| |
|

This overlay will guide you through the buttons:

अथ पञ्चविंशोऽध्यायः.
atha pañcaviṃśo'dhyāyaḥ.
उत्सवविधिः
अथोत्सवविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः । आरंभदिवसात्पूर्वं यजमानो मुद्न्वितः ॥ २५.१ ॥
athotsavavidhiṃ vakṣye devadevasya śārṅgiṇaḥ . āraṃbhadivasātpūrvaṃ yajamāno mudnvitaḥ .. 25.1 ..
पूर्वोक्तगुणसंपन्नं वरयित्वा गुरुं तथा । द्विगुणाराधनायैकमेकं कुंभार्चनाय च ॥ २५.२ ॥
pūrvoktaguṇasaṃpannaṃ varayitvā guruṃ tathā . dviguṇārādhanāyaikamekaṃ kuṃbhārcanāya ca .. 25.2 ..
होमार्थं बलिदानार्थं तथा स्थानार्चनाय च । वृणेत्पदार्थिनः पञ्च तावतः परिचारकान् ॥ २५.३ ॥
homārthaṃ balidānārthaṃ tathā sthānārcanāya ca . vṛṇetpadārthinaḥ pañca tāvataḥ paricārakān .. 25.3 ..
आचार्यमुपसंगम्य संपूज्य च विधानतः । कर्मेदं मे कुरुऽष्वेति याचयेद्विनयान्वितः ॥ २५.४ ॥
ācāryamupasaṃgamya saṃpūjya ca vidhānataḥ . karmedaṃ me kuru'ṣveti yācayedvinayānvitaḥ .. 25.4 ..
आचार्यः सह शिष्यैस्तु कृत्वा केशादिवापनं । स्नात्वा स्नानविधानेन धृत्वा धौतं यथाविधि ॥ २५.५ ॥
ācāryaḥ saha śiṣyaistu kṛtvā keśādivāpanaṃ . snātvā snānavidhānena dhṛtvā dhautaṃ yathāvidhi .. 25.5 ..
ऊर्ध्वपुण्ड्रधरस्सम्यक्संध्यादीन्समुपास्य च । ब्रह्मयज्ञं च कृत्वैव तथा देवर्षि तर्पणं ॥ २५.६ ॥
ūrdhvapuṇḍradharassamyaksaṃdhyādīnsamupāsya ca . brahmayajñaṃ ca kṛtvaiva tathā devarṣi tarpaṇaṃ .. 25.6 ..
जपेद्द्वादशसूक्तानि नारायणमथारुणं । आलये संप्रविश्यैव देवेशं संप्रणम्य च ॥ २५.७ ॥
japeddvādaśasūktāni nārāyaṇamathāruṇaṃ . ālaye saṃpraviśyaiva deveśaṃ saṃpraṇamya ca .. 25.7 ..
देवं विशेषतोऽभ्यर्च्य कार्यं तस्मै निवेदयेथ् । यजमानोऽपि धर्मात्मा नित्यकर्म समाप्यच ॥ २५.८ ॥
devaṃ viśeṣato'bhyarcya kāryaṃ tasmai nivedayeth . yajamāno'pi dharmātmā nityakarma samāpyaca .. 25.8 ..
देवालयं प्रविश्चैव पुण्याहं कारयेत्ततः । श्रीवैखानस सूत्रोक्त मधुपर्मविधानतः ॥ २५.९ ॥
devālayaṃ praviścaiva puṇyāhaṃ kārayettataḥ . śrīvaikhānasa sūtrokta madhuparmavidhānataḥ .. 25.9 ..
आचार्यमृत्विजश्चैव संपूज्य विधिना ततः । अलङ्कुर्याच्च गन्थाद्यैर्धूपदीपादिभिस्तथा ॥ २५.१० ॥
ācāryamṛtvijaścaiva saṃpūjya vidhinā tataḥ . alaṅkuryācca ganthādyairdhūpadīpādibhistathā .. 25.10 ..
नववस्त्रोत्तरीयाद्यैस्तथा पञ्चाङ्गभूषणैः । पञ्चाङ्गभूषणं वक्ष्ये यथा कुर्यादतन्द्रितः ॥ २५.११ ॥
navavastrottarīyādyaistathā pañcāṅgabhūṣaṇaiḥ . pañcāṅgabhūṣaṇaṃ vakṣye yathā kuryādatandritaḥ .. 25.11 ..
दशनिष्कप्रमाणेन कुण्डलाभरणं पृथक् । षण्णिष्कमानं कटकमङ्गदं चांगुलीयकं ॥ २५.१२ ॥
daśaniṣkapramāṇena kuṇḍalābharaṇaṃ pṛthak . ṣaṇṇiṣkamānaṃ kaṭakamaṅgadaṃ cāṃgulīyakaṃ .. 25.12 ..
एकविंशतिनिष्काढ्यं कटीसूत्रं सलक्षणं । तदर्धांशप्रमाणेव ग्रीवालङ्करणं पृथक् ॥ २५.१३ ॥
ekaviṃśatiniṣkāḍhyaṃ kaṭīsūtraṃ salakṣaṇaṃ . tadardhāṃśapramāṇeva grīvālaṅkaraṇaṃ pṛthak .. 25.13 ..
अष्टनिष्क प्रमाणेव यज्ञसूत्रं च कारयेथ् । अनेन विधिना कुर्याद्गुरोरर्धार्धमृत्विजां ॥ २५.१४ ॥
aṣṭaniṣka pramāṇeva yajñasūtraṃ ca kārayeth . anena vidhinā kuryādgurorardhārdhamṛtvijāṃ .. 25.14 ..
आचार्यः प्रोक्ष्यचात्मानं यजमानमथर्त्विजः । प्राश्नीयात्पञ्चगव्यं च पदार्थिभ्यश्चसादरं ॥ २५.१५ ॥
ācāryaḥ prokṣyacātmānaṃ yajamānamathartvijaḥ . prāśnīyātpañcagavyaṃ ca padārthibhyaścasādaraṃ .. 25.15 ..
यजमानाय दद्याच्च मन्त्रपूर्वं विशेषतः । ततः पद्माग्निमाधाय परिषिच्य च पावकं ॥ २५.१६ ॥
yajamānāya dadyācca mantrapūrvaṃ viśeṣataḥ . tataḥ padmāgnimādhāya pariṣicya ca pāvakaṃ .. 25.16 ..
यद्देवादि चतुस्सूक्तान्याज्येन जुहुयाद्गुरुः । वैश्वानरेण सूक्तेन चोपतिष्ठेद्धुताशनं ॥ २५.१७ ॥
yaddevādi catussūktānyājyena juhuyādguruḥ . vaiśvānareṇa sūktena copatiṣṭheddhutāśanaṃ .. 25.17 ..
क्षपयित्वा ततः पापं कर्मार्हास्ते भवन्त्यतः । कूश्माण्डहोम इत्युक्तस्सर्वपापप्रणाशनः ॥ २५.१८ ॥
kṣapayitvā tataḥ pāpaṃ karmārhāste bhavantyataḥ . kūśmāṇḍahoma ityuktassarvapāpapraṇāśanaḥ .. 25.18 ..
तत्काने दीक्षितास्सर्वे विधिमन्त्रपुरस्सरं । बद्ध्वा प्रतिसरं हस्ते पश्चात्कुर्युःक्रियामपि ॥ २५.१९ ॥
tatkāne dīkṣitāssarve vidhimantrapurassaraṃ . baddhvā pratisaraṃ haste paścātkuryuḥkriyāmapi .. 25.19 ..
ततःप्रभृति सर्वे ते शुद्ध दन्तनखास्तथा । हविष्यभोजिनो दान्ता स्त्रिकालस्नायिनोऽपि च ॥ २५.२० ॥
tataḥprabhṛti sarve te śuddha dantanakhāstathā . haviṣyabhojino dāntā strikālasnāyino'pi ca .. 25.20 ..
जितेन्द्रिया भवेयुस्ते तथाऽधश्सायिनोऽपि च । स्त्रीशूद्राभ्यामसंभाष्य नारायणपरायणाः ॥ २५.२१ ॥
jitendriyā bhaveyuste tathā'dhaśsāyino'pi ca . strīśūdrābhyāmasaṃbhāṣya nārāyaṇaparāyaṇāḥ .. 25.21 ..
यावत्कालं भवेद्दीक्षा तावच्छुद्धा इमे स्मृताः । सूतके मृतके वापि तेषां नाशौच इष्यते ॥ २५.२२ ॥
yāvatkālaṃ bhaveddīkṣā tāvacchuddhā ime smṛtāḥ . sūtake mṛtake vāpi teṣāṃ nāśauca iṣyate .. 25.22 ..
अथवक्ष्येंकुरार्थन्तु मृत्तिकाग्रहणे विधिं । शान्त चक्रे समभ्यर्च्य हवींष्यपि निवेद्य च ॥ २५.२३ ॥
athavakṣyeṃkurārthantu mṛttikāgrahaṇe vidhiṃ . śānta cakre samabhyarcya havīṃṣyapi nivedya ca .. 25.23 ..
विष्वक्सेनं समादाय यानमारोप्य नाथवथ् । आचार्यः पुरतोगच्छे द्विष्णुर्माऽमिति चोच्चरन् ॥ २५.२४ ॥
viṣvaksenaṃ samādāya yānamāropya nāthavath . ācāryaḥ puratogacche dviṣṇurmā'miti coccaran .. 25.24 ..
चक्रस्य पश्चाद्गच्छेयुराचार्येण समन्विताः । आदर्शहेमकलशपूर्णकुंभांकुरादिभिः ॥ २५.२५ ॥
cakrasya paścādgaccheyurācāryeṇa samanvitāḥ . ādarśahemakalaśapūrṇakuṃbhāṃkurādibhiḥ .. 25.25 ..
ध्वजत्रयादिकान्सर्वान्पुरस्कृत्य पदार्थिनः । प्राच्यां सर्वसमृद्धिस्स्यादाग्नेय्यां धान्यनाशनं ॥ २५.२६ ॥
dhvajatrayādikānsarvānpuraskṛtya padārthinaḥ . prācyāṃ sarvasamṛddhissyādāgneyyāṃ dhānyanāśanaṃ .. 25.26 ..
याम्ये जनविनाशस्स्यान्नैरृत्यां धननाशनं । अनावृष्टिश्च वारुण्यां राजकोपश्च पावने ॥ २५.२७ ॥
yāmye janavināśassyānnairṛtyāṃ dhananāśanaṃ . anāvṛṣṭiśca vāruṇyāṃ rājakopaśca pāvane .. 25.27 ..
स्ॐये पुत्रसमृद्धिस्स्या दैशान्यां सुखदं भवेथ् । एतानां तु दिशां मध्ये प्रशस्तां शुद्धमृत्तिकां ॥ २५.२८ ॥
s_oṃye putrasamṛddhissyā daiśānyāṃ sukhadaṃ bhaveth . etānāṃ tu diśāṃ madhye praśastāṃ śuddhamṛttikāṃ .. 25.28 ..
आचार्यस्साधनैर्युक्तो दिशं गत्वा सशिष्यकः । ग्रामदेवालयादारादारामेऽत्र मनोरमे ॥ २५.२९ ॥
ācāryassādhanairyukto diśaṃ gatvā saśiṣyakaḥ . grāmadevālayādārādārāme'tra manorame .. 25.29 ..
नदीतटाकतीरे वा सीमामनतिलङ्घ्य च । प्रार्ध्य भूदेवतामन्त्रै श्शुद्धे देशे मृदं हरेथ् ॥ २५.३० ॥
nadītaṭākatīre vā sīmāmanatilaṅghya ca . prārdhya bhūdevatāmantrai śśuddhe deśe mṛdaṃ hareth .. 25.30 ..
वीशामितौ च चक्रं च स्थापयेत्प्राङ्मुखान्बुधः । प्राङ्मुखश्चोपलिप्यैव वृत्ताकारं समुल्लिखेथ् ॥ २५.३१ ॥
vīśāmitau ca cakraṃ ca sthāpayetprāṅmukhānbudhaḥ . prāṅmukhaścopalipyaiva vṛttākāraṃ samullikheth .. 25.31 ..
तत्र स्थानं च संप्रोक्ष्य "दधि क्राव्ण्णऽउच्चरन् । भूरूपं तु लिखित्वैव "भूमिर्भूऽम्नेति च ब्रुवन् ॥ २५.३२ ॥
tatra sthānaṃ ca saṃprokṣya "dadhi krāvṇṇa'uccaran . bhūrūpaṃ tu likhitvaiva "bhūmirbhū'mneti ca bruvan .. 25.32 ..
ऊर्ध्ववक्त्रां च शयितामैशान्यां न्यस्तमौलिकां । देवीं महीं तामभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेथ् ॥ २५.३३ ॥
ūrdhvavaktrāṃ ca śayitāmaiśānyāṃ nyastamaulikāṃ . devīṃ mahīṃ tāmabhyarcya prokṣaṇaiḥ prokṣaṇaṃ careth .. 25.33 ..
एकादशोपचारैश्च मूर्तिमन्त्रैस्समर्चयेथ् । पुण्याहं वाचयित्वातु मेदिन्यादि समुच्चरन् ॥ २५.३४ ॥
ekādaśopacāraiśca mūrtimantraissamarcayeth . puṇyāhaṃ vācayitvātu medinyādi samuccaran .. 25.34 ..
खनित्रे शेषमभ्यर्च्य वस्त्राद्यैस्समलङ्कृते । ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुखप्रदं ॥ २५.३५ ॥
khanitre śeṣamabhyarcya vastrādyaissamalaṅkṛte . lalāṭe sarvadoṣaghnaṃ bāhvorbahusukhapradaṃ .. 25.35 ..
स्तनद्वये वयोवृद्धिर्जठरे सर्वसंपदः । अधोभागे मृदं तस्या नाहरेत कदाचन ॥ २५.३६ ॥
stanadvaye vayovṛddhirjaṭhare sarvasaṃpadaḥ . adhobhāge mṛdaṃ tasyā nāhareta kadācana .. 25.36 ..
एवं संकल्प्य मनसा मेदिन्यादि तदा ब्रुवन् । त्वां खनाऽमीति मन्त्रेण वाराहं मनसा स्मरन् ॥ २५.३७ ॥
evaṃ saṃkalpya manasā medinyādi tadā bruvan . tvāṃ khanā'mīti mantreṇa vārāhaṃ manasā smaran .. 25.37 ..
उभाभ्याञ्चैव हस्ताभ्यां खनित्रेण खनेद्बुधः । महीं देवीमनुज्ञाप्य खनित्वा तालमात्रकं ॥ २५.३८ ॥
ubhābhyāñcaiva hastābhyāṃ khanitreṇa khanedbudhaḥ . mahīṃ devīmanujñāpya khanitvā tālamātrakaṃ .. 25.38 ..
अपोह्यैव च तत्सर्वं तदधस्थ्सां मृदं हरेथ् । वैष्णवं मन्त्रमुच्चार्य तत्रकार्यं समाचरेथ् ॥ २५.३९ ॥
apohyaiva ca tatsarvaṃ tadadhasthsāṃ mṛdaṃ hareth . vaiṣṇavaṃ mantramuccārya tatrakāryaṃ samācareth .. 25.39 ..
पात्रमध्ये सुसन्न्यस्य पूर्ववच्छिरसिन्यसेथ् । पश्चाद्देवीं समुद्वास्य चापटं तत्र पूरयेथ् ॥ २५.४० ॥
pātramadhye susannyasya pūrvavacchirasinyaseth . paścāddevīṃ samudvāsya cāpaṭaṃ tatra pūrayeth .. 25.40 ..
शिरसा धारयित्वातु पुरस्ताच्चक्रशान्तयोः । ग्रामं प्रदक्षिणं कृत्वा देवालयमुपाव्रजेथ् ॥ २५.४१ ॥
śirasā dhārayitvātu purastāccakraśāntayoḥ . grāmaṃ pradakṣiṇaṃ kṛtvā devālayamupāvrajeth .. 25.41 ..
पूर्वस्मिन्नुत्तरे पार्श्वे वांकुरानर्पयेत्तधा । चक्रादीनभिषिच्यैव हविस्सम्यङ्निवेद्य च ॥ २५.४२ ॥
pūrvasminnuttare pārśve vāṃkurānarpayettadhā . cakrādīnabhiṣicyaiva havissamyaṅnivedya ca .. 25.42 ..
स्वेस्वेस्थाने तु संस्थाप्य पश्चाद्यागं समारभेथ् । अलयाभिमुखे वापि दक्षिणे वा मनोरमे ॥ २५.४३ ॥
svesvesthāne tu saṃsthāpya paścādyāgaṃ samārabheth . alayābhimukhe vāpi dakṣiṇe vā manorame .. 25.43 ..
यमपावकयोर्मध्ये पावकांशेऽथ वा चरेथ् । ऐशान्यां वाथ वा केचित्सोमेशानान्तरे तथा ॥ २५.४४ ॥
yamapāvakayormadhye pāvakāṃśe'tha vā careth . aiśānyāṃ vātha vā kecitsomeśānāntare tathā .. 25.44 ..
कल्पयेद्यागशालां च प्रतिष्ठोक्तविधानतः । वेदिं तन्मध्यमे पङ्क्तौ वेदिमानेन कारयेथ् ॥ २५.४५ ॥
kalpayedyāgaśālāṃ ca pratiṣṭhoktavidhānataḥ . vediṃ tanmadhyame paṅktau vedimānena kārayeth .. 25.45 ..
प्रतिष्ठाद्यर्धमानं वा रत्निमात्रोदयं क्रमाथ् । पञ्चाग्नीन्कल्पयेद्धीमानुत्सवे चोत्तमे तथा ॥ २५.४६ ॥
pratiṣṭhādyardhamānaṃ vā ratnimātrodayaṃ kramāth . pañcāgnīnkalpayeddhīmānutsave cottame tathā .. 25.46 ..
त्रेताग्नीन्कल्पयेद्विद्वान्मध्यमे चोत्सवेक्रमाथ् । अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः ॥ २५.४७ ॥
tretāgnīnkalpayedvidvānmadhyame cotsavekramāth . adhamaṃ yadi cetsabhyaṃ kalpayetpūrvavatsudhīḥ .. 25.47 ..
त्रेताग्निकल्पनं यत्र प्रधानं गार्हपत्यकं । उभयोरन्ययोस्सभ्यं प्रधानं कल्पयेत्तथा ॥ २५.४८ ॥
tretāgnikalpanaṃ yatra pradhānaṃ gārhapatyakaṃ . ubhayoranyayossabhyaṃ pradhānaṃ kalpayettathā .. 25.48 ..
भूमियज्ञेव सर्वत्र शोधयेच्च यथाविधि । देवं देव्यौ समादाय स्नानश्वभ्रे गुरूत्तमः ॥ २५.४९ ॥
bhūmiyajñeva sarvatra śodhayecca yathāvidhi . devaṃ devyau samādāya snānaśvabhre gurūttamaḥ .. 25.49 ..
परं रंऽहेति मन्त्रेण स्थापयेच्च विशेषतः । नित्यस्नानोक्तमार्गेण स्नापयित्वा हरिं परं ॥ २५.५० ॥
paraṃ raṃ'heti mantreṇa sthāpayecca viśeṣataḥ . nityasnānoktamārgeṇa snāpayitvā hariṃ paraṃ .. 25.50 ..
आस्थाने विष्टरं न्यस्य तदूर्ध्वे वस्त्रमास्तरेथ् । देवं देव्यौ समादाय श्वेतवस्त्रैर्विभूष्य च ॥ २५.५१ ॥
āsthāne viṣṭaraṃ nyasya tadūrdhve vastramāstareth . devaṃ devyau samādāya śvetavastrairvibhūṣya ca .. 25.51 ..
कुण्डलांगदहारादिभूषणैरपि भूषयेथ् । श्वेतमाल्यैरलङ्कृत्य श्वेतगन्धानुलेपनैः ॥ २५.५२ ॥
kuṇḍalāṃgadahārādibhūṣaṇairapi bhūṣayeth . śvetamālyairalaṅkṛtya śvetagandhānulepanaiḥ .. 25.52 ..
पवित्रं चोत्तरीयञ्च गत्वा देवं प्रणम्य च । राजवच्चोपचारादीनाचरेद्देशिकोत्तमः, ॥ २५.५३ ॥
pavitraṃ cottarīyañca gatvā devaṃ praṇamya ca . rājavaccopacārādīnācareddeśikottamaḥ, .. 25.53 ..
नवकुभारोपणम् पूर्वोक्तविधिना धीमान्नव कुंभान्प्रगृह्यच । इन्द्रं नरो नऽइत्युक्त्वातन्तुना वेष्टयेत्तथा ॥ २५.५४ ॥
navakubhāropaṇam pūrvoktavidhinā dhīmānnava kuṃbhānpragṛhyaca . indraṃ naro na'ityuktvātantunā veṣṭayettathā .. 25.54 ..
वेद्यामुपरिपूर्वोक्तधान्यान्यास्तीर्य मन्त्रविथ् । चतुस्सूत्रैर्नवपदं कृत्वा कुंभांश्च विन्यसेथ् ॥ २५.५५ ॥
vedyāmuparipūrvoktadhānyānyāstīrya mantravith . catussūtrairnavapadaṃ kṛtvā kuṃbhāṃśca vinyaseth .. 25.55 ..
कुंभानद्भिः प्पपूर्यैव कुशकूर्चाक्षतादिकान् । मङ्गलान्यायुधं रत्नं प्रतिकुंभं पृथक्पृथक् ॥ २५.५६ ॥
kuṃbhānadbhiḥ ppapūryaiva kuśakūrcākṣatādikān . maṅgalānyāyudhaṃ ratnaṃ pratikuṃbhaṃ pṛthakpṛthak .. 25.56 ..
गायत्षा चैव निक्षिव्य मध्यकुंभे विशेषतः । द्व्यङ्गुलेन प्रमाणेन स्रुगादीन्यपि पूर्ववथ् ॥ २५.५७ ॥
gāyatṣā caiva nikṣivya madhyakuṃbhe viśeṣataḥ . dvyaṅgulena pramāṇena srugādīnyapi pūrvavath .. 25.57 ..
हानकेनैव कृत्वा तु विष्णुसूक्तेन निक्षिपेथ् । आवेष्ट्य वस्त्रयुग्मेन सर्वानपि पृथक्पृथक् ॥ २५.५८ ॥
hānakenaiva kṛtvā tu viṣṇusūktena nikṣipeth . āveṣṭya vastrayugmena sarvānapi pṛthakpṛthak .. 25.58 ..
वेद्या मधस्तात्पूर्वेतु वीशं वै पश्चिमामुखं । सन्न्यस्य दक्षिणे पश्चाच्चक्रं चैवोत्तरामुखं ॥ २५.५९ ॥
vedyā madhastātpūrvetu vīśaṃ vai paścimāmukhaṃ . sannyasya dakṣiṇe paścāccakraṃ caivottarāmukhaṃ .. 25.59 ..
पङ्क्तीशं प्राङ्मुखं पश्चात्पश्चिमे चोत्तरेऽथ वा । दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेथ् ॥ २५.६० ॥
paṅktīśaṃ prāṅmukhaṃ paścātpaścime cottare'tha vā . dakṣiṇābhimukhaṃ śāntaṃ sthaṇḍilopari sannyaseth .. 25.60 ..
अभावे गरुडादीनां स्थाने तत्र च तत्र च । कुंभान्त्सन्न्यस्य तन्मध्ये ध्यात्वैवावाहयेत्क्रमाथ् ॥ २५.६१ ॥
abhāve garuḍādīnāṃ sthāne tatra ca tatra ca . kuṃbhāntsannyasya tanmadhye dhyātvaivāvāhayetkramāth .. 25.61 ..
यावत्तीर्थावसानं स्यात्तावत्कुंभेतु पार्षदान् । सायं प्रातर्विशेषेण पूजयेद्विधिवत्सुधीः ॥ २५.६२ ॥
yāvattīrthāvasānaṃ syāttāvatkuṃbhetu pārṣadān . sāyaṃ prātarviśeṣeṇa pūjayedvidhivatsudhīḥ .. 25.62 ..
पश्चात्सभ्याग्निकुण्डे तु विधिनाघार माचरेथ् । उत्तराभिमुख स्तिष्ठन्कुरुर्वेद्यास्तु दक्षिणे ॥ २५.६३ ॥
paścātsabhyāgnikuṇḍe tu vidhināghāra mācareth . uttarābhimukha stiṣṭhankururvedyāstu dakṣiṇe .. 25.63 ..
प्राणायामं ततःकृत्वा पूर्ववद्ध्यानमाचरेथ् । प्रधानकुंभमध्ये तु विष्णुं देव्यौ च सान्वयौ ॥ २५.६४ ॥
prāṇāyāmaṃ tataḥkṛtvā pūrvavaddhyānamācareth . pradhānakuṃbhamadhye tu viṣṇuṃ devyau ca sānvayau .. 25.64 ..
ध्रुवादावाहयेन्मन्त्री प्रागादिषु यथाक्रमं । पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च ॥ २५.६५ ॥
dhruvādāvāhayenmantrī prāgādiṣu yathākramaṃ . puruṣaṃ kapilaṃ satyaṃ yajñamacyutameva ca .. 25.65 ..
नारायणं चानिरुद्धं ततः पुण्यं समर्चयेथ् । तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहं ॥ २५.६६ ॥
nārāyaṇaṃ cāniruddhaṃ tataḥ puṇyaṃ samarcayeth . taṃ rukmavarṇaṃ raktāsyaṃ raktanetraṃ sukhodvahaṃ .. 25.66 ..
किरीटहारकेयूरलंबयज्ञोपवीतिनं । कौस्तुभोद्भासितोरस्कं श्रीवत्सांकं चतुर्भुजं ॥ २५.६७ ॥
kirīṭahārakeyūralaṃbayajñopavītinaṃ . kaustubhodbhāsitoraskaṃ śrīvatsāṃkaṃ caturbhujaṃ .. 25.67 ..
दक्षिणेनैकहस्तेन भक्तानामभयप्रदं । वामेनाप्यन्यहस्तेन स्वकट्यामवलंबितं ॥ २५.६८ ॥
dakṣiṇenaikahastena bhaktānāmabhayapradaṃ . vāmenāpyanyahastena svakaṭyāmavalaṃbitaṃ .. 25.68 ..
पराभ्यां तु कराभ्यां तु शङ्खचक्रधरं परं । शुकपिञ्छांबरधरं विष्णुं प्रणवरूपिणं ॥ २५.६९ ॥
parābhyāṃ tu karābhyāṃ tu śaṅkhacakradharaṃ paraṃ . śukapiñchāṃbaradharaṃ viṣṇuṃ praṇavarūpiṇaṃ .. 25.69 ..
तप्तहाटकसंकाशां पद्मपत्रायतेक्षणां । तिसृभिःपुष्पचूडूभिर्ललाटोपरि शोभितां ॥ २५.७० ॥
taptahāṭakasaṃkāśāṃ padmapatrāyatekṣaṇāṃ . tisṛbhiḥpuṣpacūḍūbhirlalāṭopari śobhitāṃ .. 25.70 ..
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीं । प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां ॥ २५.७१ ॥
sapadmavāmahastāntāṃ kakṣyābaddhaghanastanīṃ . prasāritetarakarāṃ prasannendunibhānanāṃ .. 25.71 ..
श्रीवत्सांकितबीजान्तां फाल्गुनेचोत्तरोद्भवां । विष्णोर्दक्षिणपार्श्वस्थां हंसनिर्याख्यवाहिनीं ॥ २५.७२ ॥
śrīvatsāṃkitabījāntāṃ phālgunecottarodbhavāṃ . viṣṇordakṣiṇapārśvasthāṃ haṃsaniryākhyavāhinīṃ .. 25.72 ..
वामभागे महीं श्यामां सर्वाभरणभूषितां । वैशाखे रेवतीजातां दधतीं दक्षिणेऽंबुजं ॥ २५.७३ ॥
vāmabhāge mahīṃ śyāmāṃ sarvābharaṇabhūṣitāṃ . vaiśākhe revatījātāṃ dadhatīṃ dakṣiṇe'ṃbujaṃ .. 25.73 ..
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननां । महाचातकमारूढां लक्ष्नीपूर्वाक्षरान्वितां ॥ २५.७४ ॥
prasāritetarakarāṃ prasannendunibhānanāṃ . mahācātakamārūḍhāṃ lakṣnīpūrvākṣarānvitāṃ .. 25.74 ..
पुरुषः प्राङ्मुखोऽच्छाभः पीतवासाश्चतुर्भुजः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ॥ २५.७५ ॥
puruṣaḥ prāṅmukho'cchābhaḥ pītavāsāścaturbhujaḥ . śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ .. 25.75 ..
वरदोऽभयदः प्राच्यां श्रीभूमिसहितो हरिः । कपिलः प्राङ्मुखोऽच्छाभो रक्तवस्त्रोऽष्टबाहुयुक् ॥ २५.७६ ॥
varado'bhayadaḥ prācyāṃ śrībhūmisahito hariḥ . kapilaḥ prāṅmukho'cchābho raktavastro'ṣṭabāhuyuk .. 25.76 ..
दक्षिणेनैकहस्तेव भक्तानामभयप्रदः । अन्यैश्चक्रासिहलभृत्सर्वाभरणभूषितः ॥ २५.७७ ॥
dakṣiṇenaikahasteva bhaktānāmabhayapradaḥ . anyaiścakrāsihalabhṛtsarvābharaṇabhūṣitaḥ .. 25.77 ..
वामेनाप्यन्यहस्तेन स्वकट्यामवलंब्य च । अन्यैश्संखधनुर्दण्डधरस्सुंदर विग्रहः ॥ २५.७८ ॥
vāmenāpyanyahastena svakaṭyāmavalaṃbya ca . anyaiśsaṃkhadhanurdaṇḍadharassuṃdara vigrahaḥ .. 25.78 ..
आग्नेय्यां दिशि गायत्षा सावित्षा च युतो हरिः । सत्योयाम्यमुखश्श्रीमानञ्जनाभश्चतुर्भुजः ॥ २५.७९ ॥
āgneyyāṃ diśi gāyatṣā sāvitṣā ca yuto hariḥ . satyoyāmyamukhaśśrīmānañjanābhaścaturbhujaḥ .. 25.79 ..
शङ्खचक्रधरस्य्ॐयस्सर्वाभरणभूषितः । वरदोऽभयदस्साधूरक्तवासा महाहनुः ॥ २५.८० ॥
śaṅkhacakradharasy_oṃyassarvābharaṇabhūṣitaḥ . varado'bhayadassādhūraktavāsā mahāhanuḥ .. 25.80 ..
देवीभ्यां धृतिपौष्णीभ्यां युतो याम्यदिशि प्रभुः । यज्ञः पश्चिमदिग्वक्त्रस्तप्तचामीकरप्रभः ॥ २५.८१ ॥
devībhyāṃ dhṛtipauṣṇībhyāṃ yuto yāmyadiśi prabhuḥ . yajñaḥ paścimadigvaktrastaptacāmīkaraprabhaḥ .. 25.81 ..
सप्तहस्तश्चतुश्श्रुङ्गो रक्तवासा द्विशीर्षकः । शङ्खचक्राज्यपात्रस्रुक्स्रुवानुपभृतं जुहूं ॥ २५.८२ ॥
saptahastaścatuśśruṅgo raktavāsā dviśīrṣakaḥ . śaṅkhacakrājyapātrasruksruvānupabhṛtaṃ juhūṃ .. 25.82 ..
बिभ्रत्त्रिपादो नैरृत्यां देवस्स्वाहास्वधायुतः । अच्युतः पश्चिमाशास्यः कनकाभश्चतुर्भुजः ॥ २५.८३ ॥
bibhrattripādo nairṛtyāṃ devassvāhāsvadhāyutaḥ . acyutaḥ paścimāśāsyaḥ kanakābhaścaturbhujaḥ .. 25.83 ..
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदस्साक्षी सर्वकर्मफलप्रदः ॥ २५.८४ ॥
śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ . varado'bhayadassākṣī sarvakarmaphalapradaḥ .. 25.84 ..
युक्तःपवित्रीक्षोणीभ्यां प्रतीच्यां श्यामलांबरः । नारायणः पश्चिमास्यस्स्फटिकाभश्चतुर्भुजः ॥ २५.८५ ॥
yuktaḥpavitrīkṣoṇībhyāṃ pratīcyāṃ śyāmalāṃbaraḥ . nārāyaṇaḥ paścimāsyassphaṭikābhaścaturbhujaḥ .. 25.85 ..
शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः । वरदोऽभयदश्श्यामांबरश्श्रीवत्सचिह्नितः ॥ २५.८६ ॥
śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ . varado'bhayadaśśyāmāṃbaraśśrīvatsacihnitaḥ .. 25.86 ..
संयुतः कमलेलाभ्यां वायव्यां जगतां पतिः । अनिरुद्ध उदीच्यास्यः प्रवालाभश्चतुर्भुजः ॥ २५.८७ ॥
saṃyutaḥ kamalelābhyāṃ vāyavyāṃ jagatāṃ patiḥ . aniruddha udīcyāsyaḥ pravālābhaścaturbhujaḥ .. 25.87 ..
अनन्तोत्संग आसीनः पुष्पांबरधरो हरिः । शङ्खचक्रधरश्श्रीमान्सर्वाभरणभूषितः ॥ २५.८८ ॥
anantotsaṃga āsīnaḥ puṣpāṃbaradharo hariḥ . śaṅkhacakradharaśśrīmānsarvābharaṇabhūṣitaḥ .. 25.88 ..
दधत्स्वदक्षिणे वामे प्रमोदादायिनीं महीं । वरदोऽभयदो देव उदीच्यां सर्वसिद्धिदः ॥ २५.८९ ॥
dadhatsvadakṣiṇe vāme pramodādāyinīṃ mahīṃ . varado'bhayado deva udīcyāṃ sarvasiddhidaḥ .. 25.89 ..
पुण्यःप्रागाननश्श्रीमां स्तरुणादित्यसन्निभः । श्रीवत्सवक्षा नित्यश्रीस्सर्वाभरणभूषितः ॥ २५.९० ॥
puṇyaḥprāgānanaśśrīmāṃ staruṇādityasannibhaḥ . śrīvatsavakṣā nityaśrīssarvābharaṇabhūṣitaḥ .. 25.90 ..
चतुर्भुजश्शङ्खचक्रवरदाभयचिह्नितः । श्वेतवस्त्रोत्तरीयोपवीताद्यैस्समलङ्कृतः ॥ २५.९१ ॥
caturbhujaśśaṅkhacakravaradābhayacihnitaḥ . śvetavastrottarīyopavītādyaissamalaṅkṛtaḥ .. 25.91 ..
इन्दिराधरणीनाथरिशान्यां पुण्यपूरुषः । एतान्देवान्समावाह्य समभ्यर्च्याष्टविग्रहैः ॥ २५.९२ ॥
indirādharaṇīnāthariśānyāṃ puṇyapūruṣaḥ . etāndevānsamāvāhya samabhyarcyāṣṭavigrahaiḥ .. 25.92 ..
वीशानसायिपङ्क्तीशशान्तान्दिक्ष्वर्चयेत्क्रमाथ् । सायं प्रातर्विना कुंभैर्देवं वीशामितैस्सह ॥ २५.९३ ॥
vīśānasāyipaṅktīśaśāntāndikṣvarcayetkramāth . sāyaṃ prātarvinā kuṃbhairdevaṃ vīśāmitaissaha .. 25.93 ..
वेद्यामेव प्रतिष्ठाप्य पूजयेदिति के च न । होत्रप्रशंसनम् होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेथ् ॥ २५.९४ ॥
vedyāmeva pratiṣṭhāpya pūjayediti ke ca na . hotrapraśaṃsanam hotā paścātpradhānāgnau hautraśaṃsanamācareth .. 25.94 ..
प्रतिष्ठोक्तक्रमेणैव तदालयगतान्सुरान् । अवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ॥ २५.९५ ॥
pratiṣṭhoktakrameṇaiva tadālayagatānsurān . avāhya tatkrameṇaiva nirupyājyāhutīryajeth .. 25.95 ..
परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमाथ् । वेद्यान्तु पश्चिमे वाथ वायव्यां वा विशेषतः ॥ २५.९६ ॥
pariṣicya pāvakaṃ paścādvaiṣṇavaṃ juhuyātkramāth . vedyāntu paścime vātha vāyavyāṃ vā viśeṣataḥ .. 25.96 ..
स्थिण्डिलं कल्पयित्वात्र चास्तरेदण्डजादिकान् । यजमानसमायुक्तो गुरुर्देवं प्रणम्य च ॥ २५.९७ ॥
sthiṇḍilaṃ kalpayitvātra cāstaredaṇḍajādikān . yajamānasamāyukto gururdevaṃ praṇamya ca .. 25.97 ..
कुसुमाञ्जलि मुत्सृज्य प्रतद्विष्णुंऽरिति ब्रुवन् । देवीभ्यां सह देवेशमादाय स्थण्डिलोपरि ॥ २५.९८ ॥
kusumāñjali mutsṛjya pratadviṣṇuṃ'riti bruvan . devībhyāṃ saha deveśamādāya sthaṇḍilopari .. 25.98 ..
प्राङ्मुखं चैव संस्थाप्य पूजयेदष्टविग्रहैः । उत्सवप्रतिमाभावे स्नापने वा विशेषतः ॥ २५.९९ ॥
prāṅmukhaṃ caiva saṃsthāpya pūjayedaṣṭavigrahaiḥ . utsavapratimābhāve snāpane vā viśeṣataḥ .. 25.99 ..
स्नपनस्याव्यभावे तु कौतुके चाचरेत्तु वा । कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेथ् ॥ २५.१०० ॥
snapanasyāvyabhāve tu kautuke cācarettu vā . kautuke yadi ceddevyau naivādāya tathā careth .. 25.100 ..
नादरेन्नित्यवैकल्यं विसर्गावाहने तथा । आचरेदुत्सवं विद्वान्नित्यार्चान्तु यथाक्रमं ॥ २५.१०१ ॥
nādarennityavaikalyaṃ visargāvāhane tathā . ācaredutsavaṃ vidvānnityārcāntu yathākramaṃ .. 25.101 ..
कुर्याच्चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवं । स्नापयेद्यदि चेद्विद्वान्मध्यमे चोत्सवस्य तु ॥ २५.१०२ ॥
kuryāccennityavaikalyaṃ sarvanāśo bhaveddhruvaṃ . snāpayedyadi cedvidvānmadhyame cotsavasya tu .. 25.102 ..
स्नपने यदि संप्राप्ते कौतुके स्नपनं चरेथ् । स्नापनप्रतिमाभावे स्नपनं यदि चोत्सवे ॥ २५.१०३ ॥
snapane yadi saṃprāpte kautuke snapanaṃ careth . snāpanapratimābhāve snapanaṃ yadi cotsave .. 25.103 ..
संप्रास्ते स्नपने चात्र कौतुके चोत्सवं विना । अचरेदेव सांकर्यं नाचरेदुभयोरपि ॥ २५.१०४ ॥
saṃprāste snapane cātra kautuke cotsavaṃ vinā . acaredeva sāṃkaryaṃ nācaredubhayorapi .. 25.104 ..
उत्सवे वर्तमाने तु कौतुके स्नपनं यदि । संभवेदुक्तकाले तु कर्मणी द्वे समाचरेथ् ॥ २५.१०५ ॥
utsave vartamāne tu kautuke snapanaṃ yadi . saṃbhaveduktakāle tu karmaṇī dve samācareth .. 25.105 ..
पुराप्रवृत्तकार्ये तु दोषो नानेन संभवेथ् । कातुके चेद्यथै काग्नौ बहुकर्मवदाचरेथ् ॥ २५.१०६ ॥
purāpravṛttakārye tu doṣo nānena saṃbhaveth . kātuke cedyathai kāgnau bahukarmavadācareth .. 25.106 ..
गृहे त्रेताग्नि वन्नित्यं प्रणीयारोपणं विना । स्नापनोत्सवभेदे तु कौतुकेन दिनं दिनं ॥ २५.१०७ ॥
gṛhe tretāgni vannityaṃ praṇīyāropaṇaṃ vinā . snāpanotsavabhede tu kautukena dinaṃ dinaṃ .. 25.107 ..
अरोहणं यदि भवेद्द्रुवे तत्कर्म पूर्वतः । आवाह्य कर्ममामन्ते तथा साये विसर्जयेथ् ॥ २५.१०८ ॥
arohaṇaṃ yadi bhaveddruve tatkarma pūrvataḥ . āvāhya karmamāmante tathā sāye visarjayeth .. 25.108 ..
पात्र रावाहनं नित्यमर्चनादौ विशेषतः । विसर्गं सायमर्चान्ते कौतुके तु यथा तथा ॥ २५.१०९ ॥
pātra rāvāhanaṃ nityamarcanādau viśeṣataḥ . visargaṃ sāyamarcānte kautuke tu yathā tathā .. 25.109 ..
तथैवौत्सवदीक्षान्ते समावाह्य ध्रुवात्सुधीः । विसर्गं नाचरेन्मध्ये दीक्षान्तेतु समाचरेथ् ॥ २५.११० ॥
tathaivautsavadīkṣānte samāvāhya dhruvātsudhīḥ . visargaṃ nācarenmadhye dīkṣāntetu samācareth .. 25.110 ..
अर्चनान्ते विशेषेण पुण्याहमपि वाचयेथ् । हेमपात्रे तु सौवर्णं कौतुकं तण्डुलोपरि ॥ २५.१११ ॥
arcanānte viśeṣeṇa puṇyāhamapi vācayeth . hemapātre tu sauvarṇaṃ kautukaṃ taṇḍulopari .. 25.111 ..
सन्न्यस्य पूर्ववद्धीमान्बन्धयेद्दक्षिणेकरे । कुंभान्देव्यौच चक्रादीन्समाबद्ध्य समर्चयेथ् ॥ २५.११२ ॥
sannyasya pūrvavaddhīmānbandhayeddakṣiṇekare . kuṃbhāndevyauca cakrādīnsamābaddhya samarcayeth .. 25.112 ..
परिषिच्य पावकं पश्चाद्वैष्मवं विष्मुसूक्तकं । जुहुयात्पौरुषं सूक्तं श्रीभूसूक्त समन्वितं ॥ २५.११३ ॥
pariṣicya pāvakaṃ paścādvaiṣmavaṃ viṣmusūktakaṃ . juhuyātpauruṣaṃ sūktaṃ śrībhūsūkta samanvitaṃ .. 25.113 ..
दिनसंध्याधिदैवत्यं तिथिवारर्क्षदैवतं । तथा मासाधिदै वत्यमब्ददै वत्यमेव च ॥ २५.११४ ॥
dinasaṃdhyādhidaivatyaṃ tithivārarkṣadaivataṃ . tathā māsādhidai vatyamabdadai vatyameva ca .. 25.114 ..
तदालयगतानां च जुहुयान्मूर्तिभिः क्रमाथ् । व्याहृत्यन्तं प्रधाने स्यात्तत आहवनीयके ॥ २५.११५ ॥
tadālayagatānāṃ ca juhuyānmūrtibhiḥ kramāth . vyāhṛtyantaṃ pradhāne syāttata āhavanīyake .. 25.115 ..
नृसूक्तं दक्षिणाग्नौ च वैष्णवं तथा ॥ २५.११६ ॥
nṛsūktaṃ dakṣiṇāgnau ca vaiṣṇavaṃ tathā .. 25.116 ..
अवसथ्ये महीसूक्तमेकाक्षरमतो यजेथ् । जुहुयात्पैण्डरीकाग्ना "वतो देवादिऽ वैष्णवं ॥ २५.११७ ॥
avasathye mahīsūktamekākṣaramato yajeth . juhuyātpaiṇḍarīkāgnā "vato devādi' vaiṣṇavaṃ .. 25.117 ..
विष्णुसूक्तं पुरुषसूक्तं "यद्देवादिऽसमन्वितं । पारमात्मिक मन्त्रांश्च ब्राह्ममैन्द्रं च वारुणं ॥ २५.११८ ॥
viṣṇusūktaṃ puruṣasūktaṃ "yaddevādi'samanvitaṃ . pāramātmika mantrāṃśca brāhmamaindraṃ ca vāruṇaṃ .. 25.118 ..
जुहुयाद्विष्णुगायत्षा श्वेताब्जं च घृताप्लुतं । अष्टोत्तरशतं चैव सर्वदोषोपशान्तये ॥ २५.११९ ॥
juhuyādviṣṇugāyatṣā śvetābjaṃ ca ghṛtāplutaṃ . aṣṭottaraśataṃ caiva sarvadoṣopaśāntaye .. 25.119 ..
एकाग्निमथ वाधाय जुहुयादधमाधमं । सभ्य होमं च पूर्वोक्तं वैष्णवादि विधानतः ॥ २५.१२० ॥
ekāgnimatha vādhāya juhuyādadhamādhamaṃ . sabhya homaṃ ca pūrvoktaṃ vaiṣṇavādi vidhānataḥ .. 25.120 ..
अथोत्सवाधिदैवत्यं विशेषेण प्रवक्ष्यते । ब्राह्ममार्षं तथा रौद्रमैन्द्रं स्ॐयं च वैष्मवं ॥ २५.१२१ ॥
athotsavādhidaivatyaṃ viśeṣeṇa pravakṣyate . brāhmamārṣaṃ tathā raudramaindraṃ s_oṃyaṃ ca vaiṣmavaṃ .. 25.121 ..
सर्वदैवत्ययाम्ये च वारुणं च नवाह्निके । आग्नेयं प्राजापत्यं च कौबेरं वैघ्नमेव च ॥ २५.१२२ ॥
sarvadaivatyayāmye ca vāruṇaṃ ca navāhnike . āgneyaṃ prājāpatyaṃ ca kauberaṃ vaighnameva ca .. 25.122 ..
श्रीदैवत्यं च क्ॐआरमादित्यं रौद्रमेव च । दौर्गमैन्द्रं तथा याम्यं वैष्णवं स्कान्गमेव चर् ॥ २५.१२३ ॥
śrīdaivatyaṃ ca k_oṃāramādityaṃ raudrameva ca . daurgamaindraṃ tathā yāmyaṃ vaiṣṇavaṃ skāngameva car .. 25.123 ..
इशान्यं स्ॐयमित्येतत्तिथिदैवत्यमुच्यते । तत्तद्द्वारे तु जुहुयान्मत्रैर्द्वाराधिपोचितैः ॥ २५.१२४ ॥
iśānyaṃ s_oṃyamityetattithidaivatyamucyate . tattaddvāre tu juhuyānmatrairdvārādhipocitaiḥ .. 25.124 ..
तथा नक्षत्रदैवत्यं जुहुयाद्विधिना बुधः । त्रिसंधिषु हुनेदैन्द्रं सौरं बार्हस्पतं क्रमाथ् ॥ २५.१२५ ॥
tathā nakṣatradaivatyaṃ juhuyādvidhinā budhaḥ . trisaṃdhiṣu hunedaindraṃ sauraṃ bārhaspataṃ kramāth .. 25.125 ..
मासर्क्षाधिपदैवत्यं मासदैवत्यमुच्यते । याम्यं च वैष्णवं स्ॐयं ब्राह्मं बार्हस्पतं तथा ॥ २५.१२६ ॥
māsarkṣādhipadaivatyaṃ māsadaivatyamucyate . yāmyaṃ ca vaiṣṇavaṃ s_oṃyaṃ brāhmaṃ bārhaspataṃ tathā .. 25.126 ..
स्ॐयमैन्द्रं वारुणं च शेषाग्न्यादित्यभौतिकं । मारुतं भृगुदैवत्यं वारुणं वैघ्नमेव च ॥ २५.१२७ ॥
s_oṃyamaindraṃ vāruṇaṃ ca śeṣāgnyādityabhautikaṃ . mārutaṃ bhṛgudaivatyaṃ vāruṇaṃ vaighnameva ca .. 25.127 ..
रौद्रं कौबेरकं त्वाष्ट्रं मैत्रं क्ॐआरमेव च । सावित्रीं श्रीदैवत्यं चैव गौरीदैवत्यमेव च ॥ २५.१२८ ॥
raudraṃ kauberakaṃ tvāṣṭraṃ maitraṃ k_oṃārameva ca . sāvitrīṃ śrīdaivatyaṃ caiva gaurīdaivatyameva ca .. 25.128 ..
आदित्यं पैतृकं चैवादिति दैवत्यमेव च । योगदैवत्यमेतत्क्याज्जुहुयाद्विधिना बुधः ॥ २५.१२९ ॥
ādityaṃ paitṛkaṃ caivāditi daivatyameva ca . yogadaivatyametatkyājjuhuyādvidhinā budhaḥ .. 25.129 ..
ऐन्द्रं च प्राजापत्यं च मैत्रमार्यमणं तथा । भूत श्रीयाम्यदैवत्यं भार्गवं वृषदैवतं ॥ २५.१३० ॥
aindraṃ ca prājāpatyaṃ ca maitramāryamaṇaṃ tathā . bhūta śrīyāmyadaivatyaṃ bhārgavaṃ vṛṣadaivataṃ .. 25.130 ..
कौबेरं वायुदैवत्यं जुहुयात्करणेषु वै । देवेभ्यः पितृभ्यश्चेति पक्षयोश्शुक्लकृष्णयोः ॥ २५.१३१ ॥
kauberaṃ vāyudaivatyaṃ juhuyātkaraṇeṣu vai . devebhyaḥ pitṛbhyaśceti pakṣayośśuklakṛṣṇayoḥ .. 25.131 ..
सौरं चान्द्रं च जुहुयात्क्रमादयनयोर्द्वयोः । मधुश्च माधवऽश्चेति जुहुयादृतुषु क्रमाथ् ॥ २५.१३२ ॥
sauraṃ cāndraṃ ca juhuyātkramādayanayordvayoḥ . madhuśca mādhava'śceti juhuyādṛtuṣu kramāth .. 25.132 ..
विष्णुः प्रजापतिश्शूली विघ्नेशस्सप्त चर्षयः । अष्टौ लोकाधिपाः पञ्च भूता विश्वंभरादयः ॥ २५.१३३ ॥
viṣṇuḥ prajāpatiśśūlī vighneśassapta carṣayaḥ . aṣṭau lokādhipāḥ pañca bhūtā viśvaṃbharādayaḥ .. 25.133 ..
वसवोऽष्टौ च रोहिण्यस्सप्त श्रीश्चण्डिका गुहः । सूर्यस्सोमश्चिरञ्जीवी काशीवीशपुरर्दराः ॥ २५.१३४ ॥
vasavo'ṣṭau ca rohiṇyassapta śrīścaṇḍikā guhaḥ . sūryassomaścirañjīvī kāśīvīśapurardarāḥ .. 25.134 ..
चक्रश्शान्तो गुरुर्भ्ॐअबुधशुक्रशनैश्चराः । हविःपालो ह्यनस्तश्च गङ्गा ज्येष्ठा च मातरः ॥ २५.१३५ ॥
cakraśśānto gururbh_oṃabudhaśukraśanaiścarāḥ . haviḥpālo hyanastaśca gaṅgā jyeṣṭhā ca mātaraḥ .. 25.135 ..
प्रभवादि क्रमादेते विज्ञेया वत्सराधिपाः । तथोत्सवाधिदैवत्यं तिथिवारर्क्षदैवतं ॥ २५.१३६ ॥
prabhavādi kramādete vijñeyā vatsarādhipāḥ . tathotsavādhidaivatyaṃ tithivārarkṣadaivataṃ .. 25.136 ..
चतुर्दैवत्यमात्रन्तु जुहुयादिति के च न । पलाशबिल्वशामीलन्य ग्रोथोदुंबरास्तथा ॥ २५.१३७ ॥
caturdaivatyamātrantu juhuyāditi ke ca na . palāśabilvaśāmīlanya grothoduṃbarāstathā .. 25.137 ..
अश्वद्धखदिरप्ल क्षब्रह्मवृक्षाः क्रमादिमे । समिधां ग्राह्य वृक्षान्तु पर्णमश्वद्थमेव वा ॥ २५.१३८ ॥
aśvaddhakhadirapla kṣabrahmavṛkṣāḥ kramādime . samidhāṃ grāhya vṛkṣāntu parṇamaśvadthameva vā .. 25.138 ..
पद्मं च बिल्वपत्रं च करवीरं कुमुदं तथा । नन्द्यावर्तं च तुलसी तथैव स्थलपङ्कजं ॥ २५.१३९ ॥
padmaṃ ca bilvapatraṃ ca karavīraṃ kumudaṃ tathā . nandyāvartaṃ ca tulasī tathaiva sthalapaṅkajaṃ .. 25.139 ..
विष्णुक्रान्तारविन्दे तु पुष्पाण्येतान्यनुक्रमाथ् । अलाभे तुलसीं वाथ करवीरं च पङ्कजं ॥ २५.१४० ॥
viṣṇukrāntāravinde tu puṣpāṇyetānyanukramāth . alābhe tulasīṃ vātha karavīraṃ ca paṅkajaṃ .. 25.140 ..
मुद्गं निष्पावकं चैव कुलुद्धं माषयेव च । तिलानपूपान्लाजांश्च यवान्सक्तून्यथाक्रमं ॥ २५.१४१ ॥
mudgaṃ niṣpāvakaṃ caiva kuluddhaṃ māṣayeva ca . tilānapūpānlājāṃśca yavānsaktūnyathākramaṃ .. 25.141 ..
बलिद्रव्याणि चोक्तानि सर्वाभावे तु मौद्गिकं । एवमेव विधानेन द्विकालं होममाचरेथ् ॥ २५.१४२ ॥
balidravyāṇi coktāni sarvābhāve tu maudgikaṃ . evameva vidhānena dvikālaṃ homamācareth .. 25.142 ..
प्रातस्संध्यावसानेतु सायमर्चावसानके । होमं कृत्वा बलिं दद्याद्द्विकालं चोत्सवं चरेथ् ॥ २५.१४३ ॥
prātassaṃdhyāvasānetu sāyamarcāvasānake . homaṃ kṛtvā baliṃ dadyāddvikālaṃ cotsavaṃ careth .. 25.143 ..
उत्सवभ्रमणं वक्ष्ये देवदेवस्य शार्ङ्गिणः । बलिनिर्वापणान्ते तु सायं प्रातर्विशेषतः ॥ २५.१४४ ॥
utsavabhramaṇaṃ vakṣye devadevasya śārṅgiṇaḥ . balinirvāpaṇānte tu sāyaṃ prātarviśeṣataḥ .. 25.144 ..
देवदेवमलङ्कृत्य वस्त्राद्यैर्भूषणैश्शुभैः । सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोहरैः ॥ २५.१४५ ॥
devadevamalaṅkṛtya vastrādyairbhūṣaṇaiśśubhaiḥ . sugandhipuṣpamālābhirgandhairapi manoharaiḥ .. 25.145 ..
रथे वा शिबिकायां वा वीशस्कन्धेऽपि वा तथा । गजाश्वांदोलिकादौ वा वाहने समलङ्कृते ॥ २५.१४६ ॥
rathe vā śibikāyāṃ vā vīśaskandhe'pi vā tathā . gajāśvāṃdolikādau vā vāhane samalaṅkṛte .. 25.146 ..
अहमेवेदऽमन्त्रेण देवमारोप्य निश्चलं । अष्टोपचारैरभ्यर्च्य लाजापूपादिकांस्तथा ॥ २५.१४७ ॥
ahameveda'mantreṇa devamāropya niścalaṃ . aṣṭopacārairabhyarcya lājāpūpādikāṃstathā .. 25.147 ..
संक्कृतान्गुडसंमिश्रान्निवेद्य मुखवासकं । दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतं ॥ २५.१४८ ॥
saṃkkṛtānguḍasaṃmiśrānnivedya mukhavāsakaṃ . datvā vādyaissamāyuktaṃ sarvālaṅkārasaṃyutaṃ .. 25.148 ..
दासीभिर्वादकैश्यैव नृत्तगेयसमन्वितैः । ब्राह्मणैर्वेदविद्भिश्च समायुक्तं शनैश्सनैः ॥ २५.१४९ ॥
dāsībhirvādakaiśyaiva nṛttageyasamanvitaiḥ . brāhmaṇairvedavidbhiśca samāyuktaṃ śanaiśsanaiḥ .. 25.149 ..
ध्वजैश्चत्रैरातपत्रैस्तोरणैश्च तथैव च । संभृतैः संयुतं चान्यैस्सर्वैश्शृङ्गारलक्ष्मभिः ॥ २५.१५० ॥
dhvajaiścatrairātapatraistoraṇaiśca tathaiva ca . saṃbhṛtaiḥ saṃyutaṃ cānyaissarvaiśśṛṅgāralakṣmabhiḥ .. 25.150 ..
वालव्यजनहस्ताभिर्दासीभिः पार्श्वयोर्द्वयोः । वीज्यमानं विशेषेण तथा भक्तवरैरपि ॥ २५.१५१ ॥
vālavyajanahastābhirdāsībhiḥ pārśvayordvayoḥ . vījyamānaṃ viśeṣeṇa tathā bhaktavarairapi .. 25.151 ..
वाहये युर्द्विजा देवं ब्राह्मणा वेदपारगाः । दीपैरुदग्रैर्बहुभिः परिषिक्तैर्घृतादिना ॥ २५.१५२ ॥
vāhaye yurdvijā devaṃ brāhmaṇā vedapāragāḥ . dīpairudagrairbahubhiḥ pariṣiktairghṛtādinā .. 25.152 ..
परस्सहस्रैस्सर्वत्र दीपयेच्च शतावरैः । विप्रैस्त्रयीमधीयानैर्जपस्तुतिपरायणैः ॥ २५.१५३ ॥
parassahasraissarvatra dīpayecca śatāvaraiḥ . vipraistrayīmadhīyānairjapastutiparāyaṇaiḥ .. 25.153 ..
नृत्यता गायता मापि गाणिक्येन सुसेवितं । वीणादिवादिभिश्चैव वन्दिभिश्च तथा परैः ॥ २५.१५४ ॥
nṛtyatā gāyatā māpi gāṇikyena susevitaṃ . vīṇādivādibhiścaiva vandibhiśca tathā paraiḥ .. 25.154 ..
षड्जादिगीतनिपुणैर्वाद्यवादककोविदैः । गद्यं पद्यं तथा मिश्रं पथद्भिस्त्सोत्रमुज्ज्वलं ॥ २५.१५५ ॥
ṣaḍjādigītanipuṇairvādyavādakakovidaiḥ . gadyaṃ padyaṃ tathā miśraṃ pathadbhistsotramujjvalaṃ .. 25.155 ..
वै तण्डिकैस्तथा जल्पैर्निपुणैर्वादशिक्षितैः । तथा तत्त्वकथानिष्ठैः पदार्धज्ञैश्च तार्किकैः ॥ २५.१५६ ॥
vai taṇḍikaistathā jalpairnipuṇairvādaśikṣitaiḥ . tathā tattvakathāniṣṭhaiḥ padārdhajñaiśca tārkikaiḥ .. 25.156 ..
मीमांसकैर्याज्ञिकैश्च छान्दसैस्सांख्यकोविदैः । योगज्ञैश्च पुराणज्ञैश्शाब्दिकैस्तत्त्ववेदिभिः ॥ २५.१५७ ॥
mīmāṃsakairyājñikaiśca chāndasaissāṃkhyakovidaiḥ . yogajñaiśca purāṇajñaiśśābdikaistattvavedibhiḥ .. 25.157 ..
मौहूर्तिकैश्च गणशःपरस्परजीगीषुभिः । तत्तच्छास्त्रोकमार्गेण प्रमेयं च बहुस्थितं ॥ २५.१५८ ॥
mauhūrtikaiśca gaṇaśaḥparasparajīgīṣubhiḥ . tattacchāstrokamārgeṇa prameyaṃ ca bahusthitaṃ .. 25.158 ..
उच्चैर्ब्रुवाणैर्विद्वद्भिः पञ्चकालपरायणैः । वासुदेवस्य माहात्म्यं कथयद्भिश्चसात्त्विकैः ॥ २५.१५९ ॥
uccairbruvāṇairvidvadbhiḥ pañcakālaparāyaṇaiḥ . vāsudevasya māhātmyaṃ kathayadbhiścasāttvikaiḥ .. 25.159 ..
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यतैः । देवस्य पुरतःपृष्ठे पार्श्वतश्चस्थितैर्जनैः ॥ २५.१६० ॥
śāstreṣu naipuṇaṃ sarvaṃ pradarśayitumudyataiḥ . devasya purataḥpṛṣṭhe pārśvataścasthitairjanaiḥ .. 25.160 ..
सेनया सर्वतो दिक्षु चतुरङ्गबलाढ्यया । देवस्य पार्श्वयोः पूर्दे लाक्षारञ्जितमस्करैः ॥ २५.१६१ ॥
senayā sarvato dikṣu caturaṅgabalāḍhyayā . devasya pārśvayoḥ pūrde lākṣārañjitamaskaraiḥ .. 25.161 ..
यत्रैर्दारुमयैश्चित्रैः पक्ष्याकारैरितस्ततः । देवताकृतियन्त्रैश्च तथा यन्त्रैर्गजादिभिः ॥ २५.१६२ ॥
yatrairdārumayaiścitraiḥ pakṣyākārairitastataḥ . devatākṛtiyantraiśca tathā yantrairgajādibhiḥ .. 25.162 ..
निषादिभिस्समारूढैस्स्त्रीभिश्च भरतोदितैः । मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतं ॥ २५.१६३ ॥
niṣādibhissamārūḍhaisstrībhiśca bharatoditaiḥ . mārgairbahuvidhairnṛttaṃ darśayantībhiradbhutaṃ .. 25.163 ..
लेखायन्त्रैस्त्स्रियारूढैर्यन्त्रैरन्यैस्तथा विथैः । गतागतानि कुर्वाणैरनुयातं समाकुलैः ॥ २५.१६४ ॥
lekhāyantraistsriyārūḍhairyantrairanyaistathā vithaiḥ . gatāgatāni kurvāṇairanuyātaṃ samākulaiḥ .. 25.164 ..
शनैर्नयेज्जगन्नाथं यथाशक्ति समन्वितैः । आरभ्यावरणादाद्यादेषा परिवृतिर्भवेथ् ॥ २५.१६५ ॥
śanairnayejjagannāthaṃ yathāśakti samanvitaiḥ . ārabhyāvaraṇādādyādeṣā parivṛtirbhaveth .. 25.165 ..
देवेन सार्थमाचार्यो यानमारुह्य तत्र तु । रक्षार्थं देवदेवस्य ध्यायन्नुपविशेद्धरिं ॥ २५.१६६ ॥
devena sārthamācāryo yānamāruhya tatra tu . rakṣārthaṃ devadevasya dhyāyannupaviśeddhariṃ .. 25.166 ..
अर्चकश्च तथासीनस्सम्यगर्चनमाचरेथ् । आरोहणे गजेन्द्रस्य देवदेवं विशेषतः ॥ २५.१६७ ॥
arcakaśca tathāsīnassamyagarcanamācareth . ārohaṇe gajendrasya devadevaṃ viśeṣataḥ .. 25.167 ..
वस्त्राभरणपुष्बाद्यैरलङ्कृत्य यथार्हकं । देवेशं पूर्वमारोप्य हस्तेनादायचांकुशं ॥ २५.१६८ ॥
vastrābharaṇapuṣbādyairalaṅkṛtya yathārhakaṃ . deveśaṃ pūrvamāropya hastenādāyacāṃkuśaṃ .. 25.168 ..
निषीदेद्गजपृष्ठे तु देशिकस्स्वयमत्वरः । अर्चकश्छत्रमादाय तथा देवस्य धारयेथ् ॥ २५.१६९ ॥
niṣīdedgajapṛṣṭhe tu deśikassvayamatvaraḥ . arcakaśchatramādāya tathā devasya dhārayeth .. 25.169 ..
तोयधारां पुरस्कृत्य कुर्याद्भ्रमणमाचराथ् । ग्रामं प्रदक्षिणं कुर्याद्बलिर्येन पधा कृतः ॥ २५.१७० ॥
toyadhārāṃ puraskṛtya kuryādbhramaṇamācarāth . grāmaṃ pradakṣiṇaṃ kuryādbaliryena padhā kṛtaḥ .. 25.170 ..
तत्काले देवमायान्तं भक्ता भागवता जनाः । स्पगृहप्रांगणे चैव प्रत्युद्थाय पुनःपुनः ॥ २५.१७१ ॥
tatkāle devamāyāntaṃ bhaktā bhāgavatā janāḥ . spagṛhaprāṃgaṇe caiva pratyudthāya punaḥpunaḥ .. 25.171 ..
प्रणम्य चोपहारांश्च दद्युर्बहुविधान्बहून् । पत्रं पुष्पं फलं पूगं नागवल्लीदलान्यपि ॥ २५.१७२ ॥
praṇamya copahārāṃśca dadyurbahuvidhānbahūn . patraṃ puṣpaṃ phalaṃ pūgaṃ nāgavallīdalānyapi .. 25.172 ..
दक्षिणां च विशेषेण यथाशक्ति यथारुचि । नीराजनादि कुर्युश्च बालवृद्धातुरास्तदा ॥ २५.१७३ ॥
dakṣiṇāṃ ca viśeṣeṇa yathāśakti yathāruci . nīrājanādi kuryuśca bālavṛddhāturāstadā .. 25.173 ..
तपोभिर्बहुभिर्गम्ये स्वयमेव परात्परे । भक्तानुकंपया देवे स्पगृहद्वारमागते ॥ २५.१७४ ॥
tapobhirbahubhirgamye svayameva parātpare . bhaktānukaṃpayā deve spagṛhadvāramāgate .. 25.174 ..
को न नन्दति मूढात्मा तस्य का निष्कृतिर्भवेथ् । तत्काले चार्पितं द्रव्यं यदपक्वं प्रगृह्य च ॥ २५.१७५ ॥
ko na nandati mūḍhātmā tasya kā niṣkṛtirbhaveth . tatkāle cārpitaṃ dravyaṃ yadapakvaṃ pragṛhya ca .. 25.175 ..
आमन्त्रं तु निवेद्यैव भगवत्प्रियमाचरेथ् । उपहारेषु तत्रार्धं गृह्णीयाद्भागमर्चकः ॥ २५.१७६ ॥
āmantraṃ tu nivedyaiva bhagavatpriyamācareth . upahāreṣu tatrārdhaṃ gṛhṇīyādbhāgamarcakaḥ .. 25.176 ..
नागवल्लीदलं पुष्पं क्रमुकं दक्षिणादिकं । सर्वमर्चकसर्वस्वं गृह्णीयादर्चकस्स्वयं ॥ २५.१७७ ॥
nāgavallīdalaṃ puṣpaṃ kramukaṃ dakṣiṇādikaṃ . sarvamarcakasarvasvaṃ gṛhṇīyādarcakassvayaṃ .. 25.177 ..
तत्काले भक्तिनम्रेभ्यस्संप्राप्तेभ्यश्च सन्निधिं । भगदत्पादुकां दद्याच्छिरसि श्रद्धया गुरुः ॥ २५.१७८ ॥
tatkāle bhaktinamrebhyassaṃprāptebhyaśca sannidhiṃ . bhagadatpādukāṃ dadyācchirasi śraddhayā guruḥ .. 25.178 ..
शिरसा धारणे मर्त्यैस्स्पृष्टिदोषो न विद्यते । न नयेत्पादुकां विष्णोर्दूरीकृत्य तु सन्निधिं ॥ २५.१७९ ॥
śirasā dhāraṇe martyaisspṛṣṭidoṣo na vidyate . na nayetpādukāṃ viṣṇordūrīkṛtya tu sannidhiṃ .. 25.179 ..
न गृहद्वारसीमान्तं नयेत्तां गृहिणां गुरुः । इष्टं राजगृहे स्त्रीभिः पादुकाधारणं यदि ॥ २५.१८० ॥
na gṛhadvārasīmāntaṃ nayettāṃ gṛhiṇāṃ guruḥ . iṣṭaṃ rājagṛhe strībhiḥ pādukādhāraṇaṃ yadi .. 25.180 ..
देहलीमनतिक्रम्य नेयात्तां दीपिकान्वितां । तदा दीपैस्तथान्यैश्च राजार्हैश्च परिच्छदैः ॥ २५.१८१ ॥
dehalīmanatikramya neyāttāṃ dīpikānvitāṃ . tadā dīpaistathānyaiśca rājārhaiśca paricchadaiḥ .. 25.181 ..
नेया स्यात्पादुका विष्णोः प्रणिधिस्सा यतो हरेः । तस्सन्निधिमतिक्रम्य पूजकस्तु न जातु चिथ् ॥ २५.१८२ ॥
neyā syātpādukā viṣṇoḥ praṇidhissā yato hareḥ . tassannidhimatikramya pūjakastu na jātu cith .. 25.182 ..
आदानायोपहाराणां प्रयायाद्गृहिणां गृहान् । नापि कार्यान्तरासक्तः पञ्चहस्तानति क्रमेथ् ॥ २५.१८३ ॥
ādānāyopahārāṇāṃ prayāyādgṛhiṇāṃ gṛhān . nāpi kāryāntarāsaktaḥ pañcahastānati krameth .. 25.183 ..
एष श्रेष्ठोपचारस्स्याद्यतस्सम्मान्यते हरिः । एवं प्रदक्षिणं नीत्वा निवर्तेतालयं प्रति ॥ २५.१८४ ॥
eṣa śreṣṭhopacārassyādyatassammānyate hariḥ . evaṃ pradakṣiṇaṃ nītvā nivartetālayaṃ prati .. 25.184 ..
गोपुराग्रेतु देवेशं कृत्वा देवोन्मुखं क्रमाथ् । अर्घ्यपाद्यादिनाभ्यर्च्य निवेद्य पृथुकादिकं ॥ २५.१८५ ॥
gopurāgretu deveśaṃ kṛtvā devonmukhaṃ kramāth . arghyapādyādinābhyarcya nivedya pṛthukādikaṃ .. 25.185 ..
धामप्रदक्षिणं नीत्वा पुनराविश्य चालयं । अवरोप्य च देवेशं स्थाप्य चास्थानमण्डपे ॥ २५.१८६ ॥
dhāmapradakṣiṇaṃ nītvā punarāviśya cālayaṃ . avaropya ca deveśaṃ sthāpya cāsthānamaṇḍape .. 25.186 ..
पाद्यमाचमनं दत्वा मुखवासं प्रदाय च । कौतुकं तु विसृज्यैव शुद्धोदैस्स्नापयेत्प्रभुं ॥ २५.१८७ ॥
pādyamācamanaṃ datvā mukhavāsaṃ pradāya ca . kautukaṃ tu visṛjyaiva śuddhodaissnāpayetprabhuṃ .. 25.187 ..
विमृज्य प्लोतवस्त्रेण समलङ्कृत्य पूर्ववथ् । कौतुकं पुनराबद्ध्य हविःपश्चान्निवेदयेथ् ॥ २५.१८८ ॥
vimṛjya plotavastreṇa samalaṅkṛtya pūrvavath . kautukaṃ punarābaddhya haviḥpaścānnivedayeth .. 25.188 ..
कुर्याद्राजोपचाराणि स हि राजा जगत्प्रभुः । विनोदं कारयेच्चैव नृत्तगीतादिभिर्बहु ॥ २५.१८९ ॥
kuryādrājopacārāṇi sa hi rājā jagatprabhuḥ . vinodaṃ kārayeccaiva nṛttagītādibhirbahu .. 25.189 ..
ततः प्रणम्य देवेशं पूर्वस्थाने निवेशयेथ् । प्रथमेऽहनि सायेतु कर्तव्यमिदमीरितं ॥ २५.१९० ॥
tataḥ praṇamya deveśaṃ pūrvasthāne niveśayeth . prathame'hani sāyetu kartavyamidamīritaṃ .. 25.190 ..
द्वितीयाहःप्रभृत्येव सायं प्रातश्च नित्यशः । नित्यार्चनान्ते द्विगुणमर्चयेच्च निवेदयेथ् ॥ २५.१९१ ॥
dvitīyāhaḥprabhṛtyeva sāyaṃ prātaśca nityaśaḥ . nityārcanānte dviguṇamarcayecca nivedayeth .. 25.191 ..
कुंभदेवान्समाराध्य ध्वजदेवार्चनं चरेथ् । होमं बलिं च दत्वातु कारयेदुत्सवं तथा ॥ २५.१९२ ॥
kuṃbhadevānsamārādhya dhvajadevārcanaṃ careth . homaṃ baliṃ ca datvātu kārayedutsavaṃ tathā .. 25.192 ..
तृतीये पञ्चयेऽवाह्नि प्रातस्स्याद्गरुडोत्सवः । षष्ठेऽहनि तु मध्याह्ने देवीभ्यां सहितं हरिं ॥ २५.१९३ ॥
tṛtīye pañcaye'vāhni prātassyādgaruḍotsavaḥ . ṣaṣṭhe'hani tu madhyāhne devībhyāṃ sahitaṃ hariṃ .. 25.193 ..
पीठमध्ये समारोप्य समभ्यर्च्याष्टविग्रहैः । जलकुङ्कुममादाय कारयेदुत्सवं तथा ॥ २५.१९४ ॥
pīṭhamadhye samāropya samabhyarcyāṣṭavigrahaiḥ . jalakuṅkumamādāya kārayedutsavaṃ tathā .. 25.194 ..
नववस्त्रादिकं दत्वा पृथुकानि निवेद्य च । दत्वा तांबूलमाचाममर्चयेद्राजवत्प्रभुं ॥ २५.१९५ ॥
navavastrādikaṃ datvā pṛthukāni nivedya ca . datvā tāṃbūlamācāmamarcayedrājavatprabhuṃ .. 25.195 ..
सप्तमे प्रातरर्चान्ते कुर्यात्सप्तर्षिपूजनं । वृणुयादृत्विजस्सप्ततदाचार्यपुरस्सरान् ॥ २५.१९६ ॥
saptame prātararcānte kuryātsaptarṣipūjanaṃ . vṛṇuyādṛtvijassaptatadācāryapurassarān .. 25.196 ..
ध्यात्वा सप्तर्षिवत्तांस्तु स्वर्णं गामाज्यमेव च । तण्डुलोदककुंभादीन्दूर्वाग्रं क्रमुकं तथा ॥ २५.१९७ ॥
dhyātvā saptarṣivattāṃstu svarṇaṃ gāmājyameva ca . taṇḍulodakakuṃbhādīndūrvāgraṃ kramukaṃ tathā .. 25.197 ..
दद्यात्प्रभूतं तेभ्यन्तु ब्राह्मणेभ्यः पृथक्पृथक् । तत्सायं च विशेषेण कृष्णगन्धानुलेपनं ॥ २५.१९८ ॥
dadyātprabhūtaṃ tebhyantu brāhmaṇebhyaḥ pṛthakpṛthak . tatsāyaṃ ca viśeṣeṇa kṛṣṇagandhānulepanaṃ .. 25.198 ..
सद्यः प्रतिसरं बद्ध्वा देवाग्रे स्थण्डिलं चरेथ् । कृष्णागुरु समादाय सर्ववाद्यसमायुतं ॥ २५.१९९ ॥
sadyaḥ pratisaraṃ baddhvā devāgre sthaṇḍilaṃ careth . kṛṣṇāguru samādāya sarvavādyasamāyutaṃ .. 25.199 ..
ग्रामं प्रदक्षिणं कृत्वा स्थण्डिलोपरि विन्यसेथ् । पुण्याहं विधिवत्कृत्वा श्रियमावाह्य तत्र च ॥ २५.२०० ॥
grāmaṃ pradakṣiṇaṃ kṛtvā sthaṇḍilopari vinyaseth . puṇyāhaṃ vidhivatkṛtvā śriyamāvāhya tatra ca .. 25.200 ..
संस्कृत्य विधिवद्गन्धान्समभ्यर्च्य हरिं ततः । गन्धद्वारेऽति मन्त्रेण सर्वाङ्गं लेपयेद्गुरुः ॥ २५.२०१ ॥
saṃskṛtya vidhivadgandhānsamabhyarcya hariṃ tataḥ . gandhadvāre'ti mantreṇa sarvāṅgaṃ lepayedguruḥ .. 25.201 ..
देव्यादीनां तथा कुर्यात्तत्तन्मन्त्रैर्यथाविधि । तच्छेषगन्धं भक्त्यैव भक्तेभ्यो दापयेद्गुरुः ॥ २५.२०२ ॥
devyādīnāṃ tathā kuryāttattanmantrairyathāvidhi . taccheṣagandhaṃ bhaktyaiva bhaktebhyo dāpayedguruḥ .. 25.202 ..
तद्गन्धधारणान्नॄणां भदेयुस्सर्वसंपदः । सायमर्चावसाने तु रथयात्रां समाचरेथ् ॥ २५.२०३ ॥
tadgandhadhāraṇānnṝṇāṃ bhadeyussarvasaṃpadaḥ . sāyamarcāvasāne tu rathayātrāṃ samācareth .. 25.203 ..
अष्टमे दिवसे प्राप्ते समाप्ते प्रातरुत्सवे । अलङ्कृत्य तु देवेशं मृगयोत्सवमाचरेथ् ॥ २५.२०४ ॥
aṣṭame divase prāpte samāpte prātarutsave . alaṅkṛtya tu deveśaṃ mṛgayotsavamācareth .. 25.204 ..
मध्याह्ने देवदेवस्य जलक्रीडोत्सवं चरेथ् । प्रपां कृत्वा विधानेन नद्यादीनां तटे बुधः ॥ २५.२०५ ॥
madhyāhne devadevasya jalakrīḍotsavaṃ careth . prapāṃ kṛtvā vidhānena nadyādīnāṃ taṭe budhaḥ .. 25.205 ..
वितानाद्यैरलङ्कृत्य जलक्रीडार्थमण्टपं । बिंबाध्यर्धायतामर्धविस्तारां बिंबदघ्निकां ॥ २५.२०६ ॥
vitānādyairalaṅkṛtya jalakrīḍārthamaṇṭapaṃ . biṃbādhyardhāyatāmardhavistārāṃ biṃbadaghnikāṃ .. 25.206 ..
जलद्रोणीमथाच्छिद्रां न्यस्य लोहमयीं घनां । नादेयाद्भिस्समापूर्व धारास्विऽति च मन्त्रतः ॥ २५.२०७ ॥
jaladroṇīmathācchidrāṃ nyasya lohamayīṃ ghanāṃ . nādeyādbhissamāpūrva dhārāsvi'ti ca mantrataḥ .. 25.207 ..
एलाचन्दनकर्बूरैः कुङ्कुमेनाधिवासयेथ् । कल्हारकेतकीपुष्पैरुशीरागुरुभिस्तथा ॥ २५.२०८ ॥
elācandanakarbūraiḥ kuṅkumenādhivāsayeth . kalhāraketakīpuṣpairuśīrāgurubhistathā .. 25.208 ..
आस्तीर्य नववस्त्राणि "वेदाहऽमिति मन्त्रतः । पुण्यतीर्थं शिवं पुण्यं देवावासऽमिति ब्रुवन् ॥ २५.२०९ ॥
āstīrya navavastrāṇi "vedāha'miti mantrataḥ . puṇyatīrthaṃ śivaṃ puṇyaṃ devāvāsa'miti bruvan .. 25.209 ..
अधिदेवं समावाह्य विग्रहैरष्टभिर्यजेथ् । मण्डपे पश्चिमार्धे तु विष्टरे सोत्तरछदे ॥ २५.२१० ॥
adhidevaṃ samāvāhya vigrahairaṣṭabhiryajeth . maṇḍape paścimārdhe tu viṣṭare sottarachade .. 25.210 ..
देवदेवं समास्थाप्य शकुनसूक्तं समुच्चरन् । नववस्त्रोत्तरीयाद्यैरलङ्कृत्य मनोहरं ॥ २५.२११ ॥
devadevaṃ samāsthāpya śakunasūktaṃ samuccaran . navavastrottarīyādyairalaṅkṛtya manoharaṃ .. 25.211 ..
पाद्यादिभिस्समभ्यर्च्य स्थापगैस्सहितो गुरुः । भूः प्रपद्येऽति मन्त्रेण देवदेवं प्रणम्य च ॥ २५.२१२ ॥
pādyādibhissamabhyarcya sthāpagaissahito guruḥ . bhūḥ prapadye'ti mantreṇa devadevaṃ praṇamya ca .. 25.212 ..
परं रंहेऽति मन्त्रेण देवमादायचादराथ् । प्रतद्विष्णुस्त्सवतऽइति जलद्रोण्यां निवेश्य च ॥ २५.२१३ ॥
paraṃ raṃhe'ti mantreṇa devamādāyacādarāth . pratadviṣṇustsavata'iti jaladroṇyāṃ niveśya ca .. 25.213 ..
इन्द्रादी श्च जयादीश्च तण्डुलैःक्ज्प्तमण्डले । समावाह्य समभ्यर्च्येज्जलद्रोण्यभितो गुरुः ॥ २५.२१४ ॥
indrādī śca jayādīśca taṇḍulaiḥkjptamaṇḍale . samāvāhya samabhyarcyejjaladroṇyabhito guruḥ .. 25.214 ..
अपो हि ष्ठाऽदि मन्त्रां स्त्रीननुवाकान्त्समुच्चरन् । इदमापश्शिऽवेत्युक्त्वा "आपो वा इदऽमुच्चरन् ॥ २५.२१५ ॥
apo hi ṣṭhā'di mantrāṃ strīnanuvākāntsamuccaran . idamāpaśśi'vetyuktvā "āpo vā ida'muccaran .. 25.215 ..
अभिमन्त्ष जलद्रोण्यां देवदेवं प्रणम्य च । पौरुषं सूक्तमुच्चार्य विष्णुसूक्तं च वैष्णवं ॥ २५.२१६ ॥
abhimantṣa jaladroṇyāṃ devadevaṃ praṇamya ca . pauruṣaṃ sūktamuccārya viṣṇusūktaṃ ca vaiṣṇavaṃ .. 25.216 ..
इषे त्वोर्जेऽत्वादि जपन्भूरानिलयऽ इत्यपि । मङ्जयित्वा जलद्रोण्यां देवं प्राक्छिरसं हरिं ॥ २५.२१७ ॥
iṣe tvorje'tvādi japanbhūrānilaya' ityapi . maṅjayitvā jaladroṇyāṃ devaṃ prākchirasaṃ hariṃ .. 25.217 ..
अधिवास्यतु यामार्धं यामद्वयमथापि वा । परं रंऽहेति मन्त्रेण तत उद्धृत्यवै पुनः ॥ २५.२१८ ॥
adhivāsyatu yāmārdhaṃ yāmadvayamathāpi vā . paraṃ raṃ'heti mantreṇa tata uddhṛtyavai punaḥ .. 25.218 ..
अलङ्कृत्य च वस्त्राद्यैर्यथार्हं परिपूज्य च । यानमारोप्य देवेशं ग्राममालयमेव वा ॥ २५.२१९ ॥
alaṅkṛtya ca vastrādyairyathārhaṃ paripūjya ca . yānamāropya deveśaṃ grāmamālayameva vā .. 25.219 ..
प्रदक्षिणं क्रमान्नीत्वा सर्वालङ्कालसंयुतं । ग्रामवीथ्यामुपहृतमुपहालमगृह्य च ॥ २५.२२० ॥
pradakṣiṇaṃ kramānnītvā sarvālaṅkālasaṃyutaṃ . grāmavīthyāmupahṛtamupahālamagṛhya ca .. 25.220 ..
पुनरालयमाविश्य संस्थाप्यास्थानमण्डपे । सुगन्धितैलेनाभ्यज्य देवं संस्नाप्य पूर्ववथ् ॥ २५.२२१ ॥
punarālayamāviśya saṃsthāpyāsthānamaṇḍape . sugandhitailenābhyajya devaṃ saṃsnāpya pūrvavath .. 25.221 ..
जीवस्थाने समास्थाप्य समभ्यर्च्य निवेदयेथ् । तद्रात्रावुत्सवान्तेतु देवं देवीयुतं हरिं ॥ २५.२२२ ॥
jīvasthāne samāsthāpya samabhyarcya nivedayeth . tadrātrāvutsavāntetu devaṃ devīyutaṃ hariṃ .. 25.222 ..
प्रतिष्ठोक्तविधानेन बद्ध्वा प्रतिसरं ततः । अधिवासविधानेन शयने शाययेद्गुरुः ॥ २५.२२३ ॥
pratiṣṭhoktavidhānena baddhvā pratisaraṃ tataḥ . adhivāsavidhānena śayane śāyayedguruḥ .. 25.223 ..
प्रभाते देवसुत्थाप्य पाद्याद्यर्घ्यान्तमर्चयेथ् । तस्मिन्तीर्थदिने प्रातर्हेमाद्यं प्रातरुत्सवं ॥ २५.२२४ ॥
prabhāte devasutthāpya pādyādyarghyāntamarcayeth . tasmintīrthadine prātarhemādyaṃ prātarutsavaṃ .. 25.224 ..
कृत्वा हविर्विना देवमभ्यर्च्यास्थानमण्डपे । प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च ॥ २५.२२५ ॥
kṛtvā havirvinā devamabhyarcyāsthānamaṇḍape . pramukhe garuḍaṃ paścāddakṣiṇe cakrameva ca .. 25.225 ..
अमितं चोत्तरेधीमान्धान्यपीठोपरि न्यसेथ् । नित्यपूजां हविर्दानं ध्रुवबेरे समाचरेथ् ॥ २५.२२६ ॥
amitaṃ cottaredhīmāndhānyapīṭhopari nyaseth . nityapūjāṃ havirdānaṃ dhruvabere samācareth .. 25.226 ..
पूर्वालङ्कृतवस्त्रादीन्विसृज्यैव प्रयत्नतः । अन्यवस्त्राणिचाच्छाद्य यथार्हं भूष्य भूषणैः ॥ २५.२२७ ॥
pūrvālaṅkṛtavastrādīnvisṛjyaiva prayatnataḥ . anyavastrāṇicācchādya yathārhaṃ bhūṣya bhūṣaṇaiḥ .. 25.227 ..
अष्टोपचारैरभ्यर्च्य देवं चक्रादिदेवताः । व्रीहिभिस्थ्संडिलं कृत्वा द्विहस्तायतविस्तृतं ॥ २५.२२८ ॥
aṣṭopacārairabhyarcya devaṃ cakrādidevatāḥ . vrīhibhisthsaṃḍilaṃ kṛtvā dvihastāyatavistṛtaṃ .. 25.228 ..
उलूखलं च मुसलं स्थाप्य वस्त्रेण संयुतं । तयोरीशौ क्रमेणैव ब्रह्येशावर्चयेद्बुधः ॥ २५.२२९ ॥
ulūkhalaṃ ca musalaṃ sthāpya vastreṇa saṃyutaṃ . tayorīśau krameṇaiva brahyeśāvarcayedbudhaḥ .. 25.229 ..
पात्रे हरिद्रां संगृह्य सिनीवालीमथार्ऽच्य च । उलूखले हरिद्रां च तन्मन्त्रेण विनिक्षिपेथ् ॥ २५.२३० ॥
pātre haridrāṃ saṃgṛhya sinīvālīmathār'cya ca . ulūkhale haridrāṃ ca tanmantreṇa vinikṣipeth .. 25.230 ..
गृहीत्वा वैष्णवैर्मन्त्रैराचार्यो मुसलं तथा । विष्णुसूक्तं समुच्चार्य किञ्चित्तदवघातयेथ् ॥ २५.२३१ ॥
gṛhītvā vaiṣṇavairmantrairācāryo musalaṃ tathā . viṣṇusūktaṃ samuccārya kiñcittadavaghātayeth .. 25.231 ..
भक्तैर्वा देवदासीभिश्चूर्णीकृत्य विशेषतः । एकस्मिन्वाद्वयोर्वाथ त्रिषु वा कलशेषुवै ॥ २५.२३२ ॥
bhaktairvā devadāsībhiścūrṇīkṛtya viśeṣataḥ . ekasminvādvayorvātha triṣu vā kalaśeṣuvai .. 25.232 ..
गन्धोषितं च वादैलमाढकं परिगृह्यच । पिधाय च पिधानैश्च स्थण्डिलोपरि विन्यसेथ् ॥ २५.२३३ ॥
gandhoṣitaṃ ca vādailamāḍhakaṃ parigṛhyaca . pidhāya ca pidhānaiśca sthaṇḍilopari vinyaseth .. 25.233 ..
आच्छाद्य नववस्त्रेण सोमं तैले समर्चयेथ् । सिनीवालीं च तच्चूर्णे चक्रादींश्च प्रपूजयेथ् ॥ २५.२३४ ॥
ācchādya navavastreṇa somaṃ taile samarcayeth . sinīvālīṃ ca taccūrṇe cakrādīṃśca prapūjayeth .. 25.234 ..
देवमभ्यर्च्य पुण्याहं वाचयन्वैष्णवं गुरुः । संस्राव्य मूर्थ्नि तत्तैलं वेदाहऽमिति मन्त्रतः ॥ २५.२३५ ॥
devamabhyarcya puṇyāhaṃ vācayanvaiṣṇavaṃ guruḥ . saṃsrāvya mūrthni tattailaṃ vedāha'miti mantrataḥ .. 25.235 ..
हारिद्रचूर्णैस्संस्नाप्य चक्रादीन्स्नापयेत्ततः । तच्छिष्टं धारयन्भक्तस्सर्वपापैः प्रमुच्यते ॥ २५.२३६ ॥
hāridracūrṇaissaṃsnāpya cakrādīnsnāpayettataḥ . tacchiṣṭaṃ dhārayanbhaktassarvapāpaiḥ pramucyate .. 25.236 ..
अथ याने समारोप्य देवं चक्रादिभिस्सह । चूर्णोत्सवमिमं कृत्वा तीर्थोत्सवमथाचरेथ् ॥ २५.२३७ ॥
atha yāne samāropya devaṃ cakrādibhissaha . cūrṇotsavamimaṃ kṛtvā tīrthotsavamathācareth .. 25.237 ..
देवखातं यदि फवेत्तीर्थं तत्र प्रशस्यते । नद्यादितीरे संस्थाप्य देवीभ्यां सह वा विना ॥ २५.२३८ ॥
devakhātaṃ yadi phavettīrthaṃ tatra praśasyate . nadyāditīre saṃsthāpya devībhyāṃ saha vā vinā .. 25.238 ..
चक्रादीन्पूर्ववत्स्थाप्य प्रमुखे स्थण्डिलं चरेथ् । द्रव्येणापूर्व कलशान्गायत्रीमन्त्रमुच्चरन् ॥ २५.२३९ ॥
cakrādīnpūrvavatsthāpya pramukhe sthaṇḍilaṃ careth . dravyeṇāpūrva kalaśāngāyatrīmantramuccaran .. 25.239 ..
मध्ये सिद्धार्थकं न्यस्य प्राच्यां स्यादक्षतोदकं । दक्षिणे गन्धतोयं स्यात्पश्चिमे तु कुशोदकं ॥ २५.२४० ॥
madhye siddhārthakaṃ nyasya prācyāṃ syādakṣatodakaṃ . dakṣiṇe gandhatoyaṃ syātpaścime tu kuśodakaṃ .. 25.240 ..
जप्योदकं चोत्तरे स्याद्विदिशासु च मध्यतः । उपस्नानानि विन्यस्य क्रमात्तदधिपान्गुरुः ॥ २५.२४१ ॥
japyodakaṃ cottare syādvidiśāsu ca madhyataḥ . upasnānāni vinyasya kramāttadadhipānguruḥ .. 25.241 ..
आदित्यानप्सरसश्च काश्यपं च गुरुं तथा । ऋतूंश्च मरुतश्चैव मुनीं स्तक्षकमेव च ॥ २५.२४२ ॥
ādityānapsarasaśca kāśyapaṃ ca guruṃ tathā . ṛtūṃśca marutaścaiva munīṃ stakṣakameva ca .. 25.242 ..
मन्त्रान्विद्याधरांश्चैव क्रमेणावाह्यचार्चयेथ् । पूतस्तऽस्येति मन्त्रेण इमा ओषधयऽइत्यपि ॥ २५.२४३ ॥
mantrānvidyādharāṃścaiva krameṇāvāhyacārcayeth . pūtasta'syeti mantreṇa imā oṣadhaya'ityapi .. 25.243 ..
अभि त्वा शूरऽचत्वारिऽ"पूतस्तन्येऽतिचक्रमाथ् । कलशैः पञ्चभिस्स्नाप्यतत्तद्द्रव्यान्तरे क्रमाथ् ॥ २५.२४४ ॥
abhi tvā śūra'catvāri'"pūtastanye'ticakramāth . kalaśaiḥ pañcabhissnāpyatattaddravyāntare kramāth .. 25.244 ..
वारीश्चतस्रऽइत्युक्त्वा चोपस्नानं समाचरेथ् । शिष्टाभिः कलशाद्भिश्च चक्राधीनभिषिच्य च ॥ २५.२४५ ॥
vārīścatasra'ityuktvā copasnānaṃ samācareth . śiṣṭābhiḥ kalaśādbhiśca cakrādhīnabhiṣicya ca .. 25.245 ..
प्रविश्य तु जलं तत्र वरुणं चार्चयेत्क्रमाथ् । हस्ताभ्यां चक्रमादाय देवं भक्तैस्समन्वितः ॥ २५.२४६ ॥
praviśya tu jalaṃ tatra varuṇaṃ cārcayetkramāth . hastābhyāṃ cakramādāya devaṃ bhaktaissamanvitaḥ .. 25.246 ..
आचार्यः प्रथमं तीर्थे चक्रं स्सृष्ट्यावगाहयेथ् । नाभिदघ्नजले तत्र जलमध्ये तु सुस्थितः ॥ २५.२४७ ॥
ācāryaḥ prathamaṃ tīrthe cakraṃ ssṛṣṭyāvagāhayeth . nābhidaghnajale tatra jalamadhye tu susthitaḥ .. 25.247 ..
चक्रं देवं हृदि स्थाप्य हस्ताभ्यां धारयन्दृढं । ये ते शतंऽ समुच्चार्य प्राङ्मुखो वाप्युदङ्मुखः ॥ २५.२४८ ॥
cakraṃ devaṃ hṛdi sthāpya hastābhyāṃ dhārayandṛḍhaṃ . ye te śataṃ' samuccārya prāṅmukho vāpyudaṅmukhaḥ .. 25.248 ..
निमज्जयेत्तदा चक्रं सर्ववाद्ययुतं गुरुः । जनास्सर्वे च तत्तीर्थे स्नात्वा विगतकल्मषाः ॥ २५.२४९ ॥
nimajjayettadā cakraṃ sarvavādyayutaṃ guruḥ . janāssarve ca tattīrthe snātvā vigatakalmaṣāḥ .. 25.249 ..
भवेयुरश्वमेधस्य फलं च समवाप्नुयुः । ततस्तीरे प्रतिष्ठाप्य विष्टरे चक्रमुत्तमे ॥ २५.२५० ॥
bhaveyuraśvamedhasya phalaṃ ca samavāpnuyuḥ . tatastīre pratiṣṭhāpya viṣṭare cakramuttame .. 25.250 ..
कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः । ततो विसृज्य वस्त्रादीन्देवं चान्यैर्विभूष्य च ॥ २५.२५१ ॥
kuryādavabhṛthasnānaṃ śuddhasnānoktamārgataḥ . tato visṛjya vastrādīndevaṃ cānyairvibhūṣya ca .. 25.251 ..
तत्रैव नसस्नांभारान्संभृत्य विधिना गुरुः । देवीभ्यां सह देवेशं स्नापयेत्पूर्ववत्प्रभुं ॥ २५.२५२ ॥
tatraiva nasasnāṃbhārānsaṃbhṛtya vidhinā guruḥ . devībhyāṃ saha deveśaṃ snāpayetpūrvavatprabhuṃ .. 25.252 ..
अलङ्कृत्य विशेषेण कुर्यादर्घ्यान्तपूजनं । पश्चाद्देवं समादाय सर्वालङ्कारसंयुतं ॥ २५.२५३ ॥
alaṅkṛtya viśeṣeṇa kuryādarghyāntapūjanaṃ . paścāddevaṃ samādāya sarvālaṅkārasaṃyutaṃ .. 25.253 ..
शाकुनं सूक्तमुच्चार्य नीत्वा ग्रामं प्रदक्षिणं । देवालयं प्रविश्याथस्थाप्य चास्थानमण्डपे ॥ २५.२५४ ॥
śākunaṃ sūktamuccārya nītvā grāmaṃ pradakṣiṇaṃ . devālayaṃ praviśyāthasthāpya cāsthānamaṇḍape .. 25.254 ..
पाद्यादिभिस्समभ्यर्च्य वेदानध्यापयेत्क्रमाथ् । मुहुःपुष्पांजलिं दत्वाजीवस्थाने निवेशयेथ् ॥ २५.२५५ ॥
pādyādibhissamabhyarcya vedānadhyāpayetkramāth . muhuḥpuṣpāṃjaliṃ datvājīvasthāne niveśayeth .. 25.255 ..
चक्रादीनपि चादाय तत्तत्थ्साने निवेश्य च । पुण्याहं वाचयित्वातु प्रोक्षणेः प्रोक्षणं चरेथ् ॥ २५.२५६ ॥
cakrādīnapi cādāya tattatthsāne niveśya ca . puṇyāhaṃ vācayitvātu prokṣaṇeḥ prokṣaṇaṃ careth .. 25.256 ..
नित्यपूजं समाप्यैव हविर्दद्याद्विशेषतः । यागशालां समासाद्य हुत्वाग्निषु च वैष्णवं ॥ २५.२५७ ॥
nityapūjaṃ samāpyaiva havirdadyādviśeṣataḥ . yāgaśālāṃ samāsādya hutvāgniṣu ca vaiṣṇavaṃ .. 25.257 ..
कुंभस्थां शक्तिमादाय ध्रुवबेरेऽवरोपयेथ् । अन्तहोमं च हुत्वाग्निं नित्यकुण्डेप्रणीय च ॥ २५.२५८ ॥
kuṃbhasthāṃ śaktimādāya dhruvabere'varopayeth . antahomaṃ ca hutvāgniṃ nityakuṇḍepraṇīya ca .. 25.258 ..
तद्रात्रौ नित्यहोमान्ते बलिं दत्वा च पूर्ववथ् । पश्चाच्चक्रं विना दद्याद्बलिं शुद्धान्न कल्पितं ॥ २५.२५९ ॥
tadrātrau nityahomānte baliṃ datvā ca pūrvavath . paścāccakraṃ vinā dadyādbaliṃ śuddhānna kalpitaṃ .. 25.259 ..
पूर्वोक्तेनैव मार्गेण सर्वत्र बलिमाचरेथ् । चैत्यस्थाने प्रपायां तु उत्याने वृक्षमूलके ॥ २५.२६० ॥
pūrvoktenaiva mārgeṇa sarvatra balimācareth . caityasthāne prapāyāṃ tu utyāne vṛkṣamūlake .. 25.260 ..
तटाके निर्झरे कूपवापीवल्मीकपार्श्वके । श्मशानेऽन्यत्र देवाग्रे वीथ्यन्तेषु च निक्षिपसेथ् ॥ २५.२६१ ॥
taṭāke nirjhare kūpavāpīvalmīkapārśvake . śmaśāne'nyatra devāgre vīthyanteṣu ca nikṣipaseth .. 25.261 ..
पुनरालयमाविश्य स्नात्वा चाप्यग्निसन्निधौ । ध्वजमूलं समासाद्य सर्ववाद्य समायुतं ॥ २५.२६२ ॥
punarālayamāviśya snātvā cāpyagnisannidhau . dhvajamūlaṃ samāsādya sarvavādya samāyutaṃ .. 25.262 ..
ध्वचावरोहणं कुर्याद्ध्वजमत्रं समुच्चरन् । तद्ध्वजं तु समादाय प्रादक्षिण्यक्रमेण वै ॥ २५.२६३ ॥
dhvacāvarohaṇaṃ kuryāddhvajamatraṃ samuccaran . taddhvajaṃ tu samādāya prādakṣiṇyakrameṇa vai .. 25.263 ..
परीत्य मन्दिरं पश्चात्प्रविश्याभ्यन्तरं पुनः । देवस्य पादमूले तु न्यस्य पुष्पाञ्जलिं ददेथ् ॥ २५.२६४ ॥
parītya mandiraṃ paścātpraviśyābhyantaraṃ punaḥ . devasya pādamūle tu nyasya puṣpāñjaliṃ dadeth .. 25.264 ..
क्षमामन्त्रं समुच्चार्य दण्डवत्प्रणमेद्भुवि ।
kṣamāmantraṃ samuccārya daṇḍavatpraṇamedbhuvi .
फलश्रुतिः
एवं यः कुरुते भक्त्वा विष्णोरुत्सवमादराथ् ॥ २५.२६५ ॥
evaṃ yaḥ kurute bhaktvā viṣṇorutsavamādarāth .. 25.265 ..
सर्वपापविशुद्धात्मा सर्वान्कामानवाप्य च । अन्ते विमानमारुह्य विष्णुलोकं स गच्छति ॥ २५.२६६ ॥
sarvapāpaviśuddhātmā sarvānkāmānavāpya ca . ante vimānamāruhya viṣṇulokaṃ sa gacchati .. 25.266 ..
पुष्पयागः अतःपरं प्रवक्ष्यामि पुष्पयागं सुखावहं । द्वितीयदिवसे तीर्थात्पुष्पयागं समाचरेथ् ॥ २५.२६७ ॥
puṣpayāgaḥ ataḥparaṃ pravakṣyāmi puṣpayāgaṃ sukhāvahaṃ . dvitīyadivase tīrthātpuṣpayāgaṃ samācareth .. 25.267 ..
शान्तिदं पुष्टिदं चेति काम्यदं च त्रिधा भवेथ् । प्रातर्मध्याह्नापराह्णाः क्रमात्कालाः प्रकीर्तिताः ॥ २५.२६८ ॥
śāntidaṃ puṣṭidaṃ ceti kāmyadaṃ ca tridhā bhaveth . prātarmadhyāhnāparāhṇāḥ kramātkālāḥ prakīrtitāḥ .. 25.268 ..
न्यूनं वाप्यधिकं चैतद्दोषोपशमनाय वै । आस्थानमण्डपे वाथ स्नपनालय एव वा ॥ २५.२६९ ॥
nyūnaṃ vāpyadhikaṃ caitaddoṣopaśamanāya vai . āsthānamaṇḍape vātha snapanālaya eva vā .. 25.269 ..
चतुर्दिशं चतुर्हस्तं गोपयेनोपलिप्य च । पञ्चविंशत्पदं कृत्वा षट्सूत्रैः प्रागुद्गगतैः ॥ २५.२७० ॥
caturdiśaṃ caturhastaṃ gopayenopalipya ca . pañcaviṃśatpadaṃ kṛtvā ṣaṭsūtraiḥ prāgudgagataiḥ .. 25.270 ..
मध्ये ननपदे पद्मं साष्टपत्रं सकर्णिकं । रत्नधान्यादिकैर्वापि तण्डुलैर्व्रीहिभिस्तिलैः ॥ २५.२७१ ॥
madhye nanapade padmaṃ sāṣṭapatraṃ sakarṇikaṃ . ratnadhānyādikairvāpi taṇḍulairvrīhibhistilaiḥ .. 25.271 ..
बहिस्तेषु पदेष्वग्रे वीशमेकत्र पूजयेथ् । दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा ॥ २५.२७२ ॥
bahisteṣu padeṣvagre vīśamekatra pūjayeth . dakṣiṇe cakramabhyarcya paṅktīśaṃ paścime tathā .. 25.272 ..
उदीच्यां शान्तमभ्यर्च्य शेषेषु च पदेषु वै । पूजाद्रव्याणि संभृत्य प्रत्येकं विन्यसेद्बुधः ॥ २५.२७३ ॥
udīcyāṃ śāntamabhyarcya śeṣeṣu ca padeṣu vai . pūjādravyāṇi saṃbhṛtya pratyekaṃ vinyasedbudhaḥ .. 25.273 ..
दलेष्वष्टसु पद्मस्य सुवर्णशकलोपरि । लोकपालान्त्समभ्यर्च्य वस्त्रोपरि यथादिशं ॥ २५.२७४ ॥
daleṣvaṣṭasu padmasya suvarṇaśakalopari . lokapālāntsamabhyarcya vastropari yathādiśaṃ .. 25.274 ..
निष्कत्रयसुवर्णेव कल्पिते कर्णिकोपरि । आदित्यमण्डलं तत्र राजते चन्द्रमण्डलं ॥ २५.२७५ ॥
niṣkatrayasuvarṇeva kalpite karṇikopari . ādityamaṇḍalaṃ tatra rājate candramaṇḍalaṃ .. 25.275 ..
तस्मिन्सुवर्णरूपे तु वह्नि मण्डलमर्चयेथ् । विष्टरं तत्र संस्थाप्य तदन्तर्गतपङ्कजे ॥ २५.२७६ ॥
tasminsuvarṇarūpe tu vahni maṇḍalamarcayeth . viṣṭaraṃ tatra saṃsthāpya tadantargatapaṅkaje .. 25.276 ..
तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवं । तावत्कृत्वस्समभ्यर्छ्य सप्तविंशतिविग्रहैः ॥ २५.२७७ ॥
tatra devaṃ pratiṣṭhāpya yāvaddivasamutsavaṃ . tāvatkṛtvassamabhyarchya saptaviṃśativigrahaiḥ .. 25.277 ..
तत्र पूजावसानेतु तत्तत्पुष्पाञ्जलिं ददेथ् । पङ्कजं तुलसी बिल्वं करवीरमथोत्पलं ॥ २५.२७८ ॥
tatra pūjāvasānetu tattatpuṣpāñjaliṃ dadeth . paṅkajaṃ tulasī bilvaṃ karavīramathotpalaṃ .. 25.278 ..
नन्द्यावर्तं च कुमुदमपामार्गं तथैव च । विष्णुक्रान्तं च दूर्वां चक्रमादेतान्यनुक्रमाथ् ॥ २५.२७९ ॥
nandyāvartaṃ ca kumudamapāmārgaṃ tathaiva ca . viṣṇukrāntaṃ ca dūrvāṃ cakramādetānyanukramāth .. 25.279 ..
एवं पुष्पाजलिं दत्वा ऋत्विजस्सहतैर्गुरुः । नृत्तैर्गेयैश्चवाद्यैश्च चतुर्वेदस्तवैरपि ॥ २५.२८० ॥
evaṃ puṣpājaliṃ datvā ṛtvijassahatairguruḥ . nṛttairgeyaiścavādyaiśca caturvedastavairapi .. 25.280 ..
परात्परतरं पारं गुह्याद्गुह्यतरं गुरुं । सर्ववेदार्थसारं तं द्वादशाष्याक्षरं तथा ॥ २५.२८१ ॥
parātparataraṃ pāraṃ guhyādguhyataraṃ guruṃ . sarvavedārthasāraṃ taṃ dvādaśāṣyākṣaraṃ tathā .. 25.281 ..
जपन्तो विष्णुगायत्रीं शतमष्टोत्तरं ततः । दद्युः पुष्पाञ्जलि भक्त्या देवदेवस्य पादयोः ॥ २५.२८२ ॥
japanto viṣṇugāyatrīṃ śatamaṣṭottaraṃ tataḥ . dadyuḥ puṣpāñjali bhaktyā devadevasya pādayoḥ .. 25.282 ..
पञ्चाग्निष्वथ वाग्नींस्त्रीन्पैण्डरीकमथापि वा । देवस्य परितः कुर्यादुत्तमादिक्रमे क्रमाथ् ॥ २५.२८३ ॥
pañcāgniṣvatha vāgnīṃstrīnpaiṇḍarīkamathāpi vā . devasya paritaḥ kuryāduttamādikrame kramāth .. 25.283 ..
उत्तमे सभ्यकुण्डे तु मध्ये त्वाहवनीयके । हौत्रप्रशंसनं कुर्यात्तदालयगतान्त्सुरान् ॥ २५.२८४ ॥
uttame sabhyakuṇḍe tu madhye tvāhavanīyake . hautrapraśaṃsanaṃ kuryāttadālayagatāntsurān .. 25.284 ..
आवाह्याज्यं निरूप्यैव तत्क्रमेणाहुतीर्यजेथ् । वैष्णवं विष्णुसूक्तं च सम्यग्घुत्वा विशेषत ॥ २५.२८५ ॥
āvāhyājyaṃ nirūpyaiva tatkrameṇāhutīryajeth . vaiṣṇavaṃ viṣṇusūktaṃ ca samyagghutvā viśeṣata .. 25.285 ..
ततश्चाहवनीयाग्नौ नृसूक्तं वैष्णवं यजेथ् । दक्षिणाग्नौ विष्णुसूक्तं श्रीसूक्तं च यजेत्क्रमाथ् ॥ २५.२८६ ॥
tataścāhavanīyāgnau nṛsūktaṃ vaiṣṇavaṃ yajeth . dakṣiṇāgnau viṣṇusūktaṃ śrīsūktaṃ ca yajetkramāth .. 25.286 ..
जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं(वं)ततः । आवसद्ध्ये तु जुहुयात्सूक्तमेकाक्षरादिकं ॥ २५.२८७ ॥
juhuyādgārhapatyāgnau gāyatrīṃ vaiṣṇavīṃ(vaṃ)tataḥ . āvasaddhye tu juhuyātsūktamekākṣarādikaṃ .. 25.287 ..
आज्येन समिधा तत्तद्धविर्भेदैश्च हूयतां । एतदुत्तममुद्दिष्टं मध्यमं तु प्रवक्ष्यते ॥ २५.२८८ ॥
ājyena samidhā tattaddhavirbhedaiśca hūyatāṃ . etaduttamamuddiṣṭaṃ madhyamaṃ tu pravakṣyate .. 25.288 ..
यथालाभप्रमाणेन पूर्वोक्तार्धेन वा हरेः । पद्ममण्डलदेवानां कारयेत्प्रतिमादिकं ॥ २५.२८९ ॥
yathālābhapramāṇena pūrvoktārdhena vā hareḥ . padmamaṇḍaladevānāṃ kārayetpratimādikaṃ .. 25.289 ..
तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च । सर्वार्चान्ते पञ्चहविर्दद्यादित्याह पूर्वजः ॥ २५.२९० ॥
tattaddinārcanānte tu śuddhānnaṃ vā nivedya ca . sarvārcānte pañcahavirdadyādityāha pūrvajaḥ .. 25.290 ..
चतुर्वेदादिघोषं च चतुर्दिक्षु प्रकल्पयेथ् । अब्जहोमं क्रमेणैव जुहुयान्मन्त्र वित्तमः ॥ २५.२९१ ॥
caturvedādighoṣaṃ ca caturdikṣu prakalpayeth . abjahomaṃ krameṇaiva juhuyānmantra vittamaḥ .. 25.291 ..
पुष्पन्यासक्रमेणैव सर्वविद्येश्वरान्तकं । अभ्यर्च्य प्रथमं पश्चात्पष्पयागोक्त पूजनं ॥ २५.२९२ ॥
puṣpanyāsakrameṇaiva sarvavidyeśvarāntakaṃ . abhyarcya prathamaṃ paścātpaṣpayāgokta pūjanaṃ .. 25.292 ..
कृत्वा यथालाभहविर्भक्ष्याणि विविधानि च । निवेद्य मुखवासान्ते परिवारबलिं क्षिपेथ् ॥ २५.२९३ ॥
kṛtvā yathālābhahavirbhakṣyāṇi vividhāni ca . nivedya mukhavāsānte parivārabaliṃ kṣipeth .. 25.293 ..
इत्येवं मध्यमे प्रोक्तं प्रवक्ष्याम्यधमे पुनः । विना दिशादिभिर्भेदैर्हेमैश्च पृथगर्चनैः ॥ २५.२९४ ॥
ityevaṃ madhyame proktaṃ pravakṣyāmyadhame punaḥ . vinā diśādibhirbhedairhemaiśca pṛthagarcanaiḥ .. 25.294 ..
मण्डले देवमारोप्य पूजयित्वा यधाविधि । हवींषि पञ्च चोक्तानि निवेद्य च ततः परं ॥ २५.२९५ ॥
maṇḍale devamāropya pūjayitvā yadhāvidhi . havīṃṣi pañca coktāni nivedya ca tataḥ paraṃ .. 25.295 ..
दद्यात्पुष्पांजलिं मन्त्रैस्समस्तदिवसोदितैः । जान्वन्तं च तथोर्वन्तं कट्यन्तं च समर्चयेथ् ॥ २५.२९६ ॥
dadyātpuṣpāṃjaliṃ mantraissamastadivasoditaiḥ . jānvantaṃ ca tathorvantaṃ kaṭyantaṃ ca samarcayeth .. 25.296 ..
नाभ्यन्तं च स्तनान्तं च बाह्यस्तमिति चक्रमाथ् । ग्रीवान्तं च ललाटान्तं मौल्यस्तमिति चक्रमाथ् ॥ २५.२९७ ॥
nābhyantaṃ ca stanāntaṃ ca bāhyastamiti cakramāth . grīvāntaṃ ca lalāṭāntaṃ maulyastamiti cakramāth .. 25.297 ..
तत्तत्पूजावसानेतु हविस्सम्यङ्नि वेदयेथ् । उत्सवाज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतं ॥ २५.२९८ ॥
tattatpūjāvasānetu havissamyaṅni vedayeth . utsavājñātadoṣāṇāṃ prāyaścittamidaṃ smṛtaṃ .. 25.298 ..
अतस्सर्वप्रयत्नेन पुष्पयागं समाचरेथ् । द्वादशाराधनम् कुर्याद्यथोक्तविधिना द्वादशाराधनं तथा ॥ २५.२९९ ॥
atassarvaprayatnena puṣpayāgaṃ samācareth . dvādaśārādhanam kuryādyathoktavidhinā dvādaśārādhanaṃ tathā .. 25.299 ..
दद्यादाचार्यपूर्वेभ्यो दक्षिणां विधिवत्ततः । एकविंशतिनिष्कन्तु दद्यादाचार्यदक्षिणां ॥ २५.३०० ॥
dadyādācāryapūrvebhyo dakṣiṇāṃ vidhivattataḥ . ekaviṃśatiniṣkantu dadyādācāryadakṣiṇāṃ .. 25.300 ..
पदार्थिनां च सर्वेषां तदर्धं स्यात्पृथक्पृथक् । गोभूमिभ्यां विशेषेण दत्वाचार्यं प्रसादयेथ् ॥ २५.३०१ ॥
padārthināṃ ca sarveṣāṃ tadardhaṃ syātpṛthakpṛthak . gobhūmibhyāṃ viśeṣeṇa datvācāryaṃ prasādayeth .. 25.301 ..
आचार्यस्सुप्रसन्नात्मा सर्वाग्निषु यथाक्रमं । अन्तहोमं समाप्यैव देवदेवं प्रणम्य च ॥ २५.३०२ ॥
ācāryassuprasannātmā sarvāgniṣu yathākramaṃ . antahomaṃ samāpyaiva devadevaṃ praṇamya ca .. 25.302 ..
जीवस्थाने प्रतिष्ठाप्य देवेशं सम्यगर्चयेथ् । ब्राह्मणान्भोजयेच्चैव प्रदद्याद्भूरिदक्षिणां ॥ २५.३०३ ॥
jīvasthāne pratiṣṭhāpya deveśaṃ samyagarcayeth . brāhmaṇānbhojayeccaiva pradadyādbhūridakṣiṇāṃ .. 25.303 ..
पुष्पयागोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः । शान्तिकादिविधाने तु कुर्यादङ्कुरपूर्वकं ॥ २५.३०४ ॥
puṣpayāgotsavaḥ prokto devadevasya śārṅgiṇaḥ . śāntikādividhāne tu kuryādaṅkurapūrvakaṃ .. 25.304 ..
एवं यःकुरुते भक्त्यापुष्बयागं हरेः प्रियं । सर्वान्कामानवाप्यैव सर्वैश्वर्यमवाप्य च ॥ २५.३०५ ॥
evaṃ yaḥkurute bhaktyāpuṣbayāgaṃ hareḥ priyaṃ . sarvānkāmānavāpyaiva sarvaiśvaryamavāpya ca .. 25.305 ..
सर्वान्शत्रून्विजित्वैव प्रजापशुसमन्वितः । अन्ते विमानमारुह्य विष्णुसायुज्यमाप्नुयाथ् ॥ २५.३०६ ॥
sarvānśatrūnvijitvaiva prajāpaśusamanvitaḥ . ante vimānamāruhya viṣṇusāyujyamāpnuyāth .. 25.306 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे पञ्चविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcaviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In