥ २५.१७६ ॥
आमन्त्रम् तु निवेद्य एव भगवत्-प्रियम् आचरेथ् । उपहारेषु तत्र अर्धम् गृह्णीयात् भागम् अर्चकः ॥ २५।१७६ ॥
āmantram tu nivedya eva bhagavat-priyam ācareth . upahāreṣu tatra ardham gṛhṇīyāt bhāgam arcakaḥ .. 25.176 ..
नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकं । सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयं ॥ २५.१७७ ॥
। सर्वम् अर्चक-सर्व-स्वम् गृह्णीयात् अर्चकः स्वयम् ॥ २५।१७७ ॥
. sarvam arcaka-sarva-svam gṛhṇīyāt arcakaḥ svayam .. 25.177 ..
तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिं । भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ॥ २५.१७८ ॥
तद्-काले भक्ति-नम्रेभ्यः संप्राप्तेभ्यः च सन्निधिम् । भगदत्-पादुकाम् दद्यात् शिरसि श्रद्धया गुरुः ॥ २५।१७८ ॥
tad-kāle bhakti-namrebhyaḥ saṃprāptebhyaḥ ca sannidhim . bhagadat-pādukām dadyāt śirasi śraddhayā guruḥ .. 25.178 ..
शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते । न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिं ॥ २५.१७९ ॥
शिरसा धारणे मर्त्यैः स्पृष्टि-दोषः न विद्यते । न नयेत् पादुकाम् विष्णोः दूरीकृत्य तु सन्निधिम् ॥ २५।१७९ ॥
śirasā dhāraṇe martyaiḥ spṛṣṭi-doṣaḥ na vidyate . na nayet pādukām viṣṇoḥ dūrīkṛtya tu sannidhim .. 25.179 ..
न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः । इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ॥ २५.१८० ॥
न गृह-द्वार-सीमान्तम् नयेत् ताम् गृहिणाम् गुरुः । इष्टम् राज-गृहे स्त्रीभिः पादुका-धारणम् यदि ॥ २५।१८० ॥
na gṛha-dvāra-sīmāntam nayet tām gṛhiṇām guruḥ . iṣṭam rāja-gṛhe strībhiḥ pādukā-dhāraṇam yadi .. 25.180 ..
देहलीमनतिक्रम्य नेयात्तां दीपिकान्वितां । तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ॥ २५.१८१ ॥
देहलीम् अन् अतिक्रम्य न इयात् ताम् दीपिका-अन्विताम् । तदा दीपैः तथा अन्यैः च राज-अर्हैः च परिच्छदैः ॥ २५।१८१ ॥
dehalīm an atikramya na iyāt tām dīpikā-anvitām . tadā dīpaiḥ tathā anyaiḥ ca rāja-arhaiḥ ca paricchadaiḥ .. 25.181 ..
नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः । तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चिथ् ॥ २५.१८२ ॥
नेया स्यात् पादुका विष्णोः प्रणिधिः सा यतस् हरेः । तद्-सन्निधिम् अतिक्रम्य पूजकः तु न जातु ॥ २५।१८२ ॥
neyā syāt pādukā viṣṇoḥ praṇidhiḥ sā yatas hareḥ . tad-sannidhim atikramya pūjakaḥ tu na jātu .. 25.182 ..
आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् । नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेथ् ॥ २५.१८३ ॥
आदानाय उपहाराणाम् प्रयायात् गृहिणाम् गृहान् । न अपि कार्य-अन्तर-आसक्तः पञ्च-हस्तान् अति क्रमेथ् ॥ २५।१८३ ॥
ādānāya upahārāṇām prayāyāt gṛhiṇām gṛhān . na api kārya-antara-āsaktaḥ pañca-hastān ati krameth .. 25.183 ..
एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः । एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ॥ २५.१८४ ॥
एष श्रेष्ठ-उपचारः स्यात् यतस् सम्मान्यते हरिः । एवम् प्रदक्षिणम् नीत्वा निवर्तेत आलयम् प्रति ॥ २५।१८४ ॥
eṣa śreṣṭha-upacāraḥ syāt yatas sammānyate hariḥ . evam pradakṣiṇam nītvā nivarteta ālayam prati .. 25.184 ..
गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमाथ् । अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकं ॥ २५.१८५ ॥
गोपुर-अग्रे तु देवेशम् कृत्वा देव-उन्मुखम् । अर्घ्य-पाद्य-आदिना अभ्यर्च्य निवेद्य पृथुक-आदिकम् ॥ २५।१८५ ॥
gopura-agre tu deveśam kṛtvā deva-unmukham . arghya-pādya-ādinā abhyarcya nivedya pṛthuka-ādikam .. 25.185 ..
धामप्रदक्षिणं नीत्वा पुनराविश्य चालयं । अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ॥ २५.१८६ ॥
धाम-प्रदक्षिणम् नीत्वा पुनर् आविश्य च आलयम् । अवरोप्य च देवेशम् स्थाप्य च आस्थान-मण्डपे ॥ २५।१८६ ॥
dhāma-pradakṣiṇam nītvā punar āviśya ca ālayam . avaropya ca deveśam sthāpya ca āsthāna-maṇḍape .. 25.186 ..
पाद्यमाचमनं दत्वा मुखवासं प्रदाय च । कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुं ॥ २५.१८७ ॥
पाद्यम् आचमनम् द-त्वा मुख-वासम् प्रदाय च । कौतुकम् तु विसृज्य एव शुद्ध-उदैः स्नापयेत् प्रभुम् ॥ २५।१८७ ॥
pādyam ācamanam da-tvā mukha-vāsam pradāya ca . kautukam tu visṛjya eva śuddha-udaiḥ snāpayet prabhum .. 25.187 ..
विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववथ् । कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेथ् ॥ २५.१८८ ॥
विमृज्य प्लोत-वस्त्रेण समलङ्कृत्य । कौतुकम् पुनर् आबद्ध्य हविः-पश्चात् निवेदयेथ् ॥ २५।१८८ ॥
vimṛjya plota-vastreṇa samalaṅkṛtya . kautukam punar ābaddhya haviḥ-paścāt nivedayeth .. 25.188 ..
कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः । विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ॥ २५.१८९ ॥
कुर्यात् राज-उपचाराणि स हि राजा जगत्-प्रभुः । विनोदम् कारयेत् च एव नृत्त-गीत-आदिभिः बहु ॥ २५।१८९ ॥
kuryāt rāja-upacārāṇi sa hi rājā jagat-prabhuḥ . vinodam kārayet ca eva nṛtta-gīta-ādibhiḥ bahu .. 25.189 ..
ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेथ् । प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितं ॥ २५.१९० ॥
ततस् प्रणम्य देवेशम् पूर्व-स्थाने । प्रथमे अहनि साये तु कर्तव्यम् इदम् ईरितम् ॥ २५।१९० ॥
tatas praṇamya deveśam pūrva-sthāne . prathame ahani sāye tu kartavyam idam īritam .. 25.190 ..
द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः । नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेथ् ॥ २५.१९१ ॥
द्वितीय-अहर्-प्रभृति एव सायम् प्रातर् च नित्यशस् । नित्य-अर्चन-अन्ते द्विगुणम् अर्चयेत् च ॥ २५।१९१ ॥
dvitīya-ahar-prabhṛti eva sāyam prātar ca nityaśas . nitya-arcana-ante dviguṇam arcayet ca .. 25.191 ..
कुंभदेवान्समाराध्य ध्वजदेवार्चनं चरेथ् । होमं बलिं च दत्वातु कारयेदुत्सवं तथा ॥ २५.१९२ ॥
कुंभ-देवान् समाराध्य ध्वजदेव-अर्चनम् चरेथ् । होमम् बलिम् च द-त्वा तु कारयेत् उत्सवम् तथा ॥ २५।१९२ ॥
kuṃbha-devān samārādhya dhvajadeva-arcanam careth . homam balim ca da-tvā tu kārayet utsavam tathā .. 25.192 ..
तृतीये पञ्चयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः । षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिं ॥ २५.१९३ ॥
तृतीये पञ्चये अवाह्नि प्रातर् स्यात् गरुड-उत्सवः । षष्ठे अहनि तु मध्याह्ने देवीभ्याम् सहितम् हरिम् ॥ २५।१९३ ॥
tṛtīye pañcaye avāhni prātar syāt garuḍa-utsavaḥ . ṣaṣṭhe ahani tu madhyāhne devībhyām sahitam harim .. 25.193 ..
पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः । जलकुङ्कुममादाय कारयेदुत्सवं तथा ॥ २५.१९४ ॥
पीठ-मध्ये समारोप्य समभ्यर्च्य अष्ट-विग्रहैः । जल-कुङ्कुमम् आदाय कारयेत् उत्सवम् तथा ॥ २५।१९४ ॥
pīṭha-madhye samāropya samabhyarcya aṣṭa-vigrahaiḥ . jala-kuṅkumam ādāya kārayet utsavam tathā .. 25.194 ..
नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च । दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुं ॥ २५.१९५ ॥
नव-वस्त्र-आदिकम् द-त्वा पृथुकानि निवेद्य च । द-त्वा तांबूलम् आचामम् अर्चयेत् राज-वत् प्रभुम् ॥ २५।१९५ ॥
nava-vastra-ādikam da-tvā pṛthukāni nivedya ca . da-tvā tāṃbūlam ācāmam arcayet rāja-vat prabhum .. 25.195 ..
सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनं । वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ॥ २५.१९६ ॥
सप्तमे प्रातर् अर्चा-अन्ते कुर्यात् सप्तर्षि-पूजनम् । वृणुयात् ऋत्विजः सप्त-तद्-आचार्य-पुरस्सरान् ॥ २५।१९६ ॥
saptame prātar arcā-ante kuryāt saptarṣi-pūjanam . vṛṇuyāt ṛtvijaḥ sapta-tad-ācārya-purassarān .. 25.196 ..
ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च । तण्डुलोदककुंभादीन्दूर्वाग्रं क्रमुकं तथा ॥ २५.१९७ ॥
ध्यात्वा सप्तर्षि-वत् तान् तु स्वर्णम् गाम् आज्यम् एव च । तण्डुल-उदक-कुंभ-आदीन् दूर्वा-अग्रम् क्रमुकम् तथा ॥ २५।१९७ ॥
dhyātvā saptarṣi-vat tān tu svarṇam gām ājyam eva ca . taṇḍula-udaka-kuṃbha-ādīn dūrvā-agram kramukam tathā .. 25.197 ..
दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्पृथक् । तत्सायं च विशेषेण कृष्णगन्धानुलेपनं ॥ २५.१९८ ॥
दद्यात् प्रभूतम् तेभ्यः तु ब्राह्मणेभ्यः पृथक् पृथक् । तत् सायम् च विशेषेण कृष्ण-गन्ध-अनुलेपनम् ॥ २५।१९८ ॥
dadyāt prabhūtam tebhyaḥ tu brāhmaṇebhyaḥ pṛthak pṛthak . tat sāyam ca viśeṣeṇa kṛṣṇa-gandha-anulepanam .. 25.198 ..
सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेथ् । कृष्णागुरु समादाय सर्ववाद्यसमायुतं ॥ २५.१९९ ॥
सद्यस् प्रतिसरम् बद्ध्वा देव-अग्रे स्थण्डिलम् चरेथ् । कृष्ण-अगुरु समादाय सर्व-वाद्य-समायुतम् ॥ २५।१९९ ॥
sadyas pratisaram baddhvā deva-agre sthaṇḍilam careth . kṛṣṇa-aguru samādāya sarva-vādya-samāyutam .. 25.199 ..
ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेथ् । पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ॥ २५.२०० ॥
ग्रामम् प्रदक्षिणम् कृत्वा स्थण्डिल-उपरि विन्यसेथ् । पुण्याहम् विधिवत् कृत्वा श्रियम् आवाह्य तत्र च ॥ २५।२०० ॥
grāmam pradakṣiṇam kṛtvā sthaṇḍila-upari vinyaseth . puṇyāham vidhivat kṛtvā śriyam āvāhya tatra ca .. 25.200 ..
संस्कृत्य विधिवद्गन्धान्समभ्यर्च्य हरिं ततः । गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ॥ २५.२०१ ॥
संस्कृत्य विधिवत् गन्धान् समभ्यर्च्य हरिम् ततस् । गन्ध-द्वारे अति मन्त्रेण सर्व-अङ्गम् लेपयेत् गुरुः ॥ २५।२०१ ॥
saṃskṛtya vidhivat gandhān samabhyarcya harim tatas . gandha-dvāre ati mantreṇa sarva-aṅgam lepayet guruḥ .. 25.201 ..
देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि । तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ॥ २५.२०२ ॥
देवी-आदीनाम् तथा कुर्यात् तद्-तद्-मन्त्रैः यथाविधि । तद्-शेष-गन्धम् भक्त्या एव भक्तेभ्यः दापयेत् गुरुः ॥ २५।२०२ ॥
devī-ādīnām tathā kuryāt tad-tad-mantraiḥ yathāvidhi . tad-śeṣa-gandham bhaktyā eva bhaktebhyaḥ dāpayet guruḥ .. 25.202 ..
तद्गन्धधारणान्नॄणां भदेयुस्सर्वसंपदः । सायमर्चावसाने तु रथयात्रां समाचरेथ् ॥ २५.२०३ ॥
तद्-गन्ध-धारणात् नॄणाम् भदेयुः सर्व-संपदः । सायम् अर्चा-अवसाने तु रथ-यात्राम् समाचरेथ् ॥ २५।२०३ ॥
tad-gandha-dhāraṇāt nṝṇām bhadeyuḥ sarva-saṃpadaḥ . sāyam arcā-avasāne tu ratha-yātrām samācareth .. 25.203 ..
अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे । अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेथ् ॥ २५.२०४ ॥
अष्टमे दिवसे प्राप्ते समाप्ते प्रातर् उत्सवे । अलङ्कृत्य तु देवेशम् मृगया-उत्सवम् आचरेथ् ॥ २५।२०४ ॥
aṣṭame divase prāpte samāpte prātar utsave . alaṅkṛtya tu deveśam mṛgayā-utsavam ācareth .. 25.204 ..
मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेथ् । प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ॥ २५.२०५ ॥
मध्याह्ने देवदेवस्य जल-क्रीडा-उत्सवम् चरेथ् । प्रपाम् कृत्वा विधानेन नदी-आदीनाम् तटे बुधः ॥ २५।२०५ ॥
madhyāhne devadevasya jala-krīḍā-utsavam careth . prapām kṛtvā vidhānena nadī-ādīnām taṭe budhaḥ .. 25.205 ..
वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपं । बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकां ॥ २५.२०६ ॥
वितान-आद्यैः अलङ्कृत्य जल-क्रीडा-अर्थ-मण्टपम् । बिंब-अध्यर्ध-आयताम् अर्ध-विस्ताराम् बिंब-दघ्निकाम् ॥ २५।२०६ ॥
vitāna-ādyaiḥ alaṅkṛtya jala-krīḍā-artha-maṇṭapam . biṃba-adhyardha-āyatām ardha-vistārām biṃba-daghnikām .. 25.206 ..
जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनां । नादेयाद्भिस्समापूर्व धारास्विऽति च मन्त्रतः ॥ २५.२०७ ॥
जल-द्रोणीम् अथ अच्छिद्राम् न्यस्य लोह-मयीम् घनाम् । धारासु इति च मन्त्रतः ॥ २५।२०७ ॥
jala-droṇīm atha acchidrām nyasya loha-mayīm ghanām . dhārāsu iti ca mantrataḥ .. 25.207 ..
एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेथ् । कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ॥ २५.२०८ ॥
एला-चन्दन-कर्बूरैः कुङ्कुमेन अधिवासयेथ् । कल्हार-केतकी-पुष्पैः उशीर-अगुरुभिः तथा ॥ २५।२०८ ॥
elā-candana-karbūraiḥ kuṅkumena adhivāsayeth . kalhāra-ketakī-puṣpaiḥ uśīra-agurubhiḥ tathā .. 25.208 ..
आस्तीर्य नववस्त्राणि "वेदाहऽमिति मन्त्रतः । पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ॥ २५.२०९ ॥
आस्तीर्य नव-वस्त्राणि "वेद अहम् इति मन्त्रतः । पुण्य-तीर्थम् शिवम् पुण्यम् देवावासम् इति ब्रुवन् ॥ २५।२०९ ॥
āstīrya nava-vastrāṇi "veda aham iti mantrataḥ . puṇya-tīrtham śivam puṇyam devāvāsam iti bruvan .. 25.209 ..
अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेथ् । मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ॥ २५.२१० ॥
अधिदेवम् समावाह्य विग्रहैः अष्टभिः यजेथ् । मण्डपे पश्चिम-अर्धे तु विष्टरे स उत्तरछदे ॥ २५।२१० ॥
adhidevam samāvāhya vigrahaiḥ aṣṭabhiḥ yajeth . maṇḍape paścima-ardhe tu viṣṭare sa uttarachade .. 25.210 ..
देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् । नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरं ॥ २५.२११ ॥
देवदेवम् समास्थाप्य शकुनसूक्तम् समुच्चरन् । नव-वस्त्र-उत्तरीय-आद्यैः अलङ्कृत्य मनोहरम् ॥ २५।२११ ॥
devadevam samāsthāpya śakunasūktam samuccaran . nava-vastra-uttarīya-ādyaiḥ alaṅkṛtya manoharam .. 25.211 ..
पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः । भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ॥ २५.२१२ ॥
पाद्य-आदिभिः समभ्यर्च्य स्थापगैः सहितः गुरुः । भूः प्रपद्ये इति मन्त्रेण देवदेवम् प्रणम्य च ॥ २५।२१२ ॥
pādya-ādibhiḥ samabhyarcya sthāpagaiḥ sahitaḥ guruḥ . bhūḥ prapadye iti mantreṇa devadevam praṇamya ca .. 25.212 ..
परं रंहेऽति मन्त्रेण देवमादायचादराथ् । प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ॥ २५.२१३ ॥
परम् रंहे अति मन्त्रेण । प्रतत् विष्णुः त्सवते इति जल-द्रोण्याम् निवेश्य च ॥ २५।२१३ ॥
param raṃhe ati mantreṇa . pratat viṣṇuḥ tsavate iti jala-droṇyām niveśya ca .. 25.213 ..
इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज्प्तमण्डले । समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ॥ २५.२१४ ॥
इन्द्र-आदीः श्च जय-आदीः च तण्डुलैः क्ज्प्त-मण्डले । समावाह्य समभ्यर्च्येत् जल-द्रोणी-अभितस् गुरुः ॥ २५।२१४ ॥
indra-ādīḥ śca jaya-ādīḥ ca taṇḍulaiḥ kjpta-maṇḍale . samāvāhya samabhyarcyet jala-droṇī-abhitas guruḥ .. 25.214 ..
अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् । इदमापश्शिऽवेत्युक्त्वा "आपो वा इदऽमुच्चरन् ॥ २५.२१५ ॥
अपः हि स्थ आदि मन्त्राम् स्त्रीन् अनुवाकान् समुच्चरन् । इदम् आपश्शि अव इति उक्त्वा "आपः वै इदम् उच्चरन् ॥ २५।२१५ ॥
apaḥ hi stha ādi mantrām strīn anuvākān samuccaran . idam āpaśśi ava iti uktvā "āpaḥ vai idam uccaran .. 25.215 ..
अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च । पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवं ॥ २५.२१६ ॥
जल-द्रोण्याम् देवदेवम् प्रणम्य च । पौरुषम् सूक्तम् उच्चार्य विष्णुसूक्तम् च वैष्णवम् ॥ २५।२१६ ॥
jala-droṇyām devadevam praṇamya ca . pauruṣam sūktam uccārya viṣṇusūktam ca vaiṣṇavam .. 25.216 ..
इषे त्वोर्जेऽत्वादि जपन्भूरानिलयऽ इत्यपि । मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिं ॥ २५.२१७ ॥
इषे त्वा ऊर्जे अतु आदि जपन् भूः अनिलये इति अपि । मङ्जयित्वा जल-द्रोण्याम् देवम् प्राच्-शिरसम् हरिम् ॥ २५।२१७ ॥
iṣe tvā ūrje atu ādi japan bhūḥ anilaye iti api . maṅjayitvā jala-droṇyām devam prāc-śirasam harim .. 25.217 ..
अधिवास्यतु यामार्धं यामद्वयमथापि वा । परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ॥ २५.२१८ ॥
अधिवास्यतु याम-अर्धम् याम-द्वयम् अथ अपि वा । परम् रंऽह-इति मन्त्रेण ततस् उद्धृत्य वै पुनर् ॥ २५।२१८ ॥
adhivāsyatu yāma-ardham yāma-dvayam atha api vā . param raṃ'ha-iti mantreṇa tatas uddhṛtya vai punar .. 25.218 ..
अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च । यानमारोप्य देवेशं ग्राममालयमेव वा ॥ २५.२१९ ॥
अलङ्कृत्य च वस्त्र-आद्यैः यथार्हम् परिपूज्य च । यानम् आरोप्य देवेशम् ग्रामम् आलयम् एव वा ॥ २५।२१९ ॥
alaṅkṛtya ca vastra-ādyaiḥ yathārham paripūjya ca . yānam āropya deveśam grāmam ālayam eva vā .. 25.219 ..
प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतं । ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ॥ २५.२२० ॥
प्रदक्षिणम् क्रमात् नीत्वा सर्व-अलङ्काल-संयुतम् । ग्राम-वीथ्याम् उपहृतम् उपहालम् अ गृह्य च ॥ २५।२२० ॥
pradakṣiṇam kramāt nītvā sarva-alaṅkāla-saṃyutam . grāma-vīthyām upahṛtam upahālam a gṛhya ca .. 25.220 ..
पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे । सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववथ् ॥ २५.२२१ ॥
पुनर् आलयम् आविश्य संस्थाप्य आस्थान-मण्डपे । सुगन्धि-तैलेन अभ्यज्य देवम् संस्नाप्य ॥ २५।२२१ ॥
punar ālayam āviśya saṃsthāpya āsthāna-maṇḍape . sugandhi-tailena abhyajya devam saṃsnāpya .. 25.221 ..
जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेथ् । तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिं ॥ २५.२२२ ॥
जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेथ् । तद्-रात्रौ उत्सव-अन्ते तु देवम् देवी-युतम् हरिम् ॥ २५।२२२ ॥
jīvasthāne samāsthāpya samabhyarcya nivedayeth . tad-rātrau utsava-ante tu devam devī-yutam harim .. 25.222 ..
प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः । अधिवासविधानेन शयने शाययेद्गुरुः ॥ २५.२२३ ॥
प्रतिष्ठा-उक्त-विधानेन बद्ध्वा प्रतिसरम् ततस् । अधिवास-विधानेन शयने शाययेत् गुरुः ॥ २५।२२३ ॥
pratiṣṭhā-ukta-vidhānena baddhvā pratisaram tatas . adhivāsa-vidhānena śayane śāyayet guruḥ .. 25.223 ..
प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेथ् । तस्मिन्तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवं ॥ २५.२२४ ॥
प्रभाते देवः उत्थाप्य पाद्य-आदि-अर्घ्य-अन्तम् अर्चयेथ् । तस्मिन् तीर्थ-दिने प्रातर् हेम-आद्यम् प्रातर् उत्सवम् ॥ २५।२२४ ॥
prabhāte devaḥ utthāpya pādya-ādi-arghya-antam arcayeth . tasmin tīrtha-dine prātar hema-ādyam prātar utsavam .. 25.224 ..
कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे । प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ॥ २५.२२५ ॥
कृत्वा हविः विना देवम् अभ्यर्च्य आ स्थान-मण्डपे । प्रमुखे गरुडम् पश्चात् दक्षिणे चक्रम् एव च ॥ २५।२२५ ॥
kṛtvā haviḥ vinā devam abhyarcya ā sthāna-maṇḍape . pramukhe garuḍam paścāt dakṣiṇe cakram eva ca .. 25.225 ..
अमितं चोत्तरेधीमान्धान्यपीठोपरि न्यसेथ् । नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेथ् ॥ २५.२२६ ॥
अमितम् च उत्तरेधि इमान् धान्य-पीठ-उपरि न्यसेथ् । नित्य-पूजाम् हविः-दानम् ध्रुवबेरे समाचरेथ् ॥ २५।२२६ ॥
amitam ca uttaredhi imān dhānya-pīṭha-upari nyaseth . nitya-pūjām haviḥ-dānam dhruvabere samācareth .. 25.226 ..
पूर्वालङ्कृतवस्त्रादीन्विसृज्यैव प्रयत्नतः । अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ॥ २५.२२७ ॥
पूर्व-अलङ्कृत-वस्त्र-आदीन् विसृज्य एव प्रयत्नतः । अन्य-वस्त्राणि च आच्छाद्य यथार्हम् भूष्य भूषणैः ॥ २५।२२७ ॥
pūrva-alaṅkṛta-vastra-ādīn visṛjya eva prayatnataḥ . anya-vastrāṇi ca ācchādya yathārham bhūṣya bhūṣaṇaiḥ .. 25.227 ..
अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः । व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतं ॥ २५.२२८ ॥
अष्ट-उपचारैः अभ्यर्च्य देवम् चक्र-आदि-देवताः । कृत्वा द्वि-हस्त-आयत-विस्तृतम् ॥ २५।२२८ ॥
aṣṭa-upacāraiḥ abhyarcya devam cakra-ādi-devatāḥ . kṛtvā dvi-hasta-āyata-vistṛtam .. 25.228 ..
उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतं । तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ॥ २५.२२९ ॥
उलूखलम् च मुसलम् स्थाप्य वस्त्रेण संयुतम् । तयोः ईशौ क्रमेण एव ब्रह्य-ईशौ अर्चयेत् बुधः ॥ २५।२२९ ॥
ulūkhalam ca musalam sthāpya vastreṇa saṃyutam . tayoḥ īśau krameṇa eva brahya-īśau arcayet budhaḥ .. 25.229 ..
पात्रे हरिद्रां संगृह्य सिनीवालीमथार्ऽच्य च । उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेथ् ॥ २५.२३० ॥
पात्रे हरिद्राम् संगृह्य सिनीवालीम् अथ आर्ऽच्य च । उलूखले हरिद्राम् च तद्-मन्त्रेण विनिक्षिपेथ् ॥ २५।२३० ॥
pātre haridrām saṃgṛhya sinīvālīm atha ār'cya ca . ulūkhale haridrām ca tad-mantreṇa vinikṣipeth .. 25.230 ..
गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा । विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेथ् ॥ २५.२३१ ॥
गृहीत्वा वैष्णवैः मन्त्रैः आचार्यः मुसलम् तथा । विष्णुसूक्तम् समुच्चार्य किञ्चिद् तत् अवघातयेथ् ॥ २५।२३१ ॥
gṛhītvā vaiṣṇavaiḥ mantraiḥ ācāryaḥ musalam tathā . viṣṇusūktam samuccārya kiñcid tat avaghātayeth .. 25.231 ..
भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः । एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ॥ २५.२३२ ॥
भक्तैः वा देवदासीभिः चूर्णीकृत्य विशेषतः । एकस्मिन् वा अ द्वयोः वा अथ त्रिषु वा ॥ २५।२३२ ॥
bhaktaiḥ vā devadāsībhiḥ cūrṇīkṛtya viśeṣataḥ . ekasmin vā a dvayoḥ vā atha triṣu vā .. 25.232 ..
गन्धोषितं च वादैलमाढकं परिगृह्यच । पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेथ् ॥ २५.२३३ ॥
गन्ध-उषितम् च वाद-एलम् आढकम् परिगृह्य च । पिधाय च पिधानैः च स्थण्डिल-उपरि विन्यसेथ् ॥ २५।२३३ ॥
gandha-uṣitam ca vāda-elam āḍhakam parigṛhya ca . pidhāya ca pidhānaiḥ ca sthaṇḍila-upari vinyaseth .. 25.233 ..
आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेथ् । सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेथ् ॥ २५.२३४ ॥
आच्छाद्य नव-वस्त्रेण सोमम् तैले समर्चयेथ् । सिनीवालीम् च तद्-चूर्णे चक्र-आदीन् च ॥ २५।२३४ ॥
ācchādya nava-vastreṇa somam taile samarcayeth . sinīvālīm ca tad-cūrṇe cakra-ādīn ca .. 25.234 ..
देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः । संस्राव्य मूर्थ्नि तत्तैलं वेदाहऽमिति मन्त्रतः ॥ २५.२३५ ॥
देवम् अभ्यर्च्य पुण्याहम् वाचयन् वैष्णवम् गुरुः । संस्राव्य मूर्थ्नि तत् तैलम् वेद अहम् इति मन्त्रतः ॥ २५।२३५ ॥
devam abhyarcya puṇyāham vācayan vaiṣṇavam guruḥ . saṃsrāvya mūrthni tat tailam veda aham iti mantrataḥ .. 25.235 ..
हारिद्रचूर्णैस्संस्नाप्य चक्रादीन्स्नापयेत्ततः । तच्छिष्टं धारयन्भक्तस्सर्वपापैः प्रमुच्यते ॥ २५.२३६ ॥
हारिद्र-चूर्णैः संस्नाप्य चक्र-आदीन् स्नापयेत् ततस् । तत् शिष्टम् धारयन् भक्तः सर्व-पापैः प्रमुच्यते ॥ २५।२३६ ॥
hāridra-cūrṇaiḥ saṃsnāpya cakra-ādīn snāpayet tatas . tat śiṣṭam dhārayan bhaktaḥ sarva-pāpaiḥ pramucyate .. 25.236 ..
अथ याने समारोप्य देवं चक्रादिभिस्सह । चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेथ् ॥ २५.२३७ ॥
अथ याने समारोप्य देवम् चक्र-आदिभिः सह । चूर्ण-उत्सवम् इमम् कृत्वा तीर्थ-उत्सवम् अथ आचरेथ् ॥ २५।२३७ ॥
atha yāne samāropya devam cakra-ādibhiḥ saha . cūrṇa-utsavam imam kṛtvā tīrtha-utsavam atha ācareth .. 25.237 ..
देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते । नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ॥ २५.२३८ ॥
देवखातम् यदि तीर्थम् तत्र प्रशस्यते । नदी-आदि-तीरे संस्थाप्य देवीभ्याम् सह वा विना ॥ २५।२३८ ॥
devakhātam yadi tīrtham tatra praśasyate . nadī-ādi-tīre saṃsthāpya devībhyām saha vā vinā .. 25.238 ..
चक्रादीन्पूर्ववत्स्थाप्य प्रमुखे स्थण्डिलं चरेथ् । द्रव्येणापूर्व कलशान्गायत्रीमन्त्रमुच्चरन् ॥ २५.२३९ ॥
चक्र-आदीन् पूर्ववत् स्थाप्य प्रमुखे स्थण्डिलम् चरेथ् । कलशान् गायत्री-मन्त्रम् उच्चरन् ॥ २५।२३९ ॥
cakra-ādīn pūrvavat sthāpya pramukhe sthaṇḍilam careth . kalaśān gāyatrī-mantram uccaran .. 25.239 ..
मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकं । दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकं ॥ २५.२४० ॥
मध्ये सिद्धार्थकम् न्यस्य प्राच्याम् स्यात् अक्षत-उदकम् । दक्षिणे गन्ध-तोयम् स्यात् पश्चिमे तु कुश-उदकम् ॥ २५।२४० ॥
madhye siddhārthakam nyasya prācyām syāt akṣata-udakam . dakṣiṇe gandha-toyam syāt paścime tu kuśa-udakam .. 25.240 ..
जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः । उपस्नानानि विन्यस्य क्रमात्तदधिपान्गुरुः ॥ २५.२४१ ॥
जप्य-उदकम् च उत्तरे स्यात् विदिशासु च मध्यतस् । उपस्नानानि विन्यस्य क्रमात् तद्-अधिपान् गुरुः ॥ २५।२४१ ॥
japya-udakam ca uttare syāt vidiśāsu ca madhyatas . upasnānāni vinyasya kramāt tad-adhipān guruḥ .. 25.241 ..
आदित्यानप्सरसश्च काश्यपं च गुरुं तथा । ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ॥ २५.२४२ ॥
आदित्यान् अप्सरसः च काश्यपम् च गुरुम् तथा । ऋतून् च मरुतः च एव मुनीम् स्तक्षकम् एव च ॥ २५।२४२ ॥
ādityān apsarasaḥ ca kāśyapam ca gurum tathā . ṛtūn ca marutaḥ ca eva munīm stakṣakam eva ca .. 25.242 ..
मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेथ् । पूतस्तऽस्येति मन्त्रेण इमा ओषधयऽइत्यपि ॥ २५.२४३ ॥
मन्त्रान् विद्याधरान् च एव क्रमेण आवाह्य च अर्चयेथ् । मन्त्रेण इमाः ओषधयः इति अपि ॥ २५।२४३ ॥
mantrān vidyādharān ca eva krameṇa āvāhya ca arcayeth . mantreṇa imāḥ oṣadhayaḥ iti api .. 25.243 ..
अभि त्वा शूरऽचत्वारिऽ"पूतस्तन्येऽतिचक्रमाथ् । कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमाथ् ॥ २५.२४४ ॥
अभि त्वा शूर-चत्वारि"पूत-स्तन्ये अतिचक्रमाथ् । कलशैः पञ्चभिः स्नाप्य तद्-तद्-द्रव्य-अन्तरे ॥ २५।२४४ ॥
abhi tvā śūra-catvāri"pūta-stanye aticakramāth . kalaśaiḥ pañcabhiḥ snāpya tad-tad-dravya-antare .. 25.244 ..
वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेथ् । शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ॥ २५.२४५ ॥
वारीः चतस्रः इति उक्त्वा च उपस्नानम् समाचरेथ् । शिष्टाभिः कलश-अद्भिः च चक्र-अधीन् अभिषिच्य च ॥ २५।२४५ ॥
vārīḥ catasraḥ iti uktvā ca upasnānam samācareth . śiṣṭābhiḥ kalaśa-adbhiḥ ca cakra-adhīn abhiṣicya ca .. 25.245 ..
प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमाथ् । हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ॥ २५.२४६ ॥
प्रविश्य तु जलम् तत्र वरुणम् च अर्चयेत् क्रमाथ् । हस्ताभ्याम् चक्रम् आदाय देवम् भक्तैः समन्वितः ॥ २५।२४६ ॥
praviśya tu jalam tatra varuṇam ca arcayet kramāth . hastābhyām cakram ādāya devam bhaktaiḥ samanvitaḥ .. 25.246 ..
आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेथ् । नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ॥ २५.२४७ ॥
आचार्यः प्रथमम् तीर्थे चक्रम् स्सृष्ट्या अवगाहयेथ् । नाभि-दघ्न-जले तत्र जल-मध्ये तु सु स्थितः ॥ २५।२४७ ॥
ācāryaḥ prathamam tīrthe cakram ssṛṣṭyā avagāhayeth . nābhi-daghna-jale tatra jala-madhye tu su sthitaḥ .. 25.247 ..
चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन्दृढं । ये ते शतंऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ॥ २५.२४८ ॥
चक्रम् देवम् हृदि स्थाप्य हस्ताभ्याम् धारयन् दृढम् । ये ते शतम् समुच्चार्य प्राच्-मुखः वा अपि उदक्-मुखः ॥ २५।२४८ ॥
cakram devam hṛdi sthāpya hastābhyām dhārayan dṛḍham . ye te śatam samuccārya prāc-mukhaḥ vā api udak-mukhaḥ .. 25.248 ..
निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः । जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ॥ २५.२४९ ॥
निमज्जयेत् तदा चक्रम् सर्व-वाद्य-युतम् गुरुः । जनाः सर्वे च तद्-तीर्थे स्नात्वा विगत-कल्मषाः ॥ २५।२४९ ॥
nimajjayet tadā cakram sarva-vādya-yutam guruḥ . janāḥ sarve ca tad-tīrthe snātvā vigata-kalmaṣāḥ .. 25.249 ..
भवेयुरश्वमेधस्य फलं च समवाप्नुयुः । ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ॥ २५.२५० ॥
भवेयुः अश्वमेधस्य फलम् च समवाप्नुयुः । ततस् तीरे प्रतिष्ठाप्य विष्टरे चक्रम् उत्तमे ॥ २५।२५० ॥
bhaveyuḥ aśvamedhasya phalam ca samavāpnuyuḥ . tatas tīre pratiṣṭhāpya viṣṭare cakram uttame .. 25.250 ..
कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः । ततो विसृज्य वस्त्रादीन्देवं चान्यैर्विभूष्य च ॥ २५.२५१ ॥
कुर्यात् अवभृथस्नानम् शुद्ध-स्नान-उक्त-मार्गतः । ततस् विसृज्य वस्त्र-आदीन् देवम् च अन्यैः विभूष्य च ॥ २५।२५१ ॥
kuryāt avabhṛthasnānam śuddha-snāna-ukta-mārgataḥ . tatas visṛjya vastra-ādīn devam ca anyaiḥ vibhūṣya ca .. 25.251 ..
तत्रैव नसस्नांभारान्संभृत्य विधिना गुरुः । देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुं ॥ २५.२५२ ॥
तत्र एव नस-स्नाम् भारान् संभृत्य विधिना गुरुः । देवीभ्याम् सह देवेशम् स्नापयेत् पूर्ववत् प्रभुम् ॥ २५।२५२ ॥
tatra eva nasa-snām bhārān saṃbhṛtya vidhinā guruḥ . devībhyām saha deveśam snāpayet pūrvavat prabhum .. 25.252 ..
अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनं । पश्चाद्देवं समादाय सर्वालङ्कारसंयुतं ॥ २५.२५३ ॥
अलङ्कृत्य विशेषेण कुर्यात् अर्घ्य-अन्त-पूजनम् । पश्चात् देवम् समादाय सर्व-अलङ्कार-संयुतम् ॥ २५।२५३ ॥
alaṅkṛtya viśeṣeṇa kuryāt arghya-anta-pūjanam . paścāt devam samādāya sarva-alaṅkāra-saṃyutam .. 25.253 ..
शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणं । देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ॥ २५.२५४ ॥
शाकुनम् सूक्तम् उच्चार्य नीत्वा ग्रामम् प्रदक्षिणम् । देवालयम् प्रविश्य अथ स्थाप्य च आस्थान-मण्डपे ॥ २५।२५४ ॥
śākunam sūktam uccārya nītvā grāmam pradakṣiṇam . devālayam praviśya atha sthāpya ca āsthāna-maṇḍape .. 25.254 ..
पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमाथ् । मुहुःपुष्पांजलिं दत्वाजीवस्थाने निवेशयेथ् ॥ २५.२५५ ॥
पाद्य-आदिभिः समभ्यर्च्य वेदान् अध्यापयेत् क्रमाथ् । मुहुर् पुष्प-अञ्जलिम् ॥ २५।२५५ ॥
pādya-ādibhiḥ samabhyarcya vedān adhyāpayet kramāth . muhur puṣpa-añjalim .. 25.255 ..
चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च । पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेथ् ॥ २५.२५६ ॥
चक्र-आदीन् अपि च आदाय निवेश्य च । पुण्याहम् वाचयित्वा अतु प्रोक्षणेः प्रोक्षणम् चरेथ् ॥ २५।२५६ ॥
cakra-ādīn api ca ādāya niveśya ca . puṇyāham vācayitvā atu prokṣaṇeḥ prokṣaṇam careth .. 25.256 ..
नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः । यागशालां समासाद्य हुत्वाग्निषु च वैष्णवं ॥ २५.२५७ ॥
नित्य-पूजम् समाप्य एव हविः दद्यात् विशेषतः । याग-शालाम् समासाद्य हुत्वा अग्निषु च वैष्णवम् ॥ २५।२५७ ॥
nitya-pūjam samāpya eva haviḥ dadyāt viśeṣataḥ . yāga-śālām samāsādya hutvā agniṣu ca vaiṣṇavam .. 25.257 ..
कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् । अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ॥ २५.२५८ ॥
कुंभ-स्थाम् शक्तिम् आदाय ध्रुव-बेरे अवरोपयेथ् । अन्त-होमम् च हुत्वा अग्निम् नित्य-कुण्डे प्रणीय च ॥ २५।२५८ ॥
kuṃbha-sthām śaktim ādāya dhruva-bere avaropayeth . anta-homam ca hutvā agnim nitya-kuṇḍe praṇīya ca .. 25.258 ..
तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववथ् । पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितं ॥ २५.२५९ ॥
तद्-रात्रौ नित्य-होम-अन्ते बलिम् द-त्वा च । पश्चात् चक्रम् विना दद्यात् बलिम् शुद्धात् न कल्पितम् ॥ २५।२५९ ॥
tad-rātrau nitya-homa-ante balim da-tvā ca . paścāt cakram vinā dadyāt balim śuddhāt na kalpitam .. 25.259 ..
पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेथ् । चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ॥ २५.२६० ॥
पूर्व-उक्तेन एव मार्गेण सर्वत्र बलिम् आचरेथ् । चैत्य-स्थाने प्रपायाम् तु उत्याने वृक्ष-मूलके ॥ २५।२६० ॥
pūrva-uktena eva mārgeṇa sarvatra balim ācareth . caitya-sthāne prapāyām tu utyāne vṛkṣa-mūlake .. 25.260 ..
तटाके निर्झरे कूपवापीवल्मीकपार्श्वके । श्मशानेऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेथ् ॥ २५.२६१ ॥
तटाके निर्झरे कूप-वापी-वल्मीक-पार्श्वके । श्मशाने अन्यत्र देव-अग्रे वीथि-अन्तेषु च ॥ २५।२६१ ॥
taṭāke nirjhare kūpa-vāpī-valmīka-pārśvake . śmaśāne anyatra deva-agre vīthi-anteṣu ca .. 25.261 ..
पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ । ध्वजमूलं समासाद्य सर्ववाद्य समायुतं ॥ २५.२६२ ॥
पुनर् आलयम् आविश्य स्नात्वा च अपि अग्नि-सन्निधौ । ध्वज-मूलम् समासाद्य ॥ २५।२६२ ॥
punar ālayam āviśya snātvā ca api agni-sannidhau . dhvaja-mūlam samāsādya .. 25.262 ..
ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् । तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ॥ २५.२६३ ॥
ध्वच-अवरोहणम् कुर्यात् ध्वज-मत्रम् समुच्चरन् । तद्-ध्वजम् तु समादाय प्रादक्षिण्य-क्रमेण वै ॥ २५।२६३ ॥
dhvaca-avarohaṇam kuryāt dhvaja-matram samuccaran . tad-dhvajam tu samādāya prādakṣiṇya-krameṇa vai .. 25.263 ..
परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः । देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेथ् ॥ २५.२६४ ॥
परीत्य मन्दिरम् पश्चात् प्रविश्य अभ्यन्तरम् पुनर् । देवस्य पाद-मूले तु न्यस्य पुष्प-अञ्जलिम् ॥ २५।२६४ ॥
parītya mandiram paścāt praviśya abhyantaram punar . devasya pāda-mūle tu nyasya puṣpa-añjalim .. 25.264 ..
क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि ।
क्षमा-मन्त्रम् समुच्चार्य दण्ड-वत् प्रणमेत् भुवि ।
kṣamā-mantram samuccārya daṇḍa-vat praṇamet bhuvi .
फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादराथ् ॥ २५.२६५ ॥
एवम् यः कुरुते भक्त्वा विष्णोः उत्सवम् आदराथ् ॥ २५।२६५ ॥
evam yaḥ kurute bhaktvā viṣṇoḥ utsavam ādarāth .. 25.265 ..
सर्वपापविशुद्धात्मा सर्वान्कामानवाप्य च । अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ॥ २५.२६६ ॥
सर्व-पाप-विशुद्ध-आत्मा सर्वान् कामान् अवाप्य च । अन्ते विमानम् आरुह्य विष्णु-लोकम् स गच्छति ॥ २५।२६६ ॥
sarva-pāpa-viśuddha-ātmā sarvān kāmān avāpya ca . ante vimānam āruhya viṣṇu-lokam sa gacchati .. 25.266 ..
पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहं । द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेथ् ॥ २५.२६७ ॥
पुष्प-यागः अतस् परम् प्रवक्ष्यामि पुष्प-यागम् सुख-आवहम् । द्वितीय-दिवसे तीर्थात् पुष्प-यागम् समाचरेथ् ॥ २५।२६७ ॥
puṣpa-yāgaḥ atas param pravakṣyāmi puṣpa-yāgam sukha-āvaham . dvitīya-divase tīrthāt puṣpa-yāgam samācareth .. 25.267 ..
शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेथ् । प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ॥ २५.२६८ ॥
शान्ति-दम् पुष्टि-दम् च इति काम्य-दम् च त्रिधा । प्रातर् मध्याह्न-अपराह्णाः क्रमात् कालाः प्रकीर्तिताः ॥ २५।२६८ ॥
śānti-dam puṣṭi-dam ca iti kāmya-dam ca tridhā . prātar madhyāhna-aparāhṇāḥ kramāt kālāḥ prakīrtitāḥ .. 25.268 ..
न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै । आस्थानमण्डपे वाथ स्नपनालय एव वा ॥ २५.२६९ ॥
न्यूनम् वा अपि अधिकम् च एतत् दोष-उपशमनाय वै । आस्थान-मण्डपे वा अथ स्नपन-आलये एव वा ॥ २५।२६९ ॥
nyūnam vā api adhikam ca etat doṣa-upaśamanāya vai . āsthāna-maṇḍape vā atha snapana-ālaye eva vā .. 25.269 ..
चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च । पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ॥ २५.२७० ॥
चतुर्दिशम् चतुर्-हस्तम् च । पञ्चविंशत्-पदम् कृत्वा षष्-सूत्रैः प्राच्-उद्ग-गतैः ॥ २५।२७० ॥
caturdiśam catur-hastam ca . pañcaviṃśat-padam kṛtvā ṣaṣ-sūtraiḥ prāc-udga-gataiḥ .. 25.270 ..
मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकं । रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ॥ २५.२७१ ॥
मध्ये ननपदे पद्मम् स अष्ट-पत्रम् स कर्णिकम् । रत्न-धान्य-आदिकैः वा अपि तण्डुलैः व्रीहिभिः तिलैः ॥ २५।२७१ ॥
madhye nanapade padmam sa aṣṭa-patram sa karṇikam . ratna-dhānya-ādikaiḥ vā api taṇḍulaiḥ vrīhibhiḥ tilaiḥ .. 25.271 ..
बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेथ् । दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ॥ २५.२७२ ॥
बहिस् तेषु पदेषु अग्रे वीशम् एकत्र पूजयेथ् । दक्षिणे चक्रम् अभ्यर्च्य पङ्क्तीशम् पश्चिमे तथा ॥ २५।२७२ ॥
bahis teṣu padeṣu agre vīśam ekatra pūjayeth . dakṣiṇe cakram abhyarcya paṅktīśam paścime tathā .. 25.272 ..
उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै । पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः ॥ २५.२७३ ॥
उदीच्याम् शान्तम् अभ्यर्च्य शेषेषु च पदेषु वै । पूजा-द्रव्याणि संभृत्य प्रत्येकम् विन्यसेत् बुधः ॥ २५।२७३ ॥
udīcyām śāntam abhyarcya śeṣeṣu ca padeṣu vai . pūjā-dravyāṇi saṃbhṛtya pratyekam vinyaset budhaḥ .. 25.273 ..
दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि । लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशं ॥ २५.२७४ ॥
दलेषु अष्टसु पद्मस्य सुवर्ण-शकल-उपरि । लोकपालान् समभ्यर्च्य वस्त्र-उपरि यथादिशम् ॥ २५।२७४ ॥
daleṣu aṣṭasu padmasya suvarṇa-śakala-upari . lokapālān samabhyarcya vastra-upari yathādiśam .. 25.274 ..
निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि । आदित्यमण्डलं तत्र राजते चन्द्रमण्डलं ॥ २५.२७५ ॥
निष्क-त्रय-सुवर्ण-इव कल्पिते कर्णिका-उपरि । आदित्य-मण्डलम् तत्र राजते चन्द्र-मण्डलम् ॥ २५।२७५ ॥
niṣka-traya-suvarṇa-iva kalpite karṇikā-upari . āditya-maṇḍalam tatra rājate candra-maṇḍalam .. 25.275 ..
तस्मिन्सुवर्णरूपे तु वह्नि मण्डलमर्चयेथ् । विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ॥ २५.२७६ ॥
तस्मिन् सुवर्ण-रूपे तु मण्डलम् अर्चयेथ् । विष्टरम् तत्र संस्थाप्य तद्-अन्तर्गत-पङ्कजे ॥ २५।२७६ ॥
tasmin suvarṇa-rūpe tu maṇḍalam arcayeth . viṣṭaram tatra saṃsthāpya tad-antargata-paṅkaje .. 25.276 ..
तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवं । तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ॥ २५.२७७ ॥
तत्र देवम् प्रतिष्ठाप्य यावद्दिवसम् उत्सवम् । तावत्कृत्वस् समभ्यर्छ्य सप्तविंशति-विग्रहैः ॥ २५।२७७ ॥
tatra devam pratiṣṭhāpya yāvaddivasam utsavam . tāvatkṛtvas samabhyarchya saptaviṃśati-vigrahaiḥ .. 25.277 ..
तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेथ् । पङ्कजं तुलसी बिल्वं करवीरमथोत्पलं ॥ २५.२७८ ॥
तत्र पूजा-अवसाने तु तद्-तद्-पुष्प-अञ्जलिम् । पङ्कजम् तुलसी बिल्वम् करवीरम् अथ उत्पलम् ॥ २५।२७८ ॥
tatra pūjā-avasāne tu tad-tad-puṣpa-añjalim . paṅkajam tulasī bilvam karavīram atha utpalam .. 25.278 ..
नन्द्यावर्तं च कुमुदमपामार्गं तथैव च । विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमाथ् ॥ २५.२७९ ॥
नन्द्यावर्तम् च कुमुदम् अपामार्गम् तथा एव च । विष्णुक्रान्तम् च दूर्वाम् चक्रमात् एतानि अनुक्रमाथ् ॥ २५।२७९ ॥
nandyāvartam ca kumudam apāmārgam tathā eva ca . viṣṇukrāntam ca dūrvām cakramāt etāni anukramāth .. 25.279 ..
एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः । नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ॥ २५.२८० ॥
एवम् पुष्प-अजलिम् द-त्वा ऋत्विजः सह तैः गुरुः । नृत्तैः गेयैः च वाद्यैः च चतुर्-वेद-स्तवैः अपि ॥ २५।२८० ॥
evam puṣpa-ajalim da-tvā ṛtvijaḥ saha taiḥ guruḥ . nṛttaiḥ geyaiḥ ca vādyaiḥ ca catur-veda-stavaiḥ api .. 25.280 ..
परात्परतरं पारं गुह्याद्गुह्यतरं गुरुं । सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ॥ २५.२८१ ॥
परात्परतरम् पारम् गुह्यात् गुह्यतरम् गुरुम् । सर्व-वेद-अर्थ-सारम् तम् द्वादश-आष्य-अक्षरम् तथा ॥ २५।२८१ ॥
parātparataram pāram guhyāt guhyataram gurum . sarva-veda-artha-sāram tam dvādaśa-āṣya-akṣaram tathā .. 25.281 ..
जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः । दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ॥ २५.२८२ ॥
जपन्तः विष्णुगायत्रीम् शतम् अष्ट-उत्तरम् ततस् । दद्युः पुष्प-अञ्जलि भक्त्या देवदेवस्य पादयोः ॥ २५।२८२ ॥
japantaḥ viṣṇugāyatrīm śatam aṣṭa-uttaram tatas . dadyuḥ puṣpa-añjali bhaktyā devadevasya pādayoḥ .. 25.282 ..
पञ्चाग्निष्वथ वाग्नींस्त्रीन्पैण्डरीकमथापि वा । देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमाथ् ॥ २५.२८३ ॥
पञ्च-अग्निषु अथ वा अग्नीन् त्रीन् पैण्डरीकम् अथ अपि वा । देवस्य परितस् कुर्यात् उत्तम-आदि-क्रमे ॥ २५।२८३ ॥
pañca-agniṣu atha vā agnīn trīn paiṇḍarīkam atha api vā . devasya paritas kuryāt uttama-ādi-krame .. 25.283 ..
उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके । हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ॥ २५.२८४ ॥
उत्तमे सभ्य-कुण्डे तु मध्ये तु आहवनीयके । हौत्र-प्रशंसनम् कुर्यात् तद्-आलय-गतान् सुरान् ॥ २५।२८४ ॥
uttame sabhya-kuṇḍe tu madhye tu āhavanīyake . hautra-praśaṃsanam kuryāt tad-ālaya-gatān surān .. 25.284 ..
आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेथ् । वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ॥ २५.२८५ ॥
आवाह्य आज्यम् निरूप्य एव तद्-क्रमेण आहुतीः यजेथ् । वैष्णवम् विष्णुसूक्तम् च सम्यक् हुत्वा विशेषतः ॥ २५।२८५ ॥
āvāhya ājyam nirūpya eva tad-krameṇa āhutīḥ yajeth . vaiṣṇavam viṣṇusūktam ca samyak hutvā viśeṣataḥ .. 25.285 ..
ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेथ् । दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमाथ् ॥ २५.२८६ ॥
ततस् च आहवनीय-अग्नौ नृ-सूक्तम् वैष्णवम् यजेथ् । दक्षिणाग्नौ विष्णुसूक्तम् श्रीसूक्तम् च यजेत् क्रमाथ् ॥ २५।२८६ ॥
tatas ca āhavanīya-agnau nṛ-sūktam vaiṣṇavam yajeth . dakṣiṇāgnau viṣṇusūktam śrīsūktam ca yajet kramāth .. 25.286 ..
जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः । आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकं ॥ २५.२८७ ॥
जुहुयात् गार्हपत्य-अग्नौ गायत्रीम् वैष्णवीम्(वं ततस् । तु जुहुयात् सूक्तम् एक-अक्षर-आदिकम् ॥ २५।२८७ ॥
juhuyāt gārhapatya-agnau gāyatrīm vaiṣṇavīm(vaṃ tatas . tu juhuyāt sūktam eka-akṣara-ādikam .. 25.287 ..
आज्येन समिधा तत्तद्धविर्भेदैश्च हूयतां । एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ॥ २५.२८८ ॥
आज्येन समिधा तद्-तद्-हविः-भेदैः च हूयताम् । एतत् उत्तमम् उद्दिष्टम् मध्यमम् तु प्रवक्ष्यते ॥ २५।२८८ ॥
ājyena samidhā tad-tad-haviḥ-bhedaiḥ ca hūyatām . etat uttamam uddiṣṭam madhyamam tu pravakṣyate .. 25.288 ..
यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः । पद्ममण्डलदेवानां कारयेत्प्रतिमादिकं ॥ २५.२८९ ॥
यथा लाभ-प्रमाणेन पूर्व-उक्त-अर्धेन वा हरेः । पद्म-मण्डल-देवानाम् कारयेत् प्रतिमा-आदिकम् ॥ २५।२८९ ॥
yathā lābha-pramāṇena pūrva-ukta-ardhena vā hareḥ . padma-maṇḍala-devānām kārayet pratimā-ādikam .. 25.289 ..
तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च । सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ॥ २५.२९० ॥
तद्-तद्-दिन-अर्चन-अन्ते तु शुद्ध-अन्नम् वा निवेद्य च । सर्व-अर्चा-अन्ते पञ्च-हविः दद्यात् इति आह पूर्वजः ॥ २५।२९० ॥
tad-tad-dina-arcana-ante tu śuddha-annam vā nivedya ca . sarva-arcā-ante pañca-haviḥ dadyāt iti āha pūrvajaḥ .. 25.290 ..
चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेथ् । अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ॥ २५.२९१ ॥
चतुर्-वेद-आदि-घोषम् च चतुर्-दिक्षु । अब्ज-होमम् क्रमेण एव जुहुयात् मन्त्र-वित्तमः ॥ २५।२९१ ॥
catur-veda-ādi-ghoṣam ca catur-dikṣu . abja-homam krameṇa eva juhuyāt mantra-vittamaḥ .. 25.291 ..
पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकं । अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनं ॥ २५.२९२ ॥
पुष्प-न्यास-क्रमेण एव सर्व-विद्येश्वर-अन्तकम् । अभ्यर्च्य प्रथमम् पश्चात् पष्प-याग-उक्त-पूजनम् ॥ २५।२९२ ॥
puṣpa-nyāsa-krameṇa eva sarva-vidyeśvara-antakam . abhyarcya prathamam paścāt paṣpa-yāga-ukta-pūjanam .. 25.292 ..
कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च । निवेद्य मुखवासान्ते परिवारबलिं क्षिपेथ् ॥ २५.२९३ ॥
कृत्वा यथा लाभ-हविः-भक्ष्याणि विविधानि च । निवेद्य मुख-वास-अन्ते परिवार-बलिम् क्षिपेथ् ॥ २५।२९३ ॥
kṛtvā yathā lābha-haviḥ-bhakṣyāṇi vividhāni ca . nivedya mukha-vāsa-ante parivāra-balim kṣipeth .. 25.293 ..
इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः । विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ॥ २५.२९४ ॥
इति एवम् मध्यमे प्रोक्तम् प्रवक्ष्यामि अधमे पुनर् । विना दिशा-आदिभिः भेदैः हेमैः च पृथक् अर्चनैः ॥ २५।२९४ ॥
iti evam madhyame proktam pravakṣyāmi adhame punar . vinā diśā-ādibhiḥ bhedaiḥ hemaiḥ ca pṛthak arcanaiḥ .. 25.294 ..
मण्डले देवमारोप्य पूजयित्वा यधाविधि । हवींषि पञ्च चोक्तानि निवेद्य च ततः परं ॥ २५.२९५ ॥
मण्डले देवम् आरोप्य पूजयित्वा यधाविधि । हवींषि पञ्च च उक्तानि निवेद्य च ततस् परम् ॥ २५।२९५ ॥
maṇḍale devam āropya pūjayitvā yadhāvidhi . havīṃṣi pañca ca uktāni nivedya ca tatas param .. 25.295 ..
दद्यात्पुष्पांजलिं मन्त्रैस्समस्तदिवसोदितैः । जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेथ् ॥ २५.२९६ ॥
दद्यात् पुष्प-अंजलिम् मन्त्रैः समस्त-दिवस-उदितैः । जानु-अन्तम् च तथा ऊरु-अन्तम् कटि-अन्तम् च ॥ २५।२९६ ॥
dadyāt puṣpa-aṃjalim mantraiḥ samasta-divasa-uditaiḥ . jānu-antam ca tathā ūru-antam kaṭi-antam ca .. 25.296 ..
नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमाथ् । ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमाथ् ॥ २५.२९७ ॥
नाभि-अन्तम् च स्तन-अन्तम् च बाह्यः तम् इति चक्रमाथ् । ग्रीवा-अन्तम् च ललाट-अन्तम् मौल्यः तम् इति चक्रम अथ् ॥ २५।२९७ ॥
nābhi-antam ca stana-antam ca bāhyaḥ tam iti cakramāth . grīvā-antam ca lalāṭa-antam maulyaḥ tam iti cakrama ath .. 25.297 ..
तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेथ् । उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतं ॥ २५.२९८ ॥
तद्-तद्-पूजा-अवसाने तु हविः सम्यक् नि वेदयेथ् । उत्सव-अज्ञात-दोषाणाम् प्रायश्चित्तम् इदम् स्मृतम् ॥ २५।२९८ ॥
tad-tad-pūjā-avasāne tu haviḥ samyak ni vedayeth . utsava-ajñāta-doṣāṇām prāyaścittam idam smṛtam .. 25.298 ..
अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेथ् । द्वादशाराधनम् कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ॥ २५.२९९ ॥
अतस् सर्व-प्रयत्नेन पुष्प-यागम् समाचरेथ् । द्वादश-आराधनम् कुर्यात् यथा उक्त-विधिना द्वादश-आराधनम् तथा ॥ २५।२९९ ॥
atas sarva-prayatnena puṣpa-yāgam samācareth . dvādaśa-ārādhanam kuryāt yathā ukta-vidhinā dvādaśa-ārādhanam tathā .. 25.299 ..
दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः । एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणां ॥ २५.३०० ॥
दद्यात् आचार्य-पूर्वेभ्यः दक्षिणाम् विधिवत् ततस् । एकविंशति-निष्कम् तु दद्यात् आचार्य-दक्षिणाम् ॥ २५।३०० ॥
dadyāt ācārya-pūrvebhyaḥ dakṣiṇām vidhivat tatas . ekaviṃśati-niṣkam tu dadyāt ācārya-dakṣiṇām .. 25.300 ..
पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्पृथक् । गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेथ् ॥ २५.३०१ ॥
पदार्थिनाम् च सर्वेषाम् तद्-अर्धम् स्यात् पृथक् पृथक् । गो-भूमिभ्याम् विशेषेण द-त्वा आचार्यम् ॥ २५।३०१ ॥
padārthinām ca sarveṣām tad-ardham syāt pṛthak pṛthak . go-bhūmibhyām viśeṣeṇa da-tvā ācāryam .. 25.301 ..
आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमं । अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ॥ २५.३०२ ॥
आचार्यः सु प्रसन्न-आत्मा सर्व-अग्निषु यथाक्रमम् । अन्त-होमम् समाप्य एव देवदेवम् प्रणम्य च ॥ २५।३०२ ॥
ācāryaḥ su prasanna-ātmā sarva-agniṣu yathākramam . anta-homam samāpya eva devadevam praṇamya ca .. 25.302 ..
जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेथ् । ब्राह्मणान्भोजयेच्चैव प्रदद्याद्भूरिदक्षिणां ॥ २५.३०३ ॥
जीवस्थाने प्रतिष्ठाप्य देवेशम् सम्यक् अर्चयेथ् । ब्राह्मणान् भोजयेत् च एव प्रदद्यात् भूरि-दक्षिणाम् ॥ २५।३०३ ॥
jīvasthāne pratiṣṭhāpya deveśam samyak arcayeth . brāhmaṇān bhojayet ca eva pradadyāt bhūri-dakṣiṇām .. 25.303 ..
पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः । शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकं ॥ २५.३०४ ॥
पुष्प-याग-उत्सवः प्रोक्तः देवदेवस्य शार्ङ्गिणः । शान्तिक-आदि-विधाने तु कुर्यात् अङ्कुर-पूर्वकम् ॥ २५।३०४ ॥
puṣpa-yāga-utsavaḥ proktaḥ devadevasya śārṅgiṇaḥ . śāntika-ādi-vidhāne tu kuryāt aṅkura-pūrvakam .. 25.304 ..
एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियं । सर्वान्कामानवाप्यैव सर्वैश्वर्यमवाप्य च ॥ २५.३०५ ॥
एवम् यः कुरुते भक्त्या आपुष्ब-यागम् हरेः प्रियम् । सर्वान् कामान् अवाप्य एव सर्व-ऐश्वर्यम् अवाप्य च ॥ २५।३०५ ॥
evam yaḥ kurute bhaktyā āpuṣba-yāgam hareḥ priyam . sarvān kāmān avāpya eva sarva-aiśvaryam avāpya ca .. 25.305 ..
सर्वान्शत्रून्विजित्वैव प्रजापशुसमन्वितः । अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयाथ् ॥ २५.३०६ ॥
सर्वान् शत्रून् विजित्वा एव प्रजा-पशु-समन्वितः । अन्ते विमानम् आरुह्य विष्णु-सायुज्यम् आप्नुयाथ् ॥ २५।३०६ ॥
sarvān śatrūn vijitvā eva prajā-paśu-samanvitaḥ . ante vimānam āruhya viṣṇu-sāyujyam āpnuyāth .. 25.306 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे पञ्चविंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre pañcaviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In