| |
|

This overlay will guide you through the buttons:

अथ सप्तत्रिंशोऽध्यायः
अथ सप्तत्रिंशः अध्यायः
atha saptatriṃśaḥ adhyāyaḥ
अथ वक्ष्ये लघूक्तेन युगधर्मांस्ततः परं । कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगं ॥ ३७.१ ॥
अथ वक्ष्ये लघु-उक्तेन युग-धर्मान् ततस् परम् । कृतम् त्रेता द्वापरः च कलिः च इति चतुर्युगम् ॥ ३७।१ ॥
atha vakṣye laghu-uktena yuga-dharmān tatas param . kṛtam tretā dvāparaḥ ca kaliḥ ca iti caturyugam .. 37.1 ..
त्रियुगधर्म प्रपञ्चः.
कृतमेव च कर्तव्यं तस्मिन्काले यदीप्सितं । न तत्रधर्माःसीदन्ति न च क्षीयन्तिवै प्रजाः ॥ ३७.२ ॥
कृतम् एव च कर्तव्यम् तस्मिन् काले यत् ईप्सितम् । न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः ॥ ३७।२ ॥
kṛtam eva ca kartavyam tasmin kāle yat īpsitam . na tatra dharmāḥ sīdanti na ca kṣīyanti vai prajāḥ .. 37.2 ..
ततः कृतयुगं प्रोक्तमन्वर्थेन गुणेन वै । न तस्मिन्युगसंसर्गेव्यवायो नेन्द्रियक्षयः ॥ ३७.३ ॥
ततस् कृत-युगम् प्रोक्तम् अन्वर्थेन गुणेन वै । न तस्मिन् युग-संसर्गे व्यवायः न इन्द्रिय-क्षयः ॥ ३७।३ ॥
tatas kṛta-yugam proktam anvarthena guṇena vai . na tasmin yuga-saṃsarge vyavāyaḥ na indriya-kṣayaḥ .. 37.3 ..
नानूया नापि रुदितं न दर्पो न च पैशुनं । न विग्रहो न विद्वेषोन मिथ्या नापि वञ्चनं ॥ ३७.४ ॥
न अनूया न अपि रुदितम् न दर्पः न च पैशुनम् । न विग्रहः न विद्वेषः न मिथ्या ना अपि वञ्चनम् ॥ ३७।४ ॥
na anūyā na api ruditam na darpaḥ na ca paiśunam . na vigrahaḥ na vidveṣaḥ na mithyā nā api vañcanam .. 37.4 ..
न भयं न च सन्तापो न लोभो न च मानिता । तदा ज्योतिःपरं ब्रह्म वैखानसमनामयं ॥ ३७.५ ॥
न भयम् न च सन्तापः न लोभः न च मानि-ता । तदा ज्योतिः परम् ब्रह्म वैखानसम् अनामयम् ॥ ३७।५ ॥
na bhayam na ca santāpaḥ na lobhaḥ na ca māni-tā . tadā jyotiḥ param brahma vaikhānasam anāmayam .. 37.5 ..
या गतिर्योगिनामेका ह्यपुनर्भवकाङ्क्षिणां । विष्णुस्सर्वात्मको देवः शुक्लो नारायणः स्मृतः ॥ ३७.६ ॥
या गतिः योगिनाम् एका हि अपुनर्भव-काङ्क्षिणाम् । विष्णुः सर्व-आत्मकः देवः शुक्लः नारायणः स्मृतः ॥ ३७।६ ॥
yā gatiḥ yoginām ekā hi apunarbhava-kāṅkṣiṇām . viṣṇuḥ sarva-ātmakaḥ devaḥ śuklaḥ nārāyaṇaḥ smṛtaḥ .. 37.6 ..
अन्तर्यामिणि तस्मिंस्तु सर्वलोकमये हरौ । स्वयं शुक्लत्वमापन्ने सर्वमच्छं भविष्यति ॥ ३७.७ ॥
अन्तर्यामिणि तस्मिन् तु सर्व-लोक-मये हरौ । स्वयम् शुक्ल-त्वम् आपन्ने सर्वम् अच्छम् भविष्यति ॥ ३७।७ ॥
antaryāmiṇi tasmin tu sarva-loka-maye harau . svayam śukla-tvam āpanne sarvam accham bhaviṣyati .. 37.7 ..
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च भगवत्पराः । स्वकर्मनिरतास्सर्वेभवन्ति मनुजाः कृते ॥ ३७.८ ॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च भगवत्-पराः । स्व-कर्म-निरताः सर्वे भवन्ति मनुजाः कृते ॥ ३७।८ ॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca bhagavat-parāḥ . sva-karma-niratāḥ sarve bhavanti manujāḥ kṛte .. 37.8 ..
समाश्रमं समाचारं सत्यभूतं तपोरतं । विज्ञानभरितं सर्वं जगद्भवति सन्ततं ॥ ३७.९ ॥
सम-आश्रमम् सम-आचारम् सत्य-भूतम् तपः-रतम् । विज्ञान-भरितम् सर्वम् जगत् भवति सन्ततम् ॥ ३७।९ ॥
sama-āśramam sama-ācāram satya-bhūtam tapaḥ-ratam . vijñāna-bharitam sarvam jagat bhavati santatam .. 37.9 ..
एक वेदसमायुक्ता एकधर्मविधिक्रियाः । पृथग्धर्मास्त्वेक वेदा धर्ममेकमनुव्रताः ॥ ३७.१० ॥
एक-वेद-समायुक्ताः एक-धर्म-विधि-क्रियाः । पृथक् धर्माः तु एक वेदाः धर्मम् एकम् अनुव्रताः ॥ ३७।१० ॥
eka-veda-samāyuktāḥ eka-dharma-vidhi-kriyāḥ . pṛthak dharmāḥ tu eka vedāḥ dharmam ekam anuvratāḥ .. 37.10 ..
चतुराश्रमयुस्तेन कर्मणा कालयोगिना । अकामभलसंयोगाः प्राप्नुवन्ति परां गतिं ॥ ३७.११ ॥
चतुर्-आश्रम-युः तेन कर्मणा काल-योगिना । अ काम-भल-संयोगाः प्राप्नुवन्ति पराम् गतिम् ॥ ३७।११ ॥
catur-āśrama-yuḥ tena karmaṇā kāla-yoginā . a kāma-bhala-saṃyogāḥ prāpnuvanti parām gatim .. 37.11 ..
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः । एतत्कृतयुगं नाम त्रैगुण्यगुणवर्जितं ॥ ३७.१२ ॥
कृते युगे चतुष्पादः चातुर्वर्ण्यस्य शाश्वतः । एतत् कृत-युगम् नाम त्रैगुण्य-गुण-वर्जितम् ॥ ३७।१२ ॥
kṛte yuge catuṣpādaḥ cāturvarṇyasya śāśvataḥ . etat kṛta-yugam nāma traiguṇya-guṇa-varjitam .. 37.12 ..
ततस्त्रेतायुगं नाम यत्र धर्मस्त्री पाद्भवेथ् । रक्ततां तु समभ्येति हरिर्नारायणः प्रभुः ॥ ३७.१३ ॥
ततस् त्रेता-युगम् नाम यत्र धर्म-स्त्री । रक्त-ताम् तु समभ्येति हरिः नारायणः प्रभुः ॥ ३७।१३ ॥
tatas tretā-yugam nāma yatra dharma-strī . rakta-tām tu samabhyeti hariḥ nārāyaṇaḥ prabhuḥ .. 37.13 ..
सत्यप्रवृत्ताश्च नराः दानधर्मपरायणाः । यजन्ते विविधैर्यज्ञैर्नारायणमनामयं ॥ ३७.१४ ॥
सत्य-प्रवृत्ताः च नराः दान-धर्म-परायणाः । यजन्ते विविधैः यज्ञैः नारायणम् अनामयम् ॥ ३७।१४ ॥
satya-pravṛttāḥ ca narāḥ dāna-dharma-parāyaṇāḥ . yajante vividhaiḥ yajñaiḥ nārāyaṇam anāmayam .. 37.14 ..
ब्राह्मणाद्यास्स्वधर्मेषु प्रवर्तन्ते निरन्तरं । यतो धर्मपदे वृद्धा द्वापरं प्रतिपेदरे ॥ ३७.१५ ॥
ब्राह्मण-आद्याः स्वधर्मेषु प्रवर्तन्ते निरन्तरम् । यतस् धर्म-पदे वृद्धाः द्वापरम् प्रतिपेदरे ॥ ३७।१५ ॥
brāhmaṇa-ādyāḥ svadharmeṣu pravartante nirantaram . yatas dharma-pade vṛddhāḥ dvāparam pratipedare .. 37.15 ..
युगं संशीनधर्मत्वाद्द्वापरं परिचक्षते । विष्णुः पीतत्वमभ्येति वेदश्चापि विभज्यते ॥ ३७.१६ ॥
युगम् संशीन-धर्म-त्वात् द्वापरम् परिचक्षते । विष्णुः पीत-त्वम् अभ्येति वेदः च अपि विभज्यते ॥ ३७।१६ ॥
yugam saṃśīna-dharma-tvāt dvāparam paricakṣate . viṣṇuḥ pīta-tvam abhyeti vedaḥ ca api vibhajyate .. 37.16 ..
द्विपाद्भवति वैधर्मो द्वापरे समुपस्थिते । द्विवेदाश्चैकवेदाश्च निर्वेदाश्च तथा परे ॥ ३७.१७ ॥
द्विपाद् भवति वैधर्मः द्वापरे समुपस्थिते । द्वि-वेदाः च एक-वेदाः च निर्वेदाः च तथा परे ॥ ३७।१७ ॥
dvipād bhavati vaidharmaḥ dvāpare samupasthite . dvi-vedāḥ ca eka-vedāḥ ca nirvedāḥ ca tathā pare .. 37.17 ..
विभिन्नशास्त्रनिष्ठाश्च भवन्ति विविधक्रियाः । प्रजा दानपरा भूत्वा दानं शंसन्ति सन्ततं ॥ ३७.१८ ॥
विभिन्न-शास्त्र-निष्ठाः च भवन्ति विविध-क्रियाः । प्रजाः दान-पराः भूत्वा दानम् शंसन्ति सन्ततम् ॥ ३७।१८ ॥
vibhinna-śāstra-niṣṭhāḥ ca bhavanti vividha-kriyāḥ . prajāḥ dāna-parāḥ bhūtvā dānam śaṃsanti santatam .. 37.18 ..
राजसं भावमाश्रित्य राजसी भवति प्रजा । सत्त्वात्प्रच्यवमानानां व्याधयो भृशदारुणाः ॥ ३७.१९ ॥
राजसम् भावम् आश्रित्य राजसी भवति प्रजा । सत्त्वात् प्रच्यवमानानाम् व्याधयः भृश-दारुणाः ॥ ३७।१९ ॥
rājasam bhāvam āśritya rājasī bhavati prajā . sattvāt pracyavamānānām vyādhayaḥ bhṛśa-dāruṇāḥ .. 37.19 ..
अत्याहितानि चान्यानि भवेष्यन्त्यधरोत्तरं । कालस्य ह्रस्वतायोगाच्चतुर्थं स्याद्युगं कलिः ॥ ३७.२० ॥
अत्याहितानि च अन्यानि भवेष्यन्ति अधरोत्तरम् । कालस्य ह्रस्व-ता-योगात् चतुर्थम् स्यात् युगम् कलिः ॥ ३७।२० ॥
atyāhitāni ca anyāni bhaveṣyanti adharottaram . kālasya hrasva-tā-yogāt caturtham syāt yugam kaliḥ .. 37.20 ..
प्रत्यक्षरूपधृग्देवो न कलौ दृश्यते यतः । कृतादिष्विव तेनैव त्रियुगः कलिरुच्यते ॥ ३७.२१ ॥
प्रत्यक्ष-रूप-धृक् देवः न कलौ दृश्यते यतस् । कृत-आदिषु इव तेन एव त्रि-युगः कलिः उच्यते ॥ ३७।२१ ॥
pratyakṣa-rūpa-dhṛk devaḥ na kalau dṛśyate yatas . kṛta-ādiṣu iva tena eva tri-yugaḥ kaliḥ ucyate .. 37.21 ..
पदेनैकेन वै धर्मः प्रवर्तेत कलौ युगे । तस्मिंस्तु समनुप्राप्ते न धर्मस्संप्रवर्तते ॥ ३७.२२ ॥
पदेन एकेन वै धर्मः प्रवर्तेत कलौ युगे । तस्मिन् तु समनुप्राप्ते न धर्मः संप्रवर्तते ॥ ३७।२२ ॥
padena ekena vai dharmaḥ pravarteta kalau yuge . tasmin tu samanuprāpte na dharmaḥ saṃpravartate .. 37.22 ..
तामसं युगमासाद्य हरिः कृष्णत्वमेति च । यः कश्चिदत्र धर्मात्मा क्रियोयोगरतो भवेथ् ॥ ३७.२३ ॥
तामसम् युगम् आसाद्य हरिः कृष्ण-त्वम् एति च । यः कश्चिद् अत्र धर्म-आत्मा क्रियः-योग-रतः ॥ ३७।२३ ॥
tāmasam yugam āsādya hariḥ kṛṣṇa-tvam eti ca . yaḥ kaścid atra dharma-ātmā kriyaḥ-yoga-rataḥ .. 37.23 ..
नरं धर्मपरं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते । वर्णाश्रमाश्रिताचाराः प्रणश्यन्तिन संशयः ॥ ३७.२४ ॥
नरम् धर्म-परम् दृष्ट्वा सर्वे असूयाम् प्रकुर्वते । वर्ण-आश्रम-आश्रित-आचाराः प्रणश्यन्ति न संशयः ॥ ३७।२४ ॥
naram dharma-param dṛṣṭvā sarve asūyām prakurvate . varṇa-āśrama-āśrita-ācārāḥ praṇaśyanti na saṃśayaḥ .. 37.24 ..
व्रताचाराः प्रणश्यन्ति ध्यानयज्ञादयस्तथा । उपद्रवा जनिष्यन्ति ह्यधर्मस्य प्रवर्तनाथ् ॥ ३७.२५ ॥
व्रत-आचाराः प्रणश्यन्ति ध्यान-यज्ञ-आदयः तथा । उपद्रवाः जनिष्यन्ति हि अधर्मस्य प्रवर्तना अथ् ॥ ३७।२५ ॥
vrata-ācārāḥ praṇaśyanti dhyāna-yajña-ādayaḥ tathā . upadravāḥ janiṣyanti hi adharmasya pravartanā ath .. 37.25 ..
असूयानिरतास्सर्वे दंभाचारपरायणाः । प्रजाश्चाल्पायुषस्सर्वे भविष्यन्तिकलौ युगे ॥ ३७.२६ ॥
असूया-निरताः सर्वे दंभ-आचार-परायणाः । प्रजाः च अल्प-आयुषः सर्वे भविष्यन्ति कलौ युगे ॥ ३७।२६ ॥
asūyā-niratāḥ sarve daṃbha-ācāra-parāyaṇāḥ . prajāḥ ca alpa-āyuṣaḥ sarve bhaviṣyanti kalau yuge .. 37.26 ..
सर्वेधर्माः प्रणश्यन्ति कृष्णे कृष्मत्वमागते । यस्मात्कलिर्महाघोरस्सर्वपापस्य साधकः ॥ ३७.२७ ॥
सर्वे धर्माः प्रणश्यन्ति कृष्णे कृष्म-त्वम् आगते । यस्मात् कलिः महा-घोरः सर्व-पापस्य साधकः ॥ ३७।२७ ॥
sarve dharmāḥ praṇaśyanti kṛṣṇe kṛṣma-tvam āgate . yasmāt kaliḥ mahā-ghoraḥ sarva-pāpasya sādhakaḥ .. 37.27 ..
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा धर्मपराङ्मुखाः । घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ॥ ३७.२८ ॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः धर्म-पराङ्मुखाः । घोरे कलि-युगे प्राप्ते द्विजाः वेद-पराङ्मुखाः ॥ ३७।२८ ॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ dharma-parāṅmukhāḥ . ghore kali-yuge prāpte dvijāḥ veda-parāṅmukhāḥ .. 37.28 ..
व्याजधर्मपरास्सर्वे वृधाहङ्कार दूषिताः । सर्वमाक्षिप्यते नित्यं नरैः पण्डितमानिभिः ॥ ३७.२९ ॥
व्याज-धर्म-पराः सर्वे वृध अहङ्कार दूषिताः । सर्वम् आक्षिप्यते नित्यम् नरैः पण्डित-मानिभिः ॥ ३७।२९ ॥
vyāja-dharma-parāḥ sarve vṛdha ahaṅkāra dūṣitāḥ . sarvam ākṣipyate nityam naraiḥ paṇḍita-mānibhiḥ .. 37.29 ..
अहमेवाधिक इति सर्वो विवदते जनः । अधर्मलोलुपास्सर्वे तथा चैव द्विजातयः ॥ ३७.३० ॥
अहम् एव अधिकः इति सर्वः विवदते जनः । अधर्म-लोलुपाः सर्वे तथा च एव द्विजातयः ॥ ३७।३० ॥
aham eva adhikaḥ iti sarvaḥ vivadate janaḥ . adharma-lolupāḥ sarve tathā ca eva dvijātayaḥ .. 37.30 ..
अतस्त्वल्पायुषस्सर्वे भविष्यन्ति कलौ युगे । अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं भवेथ् ॥ ३७.३१ ॥
अतस् तु अल्प-आयुषः सर्वे भविष्यन्ति कलौ युगे । अल्प-आयुः-त्वात् मनुष्याणाम् न विद्या-ग्रहणम् ॥ ३७।३१ ॥
atas tu alpa-āyuṣaḥ sarve bhaviṣyanti kalau yuge . alpa-āyuḥ-tvāt manuṣyāṇām na vidyā-grahaṇam .. 37.31 ..
विद्याग्रहणशून्यत्वादधर्मस्संप्रवर्तते । व्युत्क्रमेण प्रजास्सर्वा म्रियन्ते पापतर्पराः ॥ ३७.३२ ॥
विद्या-ग्रहण-शून्य-त्वात् अधर्मः संप्रवर्तते । व्युत्क्रमेण प्रजाः सर्वाः म्रियन्ते पाप-तर्पराः ॥ ३७।३२ ॥
vidyā-grahaṇa-śūnya-tvāt adharmaḥ saṃpravartate . vyutkrameṇa prajāḥ sarvāḥ mriyante pāpa-tarparāḥ .. 37.32 ..
ब्राह्मणाद्यास्तथा वर्णास्संकीर्यन्ते परस्बरं । कामक्रोधपरा मूढा वृधाहं कारपूरिताः ॥ ३७.३३ ॥
ब्राह्मण-आद्याः तथा वर्णाः संकीर्यन्ते परस्बरम् । काम-क्रोध-पराः मूढाः वृधा अहम् कार-पूरिताः ॥ ३७।३३ ॥
brāhmaṇa-ādyāḥ tathā varṇāḥ saṃkīryante parasbaram . kāma-krodha-parāḥ mūḍhāḥ vṛdhā aham kāra-pūritāḥ .. 37.33 ..
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः । जनास्सर्वे दयाहीना दाक्षिण्य परिवर्जिता ॥ ३७.३४ ॥
बद्धवैराः भविष्यन्ति परस्पर-वध-ईप्सवः । जनाः सर्वे दया-हीनाः दाक्षिण्य-परिवर्जिता ॥ ३७।३४ ॥
baddhavairāḥ bhaviṣyanti paraspara-vadha-īpsavaḥ . janāḥ sarve dayā-hīnāḥ dākṣiṇya-parivarjitā .. 37.34 ..
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः । उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥ ३७.३५ ॥
शूद्र-तुल्याः भविष्यन्ति तपः-सत्य-विवर्जिताः । उत्तमाः नीच-ताम् यान्ति नीचाः च उत्तम-ताम् तथा ॥ ३७।३५ ॥
śūdra-tulyāḥ bhaviṣyanti tapaḥ-satya-vivarjitāḥ . uttamāḥ nīca-tām yānti nīcāḥ ca uttama-tām tathā .. 37.35 ..
राजानो द्रव्यनिरता लोभमोहपरायणाः । धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ॥ ३७.३६ ॥
राजानः द्रव्य-निरताः लोभ-मोह-परायणाः । धर्म-कञ्चुक-संवीताः धर्म-विध्वंस-कारिणः ॥ ३७।३६ ॥
rājānaḥ dravya-niratāḥ lobha-moha-parāyaṇāḥ . dharma-kañcuka-saṃvītāḥ dharma-vidhvaṃsa-kāriṇaḥ .. 37.36 ..
यो योऽश्वरथनागाढ्यस्स स राजा भविष्यति । किङ्कराश्च भविष्यन्ति शूद्राणां चद्विजातयः ॥ ३७.३७ ॥
यः यः अश्व-रथ-नाग-आढ्यः स स राजा भविष्यति । किङ्कराः च भविष्यन्ति शूद्राणाम् च द्विजातयः ॥ ३७।३७ ॥
yaḥ yaḥ aśva-ratha-nāga-āḍhyaḥ sa sa rājā bhaviṣyati . kiṅkarāḥ ca bhaviṣyanti śūdrāṇām ca dvijātayaḥ .. 37.37 ..
म्लेच्छाश्च युनाद्याश्च पालयन्ति वसुंधरां । अनावृष्टिभयात्प्रायो गगनादत्तचक्षुषः ॥ ३७.३८ ॥
म्लेच्छाः च युनाद्याः च पालयन्ति वसुंधराम् । अनावृष्टि-भयात् प्रायस् गगन-आदत्त-चक्षुषः ॥ ३७।३८ ॥
mlecchāḥ ca yunādyāḥ ca pālayanti vasuṃdharām . anāvṛṣṭi-bhayāt prāyas gagana-ādatta-cakṣuṣaḥ .. 37.38 ..
भविष्यन्ति नरास्सर्वे सदा क्षुद्भयकातराः । कलौ नराभविष्यन्ति स्वल्पभाग्या बहुप्रजाः ॥ ३७.३९ ॥
भविष्यन्ति नराः सर्वे सदा क्षुध्-भय-कातराः । कलौ नराः अभविष्यन्ति सु अल्पभाग्याः बहु-प्रजाः ॥ ३७।३९ ॥
bhaviṣyanti narāḥ sarve sadā kṣudh-bhaya-kātarāḥ . kalau narāḥ abhaviṣyanti su alpabhāgyāḥ bahu-prajāḥ .. 37.39 ..
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः । दुश्शीला दुष्टशीलेषु करिष्यन्ति स्पृहां स्त्रियः ॥ ३७.४० ॥
पति-वाक्यम् अन् आदृत्य सदा अन्य-गृह-तत्पराः । दुश्शीलाः दुष्ट-शीलेषु करिष्यन्ति स्पृहाम् स्त्रियः ॥ ३७।४० ॥
pati-vākyam an ādṛtya sadā anya-gṛha-tatparāḥ . duśśīlāḥ duṣṭa-śīleṣu kariṣyanti spṛhām striyaḥ .. 37.40 ..
परुषानृतभाषिण्यो देहसंस्कार वर्जिताः । वाचालाश्च भविष्यन्तिकलौ प्राप्ते सदा स्त्रियः ॥ ३७.४१ ॥
परुष-अनृत-भाषिण्यः देह-संस्कार-वर्जिताः । वाचालाः च भविष्यन्ति कलौ प्राप्ते सदा स्त्रियः ॥ ३७।४१ ॥
paruṣa-anṛta-bhāṣiṇyaḥ deha-saṃskāra-varjitāḥ . vācālāḥ ca bhaviṣyanti kalau prāpte sadā striyaḥ .. 37.41 ..
नगरेषु च ग्रामेषु प्राकाराट्टादिकान्जनाः । चोरादिभयभीताश्च काष्ठयन्त्राणि कुर्वते ॥ ३७.४२ ॥
नगरेषु च ग्रामेषु प्राकार-अट्ट-आदिकान् जनाः । चोर-आदि-भय-भीताः च काष्ठ-यन्त्राणि कुर्वते ॥ ३७।४२ ॥
nagareṣu ca grāmeṣu prākāra-aṭṭa-ādikān janāḥ . cora-ādi-bhaya-bhītāḥ ca kāṣṭha-yantrāṇi kurvate .. 37.42 ..
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः । गोधूमान्नयवान्नाढ्यान्देशान्प्राप्स्यन्ति दुःखिताः ॥ ३७.४३ ॥
दुर्भिक्ष-कर-पीडाभिः अतीव उपद्रुताः जनाः । गोधूम-अन्न-यव-अन्न-आढ्यान् देशान् प्राप्स्यन्ति दुःखिताः ॥ ३७।४३ ॥
durbhikṣa-kara-pīḍābhiḥ atīva upadrutāḥ janāḥ . godhūma-anna-yava-anna-āḍhyān deśān prāpsyanti duḥkhitāḥ .. 37.43 ..
स्वकार्यसिद्धिपर्यन्तं स्निह्यन्त्यन्येषु मानवाः । भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रिताः ॥ ३७.४४ ॥
स्व-कार्य-सिद्धि-पर्यन्तम् स्निह्यन्ति अन्येषु मानवाः । भिक्षवः च अपि मित्र-आदि-स्नेह-संबन्ध-यन्त्रिताः ॥ ३७।४४ ॥
sva-kārya-siddhi-paryantam snihyanti anyeṣu mānavāḥ . bhikṣavaḥ ca api mitra-ādi-sneha-saṃbandha-yantritāḥ .. 37.44 ..
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णन्ति सर्वतः । उभाभ्यामपि हस्ताभ्यां शिरःकण्डूयनं स्त्रियः ॥ ३७.४५ ॥
अन्न-उपाधि-निमित्तेन शिष्यान् गृह्णन्ति सर्वतस् । उभाभ्याम् अपि हस्ताभ्याम् शिरः-कण्डूयनम् स्त्रियः ॥ ३७।४५ ॥
anna-upādhi-nimittena śiṣyān gṛhṇanti sarvatas . ubhābhyām api hastābhyām śiraḥ-kaṇḍūyanam striyaḥ .. 37.45 ..
कुर्वन्त्यो भर्तृमुख्यानामाज्ञां भेत्स्यन्त्यानादृताः । पाषण्डालापनिरताः पाषण्डिजनसंगिनः ॥ ३७.४६ ॥
कुर्वन्त्यः भर्तृ-मुख्यानाम् आज्ञाम् भेत्स्यन्ति अन् आदृताः । पाषण्ड-आलाप-निरताः पाषण्डि-जन-संगिनः ॥ ३७।४६ ॥
kurvantyaḥ bhartṛ-mukhyānām ājñām bhetsyanti an ādṛtāḥ . pāṣaṇḍa-ālāpa-niratāḥ pāṣaṇḍi-jana-saṃginaḥ .. 37.46 ..
भविष्यन्ति यदा विप्रा स्तदा वृद्धिमियात्कलिः । अल्पोदकास्तथा मेघा अल्पसस्या वसुंधरा ॥ ३७.४७ ॥
भविष्यन्ति यदा विप्राः स्तदा वृद्धिम् इयात् कलिः । अल्प-उदकाः तथा मेघाः अल्प-सस्या वसुंधरा ॥ ३७।४७ ॥
bhaviṣyanti yadā viprāḥ stadā vṛddhim iyāt kaliḥ . alpa-udakāḥ tathā meghāḥ alpa-sasyā vasuṃdharā .. 37.47 ..
अल्पक्षीरास्तथा गावः क्षीरात्सर्पिर्न जायते । एकवर्णा भविष्यन्ति वर्णाश्चत्वार एव च ॥ ३७.४८ ॥
अल्प-क्षीराः तथा गावः क्षीरात् सर्पिः न जायते । एक-वर्णाः भविष्यन्ति वर्णाः चत्वारः एव च ॥ ३७।४८ ॥
alpa-kṣīrāḥ tathā gāvaḥ kṣīrāt sarpiḥ na jāyate . eka-varṇāḥ bhaviṣyanti varṇāḥ catvāraḥ eva ca .. 37.48 ..
नास्ति वर्णान्तरं तत्रलयं यास्यन्ति मानवाः । सन्तस्सीदन्त्यसन्तश्च विलसन्तिसमन्ततः ॥ ३७.४९ ॥
न अस्ति वर्ण-अन्तरम् तत्र लयम् यास्यन्ति मानवाः । सन्तः सीदन्ति असन्तः च विलसन्ति समन्ततः ॥ ३७।४९ ॥
na asti varṇa-antaram tatra layam yāsyanti mānavāḥ . santaḥ sīdanti asantaḥ ca vilasanti samantataḥ .. 37.49 ..
मैत्री परजने भूयाद्वैरं च स्वजने भवेथ् । पुत्राः पितृषु जीवत्सु म्रियन्ते च तदग्रतः ॥ ३७.५० ॥
मैत्री पर-जने भूयात् वैरम् च स्व-जने । पुत्राः पितृषु जीवत्सु म्रियन्ते च तद्-अग्रतस् ॥ ३७।५० ॥
maitrī para-jane bhūyāt vairam ca sva-jane . putrāḥ pitṛṣu jīvatsu mriyante ca tad-agratas .. 37.50 ..
कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्तिहि प्रियान्प्राणान्हनिष्यन्ति स्वबान्धवान् ॥ ३७.५१ ॥
कलौ काकिणिके अपि अर्थे विगृह्य त्यक्त-सौहृदाः । त्यक्ष्यन्ति हि प्रियान् प्राणान् हनिष्यन्ति स्व-बान्धवान् ॥ ३७।५१ ॥
kalau kākiṇike api arthe vigṛhya tyakta-sauhṛdāḥ . tyakṣyanti hi priyān prāṇān haniṣyanti sva-bāndhavān .. 37.51 ..
पाषण्डप्रचुरेधर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृधाहिंसानानावृत्तिषु वै नृषु ॥ ३७.५२ ॥
पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु । चौर्य-अनृत-वृध-अहिंसा-न अनावृत्तिषु वै नृषु ॥ ३७।५२ ॥
pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu . caurya-anṛta-vṛdha-ahiṃsā-na anāvṛttiṣu vai nṛṣu .. 37.52 ..
शूद्रप्रायेषु वर्णेषु छागप्रायेषु गोषु च । करिष्यन्ति तथा शूद्राः प्रव्रज्यालिङ्गिनौऽधमाः ॥ ३७.५३ ॥
शूद्र-प्रायेषु वर्णेषु छाग-प्रायेषु गोषु च । करिष्यन्ति तथा शूद्राः प्रव्रज्या-लिङ्गिनौ अधमाः ॥ ३७।५३ ॥
śūdra-prāyeṣu varṇeṣu chāga-prāyeṣu goṣu ca . kariṣyanti tathā śūdrāḥ pravrajyā-liṅginau adhamāḥ .. 37.53 ..
काषायपरिनीताश्च जटिला भक्मधूसराः । अशौचावक्रमतयः परपाकान्नजीविनः ॥ ३७.५४ ॥
काषाय-परिनीताः च जटिलाः भक्म-धूसराः । अशौच-अवक्र-मतयः पर-पाक-अन्न-जीविनः ॥ ३७।५४ ॥
kāṣāya-parinītāḥ ca jaṭilāḥ bhakma-dhūsarāḥ . aśauca-avakra-matayaḥ para-pāka-anna-jīvinaḥ .. 37.54 ..
देवद्विजनिवासेषु पूजामिच्छन्ति पापिनः । भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तथा ॥ ३७.५५ ॥
देव-द्विज-निवासेषु पूजाम् इच्छन्ति पापिनः । भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजिताः तथा ॥ ३७।५५ ॥
deva-dvija-nivāseṣu pūjām icchanti pāpinaḥ . bhaviṣyanti durātmānaḥ śūdrāḥ pravrajitāḥ tathā .. 37.55 ..
उत्कोच जीविनस्तत्र महापापरतास्तथा । भविष्यन्त्यथ पाषण्डाः कापाला भिक्षवोधमाः ॥ ३७.५६ ॥
उत्कोच-जीविनः तत्र महा-पाप-रताः तथा । भविष्यन्ति अथ पाषण्डाः कापालाः भिक्षवः धमाः ॥ ३७।५६ ॥
utkoca-jīvinaḥ tatra mahā-pāpa-ratāḥ tathā . bhaviṣyanti atha pāṣaṇḍāḥ kāpālāḥ bhikṣavaḥ dhamāḥ .. 37.56 ..
धर्मविध्वंसशीलानां द्विजनां राजवल्लभाः । शूद्रा धर्मान्प्रवक्ष्यन्ति प्रव्रज्यालिङ्गिनोऽधमाः ॥ ३७.५७ ॥
धर्म-विध्वंस-शीलानाम् द्विज-नाम् राज-वल्लभाः । शूद्राः धर्मान् प्रवक्ष्यन्ति प्रव्रज्या-लिङ्गिनः अधमाः ॥ ३७।५७ ॥
dharma-vidhvaṃsa-śīlānām dvija-nām rāja-vallabhāḥ . śūdrāḥ dharmān pravakṣyanti pravrajyā-liṅginaḥ adhamāḥ .. 37.57 ..
गीतवाद्यपरा विप्रा वेदवादपराङ्मुखाः । भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग प्रवर्तिनः ॥ ३७.५८ ॥
गीत-वाद्य-पराः विप्राः वेद-वाद-पराङ्मुखाः । भविष्यन्ति कलौ प्राप्ते शूद्रमार्ग-प्रवर्तिनः ॥ ३७।५८ ॥
gīta-vādya-parāḥ viprāḥ veda-vāda-parāṅmukhāḥ . bhaviṣyanti kalau prāpte śūdramārga-pravartinaḥ .. 37.58 ..
हर्तारो न च दातारोभविष्यन्ति कलौ युगे । विश्वासहीनाः पिशुना वेददेवद्विजातिषु ॥ ३७.५९ ॥
हर्तारः न च दातारः भविष्यन्ति कलौ युगे । विश्वास-हीनाः पिशुनाः वेद-देव-द्विजातिषु ॥ ३७।५९ ॥
hartāraḥ na ca dātāraḥ bhaviṣyanti kalau yuge . viśvāsa-hīnāḥ piśunāḥ veda-deva-dvijātiṣu .. 37.59 ..
असंस्कृतो क्तिवक्तारो रागद्वेषपरास्तथा । परमायुश्चतेषां स्यात्तदा वर्षाणि षोडश ॥ ३७.६० ॥
क्ति-वक्तारः राग-द्वेष-पराः तथा । परम-आयुः च तेषाम् स्यात् तदा वर्षाणि षोडश ॥ ३७।६० ॥
kti-vaktāraḥ rāga-dveṣa-parāḥ tathā . parama-āyuḥ ca teṣām syāt tadā varṣāṇi ṣoḍaśa .. 37.60 ..
पञ्चमे वाथःवष्ठे वा वर्षेकन्या प्रसूयते । सर्त्पवर्षाष्टवर्षाश्च प्रसूयन्ते तथा नराः ॥ ३७.६१ ॥
पञ्चमे वा अथःवष्ठे वा वर्षे कन्या प्रसूयते । प्रसूयन्ते तथा नराः ॥ ३७।६१ ॥
pañcame vā athaḥvaṣṭhe vā varṣe kanyā prasūyate . prasūyante tathā narāḥ .. 37.61 ..
स्वकर्मत्यागिनस्सर्वे कृतघ्ना भिन्नवृत्तयः । याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ॥ ३७.६२ ॥
स्व-कर्म-त्यागिनः सर्वे कृतघ्नाः भिन्न-वृत्तयः । याचकाः पिशुनाः च एव भविष्यन्ति कलौ युगे ॥ ३७।६२ ॥
sva-karma-tyāginaḥ sarve kṛtaghnāḥ bhinna-vṛttayaḥ . yācakāḥ piśunāḥ ca eva bhaviṣyanti kalau yuge .. 37.62 ..
परावमाननिरता आत्मस्तुतिपरायणाः । परस्वहरणोपायचिन्तकाः सर्वदा नराः ॥ ३७.६३ ॥
पर-अवमान-निरताः आत्म-स्तुति-परायणाः । पर-स्व-हरण-उपाय-चिन्तकाः सर्वदा नराः ॥ ३७।६३ ॥
para-avamāna-niratāḥ ātma-stuti-parāyaṇāḥ . para-sva-haraṇa-upāya-cintakāḥ sarvadā narāḥ .. 37.63 ..
निन्दां कुर्वन्ति सततं पितृमातृकुलेषु तु । वदन्ति वाचा धर्मांश्च चेतसा पापलोलुपाः ॥ ३७.६४ ॥
निन्दाम् कुर्वन्ति सततम् पितृ-मातृ-कुलेषु तु । वदन्ति वाचा धर्मान् च चेतसा पाप-लोलुपाः ॥ ३७।६४ ॥
nindām kurvanti satatam pitṛ-mātṛ-kuleṣu tu . vadanti vācā dharmān ca cetasā pāpa-lolupāḥ .. 37.64 ..
छादयन्ति प्रयत्नेन स्वदोषं पापकर्मजं । अपापे दुष्कृतं सम्यग्विवृण्वन्ति नराधमाः ॥ ३७.६५ ॥
छादयन्ति प्रयत्नेन स्व-दोषम् पाप-कर्म-जम् । अपापे दुष्कृतम् सम्यक् विवृण्वन्ति नर-अधमाः ॥ ३७।६५ ॥
chādayanti prayatnena sva-doṣam pāpa-karma-jam . apāpe duṣkṛtam samyak vivṛṇvanti nara-adhamāḥ .. 37.65 ..
धर्ममार्गप्रवक्तारं तिरस्कुर्वन्ति पापिनः । भविष्यन्ति कलौ प्राप्ति राजानो म्लेच्छजातयः ॥ ३७.६६ ॥
धर्म-मार्ग-प्रवक्तारम् तिरस्कुर्वन्ति पापिनः । भविष्यन्ति कलौ राजानः म्लेच्छ-जातयः ॥ ३७।६६ ॥
dharma-mārga-pravaktāram tiraskurvanti pāpinaḥ . bhaviṣyanti kalau rājānaḥ mleccha-jātayaḥ .. 37.66 ..
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्याश्च जातयः । अत्यन्तकामिनस्सर्वे संकीर्यन्ते परस्परं ॥ ३७.६७ ॥
द्विजाः च क्षत्रियाः वैश्याः शूद्राः च अन्याः च जातयः । अत्यन्त-कामिनः सर्वे संकीर्यन्ते परस्परम् ॥ ३७।६७ ॥
dvijāḥ ca kṣatriyāḥ vaiśyāḥ śūdrāḥ ca anyāḥ ca jātayaḥ . atyanta-kāminaḥ sarve saṃkīryante parasparam .. 37.67 ..
न शिष्यो न गुरुः कश्चिन्न पुत्रो न तथा पिता । न भार्या न पतिस्तत्र भविता सर्वसंकरः ॥ ३७.६८ ॥
न शिष्यः न गुरुः कश्चिद् न पुत्रः न तथा पिता । न भार्या न पतिः तत्र भविता सर्व-संकरः ॥ ३७।६८ ॥
na śiṣyaḥ na guruḥ kaścid na putraḥ na tathā pitā . na bhāryā na patiḥ tatra bhavitā sarva-saṃkaraḥ .. 37.68 ..
कलौ च ते भविष्यन्ति धनाढ्या अपि याचकाः । रसविक्रयिणश्चापि भविष्यन्ति कलौ युगे ॥ ३७.६९ ॥
कलौ च ते भविष्यन्ति धन-आढ्याः अपि याचकाः । रस-विक्रयिणः च अपि भविष्यन्ति कलौ युगे ॥ ३७।६९ ॥
kalau ca te bhaviṣyanti dhana-āḍhyāḥ api yācakāḥ . rasa-vikrayiṇaḥ ca api bhaviṣyanti kalau yuge .. 37.69 ..
धर्मपत्नीषु यच्छन्ति पतयो जारलक्षणं । द्विष्यन्ति पितरं पुत्रा गुरुं शिष्याद्विषन्ति च ॥ ३७.७० ॥
धर्मपत्नीषु यच्छन्ति पतयः जार-लक्षणम् । द्विष्यन्ति पितरम् पुत्राः गुरुम् शिष्याः द्विषन्ति च ॥ ३७।७० ॥
dharmapatnīṣu yacchanti patayaḥ jāra-lakṣaṇam . dviṣyanti pitaram putrāḥ gurum śiṣyāḥ dviṣanti ca .. 37.70 ..
पतिं च वनिता द्वेष्टि कलौ प्राप्तेन संशयः । लोभाभिभूतमनसस्सर्वे दुष्कर्मशालिनः ॥ ३७.७१ ॥
पतिम् च वनिता द्वेष्टि कलौ प्राप्तेन संशयः । लोभ-अभिभूत-मनसः सर्वे दुष्कर्म-शालिनः ॥ ३७।७१ ॥
patim ca vanitā dveṣṭi kalau prāptena saṃśayaḥ . lobha-abhibhūta-manasaḥ sarve duṣkarma-śālinaḥ .. 37.71 ..
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः । परस्त्रीनिरतास्सर्वे परद्रव्यपरायणाः ॥ ३७.७२ ॥
पर-अन्न-लोलुपाः नित्यम् भविष्यन्ति द्विजातयः । पर-स्त्री-निरताः सर्वे पर-द्रव्य-परायणाः ॥ ३७।७२ ॥
para-anna-lolupāḥ nityam bhaviṣyanti dvijātayaḥ . para-strī-niratāḥ sarve para-dravya-parāyaṇāḥ .. 37.72 ..
मर्त्यामिषेण जीवन्ति दुहन्तश्चाप्यजाविकान् । सरित्तीरेषु कुद्दालैरोपयिष्यन्ति चौषधीः ॥ ३७.७३ ॥
मर्त्य-आमिषेण जीवन्ति दुहन्तः च अपि अज-आविकान् । सरित्-तीरेषु कुद्दालैः ओपयिष्यन्ति च ओषधीः ॥ ३७।७३ ॥
martya-āmiṣeṇa jīvanti duhantaḥ ca api aja-āvikān . sarit-tīreṣu kuddālaiḥ opayiṣyanti ca oṣadhīḥ .. 37.73 ..
अत्यल्पानि फलान्यासां भविष्यन्ति कलौ युगे । वेश्यालावण्यशीलेषु स्पृहां कुर्वन्ति योषितः ॥ ३७.७४ ॥
अति अल्पानि फलानि आसाम् भविष्यन्ति कलौ युगे । वेश्या-लावण्य-शीलेषु स्पृहाम् कुर्वन्ति योषितः ॥ ३७।७४ ॥
ati alpāni phalāni āsām bhaviṣyanti kalau yuge . veśyā-lāvaṇya-śīleṣu spṛhām kurvanti yoṣitaḥ .. 37.74 ..
धर्मविघ्ना भविष्यन्ति स्त्रियश्च पुरुषेषु च । न कन्यां याचते कश्चिन्न च कन्याप्रदो नरः ॥ ३७.७५ ॥
धर्म-विघ्नाः भविष्यन्ति स्त्रियः च पुरुषेषु च । न कन्याम् याचते कश्चिद् न च कन्या-प्रदः नरः ॥ ३७।७५ ॥
dharma-vighnāḥ bhaviṣyanti striyaḥ ca puruṣeṣu ca . na kanyām yācate kaścid na ca kanyā-pradaḥ naraḥ .. 37.75 ..
कन्या वरांश्च छन्देन ग्रहीष्टन्ति परस्परं । प्रायशः कृपणानां च बन्धूनां च तधा द्विजाः ॥ ३७.७६ ॥
कन्याः वरान् च छन्देन ग्रहीष्टन्ति परस्परम् । प्रायशस् कृपणानाम् च बन्धूनाम् च तधा द्विजाः ॥ ३७।७६ ॥
kanyāḥ varān ca chandena grahīṣṭanti parasparam . prāyaśas kṛpaṇānām ca bandhūnām ca tadhā dvijāḥ .. 37.76 ..
साधूनां विविधानां च वित्तान्यपहरन्ति च । न यक्ष्यन्ति न होष्यन्तिन तपस्यन्ति वै जनाः ॥ ३७.७७ ॥
साधूनाम् विविधानाम् च वित्तानि अपहरन्ति च । न यक्ष्यन्ति न होष्यन्ति न तपस्यन्ति वै जनाः ॥ ३७।७७ ॥
sādhūnām vividhānām ca vittāni apaharanti ca . na yakṣyanti na hoṣyanti na tapasyanti vai janāḥ .. 37.77 ..
नैव दास्यन्ति दानादि नार्ऽचयिष्यन्ति वा हरिं । न धर्मे निविशिष्यन्ति हेतुवादकथाश्रयाः ॥ ३७.७८ ॥
न एव दास्यन्ति दान-आदि न आर्ऽचयिष्यन्ति वा हरिम् । न धर्मे निविशिष्यन्ति हेतुवाद-कथा-आश्रयाः ॥ ३७।७८ ॥
na eva dāsyanti dāna-ādi na ār'cayiṣyanti vā harim . na dharme niviśiṣyanti hetuvāda-kathā-āśrayāḥ .. 37.78 ..
अपात्रेष्वेव दानानि कुर्वन्ति च तथा नराः । क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ॥ ३७.७९ ॥
अपात्रेषु एव दानानि कुर्वन्ति च तथा नराः । क्षीर-उपाधि-निमित्तेन गोषु प्रीतिम् प्रकुर्वते ॥ ३७।७९ ॥
apātreṣu eva dānāni kurvanti ca tathā narāḥ . kṣīra-upādhi-nimittena goṣu prītim prakurvate .. 37.79 ..
न कुर्वन्ति तथा विप्राः स्नानशौचादिकाः क्रियाः । अकालकर्मनिरताः कूटयुक्तिविशारदाः ॥ ३७.८० ॥
न कुर्वन्ति तथा विप्राः स्नान-शौच-आदिकाः क्रियाः । अकाल-कर्म-निरताः कूट-युक्ति-विशारदाः ॥ ३७।८० ॥
na kurvanti tathā viprāḥ snāna-śauca-ādikāḥ kriyāḥ . akāla-karma-niratāḥ kūṭa-yukti-viśāradāḥ .. 37.80 ..
देवनिन्दापराश्चैव विप्रनिन्दापरास्तथा । त्यक्तपुण्ड्रशिखासूत्राश्चरिष्यन्तिद्विजातयः ॥ ३७.८१ ॥
देव-निन्दा-पराः च एव विप्र-निन्दा-पराः तथा । त्यक्त-पुण्ड्र-शिखा-सूत्राः चरिष्यन्ति द्विजातयः ॥ ३७।८१ ॥
deva-nindā-parāḥ ca eva vipra-nindā-parāḥ tathā . tyakta-puṇḍra-śikhā-sūtrāḥ cariṣyanti dvijātayaḥ .. 37.81 ..
विष्णुभक्तिपरं न स्यान्मनः कस्यापि जातु चिथ् । देवपूजापरं दृष्ट्वा सर्वे परिहसन्ति च ॥ ३७.८२ ॥
विष्णु-भक्ति-परम् न स्यात् मनः कस्य अपि जातु । देव-पूजा-परम् दृष्ट्वा सर्वे परिहसन्ति च ॥ ३७।८२ ॥
viṣṇu-bhakti-param na syāt manaḥ kasya api jātu . deva-pūjā-param dṛṣṭvā sarve parihasanti ca .. 37.82 ..
शास्त्रोदिताश्च ये देवाःपरिवारा मधुद्विषः । तान्परित्यज्य मोहेन नराः कालबलात्कृताः ॥ ३७.८३ ॥
शास्त्र-उदिताः च ये देवाः परिवाराः मधुद्विषः । तान् परित्यज्य मोहेन नराः काल-बलात्कृताः ॥ ३७।८३ ॥
śāstra-uditāḥ ca ye devāḥ parivārāḥ madhudviṣaḥ . tān parityajya mohena narāḥ kāla-balātkṛtāḥ .. 37.83 ..
हेतुवादपरान्देवान्करिष्यन्त्यपरां स्तदा । निर्बध्नन्ति द्विजानेव करार्थं राजकिङ्कराः ॥ ३७.८४ ॥
हेतुवाद-परान् देवान् करिष्यन्ति अपराम् स्तदा । निर्बध्नन्ति द्विजान् एव कर-अर्थम् राज-किङ्कराः ॥ ३७।८४ ॥
hetuvāda-parān devān kariṣyanti aparām stadā . nirbadhnanti dvijān eva kara-artham rāja-kiṅkarāḥ .. 37.84 ..
नाद्रियन्ते द्विजानन्ये कलौ पापसमाकुले । दानयज्ञ जपादीनां विक्रीणन्ते फलं द्विजाः ॥ ३७.८५ ॥
न आद्रियन्ते द्विजान् अन्ये कलौ पाप-समाकुले । दान-यज्ञ-जप-आदीनाम् विक्रीणन्ते फलम् द्विजाः ॥ ३७।८५ ॥
na ādriyante dvijān anye kalau pāpa-samākule . dāna-yajña-japa-ādīnām vikrīṇante phalam dvijāḥ .. 37.85 ..
प्रतिग्रहं च कुर्वन्ते चण्डालादेरपि द्विजाः । शूद्रस्त्रीमङ्गनिरता विधवासंगलोलुपाः ॥ ३७.८६ ॥
प्रतिग्रहम् च कुर्वन्ते चण्डाल-आदेः अपि द्विजाः । शूद्र-स्त्रीम् अङ्ग-निरताः विधवा-संग-लोलुपाः ॥ ३७।८६ ॥
pratigraham ca kurvante caṇḍāla-ādeḥ api dvijāḥ . śūdra-strīm aṅga-niratāḥ vidhavā-saṃga-lolupāḥ .. 37.86 ..
रजस्स्वलानां वोढारो भविष्यन्ति कलौ युगे । शूद्रान्न पाननिरताः शूद्रप्राया भवन्ति च ॥ ३७.८७ ॥
रजस्स्वलानाम् वोढारः भविष्यन्ति कलौ युगे । शूद्र-अन्न पान-निरताः शूद्र-प्रायाः भवन्ति च ॥ ३७।८७ ॥
rajassvalānām voḍhāraḥ bhaviṣyanti kalau yuge . śūdra-anna pāna-niratāḥ śūdra-prāyāḥ bhavanti ca .. 37.87 ..
अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ ३७.८८ ॥
अट्टशूला-जनपदाः शिव-शूलाः चतुष्पथाः । प्रमदाः केश-शूलिन्यः भविष्यन्ति कलौ युगे ॥ ३७।८८ ॥
aṭṭaśūlā-janapadāḥ śiva-śūlāḥ catuṣpathāḥ . pramadāḥ keśa-śūlinyaḥ bhaviṣyanti kalau yuge .. 37.88 ..
कुहकाश्च जनास्तत्र हेतुवादविशारदाः । पाषण्डिनो भविष्यन्ति तिष्टन्त्याश्रमनिन्दकाः ॥ ३७.८९ ॥
कुहकाः च जनाः तत्र हेतुवाद-विशारदाः । पाषण्डिनः भविष्यन्ति तिष्टन्ति आश्रम-निन्दकाः ॥ ३७।८९ ॥
kuhakāḥ ca janāḥ tatra hetuvāda-viśāradāḥ . pāṣaṇḍinaḥ bhaviṣyanti tiṣṭanti āśrama-nindakāḥ .. 37.89 ..
न च द्विजातिशुश्रूषां सर्वधर्मनिवर्तिनीं । गृहप्रायेष्वाश्रमेषु योगिप्रायेषु बन्धुषु ॥ ३७.९० ॥
न च द्विजाति-शुश्रूषाम् सर्व-धर्म-निवर्तिनीम् । गृह-प्रायेषु आश्रमेषु योगि-प्रायेषु बन्धुषु ॥ ३७।९० ॥
na ca dvijāti-śuśrūṣām sarva-dharma-nivartinīm . gṛha-prāyeṣu āśrameṣu yogi-prāyeṣu bandhuṣu .. 37.90 ..
ततश्छानुदिनं धर्मस्सत्यं शौचं दया क्षमा । कालेन बलिना सर्वं नश्यत्यायुर्बलं स्मृतिः ॥ ३७.९१ ॥
ततस् छानुदिनम् धर्मः सत्यम् शौचम् दया क्षमा । कालेन बलिना सर्वम् नश्यति आयुः बलम् स्मृतिः ॥ ३७।९१ ॥
tatas chānudinam dharmaḥ satyam śaucam dayā kṣamā . kālena balinā sarvam naśyati āyuḥ balam smṛtiḥ .. 37.91 ..
वीत्तमेव कलौ नॄणां जन्माचारगुणोदयं । दांपत्येऽभिरुचिर्हेतुर्मायैव व्यवहारके ॥ ३७.९२ ॥
अ वीत्तम् एव कलौ नॄणाम् जन्म-आचार-गुण-उदयम् । दांपत्ये अभिरुचिः हेतुः माया एव व्यवहारके ॥ ३७।९२ ॥
a vīttam eva kalau nṝṇām janma-ācāra-guṇa-udayam . dāṃpatye abhiruciḥ hetuḥ māyā eva vyavahārake .. 37.92 ..
धर्मन्यायव्यवस्थानां कारणं बलमेव हि । स्त्रीत्वमेवोपभोगे स्वाद्विप्रत्वे सूत्रमेव हि ॥ ३७.९३ ॥
धर्म-न्याय-व्यवस्थानाम् कारणम् बलम् एव हि । स्त्री-त्वम् एव उपभोगे स्वादु-इप्र-त्वे सूत्रम् एव हि ॥ ३७।९३ ॥
dharma-nyāya-vyavasthānām kāraṇam balam eva hi . strī-tvam eva upabhoge svādu-ipra-tve sūtram eva hi .. 37.93 ..
लिङ्गमेवाश्रमख्यातावन्यायो वृत्तिकारणं । अवृत्तौ चापि दौर्बल्यं पाण्डित्ये चाफलं वचः ॥ ३७.९४ ॥
लिङ्गम् एव आश्रम-ख्यातौ अन्यायः वृत्ति-कारणम् । अवृत्तौ च अपि दौर्बल्यम् पाण्डित्ये च अफलम् वचः ॥ ३७।९४ ॥
liṅgam eva āśrama-khyātau anyāyaḥ vṛtti-kāraṇam . avṛttau ca api daurbalyam pāṇḍitye ca aphalam vacaḥ .. 37.94 ..
स्वीकार एव चोद्वाहे स्नानमेवाशुचौ स्मृतं । उदरंभरिता स्वार्थेसत्यत्वे धार्ष्ट्यमेव हि ॥ ३७.९५ ॥
स्वीकारे एव च उद्वाहे स्नानम् एव अशुचौ स्मृतम् । उदरंभरिता स्वार्थे सत्य-त्वे धार्ष्ट्यम् एव हि ॥ ३७।९५ ॥
svīkāre eva ca udvāhe snānam eva aśucau smṛtam . udaraṃbharitā svārthe satya-tve dhārṣṭyam eva hi .. 37.95 ..
दाक्ष्ये कुटुंबभरणे यशोर्थे धर्मसेवनं । इत्थं कलियुगे प्राप्ते धर्मस्सर्वोऽपि जीर्यते ॥ ३७.९६ ॥
दाक्ष्ये कुटुंब-भरणे यशः-ऋथे धर्म-सेवनम् । इत्थम् कलि-युगे प्राप्ते धर्मः सर्वः अपि जीर्यते ॥ ३७।९६ ॥
dākṣye kuṭuṃba-bharaṇe yaśaḥ-ṛthe dharma-sevanam . ittham kali-yuge prāpte dharmaḥ sarvaḥ api jīryate .. 37.96 ..
यदा मायानृतं तन्द्रा निद्रा हिंसा विषायनं । शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः ॥ ३७.९७ ॥
यदा माया अनृतम् तन्द्रा निद्रा हिंसा विषायनम् । शोकः मोहः भयम् दैन्यम् स कलिः तामसः स्मृतः ॥ ३७।९७ ॥
yadā māyā anṛtam tandrā nidrā hiṃsā viṣāyanam . śokaḥ mohaḥ bhayam dainyam sa kaliḥ tāmasaḥ smṛtaḥ .. 37.97 ..
यदायदा सतां हानिर्वैदिकानां द्विजन्मनां । तदा तदा कलिंप्राप्तमवबुद्ध्येत पण्डितः ॥ ३७.९८ ॥
यदा यदा सताम् हानिः वैदिकानाम् द्विजन्मनाम् । तदा तदा कलिंप्राप्तम् अवबुद्ध्येत पण्डितः ॥ ३७।९८ ॥
yadā yadā satām hāniḥ vaidikānām dvijanmanām . tadā tadā kaliṃprāptam avabuddhyeta paṇḍitaḥ .. 37.98 ..
अहो दुःखमहोदुःखमहोदुःखमहो महथ् । स्वरूपमतिभीमस्य संसारस्य सुदुर्भरं ॥ ३७.९९ ॥
अहो दुःख-महः-दुःख-महः-दुःखम् अहो महथ् । स्व-रूपम् अति भीमस्य संसारस्य सु दुर्भरम् ॥ ३७।९९ ॥
aho duḥkha-mahaḥ-duḥkha-mahaḥ-duḥkham aho mahath . sva-rūpam ati bhīmasya saṃsārasya su durbharam .. 37.99 ..
विण्मूत्रपूयकलिते गर्भवासे निपीडनाथ् । अशुचावतिभीभत्से दुःखमत्यन्तदुस्सहं ॥ ३७.१०० ॥
विष्-मूत्र-पूय-कलिते गर्भ-वासे निपीडनात् । अशुचौ अति भीभत्से दुःखम् अत्यन्त-दुस्सहम् ॥ ३७।१०० ॥
viṣ-mūtra-pūya-kalite garbha-vāse nipīḍanāt . aśucau ati bhībhatse duḥkham atyanta-dussaham .. 37.100 ..
दुःखं च जायमानानां गात्रभङ्गादिपीडने । वातेन प्रेर्यमाणानां मूर्छनायातिभीतिदं ॥ ३७.१०१ ॥
दुःखम् च जायमानानाम् गात्र-भङ्ग-आदि-पीडने । वातेन प्रेर्यमाणानाम् मूर्छनाय अति भीति-दम् ॥ ३७।१०१ ॥
duḥkham ca jāyamānānām gātra-bhaṅga-ādi-pīḍane . vātena preryamāṇānām mūrchanāya ati bhīti-dam .. 37.101 ..
बालके निर्विवेकानां भूतदैवात्मसंभवं । यौवने वार्धके चैव मरणे चाति दारुणे ॥ ३७.१०२ ॥
बालके निर्विवेकानाम् भूत-दैव-आत्म-संभवम् । यौवने वार्धके च एव मरणे च अति दारुणे ॥ ३७।१०२ ॥
bālake nirvivekānām bhūta-daiva-ātma-saṃbhavam . yauvane vārdhake ca eva maraṇe ca ati dāruṇe .. 37.102 ..
एकौत्तरं मृत्युशतं देहे ज्ञेयं प्रतिष्ठितं । तत्रैकः कालसंज्ञः स्याच्छेषास्त्वागन्तुकाःस्मृताः ॥ ३७.१०३ ॥
एक-औत्तरम् मृत्यु-शतम् देहे ज्ञेयम् प्रतिष्ठितम् । तत्र एकः काल-संज्ञः स्यात् शेषाः तु आगन्तुकाः स्मृताः ॥ ३७।१०३ ॥
eka-auttaram mṛtyu-śatam dehe jñeyam pratiṣṭhitam . tatra ekaḥ kāla-saṃjñaḥ syāt śeṣāḥ tu āgantukāḥ smṛtāḥ .. 37.103 ..
ये चात्रागन्तुकाः प्रोक्तास्ते तु शाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ॥ ३७.१०४ ॥
ये च अत्र आगन्तुकाः प्रोक्ताः ते तु शाम्यन्ति भेषजैः । जप-होम-प्रदानैः च काल-मृत्युः न शाम्यति ॥ ३७।१०४ ॥
ye ca atra āgantukāḥ proktāḥ te tu śāmyanti bheṣajaiḥ . japa-homa-pradānaiḥ ca kāla-mṛtyuḥ na śāmyati .. 37.104 ..
विविधा व्याधयश्शस्त्रं सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनां ॥ ३७.१०५ ॥
विविधाः व्याधयः शस्त्रम् सर्प-आद्याः प्राणिनः तथा । विषाणि च अभिचाराः च मृत्योः द्वाराणि देहिनाम् ॥ ३७।१०५ ॥
vividhāḥ vyādhayaḥ śastram sarpa-ādyāḥ prāṇinaḥ tathā . viṣāṇi ca abhicārāḥ ca mṛtyoḥ dvārāṇi dehinām .. 37.105 ..
नौषधं न तपो दानं न मन्त्रान च बान्धवाः । शक्नुवन्ति नरं त्रातुं कालमृत्युप्रपीडितं ॥ ३७.१०६ ॥
न औषधम् न तपः दानम् न च बान्धवाः । शक्नुवन्ति नरम् त्रातुम् काल-मृत्यु-प्रपीडितम् ॥ ३७।१०६ ॥
na auṣadham na tapaḥ dānam na ca bāndhavāḥ . śaknuvanti naram trātum kāla-mṛtyu-prapīḍitam .. 37.106 ..
रसायनतपोजप्ययोगसिद्धैर्महात्मभिः । कालमृत्युरपि प्राप्तो जीयतेऽनलसैर्नरैः ॥ ३७.१०७ ॥
रसायन-तपः-जप्य-योग-सिद्धैः महात्मभिः । काल-मृत्युः अपि प्राप्तः जीयते अनलसैः नरैः ॥ ३७।१०७ ॥
rasāyana-tapaḥ-japya-yoga-siddhaiḥ mahātmabhiḥ . kāla-mṛtyuḥ api prāptaḥ jīyate analasaiḥ naraiḥ .. 37.107 ..
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयं । सद्भार्यां पुत्रमित्राणि राज्यैश्वर्यसुखानि च ॥ ३७.१०८ ॥
न अस्ति मृत्यु-समम् दुःखम् न अस्ति मृत्यु-समम् भयम् । सत्-भार्याम् पुत्र-मित्राणि राज्य-ऐश्वर्य-सुखानि च ॥ ३७।१०८ ॥
na asti mṛtyu-samam duḥkham na asti mṛtyu-samam bhayam . sat-bhāryām putra-mitrāṇi rājya-aiśvarya-sukhāni ca .. 37.108 ..
आबद्धानि च वैराणि मृत्युस्सर्वं विनाशयेथ् । यद्दुःखं मरणे जन्तोर्न तस्येह समं क्वचिथ् ॥ ३७.१०९ ॥
आबद्धानि च वैराणि मृत्युः सर्वम् विनाशयेथ् । यत् दुःखम् मरणे जन्तोः न तस्य इह समम् ॥ ३७।१०९ ॥
ābaddhāni ca vairāṇi mṛtyuḥ sarvam vināśayeth . yat duḥkham maraṇe jantoḥ na tasya iha samam .. 37.109 ..
मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगथ् । बान्धवैश्च परिष्वक्तः प्रियैश्च परिवारितः ॥ ३७.११० ॥
मण्डूकः इव सर्पेण ग्रस्यते मृत्युना । बान्धवैः च परिष्वक्तः प्रियैः च परिवारितः ॥ ३७।११० ॥
maṇḍūkaḥ iva sarpeṇa grasyate mṛtyunā . bāndhavaiḥ ca pariṣvaktaḥ priyaiḥ ca parivāritaḥ .. 37.110 ..
निश्श्वपन्दीर्घमुष्णं च मुखेन परिशुष्यता । चतुर्ष्वन्तेषु खट्वायाः परिवृत्य मूहुर्मुहुः ॥ ३७.१११ ॥
निश्श्वपन् दीर्घम् उष्णम् च मुखेन परिशुष्यता । चतुर्षु अन्तेषु खट्वायाः परिवृत्य मूहुर् मुहुर् ॥ ३७।१११ ॥
niśśvapan dīrgham uṣṇam ca mukhena pariśuṣyatā . caturṣu anteṣu khaṭvāyāḥ parivṛtya mūhur muhur .. 37.111 ..
सम्मूढः क्षिपतेऽत्यर्धं हस्तपादमितस्ततः । खट्वाया वाञ्छते भूमिं भूमेः खट्वां ततो महीं ॥ ३७.११२ ॥
सम्मूढः क्षिपते अत्यर्धम् हस्त-पादम् इतस् ततस् । खट्वायाः वाञ्छते भूमिम् भूमेः खट्वाम् ततस् महीम् ॥ ३७।११२ ॥
sammūḍhaḥ kṣipate atyardham hasta-pādam itas tatas . khaṭvāyāḥ vāñchate bhūmim bhūmeḥ khaṭvām tatas mahīm .. 37.112 ..
विवस्त्रस्त्यक्तलज्जश्च मूत्रविष्ठापरिप्लुतः । याचमानश्च सलिलं शुष्ककण्ठास्यतालुकः ॥ ३७.११३ ॥
विवस्त्रः त्यक्त-लज्जः च मूत्र-विष्ठा-परिप्लुतः । याचमानः च सलिलम् शुष्क-कण्ठ-आस्य-तालुकः ॥ ३७।११३ ॥
vivastraḥ tyakta-lajjaḥ ca mūtra-viṣṭhā-pariplutaḥ . yācamānaḥ ca salilam śuṣka-kaṇṭha-āsya-tālukaḥ .. 37.113 ..
चिन्तयानश्चवित्तानि कस्यैतानिमृतेमयि । नखाग्रैश्च स्पृशन्भूमिं कालपाशेन कर्षितः ॥ ३७.११४ ॥
चिन्तयानः च वित्तानि कस्य एतानि मृते मयि । नख-अग्रैः च स्पृशन् भूमिम् काल-पाशेन कर्षितः ॥ ३७।११४ ॥
cintayānaḥ ca vittāni kasya etāni mṛte mayi . nakha-agraiḥ ca spṛśan bhūmim kāla-pāśena karṣitaḥ .. 37.114 ..
म्रियते पश्यतामेव गले खुरखुरायते । जीवस्तृणजलूकावद्देहाद्देहं विशेदसौ ॥ ३७.११५ ॥
म्रियते पश्यताम् एव गले खुरखुरायते । जीवः तृण-जलूका-वत् देहात् देहम् विशेत् असौ ॥ ३७।११५ ॥
mriyate paśyatām eva gale khurakhurāyate . jīvaḥ tṛṇa-jalūkā-vat dehāt deham viśet asau .. 37.115 ..
संप्राप्योत्तरवंशे च तनुं त्यजति पौर्विकीं । देहभेदेन यः पुंसां वियोगः कर्मसंक्षयाथ् ॥ ३७.११६ ॥
संप्राप्य उत्तर-वंशे च तनुम् त्यजति पौर्विकीम् । देहभेदेन यः पुंसाम् वियोगः कर्म-संक्षयाः ॥ ३७।११६ ॥
saṃprāpya uttara-vaṃśe ca tanum tyajati paurvikīm . dehabhedena yaḥ puṃsām viyogaḥ karma-saṃkṣayāḥ .. 37.116 ..
मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः । जायते म्रियते चैवं कर्मभिः स्वयमार्जितैः ॥ ३७.११७ ॥
मरणम् तत् विनिर्दिष्टम् न नाशः परमार्थतः । जायते म्रियते च एवम् कर्मभिः स्वयम् आर्जितैः ॥ ३७।११७ ॥
maraṇam tat vinirdiṣṭam na nāśaḥ paramārthataḥ . jāyate mriyate ca evam karmabhiḥ svayam ārjitaiḥ .. 37.117 ..
शीतोष्णतृष्णाक्षुद्रोग्रज्वरादिपरिवारितः । सर्वदैवपुमानास्ते यावज्जन्मान्त संस्थितिः ॥ ३७.११८ ॥
शीत-उष्ण-तृष्णा-क्षुद्र-उग्र-ज्वर-आदि-परिवारितः । सर्व-दैव-पुमान् आस्ते यावत् जन्म-अन्त संस्थितिः ॥ ३७।११८ ॥
śīta-uṣṇa-tṛṣṇā-kṣudra-ugra-jvara-ādi-parivāritaḥ . sarva-daiva-pumān āste yāvat janma-anta saṃsthitiḥ .. 37.118 ..
दुःखातिशयभूतं हि यदन्ते नासुखं नृणां । तस्योपमानं नैवास्ति कार्येणैवानु मीयते ॥ ३७.११९ ॥
दुःख-अतिशय-भूतम् हि यत् अन्ते न असुखम् नृणाम् । तस्य उपमानम् न एव अस्ति कार्येण एव अनु मीयते ॥ ३७।११९ ॥
duḥkha-atiśaya-bhūtam hi yat ante na asukham nṛṇām . tasya upamānam na eva asti kāryeṇa eva anu mīyate .. 37.119 ..
कृष्यमाणस्य पुरुषैर्यद्यमस्यातिदुस्सहं । दुःखं तत्संस्मृतिं प्राप्तं करोति मम वेपथुं ॥ ३७.१२० ॥
कृष्यमाणस्य पुरुषैः यत् यमस्य अति दुस्सहम् । दुःखम् तत् संस्मृतिम् प्राप्तम् करोति मम वेपथुम् ॥ ३७।१२० ॥
kṛṣyamāṇasya puruṣaiḥ yat yamasya ati dussaham . duḥkham tat saṃsmṛtim prāptam karoti mama vepathum .. 37.120 ..
ततश्चैव पुनस्तस्य योनिसंक्रमणे च यथ् । गर्भस्थस्य च यद्दुःखमतिदुस्सहमुल्बणं ॥ ३७.१२१ ॥
ततस् च एव पुनर् तस्य योनि-संक्रमणे च यथा । गर्भ-स्थस्य च यत् दुःखम् अति दुस्सहम् उल्बणम् ॥ ३७।१२१ ॥
tatas ca eva punar tasya yoni-saṃkramaṇe ca yathā . garbha-sthasya ca yat duḥkham ati dussaham ulbaṇam .. 37.121 ..
पुनश्च जायमानस्य बाल्ययौवनजं च यथ् । दुःखान्येतान्यनन्तानि संसारान्तरवर्तिभिः ॥ ३७.१२२ ॥
पुनर् च जायमानस्य बाल्य-यौवन-जम् च यथा । दुःखानि एतानि अनन्तानि संसार-अन्तर-वर्तिभिः ॥ ३७।१२२ ॥
punar ca jāyamānasya bālya-yauvana-jam ca yathā . duḥkhāni etāni anantāni saṃsāra-antara-vartibhiḥ .. 37.122 ..
पुरुषैरनुभूयन्ते सुखभ्रान्तिविमोहितैः । न वै सुखकला काचिदत्रास्त्यत्यन्तदुःखदे ॥ ३७.१२३ ॥
पुरुषैः अनुभूयन्ते सुख-भ्रान्ति-विमोहितैः । न वै सुख-कला काचिद् अत्र अस्ति अत्यन्त-दुःख-दे ॥ ३७।१२३ ॥
puruṣaiḥ anubhūyante sukha-bhrānti-vimohitaiḥ . na vai sukha-kalā kācid atra asti atyanta-duḥkha-de .. 37.123 ..
संसारसंकटे संगमुपेतानां कदा चन । विषयासक्तमनसस्सततं पामरा जनाः ॥ ३७.१२४ ॥
संसार-संकटे संगम् उपेतानाम् कदा चन । विषय-आसक्त-मनसः सततम् पामराः जनाः ॥ ३७।१२४ ॥
saṃsāra-saṃkaṭe saṃgam upetānām kadā cana . viṣaya-āsakta-manasaḥ satatam pāmarāḥ janāḥ .. 37.124 ..
न मतिं कुर्वते विष्णौ सर्वलोकेश्वरेश्वरे । अथापि नात्र बिभ्यन्ति वैष्णवा भगवत्प्रियाः ॥ ३७.१२५ ॥
न मतिम् कुर्वते विष्णौ सर्व-लोक-ईश्वर-ईश्वरे । अथा अपि ना अत्र बिभ्यन्ति वैष्णवाः भगवत्-प्रियाः ॥ ३७।१२५ ॥
na matim kurvate viṣṇau sarva-loka-īśvara-īśvare . athā api nā atra bibhyanti vaiṣṇavāḥ bhagavat-priyāḥ .. 37.125 ..
विष्णुध्यानपरास्सन्तो विष्वर्चनपरायणाः । ते विष्णुसदृशा ज्ञेया न हि तान्बाधते कलिः ॥ ३७.१२६ ॥
विष्णु-ध्यान-पराः सन्तः विषु-अर्चन-परायणाः । ते विष्णु-सदृशाः ज्ञेयाः न हि तान् बाधते कलिः ॥ ३७।१२६ ॥
viṣṇu-dhyāna-parāḥ santaḥ viṣu-arcana-parāyaṇāḥ . te viṣṇu-sadṛśāḥ jñeyāḥ na hi tān bādhate kaliḥ .. 37.126 ..
मायेयं वैष्णवी भूयः पातयेत्प्राणिनस्तदा । दुस्तरापि भवेत्साध्या यैर्न्यस्तं माधवेमनः ॥ ३७.१२७ ॥
माया इयम् वैष्णवी भूयस् पातयेत् प्राणिनः तदा । दुस्तरा अपि भवेत् साध्या यैः न्यस्तम् माधवेमनः ॥ ३७।१२७ ॥
māyā iyam vaiṣṇavī bhūyas pātayet prāṇinaḥ tadā . dustarā api bhavet sādhyā yaiḥ nyastam mādhavemanaḥ .. 37.127 ..
असंत्यज्य च गार्हस्थ्यमतप्त्वा चतथा तपः । छिनत्ति वैष्णवीं मायां केशवाराधने रतः ॥ ३७.१२८ ॥
अ संत्यज्य च गार्हस्थ्यम् अ तप्त्वा च तथा तपः । छिनत्ति वैष्णवीम् मायाम् केशव-आराधने रतः ॥ ३७।१२८ ॥
a saṃtyajya ca gārhasthyam a taptvā ca tathā tapaḥ . chinatti vaiṣṇavīm māyām keśava-ārādhane rataḥ .. 37.128 ..
विषयानविरोधेन सेवमानोऽपि माधवं । अर्चयानस्तरन्त्येनां विष्णुमायां दुरत्ययां ॥ ३७.१२९ ॥
विषयान् अविरोधेन सेवमानः अपि माधवम् । अर्चयानः तरन्ति एनाम् विष्णु-मायाम् दुरत्ययाम् ॥ ३७।१२९ ॥
viṣayān avirodhena sevamānaḥ api mādhavam . arcayānaḥ taranti enām viṣṇu-māyām duratyayām .. 37.129 ..
यत एवमतो लब्ध्वाशरीरं कर्मसाधनं । शुभं कर्मैव कर्तद्यं तत्प्रसादाय मानवैः, ॥ ३७.१३० ॥
यतस् एवम् अतस् लब्ध्वा अशरीरम् कर्म-साधनम् । शुभम् कर्म एव कर्तद्यम् तत् प्रसादाय मानवैः, ॥ ३७।१३० ॥
yatas evam atas labdhvā aśarīram karma-sādhanam . śubham karma eva kartadyam tat prasādāya mānavaiḥ, .. 37.130 ..
प्रसादितेऽस्मिन्सर्वेषां स्ववर्णाश्रमकर्मभिः । सर्वेहस्तगताः कामा मुक्तिश्चान्ते करस्थिता ॥ ३७.१३१ ॥
प्रसादिते अस्मिन् सर्वेषाम् स्व-वर्ण-आश्रम-कर्मभिः । सर्वे हस्त-गताः कामाः मुक्तिः च अन्ते कर-स्थिता ॥ ३७।१३१ ॥
prasādite asmin sarveṣām sva-varṇa-āśrama-karmabhiḥ . sarve hasta-gatāḥ kāmāḥ muktiḥ ca ante kara-sthitā .. 37.131 ..
कार्यार्था मूर्तयस्तस्य लोककल्याणकारकाः । अतस्साकारमेवेष्ट्वा भक्त्येमं सिद्धिमाप्नुयाथ् ॥ ३७.१३२ ॥
कार्य-अर्थाः मूर्तयः तस्य लोक-कल्याण-कारकाः । अतस् स आकारम् एव इष्ट्वा भक्त्या इमम् सिद्धिम् आप्नुयाथ् ॥ ३७।१३२ ॥
kārya-arthāḥ mūrtayaḥ tasya loka-kalyāṇa-kārakāḥ . atas sa ākāram eva iṣṭvā bhaktyā imam siddhim āpnuyāth .. 37.132 ..
इदं च शास्त्रमालंब्य पूजयेद्विष्णुमव्ययं । यद्ध्यानं केवलं प्रोक्तं शास्त्रे क्वचिदनाश्रयं ॥ ३७.१३३ ॥
इदम् च शास्त्रम् आलंब्य पूजयेत् विष्णुम् अव्ययम् । यत् ध्यानम् केवलम् प्रोक्तम् शास्त्रे क्वचिद् अनाश्रयम् ॥ ३७।१३३ ॥
idam ca śāstram ālaṃbya pūjayet viṣṇum avyayam . yat dhyānam kevalam proktam śāstre kvacid anāśrayam .. 37.133 ..
न तत्रेन्द्रियदौर्बल्यात्कर्मस्थस्याधिकारिता । यथा गिरितटाग्रस्थवनस्पतिफलेच्छया ॥ ३७.१३४ ॥
न तत्र इन्द्रिय-दौर्बल्यात् कर्म-स्थस्य अधिकारि-ता । यथा गिरि-तट-अग्र-स्थ-वनस्पति-फल-इच्छया ॥ ३७।१३४ ॥
na tatra indriya-daurbalyāt karma-sthasya adhikāri-tā . yathā giri-taṭa-agra-stha-vanaspati-phala-icchayā .. 37.134 ..
उपाये वर्ततेऽश्रान्तस्तथासौ यत्नमाचरेथ् । सर्वत्र क्रमवान्यत्नःकार्यो नैच्छैव केवला ॥ ३७.१३५ ॥
उपाये वर्तते अश्रान्तः तथा असौ यत्नम् आचरेथ् । सर्वत्र क्रमवान् यत्नः कार्यः न एच्छा एव केवला ॥ ३७।१३५ ॥
upāye vartate aśrāntaḥ tathā asau yatnam ācareth . sarvatra kramavān yatnaḥ kāryaḥ na ecchā eva kevalā .. 37.135 ..
तत्कायवाङ्मनोयोगैःक्रमादिच्छेत्परां गतिं । निराकारेतु या भक्त्या पूजेष्टा ध्यानमेव वा ॥ ३७.१३६ ॥
तद्-काय-वाच्-मनः-योगैः क्रमात् इच्छेत् पराम् गतिम् । निराकारा तु या भक्त्या पूजा इष्टा ध्यानम् एव वा ॥ ३७।१३६ ॥
tad-kāya-vāc-manaḥ-yogaiḥ kramāt icchet parām gatim . nirākārā tu yā bhaktyā pūjā iṣṭā dhyānam eva vā .. 37.136 ..
रमणीयमिवाभाति तदनर्थस्य कारणं । स्थूलभावप्रसंदीनि जन्मनास्येन्द्रियाणि तु ॥ ३७.१३७ ॥
रमणीयम् इव आभाति तत् अनर्थस्य कारणम् । स्थूल-भाव-प्रसंदीनि जन्मना अस्य इन्द्रियाणि तु ॥ ३७।१३७ ॥
ramaṇīyam iva ābhāti tat anarthasya kāraṇam . sthūla-bhāva-prasaṃdīni janmanā asya indriyāṇi tu .. 37.137 ..
सूक्ष्माच्छ न प्रपद्यन्ते चिराच्च किमुताचिराथ् । न च रूपं विना दोवो ध्यातुं केनापि शक्यते ॥ ३७.१३८ ॥
सूक्ष्मात् श न प्रपद्यन्ते चिरात् च किम् उत अचिराथ् । न च रूपम् विना दोवः ध्यातुम् केन अपि शक्यते ॥ ३७।१३८ ॥
sūkṣmāt śa na prapadyante cirāt ca kim uta acirāth . na ca rūpam vinā dovaḥ dhyātum kena api śakyate .. 37.138 ..
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति । निवृत्ताग्लायते बुद्धिर्निद्रयाहि परीयते ॥ ३७.१३९ ॥
सर्व-रूप-निवृत्ता हि बुद्धिः कुत्र अस्य तिष्ठति । निवृत्ता आग्लायते बुद्धिः निद्रया हि परीयते ॥ ३७।१३९ ॥
sarva-rūpa-nivṛttā hi buddhiḥ kutra asya tiṣṭhati . nivṛttā āglāyate buddhiḥ nidrayā hi parīyate .. 37.139 ..
तस्माद्विद्वानुपासीत बुद्ध्या साकालमेव तं । अस्तितस्य परोक्षं तदिति किञ्चिदनुस्मरेथ् ॥ ३७.१४० ॥
तस्मात् विद्वान् उपासीत बुद्ध्या साकालम् एव तम् । अस्ति तस्य परोक्षम् तत् इति किञ्चिद् अनुस्मरेथ् ॥ ३७।१४० ॥
tasmāt vidvān upāsīta buddhyā sākālam eva tam . asti tasya parokṣam tat iti kiñcid anusmareth .. 37.140 ..
सर्वधाकारमुद्दिष्टं न परित्यज्य पण्डितः । परं देवमुपासीत मुक्तये वा फलायवा ॥ ३७.१४१ ॥
सर्वधाकारम् उद्दिष्टम् न परित्यज्य पण्डितः । परम् देवम् उपासीत मुक्तये वा फलाय अवा ॥ ३७।१४१ ॥
sarvadhākāram uddiṣṭam na parityajya paṇḍitaḥ . param devam upāsīta muktaye vā phalāya avā .. 37.141 ..
भक्त्याकृतेनार्चनेन तुष्टोदेवः प्रजापतेः । पूजाद्यनुग्रहायाऽदावाविर्भूतश्चतुर्भुजः ॥ ३७.१४२ ॥
भक्त्या अ कृतेन अर्चनेन तुष्टः देवः प्रजापतेः । पूजा-आदि-अनुग्रहाय आ आदौ आविर्भूतः चतुर्भुजः ॥ ३७।१४२ ॥
bhaktyā a kṛtena arcanena tuṣṭaḥ devaḥ prajāpateḥ . pūjā-ādi-anugrahāya ā ādau āvirbhūtaḥ caturbhujaḥ .. 37.142 ..
तस्मात्तेनैव रूपेण ह्रिया लक्ष्म्या समायुतः । ध्येयस्सेव्योर्ऽचनियश्च सदा नारायणो बुधैः ॥ ३७.१४३ ॥
तस्मात् तेन एव रूपेण ह्रिया लक्ष्म्या समायुतः । सदा नारायणः बुधैः ॥ ३७।१४३ ॥
tasmāt tena eva rūpeṇa hriyā lakṣmyā samāyutaḥ . sadā nārāyaṇaḥ budhaiḥ .. 37.143 ..
साकारेऽस्मिन्कृता पूजा स्तुतिर्वा ध्यानमेव वा । विधिना शास्त्रदृष्टेन तस्मिन्नेव कृता भवेथ् ॥ ३७.१४४ ॥
स आकारे अस्मिन् कृता पूजा स्तुतिः वा ध्यानम् एव वा । विधिना शास्त्र-दृष्टेन तस्मिन् एव कृता ॥ ३७।१४४ ॥
sa ākāre asmin kṛtā pūjā stutiḥ vā dhyānam eva vā . vidhinā śāstra-dṛṣṭena tasmin eva kṛtā .. 37.144 ..
तदेवाराधनं विष्णोरवज्ञातं विशेषतः । ख्यापनार्थं कलौ कश्चिद्भविष्यति महामतिः ॥ ३७.१४५ ॥
तत् एव आराधनम् विष्णोः अवज्ञातम् विशेषतः । ख्यापन-अर्थम् कलौ कश्चिद् भविष्यति महामतिः ॥ ३७।१४५ ॥
tat eva ārādhanam viṣṇoḥ avajñātam viśeṣataḥ . khyāpana-artham kalau kaścid bhaviṣyati mahāmatiḥ .. 37.145 ..
धर्मग्लानिरधर्मस्य वृद्धिर्यावद्भविष्यति । तावव्भर्ता महाविष्णुः सृजत्यात्मानमात्मना ॥ ३७.१४६ ॥
धर्म-ग्लानिः अधर्मस्य वृद्धिः यावत् भविष्यति । तौ अव्भर्ता महा-विष्णुः सृजति आत्मानम् आत्मना ॥ ३७।१४६ ॥
dharma-glāniḥ adharmasya vṛddhiḥ yāvat bhaviṣyati . tau avbhartā mahā-viṣṇuḥ sṛjati ātmānam ātmanā .. 37.146 ..
श्रीनिवासे जनावाने श्रीनिवासः स्वयं हरिः । श्रीनिवासस्समाख्यातो भूमाववतरिष्यति ॥ ३७.१४७ ॥
श्रीनिवासे जनावाने श्रीनिवासः स्वयम् हरिः । श्रीनिवासः समाख्यातः भूमौ अवतरिष्यति ॥ ३७।१४७ ॥
śrīnivāse janāvāne śrīnivāsaḥ svayam hariḥ . śrīnivāsaḥ samākhyātaḥ bhūmau avatariṣyati .. 37.147 ..
उत्पत्स्यमान एवासौ भ्राजमानस्स्वतेजसा । जगदावरणं क्रूरं तमः पुञ्जं हनिष्यति ॥ ३७.१४८ ॥
उत्पत्स्यमानः एव असौ भ्राजमानः स्व-तेजसा । जगत्-आवरणम् क्रूरम् तमः पुञ्जम् हनिष्यति ॥ ३७।१४८ ॥
utpatsyamānaḥ eva asau bhrājamānaḥ sva-tejasā . jagat-āvaraṇam krūram tamaḥ puñjam haniṣyati .. 37.148 ..
पञ्चहायन एवाथ प्राप्तसर्वकलाकुलः । संस्कृतोऽखिलसंस्कारैर्ब्रह्मवर्चससेवितः ॥ ३७.१४९ ॥
पञ्च-हायनः एव अथ प्राप्त-सर्व-कला-आकुलः । संस्कृतः अखिल-संस्कारैः ब्रह्मवर्चस-सेवितः ॥ ३७।१४९ ॥
pañca-hāyanaḥ eva atha prāpta-sarva-kalā-ākulaḥ . saṃskṛtaḥ akhila-saṃskāraiḥ brahmavarcasa-sevitaḥ .. 37.149 ..
सर्वलोकेश्वरं देवं श्रीनिवाकं श्रियः पतिं । चतुर्भुजमुदाराङ्गं दिव्याभरणभूषितं ॥ ३७.१५० ॥
सर्व-लोक-ईश्वरम् देवम् श्रीनिवाकम् श्रियः पतिम् । चतुर्-भुजम् उदार-अङ्गम् दिव्य-आभरण-भूषितम् ॥ ३७।१५० ॥
sarva-loka-īśvaram devam śrīnivākam śriyaḥ patim . catur-bhujam udāra-aṅgam divya-ābharaṇa-bhūṣitam .. 37.150 ..
श्रीवत्सांकं महाबाहुं शङ्खचक्रगदाधरं । किरीटमुकुटोपेतं वरदाभयचिह्नितं ॥ ३७.१५१ ॥
श्रीवत्स-अंकम् महा-बाहुम् शङ्ख-चक्र-गदा-धरम् । किरीट-मुकुट-उपेतम् वर-द-अभय-चिह्नितम् ॥ ३७।१५१ ॥
śrīvatsa-aṃkam mahā-bāhum śaṅkha-cakra-gadā-dharam . kirīṭa-mukuṭa-upetam vara-da-abhaya-cihnitam .. 37.151 ..
हैमोर्ध्वपुण्ड्रलावण्यलसद्वदनपङ्कजं । वैखानसैर्महाभागैरर्च्यमानं निरन्तरं ॥ ३७.१५२ ॥
हैम-ऊर्ध्व-पुण्ड्र-लावण्य-लसत्-वदन-पङ्कजम् । वैखानसैः महाभागैः अर्च्यमानम् निरन्तरम् ॥ ३७।१५२ ॥
haima-ūrdhva-puṇḍra-lāvaṇya-lasat-vadana-paṅkajam . vaikhānasaiḥ mahābhāgaiḥ arcyamānam nirantaram .. 37.152 ..
कृतास्पदं कलियुगे तदीयं कुलदैवतं । अरायि काणऽऽ इत्याद्यैश्श्रुतिवाक्यैरभिष्टुतं ॥ ३७.१५३ ॥
कृत-आस्पदम् कलि-युगे तदीयम् कुल-दैवतम् । अरायि काण इत्याद्यैः श्रुति-वाक्यैः अभिष्टुतम् ॥ ३७।१५३ ॥
kṛta-āspadam kali-yuge tadīyam kula-daivatam . arāyi kāṇa ityādyaiḥ śruti-vākyaiḥ abhiṣṭutam .. 37.153 ..
रयिः ककुद्माऽऽनित्याद्यैर्मन्त्रैर्वैखानसैः परैः । इज्यमानं विशेषेण विविधैः पारमात्मिकैः ॥ ३७.१५४ ॥
रयिः ककुद्मा आनित्य-आद्यैः मन्त्रैः वैखानसैः परैः । इज्यमानम् विशेषेण विविधैः पारमात्मिकैः ॥ ३७।१५४ ॥
rayiḥ kakudmā ānitya-ādyaiḥ mantraiḥ vaikhānasaiḥ paraiḥ . ijyamānam viśeṣeṇa vividhaiḥ pāramātmikaiḥ .. 37.154 ..
कल्याणगुणसंपूर्णं दिव्यमङ्गलविग्रहं । स्वयंव्यक्तं परञ्ज्योतिः परं ब्रह्म परात्परं ॥ ३७.१५५ ॥
कल्याण-गुण-संपूर्णम् दिव्य-मङ्गल-विग्रहम् । स्वयम् व्यक्तम् परन् ज्योतिः परम् ब्रह्म परात्परम् ॥ ३७।१५५ ॥
kalyāṇa-guṇa-saṃpūrṇam divya-maṅgala-vigraham . svayam vyaktam paran jyotiḥ param brahma parātparam .. 37.155 ..
विधिना शास्त्रदृष्टेन देवमाराधयिष्यति । प्रसादसुमुखो देवस्स्वात्मभूते शिशौ स्वयं ॥ ३७.१५६ ॥
विधिना शास्त्र-दृष्टेन देवम् आराधयिष्यति । प्रसाद-सु मुखः देवः स्व-आत्म-भूते शिशौ स्वयम् ॥ ३७।१५६ ॥
vidhinā śāstra-dṛṣṭena devam ārādhayiṣyati . prasāda-su mukhaḥ devaḥ sva-ātma-bhūte śiśau svayam .. 37.156 ..
अवनम्य च मूर्धानं गृहीष्यति गले स्रजं । दिव्यैःप्रसन्नैर्ग्रथितां कुसुमैस्तुलसीदलैः ॥ ३७.१५७ ॥
अवनम्य च मूर्धानम् गृहीष्यति गले स्रजम् । दिव्यैः प्रसन्नैः ग्रथिताम् कुसुमैः तुलसी-दलैः ॥ ३७।१५७ ॥
avanamya ca mūrdhānam gṛhīṣyati gale srajam . divyaiḥ prasannaiḥ grathitām kusumaiḥ tulasī-dalaiḥ .. 37.157 ..
स्वयं सार्धं कुमारेण हवींषि च भुजिष्यति । संतुष्टेन कुमारेण प्रार्थितः करुणानिधिः ॥ ३७.१५८ ॥
स्वयम् सार्धम् कुमारेण हवींषि च भुजिष्यति । संतुष्टेन कुमारेण प्रार्थितः करुणा-निधिः ॥ ३७।१५८ ॥
svayam sārdham kumāreṇa havīṃṣi ca bhujiṣyati . saṃtuṣṭena kumāreṇa prārthitaḥ karuṇā-nidhiḥ .. 37.158 ..
वैखानसैर्महाभागैरुपेतैः सह मन्दिरे । हवींष्यशिष्यत्यध्यक्षं कुमारं सान्त्वयिष्यति ॥ ३७.१५९ ॥
वैखानसैः महाभागैः उपेतैः सह मन्दिरे । हवींषि अशिष्यति अध्यक्षम् कुमारम् सान्त्वयिष्यति ॥ ३७।१५९ ॥
vaikhānasaiḥ mahābhāgaiḥ upetaiḥ saha mandire . havīṃṣi aśiṣyati adhyakṣam kumāram sāntvayiṣyati .. 37.159 ..
अर्चावतारमहात्म्यं लोकेभ्यःख्यापयिष्यति । देवोर्ऽचकपराधीनः सर्वं तेभ्यः करिष्यति ॥ ३७.१६० ॥
अर्चा-अवतार-महात्म्यम् लोकेभ्यः ख्यापयिष्यति । सर्वम् तेभ्यः करिष्यति ॥ ३७।१६० ॥
arcā-avatāra-mahātmyam lokebhyaḥ khyāpayiṣyati . sarvam tebhyaḥ kariṣyati .. 37.160 ..
तथा सम्मानितः प्रेम्णा श्रीनिवासेन सादरं । यज्ञैर्बहुविधैरन्यैर्यज्ञेशं संयजिष्यति ॥ ३७.१६१ ॥
तथा सम्मानितः प्रेम्णा श्रीनिवासेन स आदरम् । यज्ञैः बहुविधैः अन्यैः यज्ञेशम् संयजिष्यति ॥ ३७।१६१ ॥
tathā sammānitaḥ premṇā śrīnivāsena sa ādaram . yajñaiḥ bahuvidhaiḥ anyaiḥ yajñeśam saṃyajiṣyati .. 37.161 ..
विशाले बहुसंस्कारसंकुले वसुधातले । स्थापयिष्यति विष्ण्वर्चां ग्रामे ग्रामे गृहे गृहे ॥ ३७.१६२ ॥
विशाले बहु-संस्कार-संकुले वसुधा-तले । स्थापयिष्यति विष्णु-अर्चाम् ग्रामे ग्रामे गृहे गृहे ॥ ३७।१६२ ॥
viśāle bahu-saṃskāra-saṃkule vasudhā-tale . sthāpayiṣyati viṣṇu-arcām grāme grāme gṛhe gṛhe .. 37.162 ..
पुराणि च जनावासा गृहाणि गृहिणां तथा । मन्दिरैरिन्दिरेशस्य सुन्दरैर्नतिभन्धुरैः ॥ ३७.१६३ ॥
पुराणि च जन-आवासाः गृहाणि गृहिणाम् तथा । मन्दिरैः इन्दिरेशस्य सुन्दरैः नति-भन्धुरैः ॥ ३७।१६३ ॥
purāṇi ca jana-āvāsāḥ gṛhāṇi gṛhiṇām tathā . mandiraiḥ indireśasya sundaraiḥ nati-bhandhuraiḥ .. 37.163 ..
मण्डितानि भविष्यन्ति जगत्तत्त्वं भजिष्यति । इत आचार्य निर्देश इतश्शिष्योपसर्पणं ॥ ३७.१६४ ॥
मण्डितानि भविष्यन्ति जगत्तत्त्वम् भजिष्यति । इतस् आचार्य निर्देशः इतस् शिष्य-उपसर्पणम् ॥ ३७।१६४ ॥
maṇḍitāni bhaviṣyanti jagattattvam bhajiṣyati . itas ācārya nirdeśaḥ itas śiṣya-upasarpaṇam .. 37.164 ..
इहैव गृहिणां भूयः प्रसंग इह मन्त्रणं । अचार्यवरणं चेह शिल्पिनामिह मार्गणं ॥ ३७.१६५ ॥
इह एव गृहिणाम् भूयः प्रसंगः इह मन्त्रणम् । अचार्य-वरणम् च इह शिल्पिनाम् इह मार्गणम् ॥ ३७।१६५ ॥
iha eva gṛhiṇām bhūyaḥ prasaṃgaḥ iha mantraṇam . acārya-varaṇam ca iha śilpinām iha mārgaṇam .. 37.165 ..
इह प्रस्तरसंग्राह इह दारुग्रहस्तथा । इह दिक्साथनं चैह वसुधासंपरीक्षणं ॥ ३७.१६६ ॥
इह प्रस्तर-संग्राहः इह दारु-ग्रहः तथा । इह दिश्-साथनम् च एह वसुधा-संपरीक्षणम् ॥ ३७।१६६ ॥
iha prastara-saṃgrāhaḥ iha dāru-grahaḥ tathā . iha diś-sāthanam ca eha vasudhā-saṃparīkṣaṇam .. 37.166 ..
इतो मङ्गलघोषश्च इतःपुण्याहवाचनं । इत आद्येष्टकान्यास इतो मूर्धेष्टकाविधिः ॥ ३७.१६७ ॥
इतस् मङ्गल-घोषः च इतस् पुण्याह-वाचनम् । इतस् आद्य-इष्टका-न्यासः इतस् मूर्धेष्टका-विधिः ॥ ३७।१६७ ॥
itas maṅgala-ghoṣaḥ ca itas puṇyāha-vācanam . itas ādya-iṣṭakā-nyāsaḥ itas mūrdheṣṭakā-vidhiḥ .. 37.167 ..
इतश्शूलग्रहश्चेत इतो वैरज्जुबन्धनं । इतश्च मृत्स्नासंस्कार इतो वर्णविलेखनं ॥ ३७.१६८ ॥
इतस् शूलग्रहः च इतस् इतस् वैरज्जुबन्धनम् । इतस् च मृत्स्ना-संस्कारः इतस् वर्ण-विलेखनम् ॥ ३७।१६८ ॥
itas śūlagrahaḥ ca itas itas vairajjubandhanam . itas ca mṛtsnā-saṃskāraḥ itas varṇa-vilekhanam .. 37.168 ..
इतो मधूच्छिष्टविधिरितोऽलङ्कारकल्पनं । इतो ध्वजस्य निर्माणमितो भक्तसमागमः ॥ ३७.१६९ ॥
इतस् मधूच्छिष्ट-विधिः इतस् अलङ्कार-कल्पनम् । इतस् ध्वजस्य निर्माणम् इतस् भक्त-समागमः ॥ ३७।१६९ ॥
itas madhūcchiṣṭa-vidhiḥ itas alaṅkāra-kalpanam . itas dhvajasya nirmāṇam itas bhakta-samāgamaḥ .. 37.169 ..
इतःप्रतिष्ठासंकल्प नातो नयनमोक्षणं । इतोऽधिवासनं चेतो प्रभूतबलिदापनं ॥ ३७.१७० ॥
इतस् प्रतिष्ठा-संकल्प न अतस् नयन-मोक्षणम् । इतस् अधिवासनम् प्रभूत-बलि-दापनम् ॥ ३७।१७० ॥
itas pratiṣṭhā-saṃkalpa na atas nayana-mokṣaṇam . itas adhivāsanam prabhūta-bali-dāpanam .. 37.170 ..
इतोऽग्निमन्थनं चेतो होम आनन्दवर्धनः । इह गीतं नृत्तमिह वाद्यं श्रुतिमनोहरं ॥ ३७.१७१ ॥
इतस् अग्नि-मन्थनम् च इतस् होमः आनन्द-वर्धनः । इह गीतम् नृत्तम् इह वाद्यम् श्रुति-मनोहरम् ॥ ३७।१७१ ॥
itas agni-manthanam ca itas homaḥ ānanda-vardhanaḥ . iha gītam nṛttam iha vādyam śruti-manoharam .. 37.171 ..
इह प्रतिष्ठा देवस्य इह च द्विजभोजनं । इह कालोत्सवश्चेह धनुषि प्रातरुत्सवः ॥ ३७.१७२ ॥
इह प्रतिष्ठा देवस्य इह च द्विज-भोजनम् । इह काल-उत्सवः च इह धनुषि प्रातर् उत्सवः ॥ ३७।१७२ ॥
iha pratiṣṭhā devasya iha ca dvija-bhojanam . iha kāla-utsavaḥ ca iha dhanuṣi prātar utsavaḥ .. 37.172 ..
मुद्गान्नस्य गुडान्नस्य प्रसादस्य निवेदनं । अद्योत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ॥ ३७.१७३ ॥
मुद्ग-अन्नस्य गुड-अन्नस्य प्रसादस्य निवेदनम् । अद्या उत्तिष्ठति वैकुण्ठः शयितः क्षीरसागरे? ॥ ३७।१७३ ॥
mudga-annasya guḍa-annasya prasādasya nivedanam . adyā uttiṣṭhati vaikuṇṭhaḥ śayitaḥ kṣīrasāgare? .. 37.173 ..
अद्य व्रतस्यापवर्गो संशितस्स भुवो हरेः । अद्य वैवाहिकं देव्याव्रतान्ते लोकमङ्गलं ॥ ३७.१७४ ॥
अद्य व्रतस्य अपवर्गः संशितः स भुवः हरेः । अद्य वैवाहिकम् देव्या व्रत-अन्ते लोक-मङ्गलम् ॥ ३७।१७४ ॥
adya vratasya apavargaḥ saṃśitaḥ sa bhuvaḥ hareḥ . adya vaivāhikam devyā vrata-ante loka-maṅgalam .. 37.174 ..
अद्य पौषी पूर्णिमाहोचाद्य चैकादशी शुभा । अद्य देवस्य कुर्यन्ति स्नपनं कलशैश्शतैः ॥ ३७.१७५ ॥
अद्य पौषी पूर्णिमा अह ऊच अद्य च एकादशी शुभा । अद्य देवस्य कुर्यन्ति स्नपनम् कलशैः शतैः ॥ ३७।१७५ ॥
adya pauṣī pūrṇimā aha ūca adya ca ekādaśī śubhā . adya devasya kuryanti snapanam kalaśaiḥ śataiḥ .. 37.175 ..
त्रियुगधर्म प्रपञ्चः.
अद्य दाशरथिर्जातो द्वादशी माघसंभवा । अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ॥ ३७.१७६ ॥
अद्य दाशरथिः जातः द्वादशी माघ-संभवा । अद्य चाता जगन्माता फाल्गुने रेवती तिथौ ॥ ३७।१७६ ॥
adya dāśarathiḥ jātaḥ dvādaśī māgha-saṃbhavā . adya cātā jaganmātā phālgune revatī tithau .. 37.176 ..
अद्यकुर्वन्ति देवस्य दमनोत्सवमीश्वराः । चैत्रमासस्त देवस्य महाप्रीतिकरः किल ॥ ३७.१७७ ॥
अद्य कुर्वन्ति देवस्य दमन-उत्सवम् ईश्वराः । देवस्य महा-प्रीति-करः किल ॥ ३७।१७७ ॥
adya kurvanti devasya damana-utsavam īśvarāḥ . devasya mahā-prīti-karaḥ kila .. 37.177 ..
कुर्वन्ति मनुजाधीशा वसन्ते दिव्यमुत्सवं । जलक्रीडोत्सवो ह्यद्य चैत्रयात्रा हरेःक्वचिथ् ॥ ३७.१७८ ॥
कुर्वन्ति मनुज-अधीशाः वसन्ते दिव्यम् उत्सवम् । जल-क्रीडा-उत्सवः हि अद्य चैत्र-यात्रा ॥ ३७।१७८ ॥
kurvanti manuja-adhīśāḥ vasante divyam utsavam . jala-krīḍā-utsavaḥ hi adya caitra-yātrā .. 37.178 ..
केतकीमालतीजातीमल्लिकादोलिकोत्सवः । गन्धोत्सवोऽद्य क्रियते पौर्णमासी कदा दिनं ॥ ३७.१७९ ॥
। गन्ध-उत्सवः अद्य क्रियते पौर्णमासी कदा दिनम् ॥ ३७।१७९ ॥
. gandha-utsavaḥ adya kriyate paurṇamāsī kadā dinam .. 37.179 ..
कदा चैकादशी पुण्या कदा वा द्वादशीतिधिः । कदा नृसिंहस्संजातः स्मृतमद्यत्रयोदशी ॥ ३७.१८० ॥
कदा च एकादशी पुण्या कदा वा द्वादशी-इति धिः । कदा नृसिंहः संजातः स्मृत-मद्य-त्रयोदशी ॥ ३७।१८० ॥
kadā ca ekādaśī puṇyā kadā vā dvādaśī-iti dhiḥ . kadā nṛsiṃhaḥ saṃjātaḥ smṛta-madya-trayodaśī .. 37.180 ..
वैशाखे शुक्लपक्षे तु क्रियते वार्षिकोत्सवः । कदा भवेत्पौर्णमासी क्रियते चन्द्रिकोत्सवः ॥ ३७.१८१ ॥
वैशाखे शुक्ल-पक्षे तु क्रियते वार्षिक-उत्सवः । कदा भवेत् पौर्णमासी क्रियते चन्द्रिका-उत्सवः ॥ ३७।१८१ ॥
vaiśākhe śukla-pakṣe tu kriyate vārṣika-utsavaḥ . kadā bhavet paurṇamāsī kriyate candrikā-utsavaḥ .. 37.181 ..
कदा ज्येष्ठोत्सवो भूयात्कदा वा पूर्णिमा शुभा । प्रपोत्सवः कदा भूयादाषाढी च भविष्यति ॥ ३७.१८२ ॥
कदा ज्येष्ठ-उत्सवः भूयात् कदा वा पूर्णिमा शुभा । प्रप-उत्सवः कदा भूयात् आषाढी च भविष्यति ॥ ३७।१८२ ॥
kadā jyeṣṭha-utsavaḥ bhūyāt kadā vā pūrṇimā śubhā . prapa-utsavaḥ kadā bhūyāt āṣāḍhī ca bhaviṣyati .. 37.182 ..
कदा च श्रवणं भूयान्नक्षत्रं यत्र मारुतिः । रामसेवाधुरं धृत्वा जातस्साक्षान्महामतिः ॥ ३७.१८३ ॥
कदा च श्रवणम् भूयात् नक्षत्रम् यत्र मारुतिः । राम-सेवा-धुरम् धृत्वा जातः साक्षात् महामतिः ॥ ३७।१८३ ॥
kadā ca śravaṇam bhūyāt nakṣatram yatra mārutiḥ . rāma-sevā-dhuram dhṛtvā jātaḥ sākṣāt mahāmatiḥ .. 37.183 ..
कदा च श्रावणी भूयाद्यत्र नारायणो हरिः । स्वात्मानं जनयामास लोककल्याणहेतवे ॥ ३७.१८४ ॥
कदा च श्रावणी भूयात् यत्र नारायणः हरिः । स्व-आत्मानम् जनयामास लोक-कल्याण-हेतवे ॥ ३७।१८४ ॥
kadā ca śrāvaṇī bhūyāt yatra nārāyaṇaḥ hariḥ . sva-ātmānam janayāmāsa loka-kalyāṇa-hetave .. 37.184 ..
वैखानसं विखनसं विरिञ्चमिति यं विदुः । कदा भाद्रपदो मासस्तत्र चैकादशी भवेथ् ॥ ३७.१८५ ॥
वैखानसम् विखनसम् विरिञ्चम् इति यम् विदुः । कदा भाद्रपदः मासः तत्र च एकादशी ॥ ३७।१८५ ॥
vaikhānasam vikhanasam viriñcam iti yam viduḥ . kadā bhādrapadaḥ māsaḥ tatra ca ekādaśī .. 37.185 ..
कदा वा द्वादशी भूयात्सर्वपाप प्रणाशिनी । तिलधेनुं प्रदास्यन्ति यत्र देवस्य सन्निधौ ॥ ३७.१८६ ॥
कदा वा द्वादशी भूयात् सर्व-पाप-प्रणाशिनी । तिलधेनुम् प्रदास्यन्ति यत्र देवस्य सन्निधौ ॥ ३७।१८६ ॥
kadā vā dvādaśī bhūyāt sarva-pāpa-praṇāśinī . tiladhenum pradāsyanti yatra devasya sannidhau .. 37.186 ..
कदाश्विनो भवेन्मासस्तत्रापि दशमी शुभा । अश्वयात्रा हरेर्भूयादनुयास्यामहे हरिं ॥ ३७.१८७ ॥
कदा आश्विनः भवेत् मासः तत्र अपि दशमी शुभा । अश्व-यात्रा हरेः भूयात् अनुयास्यामहे हरिम् ॥ ३७।१८७ ॥
kadā āśvinaḥ bhavet māsaḥ tatra api daśamī śubhā . aśva-yātrā hareḥ bhūyāt anuyāsyāmahe harim .. 37.187 ..
कदा भवेदमावास्या यस्यां स नरकोहतः । कदा वा कार्तिकोमासो भविष्यति हरिप्रियः ॥ ३७.१८८ ॥
कदा भवेत् अमावास्या यस्याम् स नरक-ऊहतः । कदा वा कार्तिकः मासः भविष्यति हरिप्रियः ॥ ३७।१८८ ॥
kadā bhavet amāvāsyā yasyām sa naraka-ūhataḥ . kadā vā kārtikaḥ māsaḥ bhaviṣyati haripriyaḥ .. 37.188 ..
दीपारोपो भवेत्तत्र कदा वा कार्तिकी शुभा । कदायुगादय स्तद्वत्पुण्यकाला विशेषतः ॥ ३७.१८९ ॥
दीप-आरोपः भवेत् तत्र कदा वा कार्तिकी शुभा । कदा युग-आदयः तद्वत् पुण्य-कालाः विशेषतः ॥ ३७।१८९ ॥
dīpa-āropaḥ bhavet tatra kadā vā kārtikī śubhā . kadā yuga-ādayaḥ tadvat puṇya-kālāḥ viśeṣataḥ .. 37.189 ..
कदा भविष्यति हरे रथयात्रा महात्मनः । कदा वा गजयात्रा स्यात्कदा वीशाधिरोहणं ॥ ३७.१९० ॥
कदा भविष्यति हरे रथ-यात्रा महात्मनः । कदा वा गज-यात्रा स्यात् कदा वा ईश-अधिरोहणम् ॥ ३७।१९० ॥
kadā bhaviṣyati hare ratha-yātrā mahātmanaḥ . kadā vā gaja-yātrā syāt kadā vā īśa-adhirohaṇam .. 37.190 ..
कदा भ्रमति देवेशो ग्रामवीथिषु सुन्दरं । कदा लभिष्टति हरेस्तीर्थं परमपावनं ॥ ३७.१९१ ॥
कदा भ्रमति देवेशः ग्राम-वीथिषु सुन्दरम् । कदा हरेः तीर्थम् परम-पावनम् ॥ ३७।१९१ ॥
kadā bhramati deveśaḥ grāma-vīthiṣu sundaram . kadā hareḥ tīrtham parama-pāvanam .. 37.191 ..
कदा प्रसादं देवस्य कणस्यापि लभिष्यति । कदा शङ्खरथाङ्गादिदिव्यलाञ्छनलाञ्छिता ॥ ३७.१९२ ॥
कदा प्रसादम् देवस्य कणस्य अपि लभिष्यति । कदा शङ्ख-रथाङ्ग-आदि-दिव्य-लाञ्छन-लाञ्छिता ॥ ३७।१९२ ॥
kadā prasādam devasya kaṇasya api labhiṣyati . kadā śaṅkha-rathāṅga-ādi-divya-lāñchana-lāñchitā .. 37.192 ..
पादुका देवदेवस्य संस्करिष्यति मे शिरः । कदा वा तुलसीं पुण्यामर्पितां तस्य पादयोः ॥ ३७.१९३ ॥
पादुकाः देवदेवस्य संस्करिष्यति मे शिरः । कदा वा तुलसीम् पुण्याम् अर्पिताम् तस्य पादयोः ॥ ३७।१९३ ॥
pādukāḥ devadevasya saṃskariṣyati me śiraḥ . kadā vā tulasīm puṇyām arpitām tasya pādayoḥ .. 37.193 ..
अश्नामि शिरसा चैव धारयिष्यामि वैष्णवीं । कदा वा पुण्यपुष्पाणामेकं देवसमर्पितं ॥ ३७.१९४ ॥
अश्नामि शिरसा च एव धारयिष्यामि वैष्णवीम् । कदा वा पुण्य-पुष्पाणाम् एकम् देव-समर्पितम् ॥ ३७।१९४ ॥
aśnāmi śirasā ca eva dhārayiṣyāmi vaiṣṇavīm . kadā vā puṇya-puṣpāṇām ekam deva-samarpitam .. 37.194 ..
शिरसा धारयिष्यामि जिघ्रामि भहुगन्धवथ् । देवदेवस्य द्रक्ष्यामि कदा सर्वाङ्गसुंदरं ॥ ३७.१९५ ॥
शिरसा धारयिष्यामि जिघ्रामि । देवदेवस्य द्रक्ष्यामि कदा सर्व-अङ्ग-सुंदरम् ॥ ३७।१९५ ॥
śirasā dhārayiṣyāmi jighrāmi . devadevasya drakṣyāmi kadā sarva-aṅga-suṃdaram .. 37.195 ..
आपादमौलिपर्यन्तं लावण्यमधुरं वपुः । इत्यादिकाः कथास्तत्र भविष्यन्ति प्रजासु च ॥ ३७.१९६ ॥
आ पाद-मौलि-पर्यन्तम् लावण्य-मधुरम् वपुः । इत्यादिकाः कथाः तत्र भविष्यन्ति प्रजासु च ॥ ३७।१९६ ॥
ā pāda-mauli-paryantam lāvaṇya-madhuram vapuḥ . ityādikāḥ kathāḥ tatra bhaviṣyanti prajāsu ca .. 37.196 ..
सर्वे धर्मपरास्सर्वे नारायण परायणाः । अर्चने वासुदेवस्य भविष्यन्ति रता नराः ॥ ३७.१९७ ॥
सर्वे धर्म-पराः सर्वे नारायण परायणाः । अर्चने वासुदेवस्य भविष्यन्ति रताः नराः ॥ ३७।१९७ ॥
sarve dharma-parāḥ sarve nārāyaṇa parāyaṇāḥ . arcane vāsudevasya bhaviṣyanti ratāḥ narāḥ .. 37.197 ..
इत्येव कालं कालेयं गुरुरुज्जीवयिष्यति । श्रीनिवासं श्रियोवासमर्चिष्यति चिरं भुवि ॥ ३७.१९८ ॥
इति एव कालम् कालेयम् गुरुः उज्जीवयिष्यति । श्रीनिवासम् श्रियोवासम् अर्चिष्यति चिरम् भुवि ॥ ३७।१९८ ॥
iti eva kālam kāleyam guruḥ ujjīvayiṣyati . śrīnivāsam śriyovāsam arciṣyati ciram bhuvi .. 37.198 ..
पाषण्डोपप्लुतं धर्ममुद्धरिष्यति वैष्णवं । इदं च भगवच्छास्त्रं चिरस्थायि करिष्यति ॥ ३७.१९९ ॥
पाषण्ड-उपप्लुतम् धर्मम् उद्धरिष्यति वैष्णवम् । इदम् च भगवत्-शास्त्रम् चिर-स्थायि करिष्यति ॥ ३७।१९९ ॥
pāṣaṇḍa-upaplutam dharmam uddhariṣyati vaiṣṇavam . idam ca bhagavat-śāstram cira-sthāyi kariṣyati .. 37.199 ..
सर्वतन्त्रस्वतन्त्रोऽसौ बहून्ग्रन्धान्प्रणेष्यति । असंख्येभ्यश्च शिष्येभ्यस्तत्तार्थमुपदेक्ष्यति ॥ ३७.२०० ॥
सर्व-तन्त्र-स्वतन्त्रः असौ बहून् ग्रन्धान् प्रणेष्यति । असंख्येभ्यः च शिष्येभ्यः तत्त-अर्थम् उपदेक्ष्यति ॥ ३७।२०० ॥
sarva-tantra-svatantraḥ asau bahūn grandhān praṇeṣyati . asaṃkhyebhyaḥ ca śiṣyebhyaḥ tatta-artham upadekṣyati .. 37.200 ..
धर्मव्यवस्थां कृत्वैवं कलावतिभयङ्करे । समेष्यति परं स्थानं तद्विष्णोः परमं पदं ॥ ३७.२०१ ॥
धर्म-व्यवस्थाम् कृत्वा एवम् कलौ अति भयङ्करे । समेष्यति परम् स्थानम् तत् विष्णोः परमम् पदम् ॥ ३७।२०१ ॥
dharma-vyavasthām kṛtvā evam kalau ati bhayaṅkare . sameṣyati param sthānam tat viṣṇoḥ paramam padam .. 37.201 ..
युगान्ते च पुनर्नामहरेर्नैको गृहीष्यति । तदा हरिर्महावीरः कल्की नाम भविष्यति ॥ ३७.२०२ ॥
युग-अन्ते च पुनर् नाम-हरेः न एकः गृहीष्यति । तदा हरिः महावीरः कल्की नाम भविष्यति ॥ ३७।२०२ ॥
yuga-ante ca punar nāma-hareḥ na ekaḥ gṛhīṣyati . tadā hariḥ mahāvīraḥ kalkī nāma bhaviṣyati .. 37.202 ..
अधर्मनिधनं कृत्वा धर्मं संस्थापयिष्यति । हरेर्दिव्यावताराणामवतारकथामिमां ॥ ३७.२०३ ॥
अधर्म-निधनम् कृत्वा धर्मम् संस्थापयिष्यति । हरेः दिव्य-अवताराणाम् अवतार-कथाम् इमाम् ॥ ३७।२०३ ॥
adharma-nidhanam kṛtvā dharmam saṃsthāpayiṣyati . hareḥ divya-avatārāṇām avatāra-kathām imām .. 37.203 ..
यः पठेच्छ्रुणुयाद्वापि सोऽपि यास्यति सद्गतिं । धन्यास्ते पुरुषश्रेष्ठा दुरन्ते भवसागरे ॥ ३७.२०४ ॥
यः पठेत् श्रुणुयात् वा अपि सः अपि यास्यति सत्-गतिम् । धन्याः ते पुरुष-श्रेष्ठाः दुरन्ते भव-सागरे ॥ ३७।२०४ ॥
yaḥ paṭhet śruṇuyāt vā api saḥ api yāsyati sat-gatim . dhanyāḥ te puruṣa-śreṣṭhāḥ durante bhava-sāgare .. 37.204 ..
ये नामापि कलौ विष्णोस्स्मरिष्यिन्त्यव्ययात्मवः । ध्यायन्कृतयुगे विष्णुं त्रेतायां दापरे यजन् ॥ ३७.२०५ ॥
ये नाम अपि कलौ विष्णोः स्मरिष्यिन्ति अव्यय-आत्मवः । ध्यायन् कृत-युगे विष्णुम् त्रेतायाम् यजन् ॥ ३७।२०५ ॥
ye nāma api kalau viṣṇoḥ smariṣyinti avyaya-ātmavaḥ . dhyāyan kṛta-yuge viṣṇum tretāyām yajan .. 37.205 ..
यत्तत्फलमवाप्नोति कलौ स्मरणमात्रतः । हरेर्हरति पापानि नामसंकीर्तितं सकृथ् ॥ ३७.२०६ ॥
यत् तत् फलम् अवाप्नोति कलौ स्मरण-मात्रतः । हरेः हरति पापानि नाम-संकीर्तितम् ॥ ३७।२०६ ॥
yat tat phalam avāpnoti kalau smaraṇa-mātrataḥ . hareḥ harati pāpāni nāma-saṃkīrtitam .. 37.206 ..
पाषण्डबहुले लोके कलावतिभयङ्करे । तन्नामकीर्तयेद्यस्तु तं विद्यात्कृतिनां वरं ॥ ३७.२०७ ॥
पाषण्ड-बहुले लोके कलौ अति भयङ्करे । तद्-नाम कीर्तयेत् यः तु तम् विद्यात् कृतिनाम् वरम् ॥ ३७।२०७ ॥
pāṣaṇḍa-bahule loke kalau ati bhayaṅkare . tad-nāma kīrtayet yaḥ tu tam vidyāt kṛtinām varam .. 37.207 ..
तस्मात्सर्वप्रयत्नेन भक्त्या परमया युतः । समूर्ताराधनं कुर्यान्नान्यथा मुक्तिमाप्नुयाथ् ॥ ३७.२०८ ॥
तस्मात् सर्व-प्रयत्नेन भक्त्या परमया युतः । स मूर्त-आराधनम् कुर्यात् न अन्यथा मुक्तिम् आप्नुयाथ् ॥ ३७।२०८ ॥
tasmāt sarva-prayatnena bhaktyā paramayā yutaḥ . sa mūrta-ārādhanam kuryāt na anyathā muktim āpnuyāth .. 37.208 ..
नाथमाद्यैस्तु नवभिरध्यायैरीड्यते क्रमाथ् । भूपरीक्षादिकर्माणि विमानानां च कल्पनं ॥ ३७.२०९ ॥
नाथम-आद्यैः तु नवभिः अध्यायैः ईड्यते । भू-परीक्षा-आदि-कर्माणि विमानानाम् च कल्पनम् ॥ ३७।२०९ ॥
nāthama-ādyaiḥ tu navabhiḥ adhyāyaiḥ īḍyate . bhū-parīkṣā-ādi-karmāṇi vimānānām ca kalpanam .. 37.209 ..
विविधानां च बेराणां निर्माणविधिविस्तरः । दशमे नांकुरारोपः पश्चाद्द्वाभ्यामुदीरितः ॥ ३७.२१० ॥
विविधानाम् च बेराणाम् निर्माण-विधि-विस्तरः । दशमे न अंकुर-आरोपः पश्चात् द्वाभ्याम् उदीरितः ॥ ३७।२१० ॥
vividhānām ca berāṇām nirmāṇa-vidhi-vistaraḥ . daśame na aṃkura-āropaḥ paścāt dvābhyām udīritaḥ .. 37.210 ..
प्रतिष्ठा विधिरत्यन्त फलदो जगतः पतेः । पश्चाद्दशावताराणां चतुर्भिः प्रोच्यते विधिः ॥ ३७.२११ ॥
प्रतिष्ठा विधिः अत्यन्त फल-दः जगतः पतेः । पश्चात् दश-अवताराणाम् चतुर्भिः प्रोच्यते विधिः ॥ ३७।२११ ॥
pratiṣṭhā vidhiḥ atyanta phala-daḥ jagataḥ pateḥ . paścāt daśa-avatārāṇām caturbhiḥ procyate vidhiḥ .. 37.211 ..
तथा सप्तदशे चोक्त आदिमूर्ति विधिस्ततः । अष्टादशेर्ऽचनं सांगमुक्तं मधुविदारिणः ॥ ३७.२१२ ॥
तथा सप्तदशे च उक्तः आदिमूर्ति विधिः ततस् । अष्टादशेः अचनम् स अंगम् उक्तम् मधुविदारिणः ॥ ३७।२१२ ॥
tathā saptadaśe ca uktaḥ ādimūrti vidhiḥ tatas . aṣṭādaśeḥ acanam sa aṃgam uktam madhuvidāriṇaḥ .. 37.212 ..
द्वाभ्यामुक्तस्ततो पूजाद्रव्य संग्रहण क्रमः । एकविंशे विशेषार्चाविधिस्सम्यगुदीरितः ॥ ३७.२१३ ॥
पूजा-द्रव्य-संग्रहण-क्रमः । ॥ ३७।२१३ ॥
pūjā-dravya-saṃgrahaṇa-kramaḥ . .. 37.213 ..
द्वाविंशेस्नपनं चोक्तं त्रयोविंशे विशेषतः । विधिरुत्सवचक्रस्य प्रोक्तो द्वाभ्यामथोत्सवः ॥ ३७.२१४ ॥
द्वाविंशे स्नपनम् च उक्तम् त्रयोविंशे विशेषतः । विधिः उत्सव-चक्रस्य प्रोक्तः द्वाभ्याम् अथ उत्सवः ॥ ३७।२१४ ॥
dvāviṃśe snapanam ca uktam trayoviṃśe viśeṣataḥ . vidhiḥ utsava-cakrasya proktaḥ dvābhyām atha utsavaḥ .. 37.214 ..
ततश्च षड्भिरध्यायैः प्रायश्चित्तस्य विस्तरः । प्रोक्तस्ततश्च द्वात्रिंशे संकीर्णंशा उदीरिताः ॥ ३७.२१५ ॥
ततस् च षड्भिः अध्यायैः प्रायश्चित्तस्य विस्तरः । प्रोक्तः ततस् च द्वात्रिंशे संकीर्ण-अंशाः उदीरिताः ॥ ३७।२१५ ॥
tatas ca ṣaḍbhiḥ adhyāyaiḥ prāyaścittasya vistaraḥ . proktaḥ tatas ca dvātriṃśe saṃkīrṇa-aṃśāḥ udīritāḥ .. 37.215 ..
अर्चावतारमहिमा त्रयस्त्रिंशे प्रकीर्तितः । स्वयंव्यक्तादिभेदश्च चतुस्त्रिंशे प्रकाशितः ॥ ३७.२१६ ॥
। स्वयम् व्यक्त-आदि-भेदः च चतुस्त्रिंशे प्रकाशितः ॥ ३७।२१६ ॥
. svayam vyakta-ādi-bhedaḥ ca catustriṃśe prakāśitaḥ .. 37.216 ..
पञ्चत्रिंशे तु संप्रोक्तं क्रियायोगाश्रितं फलं । षट्त्रिंशेत्वपचाराश्च कथिता देवकोपनाः ॥ ३७.२१७ ॥
पञ्चत्रिंशे तु संप्रोक्तम् क्रिया-योग-आश्रितम् फलम् । षट्त्रिंशे तु अपचाराः च कथिताः देव-कोपनाः ॥ ३७।२१७ ॥
pañcatriṃśe tu saṃproktam kriyā-yoga-āśritam phalam . ṣaṭtriṃśe tu apacārāḥ ca kathitāḥ deva-kopanāḥ .. 37.217 ..
कलिधर्माश्च संप्रोक्तास्सप्तत्रिंशे विशेषतः । सप्तत्रिंशद्भिरध्यायैरेवं गुरुकृपाबलाथ् ॥ ३७.२१८ ॥
कलि-धर्माः च संप्रोक्ताः सप्तत्रिंशे विशेषतः । सप्तत्रिंशद्भिः अध्यायैः एवम् ॥ ३७।२१८ ॥
kali-dharmāḥ ca saṃproktāḥ saptatriṃśe viśeṣataḥ . saptatriṃśadbhiḥ adhyāyaiḥ evam .. 37.218 ..
षड्भिः सहस्रैः श्लोकैस्तु क्रियाङ्गमुपवर्णितं ॥ ३७.२१९ ॥
षड्भिः सहस्रैः श्लोकैः तु क्रिया-अङ्गम् उपवर्णितम् ॥ ३७।२१९ ॥
ṣaḍbhiḥ sahasraiḥ ślokaiḥ tu kriyā-aṅgam upavarṇitam .. 37.219 ..
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां चतुर्विंशत्सहान्रिकायां सहितायां प्रकीर्णाधिकारे सप्तत्रिंशोऽध्यायः
इति आर्षे श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् चतुर्विंशत्-सहान्रिकायाम् सहितायाम् प्रकीर्ण-अधिकारे सप्तत्रिंशः अध्यायः
iti ārṣe śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām caturviṃśat-sahānrikāyām sahitāyām prakīrṇa-adhikāre saptatriṃśaḥ adhyāyaḥ
इति श्रीमति प्रकीर्णाधिकारे क्रियापादः.श्री विखनसमहागुरवे नमः श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितं तस्मै समस्तवेदार्थविदे विखनसे नमः.
इति श्रीमति प्रकीर्ण-अधिकारे क्रिया-पादः।श्री-विखनस-महा-गुरवे नमः श्रौत-स्मार्त-आदिकम् कर्म निखिलम् येन सूत्रितम् तस्मै समस्त-वेद-अर्थ-विदे विखनसे नमः।
iti śrīmati prakīrṇa-adhikāre kriyā-pādaḥ.śrī-vikhanasa-mahā-gurave namaḥ śrauta-smārta-ādikam karma nikhilam yena sūtritam tasmai samasta-veda-artha-vide vikhanase namaḥ.
जयत्यात्मेश्वरोस्नि द्रध्यान सौधप्रियातिथिः श्रीमत्पत्रपुरीवासः श्रीरामस्सीतया गृही.
जयति आत्म-ईश्वरः उस्नि सौध-प्रिय-अतिथिः श्रीमत्-पत्रपुरी-वासः श्री-रामः सीतया गृही।
jayati ātma-īśvaraḥ usni saudha-priya-atithiḥ śrīmat-patrapurī-vāsaḥ śrī-rāmaḥ sītayā gṛhī.
श्रीरामचन्द्राय नमः.
श्री-रामचन्द्राय नमः।
śrī-rāmacandrāya namaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In