| |
|

This overlay will guide you through the buttons:

अथ सप्तमोऽध्यायः.
अथ सप्तमः अध्यायः।
atha saptamaḥ adhyāyaḥ.
परिवारालयलक्षणम्.
अथातः परिवाराणामालयस्य च लक्षणं । विमानात्पादहीनं वा तदर्धं वा समाचरेथ् ॥ ७.१ ॥
अथ अतस् परिवाराणाम् आलयस्य च लक्षणम् । विमानात् पाद-हीनम् वा तद्-अर्धम् वा समाचरेथ् ॥ ७।१ ॥
atha atas parivārāṇām ālayasya ca lakṣaṇam . vimānāt pāda-hīnam vā tad-ardham vā samācareth .. 7.1 ..
वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकं । सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेथ् ॥ ७.२ ॥
वर्ण-युक्तम् ततस् श्रेष्ठम् कनियः-वर्ण-हीनकम् । सोम-ईशान-द्वयोः मध्ये विष्वक्सेनम् ॥ ७।२ ॥
varṇa-yuktam tatas śreṣṭham kaniyaḥ-varṇa-hīnakam . soma-īśāna-dvayoḥ madhye viṣvaksenam .. 7.2 ..
द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयं । तस्य पश्चिमदेशेतु पानीयस्थानमेवच ॥ ७.३ ॥
द्वारस्य दक्षिणे च इन्द्र माग्नेय्याम् पचन-आलयम् । तस्य पश्चिम-देशे तु पानीय-स्थानम् एव च ॥ ७।३ ॥
dvārasya dakṣiṇe ca indra māgneyyām pacana-ālayam . tasya paścima-deśe tu pānīya-sthānam eva ca .. 7.3 ..
याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपं । ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयं ॥ ७.४ ॥
याम्ये शयनम् उद्दिष्टम् तद्-पूर्वे याग-मण्डपम् । ऐशान्ये दक्षिणे वस्त्र-संचयम् ॥ ७।४ ॥
yāmye śayanam uddiṣṭam tad-pūrve yāga-maṇḍapam . aiśānye dakṣiṇe vastra-saṃcayam .. 7.4 ..
ईशानसोमयोर्मध्ये स्थापनं ... तथा । इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ॥ ७.५ ॥
ईशान-सोमयोः मध्ये स्थापनम् ॥। तथा । इन्द्र-अग्न्योः मध्यम् च एव धान्य-स्थानम् प्रशस्यते ॥ ७।५ ॥
īśāna-somayoḥ madhye sthāpanam ... tathā . indra-agnyoḥ madhyam ca eva dhānya-sthānam praśasyate .. 7.5 ..
सोपानमध्ये श्रीभूतमर्चयेद्बहिराननं । पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेथ् ॥ ७.६ ॥
सोपान-मध्ये श्री-भूतम् अर्चयेत् बहिस् आननम् । पुरस्तात् गरुडम् तस्य देव-अभिमुखम् अर्चयेथ् ॥ ७।६ ॥
sopāna-madhye śrī-bhūtam arcayet bahis ānanam . purastāt garuḍam tasya deva-abhimukham arcayeth .. 7.6 ..
विमानपालान्दिक्पालान्भास्करेण समायुतं । चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकं ॥ ७.७ ॥
विमान-पालान् दिक्पालान् भास्करेण समायुतम् । चक्रम् ध्वजम् च शङ्खम् च भूतम् वै भूतनायकम् ॥ ७।७ ॥
vimāna-pālān dikpālān bhāskareṇa samāyutam . cakram dhvajam ca śaṅkham ca bhūtam vai bhūtanāyakam .. 7.7 ..
प्रथमावरणे देहुस्तत्तद्देशे समर्चयेथ् । उत्सवं बलिमारभ्य अनपायिविशेषतः ॥ ७.८ ॥
प्रथम-आवरणे । उत्सवम् बलिम् आरभ्य अनपायि-विशेषतः ॥ ७।८ ॥
prathama-āvaraṇe . utsavam balim ārabhya anapāyi-viśeṣataḥ .. 7.8 ..
अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेथ् । देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितं ॥ ७.९ ॥
अमितस्य अपि प्रदक्षिणम् अथ आचरेथ् । देवस्य कण्ठ-सीमान्तम् बाह्यन्तम् स्तन-सम्मितम् ॥ ७।९ ॥
amitasya api pradakṣiṇam atha ācareth . devasya kaṇṭha-sīmāntam bāhyantam stana-sammitam .. 7.9 ..
नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमाथ् । धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ॥ ७.१० ॥
न अभ्यन्तम् वा विशेषेण परिवार-उदयम् । धातृ-आदि-भूत-पर्यन्तम् परिवारान् विशेषतः ॥ ७।१० ॥
na abhyantam vā viśeṣeṇa parivāra-udayam . dhātṛ-ādi-bhūta-paryantam parivārān viśeṣataḥ .. 7.10 ..
वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकं । मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणं ॥ ७.११ ॥
वर्ण-वाहन-केतु-आद्यैः नाम-नक्षत्र-पूर्वकम् । मया अ क्रिया-अधिकारे तु ॥ ७।११ ॥
varṇa-vāhana-ketu-ādyaiḥ nāma-nakṣatra-pūrvakam . mayā a kriyā-adhikāre tu .. 7.11 ..
बेरलक्षणम्-(शैलादि भेदः)
अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमं । शैलजं रत्नजं चैव धातुजं दारवं तथा ॥ ७.१२ ॥
अथ वक्ष्ये विशेषेण बेर-लक्षणम् उत्तमम् । शैलजम् रत्नजम् च एव धातुजम् दारवम् तथा ॥ ७।१२ ॥
atha vakṣye viśeṣeṇa bera-lakṣaṇam uttamam . śailajam ratnajam ca eva dhātujam dāravam tathā .. 7.12 ..
मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते । चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ॥ ७.१३ ॥
मृण्मयम् स्यात् तथा एव इति पञ्चधा आबेरम् उच्यते । चतुर्विधम् तु शैलम् स्यात् सप्तधा रत्न-जम् तथा ॥ ७।१३ ॥
mṛṇmayam syāt tathā eva iti pañcadhā āberam ucyate . caturvidham tu śailam syāt saptadhā ratna-jam tathā .. 7.13 ..
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते । मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ॥ ७.१४ ॥
अष्टधा धातुजम् प्रोक्तम् दारुजम् षोडश उच्यते । मृण्मयम् द्विविधम् प्रोक्तम् क्रमात् लक्षणम् उच्यते ॥ ७।१४ ॥
aṣṭadhā dhātujam proktam dārujam ṣoḍaśa ucyate . mṛṇmayam dvividham proktam kramāt lakṣaṇam ucyate .. 7.14 ..
शैलजलक्षणम्
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयं । शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ॥ ७.१५ ॥
श्वेतम् रक्तम् तथा पीतम् कृष्णम् च एव चतुष्टयम् । शैलजम् भेदम् आख्यातम् तस्य लक्षणम् उच्यते ॥ ७।१५ ॥
śvetam raktam tathā pītam kṛṣṇam ca eva catuṣṭayam . śailajam bhedam ākhyātam tasya lakṣaṇam ucyate .. 7.15 ..
गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा । शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ॥ ७.१६ ॥
गो क्षीर-सन्निभा च एव शङ्ख-कुन्द-इन्दु-सन्निभा । शीला श्वेता समाख्याता सा तु वश्य-प्रदायिका ॥ ७।१६ ॥
go kṣīra-sannibhā ca eva śaṅkha-kunda-indu-sannibhā . śīlā śvetā samākhyātā sā tu vaśya-pradāyikā .. 7.16 ..
जपाकुसुमसंकाशा शिला शोणितसन्निभा । बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ॥ ७.१७ ॥
जपा-कुसुम-संकाशा शिला शोणित-सन्निभा । बन्धूक-पुष्प-प्रतिमा जाति-हिङ्गुलिका-उपमा ॥ ७।१७ ॥
japā-kusuma-saṃkāśā śilā śoṇita-sannibhā . bandhūka-puṣpa-pratimā jāti-hiṅgulikā-upamā .. 7.17 ..
शिला रक्ता समाख्याता जयदा लक्षणान्विता । पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ॥ ७.१८ ॥
शिला रक्ता समाख्याता जय-दा लक्षण-अन्विता । पीता सुवर्ण-सदृशा रजनी-चूर्ण-सन्निभा ॥ ७।१८ ॥
śilā raktā samākhyātā jaya-dā lakṣaṇa-anvitā . pītā suvarṇa-sadṛśā rajanī-cūrṇa-sannibhā .. 7.18 ..
शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा । माषमुद्गल?संकाशा तथाजंबूफलोपमा ॥ ७.१९ ॥
शिला लक्षण-संयुक्ता धन-धान्य-सुख-प्रदा । माष-मुद्गल?संकाशा तथा जंबू-फल-उपमा ॥ ७।१९ ॥
śilā lakṣaṇa-saṃyuktā dhana-dhānya-sukha-pradā . māṣa-mudgala?saṃkāśā tathā jaṃbū-phala-upamā .. 7.19 ..
भृङ्ग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता । शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ॥ ७.२० ॥
भृङ्ग? मुत्पल-संकाशा प्रजा-वृद्धि-करा स्मृता । शिला कृष्णा तु सर्वेषाम् सर्व-सिद्धि-प्रदायिका ॥ ७।२० ॥
bhṛṅga? mutpala-saṃkāśā prajā-vṛddhi-karā smṛtā . śilā kṛṣṇā tu sarveṣām sarva-siddhi-pradāyikā .. 7.20 ..
विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि । श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमं ॥ ७.२१ ॥
विप्र-क्षत्रिय-वैश्यानाम् शूद्राणाम् च यधाविधि । श्वेता रक्ता तथा पीता कृष्णा च एव यथाक्रमम् ॥ ७।२१ ॥
vipra-kṣatriya-vaiśyānām śūdrāṇām ca yadhāvidhi . śvetā raktā tathā pītā kṛṣṇā ca eva yathākramam .. 7.21 ..
द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा । श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ॥ ७.२२ ॥
द्विजानाम् च त्रि-वर्णानाम् शिला रक्ता जय-प्रदा । श्वेता मोक्ष-प्रदा प्रोक्ता ब्राह्मणानाम् विशेषतः ॥ ७।२२ ॥
dvijānām ca tri-varṇānām śilā raktā jaya-pradā . śvetā mokṣa-pradā proktā brāhmaṇānām viśeṣataḥ .. 7.22 ..
एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः । माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ॥ ७.२३ ॥
एतैः तु ध्रुव-बेरम् तु कारयेत् यदि भक्तितः । माणिक्यम् च प्रवालम् च वैदूर्यम् स्भटिकम् तथा ॥ ७।२३ ॥
etaiḥ tu dhruva-beram tu kārayet yadi bhaktitaḥ . māṇikyam ca pravālam ca vaidūryam sbhaṭikam tathā .. 7.23 ..
मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः । माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकं ॥ ७.२४ ॥
मरतकम् पुष्यरागम् च नीलम् च एतद्-इषु-रत्न-जाः । माणिक्यम् श्रीकरम् प्रोक्तम् प्रवालम् वश्यकारकम् ॥ ७।२४ ॥
maratakam puṣyarāgam ca nīlam ca etad-iṣu-ratna-jāḥ . māṇikyam śrīkaram proktam pravālam vaśyakārakam .. 7.24 ..
आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदं । विद्वेषणं मरतकं स्तंभनं पूष्यरागकं ॥ ७.२५ ॥
आकर्षणम् तु वैढूर्यम् स्फाटिकम् पुत्र-वृद्धि-दम् । विद्वेषणम् मरतकम् स्तंभनम् पूष्यरागकम् ॥ ७।२५ ॥
ākarṣaṇam tu vaiḍhūryam sphāṭikam putra-vṛddhi-dam . vidveṣaṇam maratakam staṃbhanam pūṣyarāgakam .. 7.25 ..
नीलं तुरमणैः कार्यं रत्नजानां फलं भवेथ् । एतेषां कौतुकं कुर्या दन्येषां च विधीयते ॥ ७.२६ ॥
नीलम् कार्यम् रत्न-जानाम् फलम् । एतेषाम् कौतुकम् कुर्यात् अन्येषाम् च विधीयते ॥ ७।२६ ॥
nīlam kāryam ratna-jānām phalam . eteṣām kautukam kuryāt anyeṣām ca vidhīyate .. 7.26 ..
हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकं । आयसं सीसकं चैव त्रपुकं चेति धातुजं ॥ ७.२७ ॥
हैमम् रैप्यम् तथा आताम्रम् कांस्यम् च एव आरकूटकम् । आयसम् सीसकम् च एव त्रपुकम् च इति धातुजम् ॥ ७।२७ ॥
haimam raipyam tathā ātāmram kāṃsyam ca eva ārakūṭakam . āyasam sīsakam ca eva trapukam ca iti dhātujam .. 7.27 ..
हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकं । ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकं ॥ ७.२८ ॥
हैमन् तु श्री-प्रदम् प्रोक्तम् रौप्यम् राज्य-प्रदायकम् । ताम्रम् कांस्यम् विद्वेष-कारकम् ॥ ७।२८ ॥
haiman tu śrī-pradam proktam raupyam rājya-pradāyakam . tāmram kāṃsyam vidveṣa-kārakam .. 7.28 ..
प्रोच्चारणे चारकूट मायसं क्षयकारणं । सीसं नीरौगकरणं त्रपुरायुर्विनाशनं ॥ ७.२९ ॥
proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇaṃ | sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanaṃ || 7.29 ||
proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇaṃ | sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanaṃ || 7.29 ||
एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते । देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ॥ ७.३० ॥
एवम् तु लोहजम् प्रोक्तम् ततस् दारुजम् उच्यते । देवदारुः शमीवृक्षम् पिप्पलम् नन्दनम् तथा ॥ ७।३० ॥
evam tu lohajam proktam tatas dārujam ucyate . devadāruḥ śamīvṛkṣam pippalam nandanam tathā .. 7.30 ..
असनं खदिरञ्चैव वकुलं शङ्खि वातनं । मयूरपद्मडुण्डूक कर्णिकारं तथैव च ॥ ७.३१ ॥
असनम् खदिरम् च एव वकुलम् शङ्खि वातनम् । मयूर-पद्म-डुण्डूक कर्णिकारम् तथा एव च ॥ ७।३१ ॥
asanam khadiram ca eva vakulam śaṅkhi vātanam . mayūra-padma-ḍuṇḍūka karṇikāram tathā eva ca .. 7.31 ..
निबूकाञ्जनिकाचैव प्लक्षमौदुंबरं तथा । एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ॥ ७.३२ ॥
निबूक-अञ्जनिका च एव प्लक्षम् औदुंबरम् तथा । एतैः वर्ज्याः तु? चत्वारः द्विजाति-क्रम-योगतः ॥ ७।३२ ॥
nibūka-añjanikā ca eva plakṣam auduṃbaram tathā . etaiḥ varjyāḥ tu? catvāraḥ dvijāti-krama-yogataḥ .. 7.32 ..
मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च । पक्वं च नाशकं चैवं अपक्वं सर्वसिद्धितं ॥ ७.३३ ॥
मृण्मयम् द्विविधम् प्रोक्तम् पक्व-अपक्वम् तथा एव च । पक्वम् च नाशकम् च एवम् अपक्वम् ॥ ७।३३ ॥
mṛṇmayam dvividham proktam pakva-apakvam tathā eva ca . pakvam ca nāśakam ca evam apakvam .. 7.33 ..
निमित्तदर्शनम्-(शुभनिमित्तानि)
यस्मिन्देशे शिलास्तीति गच्छेन्निश्चितमानसः । प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ॥ ७.३४ ॥
यस्मिन् देशे शिला अस्ति इति गच्छेत् निश्चित-मानसः । प्रयाण-काले शकुना फल-प्रदाः ॥ ७।३४ ॥
yasmin deśe śilā asti iti gacchet niścita-mānasaḥ . prayāṇa-kāle śakunā phala-pradāḥ .. 7.34 ..
शुभवाक्योदकुंभास्थि गजराजद्विजोत्तमाः । चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ॥ ७.३५ ॥
शुभ-वाक्य-उद-कुंभ-अस्थि गज-राज-द्विजोत्तमाः । चर्म-मांस-दधि-क्षीर दुन्दभि-ध्वनयः शुभाः ॥ ७।३५ ॥
śubha-vākya-uda-kuṃbha-asthi gaja-rāja-dvijottamāḥ . carma-māṃsa-dadhi-kṣīra dundabhi-dhvanayaḥ śubhāḥ .. 7.35 ..
अशोभनांस्तथावक्ष्येशपमाना यथायति । विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनं ॥ ७.३६ ॥
अशोभनान् तथा अवक्ष्ये शपमाना यथायति । विकीर्ण-केश-अ विप्र-ऐक्य-घृत-तैल-अक्त-दर्शनम् ॥ ७।३६ ॥
aśobhanān tathā avakṣye śapamānā yathāyati . vikīrṇa-keśa-a vipra-aikya-ghṛta-taila-akta-darśanam .. 7.36 ..
(अशुभनिमित्तानि)
रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनं । प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ॥ ७.३७ ॥
तैल-भाजन-दर्शनम् । प्रयाण-काले नष्टाः तु विपरीत-फल-प्रदाः ॥ ७।३७ ॥
taila-bhājana-darśanam . prayāṇa-kāle naṣṭāḥ tu viparīta-phala-pradāḥ .. 7.37 ..
शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणं । शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेथ् ॥ ७.३८ ॥
शुभे प्रयाणम् कर्तव्यम् स्थित्वा शोभन-लक्षणम् । शिलाम् प्राप्य वास्तु-होमम् समाचरेथ् ॥ ७।३८ ॥
śubhe prayāṇam kartavyam sthitvā śobhana-lakṣaṇam . śilām prāpya vāstu-homam samācareth .. 7.38 ..
वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च । परिषेकं ततःकृत्वा कलशान्पञ्च सुन्यसेथ् ॥ ७.३९ ॥
वैष्णवम् पौरुषम् सूक्तम् श्री-भूसूक्तम् तथा एव च । परिषेकम् ततस् कृत्वा कलशान् पञ्च ॥ ७।३९ ॥
vaiṣṇavam pauruṣam sūktam śrī-bhūsūktam tathā eva ca . pariṣekam tatas kṛtvā kalaśān pañca .. 7.39 ..
मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा । संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेथ् ॥ ७.४० ॥
मृद्-गन्ध-अक्षत-जप्यान् च सर्व-ओषधि-उदकम् तथा । संस्थाप्य अभ्यर्च्य पाद्य-आद्यैः न् तत् तत् देवाम् समर्चयेथ् ॥ ७।४० ॥
mṛd-gandha-akṣata-japyān ca sarva-oṣadhi-udakam tathā . saṃsthāpya abhyarcya pādya-ādyaiḥ n tat tat devām samarcayeth .. 7.40 ..
अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते । अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ॥ ७.४१ ॥
अभिषिञ्चेत् शिलाम् सूत्रे? मुहूर्ते करण-अन्विते । अतोदेव-आदि-मन्त्रेण शिलाम् छित्वा अविचक्षणः ॥ ७।४१ ॥
abhiṣiñcet śilām sūtre? muhūrte karaṇa-anvite . atodeva-ādi-mantreṇa śilām chitvā avicakṣaṇaḥ .. 7.41 ..
अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेथ् । पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेथ् ॥ ७.४२ ॥
अधोभागम् मुखम् तत्र शिरः ऊर्ध्व । पूर्वतस् च उत्तरे वा अथ शिरः-भागम् ॥ ७।४२ ॥
adhobhāgam mukham tatra śiraḥ ūrdhva . pūrvatas ca uttare vā atha śiraḥ-bhāgam .. 7.42 ..
मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा । लाञ्छयित्वा विधानेन ततस्तक्षण माचरेथ् ॥ ७.४३ ॥
मुखम् पृष्ठम् तथा पादम् पार्श्वम् च एव शिरः तथा । लाञ्छयित्वा विधानेन ततस् तक्षण मा आचरेथ् ॥ ७।४३ ॥
mukham pṛṣṭham tathā pādam pārśvam ca eva śiraḥ tathā . lāñchayitvā vidhānena tatas takṣaṇa mā ācareth .. 7.43 ..
बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता । स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ॥ ७.४४ ॥
बाला च युवती वृद्धा अज्ञातव्या लक्षण-अन्विता । स्निग्धा मृद्वी नता च एव बाला क्षीर-स्वरा तथा ॥ ७।४४ ॥
bālā ca yuvatī vṛddhā ajñātavyā lakṣaṇa-anvitā . snigdhā mṛdvī natā ca eva bālā kṣīra-svarā tathā .. 7.44 ..
सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता । असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ॥ ७.४५ ॥
। असिता झर्घरा रूक्षा वृद्धा या निस्स्वरा अशिला ॥ ७।४५ ॥
. asitā jhargharā rūkṣā vṛddhā yā nissvarā aśilā .. 7.45 ..
बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा । कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ॥ ७.४६ ॥
दा । कार्य-नाश-करी वृद्धा ग्राह्या ज्ञात्वा शिलाः तथा ॥ ७।४६ ॥
dā . kārya-nāśa-karī vṛddhā grāhyā jñātvā śilāḥ tathā .. 7.46 ..
मूर्धनस्तक्षणङ्कृत्वा शिलादोषांन्तु लक्षयेथ् । शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ॥ ७.४७ ॥
मूर्धनः तक्षणम् कृत्वा शिलादोषान् तु । शिलाम् प्रलिप्य क्षीरेण सर्पिषा सीस-गैरिकैः ॥ ७।४७ ॥
mūrdhanaḥ takṣaṇam kṛtvā śilādoṣān tu . śilām pralipya kṣīreṇa sarpiṣā sīsa-gairikaiḥ .. 7.47 ..
एकरात्रोषितशिलां संप्रक्षाल्यांभसाततः । शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितं ॥ ७.४८ ॥
एक-रात्र-उषित-शिलाम् संप्रक्षाल्य अंभसा अततस् । शिला-दोषम् परीक्ष्य एव कर्तव्यम् विधि-चोदितम् ॥ ७।४८ ॥
eka-rātra-uṣita-śilām saṃprakṣālya aṃbhasā atatas . śilā-doṣam parīkṣya eva kartavyam vidhi-coditam .. 7.48 ..
रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः । मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेथ् ॥ ७.४९ ॥
रेखाबिन्दुः कलङ्कः च शिलादोषाः प्रकीर्तिताः । मण्डलम् तु भवेत् तत्र यत्र गर्भम् ॥ ७।४९ ॥
rekhābinduḥ kalaṅkaḥ ca śilādoṣāḥ prakīrtitāḥ . maṇḍalam tu bhavet tatra yatra garbham .. 7.49 ..
सिते तु मण्डले सर्पोरक्तेतु कृकलासकं । पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेथ् ॥ ७.५० ॥
सिते तु मण्डले सर्पः रक्ते तु कृकलासकम् । पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरः ॥ ७।५० ॥
site tu maṇḍale sarpaḥ rakte tu kṛkalāsakam . pīte tu maṇḍale godhā mañjiṣṭhe darduraḥ .. 7.50 ..
कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः । श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ॥ ७.५१ ॥
तु । श्वेत-रक्त-विमिश्रे तु वृश्चिकः श्वेत-रक्तके ॥ ७।५१ ॥
tu . śveta-rakta-vimiśre tu vṛścikaḥ śveta-raktake .. 7.51 ..
रक्तमिश्रेतु मण्डूको मण्डलोभवेथ् । सिंदूरवर्णे खद्योतः कपोते गृहगौलिका ॥ ७.५२ ॥
मण्डूकः । सिंदूर-वर्णे खद्योतः कपोते गृहगौलिका ॥ ७।५२ ॥
maṇḍūkaḥ . siṃdūra-varṇe khadyotaḥ kapote gṛhagaulikā .. 7.52 ..
गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेथ् । वर्जयेद्गर्भ संयुक्तां विमलैरञ्चिन्तां तथा ॥ ७.५३ ॥
पाषाणम् जलम् । वर्जयेत् गर्भ-संयुक्ताम् तथा ॥ ७।५३ ॥
pāṣāṇam jalam . varjayet garbha-saṃyuktām tathā .. 7.53 ..
विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतं । परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ॥ ७.५४ ॥
विमलम् हेम-कांस्य-आख्यम् लोह-आख्यम् स्मृतम् । परीक्ष्य एवम् प्रकर्तव्यम् एव प्रमाणतः ॥ ७।५४ ॥
vimalam hema-kāṃsya-ākhyam loha-ākhyam smṛtam . parīkṣya evam prakartavyam eva pramāṇataḥ .. 7.54 ..
प्रासादगर्भमानं वा हस्तमानमथापि वा । प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ॥ ७.५५ ॥
प्रासाद-गर्भ-मानम् वा हस्त-मानम् अथ अपि वा । प्रत्येकम् त्रि-त्रि-भेदम् स्यात् द्वार-मानम् प्रवक्ष्यते ॥ ७।५५ ॥
prāsāda-garbha-mānam vā hasta-mānam atha api vā . pratyekam tri-tri-bhedam syāt dvāra-mānam pravakṣyate .. 7.55 ..
द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा । मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ॥ ७.५६ ॥
द्वारात् अध्यर्धकम् च एव द्वारात् पाद-अधिकम् तथा । मध्यमम् च कनीयः स्यात् द्वारम् एवम् विधीयते ॥ ७।५६ ॥
dvārāt adhyardhakam ca eva dvārāt pāda-adhikam tathā . madhyamam ca kanīyaḥ syāt dvāram evam vidhīyate .. 7.56 ..
अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः । कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ॥ ७.५७ ॥
अधम-उत्तमयोः मध्ये तु अष्टधा कारयेत् बुधः । कनीयः त्रीणि विज्ञेयम् त्रीणि मध्यमकम् तथा ॥ ७।५७ ॥
adhama-uttamayoḥ madhye tu aṣṭadhā kārayet budhaḥ . kanīyaḥ trīṇi vijñeyam trīṇi madhyamakam tathā .. 7.57 ..
त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेथ् । स्तंभादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ॥ ७.५८ ॥
त्रीणि च उत्तमकम् विद्यात् उत्सेधम् नवथा । स्तंभात् अध्यर्धकम् तुङ्गम् उत्तमम् तु विशेषुः ॥ ७।५८ ॥
trīṇi ca uttamakam vidyāt utsedham navathā . staṃbhāt adhyardhakam tuṅgam uttamam tu viśeṣuḥ .. 7.58 ..
उत्तमाधमयोर्मध्ये द्वारमानेन योजयेथ् । गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेथ् ॥ ७.५९ ॥
उत्तम-अधमयोः मध्ये द्वार-मानेन । गर्भ-गेह-समम् मध्यम् त्रि-पादम् च अधमम् ॥ ७।५९ ॥
uttama-adhamayoḥ madhye dvāra-mānena . garbha-geha-samam madhyam tri-pādam ca adhamam .. 7.59 ..
पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते । (उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) । हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमं ॥ ७.६० ॥
पाद-अधिकम् तु विज्ञेयम् श्रेष्ठम् एवम् विधीयते । (उत्तम-अधमयोः मध्ये द्वार-मानेन योजयेत् । हस्त-मानम् तधा अवक्ष्ये नव-हस्तम् तधा उत्तमम् ॥ ७।६० ॥
pāda-adhikam tu vijñeyam śreṣṭham evam vidhīyate . (uttama-adhamayoḥ madhye dvāra-mānena yojayet . hasta-mānam tadhā avakṣye nava-hastam tadhā uttamam .. 7.60 ..
षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि । एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ॥ ७.६१ ॥
षष्-अङ्गुलैः सह अन्यान् यान्तु सार्ध-द्वि-हस्तक-अवधि । एवम् उत्सेध-मानम् तु स्थावरस्य प्रशस्यते ॥ ७।६१ ॥
ṣaṣ-aṅgulaiḥ saha anyān yāntu sārdha-dvi-hastaka-avadhi . evam utsedha-mānam tu sthāvarasya praśasyate .. 7.61 ..
जङ्गमानां भवेन्नाम मूलबेरवशात्तथा । बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ॥ ७.६२ ॥
जङ्गमानाम् भवेत् नाम मूलबेर-वशात् तथा । बिंब-उदयम् चतुर्विंशत्-भागान् अष्ट-अंशकम् तथा ॥ ७।६२ ॥
jaṅgamānām bhavet nāma mūlabera-vaśāt tathā . biṃba-udayam caturviṃśat-bhāgān aṣṭa-aṃśakam tathā .. 7.62 ..
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा । वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितं ॥ ७.६३ ॥
बिंब-उदयम् चतुर्विंशत्-भागान् अष्ट-अंशकम् तथा । वेदांशम् तु भवेत् उच्चम् जङ्गमस्य प्रकीर्तितम् ॥ ७।६३ ॥
biṃba-udayam caturviṃśat-bhāgān aṣṭa-aṃśakam tathā . vedāṃśam tu bhavet uccam jaṅgamasya prakīrtitam .. 7.63 ..
मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः । पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ॥ ७.६४ ॥
मान-अङ्गुलेन सप्त-आदि द्वि-द्वि-अङ्गुल-विधानतः । पञ्चाशत्-सवन-अङ्गुल्या विधिः सर्वः विधीयते ॥ ७।६४ ॥
māna-aṅgulena sapta-ādi dvi-dvi-aṅgula-vidhānataḥ . pañcāśat-savana-aṅgulyā vidhiḥ sarvaḥ vidhīyate .. 7.64 ..
मूलबेरांगुलान्मानमारभ्यैकादशांगुलं । द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलं? भवेथ् ॥ ७.६५ ॥
मूलबेर-अंगुलात् मानम् आरभ्य एकादश-अंगुलम् । द्वि-द्वि-अङ्गुल-विवृद्ध्या तु? भवेथ् ॥ ७।६५ ॥
mūlabera-aṃgulāt mānam ārabhya ekādaśa-aṃgulam . dvi-dvi-aṅgula-vivṛddhyā tu? bhaveth .. 7.65 ..
प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः । उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकं ॥ ७.६६ ॥
प्रत्येकम् तु त्रि-भेदम् स्यात् उत्तम-अधम-मध्यतः । उत्कृष्टम् नव-तुङ्गम् स्यात् मध्यमम् नव-तुङ्गकम् ॥ ७।६६ ॥
pratyekam tu tri-bhedam syāt uttama-adhama-madhyataḥ . utkṛṣṭam nava-tuṅgam syāt madhyamam nava-tuṅgakam .. 7.66 ..
निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकं । एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ॥ ७.६७ ॥
निकृष्टम् तु तथा प्रोक्तम् सप्तविंशति-तुङ्गकम् । एतैः उत्तम-मानम् च तथा एव हि ॥ ७।६७ ॥
nikṛṣṭam tu tathā proktam saptaviṃśati-tuṅgakam . etaiḥ uttama-mānam ca tathā eva hi .. 7.67 ..
कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु । अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ॥ ७.६८ ॥
कर्म-अर्चा-उत्सव-स्नानात् च योज्यम् स्यात् अन्यधा न तु । अधमैः तु भवेत् यत्र बलिबेरम् विधीयते ॥ ७।६८ ॥
karma-arcā-utsava-snānāt ca yojyam syāt anyadhā na tu . adhamaiḥ tu bhavet yatra baliberam vidhīyate .. 7.68 ..
मात्रांगुलेन यन्मारं गृहार्चाणां तु नान्यथा ॥ ७.६९ ॥
मात्रा-अंगुलेन यत् मारम् गृह-अर्चाणाम् तु न अन्यथा ॥ ७।६९ ॥
mātrā-aṃgulena yat māram gṛha-arcāṇām tu na anyathā .. 7.69 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तमोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे सप्तमः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre saptamaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In