| |
|

This overlay will guide you through the buttons:

अथ सप्तमोऽध्यायः.
atha saptamo'dhyāyaḥ.
परिवारालयलक्षणम्.
अथातः परिवाराणामालयस्य च लक्षणं । विमानात्पादहीनं वा तदर्धं वा समाचरेथ् ॥ ७.१ ॥
athātaḥ parivārāṇāmālayasya ca lakṣaṇaṃ . vimānātpādahīnaṃ vā tadardhaṃ vā samācareth .. 7.1 ..
वर्णयुक्तं ततश्श्रेष्ठं कनियोवर्णहीनकं । सोमेशानद्वयोर्मध्ये विष्वक्सेनं प्रकल्बयेथ् ॥ ७.२ ॥
varṇayuktaṃ tataśśreṣṭhaṃ kaniyovarṇahīnakaṃ . someśānadvayormadhye viṣvaksenaṃ prakalbayeth .. 7.2 ..
द्वारस्य दक्षिणे चेन्द्र माग्नेय्यां पचनालयं । तस्य पश्चिमदेशेतु पानीयस्थानमेवच ॥ ७.३ ॥
dvārasya dakṣiṇe cendra māgneyyāṃ pacanālayaṃ . tasya paścimadeśetu pānīyasthānamevaca .. 7.3 ..
याम्ये शयनमुद्दिष्टं तत्पूर्वे यागमण्डपं । ऐशान्ये पुष्पदेशन्तु दक्षिणे वस्त्रसंचयं ॥ ७.४ ॥
yāmye śayanamuddiṣṭaṃ tatpūrve yāgamaṇḍapaṃ . aiśānye puṣpadeśantu dakṣiṇe vastrasaṃcayaṃ .. 7.4 ..
ईशानसोमयोर्मध्ये स्थापनं ... तथा । इन्द्राग्न्योर्मध्यमेचैव धान्यस्थानं प्रशस्यते ॥ ७.५ ॥
īśānasomayormadhye sthāpanaṃ ... tathā . indrāgnyormadhyamecaiva dhānyasthānaṃ praśasyate .. 7.5 ..
सोपानमध्ये श्रीभूतमर्चयेद्बहिराननं । पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेथ् ॥ ७.६ ॥
sopānamadhye śrībhūtamarcayedbahirānanaṃ . purastādgaruḍaṃ tasya devābhimukhamarcayeth .. 7.6 ..
विमानपालान्दिक्पालान्भास्करेण समायुतं । चक्रं ध्वजं च शङ्खं च भूतं वै भूतनायकं ॥ ७.७ ॥
vimānapālāndikpālānbhāskareṇa samāyutaṃ . cakraṃ dhvajaṃ ca śaṅkhaṃ ca bhūtaṃ vai bhūtanāyakaṃ .. 7.7 ..
प्रथमावरणे देहुस्तत्तद्देशे समर्चयेथ् । उत्सवं बलिमारभ्य अनपायिविशेषतः ॥ ७.८ ॥
prathamāvaraṇe dehustattaddeśe samarcayeth . utsavaṃ balimārabhya anapāyiviśeṣataḥ .. 7.8 ..
अमितस्यापि तन्तत्र प्रदक्षिणमथाचरेथ् । देवस्य कण्ठसीमान्तं बाह्यन्तं स्तनसम्मितं ॥ ७.९ ॥
amitasyāpi tantatra pradakṣiṇamathācareth . devasya kaṇṭhasīmāntaṃ bāhyantaṃ stanasammitaṃ .. 7.9 ..
नाभ्यन्तं वा विशेषेण परिवारोदयं क्रमाथ् । धात्रादिभूतपर्यन्तं परिवारान्विशेषतः ॥ ७.१० ॥
nābhyantaṃ vā viśeṣeṇa parivārodayaṃ kramāth . dhātrādibhūtaparyantaṃ parivārānviśeṣataḥ .. 7.10 ..
वर्णवाहनकेत्वाद्यैर्नामनक्षत्रपूर्वकं । मयाक्रियाधिकारे तु व्यक्तमुक्तन्तुलक्षणं ॥ ७.११ ॥
varṇavāhanaketvādyairnāmanakṣatrapūrvakaṃ . mayākriyādhikāre tu vyaktamuktantulakṣaṇaṃ .. 7.11 ..
बेरलक्षणम्-(शैलादि भेदः)
अथ वक्ष्ये विशेषेण बेरलक्षणमुत्तमं । शैलजं रत्नजं चैव धातुजं दारवं तथा ॥ ७.१२ ॥
atha vakṣye viśeṣeṇa beralakṣaṇamuttamaṃ . śailajaṃ ratnajaṃ caiva dhātujaṃ dāravaṃ tathā .. 7.12 ..
मृण्मयं स्यात्तथैवेति पञ्चधाबेरमुच्यते । चतुर्विधं तु शैलं स्यात्सप्तधा रत्नजं तथा ॥ ७.१३ ॥
mṛṇmayaṃ syāttathaiveti pañcadhāberamucyate . caturvidhaṃ tu śailaṃ syātsaptadhā ratnajaṃ tathā .. 7.13 ..
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते । मृण्मयं द्विविधं प्रोक्तं क्रमाल्लक्षणमुच्यते ॥ ७.१४ ॥
aṣṭadhā dhātujaṃ proktaṃ dārujaṃ ṣoḍaśocyate . mṛṇmayaṃ dvividhaṃ proktaṃ kramāllakṣaṇamucyate .. 7.14 ..
शैलजलक्षणम्
श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुष्टयं । शैलजं भेदमाख्यातं तस्य लक्षणमुच्यते ॥ ७.१५ ॥
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva catuṣṭayaṃ . śailajaṃ bhedamākhyātaṃ tasya lakṣaṇamucyate .. 7.15 ..
गोक्षीरसन्निभाचैव शङ्खकुन्देन्दु सन्निभा । शीला श्वेता समाख्याता सा तु वश्यप्रदायिका ॥ ७.१६ ॥
gokṣīrasannibhācaiva śaṅkhakundendu sannibhā . śīlā śvetā samākhyātā sā tu vaśyapradāyikā .. 7.16 ..
जपाकुसुमसंकाशा शिला शोणितसन्निभा । बन्धूकपुष्पप्रतिमा जातिहिङ्गुलिकोपमा ॥ ७.१७ ॥
japākusumasaṃkāśā śilā śoṇitasannibhā . bandhūkapuṣpapratimā jātihiṅgulikopamā .. 7.17 ..
शिला रक्ता समाख्याता जयदा लक्षणान्विता । पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ॥ ७.१८ ॥
śilā raktā samākhyātā jayadā lakṣaṇānvitā . pītā suvarṇasadṛśā rajanīcūrṇasannibhā .. 7.18 ..
शिला लक्षणसंयुक्ता धनधान्यसुखप्रदा । माषमुद्गल?संकाशा तथाजंबूफलोपमा ॥ ७.१९ ॥
śilā lakṣaṇasaṃyuktā dhanadhānyasukhapradā . māṣamudgala?saṃkāśā tathājaṃbūphalopamā .. 7.19 ..
भृङ्ग? मुत्पलसंकाशा प्रजावृद्धिकरास्मृता । शिला कृष्णा तु सर्वेषां सर्वसिद्धिप्रदायिका ॥ ७.२० ॥
bhṛṅga? mutpalasaṃkāśā prajāvṛddhikarāsmṛtā . śilā kṛṣṇā tu sarveṣāṃ sarvasiddhipradāyikā .. 7.20 ..
विप्रक्षत्रियवैश्यानां शूद्राणाञ्च यधाविधि । श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमं ॥ ७.२१ ॥
viprakṣatriyavaiśyānāṃ śūdrāṇāñca yadhāvidhi . śvetā raktā tathā pītā kṛṣṇā caiva yathākramaṃ .. 7.21 ..
द्विजानां च त्रिवर्णानां शिला रक्ता जयप्रदा । श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः ॥ ७.२२ ॥
dvijānāṃ ca trivarṇānāṃ śilā raktā jayapradā . śvetā mokṣapradā proktā brāhmaṇānāṃ viśeṣataḥ .. 7.22 ..
एतैन्तुध्रुवबेरन्तु कारयेद्यदिभक्तितः । माणिक्यं च प्रवालं च वैदूर्यं स्भटिकं तथा ॥ ७.२३ ॥
etaintudhruvaberantu kārayedyadibhaktitaḥ . māṇikyaṃ ca pravālaṃ ca vaidūryaṃ sbhaṭikaṃ tathā .. 7.23 ..
मरतकं पुष्यरागं च नीलं चैतेषुरत्नजाः । माणिक्यं श्रीकरं प्रोक्तं प्रवालं वश्यकारकं ॥ ७.२४ ॥
maratakaṃ puṣyarāgaṃ ca nīlaṃ caiteṣuratnajāḥ . māṇikyaṃ śrīkaraṃ proktaṃ pravālaṃ vaśyakārakaṃ .. 7.24 ..
आकर्षणं तु वैढूर्यं स्फाटिकं पुत्रवृद्धिदं । विद्वेषणं मरतकं स्तंभनं पूष्यरागकं ॥ ७.२५ ॥
ākarṣaṇaṃ tu vaiḍhūryaṃ sphāṭikaṃ putravṛddhidaṃ . vidveṣaṇaṃ maratakaṃ staṃbhanaṃ pūṣyarāgakaṃ .. 7.25 ..
नीलं तुरमणैः कार्यं रत्नजानां फलं भवेथ् । एतेषां कौतुकं कुर्या दन्येषां च विधीयते ॥ ७.२६ ॥
nīlaṃ turamaṇaiḥ kāryaṃ ratnajānāṃ phalaṃ bhaveth . eteṣāṃ kautukaṃ kuryā danyeṣāṃ ca vidhīyate .. 7.26 ..
हैमं रैप्यं तथाताम्रं कांस्यं चैवारकूटकं । आयसं सीसकं चैव त्रपुकं चेति धातुजं ॥ ७.२७ ॥
haimaṃ raipyaṃ tathātāmraṃ kāṃsyaṃ caivārakūṭakaṃ . āyasaṃ sīsakaṃ caiva trapukaṃ ceti dhātujaṃ .. 7.27 ..
हैमन्तु श्रीप्रदं प्रोक्तं रौप्यं राज्यप्रदायकं । ताम्रं पुत्रसमद्ध्यर्थं कांस्यं विद्वेषकारकं ॥ ७.२८ ॥
haimantu śrīpradaṃ proktaṃ raupyaṃ rājyapradāyakaṃ . tāmraṃ putrasamaddhyarthaṃ kāṃsyaṃ vidveṣakārakaṃ .. 7.28 ..
प्रोच्चारणे चारकूट मायसं क्षयकारणं । सीसं नीरौगकरणं त्रपुरायुर्विनाशनं ॥ ७.२९ ॥
proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇaṃ . sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanaṃ .. 7.29 ..
एवं तु लोहजं प्रोक्तं ततो दारुजमुच्यते । देवदारुश्शमीवृक्षं पिप्पलं नन्दनं तथा ॥ ७.३० ॥
evaṃ tu lohajaṃ proktaṃ tato dārujamucyate . devadāruśśamīvṛkṣaṃ pippalaṃ nandanaṃ tathā .. 7.30 ..
असनं खदिरञ्चैव वकुलं शङ्खि वातनं । मयूरपद्मडुण्डूक कर्णिकारं तथैव च ॥ ७.३१ ॥
asanaṃ khadirañcaiva vakulaṃ śaṅkhi vātanaṃ . mayūrapadmaḍuṇḍūka karṇikāraṃ tathaiva ca .. 7.31 ..
निबूकाञ्जनिकाचैव प्लक्षमौदुंबरं तथा । एतैर्वर्ज्यास्तु? चत्वारो द्विजातिक्रमयोगतः ॥ ७.३२ ॥
nibūkāñjanikācaiva plakṣamauduṃbaraṃ tathā . etairvarjyāstu? catvāro dvijātikramayogataḥ .. 7.32 ..
मृण्मयं द्विविधं प्रोक्तं पक्वापक्वं तथैव च । पक्वं च नाशकं चैवं अपक्वं सर्वसिद्धितं ॥ ७.३३ ॥
mṛṇmayaṃ dvividhaṃ proktaṃ pakvāpakvaṃ tathaiva ca . pakvaṃ ca nāśakaṃ caivaṃ apakvaṃ sarvasiddhitaṃ .. 7.33 ..
निमित्तदर्शनम्-(शुभनिमित्तानि)
यस्मिन्देशे शिलास्तीति गच्छेन्निश्चितमानसः । प्रयाणकाले शकुना श्शुभाश्शुभ फलप्रदाः ॥ ७.३४ ॥
yasmindeśe śilāstīti gacchenniścitamānasaḥ . prayāṇakāle śakunā śśubhāśśubha phalapradāḥ .. 7.34 ..
शुभवाक्योदकुंभास्थि गजराजद्विजोत्तमाः । चर्ममांसदधिक्षीर दुन्दभिध्वनयश्शुभाः ॥ ७.३५ ॥
śubhavākyodakuṃbhāsthi gajarājadvijottamāḥ . carmamāṃsadadhikṣīra dundabhidhvanayaśśubhāḥ .. 7.35 ..
अशोभनांस्तथावक्ष्येशपमाना यथायति । विकीर्णकेशाविप्रैक्यघृततैलाक्तदर्शनं ॥ ७.३६ ॥
aśobhanāṃstathāvakṣyeśapamānā yathāyati . vikīrṇakeśāvipraikyaghṛtatailāktadarśanaṃ .. 7.36 ..
(अशुभनिमित्तानि)
रिक्तकुंभनिरोधोक्ति तैलभाजनदर्शनं । प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ॥ ७.३७ ॥
riktakuṃbhanirodhokti tailabhājanadarśanaṃ . prayāṇakāle naṣṭāstu viparītaphalapradāḥ .. 7.37 ..
शुभे प्रयाणं कर्तव्यं स्थित्वा शोभनलक्षणं । शिलां प्राप्य शुभेस्थाने वास्तुहोमं समाचरेथ् ॥ ७.३८ ॥
śubhe prayāṇaṃ kartavyaṃ sthitvā śobhanalakṣaṇaṃ . śilāṃ prāpya śubhesthāne vāstuhomaṃ samācareth .. 7.38 ..
वैष्णवं पौरुषं सूक्तं श्रीभूसूक्तं तथैव च । परिषेकं ततःकृत्वा कलशान्पञ्च सुन्यसेथ् ॥ ७.३९ ॥
vaiṣṇavaṃ pauruṣaṃ sūktaṃ śrībhūsūktaṃ tathaiva ca . pariṣekaṃ tataḥkṛtvā kalaśānpañca sunyaseth .. 7.39 ..
मृद्गन्धाक्षतजप्यांश्च सर्वौषध्युदकन्तथा । संस्थाप्याभ्यर्च्य पाद्याद्यै न्तत्तद्देवां त्समर्चयेथ् ॥ ७.४० ॥
mṛdgandhākṣatajapyāṃśca sarvauṣadhyudakantathā . saṃsthāpyābhyarcya pādyādyai ntattaddevāṃ tsamarcayeth .. 7.40 ..
अभिषिञ्चेच्छिलां सूत्रे? मुहूर्तेकरणान्विते । अतोदेवादिमन्त्रेण शिलां छित्वाविचक्षणः ॥ ७.४१ ॥
abhiṣiñcecchilāṃ sūtre? muhūrtekaraṇānvite . atodevādimantreṇa śilāṃ chitvāvicakṣaṇaḥ .. 7.41 ..
अधोभागं मुखं तत्र शिर ऊर्ध्व प्रकल्पयेथ् । पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेथ् ॥ ७.४२ ॥
adhobhāgaṃ mukhaṃ tatra śira ūrdhva prakalpayeth . pūrvataścottare vātha śirobhāgaṃ prakalpayeth .. 7.42 ..
मुखं पृष्ठं तथापादं पार्श्वं चैव शिरस्तथा । लाञ्छयित्वा विधानेन ततस्तक्षण माचरेथ् ॥ ७.४३ ॥
mukhaṃ pṛṣṭhaṃ tathāpādaṃ pārśvaṃ caiva śirastathā . lāñchayitvā vidhānena tatastakṣaṇa mācareth .. 7.43 ..
बाला च युवती वृद्धाज्ञातव्या लक्षणान्विता । स्निग्धा मृद्वी नता चैव बाला क्षीरस्वरातथा ॥ ७.४४ ॥
bālā ca yuvatī vṛddhājñātavyā lakṣaṇānvitā . snigdhā mṛdvī natā caiva bālā kṣīrasvarātathā .. 7.44 ..
सुस्वरा का न्तिसंयुक्ता युवती सा शिला स्मृता । असिता झर्घरा रूक्षा वृद्धा या निस्स्वराशिला ॥ ७.४५ ॥
susvarā kā ntisaṃyuktā yuvatī sā śilā smṛtā . asitā jhargharā rūkṣā vṛddhā yā nissvarāśilā .. 7.45 ..
बाला क्षयप्रदा प्रोक्ता युवती सुसमृद्धिदा । कार्यनाशकरी वृद्धा ग्राह्या ज्ञात्वाशिलास्तथा ॥ ७.४६ ॥
bālā kṣayapradā proktā yuvatī susamṛddhidā . kāryanāśakarī vṛddhā grāhyā jñātvāśilāstathā .. 7.46 ..
मूर्धनस्तक्षणङ्कृत्वा शिलादोषांन्तु लक्षयेथ् । शिलां प्रलिप्यक्षीरेण सर्पिषा सीसगैरिकैः ॥ ७.४७ ॥
mūrdhanastakṣaṇaṅkṛtvā śilādoṣāṃntu lakṣayeth . śilāṃ pralipyakṣīreṇa sarpiṣā sīsagairikaiḥ .. 7.47 ..
एकरात्रोषितशिलां संप्रक्षाल्यांभसाततः । शिलादोषं परीक्ष्यैव कर्तव्यं विधिचोदितं ॥ ७.४८ ॥
ekarātroṣitaśilāṃ saṃprakṣālyāṃbhasātataḥ . śilādoṣaṃ parīkṣyaiva kartavyaṃ vidhicoditaṃ .. 7.48 ..
रेखाबिन्दुः कलङ्कश्च शिलादोषाः प्रकीर्तिताः । मण्डलं तु भवेत्तत्र यत्र गर्भं विनिर्दिशेथ् ॥ ७.४९ ॥
rekhābinduḥ kalaṅkaśca śilādoṣāḥ prakīrtitāḥ . maṇḍalaṃ tu bhavettatra yatra garbhaṃ vinirdiśeth .. 7.49 ..
सिते तु मण्डले सर्पोरक्तेतु कृकलासकं । पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेथ् ॥ ७.५० ॥
site tu maṇḍale sarporaktetu kṛkalāsakaṃ . pīte tu maṇḍale godhā mañjiṣṭhe darduro bhaveth .. 7.50 ..
कपिले मूषिका प्रोक्तासितवर्णे तु वृश्चिकः । श्वेतरक्तविमिश्रेतु वृश्चिकश्श्वेतरक्तके ॥ ७.५१ ॥
kapile mūṣikā proktāsitavarṇe tu vṛścikaḥ . śvetaraktavimiśretu vṛścikaśśvetaraktake .. 7.51 ..
रक्तमिश्रेतु मण्डूको मण्डलोभवेथ् । सिंदूरवर्णे खद्योतः कपोते गृहगौलिका ॥ ७.५२ ॥
raktamiśretu maṇḍūko maṇḍalobhaveth . siṃdūravarṇe khadyotaḥ kapote gṛhagaulikā .. 7.52 ..
गुडवर्णेतु पाषाणं निस्स्वशोभे जलं भवेथ् । वर्जयेद्गर्भ संयुक्तां विमलैरञ्चिन्तां तथा ॥ ७.५३ ॥
guḍavarṇetu pāṣāṇaṃ nissvaśobhe jalaṃ bhaveth . varjayedgarbha saṃyuktāṃ vimalairañcintāṃ tathā .. 7.53 ..
विमलं हेमकांस्याख्यं लोहाख्यं चत्रिदा स्मृतं । परीक्ष्यैवं प्रकर्तव्यमेव मेव प्रमाणतः ॥ ७.५४ ॥
vimalaṃ hemakāṃsyākhyaṃ lohākhyaṃ catridā smṛtaṃ . parīkṣyaivaṃ prakartavyameva meva pramāṇataḥ .. 7.54 ..
प्रासादगर्भमानं वा हस्तमानमथापि वा । प्रत्येकं त्रित्रिभेदं स्याद्द्वारमानं प्रवक्ष्यते ॥ ७.५५ ॥
prāsādagarbhamānaṃ vā hastamānamathāpi vā . pratyekaṃ tritribhedaṃ syāddvāramānaṃ pravakṣyate .. 7.55 ..
द्वारादध्यर्धकं चैव द्वारात्पादाधिकं तथा । मध्यमं च कनीयस्स्याद्द्वारमेवं विधीयते ॥ ७.५६ ॥
dvārādadhyardhakaṃ caiva dvārātpādādhikaṃ tathā . madhyamaṃ ca kanīyassyāddvāramevaṃ vidhīyate .. 7.56 ..
अधमोत्तमयोर्मध्ये त्वष्टधा कारयेद्बुधः । कनीयस्त्रीणि विज्ञेयं त्रीणि मध्यमकं तथा ॥ ७.५७ ॥
adhamottamayormadhye tvaṣṭadhā kārayedbudhaḥ . kanīyastrīṇi vijñeyaṃ trīṇi madhyamakaṃ tathā .. 7.57 ..
त्रीणि चोत्तमकं विद्यादुत्सेधं नवथा भवेथ् । स्तंभादध्यर्धकं तुङ्गमुत्तमं तु विशेषुः ॥ ७.५८ ॥
trīṇi cottamakaṃ vidyādutsedhaṃ navathā bhaveth . staṃbhādadhyardhakaṃ tuṅgamuttamaṃ tu viśeṣuḥ .. 7.58 ..
उत्तमाधमयोर्मध्ये द्वारमानेन योजयेथ् । गर्भगेहसमं मध्यं त्रिपादं चाधमं भवेथ् ॥ ७.५९ ॥
uttamādhamayormadhye dvāramānena yojayeth . garbhagehasamaṃ madhyaṃ tripādaṃ cādhamaṃ bhaveth .. 7.59 ..
पादाधिकं तु विज्ञेयं श्रेष्ठमेवं विधीयते । (उत्तमाधमयोर्मध्ये द्वारमानेन योजयेत्) । हस्तमानं तधावक्ष्ये नवहस्तं तधोत्तमं ॥ ७.६० ॥
pādādhikaṃ tu vijñeyaṃ śreṣṭhamevaṃ vidhīyate . (uttamādhamayormadhye dvāramānena yojayet) . hastamānaṃ tadhāvakṣye navahastaṃ tadhottamaṃ .. 7.60 ..
षडङ्गुलैस्सहान्यान्तु सार्धद्विहस्तकावधि । एवमुत्सेधमानन्तु स्थावरस्य प्रशस्यते ॥ ७.६१ ॥
ṣaḍaṅgulaissahānyāntu sārdhadvihastakāvadhi . evamutsedhamānantu sthāvarasya praśasyate .. 7.61 ..
जङ्गमानां भवेन्नाम मूलबेरवशात्तथा । बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा ॥ ७.६२ ॥
jaṅgamānāṃ bhavennāma mūlaberavaśāttathā . biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā .. 7.62 ..
बिंबोदयं चतुर्विंशद्भागानष्टांशकं तथा । वेदांशं तु भवेदुच्चं जङ्गमस्य प्रकीर्तितं ॥ ७.६३ ॥
biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā . vedāṃśaṃ tu bhaveduccaṃ jaṅgamasya prakīrtitaṃ .. 7.63 ..
मानाङ्गुलेन सप्तादि द्विद्व्यङ्गुलविधानतः । पञ्चाशत्सवनाङ्गुल्या विधिस्सर्वोविधीयते ॥ ७.६४ ॥
mānāṅgulena saptādi dvidvyaṅgulavidhānataḥ . pañcāśatsavanāṅgulyā vidhissarvovidhīyate .. 7.64 ..
मूलबेरांगुलान्मानमारभ्यैकादशांगुलं । द्विद्व्यङ्गुलविवृद्ध्यातु सषष्टित्षङ्गुलं? भवेथ् ॥ ७.६५ ॥
mūlaberāṃgulānmānamārabhyaikādaśāṃgulaṃ . dvidvyaṅgulavivṛddhyātu saṣaṣṭitṣaṅgulaṃ? bhaveth .. 7.65 ..
प्रत्येकं तु त्रिभेदं स्यादुत्तमाधममध्यतः । उत्कृष्टं नवतुङ्गं स्यान्मध्यमं नवतुङ्गकं ॥ ७.६६ ॥
pratyekaṃ tu tribhedaṃ syāduttamādhamamadhyataḥ . utkṛṣṭaṃ navatuṅgaṃ syānmadhyamaṃ navatuṅgakaṃ .. 7.66 ..
निकृष्टं तु तथा प्रोक्तं सप्तविंशतितुङ्गकं । एतैरुत्तममानं स्यास्मध्यमं च तथैव हि ॥ ७.६७ ॥
nikṛṣṭaṃ tu tathā proktaṃ saptaviṃśatituṅgakaṃ . etairuttamamānaṃ syāsmadhyamaṃ ca tathaiva hi .. 7.67 ..
कर्मार्चोत्सवस्नानाच्च योज्यं स्यादन्यधा नतु । अधमैस्तु भवेद्यत्र बलिबेरं विधीयते ॥ ७.६८ ॥
karmārcotsavasnānācca yojyaṃ syādanyadhā natu . adhamaistu bhavedyatra baliberaṃ vidhīyate .. 7.68 ..
मात्रांगुलेन यन्मारं गृहार्चाणां तु नान्यथा ॥ ७.६९ ॥
mātrāṃgulena yanmāraṃ gṛhārcāṇāṃ tu nānyathā .. 7.69 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तमोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In