| |
|

This overlay will guide you through the buttons:

अथ सप्तदशोऽध्यायः
अथ सप्तदशः अध्यायः
atha saptadaśaḥ adhyāyaḥ
अदिमूर्तिकल्पः
अथ वक्ष्ये विशेषेण केशवादिविनिर्णयं । केशवं तु प्रकुर्वीत स्ॐयरूपं चतुर्भुजं ॥ १७.१ ॥
अथ वक्ष्ये विशेषेण केशव-आदि-विनिर्णयम् । केशवम् तु प्रकुर्वीत चतुर्-भुजम् ॥ १७।१ ॥
atha vakṣye viśeṣeṇa keśava-ādi-vinirṇayam . keśavam tu prakurvīta catur-bhujam .. 17.1 ..
शङ्खचक्रगदापद्मधरं स्वर्णाभवे व च । सर्वालङ्कारसंयुक्तं मुक्ताहारविभूषितं ॥ १७.२ ॥
शङ्ख-चक्र-गदा-पद्म-धरम् च । सर्व-अलङ्कार-संयुक्तम् मुक्ता-हार-विभूषितम् ॥ १७।२ ॥
śaṅkha-cakra-gadā-padma-dharam ca . sarva-alaṅkāra-saṃyuktam muktā-hāra-vibhūṣitam .. 17.2 ..
स्थितमेवं प्रकुर्वीत देवीभ्यां सहितं प्रभुं । नारायणं प्रकुर्वीत घनश्यामं चतुर्भुजं ॥ १७.३ ॥
स्थितम् एवम् प्रकुर्वीत देवीभ्याम् सहितम् प्रभुम् । नारायणम् प्रकुर्वीत घनश्यामम् चतुर्-भुजम् ॥ १७।३ ॥
sthitam evam prakurvīta devībhyām sahitam prabhum . nārāyaṇam prakurvīta ghanaśyāmam catur-bhujam .. 17.3 ..
शङ्खपद्मधकं देवं बिभ्रन्तं च गदामसिं । भूषितं मणिभूषाभिः वीतवाससमच्युतं ॥ १७.४ ॥
शङ्ख-पद्म-धकम् देवम् बिभ्रन्तम् च गदाम् असिम् । भूषितम् मणि-भूषाभिः वीत-वाससम् अच्युतम् ॥ १७।४ ॥
śaṅkha-padma-dhakam devam bibhrantam ca gadām asim . bhūṣitam maṇi-bhūṣābhiḥ vīta-vāsasam acyutam .. 17.4 ..
प्रकुर्याच्च विशेषेण लक्ष्मीनारायणं शुभं । उत्तमं दशतालेन मानोन्मानप्रमाणतः ॥ १७.५ ॥
प्रकुर्यात् च विशेषेण लक्ष्मीनारायणम् शुभम् । उत्तमम् दश-तालेन मान-उन्मान-प्रमाणतः ॥ १७।५ ॥
prakuryāt ca viśeṣeṇa lakṣmīnārāyaṇam śubham . uttamam daśa-tālena māna-unmāna-pramāṇataḥ .. 17.5 ..
सिंहासने समासीनं दक्षिणांघ्रिं प्रसार्य च । आसने निहितं वामं लक्षणं पूर्ववत्तथा ॥ १७.६ ॥
सिंहासने समासीनम् दक्षिण-अंघ्रिम् प्रसार्य च । आसने निहितम् वामम् लक्षणम् पूर्ववत् तथा ॥ १७।६ ॥
siṃhāsane samāsīnam dakṣiṇa-aṃghrim prasārya ca . āsane nihitam vāmam lakṣaṇam pūrvavat tathā .. 17.6 ..
लक्ष्मीं सन्न्यस्य वामोरौ मुखे हर्षसमन्वितां । प्रसारितकरां देवीं पञ्चतालप्रमाणतः ॥ १७.७ ॥
लक्ष्मीम् सन्न्यस्य वाम-ऊरौ मुखे हर्ष-समन्विताम् । प्रसारित-कराम् देवीम् पञ्च-ताल-प्रमाणतः ॥ १७।७ ॥
lakṣmīm sannyasya vāma-ūrau mukhe harṣa-samanvitām . prasārita-karām devīm pañca-tāla-pramāṇataḥ .. 17.7 ..
प्राञ्जलीकृतहस्तां तां सर्वाभरणभूषितां । वामेन तां परिष्वज्य दक्षिणेनाभयप्रदं ॥ १७.८ ॥
प्राञ्जलीकृत-हस्ताम् ताम् सर्व-आभरण-भूषिताम् । वामेन ताम् परिष्वज्य दक्षिणेन अभय-प्रदम् ॥ १७।८ ॥
prāñjalīkṛta-hastām tām sarva-ābharaṇa-bhūṣitām . vāmena tām pariṣvajya dakṣiṇena abhaya-pradam .. 17.8 ..
अन्याभ्यां च कराभ्यां च शङ्खचक्रधरं परं । तार्क्ष्यंस्कन्धासनस्थं वा अन्यत्सर्वं च पूर्ववथ् ॥ १७.९ ॥
अन्याभ्याम् च कराभ्याम् च शङ्ख-चक्र-धरम् परम् । तार्क्ष्यम् स्कन्धासन-स्थम् वै अन्यत् सर्वम् च ॥ १७।९ ॥
anyābhyām ca karābhyām ca śaṅkha-cakra-dharam param . tārkṣyam skandhāsana-stham vai anyat sarvam ca .. 17.9 ..
तार्क्ष्यं नवार्धतालेन अर्धेषद्भृकुटिं? मुखं । दक्षिणोरौ स्थितां लक्ष्मीं केचिदिच्छन्तिसूरयः ॥ १७.१० ॥
तार्क्ष्यम् नव-अर्ध-तालेन अर्ध-इषद्-भृकुटिम्? मुखम् । दक्षिण-ऊरौ स्थिताम् लक्ष्मीम् केचिद् इच्छन्ति सूरयः ॥ १७।१० ॥
tārkṣyam nava-ardha-tālena ardha-iṣad-bhṛkuṭim? mukham . dakṣiṇa-ūrau sthitām lakṣmīm kecid icchanti sūrayaḥ .. 17.10 ..
नागभोगे समासीनमेवं कुर्यात्तु वा हरिं । सप्तभिः पञ्चभिर्वापि फणैर्विस्तारितैर्युतं ॥ १७.११ ॥
नागभोगे समासीनम् एवम् कुर्यात् तु वा हरिम् । सप्तभिः पञ्चभिः वा अपि फणैः विस्तारितैः युतम् ॥ १७।११ ॥
nāgabhoge samāsīnam evam kuryāt tu vā harim . saptabhiḥ pañcabhiḥ vā api phaṇaiḥ vistāritaiḥ yutam .. 17.11 ..
शेषं सम्यक्प्रकुर्वीत समुत्तुङ्गशरीरिणं । माधवं चोत्पलनिभं चक्रचावगदासिभिः ॥ १७.१२ ॥
शेषम् सम्यक् प्रकुर्वीत समुत्तुङ्ग-शरीरिणम् । माधवम् च उत्पल-निभम् चक्र-चाव-गदा-असिभिः ॥ १७।१२ ॥
śeṣam samyak prakurvīta samuttuṅga-śarīriṇam . mādhavam ca utpala-nibham cakra-cāva-gadā-asibhiḥ .. 17.12 ..
चतुर्भुजधरं कुर्याच्चित्रमाल्यांबरं हरिं । गोविन्दं पाण्डुराभं च चतुर्भुजधरं हरिं ॥ १७.१३ ॥
चतुर्-भुज-धरम् कुर्यात् चित्र-माल्य-अंबरम् हरिम् । गोविन्दम् पाण्डुर-आभम् च चतुर्-भुज-धरम् हरिम् ॥ १७।१३ ॥
catur-bhuja-dharam kuryāt citra-mālya-aṃbaram harim . govindam pāṇḍura-ābham ca catur-bhuja-dharam harim .. 17.13 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं कारयेद्बुधः । विष्णुं नीलोत्पलाभन्तु शङ्खार्यब्जगदाभृतं ॥ १७.१४ ॥
गदा-शङ्ख-अरि-पद्मानि बिभ्रन्तम् कारयेत् बुधः । विष्णुम् शङ्ख-अरि-अब्ज-गदा-आभृतम् ॥ १७।१४ ॥
gadā-śaṅkha-ari-padmāni bibhrantam kārayet budhaḥ . viṣṇum śaṅkha-ari-abja-gadā-ābhṛtam .. 17.14 ..
सर्वाभरण संयुक्तं पीतवाससमच्युतं । रक्तोत्पलाभं कुर्वीत देवं तु मधुसूदनं ॥ १७.१५ ॥
सर्व-आभरण-संयुक्तम् पीत-वाससम् अच्युतम् । रक्त-उत्पल-आभम् कुर्वीत देवम् तु मधुसूदनम् ॥ १७।१५ ॥
sarva-ābharaṇa-saṃyuktam pīta-vāsasam acyutam . rakta-utpala-ābham kurvīta devam tu madhusūdanam .. 17.15 ..
शङ्खार्यब्जगदापाणिं चतुर्भुजमनामयं । त्रिविक्रमं नीलवर्णं शङ्खार्यब्जगदाभृतं ॥ १७.१६ ॥
शङ्ख-आरि-अब्ज-गदा-पाणिम् चतुर्-भुजम् अनामयम् । त्रिविक्रमम् नील-वर्णम् शङ्ख-अरि-अब्ज-गदा-आभृतम् ॥ १७।१६ ॥
śaṅkha-āri-abja-gadā-pāṇim catur-bhujam anāmayam . trivikramam nīla-varṇam śaṅkha-ari-abja-gadā-ābhṛtam .. 17.16 ..
चतुर्भुजधरं देवं सर्वाभरणभूषितं । वामनं मेघवर्णं तु चतुर्बाहुं महाबलं ॥ १७.१७ ॥
चतुर्-भुज-धरम् देवम् सर्व-आभरण-भूषितम् । वामनम् मेघ-वर्णम् तु चतुर्-बाहुम् महा-बलम् ॥ १७।१७ ॥
catur-bhuja-dharam devam sarva-ābharaṇa-bhūṣitam . vāmanam megha-varṇam tu catur-bāhum mahā-balam .. 17.17 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं छलरूपिणं । अथ वा कारयेत्कुंभं दध्यन्नं च करद्वये ॥ १७.१८ ॥
गदा-शङ्ख-अरि-पद्मानि बिभ्रन्तम् छल-रूपिणम् । अथ वा कारयेत् कुंभम् दधि-अन्नम् च कर-द्वये ॥ १७।१८ ॥
gadā-śaṅkha-ari-padmāni bibhrantam chala-rūpiṇam . atha vā kārayet kuṃbham dadhi-annam ca kara-dvaye .. 17.18 ..
दधिवामनमाहुस्तं श्वेताभं द्विभुजं हरिं । अथ वा वटुरूपं तु धृत्वा दण्डकमण्डलू ॥ १७.१९ ॥
दधिवामनम् आहुः तम् श्वेत-आभम् द्वि-भुजम् हरिम् । अथ वा वटु-रूपम् तु धृत्वा दण्ड-कमण्डलू ॥ १७।१९ ॥
dadhivāmanam āhuḥ tam śveta-ābham dvi-bhujam harim . atha vā vaṭu-rūpam tu dhṛtvā daṇḍa-kamaṇḍalū .. 17.19 ..
स्वर्णच्छमि बालरूपं द्विभुजं कारयेद्धरिं । सितासिताभं कुर्वीत श्रीधरं तु चतुर्भुजं ॥ १७.२० ॥
स्वर्ण-छमि बाल-रूपम् द्वि-भुजम् कारयेत् हरिम् । सित-असित-आभम् कुर्वीत श्रीधरम् तु चतुर्-भुजम् ॥ १७।२० ॥
svarṇa-chami bāla-rūpam dvi-bhujam kārayet harim . sita-asita-ābham kurvīta śrīdharam tu catur-bhujam .. 17.20 ..
क्ॐओदकीशङ्खचक्रपद्मधारिणमीश्वरं । हृषीकेशं प्रकुर्वीत श्यामाभं च चतुर्भुजं ॥ १७.२१ ॥
कों ओदकी-शङ्ख-चक्र-पद्म-धारिणम् ईश्वरम् । हृषीकेशम् प्रकुर्वीत श्याम-आभम् च चतुर्-भुजम् ॥ १७।२१ ॥
koṃ odakī-śaṅkha-cakra-padma-dhāriṇam īśvaram . hṛṣīkeśam prakurvīta śyāma-ābham ca catur-bhujam .. 17.21 ..
गदाशङ्खारिपद्मानि बिभ्रन्तं हरिमव्ययं । सितमेचकवर्णन्तु पद्मनाभं प्रकल्पयेथ् ॥ १७.२२ ॥
गदा-शङ्ख-अरि-पद्मानि बिभ्रन्तम् हरिम् अव्ययम् । सित-मेचक-वर्णम् तु पद्मनाभम् ॥ १७।२२ ॥
gadā-śaṅkha-ari-padmāni bibhrantam harim avyayam . sita-mecaka-varṇam tu padmanābham .. 17.22 ..
क्ॐओदकीचक्रपद्मशङ्खपाणिं रमाधवं । दामोदरं प्रकुर्वीत सितगौराभमीश्वरं ॥ १७.२३ ॥
रमाधवम् । दामोदरम् प्रकुर्वीत सित-गौर-आभम् ईश्वरम् ॥ १७।२३ ॥
ramādhavam . dāmodaram prakurvīta sita-gaura-ābham īśvaram .. 17.23 ..
पद्मशङ्खगदाचक्रधरं देवं चतुर्भुजं । संकर्षणं तु कुर्वीत श्वेतवर्णं चतुर्भुजं ॥ १७.२४ ॥
पद्म-शङ्ख-गदा-चक्र-धरम् देवम् चतुर्भुजम् । संकर्षणम् तु कुर्वीत श्वेत-वर्णम् चतुर्-भुजम् ॥ १७।२४ ॥
padma-śaṅkha-gadā-cakra-dharam devam caturbhujam . saṃkarṣaṇam tu kurvīta śveta-varṇam catur-bhujam .. 17.24 ..
शङ्खार्यब्जगदापाणिं सर्वाधारं सनातनं । वासुदेवं प्रकुर्वीत तरुणादित्यसन्निभं ॥ १७.२५ ॥
शङ्ख-आरि-अब्ज-गदा-पाणिम् सर्व-आधारम् सनातनम् । वासुदेवम् प्रकुर्वीत तरुण-आदित्य-सन्निभम् ॥ १७।२५ ॥
śaṅkha-āri-abja-gadā-pāṇim sarva-ādhāram sanātanam . vāsudevam prakurvīta taruṇa-āditya-sannibham .. 17.25 ..
शङ्खचक्रगदापद्मधरं सर्वधरं विभुं । चन्द्राभं नवकुन्दाभमथ वा कालयेद्धरिं ॥ १७.२६ ॥
शङ्ख-चक्र-गदा-पद्म-धरम् सर्व-धरम् विभुम् । चन्द्र-आभम् नव-कुन्द-आभम् अथ वा कालयेत् हरिम् ॥ १७।२६ ॥
śaṅkha-cakra-gadā-padma-dharam sarva-dharam vibhum . candra-ābham nava-kunda-ābham atha vā kālayet harim .. 17.26 ..
प्रद्युम्नं तु सुवर्णाभं कुर्याद्देवं चतुर्भुजं । चक्रशङ्खगदापद्मधरं देवं महाबलं ॥ १७.२७ ॥
प्रद्युम्नम् तु सुवर्ण-आभम् कुर्यात् देवम् चतुर्-भुजम् । चक्र-शङ्ख-गदा-पद्म-धरम् देवम् महा-बलम् ॥ १७।२७ ॥
pradyumnam tu suvarṇa-ābham kuryāt devam catur-bhujam . cakra-śaṅkha-gadā-padma-dharam devam mahā-balam .. 17.27 ..
अनिरुद्धं हिरण्याभं सर्वालङ्कारसंयुतं । शङ्खचक्रधनुःखड्गधरं देवेश्वरेश्वरं ॥ १७.२८ ॥
अनिरुद्धम् हिरण्य-आभम् सर्व-अलङ्कार-संयुतम् । शङ्ख-चक्र-धनुः-खड्ग-धरम् देवेश्वर-ईश्वरम् ॥ १७।२८ ॥
aniruddham hiraṇya-ābham sarva-alaṅkāra-saṃyutam . śaṅkha-cakra-dhanuḥ-khaḍga-dharam deveśvara-īśvaram .. 17.28 ..
सितासिताभं कुर्वीत देवेशं पुरुषोत्तमं । शङ्खचक्रगदापद्मधरं देवं चतुर्भुजं ॥ १७.२९ ॥
सित-असित-आभम् कुर्वीत देवेशम् पुरुषोत्तमम् । शङ्ख-चक्र-गदा-पद्म-धरम् देवम् चतुर्भुजम् ॥ १७।२९ ॥
sita-asita-ābham kurvīta deveśam puruṣottamam . śaṅkha-cakra-gadā-padma-dharam devam caturbhujam .. 17.29 ..
अथोक्षजं प्रकुर्वीत शङ्खाभं च चतुर्भुजं । चक्रशङ्खगदापद्मधरं भूषणभूषितं ॥ १७.३० ॥
अथ उक्षजम् प्रकुर्वीत शङ्ख-आभम् च चतुर्-भुजम् । चक्र-शङ्ख-गदा-पद्म-धरम् भूषण-भूषितम् ॥ १७।३० ॥
atha ukṣajam prakurvīta śaṅkha-ābham ca catur-bhujam . cakra-śaṅkha-gadā-padma-dharam bhūṣaṇa-bhūṣitam .. 17.30 ..
नारसिंहं तु मेघाभं सर्वालङ्कारसंयुतं । शङ्खपद्मगदाचक्रधरं भक्ताभयप्रदं ॥ १७.३१ ॥
नारसिंहम् तु मेघ-आभम् सर्व-अलङ्कार-संयुतम् । शङ्ख-पद्म-गदा-चक्र-धरम् भक्त-अभय-प्रदम् ॥ १७।३१ ॥
nārasiṃham tu megha-ābham sarva-alaṅkāra-saṃyutam . śaṅkha-padma-gadā-cakra-dharam bhakta-abhaya-pradam .. 17.31 ..
सितमेचकवर्णं तु कुर्वीत विभुमच्युतं । गदाब्जचक्रशङ्खाङ्कं चतुर्भुजविराजितं ॥ १७.३२ ॥
सित-मेचक-वर्णम् तु कुर्वीत विभुम् अच्युतम् । गदा-अब्ज-चक्र-शङ्ख-अङ्कम् चतुर्-भुज-विराजितम् ॥ १७।३२ ॥
sita-mecaka-varṇam tu kurvīta vibhum acyutam . gadā-abja-cakra-śaṅkha-aṅkam catur-bhuja-virājitam .. 17.32 ..
जनार्दनमुदाराङ्गं नीलवर्णं समाचरेथ् । चक्रशङ्खगदापद्मधरं देवं सनातनं ॥ १७.३३ ॥
जनार्दनम् उदार-अङ्गम् नील-वर्णम् समाचरेथ् । चक्र-शङ्ख-गदा-पद्म-धरम् देवम् सनातनम् ॥ १७।३३ ॥
janārdanam udāra-aṅgam nīla-varṇam samācareth . cakra-śaṅkha-gadā-padma-dharam devam sanātanam .. 17.33 ..
अथ वा कटिविन्यस्तवामहस्तं प्रकल्पयेथ् । उपेन्द्रं घनकृष्णाभं सर्वाभरणभूषितं ॥ १७.३४ ॥
अथ वा कटि-विन्यस्त-वाम-हस्तम् । उपेन्द्रम् घन-कृष्ण-आभम् सर्व-आभरण-भूषितम् ॥ १७।३४ ॥
atha vā kaṭi-vinyasta-vāma-hastam . upendram ghana-kṛṣṇa-ābham sarva-ābharaṇa-bhūṣitam .. 17.34 ..
शङ्खचक्रगदापद्मधरं देवं जगत्प्रभुं । हरिं पाण्डुरकृष्णाभं सर्वालङ्कारशोभितं ॥ १७.३५ ॥
शङ्ख-चक्र-गदा-पद्म-धरम् देवम् जगत्प्रभुम् । हरिम् पाण्डुर-कृष्ण-आभम् सर्व-अलङ्कार-शोभितम् ॥ १७।३५ ॥
śaṅkha-cakra-gadā-padma-dharam devam jagatprabhum . harim pāṇḍura-kṛṣṇa-ābham sarva-alaṅkāra-śobhitam .. 17.35 ..
शङ्खपद्मगदाचक्रधरं कुर्यान्मनोहरं । कृष्णं तु नीरदश्यामं पुण्डरीकनिभेक्षणं ॥ १७.३६ ॥
शङ्ख-पद्म-गदा-चक्र-धरम् कुर्यात् मनोहरम् । कृष्णम् तु नीरद-श्यामम् पुण्डरीक-निभ-ईक्षणम् ॥ १७।३६ ॥
śaṅkha-padma-gadā-cakra-dharam kuryāt manoharam . kṛṣṇam tu nīrada-śyāmam puṇḍarīka-nibha-īkṣaṇam .. 17.36 ..
शङ्खचक्रगदापद्मधरं कुर्याद्विचक्षणः । सर्वेषां तु विमानानि विष्णोरुक्तवदाचरेथ् ॥ १७.३७ ॥
शङ्ख-चक्र-गदा-पद्म-धरम् कुर्यात् विचक्षणः । सर्वेषाम् तु विमानानि विष्णोः उक्त-वत् आचरेथ् ॥ १७।३७ ॥
śaṅkha-cakra-gadā-padma-dharam kuryāt vicakṣaṇaḥ . sarveṣām tu vimānāni viṣṇoḥ ukta-vat ācareth .. 17.37 ..
सभ्यकुण्डे प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । केशवं क्लेशसंहारं विष्णुं चैव परात्परम्ऽ ॥ १७.३८ ॥
सभ्य-कुण्डे प्रधान-अग्नौ हौत्रम् तत्र प्रशंस्य च । केशवम् क्लेश-संहारम् विष्णुम् च एव परात्परम् ॥ १७।३८ ॥
sabhya-kuṇḍe pradhāna-agnau hautram tatra praśaṃsya ca . keśavam kleśa-saṃhāram viṣṇum ca eva parātparam .. 17.38 ..
नारायणं नरं विष्णुं नरकान्तकऽ मित्यपि । माधवं पुण्डरीकाक्षं विष्णुं सर्वात्मकंऽ त्विति, ॥ १७.३९ ॥
नारायणम् नरम् विष्णुम् नरकान्तकम् इति अपि । माधवम् पुण्डरीकाक्षम् विष्णुम् सर्व-आत्मकम् तु इति, ॥ १७।३९ ॥
nārāyaṇam naram viṣṇum narakāntakam iti api . mādhavam puṇḍarīkākṣam viṣṇum sarva-ātmakam tu iti, .. 17.39 ..
गोविन्दं परमानन्दं विष्णुं चैव सनातनम्ऽ । विष्णुं व्यापिनमीशानं सर्वलोकाधिपं तथा ॥ १७.४० ॥
गोविन्दम् परम-आनन्दम् विष्णुम् च एव सनातनम् । विष्णुम् व्यापिनम् ईशानम् सर्व-लोक-अधिपम् तथा ॥ १७।४० ॥
govindam parama-ānandam viṣṇum ca eva sanātanam . viṣṇum vyāpinam īśānam sarva-loka-adhipam tathā .. 17.40 ..
मधुसूदनमुद्योगं महान्तं विष्णुऽमित्यपि । त्रिविक्रमं त्रिलोकेशं लोकाधारं सनातनम्ऽ ॥ १७.४१ ।
मधुसूदनम् उद्योगम् महान्तम् विष्णु इति अपि । त्रिविक्रमम् त्रिलोक-ईशम् लोक-आधारम् सनातनम् ॥ १७।४१ ।
madhusūdanam udyogam mahāntam viṣṇu iti api . trivikramam triloka-īśam loka-ādhāram sanātanam .. 17.41 .
वामनं वरदं चैव काश्यपिं चादितिप्रियम्ऽ । श्रीधरं पुरुषं चेति विष्णुं श्रीवत्सवक्षसम्ऽ ॥ १७.४२ ॥
वामनम् वरदम् च एव काश्यपिम् च अदिति-प्रियम् । श्रीधरम् पुरुषम् च इति विष्णुम् श्रीवत्स-वक्षसम् ॥ १७।४२ ॥
vāmanam varadam ca eva kāśyapim ca aditi-priyam . śrīdharam puruṣam ca iti viṣṇum śrīvatsa-vakṣasam .. 17.42 ..
हृषीकेशं जगन्नाथं विष्णुं विश्वमयंऽ तथा । पद्मनाभं सुरेशं च विष्णुं चैव जगत्पतिम्.ऽ ॥ १७.४३ ॥
हृषीकेशम् जगन्नाथम् विष्णुम् विश्व-मयम् तथा । पद्मनाभम् सुरेशम् च विष्णुम् च एव जगत्पतिम्। ॥ १७।४३ ॥
hṛṣīkeśam jagannātham viṣṇum viśva-mayam tathā . padmanābham sureśam ca viṣṇum ca eva jagatpatim. .. 17.43 ..
दामोदरं सदाधारं विष्णुं प्रणवरूपिणम्ऽ । संकर्षणं यदुवरं विष्णुं हलधरऽन्तथा ॥ १७.४४ ॥
दामोदरम् सत्-आधारम् विष्णुम् प्रणव-रूपिणम् । संकर्षणम् यदु-वरम् विष्णुम् ॥ १७।४४ ॥
dāmodaram sat-ādhāram viṣṇum praṇava-rūpiṇam . saṃkarṣaṇam yadu-varam viṣṇum .. 17.44 ..
वासुदेवं पुण्यमूर्तिं भद्रेशं पुण्यरूपिणम्ऽ । प्रद्युम्नं जगदीशानं विष्णु पुण्यात्मकंऽ तथा ॥ १७.४५ ॥
वासुदेवम् पुण्य-मूर्तिम् भद्र-ईशम् पुण्य-रूपिणम् । प्रद्युम्नम् जगत्-ईशानम् विष्णु पुण्य-आत्मकम् तथा ॥ १७।४५ ॥
vāsudevam puṇya-mūrtim bhadra-īśam puṇya-rūpiṇam . pradyumnam jagat-īśānam viṣṇu puṇya-ātmakam tathā .. 17.45 ..
अनिरुद्धं महान्तं च वैराग्यं सर्वतेजसम्ऽ । पुरुषोत्तममानन्दं विष्णुं पञ्चात्मकंऽ तथा ॥ १७.४६ ॥
अनिरुद्धम् महान्तम् च वैराग्यम् सर्व-तेजसम् । पुरुषोत्तमम् आनन्दम् विष्णुम् पञ्चात्मकम् तथा ॥ १७।४६ ॥
aniruddham mahāntam ca vairāgyam sarva-tejasam . puruṣottamam ānandam viṣṇum pañcātmakam tathā .. 17.46 ..
अधोक्षजमनादिं च विष्णुं व्यापकऽ मित्यपि । नारसिंहं तपोनाथं महाविष्णुं महाबलम्ऽ ॥ १७.४७ ॥
अधोक्षजम् अनादिम् च विष्णुम् व्यापकम् इति अपि । नारसिंहम् तपः-नाथम् महा-विष्णुम् महाबलम् ॥ १७।४७ ॥
adhokṣajam anādim ca viṣṇum vyāpakam iti api . nārasiṃham tapaḥ-nātham mahā-viṣṇum mahābalam .. 17.47 ..
अच्युतं चापरिमितमैश्वर्यं श्रीपतिंऽ तथा । जनार्दनमनाद्यन्तं विष्णुं तेजोमयंऽ तथा ॥ १७.४८ ॥
अच्युतम् च अपरिमितम् ऐश्वर्यम् श्रीपतिम् तथा । जनार्दनम् अनाद्यन्तम् विष्णुम् तेजः-मयम् तथा ॥ १७।४८ ॥
acyutam ca aparimitam aiśvaryam śrīpatim tathā . janārdanam anādyantam viṣṇum tejaḥ-mayam tathā .. 17.48 ..
उपेन्द्रमिन्द्रावरजं विष्णुं वैकुण्ठऽमित्यपि । हरिं पापहरं चेति विष्णुं मङ्गलविग्रहं ॥ १७.४९ ॥
उपेन्द्रम् इन्द्र-अवरजम् विष्णुम् वैकुण्ठम् इति अपि । हरिम् पाप-हरम् च इति विष्णुम् मङ्गल-विग्रहम् ॥ १७।४९ ॥
upendram indra-avarajam viṣṇum vaikuṇṭham iti api . harim pāpa-haram ca iti viṣṇum maṅgala-vigraham .. 17.49 ..
कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमित्यपि । आवाह्य तु क्रमेणैव निरुप्याज्याहुतीर्यजेथ् ॥ १७.५० ॥
कृष्णम् नारायणम् पुण्यम् त्रिदशाधिप इति अपि । आवाह्य तु क्रमेण एव निरुप्य आज्य-आहुतीः यजेथ् ॥ १७।५० ॥
kṛṣṇam nārāyaṇam puṇyam tridaśādhipa iti api . āvāhya tu krameṇa eva nirupya ājya-āhutīḥ yajeth .. 17.50 ..
विष्णोर्नुकाऽदभिष्षड्भि"रतोदेवाऽदभिस्तथा । केशवादिद्वादशानां मन्त्रैर्द्वादशभिर्हुनेथ् ॥ १७.५१ ॥
विष्णोः नुका अ त्-अ त्-अभिः षड्भिः"रतोदेवा अदभिः तथा । केशव-आदि-द्वादशानाम् मन्त्रैः द्वादशभिः हुनेथ् ॥ १७।५१ ॥
viṣṇoḥ nukā a t-a t-abhiḥ ṣaḍbhiḥ"ratodevā adabhiḥ tathā . keśava-ādi-dvādaśānām mantraiḥ dvādaśabhiḥ huneth .. 17.51 ..
नारसिंहस्य कृष्णस्य मन्त्रः पूर्वमुदीरितः । इतरेषां दशानां तु दशमन्त्राः प्रकीर्तिताः ॥ १७.५२ ॥
नारसिंहस्य कृष्णस्य मन्त्रः पूर्वम् उदीरितः । इतरेषाम् दशानाम् तु दश-मन्त्राः प्रकीर्तिताः ॥ १७।५२ ॥
nārasiṃhasya kṛṣṇasya mantraḥ pūrvam udīritaḥ . itareṣām daśānām tu daśa-mantrāḥ prakīrtitāḥ .. 17.52 ..
विष्णुस्सर्वेषाऽमित्यादि यं यज्ञैऽरन्तमीरिताः । तं तं देवं समुद्दिश्य तत्तन्मन्त्रेण चात्वरः ॥ १७.५३ ॥
विष्णुः सर्वेषाम् इत्यादि यम् यज्ञैः ईरिताः । तम् तम् देवम् समुद्दिश्य तद्-तद्-मन्त्रेण चात्वरः ॥ १७।५३ ॥
viṣṇuḥ sarveṣām ityādi yam yajñaiḥ īritāḥ . tam tam devam samuddiśya tad-tad-mantreṇa cātvaraḥ .. 17.53 ..
शतमष्टाधिकं हुत्वा शेषं पूर्ववदाचरेथ् । एवं सर्वत्र कुर्वीत देवीभ्यां सहितं विभुं ॥ १७.५४ ॥
शतम् अष्ट-अधिकम् हुत्वा शेषम् पूर्ववत् आचरेथ् । एवम् सर्वत्र कुर्वीत देवीभ्याम् सहितम् विभुम् ॥ १७।५४ ॥
śatam aṣṭa-adhikam hutvā śeṣam pūrvavat ācareth . evam sarvatra kurvīta devībhyām sahitam vibhum .. 17.54 ..
तद्रूपं कौतुकं कुर्यात्सर्वलक्षणलक्षितं । कर्षणादिक्रियास्सर्वा विष्णोरिन समाचरेथ् ॥ १७.५५ ॥
तद्-रूपम् कौतुकम् कुर्यात् सर्व-लक्षण-लक्षितम् । कर्षण-आदि-क्रियाः सर्वाः ॥ १७।५५ ॥
tad-rūpam kautukam kuryāt sarva-lakṣaṇa-lakṣitam . karṣaṇa-ādi-kriyāḥ sarvāḥ .. 17.55 ..
लक्ष्मीकल्पः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमं । अष्टधा प्रोच्यते लक्ष्मीः प्रथमा त्वनपायिनी ॥ १७.५६ ॥
अथ वक्ष्ये विशेषेण लक्ष्मी-स्थापनम् उत्तमम् । अष्टधा प्रोच्यते लक्ष्मीः प्रथमा तु अनपायिनी ॥ १७।५६ ॥
atha vakṣye viśeṣeṇa lakṣmī-sthāpanam uttamam . aṣṭadhā procyate lakṣmīḥ prathamā tu anapāyinī .. 17.56 ..
विष्णोर्वक्षस्थ्सलेकार्या सर्वालङ्कारसंयुता । दक्षस्तनस्योर्ध्वभागे वह्न्यश्रेदिव्यमण्डले ॥ १७.५७ ॥
सर्व-अलङ्कार-संयुता । दक्ष-स्तनस्य ऊर्ध्व-भागे वह्न्यश्रेदिव्य-मण्डले ॥ १७।५७ ॥
sarva-alaṅkāra-saṃyutā . dakṣa-stanasya ūrdhva-bhāge vahnyaśredivya-maṇḍale .. 17.57 ..
पद्ममध्ये समासीनां पद्मद्वयकराञ्चितां । वरदाभयहस्तां च मन्दस्मित मुखांबुजां ॥ १७.५८ ॥
पद्म-मध्ये समासीनाम् पद्म-द्वय-कर-आञ्चिताम् । वर-द-अभय-हस्ताम् च मन्द-स्मित मुख-अंबुजाम् ॥ १७।५८ ॥
padma-madhye samāsīnām padma-dvaya-kara-āñcitām . vara-da-abhaya-hastām ca manda-smita mukha-aṃbujām .. 17.58 ..
एवं रूपां प्रकुर्वीत योगलक्ष्मीस्तुसा मता । योगलक्ष्मीं प्रतिष्ठाप्य श्रीकामस्सम्यगर्चयेथ् ॥ १७.५९ ॥
एवम् रूपाम् प्रकुर्वीत योग-लक्ष्मीः तु सा मता । योग-लक्ष्मीम् प्रतिष्ठाप्य श्री-कामः सम्यक् अर्चयेथ् ॥ १७।५९ ॥
evam rūpām prakurvīta yoga-lakṣmīḥ tu sā matā . yoga-lakṣmīm pratiṣṭhāpya śrī-kāmaḥ samyak arcayeth .. 17.59 ..
देवेशेन समं कुर्यादस्यास्थ्चापनमुत्तमं । कालान्तरे प्रकुर्याच्छेद्धेमरूप्यादिना पुनः ॥ १७.६० ॥
देवेशेन समम् कुर्यात् अस्य अस्थि-चापनम् उत्तमम् । काल-अन्तरे प्रकुर्यात् छेद्धेम-रूप्य-आदिना पुनर् ॥ १७।६० ॥
deveśena samam kuryāt asya asthi-cāpanam uttamam . kāla-antare prakuryāt cheddhema-rūpya-ādinā punar .. 17.60 ..
कृत्वा श्रीवत्सरूपं तु धारयेद्विष्णुमव्ययं । तत्तद्बिंबानुरूपं च कुर्याच्छ्रीवत्सलक्षणं ॥ १७.६१ ॥
कृत्वा श्रीवत्स-रूपम् तु धारयेत् विष्णुम् अव्ययम् । तद्-तद्-बिंब-अनुरूपम् च कुर्यात् श्रीवत्स-लक्षणम् ॥ १७।६१ ॥
kṛtvā śrīvatsa-rūpam tu dhārayet viṣṇum avyayam . tad-tad-biṃba-anurūpam ca kuryāt śrīvatsa-lakṣaṇam .. 17.61 ..
भोगलक्ष्म्यस्समाख्याता श्श्रीभूनीलाः क्रमादिमाः । ध्रुवादिषु तु बेरेषु श्रीभूम्यौ देवपाशन्व्गे ॥ १७.६२ ॥
भोग-लक्ष्म्यः समाख्याता श्श्री-भूनीलाः क्रमात् इमाः । ध्रुव-आदिषु तु बेरेषु श्री-भूम्यौ देव-पाश-न्व्गे ॥ १७।६२ ॥
bhoga-lakṣmyaḥ samākhyātā śśrī-bhūnīlāḥ kramāt imāḥ . dhruva-ādiṣu tu bereṣu śrī-bhūmyau deva-pāśa-nvge .. 17.62 ..
वैकुण्ठमार्गसंचारा नीला नित्यसमाश्रिता । श्रीभूम्योस्थ्सापनं पूर्वं देवेशेन सहोदितं ॥ १७.६३ ॥
वैकुण्ठ-मार्ग-संचारा नीला नित्य-समाश्रिता । पूर्वम् देवेशेन सह उदितम् ॥ १७।६३ ॥
vaikuṇṭha-mārga-saṃcārā nīlā nitya-samāśritā . pūrvam deveśena saha uditam .. 17.63 ..
देवीभ्यां रहिते देवे कुर्यात्कालान्तरे पुनः । पृधक्प्रतिष्ठां श्रीभूम्योः कुर्यादाङ्गिरसोक्तिवथ् ॥ १७.६४ ॥
देवीभ्याम् रहिते देवे कुर्यात् काल-अन्तरे पुनर् । पृधक् प्रतिष्ठाम् श्री-भूम्योः कुर्यात् आङ्गिरस-उक्ति-वथ् ॥ १७।६४ ॥
devībhyām rahite deve kuryāt kāla-antare punar . pṛdhak pratiṣṭhām śrī-bhūmyoḥ kuryāt āṅgirasa-ukti-vath .. 17.64 ..
वीरलक्ष्मीरिति प्रोक्ता पृथगालयसंगता । अलयाद्दक्षिणे पार्श्वेकुर्यात्तु पृथगालयं ॥ १७.६५ ॥
वीरलक्ष्मीः इति प्रोक्ता पृथक् आलय-संगता । अलयात् दक्षिणे पार्श्वे कुर्यात् तु पृथक् आलयम् ॥ १७।६५ ॥
vīralakṣmīḥ iti proktā pṛthak ālaya-saṃgatā . alayāt dakṣiṇe pārśve kuryāt tu pṛthak ālayam .. 17.65 ..
दशतालेन मानेन कुर्याद्देवीन सलक्षणां । पद्मद्वयकरां चैव वन्दा भयधारिणीं ॥ १७.६६ ॥
दश-तालेन मानेन कुर्यात् देवीन स लक्षणाम् । पद्म-द्वय-कराम् च एव वन्दा भय-धारिणीम् ॥ १७।६६ ॥
daśa-tālena mānena kuryāt devīna sa lakṣaṇām . padma-dvaya-karām ca eva vandā bhaya-dhāriṇīm .. 17.66 ..
किरीटमुकुचोपेतां सर्वालङ्कारशोभितं । पद्मासने समासीनां हेमाभां सर्वमङ्गलां ॥ १७.६७ ॥
किरीट-मुकुच-उपेताम् सर्व-अलङ्कार-शोभितम् । पद्मासने समासीनाम् हेम-आभाम् सर्व-मङ्गलाम् ॥ १७।६७ ॥
kirīṭa-mukuca-upetām sarva-alaṅkāra-śobhitam . padmāsane samāsīnām hema-ābhām sarva-maṅgalām .. 17.67 ..
गोदामन्यां प्रकुर्वीत लक्ष्मीं तु विजयाभिधां । नवतालें मानेन कुर्यादन्यालयाश्रितां ॥ १७.६८ ॥
गोदाम् अन्याम् प्रकुर्वीत लक्ष्मीम् तु विजया-अभिधाम् । नव-तालेम् मानेन कुर्यात् अन्य-आलय-आश्रिताम् ॥ १७।६८ ॥
godām anyām prakurvīta lakṣmīm tu vijayā-abhidhām . nava-tālem mānena kuryāt anya-ālaya-āśritām .. 17.68 ..
दक्षिणेन तु हस्तेन कल्हारं दधतीं तथा । प्रसारितेतरकरां बद्धधम्मिल्लशोभिनीं ॥ १७.६९ ॥
दक्षिणेन तु हस्तेन कल्हारम् दधतीम् तथा । प्रसारित-इतर-कराम् बद्ध-धम्मिल्ल-शोभिनीम् ॥ १७।६९ ॥
dakṣiṇena tu hastena kalhāram dadhatīm tathā . prasārita-itara-karām baddha-dhammilla-śobhinīm .. 17.69 ..
सर्वालङ्कारसंयुक्तां तिष्ठन्तीमेव कारयेथ् । गोदा भूम्यंशजा प्रोक्ता तन्मन्त्रेणाचरेत्क्रियाः ॥ १७.७० ॥
सर्व-अलङ्कार-संयुक्ताम् तिष्ठन्तीम् एव कारयेथ् । गोदा भूमि-अंश-जा प्रोक्ता तद्-मन्त्रेण आचरेत् क्रियाः ॥ १७।७० ॥
sarva-alaṅkāra-saṃyuktām tiṣṭhantīm eva kārayeth . godā bhūmi-aṃśa-jā proktā tad-mantreṇa ācaret kriyāḥ .. 17.70 ..
पाकलक्ष्मीस्समाख्याता पचनालयसंगता । अष्टतालेन मानेन कुर्यात्तां पचनालये ॥ १७.७१ ॥
पाक-लक्ष्मीः समाख्याता पचन-आलय-संगता । अष्ट-तालेन मानेन कुर्यात् ताम् पचन-आलये ॥ १७।७१ ॥
pāka-lakṣmīḥ samākhyātā pacana-ālaya-saṃgatā . aṣṭa-tālena mānena kuryāt tām pacana-ālaye .. 17.71 ..
पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । आसीनां वाथ तिष्ठन्तीं कुर्याद्भूषणभूषितां ॥ १७.७२ ॥
पद्म-द्वय-आञ्चित-कराम् वरद-अभय-धारिणीम् । आसीनाम् वा अथ तिष्ठन्तीम् कुर्यात् भूषण-भूषिताम् ॥ १७।७२ ॥
padma-dvaya-āñcita-karām varada-abhaya-dhāriṇīm . āsīnām vā atha tiṣṭhantīm kuryāt bhūṣaṇa-bhūṣitām .. 17.72 ..
द्वितीय मण्डपद्वारे द्वारलक्ष्मीं समाचरेथ् । पतङ्गपट्टिकामध्ये सर्वालङ्कारशोभितां ॥ १७.७३ ॥
द्वितीय मण्डप-द्वारे द्वार-लक्ष्मीम् समाचरेथ् । पतङ्ग-पट्टिका-मध्ये सर्व-अलङ्कार-शोभिताम् ॥ १७।७३ ॥
dvitīya maṇḍapa-dvāre dvāra-lakṣmīm samācareth . pataṅga-paṭṭikā-madhye sarva-alaṅkāra-śobhitām .. 17.73 ..
पद्मद्वयाञ्चितकरां वरदाभयधारिणीं । पद्मासने समासीनां किरीटादिविभूषितां ॥ १७.७४ ॥
पद्म-द्वय-आञ्चित-कराम् वरद-अभय-धारिणीम् । पद्मासने समासीनाम् किरीट-आदि-विभूषिताम् ॥ १७।७४ ॥
padma-dvaya-āñcita-karām varada-abhaya-dhāriṇīm . padmāsane samāsīnām kirīṭa-ādi-vibhūṣitām .. 17.74 ..
गजै तु पाशन्व्योःकुर्याद्धेमकुंभकरौ पुनः । सिंचन्तौ तौ महालक्ष्मीं कुर्यात्कुंभजलैस्तथा ॥ १७.७५ ॥
तु पाश-न्व्योः कुर्यात् हेम-कुंभ-करौ पुनर् । सिंचन्तौ तौ महा-लक्ष्मीम् कुर्यात् कुंभ-जलैः तथा ॥ १७।७५ ॥
tu pāśa-nvyoḥ kuryāt hema-kuṃbha-karau punar . siṃcantau tau mahā-lakṣmīm kuryāt kuṃbha-jalaiḥ tathā .. 17.75 ..
श्रीभूम्योर्वीरविजयलक्ष्म्योरेव विधीयते । ध्रवबेरानुरूपेण बेरान्तरसमर्चनं ॥ १७.७६ ॥
श्री-भूम्योः वीरविजय-लक्ष्म्योः एव विधीयते । ध्रव-बेर-अनुरूपेण बेर-अन्तर-समर्चनम् ॥ १७।७६ ॥
śrī-bhūmyoḥ vīravijaya-lakṣmyoḥ eva vidhīyate . dhrava-bera-anurūpeṇa bera-antara-samarcanam .. 17.76 ..
तद्रूपं कौतुकं कुर्यादुत्सवादि यथेच्छया । अन्यासांनैव कुर्वीत ध्रुवार्चामेव कारयेथ् ॥ १७.७७ ॥
तद्-रूपम् कौतुकम् कुर्यात् उत्सव-आदि यथा इच्छया । अन्यासाम् न एव कुर्वीत ध्रुव-अर्चाम् एव ॥ १७।७७ ॥
tad-rūpam kautukam kuryāt utsava-ādi yathā icchayā . anyāsām na eva kurvīta dhruva-arcām eva .. 17.77 ..
पैण्डरीके प्रधानाग्नौ हौत्रं तत्र प्रशंस्य च । श्रीभूम्योर्मूर्तिमन्त्रैश्च क्रमेणावाहनादिकं ॥ १७.७८ ॥
पैण्डरीके प्रधान-अग्नौ हौत्रम् तत्र प्रशंस्य च । श्री-भूम्योः मूर्ति-मन्त्रैः च क्रमेण आवाहन-आदिकम् ॥ १७।७८ ॥
paiṇḍarīke pradhāna-agnau hautram tatra praśaṃsya ca . śrī-bhūmyoḥ mūrti-mantraiḥ ca krameṇa āvāhana-ādikam .. 17.78 ..
गोदां कृष्णप्रियां लक्ष्मीं रुक्मिणीऽमिति चाह्वयेथ् । आवाहनक्रमेणैव तन्मन्त्रैर्जुहुयात्क्ररूथ् ॥ १७.७९ ॥
गोदाम् कृष्णप्रियाम् लक्ष्मीम् रुक्मिणी इति । आवाहन-क्रमेण एव तद्-मन्त्रैः जुहुयात् क्ररूथ् ॥ १७।७९ ॥
godām kṛṣṇapriyām lakṣmīm rukmiṇī iti . āvāhana-krameṇa eva tad-mantraiḥ juhuyāt krarūth .. 17.79 ..
प्रतिष्ठोक्तक्रमेणैव सर्वं पूर्ववदाचरेथ् । नवषट्पञ्चमूर्तीनां विमानस्यालयस्य च ॥ १७.८० ॥
प्रतिष्ठा-उक्त-क्रमेण एव सर्वम् पूर्ववत् आचरेथ् । नव-षष्-पञ्च-मूर्तीनाम् विमानस्य आलयस्य च ॥ १७।८० ॥
pratiṣṭhā-ukta-krameṇa eva sarvam pūrvavat ācareth . nava-ṣaṣ-pañca-mūrtīnām vimānasya ālayasya ca .. 17.80 ..
द्विमूर्तिस्थापनं तद्वत्रिमूर्तस्थापनं तथा । अन्येषां परिवाराणां स्थापनं विधिवच्चरेथ् ॥ १७.८१ ॥
द्विमूर्ति-स्थापनम् तद्वत् त्रिमूर्त-स्थापनम् तथा । अन्येषाम् परिवाराणाम् स्थापनम् विधिवत् चरेथ् ॥ १७।८१ ॥
dvimūrti-sthāpanam tadvat trimūrta-sthāpanam tathā . anyeṣām parivārāṇām sthāpanam vidhivat careth .. 17.81 ..
यद्यत्समर्प्यते वस्तु देवेशस्य तु मन्दिरे । तत्तत्सर्वं विधानेन प्रतिष्ठाप्य समर्पयेथ् ॥ १७.८२ ॥
यत् यत् समर्प्यते वस्तु देवेशस्य तु मन्दिरे । तत् तत् सर्वम् विधानेन प्रतिष्ठाप्य समर्पयेथ् ॥ १७।८२ ॥
yat yat samarpyate vastu deveśasya tu mandire . tat tat sarvam vidhānena pratiṣṭhāpya samarpayeth .. 17.82 ..
असंस्कृतं तु न ग्राह्यं न तद्देवप्रियं भवेथ् । भूषणानि च वा सांसि पात्राण्यन्यत्परिच्छदं ॥ १७.८३ ॥
अ संस्कृतम् तु न ग्राह्यम् न तत् देव-प्रियम् । भूषणानि च वा सांसि पात्राणि अन्य-परिच्छदम् ॥ १७।८३ ॥
a saṃskṛtam tu na grāhyam na tat deva-priyam . bhūṣaṇāni ca vā sāṃsi pātrāṇi anya-paricchadam .. 17.83 ..
बेरालङ्कारयोग्यानि धामालङ्करणानि च । यथाहंन्संस्कृतान्येव गृह्णीयात्सफलं भवेथ् ॥ १७.८४ ॥
बेर-अलङ्कार-योग्यानि धाम-अलङ्करणानि च । यथा अहन् संस्कृतानि एव गृह्णीयात् सफलम् ॥ १७।८४ ॥
bera-alaṅkāra-yogyāni dhāma-alaṅkaraṇāni ca . yathā ahan saṃskṛtāni eva gṛhṇīyāt saphalam .. 17.84 ..
तत्तद्द्रव्याधिदैवत्यं देवतामूर्तिमन्त्रकं । जुहुयात्सर्वमन्यच्च प्रतिष्ठोक्तवदाचरेथ् ॥ १७.८५ ॥
तद्-तद्-द्रव्य-अधिदैवत्यम् देवता-मूर्ति-मन्त्रकम् । जुहुयात् सर्वम् अन्यत् च प्रतिष्ठा-उक्त-वत् आचरेथ् ॥ १७।८५ ॥
tad-tad-dravya-adhidaivatyam devatā-mūrti-mantrakam . juhuyāt sarvam anyat ca pratiṣṭhā-ukta-vat ācareth .. 17.85 ..
द्रव्याधिदेवताकल्बस्सम्यगुक्तो मयाखिले ॥ १७.८६ ॥
द्रव्य-अधिदेवता-कल्बः सम्यक् उक्तः मया अखिले ॥ १७।८६ ॥
dravya-adhidevatā-kalbaḥ samyak uktaḥ mayā akhile .. 17.86 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे सप्तदशोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृसु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे सप्तदशः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛsu-proktāyām saṃhitāyām prakīrṇa-adhikāre saptadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In