| |
|

This overlay will guide you through the buttons:

अथ प्रथमोऽध्यायः
अथ प्रथमः अध्यायः
atha prathamaḥ adhyāyaḥ
श्रीयैनमः
श्री-यै नमः
śrī-yai namaḥ
श्रीरामचन्द्रायनमः
श्री-रामचन्द्राय नमः
śrī-rāmacandrāya namaḥ
श्रीमद्विखनसमहागुरवेनमः
श्रीमत्-विखनस-महा-गुरवे नमः
śrīmat-vikhanasa-mahā-gurave namaḥ
श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
श्रीमद्भ्यः भृगु-मरीचि-अत्रि-कश्यपेभ्यः नमः
śrīmadbhyaḥ bhṛgu-marīci-atri-kaśyapebhyaḥ namaḥ
प्रकीर्णाधिकारः.
प्रकीर्ण-अधिकारः।
prakīrṇa-adhikāraḥ.
अथप्रथमोऽध्यायः.
अथ प्रथमः अध्यायः।
atha prathamaḥ adhyāyaḥ.
श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितं । तस्मैसमस्तवेदार्थविदे विखनसेनमः ॥ मङ्गलाचरण१ ॥
श्रौत-स्मार्त-आदिकम् कर्म निखिलम् येन सूत्रितम् । तस्मै समस्त-वेद-अर्थ-विदे विखनसे नमः ॥ मङ्गल-आचरण- ॥
śrauta-smārta-ādikam karma nikhilam yena sūtritam . tasmai samasta-veda-artha-vide vikhanase namaḥ .. maṅgala-ācaraṇa- ..
श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलं । विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवं ॥ मङ्गलाचरण२ ॥
श्रुति-स्मृति-नदी-पूर्णम् शास्त्र-कल्लोल-संकुलम् । विष्णु-भक्ति-उदकम् शुद्धम् वन्दे वैखानस-अर्णवम् ॥ मङ्गल-आचरण- ॥
śruti-smṛti-nadī-pūrṇam śāstra-kallola-saṃkulam . viṣṇu-bhakti-udakam śuddham vande vaikhānasa-arṇavam .. maṅgala-ācaraṇa- ..
ऋषिप्रश्योत्तरम्.
ऋषि-प्रश्य-उत्तरम्।
ṛṣi-praśya-uttaram.
ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर । त्वमेवसर्ववेत्तासित्वमेववदतांवरः ॥ १.१ ॥
ब्रह्म-पुत्र-मुनि-श्रेष्ठ नमः ते देहिनाम् वर । त्वम् एव सर्व-वेत्ता असि त्वम् एव वदताम् वरः ॥ १।१ ॥
brahma-putra-muni-śreṣṭha namaḥ te dehinām vara . tvam eva sarva-vettā asi tvam eva vadatām varaḥ .. 1.1 ..
ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमं । इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ॥ १.२ ॥
ततस् ज्ञातुम् हि विष्णोः वै भू-परीक्षा-आदिषु क्रमम् । इच्छामः त्वद्-प्रसादेन दीनाः शिष्य-जनाः प्रभो ॥ १।२ ॥
tatas jñātum hi viṣṇoḥ vai bhū-parīkṣā-ādiṣu kramam . icchāmaḥ tvad-prasādena dīnāḥ śiṣya-janāḥ prabho .. 1.2 ..
विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि । केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः ॥ १.३ ॥
विस्तार-ज्ञः हि सर्वेषाम् विस्तरात् वक्तुम् अर्हसि । केन मार्गेण कैः मन्त्रैः कम् देवम् पूजयन् नरः ॥ १।३ ॥
vistāra-jñaḥ hi sarveṣām vistarāt vaktum arhasi . kena mārgeṇa kaiḥ mantraiḥ kam devam pūjayan naraḥ .. 1.3 ..
कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
कान् लोकान् समवाप्नोति तत्त्वम् एतत् वद स्वनः ।
kān lokān samavāpnoti tattvam etat vada svanaḥ .
भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजं ॥ १.४ ॥
प्रणम्य देवदेवेशम् चक्रपाणिम् खड्ग-ध्वजम् ॥ १।४ ॥
praṇamya devadeveśam cakrapāṇim khaḍga-dhvajam .. 1.4 ..
विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
विस्तारेण प्रवक्ष्यामि श्रुणुध्वम् सु समाहिताः ।
vistāreṇa pravakṣyāmi śruṇudhvam su samāhitāḥ .
मुहूर्तविचारः
सर्वारंभेप्रशस्तंस्यादादित्येचोत्तरस्थते ॥ १.५ ॥
सर्व-आरंभे प्रशस्तम् स्यात् आदित्ये च उत्तर-स्थ-ते ॥ १।५ ॥
sarva-āraṃbhe praśastam syāt āditye ca uttara-stha-te .. 1.5 ..
अप्रशस्तमितिख्यात मयनेदक्षिणेतथा । पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ॥ १.६ ॥
अप्रशस्तम् इति ख्यात अयने दक्षिणे तथा । पुष्य-मास-आदि-षष्-मासाः ॥ १।६ ॥
apraśastam iti khyāta ayane dakṣiṇe tathā . puṣya-māsa-ādi-ṣaṣ-māsāḥ .. 1.6 ..
यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतं । रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ॥ १.७ ॥
यस्मिन् मासे कृतम् सर्वम् विवृद्धि-अर्थम् इति स्मृतम् । रात्रिः आषाड-मास-आदि ॥ १।७ ॥
yasmin māse kṛtam sarvam vivṛddhi-artham iti smṛtam . rātriḥ āṣāḍa-māsa-ādi .. 1.7 ..
प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा । षष्ठीचसप्तमीचापि दशम्येकादशीतथा ॥ १.८ ॥
तृतीया-पञ्चमी-तथा । षष्ठी-च सप्तमी-च अपि दशमी-एकादशी-तथा ॥ १।८ ॥
tṛtīyā-pañcamī-tathā . ṣaṣṭhī-ca saptamī-ca api daśamī-ekādaśī-tathā .. 1.8 ..
त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः । प्राजापत्याश्वयुक्च्ॐय तिष्यपौष्णत्रिरुत्तराः ॥ १.९ ॥
त्रयोदशी-च तिथयः । प्राजापत्य-अश्वयुज्-चोंय-तिष्य-पौष्ण-त्रिस् उत्तराः ॥ १।९ ॥
trayodaśī-ca tithayaḥ . prājāpatya-aśvayuj-coṃya-tiṣya-pauṣṇa-tris uttarāḥ .. 1.9 ..
मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः । राशयश्चरवर्ज्यास्स्युरुभीतच्छोभनंस्थिरं ॥ १.१० ॥
मैत्र-आदित्य-मघा-स्वाती हस्ताः च श्रवणम् शुभाः । राशयः चर-वर्ज्याः स्युः उभीत-शोभनम् स्थिरम् ॥ १।१० ॥
maitra-āditya-maghā-svātī hastāḥ ca śravaṇam śubhāḥ . rāśayaḥ cara-varjyāḥ syuḥ ubhīta-śobhanam sthiram .. 1.10 ..
गुरुभार्गवस्ॐयेन्दु वाराश्श्रेष्ठतमास्मृता । एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ॥ १.११ ॥
गुरु-भार्गव-सोंया-इन्दु वाराः श्रेष्ठतमा स्मृता । एषाम् अंशः च द्रेक्काण-होरा-दर्शनम् इष्यते ॥ १।११ ॥
guru-bhārgava-soṃyā-indu vārāḥ śreṣṭhatamā smṛtā . eṣām aṃśaḥ ca drekkāṇa-horā-darśanam iṣyate .. 1.11 ..
एषामेवोदयंशस्तं तत्रसोमोदयंविना । क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि ॥ १.१२ ॥
एषाम् एव उदय-शस्तम् तत्र सोम-उदयम् विना । क्रूरे चतुष्य-नक्षत्रे व्याधि-पीडाम् करोति हि ॥ १।१२ ॥
eṣām eva udaya-śastam tatra soma-udayam vinā . krūre catuṣya-nakṣatre vyādhi-pīḍām karoti hi .. 1.12 ..
सूर्यसौरिश्चस्ॐयश्चत्रिषडायस्थिताश्शुभाः । तधैवलग्नगाःकुर्युर्व्याधिशोकभयानितु. ॥ १.१३ ॥
सूर्य-सौरिः च सोंयः च त्रि-षष्-आय-स्थिताः शुभाः । तधा एव लग्न-गाः कुर्युः व्याधि-शोक-भयानि तु। ॥ १।१३ ॥
sūrya-sauriḥ ca soṃyaḥ ca tri-ṣaṣ-āya-sthitāḥ śubhāḥ . tadhā eva lagna-gāḥ kuryuḥ vyādhi-śoka-bhayāni tu. .. 1.13 ..
अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिं । एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ॥ १.१४ ॥
अष्टम-स्था-ग्रहाः सर्वे कर्तुः कुर्वन्ति दुस्थितिम् । एकादश-गताः सर्वे क्षेम-आरोग्य-कराः स्मृताः ॥ १।१४ ॥
aṣṭama-sthā-grahāḥ sarve kartuḥ kurvanti dusthitim . ekādaśa-gatāḥ sarve kṣema-ārogya-karāḥ smṛtāḥ .. 1.14 ..
भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः । द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ॥ १.१५ ॥
भय-कृत् भार्गवः प्रोक्तः द्वि-सप्त-दशम-स्थितः । द्वि-सप्त-पञ्च-नवम-स्थितः जीवः सु शोभनः ॥ १।१५ ॥
bhaya-kṛt bhārgavaḥ proktaḥ dvi-sapta-daśama-sthitaḥ . dvi-sapta-pañca-navama-sthitaḥ jīvaḥ su śobhanaḥ .. 1.15 ..
राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि । सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ॥ १.१६ ॥
राष्ट्रस्य यजमानस्य महत् सौख्यम् करोति हि । हस्त-पौष्ण-त्रिस् उत्तराः ॥ १।१६ ॥
rāṣṭrasya yajamānasya mahat saukhyam karoti hi . hasta-pauṣṇa-tris uttarāḥ .. 1.16 ..
मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा । वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ॥ १.१७ ॥
ब्राह्म-स्वात्यौ च तद्-तथा । वर्जयेत् बुधवारेण हस्तम् आश्वयुजन् तथा ॥ १।१७ ॥
brāhma-svātyau ca tad-tathā . varjayet budhavāreṇa hastam āśvayujan tathā .. 1.17 ..
गुरुवारेण वर्ज्यौतु तथास्ॐयोत्तरा उभौ । श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेथ् ॥ १.१८ ॥
गुरु-वारेण वर्ज्यौ तु उभौ । श्रवणम् च एव पुष्यम् च ॥ १।१८ ॥
guru-vāreṇa varjyau tu ubhau . śravaṇam ca eva puṣyam ca .. 1.18 ..
उत्तराषाढानक्षत्रं सोमवारेतु शोभनं । द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ॥ १.१९ ॥
उत्तर-आषाढा-नक्षत्रम् शोभनम् । द्वितीया-बुध-युक्ता च षष्ठी-जीव-समायुता ॥ १।१९ ॥
uttara-āṣāḍhā-nakṣatram śobhanam . dvitīyā-budha-yuktā ca ṣaṣṭhī-jīva-samāyutā .. 1.19 ..
सोम एकावशीयुक्तः करोतिप्राणसंशयं । पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ॥ १.२० ॥
सोमः एकावशी-युक्तः करोति प्राण-संशयम् । पौष्णः तु सप्तमी-युक्तः दहति अग्निः इव प्रजाः ॥ १।२० ॥
somaḥ ekāvaśī-yuktaḥ karoti prāṇa-saṃśayam . pauṣṇaḥ tu saptamī-yuktaḥ dahati agniḥ iva prajāḥ .. 1.20 ..
काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेथ् । भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते ॥ १.२१ ॥
गुरु-विषीः विवर्जयेथ् । भूमिकंपे दिशान् दाहे दुर्दिने चण्ड-मारुते ॥ १।२१ ॥
guru-viṣīḥ vivarjayeth . bhūmikaṃpe diśān dāhe durdine caṇḍa-mārute .. 1.21 ..
अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं । अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा ॥ १.२२ ॥
अशनि-ध्वनि-योगे च निन्दितन् दिवसम् स्मृतम् । संत्या-जङ्ग्रहणी-तथा ॥ १।२२ ॥
aśani-dhvani-yoge ca ninditan divasam smṛtam . saṃtyā-jaṅgrahaṇī-tathā .. 1.22 ..
षडशीतिमुघेवापि कृतंवास्तुविनश्यति । एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ॥ १.२२ः१ ॥
षडशीति-मुघा इव अपि कृतम् वास्तु विनश्यति । एवम् परीक्ष्य कर्तव्यम् इच्छेत् चेद् श्रेयः आत्मनः ॥ १।२२ ॥
ṣaḍaśīti-mughā iva api kṛtam vāstu vinaśyati . evam parīkṣya kartavyam icchet ced śreyaḥ ātmanaḥ .. 1.22 ..
कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः । अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेथ् ॥ १.२३ ॥
कर्ण-आदि-प्रतिष्ठा-अन्तम् कर्म कुर्यात् विचक्षणः । अथ भूमिम् परीक्ष्य एव पूर्वङ्कर्षणम् आरभेथ् ॥ १।२३ ॥
karṇa-ādi-pratiṣṭhā-antam karma kuryāt vicakṣaṇaḥ . atha bhūmim parīkṣya eva pūrvaṅkarṣaṇam ārabheth .. 1.23 ..
भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा । पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ॥ १.२४ ॥
श्वेता तु ब्राह्मणी-भूमी दक्ता तु क्षत्रिया तथा । शूद्रा-भूमिः उदाहृता ॥ १।२४ ॥
śvetā tu brāhmaṇī-bhūmī daktā tu kṣatriyā tathā . śūdrā-bhūmiḥ udāhṛtā .. 1.24 ..
मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा । वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ॥ १.२५ ॥
। शूद्रा-पुत्र-समृद्धि-दा ॥ १।२५ ॥
. śūdrā-putra-samṛddhi-dā .. 1.25 ..
प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेथ् । हस्तमात्रङ्खनित्वातु पूरयेत्तत्तुपांसुना ॥ १.२६ ॥
प्रतिलोम-आदिभिः जुष्टाम् । हस्त-मात्रम् खनित्वा तु पूरयेत् तत् तु पांसुना ॥ १।२६ ॥
pratiloma-ādibhiḥ juṣṭām . hasta-mātram khanitvā tu pūrayet tat tu pāṃsunā .. 1.26 ..
अधिकेपुष्कलाभूमिर्न्यूनेवर्ज्यासमेसमा । गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ॥ १.२७ ॥
अधिके पुष्कला भूमिः न्यूने वर्ज्या असमे समा । ग्राह्य-भूमि-स्तुना अन्यथा ॥ १।२७ ॥
adhike puṣkalā bhūmiḥ nyūne varjyā asame samā . grāhya-bhūmi-stunā anyathā .. 1.27 ..
पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले । मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ॥ १.२८ ॥
पद्म-अङ्कुंभ-स्थ-तोयेन पूरित-एतद्-कृत-आवले । मुख्यम् प्रदक्षिण-आवर्त ॥ १।२८ ॥
padma-aṅkuṃbha-stha-toyena pūrita-etad-kṛta-āvale . mukhyam pradakṣiṇa-āvarta .. 1.28 ..
सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः । उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकं ॥ १.२९ ॥
स व्यावर्तन् तथा अनेष्ट मुदकम् बहु-बुद्बुदः । उत्तान-पद्मकम् ग्राह्यम् न तु अधोमुख-पद्मकम् ॥ १।२९ ॥
sa vyāvartan tathā aneṣṭa mudakam bahu-budbudaḥ . uttāna-padmakam grāhyam na tu adhomukha-padmakam .. 1.29 ..
एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेथ् । एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमं ॥ १.३० ॥
एवम् परीक्ष्य गृह्णीयात् पुण्याहम् अपि वाचयेथ् । एवम् परीक्ष्य बहुधा कुर्यात् कर्षणम् उत्तमम् ॥ १।३० ॥
evam parīkṣya gṛhṇīyāt puṇyāham api vācayeth . evam parīkṣya bahudhā kuryāt karṣaṇam uttamam .. 1.30 ..
श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा । अथवानान्यवर्णौ वा अरोगौबलशालिनौ ॥ १.३१ ॥
श्वेतौ वा कपिलौ वा अथ । अथवा अन् अन्य-वर्णौ वा अरोगौ बल-शालिनौ ॥ १।३१ ॥
śvetau vā kapilau vā atha . athavā an anya-varṇau vā arogau bala-śālinau .. 1.31 ..
कर्षणम्
क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा । असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ॥ १.३२ ॥
क्षीरवृक्ष-युगम् बद्ध्वा शमी-वृक्ष-युतम् तथा । असनम् खदिरम् वा अथ हलम् कृत्वा आसनेहकम् ॥ १।३२ ॥
kṣīravṛkṣa-yugam baddhvā śamī-vṛkṣa-yutam tathā . asanam khadiram vā atha halam kṛtvā āsanehakam .. 1.32 ..
यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना । तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ॥ १.३३ ॥
यन्त्रयित्वा अयुगेन अथ गो-वाल-कृत-रज्जुना । तस्य पश्चिम-देशे तु प्रपाम् कृत्वा विधानतः ॥ १।३३ ॥
yantrayitvā ayugena atha go-vāla-kṛta-rajjunā . tasya paścima-deśe tu prapām kṛtvā vidhānataḥ .. 1.33 ..
धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमाथ् । पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेथ् ॥ १.३४ ॥
धान्य-पीठानि निकृत्वा एव । चक्रम् पश्चात् समर्चयेथ् ॥ १।३४ ॥
dhānya-pīṭhāni nikṛtvā eva . cakram paścāt samarcayeth .. 1.34 ..
विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेथ् । वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेथ् ॥ १.३५ ॥
समभ्यर्च्य निवेदयेथ् । वास्तुयज्ञन् च हुत्वा तु पुण्याहम् अपि वाचयेथ् ॥ १।३५ ॥
samabhyarcya nivedayeth . vāstuyajñan ca hutvā tu puṇyāham api vācayeth .. 1.35 ..
तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु । अचार्योऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ॥ १.३६ ॥
तोय-धाराम् पुरस्कृत्य प्रादक्षिण्य-वशेन तु । अचार्यः अहत-वस्त्रेण च उत्तरीय-अङ्गुलीयकैः ॥ १।३६ ॥
toya-dhārām puraskṛtya prādakṣiṇya-vaśena tu . acāryaḥ ahata-vastreṇa ca uttarīya-aṅgulīyakaiḥ .. 1.36 ..
अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः । समादायवृषन्तत्र "त्वंवृषभऽऽ इतिब्रुवन्. ॥ १.३७ ॥
अलङ्कृत्य विधानेन श्वेत-माल्य-अनुलेपनैः । समादाय वृषन् तत्र "त्वम् वृषभ इति ब्रुवन्। ॥ १।३७ ॥
alaṅkṛtya vidhānena śveta-mālya-anulepanaiḥ . samādāya vṛṣan tatra "tvam vṛṣabha iti bruvan. .. 1.37 ..
वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् । ततस्संयोजयेत्पश्चाद्बलीवर्दैबलान्विता ॥ १.३८ ॥
वृषभन् दक्षिणे योज्य"सौरभेय इति ब्रुवन् । ततस् संयोजयेत् पश्चात् बलीवर्दैः बल-अन्विता ॥ १।३८ ॥
vṛṣabhan dakṣiṇe yojya"saurabheya iti bruvan . tatas saṃyojayet paścāt balīvardaiḥ bala-anvitā .. 1.38 ..
युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलंपुनः । ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक्प्रगृह्यच ॥ १.३९ ॥
इति योजयेत् च हलम् पुनर् । मिति मन्त्रेण ऋषिम् सम्यक् प्रगृह्य च ॥ १।३९ ॥
iti yojayet ca halam punar . miti mantreṇa ṛṣim samyak pragṛhya ca .. 1.39 ..
विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेथ् । येऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेथ् ॥ १.४० ॥
विष्णुः माम् रक्ष इति च स्व-आत्म-रक्षाम् समाचरेथ् । ये अस्मिन् देशे जीवन्तः इति आश्रितान् च विसर्जयेथ् ॥ १।४० ॥
viṣṇuḥ mām rakṣa iti ca sva-ātma-rakṣām samācareth . ye asmin deśe jīvantaḥ iti āśritān ca visarjayeth .. 1.40 ..
हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभां । कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीं ॥ १.४१ ॥
दारयेत् ताम् इला-शुभाम् । कर्षयेत् वैष्णवैः मन्त्रैः प्राच्-उदक्-पृवणाम् महीम् ॥ १।४१ ॥
dārayet tām ilā-śubhām . karṣayet vaiṣṇavaiḥ mantraiḥ prāc-udak-pṛvaṇām mahīm .. 1.41 ..
ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेथ् । अयार्यंपूजयित्वातु तथैवसहलौवृषौ ॥ १.४२ ॥
ततस् कर्षकम् आहूय । अयार्यम् पूजयित्वा तु तथा एव सहलौ वृषौ ॥ १।४२ ॥
tatas karṣakam āhūya . ayāryam pūjayitvā tu tathā eva sahalau vṛṣau .. 1.42 ..
प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेथ् । बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेथ् ॥ १.४३ ॥
प्रथमम् कर्षणम् कृत्वा द्वितीयम् कर्षणम् चरेथ् । बीजम् सर्वम् समादाय प्रोक्षणैः प्राक्षणम् चरेथ् ॥ १।४३ ॥
prathamam karṣaṇam kṛtvā dvitīyam karṣaṇam careth . bījam sarvam samādāya prokṣaṇaiḥ prākṣaṇam careth .. 1.43 ..
इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ॥ १.४४ ॥
इमे बीजाः प्ररः आह इति सप्त ग्राम्याणि अतस् परम् । वापयित्वा आतु-बीजानि "देवि-त्वयि समुच्चरन् ॥ १।४४ ॥
ime bījāḥ praraḥ āha iti sapta grāmyāṇi atas param . vāpayitvā ātu-bījāni "devi-tvayi samuccaran .. 1.44 ..
इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं । वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ॥ १.४४ ॥
इमे बीजाः प्ररः आह इति सप्त ग्राम्याणि अतस् परम् । वापयित्वा आतु-बीजानि "देवि-त्वयि समुच्चरन् ॥ १।४४ ॥
ime bījāḥ praraḥ āha iti sapta grāmyāṇi atas param . vāpayitvā ātu-bījāni "devi-tvayi samuccaran .. 1.44 ..
दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेथ् । रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेथ् ॥ १.४५ ॥
मिति उक्त्वा अतस् । रक्षाम् सम्यक् विधाय अत्र च आचार्यम् अभिपूजयेथ् ॥ १।४५ ॥
miti uktvā atas . rakṣām samyak vidhāya atra ca ācāryam abhipūjayeth .. 1.45 ..
सस्याऽऽ इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच । विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेथ् ॥ १.४६ ॥
सस्याः इमाः इति मन्त्रेण सस्यम् पक्वम् प्रणम्य च । विष्वक्चेन-इन-आदिभिः मन्त्रैः शान्तम् च अपि समर्चयेथ् ॥ १।४६ ॥
sasyāḥ imāḥ iti mantreṇa sasyam pakvam praṇamya ca . viṣvakcena-ina-ādibhiḥ mantraiḥ śāntam ca api samarcayeth .. 1.46 ..
शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेथ् ॥ १.४७ ॥
शुद्धाः इमाः इति मन्त्रेण गोभ्यः सम्यक् निवेदयेथ् ॥ १।४७ ॥
śuddhāḥ imāḥ iti mantreṇa gobhyaḥ samyak nivedayeth .. 1.47 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे प्रथमोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे प्रथमः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre prathamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In