| |
|

This overlay will guide you through the buttons:

अथ सप्तविंशोऽध्यायः
अथ सप्तविंशः अध्यायः
atha saptaviṃśaḥ adhyāyaḥ
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः । यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ॥ २७.१ ॥
आचार्यस्य ऋत्विजाम् च एव पूजकस्य विशेषतः । यथा उक्त-वरणे हीने शान्तिम् कुर्यात् यथाविधि ॥ २७।१ ॥
ācāryasya ṛtvijām ca eva pūjakasya viśeṣataḥ . yathā ukta-varaṇe hīne śāntim kuryāt yathāvidhi .. 27.1 ..
अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः । यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेथ् ॥ २७.२ ॥
अब्ज-अग्नौ तु महाशान्तिम् दश-वारम् हुनेत् ततस् । यथा उक्तम् वरणम् कृत्वा पश्चात् कर्म समाचरेथ् ॥ २७।२ ॥
abja-agnau tu mahāśāntim daśa-vāram hunet tatas . yathā uktam varaṇam kṛtvā paścāt karma samācareth .. 27.2 ..
अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने । हविर्निवेदने वापि हीने शान्तिं समाचरेथ् ॥ २७.३ ॥
अङ्कुर-अर्पण-काले तु ब्रह्म-आदीनाम् अथ अर् चने । हविः-निवेदने वा अपि हीने शान्तिम् समाचरेथ् ॥ २७।३ ॥
aṅkura-arpaṇa-kāle tu brahma-ādīnām atha ar cane . haviḥ-nivedane vā api hīne śāntim samācareth .. 27.3 ..
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेथ् । अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.४ ॥
तद्-दैवत्यम् वैष्णवम् च हुत्वा अभ्यर्च्य निवेदयेथ् । अङ्कुर-अर्पण-हीने तु वैष्णवम् विष्णुसूक्तकम् ॥ २७।४ ॥
tad-daivatyam vaiṣṇavam ca hutvā abhyarcya nivedayeth . aṅkura-arpaṇa-hīne tu vaiṣṇavam viṣṇusūktakam .. 27.4 ..
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा । पुनरप्यङ्कुरान्कृत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.५ ॥
पुरुषसूक्तम् च ब्राह्मम् च व्याहृतीः च हुनेत् तथा । पुनर् अपि अङ्कुरान् कृत्वा पश्चात् कार्यम् समाचरेथ् ॥ २७।५ ॥
puruṣasūktam ca brāhmam ca vyāhṛtīḥ ca hunet tathā . punar api aṅkurān kṛtvā paścāt kāryam samācareth .. 27.5 ..
कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः । राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेथ् ॥ २७.६ ॥
कृत्वा अंकुर-अर्पणम् पश्चात् न आचरेत् कर्म चेद् ततस् । राज-राष्ट्र-विनाशः स्यात् महाशान्तिम् समाचरेथ् ॥ २७।६ ॥
kṛtvā aṃkura-arpaṇam paścāt na ācaret karma ced tatas . rāja-rāṣṭra-vināśaḥ syāt mahāśāntim samācareth .. 27.6 ..
क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेथ् । अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ॥ २७.७ ॥
क्षम अस्व इति प्रणम्य एव पुनर् अङ्कुम् आचरेथ् । अक्षि-उन्मेषात् तु पूर्वम् चेद् पीठ-संघात-कर्मणि ॥ २७।७ ॥
kṣama asva iti praṇamya eva punar aṅkum ācareth . akṣi-unmeṣāt tu pūrvam ced pīṭha-saṃghāta-karmaṇi .. 27.7 ..
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकं । सूक्तं तु पौरुषं ब्राह्मं स्ॐयं चैव तु व्याहृतिः ॥ २७.८ ॥
अलाभे च एव रत्नानाम् वैष्णवम् विष्णुसूक्तकम् । सूक्तम् तु पौरुषम् ब्राह्मम् च एव तु व्याहृतिः ॥ २७।८ ॥
alābhe ca eva ratnānām vaiṣṇavam viṣṇusūktakam . sūktam tu pauruṣam brāhmam ca eva tu vyāhṛtiḥ .. 27.8 ..
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेथ् । अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ॥ २७.९ ॥
हुत्वा सुवर्णम् बहुशस् विनिक्षिपेथ् । अक्षि-उन्मेषण-काले तु गवा-आदीनाम् असंभवे ॥ २७।९ ॥
hutvā suvarṇam bahuśas vinikṣipeth . akṣi-unmeṣaṇa-kāle tu gavā-ādīnām asaṃbhave .. 27.9 ..
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च । तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमाथ् ॥ २७.१० ॥
दर्शन-द्रव्य-रूपाणाम् यथालाभम् प्रगृह्य च । तद्-तद्-द्रव्य-अधिदैवत्यम् वैष्णवम् जुहुयात् क्रमाथ् ॥ २७।१० ॥
darśana-dravya-rūpāṇām yathālābham pragṛhya ca . tad-tad-dravya-adhidaivatyam vaiṣṇavam juhuyāt kramāth .. 27.10 ..
तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः । अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ॥ २७.११ ॥
तत् तत् द्रव्यम् च संपाद्य विधिवत् दर्शयेत् पुनर् । अक्षि-उन्मेषण-हीने वा राहु-सौर-उदये अथ वा ॥ २७।११ ॥
tat tat dravyam ca saṃpādya vidhivat darśayet punar . akṣi-unmeṣaṇa-hīne vā rāhu-saura-udaye atha vā .. 27.11 ..
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने । सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकं ॥ २७.१२ ॥
नक्षत्रे कृते च एव अक्षिमोचने । सर्व-नाशः भवेत् तस्मात् वैष्णवम् विष्णुसूक्तकम् ॥ २७।१२ ॥
nakṣatre kṛte ca eva akṣimocane . sarva-nāśaḥ bhavet tasmāt vaiṣṇavam viṣṇusūktakam .. 27.12 ..
नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेथ् । पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ॥ २७.१३ ॥
नव-ग्रह-आदि-मन्त्राः च हुत्वा अक्षि-उन्मीलनम् चरेथ् । पञ्चगव्य-आदिषु द्रव्येषु अधिवासे विवर्जिते ॥ २७।१३ ॥
nava-graha-ādi-mantrāḥ ca hutvā akṣi-unmīlanam careth . pañcagavya-ādiṣu dravyeṣu adhivāse vivarjite .. 27.13 ..
हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च । जलाधिवासं त्रियहमेकाहं वापि कालयेथ् ॥ २७.१४ ॥
हुत्वा वैष्णवम् आर्षम् च विष्णुसूक्तम् तथा एव च । जल-अधिवासम् त्रि-यहम् एक-अहम् वा अपि ॥ २७।१४ ॥
hutvā vaiṣṇavam ārṣam ca viṣṇusūktam tathā eva ca . jala-adhivāsam tri-yaham eka-aham vā api .. 27.14 ..
यज्ञालये महावेद्यां कृतायामप्रमाणतः । अन्यदेशकृतायां वा विहीनायां च शोभनैः ॥ २७.१५ ॥
यज्ञ-आलये महावेद्याम् कृतायाम् अप्रमाणतः । अन्य-देश-कृतायाम् वा विहीनायाम् च शोभनैः ॥ २७।१५ ॥
yajña-ālaye mahāvedyām kṛtāyām apramāṇataḥ . anya-deśa-kṛtāyām vā vihīnāyām ca śobhanaiḥ .. 27.15 ..
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकं । श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेथ् ॥ २७.१६ ॥
तद्-तद्-देश-आधिदैवत्यम् वैष्णवम् विष्णुसूक्तकम् । श्री-भू-दैवत्यम् च हुत्वा एव यथोक्तम् पुनर् आचरेथ् ॥ २७।१६ ॥
tad-tad-deśa-ādhidaivatyam vaiṣṇavam viṣṇusūktakam . śrī-bhū-daivatyam ca hutvā eva yathoktam punar ācareth .. 27.16 ..
ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेथ् । विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकं ॥ २७.१७ ॥
न । विपरीते अपि वा हुत्वा वैष्णवम् विष्णुसूक्तकम् ॥ २७।१७ ॥
na . viparīte api vā hutvā vaiṣṇavam viṣṇusūktakam .. 27.17 ..
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेथ् । अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरं ॥ २७.१८ ॥
पुरुषसूक्तम् रौद्रम् आर्षम् वारुणम् च पुनर् चरेथ् । अग्निकुण्डानि अविधिना कृतानि आलक्ष्य सत्वरम् ॥ २७।१८ ॥
puruṣasūktam raudram ārṣam vāruṇam ca punar careth . agnikuṇḍāni avidhinā kṛtāni ālakṣya satvaram .. 27.18 ..
ब्राह्मं स्ॐयमथाग्नेयं विधिना कारयेत्ततः । अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ॥ २७.१९ ॥
ब्राह्मम् सोंयम् अथ आग्नेयम् विधिना कारयेत् ततस् । अप्रमाणेषु कूर्च-आदिषु आज्य-पात्र-स्रुव-आदिषु ॥ २७।१९ ॥
brāhmam soṃyam atha āgneyam vidhinā kārayet tatas . apramāṇeṣu kūrca-ādiṣu ājya-pātra-sruva-ādiṣu .. 27.19 ..
मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः । पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ॥ २७.२० ॥
मिन्दाहुती च सावित्रम् व्याहृतीः च हुनेत् बधः । पञ्च-अग्निषु यथास्थानम् प्रोक्षण-उल्लेखने कृते ॥ २७।२० ॥
mindāhutī ca sāvitram vyāhṛtīḥ ca hunet badhaḥ . pañca-agniṣu yathāsthānam prokṣaṇa-ullekhane kṛte .. 27.20 ..
मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरं । अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेथ् ॥ २७.२१ ॥
मथित-अग्नौ अलाभे तु प्राप्य च आचार्य-मन्दिरम् । अथ वा श्रोत्रिय-अगारात् आहृत्य अग्निम् समाचरेथ् ॥ २७।२१ ॥
mathita-agnau alābhe tu prāpya ca ācārya-mandiram . atha vā śrotriya-agārāt āhṛtya agnim samācareth .. 27.21 ..
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः । वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमाथ् ॥ २७.२२ ॥
निधाय गार्हपत्ये इग्निम् आघारम् जुहुयात् बुधः । वैष्णवम् भूमि-दैवत्यम् आग्नेयम् च हुनेत् क्रमाथ् ॥ २७।२२ ॥
nidhāya gārhapatye ignim āghāram juhuyāt budhaḥ . vaiṣṇavam bhūmi-daivatyam āgneyam ca hunet kramāth .. 27.22 ..
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च । तत आहवनीयाग्नावावसध्ये ततः परं ॥ २७.२३ ॥
तम् अग्निम् वर्धयित्वा अतु दक्षिणाग्नौ प्रणीय च । ततस् आहवनीय-अग्नौ आवसध्ये ततस् परम् ॥ २७।२३ ॥
tam agnim vardhayitvā atu dakṣiṇāgnau praṇīya ca . tatas āhavanīya-agnau āvasadhye tatas param .. 27.23 ..
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेथ् । विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ॥ २७.२४ ॥
सभ्ये पद्म-अनले च एवम् क्रमात् प्रणयनम् चरेथ् । विपरीते प्रणयने तद्-तद्-मन्त्र-विवर्जिते ॥ २७।२४ ॥
sabhye padma-anale ca evam kramāt praṇayanam careth . viparīte praṇayane tad-tad-mantra-vivarjite .. 27.24 ..
वैष्णवं पावकं ब्राह्मंस्ॐयं हुत्वा पुनश्चरेथ् । तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ॥ २७.२५ ॥
वैष्णवम् पावकम् ब्राह्मंसोंयम् हुत्वा पुनर् चरेथ् । तद्-तद्-अग्निषु च आघारात् पूर्वम् तेषाम् अथ अन्तरा ॥ २७।२५ ॥
vaiṣṇavam pāvakam brāhmaṃsoṃyam hutvā punar careth . tad-tad-agniṣu ca āghārāt pūrvam teṣām atha antarā .. 27.25 ..
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतं । वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमाथ् ॥ २७.२६ ॥
न गच्छेत् यदि गच्छेत् तु तत् तत् दिक्पाल-दैवतम् । वैष्णवम् पावकम् च इति प्रायश्चित्तम् ॥ २७।२६ ॥
na gacchet yadi gacchet tu tat tat dikpāla-daivatam . vaiṣṇavam pāvakam ca iti prāyaścittam .. 27.26 ..
उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः । आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) । तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतं ॥ २७.२७ ॥
उत्पन्ने मथित-अग्नौ तु शान्ते तत्र प्रमादतः । आदौ प्रणयनात् अर्वाक् अथवा अग्निषु सर्वशस् शान्तिम् यथा उदिताम् कुर्यात् अग्नि सूक्तम् सहस्रशस् । तण्डुलैः एक-जातीयैः द्वि-प्रस्थैः पाचयेत् चरुम् गव्यम् च नवनीतम् च लौकिक-अनल-संस्कृतम् ॥ २७।२७ ॥
utpanne mathita-agnau tu śānte tatra pramādataḥ . ādau praṇayanāt arvāk athavā agniṣu sarvaśas śāntim yathā uditām kuryāt agni sūktam sahasraśas . taṇḍulaiḥ eka-jātīyaiḥ dvi-prasthaiḥ pācayet carum gavyam ca navanītam ca laukika-anala-saṃskṛtam .. 27.27 ..
संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा । आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ॥ २७.२८ ॥
संस्कार-काले संस्कुर्यात् तद्-अग्निम् मन्त्रवत् तदा । आज्य-स्थाल्याम् अथ चरौ मक्षिका-आदिः पतेत् यदि ॥ २७।२८ ॥
saṃskāra-kāle saṃskuryāt tad-agnim mantravat tadā . ājya-sthālyām atha carau makṣikā-ādiḥ patet yadi .. 27.28 ..
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकं । वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ॥ २७.२९ ॥
तत् व्यपोह्य अन्यत् आदाय प्राजापत्यम् च पावकम् । वैष्णवम् च हुनेत् आज्ये तु अलब्धे नूतने पूनर् ॥ २७।२९ ॥
tat vyapohya anyat ādāya prājāpatyam ca pāvakam . vaiṣṇavam ca hunet ājye tu alabdhe nūtane pūnar .. 27.29 ..
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेथ् । आघारितेऽग्नौ नष्टे तु अयं ते योनिऽ मुच्चरन् ॥ २७.३० ॥
व्यपोह्य दोषम् तम् दर्भैः उद्दीप्य उत्पूय च आचरेथ् । आघारिते अग्नौ नष्टे तु अयम् ते योनि मुच्चरन् ॥ २७।३० ॥
vyapohya doṣam tam darbhaiḥ uddīpya utpūya ca ācareth . āghārite agnau naṣṭe tu ayam te yoni muccaran .. 27.30 ..
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः । उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ॥ २७.३१ ॥
आरोपयेत् च समिधम् तद्-भस्मनि यथार्हतः । उद्बुद्ध्य अस्व इति निक्षिप्य विधिना लौकिके अनले ॥ २७।३१ ॥
āropayet ca samidham tad-bhasmani yathārhataḥ . udbuddhya asva iti nikṣipya vidhinā laukike anale .. 27.31 ..
विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकं । परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ॥ २७.३२ ॥
विच्छिन्नम् मिन्दाहुती च वैष्णवम् व्याहृति-पूर्वकम् । परिस्तर-आदि-द्रव्याणाम् दाहे भेदे अथ नाशने ॥ २७।३२ ॥
vicchinnam mindāhutī ca vaiṣṇavam vyāhṛti-pūrvakam . paristara-ādi-dravyāṇām dāhe bhede atha nāśane .. 27.32 ..
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकं । आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ॥ २७.३३ ॥
पुनर् तत् तत् च संयोज्य महाव्याहृति-पूर्वकम् । आग्नेयम् मिन्दाहुती च वैष्णवम् च हुनेत् बुधः ॥ २७।३३ ॥
punar tat tat ca saṃyojya mahāvyāhṛti-pūrvakam . āgneyam mindāhutī ca vaiṣṇavam ca hunet budhaḥ .. 27.33 ..
पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि । हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ॥ २७.३४ ॥
पात्रे अन् उक्ते स्रुवम् पात्रम् गृह्णीयात् होम-कर्मणि । हविः-विशेषे अनु घृतम् वा स घृतम् चरु ॥ २७।३४ ॥
pātre an ukte sruvam pātram gṛhṇīyāt homa-karmaṇi . haviḥ-viśeṣe anu ghṛtam vā sa ghṛtam caru .. 27.34 ..
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै । वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.३५ ॥
द्रव्ये प्रमाण-हीने तु कापिलेन घृतेन वै । वैष्णवम् विंशतिः हुत्वा पश्चात् कार्यम् समाचरेथ् ॥ २७।३५ ॥
dravye pramāṇa-hīne tu kāpilena ghṛtena vai . vaiṣṇavam viṃśatiḥ hutvā paścāt kāryam samācareth .. 27.35 ..
प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा । क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ॥ २७.३६ ॥
प्रायश्चित्त-अनले अन् उक्ते छुल्ल्याम् नित्य-अनले अपि वा । क्रिया-हीने विपर्यासे मन्त्राणाम् संकरे अपि वा ॥ २७।३६ ॥
prāyaścitta-anale an ukte chullyām nitya-anale api vā . kriyā-hīne viparyāse mantrāṇām saṃkare api vā .. 27.36 ..
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमाथ् । पुण्याहहीने पुण्याहमन्त्रान्द्वादशशो जपेथ् ॥ २७.३७ ॥
वैष्णवम् व्याहृतीः च एव व्याहृति-अन्तम् हुनेत् क्रमाथ् । पुण्य-अह-हीने पुण्य-अह-मन्त्रान् द्वादशशस् जपेथ् ॥ २७।३७ ॥
vaiṣṇavam vyāhṛtīḥ ca eva vyāhṛti-antam hunet kramāth . puṇya-aha-hīne puṇya-aha-mantrān dvādaśaśas japeth .. 27.37 ..
वास्तुहोमविहीने तु तन्मन्त्रान्दशशो हुनेथ् । प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ॥ २७.३८ ॥
वास्तु-होम-विहीने तु तद्-मन्त्रान् दशशस् । प्रायश्चित्त-विशेषे यदि अन् उक्ते वैष्णवम् ततस् ॥ २७।३८ ॥
vāstu-homa-vihīne tu tad-mantrān daśaśas . prāyaścitta-viśeṣe yadi an ukte vaiṣṇavam tatas .. 27.38 ..
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेथ् । रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ॥ २७.३९ ॥
विष्णुसूक्तम् पौरुषम् च सूक्तम् हुत्वा समाचरेथ् । रत्न-प्रतिनिधिः रुक्मम् धातूनाम् पारदम् तथा ॥ २७।३९ ॥
viṣṇusūktam pauruṣam ca sūktam hutvā samācareth . ratna-pratinidhiḥ rukmam dhātūnām pāradam tathā .. 27.39 ..
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः । रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकं ॥ २७.४० ॥
बीजानाम् च यवाः प्रोक्ताः पूर्व-अलाभे । रत्नानाम् प्रणिधिम् गृह्य वैष्णवम् विष्णुसूक्तकम् ॥ २७।४० ॥
bījānām ca yavāḥ proktāḥ pūrva-alābhe . ratnānām praṇidhim gṛhya vaiṣṇavam viṣṇusūktakam .. 27.40 ..
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परं । बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ॥ २७.४१ ॥
दिग्दैवत्यम् वैष्णवम् च धातूनाम् अथ तत् परम् । बीजानाम् प्रणिधिम् गृह्य वायव्यम् वैष्णवम् तथा ॥ २७।४१ ॥
digdaivatyam vaiṣṇavam ca dhātūnām atha tat param . bījānām praṇidhim gṛhya vāyavyam vaiṣṇavam tathā .. 27.41 ..
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये । वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ॥ २७.४२ ॥
हुने द्विंशति-वारम् तु प्रत्येकम् दोष-शान्तये । वस्त्रे लक्षण-हीने वा युक्ते छेद-आदिना ततस् ॥ २७।४२ ॥
hune dviṃśati-vāram tu pratyekam doṣa-śāntaye . vastre lakṣaṇa-hīne vā yukte cheda-ādinā tatas .. 27.42 ..
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवं । अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेथ् ॥ २७.४३ ॥
तत् त्यक्त्वा अन्यम् समाहृत्य श्री-दैवत्यम् च वैष्णवम् । वस्त्रम् ॥ २७।४३ ॥
tat tyaktvā anyam samāhṛtya śrī-daivatyam ca vaiṣṇavam . vastram .. 27.43 ..
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेथ् । प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ॥ २७.४४ ॥
वैष्णवम् श्री-भू-दैवत्यम् हुत्वा कार्यम् समाचरेथ् । प्रमाण-हीनेषु पुनर् तोरण-आदिषु ॥ २७।४४ ॥
vaiṣṇavam śrī-bhū-daivatyam hutvā kāryam samācareth . pramāṇa-hīneṣu punar toraṇa-ādiṣu .. 27.44 ..
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः । दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ॥ २७.४५ ॥
पृथक् द्वार-अधिदैवत्यम् जुहुयात् विंशतिम् बुधः । दर्भ-रज्ज्वाम् विहीनायाम् हुनै दार्षम् च वैष्णवम्, ॥ २७।४५ ॥
pṛthak dvāra-adhidaivatyam juhuyāt viṃśatim budhaḥ . darbha-rajjvām vihīnāyām hunai dārṣam ca vaiṣṇavam, .. 27.45 ..
कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा । वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ॥ २७.४६ ॥
कुंभे प्रमाण-हीने वा दोष-युक्ते अपि वा तथा । वस्त्राभ्याम् वर्ण-चिह्नैः च हीने न अत्र वसेत् हरिः ॥ २७।४६ ॥
kuṃbhe pramāṇa-hīne vā doṣa-yukte api vā tathā . vastrābhyām varṇa-cihnaiḥ ca hīne na atra vaset hariḥ .. 27.46 ..
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकं ॥ २७.४७ ॥
यत्नेन तानि निक्षिप्य वैष्णवम् विष्णुसूक्तकम् । पुरुषसूक्तम् ब्राह्मम् च मुनि-मन्त्रान् च पावकम् ॥ २७।४७ ॥
yatnena tāni nikṣipya vaiṣṇavam viṣṇusūktakam . puruṣasūktam brāhmam ca muni-mantrān ca pāvakam .. 27.47 ..
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेथ् । आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवं ॥ २७.४८ ॥
जुहुयात् दश-कृत्वत् तु विप्राणाम् भोजनम् । आचार्य-दक्षिणान् दद्यात् सफलम् भवति ध्रुवम् ॥ २७।४८ ॥
juhuyāt daśa-kṛtvat tu viprāṇām bhojanam . ācārya-dakṣiṇān dadyāt saphalam bhavati dhruvam .. 27.48 ..
भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ॥ २७.४९ ॥
भिन्ने तु साधिते कुंभे वैष्णपम् विष्णुसूक्तकम् । पुरुषसूक्तम् ब्राह्मम् ऐन्द्रम् आग्नेयम् च आर्षम् एव च ॥ २७।४९ ॥
bhinne tu sādhite kuṃbhe vaiṣṇapam viṣṇusūktakam . puruṣasūktam brāhmam aindram āgneyam ca ārṣam eva ca .. 27.49 ..
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव संपूज्यैव च वैष्मवान् ॥ २७.५० ॥
हुत्वा विंशति-कृत्वत् तु दद्यात् आचार्य-दक्षिणाम् । ब्राह्मणान् भोजयित्वा एव संपूज्य एव च वैष्मवान् ॥ २७।५० ॥
hutvā viṃśati-kṛtvat tu dadyāt ācārya-dakṣiṇām . brāhmaṇān bhojayitvā eva saṃpūjya eva ca vaiṣmavān .. 27.50 ..
अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ॥ २७.५१ ॥
अन्यत् कुंभम् समाहृत्य पूर्ववत् साधयेत् बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुट-आदिभिः ॥ २७।५१ ॥
anyat kuṃbham samāhṛtya pūrvavat sādhayet budhaḥ . spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭa-ādibhiḥ .. 27.51 ..
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.५२ ॥
तत् व्यपोह्य आर्यत् आदाय पूर्ववत् साधयेत् तथा । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तथा एव च ॥ २७।५२ ॥
tat vyapohya āryat ādāya pūrvavat sādhayet tathā . vaiṣṇavam viṣṇusūktam ca puruṣasūktam tathā eva ca .. 27.52 ..
ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेथ् । आचार्यदक्षिणां दद्याद्वैष्णवान्पूजयेद्विधिः ॥ २७.५३ ॥
ब्राह्मम् सौरम् अथ आग्नेयम् अष्ट-अधिक-शतम् । आचार्य-दक्षिणाम् दद्यात् वैष्णवान् पूजयेत् विधिः ॥ २७।५३ ॥
brāhmam sauram atha āgneyam aṣṭa-adhika-śatam . ācārya-dakṣiṇām dadyāt vaiṣṇavān pūjayet vidhiḥ .. 27.53 ..
स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेथ् । पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.५४ ॥
स्पर्श-दुष्टे तथा बेरे स्नपनम् शास्त्रतः चरेथ् । पूर्व-उक्ताम् निष्कृतिम् कृत्वा पश्चात् कार्यम् समाचरेथ् ॥ २७।५४ ॥
sparśa-duṣṭe tathā bere snapanam śāstrataḥ careth . pūrva-uktām niṣkṛtim kṛtvā paścāt kāryam samācareth .. 27.54 ..
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः । श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ॥ २७.५५ ॥
न्रुव-आदीनाम् अलाभे तु स्रुवेण एव हुनेत् हविः । श्व-कुक्कुट-आद्यैः संस्पृष्टे कुण्डे तम् तम् व्यपोह्य च ॥ २७।५५ ॥
nruva-ādīnām alābhe tu sruveṇa eva hunet haviḥ . śva-kukkuṭa-ādyaiḥ saṃspṛṣṭe kuṇḍe tam tam vyapohya ca .. 27.55 ..
कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि । आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकं ॥ २७.५६ ॥
कुण्डम् तु पूर्ववत् कृत्वा कृत्वा आघारम् यथाविधि । आग्नेयम् वैष्णवम् पञ्च-वारुणम् मूल-होमकम् ॥ २७।५६ ॥
kuṇḍam tu pūrvavat kṛtvā kṛtvā āghāram yathāvidhi . āgneyam vaiṣṇavam pañca-vāruṇam mūla-homakam .. 27.56 ..
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनं । अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ॥ २७.५७ ॥
शतशस् जुहुयात् कुर्यात् ब्राह्मणानाम् च भोजनम् । अलाभे समिधाम् कृह्य पालाशीः वट-संभवाः ॥ २७।५७ ॥
śataśas juhuyāt kuryāt brāhmaṇānām ca bhojanam . alābhe samidhām kṛhya pālāśīḥ vaṭa-saṃbhavāḥ .. 27.57 ..
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेथ् । दर्भान्कुशान्वा समिधो मासातीतान्प्रगृह्य च ॥ २७.५८ ॥
आग्नेयम् वैष्णवम् ब्राह्मम् हुत्वा अ कार्यम् समाचरेथ् । दर्भान् कुशान् वा समिधः मास-अतीतान् प्रगृह्य च ॥ २७।५८ ॥
āgneyam vaiṣṇavam brāhmam hutvā a kāryam samācareth . darbhān kuśān vā samidhaḥ māsa-atītān pragṛhya ca .. 27.58 ..
वारुणं वैष्णवं ब्राह्मं स्ॐयमाग्नेयमेव च । आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ॥ २७.५९ ॥
वारुणम् वैष्णवम् ब्राह्मम् च । आदित्यम् जुहुयात् च एव दोष शान्तिः भवेत् तथा ॥ २७।५९ ॥
vāruṇam vaiṣṇavam brāhmam ca . ādityam juhuyāt ca eva doṣa śāntiḥ bhavet tathā .. 27.59 ..
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा । वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेथ् ॥ २७.६० ॥
दधि क्षीरम् गृहीतम् चेद् आजम् माहिषम् एव वा । वैष्णवम् ब्राह्मम् आग्नेयम् सौरम् च व्याहृतीः हुनेथ् ॥ २७।६० ॥
dadhi kṣīram gṛhītam ced ājam māhiṣam eva vā . vaiṣṇavam brāhmam āgneyam sauram ca vyāhṛtīḥ huneth .. 27.60 ..
अनुक्तदेशादानीता मृदो वा वालुकास्तथा । अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेथ् ॥ २७.६१ ॥
अन् उक्त-देशात् आनीताः मृदः वा वालुकाः तथा । अग्निकुण्ड-अर्थम् आहृत्य वारुणम् वैष्णवे हुनेथ् ॥ २७।६१ ॥
an ukta-deśāt ānītāḥ mṛdaḥ vā vālukāḥ tathā . agnikuṇḍa-artham āhṛtya vāruṇam vaiṣṇave huneth .. 27.61 ..
आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकं । जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेथ् ॥ २७.६२ ॥
आर्द्रम् स धूमम् दुर्गन्धम् लेप-युक्तम् स कण्टकम् । जन्तु-युक्तम् क्षिपेत् वह्नौ इन्धनम् तत् परित्यजेथ् ॥ २७।६२ ॥
ārdram sa dhūmam durgandham lepa-yuktam sa kaṇṭakam . jantu-yuktam kṣipet vahnau indhanam tat parityajeth .. 27.62 ..
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेथ् । वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ॥ २७.६३ ॥
अन्यत् प्रक्षिप्य च आग्नेयम् वैष्णवम् व्याहृतीः हुनेथ् । वस्त्र-आदि-द्रव्ये दर्भेषु प्रपायाम् कूटे एव वा ॥ २७।६३ ॥
anyat prakṣipya ca āgneyam vaiṣṇavam vyāhṛtīḥ huneth . vastra-ādi-dravye darbheṣu prapāyām kūṭe eva vā .. 27.63 ..
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च । आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेथ् ॥ २७.६४ ॥
दग्धायाम् अग्निना ब्राह्मम् वैष्णवम् सौरम् एव च । आग्नेयम् वैष्णवम् इति प्रत्येकम् दशशस् ॥ २७।६४ ॥
dagdhāyām agninā brāhmam vaiṣṇavam sauram eva ca . āgneyam vaiṣṇavam iti pratyekam daśaśas .. 27.64 ..
कलशन्यासरचनाविपर्याने तु वैष्णवं । पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेथ् ॥ २७.६५ ॥
कलश-न्यास-रचना-विपर्याने तु वैष्णवम् । पङ्क्तीश-दैवत्यम् च हुनेत् ततस् शास्त्र-वत् आचरेथ् ॥ २७।६५ ॥
kalaśa-nyāsa-racanā-viparyāne tu vaiṣṇavam . paṅktīśa-daivatyam ca hunet tatas śāstra-vat ācareth .. 27.65 ..
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः । पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ॥ २७.६६ ॥
स्नपने तु विपर्याने बेरस्य जुहुयात् बुधः । पञ्च-वारुण-मन्त्रान् च वैष्णवम् च यथाविधि ॥ २७।६६ ॥
snapane tu viparyāne berasya juhuyāt budhaḥ . pañca-vāruṇa-mantrān ca vaiṣṇavam ca yathāvidhi .. 27.66 ..
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् । कलशस्नानशयने प्रत्येकं दशशो हुनेथ् ॥ २७.६७ ॥
शयने चेद् विपर्यासः वैष्णवम् श्री-मही-मनून् । कलश-स्नान-शयने प्रत्येकम् दशशस् ॥ २७।६७ ॥
śayane ced viparyāsaḥ vaiṣṇavam śrī-mahī-manūn . kalaśa-snāna-śayane pratyekam daśaśas .. 27.67 ..
हीने वा विपरीते वा तत्र हौत्रप्रशंसने । ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ॥ २७.६८ ॥
हीने वा विपरीते वा तत्र हौत्र-प्रशंसने । ब्राह्मम् मुनि-इन्द्र-मन्त्रान् चहुना इत् पारिषदाम् अपि ॥ २७।६८ ॥
hīne vā viparīte vā tatra hautra-praśaṃsane . brāhmam muni-indra-mantrān cahunā it pāriṣadām api .. 27.68 ..
अवाहनादावर्चायां विपरीते विवर्जिते । वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ॥ २७.६९ ॥
अ वाहन-आदौ अर्चायाम् विपरीते विवर्जिते । वैष्णवम् विष्णुसूक्तम् च ब्राह्मम् रौन्द्रम् हुनेत् दश ॥ २७।६९ ॥
a vāhana-ādau arcāyām viparīte vivarjite . vaiṣṇavam viṣṇusūktam ca brāhmam raundram hunet daśa .. 27.69 ..
सर्वेषामुक्तहोमानां विपरीते विवर्जिते । पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ॥ २७.७० ॥
सर्वेषाम् उक्त-होमानाम् विपरीते विवर्जिते । पद्म-अग्नौ वैष्णवम् विष्णुसूक्तम् सूक्तम् च पौरुषम् ॥ २७।७० ॥
sarveṣām ukta-homānām viparīte vivarjite . padma-agnau vaiṣṇavam viṣṇusūktam sūktam ca pauruṣam .. 27.70 ..
शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकं । हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेथ् ॥ २७.७१ ॥
शयानम् उद्धरेत् देवम् अकाले च अपि अमन्त्रकम् । हुत्वा श्री-भूमि-दैवत्यम् ॥ २७।७१ ॥
śayānam uddharet devam akāle ca api amantrakam . hutvā śrī-bhūmi-daivatyam .. 27.71 ..
हीने चाध्ययने सारस्वतमष्टाधिकं शतं । प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेथ् ॥ २७.७२ ॥
हीने च अध्ययने सारस्वतम् अष्ट-अधिकम् शतम् । प्रायश्चित्तम् च हुत्वा एव यथाशास्त्रम् समाचरेथ् ॥ २७।७२ ॥
hīne ca adhyayane sārasvatam aṣṭa-adhikam śatam . prāyaścittam ca hutvā eva yathāśāstram samācareth .. 27.72 ..
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजां । तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ॥ २७.७३ ॥
यथालाभम् च गृह्णीयात् अलाभे षोडश-ऋत्विजाम् । तन्त्रेण कारयेत् सर्वम् एष शास्त्र-विधिः स्मृतः ॥ २७।७३ ॥
yathālābham ca gṛhṇīyāt alābhe ṣoḍaśa-ṛtvijām . tantreṇa kārayet sarvam eṣa śāstra-vidhiḥ smṛtaḥ .. 27.73 ..
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि । कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ॥ २७.७४ ॥
प्रतिष्ठायाम् उत्सवे इव तथा अन्यत् शुभ-कर्मणि । कुर्वताम् तु पुरश्चर्याम् आचार्यस्य ऋत्विजाम् तथा ॥ २७।७४ ॥
pratiṣṭhāyām utsave iva tathā anyat śubha-karmaṇi . kurvatām tu puraścaryām ācāryasya ṛtvijām tathā .. 27.74 ..
आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः । मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ॥ २७.७५ ॥
आस्नानात् दीक्षितानाम् तु न आशौचः परिकीर्तितः । मोहात् अनुष्ठित-आशौचाः पतन्ति नरके अशुचौ ॥ २७।७५ ॥
āsnānāt dīkṣitānām tu na āśaucaḥ parikīrtitaḥ . mohāt anuṣṭhita-āśaucāḥ patanti narake aśucau .. 27.75 ..
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा । आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ॥ २७.७६ ॥
गृह्णीयात् संस्कृतान् तान् वा पुनर् अन्यान् अथ अपि वा । आचार्य स्थ्सापक-आदीन् तु भर्त्सन-आदिकम् आचरन् ॥ २७।७६ ॥
gṛhṇīyāt saṃskṛtān tān vā punar anyān atha api vā . ācārya sthsāpaka-ādīn tu bhartsana-ādikam ācaran .. 27.76 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेथ् ॥ २७.७७ ॥
वैष्णवम् विष्णुसूक्तम् च सूक्तम् पौरुषम् एव च । ब्राह्मम् सारस्वतम् हुत्वा तान् अनुज्ञाप्य च आचरेथ् ॥ २७।७७ ॥
vaiṣṇavam viṣṇusūktam ca sūktam pauruṣam eva ca . brāhmam sārasvatam hutvā tān anujñāpya ca ācareth .. 27.77 ..
आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवं । मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतं ॥ २७.७८ ॥
आचार्य-दक्षिणा-काले अतीते हुत्वा तु वैष्णवम् । मुनि-मन्त्रम् च जुहुयात् पृथक् अष्ट-उत्तरम् शतम् ॥ २७।७८ ॥
ācārya-dakṣiṇā-kāle atīte hutvā tu vaiṣṇavam . muni-mantram ca juhuyāt pṛthak aṣṭa-uttaram śatam .. 27.78 ..
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेथ् । ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेथ् ॥ २७.७९ ॥
यथा उक्त-दक्षिणाम् दद्यात् अर्थ-लोभम् न । ब्राह्मणानाम् अन्न-दाने विहीने शान्तिम् आचरेथ् ॥ २७।७९ ॥
yathā ukta-dakṣiṇām dadyāt artha-lobham na . brāhmaṇānām anna-dāne vihīne śāntim ācareth .. 27.79 ..
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी । हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ॥ २७.८० ॥
त्रि-यहम् तु महाशान्तिः स्तद्-दोष-विनिवारिणी । हन्ति अल्प-दक्षिणः यागः फलम् दद्यात् स दक्षिणः ॥ २७।८० ॥
tri-yaham tu mahāśāntiḥ stad-doṣa-vinivāriṇī . hanti alpa-dakṣiṇaḥ yāgaḥ phalam dadyāt sa dakṣiṇaḥ .. 27.80 ..
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेथ् । इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेथ् ॥ २७.८१ ॥
यज्ञस्य दक्षिणा जीवः तस्मात् यत्नेन पालयेथ् । इयम् भूमिम् अग्रे ॥ २७।८१ ॥
yajñasya dakṣiṇā jīvaḥ tasmāt yatnena pālayeth . iyam bhūmim agre .. 27.81 ..
अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः । भूमिभोगमकल्प्यैव महाशान्तिं समाचरेथ् ॥ २७.८२ ॥
अर्चकस्य अर्चन-अर्धम् च कुटुंब-अर्थम् विशेषतः । भूमि-भोगम् अ कल्प्य एव महाशान्तिम् समाचरेथ् ॥ २७।८२ ॥
arcakasya arcana-ardham ca kuṭuṃba-artham viśeṣataḥ . bhūmi-bhogam a kalpya eva mahāśāntim samācareth .. 27.82 ..
असंकल्पितवृत्तिस्तु देवावासो न वर्धते । अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ॥ २७.८३ ॥
असंकल्पित-वृत्तिः तु देव-आवासः न वर्धते । अर्चकः प्रणिधिः यस्मात् राज्ञः राष्ट्रस्य कल्पते ॥ २७।८३ ॥
asaṃkalpita-vṛttiḥ tu deva-āvāsaḥ na vardhate . arcakaḥ praṇidhiḥ yasmāt rājñaḥ rāṣṭrasya kalpate .. 27.83 ..
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते । आपद्यपि च कष्टायां पूजामेतां न लोपयेथ् ॥ २७.८४ ॥
तस्मात् समाहितः कुर्यात् यथा पूजा न लुप्यते । आपदि अपि च कष्टायाम् पूजाम् एताम् न ॥ २७।८४ ॥
tasmāt samāhitaḥ kuryāt yathā pūjā na lupyate . āpadi api ca kaṣṭāyām pūjām etām na .. 27.84 ..
यदैव लुप्यते पूजा येन केनापि हेतुना । अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ॥ २७.८५ ॥
यदा एव लुप्यते पूजा येन केन अपि हेतुना । अग्रेः अचकमियात् दोषः आर्द्रम् एषः अपराध्यति ॥ २७।८५ ॥
yadā eva lupyate pūjā yena kena api hetunā . agreḥ acakamiyāt doṣaḥ ārdram eṣaḥ aparādhyati .. 27.85 ..
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरं । रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ॥ २७.८६ ॥
तस्मात् दायेन भूमि-आदि स्थिर-दानेन सादरम् । रूढ-अधिकारः एव अग्रे प्रवर्तेत आर्ऽचनेः अचकः ॥ २७।८६ ॥
tasmāt dāyena bhūmi-ādi sthira-dānena sādaram . rūḍha-adhikāraḥ eva agre pravarteta ār'caneḥ acakaḥ .. 27.86 ..
यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः । तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ॥ २७.८७ ॥
यस्मात् अर्चन-हीने तु राज-राष्ट्र-आदि-संक्षयः । तद्-ग्राम-वासिनः तस्मात् राजा राष्ट्र-गताः अपि ॥ २७।८७ ॥
yasmāt arcana-hīne tu rāja-rāṣṭra-ādi-saṃkṣayaḥ . tad-grāma-vāsinaḥ tasmāt rājā rāṣṭra-gatāḥ api .. 27.87 ..
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः । आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ॥ २७.८८ ॥
भगवत्-पूजन-अहेतोः प्रयत्नतः । आर्द्र-अपराधः भवति यस्मात् दोषेषु पूजकः ॥ २७।८८ ॥
bhagavat-pūjana-ahetoḥ prayatnataḥ . ārdra-aparādhaḥ bhavati yasmāt doṣeṣu pūjakaḥ .. 27.88 ..
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः । सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ॥ २७.८९ ॥
तम् वृत्ति-कर्शितम् दृष्य्वा राजा च ग्राम-वासिनः । सुखितम् तम् तथा कुर्युः यथा देवः तथा अर्चकः ॥ २७।८९ ॥
tam vṛtti-karśitam dṛṣyvā rājā ca grāma-vāsinaḥ . sukhitam tam tathā kuryuḥ yathā devaḥ tathā arcakaḥ .. 27.89 ..
दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः । यथार्हमुपयुञ्जीरन्स्वशक्तिं तत्सुखाय वै ॥ २७.९० ॥
दत्-वृत्तिम् अधिकाम् च अपि न शङ्केयुः असूयवः । यथार्हम् उपयुञ्जीरन् स्व-शक्तिम् तद्-सुखाय वै ॥ २७।९० ॥
dat-vṛttim adhikām ca api na śaṅkeyuḥ asūyavaḥ . yathārham upayuñjīran sva-śaktim tad-sukhāya vai .. 27.90 ..
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते । आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलं ॥ २७.९१ ॥
प्रतिष्ठा-अन्ते तु विधिवत् अर्चके तु अप्रकल्पिते । आसुरी सा भवेत् अर्चा कर्ता ना एवा आप्नु यात् फलम् ॥ २७।९१ ॥
pratiṣṭhā-ante tu vidhivat arcake tu aprakalpite . āsurī sā bhavet arcā kartā nā evā āpnu yāt phalam .. 27.91 ..
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु । तदतिक्रम्य पूजां तु कारयेदितरेण चेथ् ॥ २७.९२ ॥
देवेन सार्थम् उद्दिष्टम् यत् कुलम् पूजकस्य तु । तत् अतिक्रम्य पूजाम् तु कारयेत् इतरेण ॥ २७।९२ ॥
devena sārtham uddiṣṭam yat kulam pūjakasya tu . tat atikramya pūjām tu kārayet itareṇa .. 27.92 ..
रौरवं नरकं याति कर्ता कारयिता च यः । तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेथ् ॥ २७.९३ ॥
रौरवम् नरकम् याति कर्ता कारयिता च यः । तस्मात् सर्व-प्रयत्नेन शास्त्र-उक्तम् परिपालयेथ् ॥ २७।९३ ॥
rauravam narakam yāti kartā kārayitā ca yaḥ . tasmāt sarva-prayatnena śāstra-uktam paripālayeth .. 27.93 ..
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं । न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ॥ २७.९४ ॥
श्वस् कार्यम् अद्य कुर्वीत पूर्वाह्णे च आपराह्णिकम् । न हि प्रतीक्षते मृत्युः कर्तव्यः धर्म-संग्रहः ॥ २७।९४ ॥
śvas kāryam adya kurvīta pūrvāhṇe ca āparāhṇikam . na hi pratīkṣate mṛtyuḥ kartavyaḥ dharma-saṃgrahaḥ .. 27.94 ..
न त्य क्तविभवो जातु भवेच्च विभवे सति । यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेथ् ॥ २७.९५ ॥
न क्त-विभवः जातु भवेत् च विभवे सति । यथाशक्ति प्रकुर्वीत विभवान् च न ॥ २७।९५ ॥
na kta-vibhavaḥ jātu bhavet ca vibhave sati . yathāśakti prakurvīta vibhavān ca na .. 27.95 ..
अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवं । विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरं ॥ २७.९६ ॥
अलाभे कौतुक-आदीनाम् सुवर्णम् न्यस्य वैष्मवम् । विष्णुसूक्तम् नृसुक्तम् च वायव्यम् दिश्-अधीश्वरम् ॥ २७।९६ ॥
alābhe kautuka-ādīnām suvarṇam nyasya vaiṣmavam . viṣṇusūktam nṛsuktam ca vāyavyam diś-adhīśvaram .. 27.96 ..
सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा । व्याहृतीश्च हुनेद्विद्वान्दशकृत्वस्समाहितः ॥ २७.९७ ॥
सभ्ये अन्त-होम-हीने तु वैष्णवम् पावकम् तथा । व्याहृतीः च हुनेत् विद्वान् दश-कृत्वस् समाहितः ॥ २७।९७ ॥
sabhye anta-homa-hīne tu vaiṣṇavam pāvakam tathā . vyāhṛtīḥ ca hunet vidvān daśa-kṛtvas samāhitaḥ .. 27.97 ..
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिं । श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकं ॥ २७.९८ ॥
अग्नि-ग्रहण-हीने तु हुत्वा पूर्व-उक्त-निष्कृतिम् । श्रोत्रिय-आवसथात् अग्निम् आहृत्य आघार-वूर्वकम् ॥ २७।९८ ॥
agni-grahaṇa-hīne tu hutvā pūrva-ukta-niṣkṛtim . śrotriya-āvasathāt agnim āhṛtya āghāra-vūrvakam .. 27.98 ..
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेथ् । ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ॥ २७.९९ ॥
नित्य-होमम् च जुहुयात् ततस् प्रभृति । ध्रुवात् आवाहयेत् यस्मात् कौतुक-आदि चतुर्षु अपि ॥ २७।९९ ॥
nitya-homam ca juhuyāt tatas prabhṛti . dhruvāt āvāhayet yasmāt kautuka-ādi caturṣu api .. 27.99 ..
प्रमादात्कुंभतीर्थेन तेषामावाहने कृते । इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ॥ २७.१०० ॥
प्रमादात् कुंभतीर्थेन तेषाम् आवाहने कृते । स्नाप्य शीघ्रम् शुद्धेन वारिणा ॥ २७।१०० ॥
pramādāt kuṃbhatīrthena teṣām āvāhane kṛte . snāpya śīghram śuddhena vāriṇā .. 27.100 ..
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकं । जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ॥ २७.१०१ ॥
अनुमान्य च देवेशम् वैष्णवम् विष्णुसूक्तकम् । जुहुयात् पौरुषंसूक्तम् ध्रुवात् आवाहयेत् पुनर् ॥ २७।१०१ ॥
anumānya ca deveśam vaiṣṇavam viṣṇusūktakam . juhuyāt pauruṣaṃsūktam dhruvāt āvāhayet punar .. 27.101 ..
अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते । सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ॥ २७.१०२ ॥
अथ नित्य-अर्चनायान् तु प्रायश्चित्तम् प्रवक्ष्यते । सूर्य-उदयात् च मध्याह्नात् पूर्व मस्तमयात् अपि ॥ २७।१०२ ॥
atha nitya-arcanāyān tu prāyaścittam pravakṣyate . sūrya-udayāt ca madhyāhnāt pūrva mastamayāt api .. 27.102 ..
कवाटोद्घाटने हीने नित्याग्नौ वा महानने । वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ॥ २७.१०३ ॥
कवाट-उद्घाटने हीने नित्य-अग्नौ वा महा-आनने । वैष्णवम् धातृ-आदिदैवत्यम् हुत्वा दौवारिकम् तथा ॥ २७।१०३ ॥
kavāṭa-udghāṭane hīne nitya-agnau vā mahā-ānane . vaiṣṇavam dhātṛ-ādidaivatyam hutvā dauvārikam tathā .. 27.103 ..
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च । अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ॥ २७.१०४ ॥
शीघ्रम् उद्घाटयेत् द्वारम् देवदेवम् प्रणम्य च । अमन्त्रकम् अथ अन्यैः वा कवाट-उद्घाटने कृते ॥ २७।१०४ ॥
śīghram udghāṭayet dvāram devadevam praṇamya ca . amantrakam atha anyaiḥ vā kavāṭa-udghāṭane kṛte .. 27.104 ..
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकं । मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ॥ २७.१०५ ॥
पूर्व-उक्तम् जुहुयात् शान्तिम् जपेत् द्वादश-सूक्तकम् । मार्जन-आदिषु हीनेषु निर्माल्ये इच अपि अशोधिते ॥ २७।१०५ ॥
pūrva-uktam juhuyāt śāntim japet dvādaśa-sūktakam . mārjana-ādiṣu hīneṣu nirmālye ica api aśodhite .. 27.105 ..
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च । यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ॥ २७.१०६ ॥
वैष्णवम् वारुणम् हुत्वा वायव्यम् शान्तम् एव च । यथावत् कारयेत् सर्वम् मन्त्रेण एव पुनर् गुरुः ॥ २७।१०६ ॥
vaiṣṇavam vāruṇam hutvā vāyavyam śāntam eva ca . yathāvat kārayet sarvam mantreṇa eva punar guruḥ .. 27.106 ..
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेथ् । देवस्य स्नपने हीने वैष्णवे वारुणं हुनेथ् ॥ २७.१०७ ॥
द्रव्य-प्रतिनिधिः तोयम् अलाभे तेन च आचरेथ् । देवस्य स्नपने हीने वैष्णवे वारुणम् ॥ २७।१०७ ॥
dravya-pratinidhiḥ toyam alābhe tena ca ācareth . devasya snapane hīne vaiṣṇave vāruṇam .. 27.107 ..
अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेथ् । पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितं ॥ २७.१०८ ॥
अपः हि अष्ठ-आदिभिः मन्त्रैः स्नावयेत् निष्कृतिः भवेथ् । पश्नात् नित्यम् प्रकुर्वीत स्नानम् नित्य-अर्चन-उदितम् ॥ २७।१०८ ॥
apaḥ hi aṣṭha-ādibhiḥ mantraiḥ snāvayet niṣkṛtiḥ bhaveth . paśnāt nityam prakurvīta snānam nitya-arcana-uditam .. 27.108 ..
अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः । वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेथ् ॥ २७.१०९ ॥
अशक्तौ स्नापने प्रोक्ष्यम् मन्त्रेण कुश-वारिभिः । वस्त्र-आदीन् च व्यपोह्य एव धौत-वस्त्रम् समर्पयेथ् ॥ २७।१०९ ॥
aśaktau snāpane prokṣyam mantreṇa kuśa-vāribhiḥ . vastra-ādīn ca vyapohya eva dhauta-vastram samarpayeth .. 27.109 ..
नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै । स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ॥ २७.११० ॥
नित्यम् स्नानम् अशक्यम् चेद् विष्णुपञ्चदिनेषु वै । स्नापयेत् देवदेवेशम् इति केचिद् वदन्ति हि ॥ २७।११० ॥
nityam snānam aśakyam ced viṣṇupañcadineṣu vai . snāpayet devadeveśam iti kecid vadanti hi .. 27.110 ..
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च । पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेथ् ॥ २७.१११ ॥
ध्रुव-पीठे तु निर्माल्यम् संशोध्य पुनर् एव च । पुष्प-न्यासम् प्रकुर्वीत ध्रुवे नित्य-अर्चनम् ॥ २७।१११ ॥
dhruva-pīṭhe tu nirmālyam saṃśodhya punar eva ca . puṣpa-nyāsam prakurvīta dhruve nitya-arcanam .. 27.111 ..
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ॥ २७.११२ ॥
पुष्प-न्यासम् विना कुर्यात् कौतुकस्य अर्चनम् यदि । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तधा एव च ॥ २७।११२ ॥
puṣpa-nyāsam vinā kuryāt kautukasya arcanam yadi . vaiṣṇavam viṣṇusūktam ca puruṣasūktam tadhā eva ca .. 27.112 ..
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेथ् । संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकं ॥ २७.११३ ॥
हुत्वा च विष्णुगायत्रीम् पुष्बन्यासम् क्रमात् चरेथ् । संबन्ध-कूर्च-हीने तु वैष्णवम् मुनि-मन्त्रकम् ॥ २७।११३ ॥
hutvā ca viṣṇugāyatrīm puṣbanyāsam kramāt careth . saṃbandha-kūrca-hīne tu vaiṣṇavam muni-mantrakam .. 27.113 ..
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेथ् । धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवं ॥ २७.११४ ॥
कूर्चम् तु पश्चात् कार्यम् समाचरेथ् । धातृ-आदि-अर्चन-हीने तु तद्-दैवत्यम् स वैष्णवम् ॥ २७।११४ ॥
kūrcam tu paścāt kāryam samācareth . dhātṛ-ādi-arcana-hīne tu tad-daivatyam sa vaiṣṇavam .. 27.114 ..
हुत्वार्चयेद्धातृमुखान्तथा परिषदः क्रमाथ् । उपचारविपर्यासे क्षमऽन्वेति प्रणम्य च ॥ २७.११५ ॥
हुत्वा अर्चयेत् धातृ-मुखान् तथा परिषदः । उपचार-विपर्यासे प्रणम्य च ॥ २७।११५ ॥
hutvā arcayet dhātṛ-mukhān tathā pariṣadaḥ . upacāra-viparyāse praṇamya ca .. 27.115 ..
अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे । तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ॥ २७.११६ ॥
अनुमान्य अर्चयेत् देवम् हीने च एव तु विग्रहे । तद्-देवता-मनुम् जप्त्वा वैष्णवम् च विशेषतः ॥ २७।११६ ॥
anumānya arcayet devam hīne ca eva tu vigrahe . tad-devatā-manum japtvā vaiṣṇavam ca viśeṣataḥ .. 27.116 ..
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः । उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतं ॥ २७.११७ ॥
पुनर् तद्-उपचार-आदि पूजये सर्व-विग्रहैः । उक्त-द्रव्ये पुष्पम् तोयम् अथ अक्षतम् ॥ २७।११७ ॥
punar tad-upacāra-ādi pūjaye sarva-vigrahaiḥ . ukta-dravye puṣpam toyam atha akṣatam .. 27.117 ..
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेथ् । अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ॥ २७.११८ ॥
गृहीत्वा च एव तत् सर्वम् ध्यात्वा देवम् समर्चयेथ् । अर्चा-काले अन्य-कालम् वा स्मये वा मूषिक-आदिभिः ॥ २७।११८ ॥
gṛhītvā ca eva tat sarvam dhyātvā devam samarcayeth . arcā-kāle anya-kālam vā smaye vā mūṣika-ādibhiḥ .. 27.118 ..
मरुता वापि विच्छिन्नमजस्रं दीपमादराथ् । द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकं ॥ २७.११९ ॥
मरुता वा अपि विच्छिन्नम् अजस्रम् दीपम् आदराथ् । द्विगुणम् तु समुद्दीप्य सौरम् रौद्रम् च पावकम् ॥ २७।११९ ॥
marutā vā api vicchinnam ajasram dīpam ādarāth . dviguṇam tu samuddīpya sauram raudram ca pāvakam .. 27.119 ..
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेथ् । तत्काले सर्वदीपानां नाशे दोषो महत्तरः ॥ २७.१२० ॥
वैष्णवम् च तथा आ हुत्वा पुनर् अर्चनम् आचरेथ् । तद्-काले सर्व-दीपानाम् नाशे दोषः महत्तरः ॥ २७।१२० ॥
vaiṣṇavam ca tathā ā hutvā punar arcanam ācareth . tad-kāle sarva-dīpānām nāśe doṣaḥ mahattaraḥ .. 27.120 ..
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च । पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेथ् ॥ २७.१२१ ॥
देवम् शुद्ध-उदकैः स्नाप्य कुश-उदैः अभिषिच्य च । पूर्व-उक्ताम् निष्कृतिम् हुत्वा द्विगुणम् तु ॥ २७।१२१ ॥
devam śuddha-udakaiḥ snāpya kuśa-udaiḥ abhiṣicya ca . pūrva-uktām niṣkṛtim hutvā dviguṇam tu .. 27.121 ..
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति । मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेथ् ॥ २७.१२२ ॥
बहु-दीपेषु च एकस्मिन् नष्टे तेन न दुष्यति । मन्त्राणाम् स्खलने मूर्त्या प्रणवेन सह आचरेथ् ॥ २७।१२२ ॥
bahu-dīpeṣu ca ekasmin naṣṭe tena na duṣyati . mantrāṇām skhalane mūrtyā praṇavena saha ācareth .. 27.122 ..
अर्चाकाले यवनिकाहीने चैव प्रजापतिं । वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ॥ २७.१२३ ॥
अर्चा-काले यवनिका-हीने च एव प्रजापतिम् । वैष्णपम् च एव हुत्वा तु पटम् कृत्वा ऋचयेत् पुनर् ॥ २७।१२३ ॥
arcā-kāle yavanikā-hīne ca eva prajāpatim . vaiṣṇapam ca eva hutvā tu paṭam kṛtvā ṛcayet punar .. 27.123 ..
वेददूषक पाषण्ड पापरोगान्वितैर्जनैः । प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ॥ २७.१२४ ॥
वेद-दूषक पाषण्ड पाप-रोग-अन्वितैः जनैः । प्रतिलोम-आदिभिः ल्मेच्छैः अन्त्य-जातिभिः एव च ॥ २७।१२४ ॥
veda-dūṣaka pāṣaṇḍa pāpa-roga-anvitaiḥ janaiḥ . pratiloma-ādibhiḥ lmecchaiḥ antya-jātibhiḥ eva ca .. 27.124 ..
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च । रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेथ् ॥ २७.१२५ ॥
तद्-काले दर्शने हुत्वा वैष्णवम् ब्राह्मम् एव च । रौद्रम् च पावकम् हुत्वा व्याहृतीः च ॥ २७।१२५ ॥
tad-kāle darśane hutvā vaiṣṇavam brāhmam eva ca . raudram ca pāvakam hutvā vyāhṛtīḥ ca .. 27.125 ..
यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे । मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिं ॥ २७.१२६ ॥
यदि च आवरणात् बाह्ये पञ्चाशत्-दण्डक-अन्तरे । मनुष्याणाम् मृतिः स्यात् तत् उद्धृत्य एव अर्चयेत् हरिम् ॥ २७।१२६ ॥
yadi ca āvaraṇāt bāhye pañcāśat-daṇḍaka-antare . manuṣyāṇām mṛtiḥ syāt tat uddhṛtya eva arcayet harim .. 27.126 ..
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेथ् । ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकं ॥ २७.१२७ ॥
न एव अर्चनम् हविः-दानम् ततस् पूर्वम् समाचरेथ् । ध्रुव-कौतुकयोः कुर्यात् पुष्प-न्यास-अवसानकम् ॥ २७।१२७ ॥
na eva arcanam haviḥ-dānam tatas pūrvam samācareth . dhruva-kautukayoḥ kuryāt puṣpa-nyāsa-avasānakam .. 27.127 ..
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेथ् । एककालार्चने हीने द्वितीये द्विगुणं चरेथ् ॥ २७.१२८ ॥
पश्चात् काल-अत्यये शान्तिम् हुत्वा द्विगुणम् अर्चयेथ् । एक-काल-अर्चने हीने द्वितीये द्विगुणम् ॥ २७।१२८ ॥
paścāt kāla-atyaye śāntim hutvā dviguṇam arcayeth . eka-kāla-arcane hīne dvitīye dviguṇam .. 27.128 ..
तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते । वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ॥ २७.१२९ ॥
तृतीये त्रिगुणम् कुर्यात् एकाहेः अचा-विवर्जिते । वैष्णवम् विष्णुसूक्तम् च पुरुष-सूक्तम् तथा एव च ॥ २७।१२९ ॥
tṛtīye triguṇam kuryāt ekāheḥ acā-vivarjite . vaiṣṇavam viṣṇusūktam ca puruṣa-sūktam tathā eva ca .. 27.129 ..
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेथ् । त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेथ् ॥ २७.१३० ॥
हुनेत् श्री-भूमि-दैवत्यम् द्वि-अहे तु द्विगुणम् । त्रिगुणम् एव तु द्वादश-अह-अन्तम् आचरेथ् ॥ २७।१३० ॥
hunet śrī-bhūmi-daivatyam dvi-ahe tu dviguṇam . triguṇam eva tu dvādaśa-aha-antam ācareth .. 27.130 ..
अतीते द्वादशाहेतु संधायौपासनानले । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१३१ ॥
अतीते द्वादश-अहे तु संधाय औपासन-अनले । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तथा एव च ॥ २७।१३१ ॥
atīte dvādaśa-ahe tu saṃdhāya aupāsana-anale . vaiṣṇavam viṣṇusūktam ca puruṣasūktam tathā eva ca .. 27.131 ..
आलये परिषद्देव मन्त्रान्हुत्वा च शक्तितः । कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेथ् ॥ २७.१३२ ॥
आलये परिषद्-देव मन्त्रान् हुत्वा च शक्तितः । कलशैः स्नाप्य देवेशम् अभ्यर्च्य हविः अर्पयेथ् ॥ २७।१३२ ॥
ālaye pariṣad-deva mantrān hutvā ca śaktitaḥ . kalaśaiḥ snāpya deveśam abhyarcya haviḥ arpayeth .. 27.132 ..
मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः । सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ॥ २७.१३३ ॥
मासम् कुर्यात् आलय-अभिमुखे गुरुः । सभ्य-अग्नौ वैष्णवम् विष्णुसूक्तम् सूक्तम् च पौरुषम् ॥ २७।१३३ ॥
māsam kuryāt ālaya-abhimukhe guruḥ . sabhya-agnau vaiṣṇavam viṣṇusūktam sūktam ca pauruṣam .. 27.133 ..
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च । कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिं ॥ २७.१३४ ॥
हुत्वा श्री-भूमि-दैवत्यम् सर्व-दैवत्यम् एव च । कलशैः अष्टभिः च त्वा अरिंशद्भिः स्नापयेत् हरिम् ॥ २७।१३४ ॥
hutvā śrī-bhūmi-daivatyam sarva-daivatyam eva ca . kalaśaiḥ aṣṭabhiḥ ca tvā ariṃśadbhiḥ snāpayet harim .. 27.134 ..
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा । तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेथ् ॥ २७.१३५ ॥
विशेषेण हविः दद्यात् द्वितीये द्विगुणम् तथा । तृतीये त्रिगुणम् च एवम् ॥ २७।१३५ ॥
viśeṣeṇa haviḥ dadyāt dvitīye dviguṇam tathā . tṛtīye triguṇam ca evam .. 27.135 ..
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरं । महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनं ॥ २७.१३६ ॥
अतीते वत्सरे च एवम् पद्म-अग्नौ सप्त-वासरम् । महाशान्तिम् तु हुत्वा एव कृत्वा वैष्णव-पूजनम् ॥ २७।१३६ ॥
atīte vatsare ca evam padma-agnau sapta-vāsaram . mahāśāntim tu hutvā eva kṛtvā vaiṣṇava-pūjanam .. 27.136 ..
ब्राह्मणान्भोजयित्वैव शताष्टकलशैः पुनः । संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेथ् ॥ २७.१३७ ॥
ब्राह्मणान् भोजयित्वा एव शत-अष्ट-कलशैः पुनर् । संस्नाप्य देवदेवेशम् मा आचरेथ् ॥ २७।१३७ ॥
brāhmaṇān bhojayitvā eva śata-aṣṭa-kalaśaiḥ punar . saṃsnāpya devadeveśam mā ācareth .. 27.137 ..
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि । हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेथ् ॥ २७.१३८ ॥
अक्षि-उन्नेष-अधिवासौ तु । हित्वा अन्यत् सकलम् कर्म पूर्ववत् तु समाचरेथ् ॥ २७।१३८ ॥
akṣi-unneṣa-adhivāsau tu . hitvā anyat sakalam karma pūrvavat tu samācareth .. 27.138 ..
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः । पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ॥ २७.१३९ ॥
हविः-हीने जनाः सर्व-एतद्-ग्राम-स्थाः समीप-गाः । पीडिताः क्षुध्-पिपासा-आद्यैः भवेयुः व्याधिताः अपि ॥ २७।१३९ ॥
haviḥ-hīne janāḥ sarva-etad-grāma-sthāḥ samīpa-gāḥ . pīḍitāḥ kṣudh-pipāsā-ādyaiḥ bhaveyuḥ vyādhitāḥ api .. 27.139 ..
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेथ् । हीने हविष्येक काले द्वितीये द्विगुणं भवेथ् ॥ २७.१४० ॥
तस्मात् अति प्रयत्नेन हविः सम्यक् निवेदयेथ् । हीने काले द्वितीये द्विगुणम् ॥ २७।१४० ॥
tasmāt ati prayatnena haviḥ samyak nivedayeth . hīne kāle dvitīye dviguṇam .. 27.140 ..
तृतीये त्रिगुणं कुर्यादेकस्मिन्दिवसे गते । वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेथ् ॥ २७.१४१ ॥
तृतीये त्रिगुणम् कुर्यात् एकस्मिन् दिवसे गते । वैष्णवम् श्री-मही-मन्त्रान् मूर्ति होमम् तथा ॥ २७।१४१ ॥
tṛtīye triguṇam kuryāt ekasmin divase gate . vaiṣṇavam śrī-mahī-mantrān mūrti homam tathā .. 27.141 ..
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेथ् । सोपदंशमपक्वं च शीतं पर्युषितं तथा ॥ २७.१४२ ॥
देवम् शुद्ध-उदकैः स्नाप्य प्रभूतम् तु । स उपदंशम् अपक्वम् च शीतम् पर्युषितम् तथा ॥ २७।१४२ ॥
devam śuddha-udakaiḥ snāpya prabhūtam tu . sa upadaṃśam apakvam ca śītam paryuṣitam tathā .. 27.142 ..
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितं । विवृतं स्रावितं चैव विकृतं दृष्टि दूषितं ॥ २७.१४३ ॥
पात्र-अन्तरेषु अ निक्षिप्तम् स अवशेषम् च लङ्घितम् । विवृतम् स्रावितम् च एव विकृतम् दूषितम् ॥ २७।१४३ ॥
pātra-antareṣu a nikṣiptam sa avaśeṣam ca laṅghitam . vivṛtam srāvitam ca eva vikṛtam dūṣitam .. 27.143 ..
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितं । हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ॥ २७.१४४ ॥
अ प्रोक्षितम् अथ अ स्पृष्ट म गृहीतम् अ मुद्रितम् । हविः निवेदयेत् चेद् तु वैष्णवम् श्री-मही-मनून् ॥ २७।१४४ ॥
a prokṣitam atha a spṛṣṭa ma gṛhītam a mudritam . haviḥ nivedayet ced tu vaiṣṇavam śrī-mahī-manūn .. 27.144 ..
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेथ् । द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेथ् ॥ २७.१४५ ॥
आग्नेयम् वारुणम् च एव वायव्यम् दशशस् । द्विगुणम् तु पुनर् कृत्वा प्रभूतम् तु ॥ २७।१४५ ॥
āgneyam vāruṇam ca eva vāyavyam daśaśas . dviguṇam tu punar kṛtvā prabhūtam tu .. 27.145 ..
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः । वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेथ् ॥ २७.१४६ ॥
निवेद्य च अशुमि-स्पृष्टम् देवम् संस्नाप्य मन्त्रतः । वैष्णवम् विष्णुगायत्रीम् त्रयस्त्रिंशत्-क्रमात् हुनेथ् ॥ २७।१४६ ॥
nivedya ca aśumi-spṛṣṭam devam saṃsnāpya mantrataḥ . vaiṣṇavam viṣṇugāyatrīm trayastriṃśat-kramāt huneth .. 27.146 ..
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेथ् । पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ॥ २७.१४७ ॥
जुहुयात् विधिना अशान्तिम् प्रोक्षणैः अपि । पुण्याहम् वाचयित्वा एव द्विगुणम् च अर्चनम् हविः ॥ २७।१४७ ॥
juhuyāt vidhinā aśāntim prokṣaṇaiḥ api . puṇyāham vācayitvā eva dviguṇam ca arcanam haviḥ .. 27.147 ..
व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते । निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ॥ २७.१४८ ॥
व्रीहि-अङ्गार-तुषैः युक्ते शर्करा-आदि-विमिश्रिते । निवेदिते तु हविषि मन्त्रेण अष्ट-अक्षरेण तु ॥ २७।१४८ ॥
vrīhi-aṅgāra-tuṣaiḥ yukte śarkarā-ādi-vimiśrite . nivedite tu haviṣi mantreṇa aṣṭa-akṣareṇa tu .. 27.148 ..
वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः । क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेथ् ॥ २७.१४९ ॥
वैष्णप्या च एव गायत्षा मन्त्रैः संस्तूय वैष्णवैः । क्षम अस्व इति अनुमान्य एव प्रणमय एव च याचयेथ् ॥ २७।१४९ ॥
vaiṣṇapyā ca eva gāyatṣā mantraiḥ saṃstūya vaiṣṇavaiḥ . kṣama asva iti anumānya eva praṇamaya eva ca yācayeth .. 27.149 ..
मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते । निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिं ॥ २७.१५० ॥
मक्षिक-आद्यैः जन्तुभिः च केश-आद्यैः अपि दूषिते । निवेदिते तु हविषि हरिम् ॥ २७।१५० ॥
makṣika-ādyaiḥ jantubhiḥ ca keśa-ādyaiḥ api dūṣite . nivedite tu haviṣi harim .. 27.150 ..
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च । अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेथ् ॥ २७.१५१ ॥
वैष्णवम् विष्णुसूक्तम् च श्री-भू-दैवत्यम् एव च । अष्टोत्तरशतम् हुत्वा द्विगुणम् तु ॥ २७।१५१ ॥
vaiṣṇavam viṣṇusūktam ca śrī-bhū-daivatyam eva ca . aṣṭottaraśatam hutvā dviguṇam tu .. 27.151 ..
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितं । पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरं ॥ २७.१५२ ॥
महाहविषि संयुक्ते तत्र दूषितम् । पुरुष-अशन-मात्रम् तु व्यपोह्य तद्-अनन्तरम् ॥ २७।१५२ ॥
mahāhaviṣi saṃyukte tatra dūṣitam . puruṣa-aśana-mātram tu vyapohya tad-anantaram .. 27.152 ..
भस्मांभसाकुशै रापो हिरण्य पवमानऽकैः । प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेथ् ॥ २७.१५३ ॥
भस्म-अंभसा-कुशैः हिरण्य-पवमान-अकैः । प्रोक्ष्य देवम् सु संप्रार्ध्य तत् गृहीत्वा निवेदयेथ् ॥ २७।१५३ ॥
bhasma-aṃbhasā-kuśaiḥ hiraṇya-pavamāna-akaiḥ . prokṣya devam su saṃprārdhya tat gṛhītvā nivedayeth .. 27.153 ..
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः । कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ॥ २७.१५४ ॥
पूर्वम् अर्क-उदयात् पक्वम् उपदंशम् अथो हविः । कोष्णम् चेद् अर्पयेत् प्रातर् अर्चन-अन्तेन दोष-भाज् ॥ २७।१५४ ॥
pūrvam arka-udayāt pakvam upadaṃśam atho haviḥ . koṣṇam ced arpayet prātar arcana-antena doṣa-bhāj .. 27.154 ..
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेथ् । असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ॥ २७.१५५ ॥
पूर्वम् मस्तमयात् पक्वम् तथा सायम् । असंस्कृतम् तु तांबूलम् लेप-केश-अन्वितम् तथा ॥ २७।१५५ ॥
pūrvam mastamayāt pakvam tathā sāyam . asaṃskṛtam tu tāṃbūlam lepa-keśa-anvitam tathā .. 27.155 ..
जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् । हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेथ् ॥ २७.१५६ ॥
जन्तु-स्पृष्टम् निवेद्य एव वैष्णवम् श्री-महीमनुन् । हुत्वा संस्कृत्य तांबूलम् पुनर् अन्यत् निवेदयेथ् ॥ २७।१५६ ॥
jantu-spṛṣṭam nivedya eva vaiṣṇavam śrī-mahīmanun . hutvā saṃskṛtya tāṃbūlam punar anyat nivedayeth .. 27.156 ..
अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि । दूषितेष्वध हीनेषु तस्य तस्याधिदैवतं ॥ २७.१५७ ॥
अर्चन-अंगेषु च अन्येषु पदार्थेषु एवम् एव हि । दूषितेषु अध हीनेषु तस्य तस्य अधिदैवतम् ॥ २७।१५७ ॥
arcana-aṃgeṣu ca anyeṣu padārtheṣu evam eva hi . dūṣiteṣu adha hīneṣu tasya tasya adhidaivatam .. 27.157 ..
मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेथ् । अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ॥ २७.१५८ ॥
मन्त्रम् स वैष्णवम् हुत्वा पुनर् अन्यैः समर्चयेथ् । अलाभे च एव सर्वेषाम् पुष्पम् तोयम् प्रगृह्य च ॥ २७।१५८ ॥
mantram sa vaiṣṇavam hutvā punar anyaiḥ samarcayeth . alābhe ca eva sarveṣām puṣpam toyam pragṛhya ca .. 27.158 ..
संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेथ् । नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेथ् ॥ २७.१५९ ॥
संकल्प्य एव प्रतिनिधिम् तत् तत् स्मृत्वा समर्चयेथ् । नित्य-होमे वैष्णवम् दशशस् ॥ २७।१५९ ॥
saṃkalpya eva pratinidhim tat tat smṛtvā samarcayeth . nitya-home vaiṣṇavam daśaśas .. 27.159 ..
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरं । अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ॥ २७.१६० ॥
यथा उक्त-होमम् द्विगुणम् आचरेत् तद्-अनन्तरम् । अग्नि-संरक्षणे अशक्ता "वयन्ते यः अनिम् उच्चरन् ॥ २७।१६० ॥
yathā ukta-homam dviguṇam ācaret tad-anantaram . agni-saṃrakṣaṇe aśaktā "vayante yaḥ anim uccaran .. 27.160 ..
समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके । न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमाथ् ॥ २७.१६१ ॥
समिध्य आरोपयेत् कुण्डात् पश्चात् संस्थाप्य लौकिके । न्यस्य "जुहुयात् क्रमाथ् ॥ २७।१६१ ॥
samidhya āropayet kuṇḍāt paścāt saṃsthāpya laukike . nyasya "juhuyāt kramāth .. 27.161 ..
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते । तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिं ॥ २७.१६२ ॥
सुर-ऋषि-मनुजानाम् तु बलम् यस्मात् पृवर्धते । तस्मात् बलिः समाख्यातः तद्-अर्थम् प्रत्यहम् हरिम् ॥ २७।१६२ ॥
sura-ṛṣi-manujānām tu balam yasmāt pṛvardhate . tasmāt baliḥ samākhyātaḥ tad-artham pratyaham harim .. 27.162 ..
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमं ॥ २७.१६३ ॥
उक्त-द्रव्येषु च आवाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेत् एवम् अशक्तः कर्तुम् उत्तमम् ॥ २७।१६३ ॥
ukta-dravyeṣu ca āvāhya triṣu kāleṣu deśikaḥ . abhyarcya bhrāmayet evam aśaktaḥ kartum uttamam .. 27.163 ..
यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलं । तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेथ् ॥ २७.१६४ ॥
यथा उक्त-पात्रे निक्षिप्य केवलम् । तस्य उपरि यथोक्तम् तु बलिबेरम् च विन्यसेथ् ॥ २७।१६४ ॥
yathā ukta-pātre nikṣipya kevalam . tasya upari yathoktam tu baliberam ca vinyaseth .. 27.164 ..
शिरसा धारयन्पात्रं त्रिर्द्विर्वा सकृदेव वा । देने ततः परीयाच्च देवागारं प्रदक्षिणं ॥ २७.१६५ ॥
शिरसा धारयन् पात्रम् त्रिस् द्विस् वा सकृत् एव वा । देने ततस् परीयात् च देवागारम् प्रदक्षिणम् ॥ २७।१६५ ॥
śirasā dhārayan pātram tris dvis vā sakṛt eva vā . dene tatas parīyāt ca devāgāram pradakṣiṇam .. 27.165 ..
अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा । अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणं ॥ २७.१६६ ॥
अथ हित्वा बलि-द्रव्यम् शिबिका-आदौ गजे अथवा । अ रोप्य याने विधिवत् कारयेत् च प्रदक्षिणम् ॥ २७।१६६ ॥
atha hitvā bali-dravyam śibikā-ādau gaje athavā . a ropya yāne vidhivat kārayet ca pradakṣiṇam .. 27.166 ..
प्रातर्भ्रमणहीने तु वैष्मवं सौरस्ॐयकं । प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ॥ २७.१६७ ॥
प्रातर् भ्रमण-हीने तु वैष्मवम् । प्राजापत्यम् च जुहुयात् हीने च उक्त-प्रदक्षिणे ॥ २७।१६७ ॥
prātar bhramaṇa-hīne tu vaiṣmavam . prājāpatyam ca juhuyāt hīne ca ukta-pradakṣiṇe .. 27.167 ..
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेथ् । हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिं ॥ २७.१६८ ॥
वैष्णवम् गारुडम् हुत्वा बलि-भ्रमणम् आचरेथ् । हीने प्रातर् बलौ कुर्यात् मध्याह्ने द्विगुणम् बलिम् ॥ २७।१६८ ॥
vaiṣṇavam gāruḍam hutvā bali-bhramaṇam ācareth . hīne prātar balau kuryāt madhyāhne dviguṇam balim .. 27.168 ..
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेथ् । एकाहे तु बलौ हीने नित्याग्नौ वा महानने ॥ २७.१६९ ॥
तथा हीने च मध्याह्ने रात्रौ त्रिगुणम् आचरेथ् । एक-अहे तु बलौ हीने नित्य-अग्नौ वा महा-आनने ॥ २७।१६९ ॥
tathā hīne ca madhyāhne rātrau triguṇam ācareth . eka-ahe tu balau hīne nitya-agnau vā mahā-ānane .. 27.169 ..
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च । दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेथ् ॥ २७.१७० ॥
वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तथा एव च । दिग्दैवत्यम् च हुत्वा तु ॥ २७।१७० ॥
vaiṣṇavam viṣṇusūktam ca puruṣasūktam tathā eva ca . digdaivatyam ca hutvā tu .. 27.170 ..
देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः । छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ॥ २७.१७१ ॥
देव-अलङ्कार-हीने तु श्री-दैवत्यम् यजेत् बुधः । छत्र-पिञ्छ-आदि-अलाभे तु वारुणम् जुहुयात् तथा ॥ २७।१७१ ॥
deva-alaṅkāra-hīne tu śrī-daivatyam yajet budhaḥ . chatra-piñcha-ādi-alābhe tu vāruṇam juhuyāt tathā .. 27.171 ..
अलाभे चामरादीनां वायव्यं चैव हूयते । दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयं ॥ २७.१७२ ॥
अलाभे च अमर-आदीनाम् वायव्यम् च एव हूयते । दीप-अलाभे पावकम् च व्याहृति-अन्तम् यजेत् त्रयम् ॥ २७।१७२ ॥
alābhe ca amara-ādīnām vāyavyam ca eva hūyate . dīpa-alābhe pāvakam ca vyāhṛti-antam yajet trayam .. 27.172 ..
द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च । द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ॥ २७.१७३ ॥
द्वि-अहे तु द्विगुणम् त्रिगुणम् एव च । द्वादश-अह-अन्तम् एवम् स्यात् द्वादश-अहे गते ततस् ॥ २७।१७३ ॥
dvi-ahe tu dviguṇam triguṇam eva ca . dvādaśa-aha-antam evam syāt dvādaśa-ahe gate tatas .. 27.173 ..
औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ॥ २७.१७४ ॥
औपासन-अग्निम् आधाय वैष्णवम् विष्णुसूक्तकम् । पुरुषसूक्तम् च श्री-भूमि-दैवत्यम् ब्राह्मम् म् एव च ॥ २७।१७४ ॥
aupāsana-agnim ādhāya vaiṣṇavam viṣṇusūktakam . puruṣasūktam ca śrī-bhūmi-daivatyam brāhmam m eva ca .. 27.174 ..
रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेथ् । मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तं ॥ २७.१७५ ॥
रौद्रम् दिग्देवता-मन्त्रम् हुत्वा एव भ्रमणम् चरेथ् । माने अतीते तु पद्म-अग्नौ वैष्णवम् विष्णुसूक्तम् ॥ २७।१७५ ॥
raudram digdevatā-mantram hutvā eva bhramaṇam careth . māne atīte tu padma-agnau vaiṣṇavam viṣṇusūktam .. 27.175 ..
नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये । परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेथ् ॥ २७.१७६ ॥
नृ-सूक्तम् पारमात्मीकम् ईङ्कार-आदीम् स्-तद्-आलये । परिषद्-देव-मन्त्रान् च हुत्वा भ्रमणम् आचरेथ् ॥ २७।१७६ ॥
nṛ-sūktam pāramātmīkam īṅkāra-ādīm s-tad-ālaye . pariṣad-deva-mantrān ca hutvā bhramaṇam ācareth .. 27.176 ..
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेथ् । वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ॥ २७.१७७ ॥
द्वि-मासे द्विगुणम् कुर्यात् त्रि-मासे त्रिगुणम् । वर्धये च अपि अतीते वत्सरे पुनर् ॥ २७।१७७ ॥
dvi-māse dviguṇam kuryāt tri-māse triguṇam . vardhaye ca api atīte vatsare punar .. 27.177 ..
सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलं । वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ॥ २७.१७८ ॥
सभ्यम् संसाध्य देव-अभिमुखे वा दक्षिणे नलम् । वैष्णवम् विष्णुसूक्तम् च सूक्तम् पौरुषम् एव च ॥ २७।१७८ ॥
sabhyam saṃsādhya deva-abhimukhe vā dakṣiṇe nalam . vaiṣṇavam viṣṇusūktam ca sūktam pauruṣam eva ca .. 27.178 ..
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च । हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेथ् ॥ २७.१७९ ॥
श्री-भूम्योः च एव दैवत्यम् सर्व-दैवत्यम् एव च । हुत्वा चार्यम् च संपूज्य बलि-उद्धरणम् आचरेथ् ॥ २७।१७९ ॥
śrī-bhūmyoḥ ca eva daivatyam sarva-daivatyam eva ca . hutvā cāryam ca saṃpūjya bali-uddharaṇam ācareth .. 27.179 ..
पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववथ् । बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ॥ २७.१८० ॥
पतिते अन्न-बलौ भूम्याम् भिन्ने जीर्णे च । बलिम् आपाद्य हुत्वा च वैष्णवम् गारुडम् तथा ॥ २७।१८० ॥
patite anna-balau bhūmyām bhinne jīrṇe ca . balim āpādya hutvā ca vaiṣṇavam gāruḍam tathā .. 27.180 ..
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणं । बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ॥ २७.१८१ ॥
प्राजापत्यम् तु विधिना ततस् कुर्यात् प्रदक्षिणम् । बलि-उद्धरण-काले तु विघ्नः चेद् आपतेत् तदा ॥ २७।१८१ ॥
prājāpatyam tu vidhinā tatas kuryāt pradakṣiṇam . bali-uddharaṇa-kāle tu vighnaḥ ced āpatet tadā .. 27.181 ..
सौरं स्ॐयं वैष्णवं च हुत्वा पुनरथाचरेथ् । पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवं ॥ २७.१८२ ॥
सौरम् वैष्णवम् च हुत्वा पुनर् अथ आचरेथ् । पात्र-अलाभे हविः-पात्रम् हुनैत् आदाय वैष्णवम् ॥ २७।१८२ ॥
sauram vaiṣṇavam ca hutvā punar atha ācareth . pātra-alābhe haviḥ-pātram hunait ādāya vaiṣṇavam .. 27.182 ..
प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिं । जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेथ् ॥ २७.१८३ ॥
प्रमाण-हीने अन्न-बलौ वैष्णवम् च प्रजापतिम् । जुहुयात् दोष-दुष्टे तु हविः-निष्कृतिम् आचरेथ् ॥ २७।१८३ ॥
pramāṇa-hīne anna-balau vaiṣṇavam ca prajāpatim . juhuyāt doṣa-duṣṭe tu haviḥ-niṣkṛtim ācareth .. 27.183 ..
आवाहनं विना चान्नबलौ तु भ्रमणेकृते । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१८४ ॥
आवाहनम् विना च अन्न-बलौ तु भ्रमणेकृते । वैष्णवम् विष्णुसूक्तम् च पुरुषसूक्तम् तथा एव च ॥ २७।१८४ ॥
āvāhanam vinā ca anna-balau tu bhramaṇekṛte . vaiṣṇavam viṣṇusūktam ca puruṣasūktam tathā eva ca .. 27.184 ..
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेथ् । बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ॥ २७.१८५ ॥
हुत्वा श्री-भूमि-दैवत्यम् विधिना भ्रमणम् चरेथ् । बलि-अग्र-खण्डे विधिना शान्ताय तु अनिवेदिते ॥ २७।१८५ ॥
hutvā śrī-bhūmi-daivatyam vidhinā bhramaṇam careth . bali-agra-khaṇḍe vidhinā śāntāya tu anivedite .. 27.185 ..
वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमाथ् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनं ॥ २७.१८६ ॥
वैष्णवम् मूर्ति-मन्त्रम् च हुत्वा एव दशशस् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनम् ॥ २७।१८६ ॥
vaiṣṇavam mūrti-mantram ca hutvā eva daśaśas . nivedya viṣvakcenāya pradāya mukhavāsanam .. 27.186 ..
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः । अकृते बलिदाने तु प्राश्य पादोदकं हरेः ॥ २७.१८७ ॥
पुनर् च बलि-उद्धरणम् विधिना कारयेत् ततस् । अ कृते बलि-दाने तु प्राश्य पाद-उदकम् हरेः ॥ २७।१८७ ॥
punar ca bali-uddharaṇam vidhinā kārayet tatas . a kṛte bali-dāne tu prāśya pāda-udakam hareḥ .. 27.187 ..
प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेथ् । प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ॥ २७.१८८ ॥
प्रसादम् च अपि संप्राश्य पुनर् द्विगुणम् अर्चयेथ् । प्रवृत्तायाम् तु पूजायाम् हविः-दान-अन्तम् एव च ॥ २७।१८८ ॥
prasādam ca api saṃprāśya punar dviguṇam arcayeth . pravṛttāyām tu pūjāyām haviḥ-dāna-antam eva ca .. 27.188 ..
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा । नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेथ् ॥ २७.१८९ ॥
तीर्थ-प्रसाद-दानम् वा पादुका-ग्रहणम् तथा । नशः तम् अन्यथा कृत्वा शान्ति-होमम् समाचरेथ् ॥ २७।१८९ ॥
tīrtha-prasāda-dānam vā pādukā-grahaṇam tathā . naśaḥ tam anyathā kṛtvā śānti-homam samācareth .. 27.189 ..
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेथ् । प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेथ् ॥ २७.१९० ॥
पूजा-अन्ते पूजकात् पूर्वम् अन्यः तीर्थ-आदिकम् । प्रसादम् वा अपि गृह्णीयात् तद्-पूजा निष्फला ॥ २७।१९० ॥
pūjā-ante pūjakāt pūrvam anyaḥ tīrtha-ādikam . prasādam vā api gṛhṇīyāt tad-pūjā niṣphalā .. 27.190 ..
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेथ् । तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरं ॥ २७.१९१ ॥
महाशान्तिम् तथा हुत्वा पुनःपूजाम् समाचरेथ् । तीर्थम् पुष्पम् ततस् क्षीरम् गन्धम् च तद्-अनन्तरम् ॥ २७।१९१ ॥
mahāśāntim tathā hutvā punaḥpūjām samācareth . tīrtham puṣpam tatas kṣīram gandham ca tad-anantaram .. 27.191 ..
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि । यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ॥ २७.१९२ ॥
सर्वाणु अणु अपि हवींषि अत्र नागवल्ली-दलानि अपि । यत् यत् निवेदितम् देवे दद्यात् अग्रेः च ॥ २७।१९२ ॥
sarvāṇu aṇu api havīṃṣi atra nāgavallī-dalāni api . yat yat niveditam deve dadyāt agreḥ ca .. 27.192 ..
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः । नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेथ् ॥ २७.१९३ ॥
अर्चकः तु हरिः साक्षात् चर-रूपः यतस् स्मृतः । नित्ये कर्मणि सर्वत्र पूजकम् पूर्वम् अर्चयेथ् ॥ २७।१९३ ॥
arcakaḥ tu hariḥ sākṣāt cara-rūpaḥ yatas smṛtaḥ . nitye karmaṇi sarvatra pūjakam pūrvam arcayeth .. 27.193 ..
आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेथ् । यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ॥ २७.१९४ ॥
आचार्य मर्चकम् वा अथ तथा । यदि अ वैखानसः विप्रः कदापि हरि-मन्दिरे ॥ २७।१९४ ॥
ācārya marcakam vā atha tathā . yadi a vaikhānasaḥ vipraḥ kadāpi hari-mandire .. 27.194 ..
समिच्छेदग्रसन्मानं तद्देवस्य विमाननं । यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ॥ २७.१९५ ॥
समिच्छेत् अ ग्रसत्-मानम् तत् देवस्य विमाननम् । यजमानः विपन्नः स्यात् राज-राष्ट्रम् विनश्यति ॥ २७।१९५ ॥
samicchet a grasat-mānam tat devasya vimānanam . yajamānaḥ vipannaḥ syāt rāja-rāṣṭram vinaśyati .. 27.195 ..
अज्ञानादथ वा मोहादाचले दन्यथायदि । द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेथ् ॥ २७.१९६ ॥
अज्ञानात् अथ वा मोहात् आचले दन्यथा यदि । द्विगुणम् तु समभ्यर्च्य च अन्यत् द्विगुण ॥ २७।१९६ ॥
ajñānāt atha vā mohāt ācale danyathā yadi . dviguṇam tu samabhyarcya ca anyat dviguṇa .. 27.196 ..
अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः । पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयं ॥ २७.१९७ ॥
अशुचिः वा अपि अनाचारः सदा वैखानसः शूचिः । पिता मृष्यति पुत्राणाम् विशङ्कम् दोष-संचयम् ॥ २७।१९७ ॥
aśuciḥ vā api anācāraḥ sadā vaikhānasaḥ śūciḥ . pitā mṛṣyati putrāṇām viśaṅkam doṣa-saṃcayam .. 27.197 ..
पिता हि भगवान्विष्णुपुत्रास्स्युः पूजका हरेः । तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ॥ २७.१९८ ॥
पिता हि भगवान् विष्णु-पुत्राः स्युः पूजकाः हरेः । तस्मात् तेषु न कुप्येत दीर्घम् आयुः जिजीविषुः ॥ २७।१९८ ॥
pitā hi bhagavān viṣṇu-putrāḥ syuḥ pūjakāḥ hareḥ . tasmāt teṣu na kupyeta dīrgham āyuḥ jijīviṣuḥ .. 27.198 ..
अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रितां । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेथ् ॥ २७.१९९ ॥
अतस् परम् प्रवक्ष्यामि निष्कृतिम् स्नपन-आश्रिताम् । नित्यम् नैमित्तिकम् काम्यम् त्रिविधम् स्नपनम् ॥ २७।१९९ ॥
atas param pravakṣyāmi niṣkṛtim snapana-āśritām . nityam naimittikam kāmyam trividham snapanam .. 27.199 ..
विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते । चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतं ॥ २७.२०० ॥
विषुवे च अयन-द्वन्द्वे स्नपनम् नित्यम् उच्यते । चन्द्र-सूर्य-उपरोगे यत् नैमित्तिकम् इति स्मृतम् ॥ २७।२०० ॥
viṣuve ca ayana-dvandve snapanam nityam ucyate . candra-sūrya-uparoge yat naimittikam iti smṛtam .. 27.200 ..
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितं । नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.२०१ ॥
शेषेषु स्नपनम् यत् तत् काम्यम् तु परिकीर्तितम् । नित्य-स्नापन-हीने तु वैष्णवम् विष्णुसूक्तकम् ॥ २७।२०१ ॥
śeṣeṣu snapanam yat tat kāmyam tu parikīrtitam . nitya-snāpana-hīne tu vaiṣṇavam viṣṇusūktakam .. 27.201 ..
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः । स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ॥ २७.२०२ ॥
पुरुषसूक्तम् वारुणम् च दश-कृत्वस् हुनेत् पुनर् । स्नपनम् विधिवत् कुर्यात् नि त्य-स्नपन-निष्कृतिः ॥ २७।२०२ ॥
puruṣasūktam vāruṇam ca daśa-kṛtvas hunet punar . snapanam vidhivat kuryāt ni tya-snapana-niṣkṛtiḥ .. 27.202 ..
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेथ् । काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेथ् ॥ २७.२०३ ॥
ग्रहणे स्नपने हीने पूर्ववत् निष्कृतिम् चरेथ् । काम्ये च पूर्ववत् कृत्वा शुद्ध-उदैः अभिषेचयेथ् ॥ २७।२०३ ॥
grahaṇe snapane hīne pūrvavat niṣkṛtim careth . kāmye ca pūrvavat kṛtvā śuddha-udaiḥ abhiṣecayeth .. 27.203 ..
अन्यथा चेन्महादोषो यजमानो विनश्यति । आलयात्पुरतश्चैव उत्तरे वा मनोरमे ॥ २७.२०४ ॥
अन्यथा चेद् महा-दोषः यजमानः विनश्यति । आलयात् पुरतस् च एव उत्तरे वा मनोरमे ॥ २७।२०४ ॥
anyathā ced mahā-doṣaḥ yajamānaḥ vinaśyati . ālayāt puratas ca eva uttare vā manorame .. 27.204 ..
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेथ् । पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितं ॥ २७.२०५ ॥
उत्तमम् स्नपनागारम् ऐशान्याम् मध्यमम् । पश्चिमे दक्षिणे च एवम् अधमम् संप्रकीर्तितम् ॥ २७।२०५ ॥
uttamam snapanāgāram aiśānyām madhyamam . paścime dakṣiṇe ca evam adhamam saṃprakīrtitam .. 27.205 ..
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेथ् ॥ २७.२०६ ॥
आग्नेयी-आदिषु कोणेषु स्नपने वैष्णवम् तथा । विष्णुसूक्तम् नृसूक्तम् च दिगीशानाम् मनुम् ॥ २७।२०६ ॥
āgneyī-ādiṣu koṇeṣu snapane vaiṣṇavam tathā . viṣṇusūktam nṛsūktam ca digīśānām manum .. 27.206 ..
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः । संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ॥ २७.२०७ ॥
स्नपनम् कारयेत् पश्चात् एषा व्यत्यय-निष्कृतिः । संध्या-काले तु संप्राप्ते निमित्त-स्नपने तथा ॥ २७।२०७ ॥
snapanam kārayet paścāt eṣā vyatyaya-niṣkṛtiḥ . saṃdhyā-kāle tu saṃprāpte nimitta-snapane tathā .. 27.207 ..
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेथ् । अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ॥ २७.२०८ ॥
नैमित्तिकम् समाप्य एव नित्य-पूजम् समाचरेथ् । अन्यथा वैष्णवम् मन्त्रम् शत-वारम् जपेत् सुधीः ॥ २७।२०८ ॥
naimittikam samāpya eva nitya-pūjam samācareth . anyathā vaiṣṇavam mantram śata-vāram japet sudhīḥ .. 27.208 ..
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवं श्रीमहीमन्त्रान्हुत्वा सौदर्शनं तथा ॥ २७.२०९ ॥
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवम् श्री-मही-मन्त्रान् हुत्वा सौदर्शनम् तथा ॥ २७।२०९ ॥
pūrvarātrau pratisare hīne ca śayane tathā . vaiṣṇavam śrī-mahī-mantrān hutvā saudarśanam tathā .. 27.209 ..
शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः । एमबेरे कौतुके तु कर्तव्ये शयनं विना ॥ २७.२१० ॥
शय्या-अधिवासनम् हित्वा बन्धयेत् कौतुकम् पुनर् । एमबेरे कौतुके तु कर्तव्ये शयनम् विना ॥ २७।२१० ॥
śayyā-adhivāsanam hitvā bandhayet kautukam punar . emabere kautuke tu kartavye śayanam vinā .. 27.210 ..
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेथ् । कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ॥ २७.२११ ॥
बद्ध्वा प्रतिसरम् सद्यस् स्नपनम् सम्यक् आचरेथ् । कृते अंकुर-अर्पणे हीने स्नपने वैष्णपम् तथा ॥ २७।२११ ॥
baddhvā pratisaram sadyas snapanam samyak ācareth . kṛte aṃkura-arpaṇe hīne snapane vaiṣṇapam tathā .. 27.211 ..
स्ॐयं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेथ् । विनांकुरार्पणं चाथ स्नापयेदिति केचन ॥ २७.२१२ ॥
सोंयम् श्री-भूमि-दैवत्यम् वैघ्नम् हुत्वा अभिषेचयेथ् । विना अंकुर-अर्पणम् च अथ स्नापयेत् इति केचन ॥ २७।२१२ ॥
soṃyam śrī-bhūmi-daivatyam vaighnam hutvā abhiṣecayeth . vinā aṃkura-arpaṇam ca atha snāpayet iti kecana .. 27.212 ..
प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च । वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेथ् ॥ २७.२१३ ॥
प्रमाण-हीने अधिके वा पङ्क्तौ स्नान-अवटे अपि च । वैष्णवम् भूमि-दैवत्यम् पङ्क्तीशस्य मनुम् यजेथ् ॥ २७।२१३ ॥
pramāṇa-hīne adhike vā paṅktau snāna-avaṭe api ca . vaiṣṇavam bhūmi-daivatyam paṅktīśasya manum yajeth .. 27.213 ..
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च । पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ॥ २७.२१४ ॥
हीने शान्त-आदि-अर्चने च वैष्णवम् शान्तम् एव च । पङ्क्ति-ईशस्य अर्चने हीने तद्-मन्त्रम् च जयादीकान् ॥ २७।२१४ ॥
hīne śānta-ādi-arcane ca vaiṣṇavam śāntam eva ca . paṅkti-īśasya arcane hīne tad-mantram ca jayādīkān .. 27.214 ..
इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेथ् । कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतं ॥ २७.२१५ ॥
इन्द्र-आदि-अर्चन-हीने तु तद्-मन्त्रम् वैष्णवम् । कलशेषु अप्रमाणेषु वैष्णवम् वायु-दैवतम् ॥ २७।२१५ ॥
indra-ādi-arcana-hīne tu tad-mantram vaiṣṇavam . kalaśeṣu apramāṇeṣu vaiṣṇavam vāyu-daivatam .. 27.215 ..
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवं । भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ॥ २७.२१६ ॥
आग्नेयम् जुहुयात् मृत्सु हीनासु अत्र च वैष्णवम् । भू-दैवत्यम् च जुहुयात् मृत्सु सर्वासु अयम् विधिः ॥ २७।२१६ ॥
āgneyam juhuyāt mṛtsu hīnāsu atra ca vaiṣṇavam . bhū-daivatyam ca juhuyāt mṛtsu sarvāsu ayam vidhiḥ .. 27.216 ..
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेथ् । धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ॥ २७.२१७ ॥
वैष्णवम् पावकम् । धान्येषु वैष्णवम् च एव वायव्यम् च हुनेत् बुधः ॥ २७।२१७ ॥
vaiṣṇavam pāvakam . dhānyeṣu vaiṣṇavam ca eva vāyavyam ca hunet budhaḥ .. 27.217 ..
अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा । जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ॥ २७.२१८ ॥
अङ्कुरेषु विहीनेषु वैष्णवम् गारुडम् तथा । जुहुयात् व्याहृतीः च एव यथार्हम् संभरेत् पुनर् ॥ २७।२१८ ॥
aṅkureṣu vihīneṣu vaiṣṇavam gāruḍam tathā . juhuyāt vyāhṛtīḥ ca eva yathārham saṃbharet punar .. 27.218 ..
वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवं । ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ॥ २७.२१९ ॥
वर्ण-हीनेषु अमानेषु मङ्गलेषु तु वैष्णवम् । ऐन्द्रम् च जुहुयात् कुर्यात् यथार्हम् संभरेत् अपि ॥ २७।२१९ ॥
varṇa-hīneṣu amāneṣu maṅgaleṣu tu vaiṣṇavam . aindram ca juhuyāt kuryāt yathārham saṃbharet api .. 27.219 ..
पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि । जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेथ् ॥ २७.२२० ॥
पञ्चगव्ये मन्त्र-हीने विहीने योग-कर्मणि । जुहुयात् वैष्णवम् रौद्रम् मन्त्रेण एव ॥ २७।२२० ॥
pañcagavye mantra-hīne vihīne yoga-karmaṇi . juhuyāt vaiṣṇavam raudram mantreṇa eva .. 27.220 ..
उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमाथ् । प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ॥ २७.२२१ ॥
उक्त-प्रमाण-हीनेषु पञ्चगव्य-आदिषु । प्रधानेषु द्रव्य-अधिप-मनुम् तथा ॥ २७।२२१ ॥
ukta-pramāṇa-hīneṣu pañcagavya-ādiṣu . pradhāneṣu dravya-adhipa-manum tathā .. 27.221 ..
वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेथ् । प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्यत्र चोद्यते ॥ २७.२२२ ॥
वैष्णवेन एव मन्त्रेण सह हुत्वा समाचरेथ् । प्राशनम् प्रोक्षम् वा अपि शास्त्रे अस्मिन् यत्र चोद्यते ॥ २७।२२२ ॥
vaiṣṇavena eva mantreṇa saha hutvā samācareth . prāśanam prokṣam vā api śāstre asmin yatra codyate .. 27.222 ..
अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः । साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववथ् ॥ २७.२२३ ॥
अयम् एव विधिः ज्ञेयः पञ्चगव्यस्य सर्वतस् । साधिते कलशे भिन्ने तु अन्यम् आदाय ॥ २७।२२३ ॥
ayam eva vidhiḥ jñeyaḥ pañcagavyasya sarvatas . sādhite kalaśe bhinne tu anyam ādāya .. 27.223 ..
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः । कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ॥ २७.२२४ ॥
आपूर्य अभ्यर्च्य दशशस् वैष्णवम् जुहुयात् ततस् । कलशानाम् विपर्यामे तद्-हृतेन एव च आप्लुते ॥ २७।२२४ ॥
āpūrya abhyarcya daśaśas vaiṣṇavam juhuyāt tatas . kalaśānām viparyāme tad-hṛtena eva ca āplute .. 27.224 ..
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः । शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेथ् ॥ २७.२२५ ॥
वैष्णवम् द्रव्य-दैवत्यम् हुत्वा संशोध्य तत् पुनर् । शुद्ध-उदैः स्नापयेत् च एव यथावत् च ॥ २७।२२५ ॥
vaiṣṇavam dravya-daivatyam hutvā saṃśodhya tat punar . śuddha-udaiḥ snāpayet ca eva yathāvat ca .. 27.225 ..
कृते तु कलशन्यासे श्वकाकादिभिरेव वा । अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववथ् ॥ २७.२२६ ॥
कृते तु कलश-न्यासे श्व-काक-आदिभिः एव वा । अस्पृश्यैः वा अपि संस्पर्शे संसाध्यानि अन्यत् तु ॥ २७।२२६ ॥
kṛte tu kalaśa-nyāse śva-kāka-ādibhiḥ eva vā . aspṛśyaiḥ vā api saṃsparśe saṃsādhyāni anyat tu .. 27.226 ..
शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेथ् । कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेथ् ॥ २७.२२७ ॥
शान्तिम् वैष्णव-मन्त्रान् च हुत्वा कार्यम् समाचरेथ् । कृमि-कीट-आदि-पतने तत् तत् द्रव्यम् ॥ २७।२२७ ॥
śāntim vaiṣṇava-mantrān ca hutvā kāryam samācareth . kṛmi-kīṭa-ādi-patane tat tat dravyam .. 27.227 ..
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतं । रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेथ् ॥ २७.२२८ ॥
अन्यत् आदाय जुहुयात् वैष्णवम् द्रव्य-दैवतम् । रत्न-अलाभे वैष्णवम् तु हुत्वा स्वर्णम् तु ॥ २७।२२८ ॥
anyat ādāya juhuyāt vaiṣṇavam dravya-daivatam . ratna-alābhe vaiṣṇavam tu hutvā svarṇam tu .. 27.228 ..
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेथ् । यथोक्तस्नपने हीने कथं चित्स्नपनं चरेथ् ॥ २७.२२९ ॥
वस्त्र-अलाभे वैष्णवम् च श्री-दैवत्यम् च हावयेथ् । यथा उक्त-स्नपने हीने कथम् चित् स्नपनम् चरेथ् ॥ २७।२२९ ॥
vastra-alābhe vaiṣṇavam ca śrī-daivatyam ca hāvayeth . yathā ukta-snapane hīne katham cit snapanam careth .. 27.229 ..
अथ वा कारयेच्छुद्धस्नपनं वा विधानतः । अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ॥ २७.२३० ॥
अथ वा कारयेत् शुद्ध-स्नपनम् वा विधानतः । अतस् ऊर्ध्वम् प्रवक्ष्यामि प्रायश्चित्तम् अथ उत्सवे ॥ २७।२३० ॥
atha vā kārayet śuddha-snapanam vā vidhānataḥ . atas ūrdhvam pravakṣyāmi prāyaścittam atha utsave .. 27.230 ..
कालादिभेदन्तेषां च लक्षणं च पुरोदितं । पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकं ॥ २७.२३१ ॥
काल-आदि-भेदन् तेषाम् च लक्षणम् च पुरा उदितम् । पुरस्कृत्य तिथिम् केचिद् केचिद् नक्षत्र-पूर्वकम् ॥ २७।२३१ ॥
kāla-ādi-bhedan teṣām ca lakṣaṇam ca purā uditam . puraskṛtya tithim kecid kecid nakṣatra-pūrvakam .. 27.231 ..
संकल्पयन्त्यवभृथं वरमृक्षापवर्गकं । अकृते नियते कालं कृते वानियते तथा ॥ २७.२३२ ॥
संकल्पयन्ति अवभृथम् वरम् ऋक्ष-अपवर्गकम् । अकृते नियते कालम् कृते वा अनियते तथा ॥ २७।२३२ ॥
saṃkalpayanti avabhṛtham varam ṛkṣa-apavargakam . akṛte niyate kālam kṛte vā aniyate tathā .. 27.232 ..
कालोत्सवे महान्दोषस्तत्र कुर्यात्तुनिष्कृतिं । उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेथ् ॥ २७.२३३ ॥
काल-उत्सवे महान् दोषः तत्र कुर्यात् तु निष्कृतिम् । उत्सवात् पूर्वम् उद्दिस्य महाशान्तिम् चरेथ् ॥ २७।२३३ ॥
kāla-utsave mahān doṣaḥ tatra kuryāt tu niṣkṛtim . utsavāt pūrvam uddisya mahāśāntim careth .. 27.233 ..
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेथ् । अन्यथा तु कृतं कार्यमकृतं स्यादसंशयं ॥ २७.२३४ ॥
विज्ञाप्य देवदेवेशम् ततस् काल-उत्सवम् चरेथ् । अन्यथा तु कृतम् कार्यम् अकृतम् स्यात् असंशयम् ॥ २७।२३४ ॥
vijñāpya devadeveśam tatas kāla-utsavam careth . anyathā tu kṛtam kāryam akṛtam syāt asaṃśayam .. 27.234 ..
अन्यस्मिन्वापि मासे तु न कुर्याद्यदि चोत्सवं । एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ॥ २७.२३५ ॥
अन्यस्मिन् वा अपि मासे तु न कुर्यात् यदि च उत्सवम् । एषः एव विधिः प्रोक्तः परस्मिन् वत्सरे कृते ॥ २७।२३५ ॥
anyasmin vā api māse tu na kuryāt yadi ca utsavam . eṣaḥ eva vidhiḥ proktaḥ parasmin vatsare kṛte .. 27.235 ..
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः । सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेथ् ॥ २७.२३६ ॥
एवम् त्रि-वत्सरेभ्यः स्यात् अतस् ऊर्ध्वम् विशेषतः । महाशान्तिम् कृत्वा माचरेथ् ॥ २७।२३६ ॥
evam tri-vatsarebhyaḥ syāt atas ūrdhvam viśeṣataḥ . mahāśāntim kṛtvā mācareth .. 27.236 ..
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः । तत्र देवो न रमते योऽसावुत्सव दैवतं ॥ २७.२३७ ॥
एवे द्वादश-वर्ष-अन्तम् ततस् च स्थापनम् पुनर् । तत्र देवः न रमते यः असौ उत्सव दैवतम् ॥ २७।२३७ ॥
eve dvādaśa-varṣa-antam tatas ca sthāpanam punar . tatra devaḥ na ramate yaḥ asau utsava daivatam .. 27.237 ..
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः । तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ॥ २७.२३८ ॥
यत्र देवालये विष्णुः स्थ्साप्यते प्रथमम् ततस् । तेन एव कारयेत् सर्वम् आचार्येण आर्ऽचकेन च ॥ २७।२३८ ॥
yatra devālaye viṣṇuḥ sthsāpyate prathamam tatas . tena eva kārayet sarvam ācāryeṇa ār'cakena ca .. 27.238 ..
तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा । तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेथ् ॥ २७.२३९ ॥
तद्-अभावे तु तद्-पुत्रैः पौत्रैः तद्-वंश-जैः तथा । तद्-नियुक्तैः तदीयैः वा अपूर्व-अभावे परैः चरेथ् ॥ २७।२३९ ॥
tad-abhāve tu tad-putraiḥ pautraiḥ tad-vaṃśa-jaiḥ tathā . tad-niyuktaiḥ tadīyaiḥ vā apūrva-abhāve paraiḥ careth .. 27.239 ..
अन्यथा क्रियते चेत्तु यजमानो विनश्यति । उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेथ् ॥ २७.२४० ॥
अन्यथा क्रियते चेद् तु यजमानः विनश्यति । उत्सव-अहःसु हीनेषु प्रायश्चित्तम् समाचरेथ् ॥ २७।२४० ॥
anyathā kriyate ced tu yajamānaḥ vinaśyati . utsava-ahaḥsu hīneṣu prāyaścittam samācareth .. 27.240 ..
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन । प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिं ॥ २७.२४१ ॥
वर्धयेत् वैष्णवम् कार्यम् ह्रासयेत् न कदा चन । प्रमादात् वा अपि अशक्तौ वा कृत्वा संप्रार्थयेत् हरिम् ॥ २७।२४१ ॥
vardhayet vaiṣṇavam kāryam hrāsayet na kadā cana . pramādāt vā api aśaktau vā kṛtvā saṃprārthayet harim .. 27.241 ..
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः । एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ॥ २७.२४२ ॥
महाशान्तिम् तु हुत्वा एव शेषम् कुर्यात् प्रयत्नतः । एषः एव विधिः वृद्धौ स तु श्रेयः-अभिवृद्धि-दः ॥ २७।२४२ ॥
mahāśāntim tu hutvā eva śeṣam kuryāt prayatnataḥ . eṣaḥ eva vidhiḥ vṛddhau sa tu śreyaḥ-abhivṛddhi-daḥ .. 27.242 ..
यदा त्ववभृथेदैवात्कृते विनिमयेन तु । असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ॥ २७.२४३ ॥
यदा तु अवभृथ-इदैवात् कृते विनिमयेन तु । असंकल्पित-वत् कुर्यात् तत्र पूर्व-उक्त-निष्कृतिः ॥ २७।२४३ ॥
yadā tu avabhṛtha-idaivāt kṛte vinimayena tu . asaṃkalpita-vat kuryāt tatra pūrva-ukta-niṣkṛtiḥ .. 27.243 ..
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु । अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ॥ २७.२४४ ॥
प्रमादात् बुद्धि-पूर्वम् वा तद्-तद्-वेला-उत्सव-आदिषु । अकृतेषु यथाशास्त्रम् कृत्वा तन्त्रेण वैपुनः ॥ २७।२४४ ॥
pramādāt buddhi-pūrvam vā tad-tad-velā-utsava-ādiṣu . akṛteṣu yathāśāstram kṛtvā tantreṇa vaipunaḥ .. 27.244 ..
मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेथ् । यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरं ॥ २७.२४५ ॥
मन्त्रेण वा पुनर् सूक्ष्मम् काले अवभृथम् आचरेथ् । यज्ञस्य अपभृथः अन्तः स्यात् न उत्सवः तद्-अनन्तरम् ॥ २७।२४५ ॥
mantreṇa vā punar sūkṣmam kāle avabhṛtham ācareth . yajñasya apabhṛthaḥ antaḥ syāt na utsavaḥ tad-anantaram .. 27.245 ..
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेथ् । नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ॥ २७.२४६ ॥
अकृत-उत्सव-कार्याणि यथोक्तम् पूर्वम् आचरेथ् । नित्य-उत्सवम् हरेः कुर्यात् नित्य-श्रीः नित्य-मङ्गलः ॥ २७।२४६ ॥
akṛta-utsava-kāryāṇi yathoktam pūrvam ācareth . nitya-utsavam hareḥ kuryāt nitya-śrīḥ nitya-maṅgalaḥ .. 27.246 ..
हरिर्नारायणो देवो नालं देवा स्तमर्चितुं । आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ॥ २७.२४७ ॥
हरिः नारायणः देवः न अलम् देवाः स्तम् अर्चितुम् । आचार्ये यजमाने वा पूजके अन्य-पद-अर्थिनि ॥ २७।२४७ ॥
hariḥ nārāyaṇaḥ devaḥ na alam devāḥ stam arcitum . ācārye yajamāne vā pūjake anya-pada-arthini .. 27.247 ..
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेथ् । न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषं ॥ २७.२४८ ॥
नष्टे सद्यस् तदा अन्यन्तु वरयित्वा समाचरेथ् । न दैवम् प्रतिबध्नाति कार्यम् यत् कर्म मानुषम् ॥ २७।२४८ ॥
naṣṭe sadyas tadā anyantu varayitvā samācareth . na daivam pratibadhnāti kāryam yat karma mānuṣam .. 27.248 ..
देवेशमनुमान्याथ महाशान्तिं तु पद्मके । समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ॥ २७.२४९ ॥
देवेशम् अनुमान्य अथ महाशान्तिम् तु पद्मके । समृतः ब्रह्म-मेधाः अरहः पूतम् तत् गात्रम् उच्यते ॥ २७।२४९ ॥
deveśam anumānya atha mahāśāntim tu padmake . samṛtaḥ brahma-medhāḥ arahaḥ pūtam tat gātram ucyate .. 27.249 ..
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः । ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ॥ २७.२५० ॥
सर्वे पदार्थिनः प्रोक्ताः गुरु-पूर्वाः पदार्थिनः । ग्राम-अन्तरम् प्रयाते तु दीक्षा-मध्ये पद-अर्थिनि ॥ २७।२५० ॥
sarve padārthinaḥ proktāḥ guru-pūrvāḥ padārthinaḥ . grāma-antaram prayāte tu dīkṣā-madhye pada-arthini .. 27.250 ..
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा । अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ॥ २७.२५१ ॥
अस्पृश्य-स्पर्श-दोषेण सुरा-पान-आदिना तथा । अनुक्त-दोषैः वा दुष्टे रोगात् शौच-आदि-असंभवे ॥ २७।२५१ ॥
aspṛśya-sparśa-doṣeṇa surā-pāna-ādinā tathā . anukta-doṣaiḥ vā duṣṭe rogāt śauca-ādi-asaṃbhave .. 27.251 ..
शावाद्याशौसयोग्ये वा शवानुगमने तथा । वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ॥ २७.२५२ ॥
शाव-आदि-आशौ-सयोग्ये वा शव-अनुगमने तथा । वाहने दाहने च एव प्रेत-अन्न-श्राद्ध-भोक्तरि ॥ २७।२५२ ॥
śāva-ādi-āśau-sayogye vā śava-anugamane tathā . vāhane dāhane ca eva preta-anna-śrāddha-bhoktari .. 27.252 ..
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि । दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेथ् ॥ २७.२५३ ॥
श्राद्धस्य याजके श्राद्ध-शिष्ट-भोक्तरि भोक्तरि । दोषः स्यात् विधिना तत्र महाशान्तिम् अथ आचरेथ् ॥ २७।२५३ ॥
śrāddhasya yājake śrāddha-śiṣṭa-bhoktari bhoktari . doṣaḥ syāt vidhinā tatra mahāśāntim atha ācareth .. 27.253 ..
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि । परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहाथ् ॥ २७.२५४ ॥
श्राद्ध-कर्तिरि नो दोषः स्तत्र दाता भवेत् सहि । पर-अन्नेन मुखम् दग्धम् हस्तौ दग्धौ ॥ २७।२५४ ॥
śrāddha-kartiri no doṣaḥ statra dātā bhavet sahi . para-annena mukham dagdham hastau dagdhau .. 27.254 ..
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ । दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेथ् ॥ २७.२५५ ॥
पर-स्त्रीभिः मनः दग्धम् ब्रह्म-शापः कुतस् कलौ । दीक्षा-मध्ये न अन्य-दीक्षाम् गर्भदीक्षाम् विना चरेथ् ॥ २७।२५५ ॥
para-strībhiḥ manaḥ dagdham brahma-śāpaḥ kutas kalau . dīkṣā-madhye na anya-dīkṣām garbhadīkṣām vinā careth .. 27.255 ..
विधुरे यजमाने तु दीक्षितः पुरुषो भवेथ् । सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ॥ २७.२५६ ॥
विधुरे यजमाने तु दीक्षितः पुरुषः । स दारः वा दीक्षितः स्यात् कलत्रवान् ॥ २७।२५६ ॥
vidhure yajamāne tu dīkṣitaḥ puruṣaḥ . sa dāraḥ vā dīkṣitaḥ syāt kalatravān .. 27.256 ..
दंपती यजमानो चेदयमभ्युदयो भवेथ् । अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेथ् ॥ २७.२५७ ॥
दंपती चेद् अयम् अभ्युदयः । अन् अग्निमति अ दारे वा गुरौ तम् तु न ॥ २७।२५७ ॥
daṃpatī ced ayam abhyudayaḥ . an agnimati a dāre vā gurau tam tu na .. 27.257 ..
अन्यस्मिन्पदभाजी स्याद्यथासंभवमादरः । वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ॥ २७.२५८ ॥
अन्यस्मिन् पद-भाजी स्यात् यथासंभवम् आदरः । वैधुर्य-संभवे तु एषाम् मध्ये दुष्यन्ति ना एव ते ॥ २७।२५८ ॥
anyasmin pada-bhājī syāt yathāsaṃbhavam ādaraḥ . vaidhurya-saṃbhave tu eṣām madhye duṣyanti nā eva te .. 27.258 ..
वत्सराशौचमितरच्चाशौचं न प्रवर्तते । मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ॥ २७.२५९ ॥
वत्सर-आशौचम् इतरत् च आशौचम् न प्रवर्तते । माता-पित्रोः मृतौ यत् तु प्रोक्तम् अभ्युदये पुनर् ॥ २७।२५९ ॥
vatsara-āśaucam itarat ca āśaucam na pravartate . mātā-pitroḥ mṛtau yat tu proktam abhyudaye punar .. 27.259 ..
ध्वजारोहणहीने तु कृते निष्फल उत्सवः । कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेथ् ॥ २७.२६० ॥
ध्वज-आरोहण-हीने तु कृते निष्फलः उत्सवः । कृत्वा एव आरोहणम् तस्मात् ध्वजस्य उत्सवम् आचरेथ् ॥ २७।२६० ॥
dhvaja-ārohaṇa-hīne tu kṛte niṣphalaḥ utsavaḥ . kṛtvā eva ārohaṇam tasmāt dhvajasya utsavam ācareth .. 27.260 ..
ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवं । अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिन्त्समाचरेथ् ॥ २७.२६१ ॥
ध्वजस्य आरोहणम् कृत्वा न आचरेत् यदि च उत्सवम् । अज्ञानात् अर्थ-लोभात् वा अमासे न्यस्मिन् समाचरेथ् ॥ २७।२६१ ॥
dhvajasya ārohaṇam kṛtvā na ācaret yadi ca utsavam . ajñānāt artha-lobhāt vā amāse nyasmin samācareth .. 27.261 ..
नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति । तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेथ् ॥ २७.२६२ ॥
न कुर्यात् चेद् द्वितीये तु मासे कर्ता विनश्यति । तस्मात् निष्कृतिम् अब्ज-अग्नौ हुत्वा तु उत्सवम् आचरेथ् ॥ २७।२६२ ॥
na kuryāt ced dvitīye tu māse kartā vinaśyati . tasmāt niṣkṛtim abja-agnau hutvā tu utsavam ācareth .. 27.262 ..
वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडं । ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतं ॥ २७.२६३ ॥
वैष्णवम् विष्णुसूक्तम् च नृसूक्तम् च एव गारुडम् । ध्वाजम् शान्तम् च चक्रम् च तथा एव उत्सव-दैवतम् ॥ २७।२६३ ॥
vaiṣṇavam viṣṇusūktam ca nṛsūktam ca eva gāruḍam . dhvājam śāntam ca cakram ca tathā eva utsava-daivatam .. 27.263 ..
व्याहृत्यन्तं च हुत्वा तु वैष्णवान्पूज्य चाचरेथ् । ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेथ् ॥ २७.२६४ ॥
व्याहृति-अन्तम् च हुत्वा तु वैष्णवान् पूज्य च आचरेथ् । ध्वजस्य लक्षणम् वक्ष्ये येन मानेन ॥ २७।२६४ ॥
vyāhṛti-antam ca hutvā tu vaiṣṇavān pūjya ca ācareth . dhvajasya lakṣaṇam vakṣye yena mānena .. 27.264 ..
विमानेन समं वाथ पादेनार्ऽधेन वाधिकं । पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेथ् ॥ २७.२६५ ॥
विमानेन समम् वा अथ पादेन अर्ऽधेन वा अधिकम् । पादेन अर्धेन वा पञ्चधा अपि ॥ २७।२६५ ॥
vimānena samam vā atha pādena ar'dhena vā adhikam . pādena ardhena vā pañcadhā api .. 27.265 ..
जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः । अर्धहीनं न कुर्वीत तदेवागतिकं भवेथ् ॥ २७.२६६ ॥
। अर्ध-हीनम् न कुर्वीत तत् एव अगतिकम् ॥ २७।२६६ ॥
. ardha-hīnam na kurvīta tat eva agatikam .. 27.266 ..
तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः । अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः ॥ २७.२६७ ॥
तस्मात् च हीनम् न एव स्यात् अधिकम् स्यात् तु शक्तितः । अवक्रम् ऋजुम् अन्येन असंबद्धम् कीलित-आदिभिः ॥ २७।२६७ ॥
tasmāt ca hīnam na eva syāt adhikam syāt tu śaktitaḥ . avakram ṛjum anyena asaṃbaddham kīlita-ādibhiḥ .. 27.267 ..
श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमं । तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेथ् ॥ २७.२६८ ॥
श्लक्ष्णम् मनोहरम् दारु गृहीत्वा आखण्डम् उत्तमम् । तम् चतुर्दशधा कुर्याम् माला-अग्रे तेन ॥ २७।२६८ ॥
ślakṣṇam manoharam dāru gṛhītvā ākhaṇḍam uttamam . tam caturdaśadhā kuryām mālā-agre tena .. 27.268 ..
भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः । मेखलानामथायामस्तद्भागेन समो भवेत्, ॥ २७.२६९ ॥
भागम् एकम् विहाय अग्रे तत्र कुर्यात् त्रि-मेखलाः । मेखलानाम् अथ आयामः तद्-भागेन समः भवेत्, ॥ २७।२६९ ॥
bhāgam ekam vihāya agre tatra kuryāt tri-mekhalāḥ . mekhalānām atha āyāmaḥ tad-bhāgena samaḥ bhavet, .. 27.269 ..
त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा । अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ॥ २७.२७० ॥
त्रि-ताल-विस्तृतम् कुर्यात् दण्ड-विस्तृतम् एव वा । अन्तरम् च समम् तेषाम् तिस्रः कुर्यात् तु यष्टिकाः ॥ २७।२७० ॥
tri-tāla-vistṛtam kuryāt daṇḍa-vistṛtam eva vā . antaram ca samam teṣām tisraḥ kuryāt tu yaṣṭikāḥ .. 27.270 ..
यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते । सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ॥ २७.२७१ ॥
यष्टी द्वे पुरतस् कुर्यात् पश्चात् एका विधीयते । सर्वत्र किङ्किणीनाम् तु शेषतस् ॥ २७।२७१ ॥
yaṣṭī dve puratas kuryāt paścāt ekā vidhīyate . sarvatra kiṅkiṇīnām tu śeṣatas .. 27.271 ..
पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः । अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकं ॥ २७.२७२ ॥
पश्चात् शेषम् त्रिधा कुर्यात् चतुर्धा वा ध्वजम् बुधः । अष्टाश्रम् च षडश्रम् च चतुर्-अश्रम् च वृत्तकम् ॥ २७।२७२ ॥
paścāt śeṣam tridhā kuryāt caturdhā vā dhvajam budhaḥ . aṣṭāśram ca ṣaḍaśram ca catur-aśram ca vṛttakam .. 27.272 ..
मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजं । त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेथ् ॥ २७.२७३ ॥
मूलात् आरभ्य कुर्वीत चतुर्धा विहितम् ध्वजम् । त्रिधा कृते न कुर्यात् तु शेषम् आचरेथ् ॥ २७।२७३ ॥
mūlāt ārabhya kurvīta caturdhā vihitam dhvajam . tridhā kṛte na kuryāt tu śeṣam ācareth .. 27.273 ..
आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते । शिखरं शिर इत्याहुरर्धेन शिखरं भवेथ् ॥ २७.२७४ ॥
आद्यम् भागम् त्रिधा कृत्वा केचिद् एवम् प्रकुर्वते । शिखरम् शिरः इति आहुः अर्धेन शिखरम् ॥ २७।२७४ ॥
ādyam bhāgam tridhā kṛtvā kecid evam prakurvate . śikharam śiraḥ iti āhuḥ ardhena śikharam .. 27.274 ..
प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः । स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेथ् ॥ २७.२७५ ॥
प्रमादात् पतितम् गृह्य शिखरम् स्थापयेत् विधिः । स्पुटिता इव अथ भिन्ने वा बिंबस्य उक्त-वत् आचरेथ् ॥ २७।२७५ ॥
pramādāt patitam gṛhya śikharam sthāpayet vidhiḥ . spuṭitā iva atha bhinne vā biṃbasya ukta-vat ācareth .. 27.275 ..
अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृथ् । विष्ठादिकरणे वापि उषिते वा निरन्तरं ॥ २७.२७६ ॥
अधिष्टिते तु शिखरे द्विजैः गृध्र-आदिभिः सकृथ् । विष्ठा-आदि-करणे वा अपि उषिते वा निरन्तरम् ॥ २७।२७६ ॥
adhiṣṭite tu śikhare dvijaiḥ gṛdhra-ādibhiḥ sakṛth . viṣṭhā-ādi-karaṇe vā api uṣite vā nirantaram .. 27.276 ..
वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेथ् । एष एव विधिः प्रोक्तो विमानशिखरादिषु ॥ २७.२७७ ॥
वास्तु-होमम् च हुत्वा एव पर्यग्निकरणम् चरेथ् । एषः एव विधिः प्रोक्तः विमान-शिखर-आदिषु ॥ २७।२७७ ॥
vāstu-homam ca hutvā eva paryagnikaraṇam careth . eṣaḥ eva vidhiḥ proktaḥ vimāna-śikhara-ādiṣu .. 27.277 ..
अधिष्ठानेन पादेन प्रस्तरेण च संयुतं । ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहरां ॥ २७.२७८ ॥
अधिष्ठानेन पादेन प्रस्तरेण च संयुतम् । ध्वज-मूले तु इष्टकाभिः वेदिम् कुर्यात् मनोहराम् ॥ २७।२७८ ॥
adhiṣṭhānena pādena prastareṇa ca saṃyutam . dhvaja-mūle tu iṣṭakābhiḥ vedim kuryāt manoharām .. 27.278 ..
न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः । किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ॥ २७.२७९ ॥
न ताम् अपि अधितिष्ठेत नरः दीर्घम् जिजीविषुः । किम् पुनर् तत्र वक्तव्यम् आलयादि-अवरोहणे ॥ २७।२७९ ॥
na tām api adhitiṣṭheta naraḥ dīrgham jijīviṣuḥ . kim punar tatra vaktavyam ālayādi-avarohaṇe .. 27.279 ..
विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेथ् । धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ॥ २७.२८० ॥
विमानम् विष्णु-रूपम् स्यात् न तद्-पादात् इव । धाम-प्रदक्षिणे पूर्वम् कुर्यात् तत्र नमः-स्त्रियाः ॥ २७।२८० ॥
vimānam viṣṇu-rūpam syāt na tad-pādāt iva . dhāma-pradakṣiṇe pūrvam kuryāt tatra namaḥ-striyāḥ .. 27.280 ..
न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना । गोपुरस्य विमानस्य प्राकारस्यालयस्य च ॥ २७.२८१ ॥
न लङ्घयेत् ध्वज-छायाम् प्रदक्षिण-विधिम् विना । गोपुरस्य विमानस्य प्राकारस्य आलयस्य च ॥ २७।२८१ ॥
na laṅghayet dhvaja-chāyām pradakṣiṇa-vidhim vinā . gopurasya vimānasya prākārasya ālayasya ca .. 27.281 ..
प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेथ् । शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशं ॥ २७.२८२ ॥
प्रमादात् अतिलङ्घ्य एव प्राणायाम-शतम् चरेथ् । शिव-दृष्टिम् विष्णु-वृष्ठम् दुर्गायाः पार्श्वतस् दृशम् ॥ २७।२८२ ॥
pramādāt atilaṅghya eva prāṇāyāma-śatam careth . śiva-dṛṣṭim viṣṇu-vṛṣṭham durgāyāḥ pārśvatas dṛśam .. 27.282 ..
विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः । यावच्छावतरेच्छाया तावती दोषभूमिका ॥ २७.२८३ ॥
विघ्नेशस्य ऊर्ध्व-दृष्टिम् च तीक्ष्णम् आहुः मनीषिणः । यावत् शावतरेत् छाया तावती दोष-भूमिका ॥ २७।२८३ ॥
vighneśasya ūrdhva-dṛṣṭim ca tīkṣṇam āhuḥ manīṣiṇaḥ . yāvat śāvataret chāyā tāvatī doṣa-bhūmikā .. 27.283 ..
दोषभूमिं परित्यज्य निवासं परिकल्पयेथ् । त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृथ् ॥ २७.२८४ ॥
दोष-भूमिम् परित्यज्य निवासम् परिकल्पयेथ् । त्यागे संपद्-समृद्धिः स्यात् अन्यथा ॥ २७।२८४ ॥
doṣa-bhūmim parityajya nivāsam parikalpayeth . tyāge saṃpad-samṛddhiḥ syāt anyathā .. 27.284 ..
रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृथ् । अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ॥ २७.२८५ ॥
रधि-आदिभिः यथा भूयात् अन्तरम् तत् न दोष-कृथ् । अथ वा शत-दण्ड-अन्तम् त्यक्त्वा अन्वे वसतिम् जगुः ॥ २७।२८५ ॥
radhi-ādibhiḥ yathā bhūyāt antaram tat na doṣa-kṛth . atha vā śata-daṇḍa-antam tyaktvā anve vasatim jaguḥ .. 27.285 ..
यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा । ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ॥ २७.२८६ ॥
यावत् धाम आयतम् दावत्-पृष्ठम् वा मुघम् एव वा । ततस् अधिकम् तत् च तत् च केचिद् आहुः मनीषिणः ॥ २७।२८६ ॥
yāvat dhāma āyatam dāvat-pṛṣṭham vā mugham eva vā . tatas adhikam tat ca tat ca kecid āhuḥ manīṣiṇaḥ .. 27.286 ..
ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु । तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ॥ २७.२८७ ॥
ध्वजम् नित्यम् उशन्ति एके यत्र एकः हि अनवायिषु । तत्र आरोहण-कर्म-आदि न इच्छन्ति परम-ऋषयः ॥ २७।२८७ ॥
dhvajam nityam uśanti eke yatra ekaḥ hi anavāyiṣu . tatra ārohaṇa-karma-ādi na icchanti parama-ṛṣayaḥ .. 27.287 ..
औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते । ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ॥ २७.२८८ ॥
औत्सवम् ध्वजम् आस्थाप्य तत्र कार्यम् प्रकुर्वते । ध्वजम् एकम् तु सर्वत्र केचिद् आहुः मनीषिणः ॥ २७।२८८ ॥
autsavam dhvajam āsthāpya tatra kāryam prakurvate . dhvajam ekam tu sarvatra kecid āhuḥ manīṣiṇaḥ .. 27.288 ..
अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिं । प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ॥ २७.२८९ ॥
अतस् परम् प्रवक्ष्यामि ध्वज-दण्डे तु निष्कृतिम् । प्रमादात् पतिते भूम्याम् ध्वजे वात-आदिना दृढे ॥ २७।२८९ ॥
atas param pravakṣyāmi dhvaja-daṇḍe tu niṣkṛtim . pramādāt patite bhūmyām dhvaje vāta-ādinā dṛḍhe .. 27.289 ..
अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेथ् । अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणं ॥ २७.२९० ॥
अ भग्ने वा अथ भग्ने वा ध्वजम् तत्र पूनः क्षिपेथ् । अ भग्ने तम् ध्वजम् गृह्य कृत्वा मन्त्रेण तक्षणम् ॥ २७।२९० ॥
a bhagne vā atha bhagne vā dhvajam tatra pūnaḥ kṣipeth . a bhagne tam dhvajam gṛhya kṛtvā mantreṇa takṣaṇam .. 27.290 ..
अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः । भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेथ् ॥ २७.२९१ ॥
अधिवास-आदिकम् कृत्वा स्थापयेत् बुधः । भग्ने ध्वजे न स ग्राह्यः तम् अप्सु विधिना ॥ २७।२९१ ॥
adhivāsa-ādikam kṛtvā sthāpayet budhaḥ . bhagne dhvaje na sa grāhyaḥ tam apsu vidhinā .. 27.291 ..
ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितं । चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ॥ २७.२९२ ॥
ततस् अन्यम् ध्वजम् आदाय स्थापयेत् अविलंबितम् । चोर-आद्यैः बुद्धि-पूर्वम् वा पातिते पूर्ववत् विधिः ॥ २७।२९२ ॥
tatas anyam dhvajam ādāya sthāpayet avilaṃbitam . cora-ādyaiḥ buddhi-pūrvam vā pātite pūrvavat vidhiḥ .. 27.292 ..
तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः । अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ॥ २७.२९३ ॥
तत्र अधिकम् प्रकुर्वीत शिल्पिभिः तक्षणम् पुनर् । अ भग्न-ध्वज-वत् कुर्यात् अन्यत् पूर्ववत् अत्वरः ॥ २७।२९३ ॥
tatra adhikam prakurvīta śilpibhiḥ takṣaṇam punar . a bhagna-dhvaja-vat kuryāt anyat pūrvavat atvaraḥ .. 27.293 ..
भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि । दुष्टभागस्य दानेन न कदाचित्परिग्रहः ॥ २७.२९४ ॥
भागेन अनुपयुक्तस्य ध्वजस्य त्याज्य-ता एव हि । दुष्ट-भागस्य दानेन न कदाचिद् परिग्रहः ॥ २७।२९४ ॥
bhāgena anupayuktasya dhvajasya tyājya-tā eva hi . duṣṭa-bhāgasya dānena na kadācid parigrahaḥ .. 27.294 ..
अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेथ् । दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ॥ २७.२९५ ॥
अथ वा सु दृडम् गृह्य प्रतिष्ठाम् महतीम् चरेथ् । दुष्टम् भागम् व्यपोह्य एव प्रमाणम् लक्षयेत् पुनर् ॥ २७।२९५ ॥
atha vā su dṛḍam gṛhya pratiṣṭhām mahatīm careth . duṣṭam bhāgam vyapohya eva pramāṇam lakṣayet punar .. 27.295 ..
प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा । संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ॥ २७.२९६ ॥
प्रमाणम् अप्रमाणम् वा ध्वजम् न अन्येन दारुणा । संयुताम् वर्धिताम् कुर्यात् एष सार्वत्रिकः विधिः ॥ २७।२९६ ॥
pramāṇam apramāṇam vā dhvajam na anyena dāruṇā . saṃyutām vardhitām kuryāt eṣa sārvatrikaḥ vidhiḥ .. 27.296 ..
यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकं । बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेथ् ॥ २७.२९७ ॥
ताम्र-आदिना कुर्यात् लोहेन कवच-आदिकम् । बाल-आलयम् प्रकल्प्य एव तत्रकार्यम् समाचरेथ् ॥ २७।२९७ ॥
tāmra-ādinā kuryāt lohena kavaca-ādikam . bāla-ālayam prakalpya eva tatrakāryam samācareth .. 27.297 ..
स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचिथ् । दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेथ् ॥ २७.२९८ ॥
स्थितम् एव ध्वजम् कुर्यात् न तु तम् चालयेत् क्वचिद् । दग्धम् ध्वजम् परित्यज्य पुनर् अन्यम् समाहरेथ् ॥ २७।२९८ ॥
sthitam eva dhvajam kuryāt na tu tam cālayet kvacid . dagdham dhvajam parityajya punar anyam samāhareth .. 27.298 ..
ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेथ् । तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेथ् ॥ २७.२९९ ॥
ध्वजे अन्त्य-जातिभिः स्पृष्टे महाशान्तिम् अथ आचरेथ् । तैः समीपम् उपेतैन् तु सहस्र-आहुतिम् आचरेथ् ॥ २७।२९९ ॥
dhvaje antya-jātibhiḥ spṛṣṭe mahāśāntim atha ācareth . taiḥ samīpam upetain tu sahasra-āhutim ācareth .. 27.299 ..
पतिते वात्यया चैवं ध्वजस्य शिखरे तथा । मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ॥ २७.३०० ॥
पतिते वा अत्यया च एवम् ध्वजस्य शिखरे तथा । मेखलासु च तत् सर्वम् नवीकृत्य यथाविधि ॥ २७।३०० ॥
patite vā atyayā ca evam dhvajasya śikhare tathā . mekhalāsu ca tat sarvam navīkṛtya yathāvidhi .. 27.300 ..
ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेथ् । ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ॥ २७.३०१ ॥
ध्वज-दण्डे तु संयोज्य प्रतिष्ठाम् पुनर् आचरेथ् । ध्वजस्य चलने च अपि प्रमादात् व्रश्चने तथा ॥ २७।३०१ ॥
dhvaja-daṇḍe tu saṃyojya pratiṣṭhām punar ācareth . dhvajasya calane ca api pramādāt vraścane tathā .. 27.301 ..
भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेथ् । एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ॥ २७.३०२ ॥
ध्वजस्य उक्त-निष्कृतिम् तु समाचरेथ् । एषः एव विधिः प्रोक्तः दण्डेषु अनु एषु सर्वतस् ॥ २७।३०२ ॥
dhvajasya ukta-niṣkṛtim tu samācareth . eṣaḥ eva vidhiḥ proktaḥ daṇḍeṣu anu eṣu sarvatas .. 27.302 ..
अशन्यादिनिपातेन धामन्यन्तरिते यदि । देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेथ् ॥ २७.३०३ ॥
अशनि-आदि-निपातेन धामनि अन्तरिते यदि । देवे नष्टे ध्वजे सुस्थे ध्वजस्य आराधनम् भवेथ् ॥ २७।३०३ ॥
aśani-ādi-nipātena dhāmani antarite yadi . deve naṣṭe dhvaje susthe dhvajasya ārādhanam bhaveth .. 27.303 ..
आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजं । निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ॥ २७.३०४ ॥
आलयम् च पुनर् कृत्वा तम् एव आराधयेत् ध्वजम् । निरीक्ष्य त्रीणि वर्षाणि देवागारे तु अनिर्मिते ॥ २७।३०४ ॥
ālayam ca punar kṛtvā tam eva ārādhayet dhvajam . nirīkṣya trīṇi varṣāṇi devāgāre tu anirmite .. 27.304 ..
तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः । अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेथ् ॥ २७.३०५ ॥
तत्र देवः न रमते तद्-ध्वजम् तु त्यजेत् सुधीः । अथ वा यत्र कुत्र अपि प्रतिष्ठाप्य समर्चयेथ् ॥ २७।३०५ ॥
tatra devaḥ na ramate tad-dhvajam tu tyajet sudhīḥ . atha vā yatra kutra api pratiṣṭhāpya samarcayeth .. 27.305 ..
अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितं । पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ॥ २७.३०६ ॥
अथ वक्ष्ये ध्वज-स्थानम् यथा शास्त्र-विनिश्चितम् । पिठ-गोपुरयोः मध्ये पञ्च-भागम् प्रकल्प्य च ॥ २७।३०६ ॥
atha vakṣye dhvaja-sthānam yathā śāstra-viniścitam . piṭha-gopurayoḥ madhye pañca-bhāgam prakalpya ca .. 27.306 ..
पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः । तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेथ् ॥ २७.३०७ ॥
पीठात् त्यक्त्या चतुर्-भागम् पञ्चमे ध्वज-संस्थितिः । तत् संधौ तु प्रशस्तम् स्यात् यथा संफवम् आचरेथ् ॥ २७।३०७ ॥
pīṭhāt tyaktyā catur-bhāgam pañcame dhvaja-saṃsthitiḥ . tat saṃdhau tu praśastam syāt yathā saṃphavam ācareth .. 27.307 ..
यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेथ् । अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेथ् ॥ २७.३०८ ॥
यदि प्राकार-बाह्ये स्यात् ध्वजः शास्त्र-वत् आचरेथ् । अनुक्त-स्थान-निहितम् तम् च शास्त्र-वत् आचरेथ् ॥ २७।३०८ ॥
yadi prākāra-bāhye syāt dhvajaḥ śāstra-vat ācareth . anukta-sthāna-nihitam tam ca śāstra-vat ācareth .. 27.308 ..
अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमाथ् । देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेथ् ॥ २७.३०९ ॥
अशक्तौ पुनर् अन्यम् च प्राकारम् कारयेत् क्रमाथ् । देव-दृश्-विषयम् कुर्यात् ध्वजम् ॥ २७।३०९ ॥
aśaktau punar anyam ca prākāram kārayet kramāth . deva-dṛś-viṣayam kuryāt dhvajam .. 27.309 ..
यदा चान्यालयैर्वापि गोपुरादिभिरेव वा । अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ॥ २७.३१० ॥
यदा च अन्य-आलयैः वा अपि गोपुर-आदिभिः एव वा । अभ्यन्तरम् भवेत् चेद् तु छिद्रम् कुर्यात् तु दृक्पथे ॥ २७।३१० ॥
yadā ca anya-ālayaiḥ vā api gopura-ādibhiḥ eva vā . abhyantaram bhavet ced tu chidram kuryāt tu dṛkpathe .. 27.310 ..
वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च । तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः ॥ २७.३११ ॥
वृक्ष-आद्यैः पतितैः नष्टे चालिते अवनते अपि च । तत् हि अजम् पूर्ववत् कुर्यात् त्रि-मास-अभ्यन्तरे अत्वरः ॥ २७।३११ ॥
vṛkṣa-ādyaiḥ patitaiḥ naṣṭe cālite avanate api ca . tat hi ajam pūrvavat kuryāt tri-māsa-abhyantare atvaraḥ .. 27.311 ..
कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे । कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ॥ २७.३१२ ॥
कृमि-आदिभिः विहङ्गैः वाकोटर-आदौ कृते ध्वजे । कृत्वा बाल-आलयम् पश्चात् समीकृत्य अर्चयेत् पुनर् ॥ २७।३१२ ॥
kṛmi-ādibhiḥ vihaṅgaiḥ vākoṭara-ādau kṛte dhvaje . kṛtvā bāla-ālayam paścāt samīkṛtya arcayet punar .. 27.312 ..
रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते । बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेथ् ॥ २७.३१३ ॥
रज्जु-बन्ध-आदि-करणे ध्वजस्य आरोहणे कृते । बाल-आलयम् न तत्र स्यात् वास्तुशुद्धिम् ॥ २७।३१३ ॥
rajju-bandha-ādi-karaṇe dhvajasya ārohaṇe kṛte . bāla-ālayam na tatra syāt vāstuśuddhim .. 27.313 ..
प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते । अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमं ॥ २७.३१४ ॥
प्राक्षयेत् पञ्चगव्यैः तु ध्वज-मन्त्रेण हूयते । अतस् ऊर्ध्वम् प्रवक्ष्यामि निष्कृता-वर्चन-क्रमम् ॥ २७।३१४ ॥
prākṣayet pañcagavyaiḥ tu dhvaja-mantreṇa hūyate . atas ūrdhvam pravakṣyāmi niṣkṛtā-varcana-kramam .. 27.314 ..
उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे । पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभं ॥ २७.३१५ ॥
उक्तेन विधिना यत्र नष्टे दुष्टे अपि वा ध्वजे । कुर्यात् वेणु-ध्वजम् शुभम् ॥ २७।३१५ ॥
uktena vidhinā yatra naṣṭe duṣṭe api vā dhvaje . kuryāt veṇu-dhvajam śubham .. 27.315 ..
अथ वा कारयेद्विद्वान्सुवर्णरजतादिभिः । ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेथ् ॥ २७.३१६ ॥
अथ वा कारयेत् विद्वान् सुवर्ण-रजत-आदिभिः । ध्वजम् ताल-उन्नतम् स्थाप्य गर्भ-गेहे तु ॥ २७।३१६ ॥
atha vā kārayet vidvān suvarṇa-rajata-ādibhiḥ . dhvajam tāla-unnatam sthāpya garbha-gehe tu .. 27.316 ..
अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेथ् । अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ॥ २७.३१७ ॥
अधिवास-आदि तत् सर्वम् प्रतिष्ठा-उक्त-वत् आचरेथ् । अचलः वेणुदण्डः स्यात् गर्भगेहे भवेत् चलः ॥ २७।३१७ ॥
adhivāsa-ādi tat sarvam pratiṣṭhā-ukta-vat ācareth . acalaḥ veṇudaṇḍaḥ syāt garbhagehe bhavet calaḥ .. 27.317 ..
उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेथ् । चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयं ॥ २७.३१८ ॥
उत्सव-आदौ तु सर्वत्र वेणु-दण्डम् समाचरेथ् । चलदण्डः वेणुदण्डः इति स्यात् उत्सवेद्वयम् ॥ २७।३१८ ॥
utsava-ādau tu sarvatra veṇu-daṇḍam samācareth . caladaṇḍaḥ veṇudaṇḍaḥ iti syāt utsavedvayam .. 27.318 ..
उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः । ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ॥ २७.३१९ ॥
उत्सव-आदौ प्रवृत्ते तु उक्त-दोषे तु अयम् विधिः । ध्वज-स्थम् गरुडम् तस्मात् अवमुच्य समाहितः ॥ २७।३१९ ॥
utsava-ādau pravṛtte tu ukta-doṣe tu ayam vidhiḥ . dhvaja-stham garuḍam tasmāt avamucya samāhitaḥ .. 27.319 ..
नीत्वातु यागशालायां संस्थाप्य तु समर्चयेथ् । वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन्प्रयोजयेथ् ॥ २७.३२० ॥
नीत्वा तु याग-शालायाम् संस्थाप्य तु । वेणु-दण्डम् प्रतिष्ठाप्य सद्यस् तस्मिन् प्रयोजयेथ् ॥ २७।३२० ॥
nītvā tu yāga-śālāyām saṃsthāpya tu . veṇu-daṇḍam pratiṣṭhāpya sadyas tasmin prayojayeth .. 27.320 ..
महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च । वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ॥ २७.३२१ ॥
महाशान्तिम् तथा कुर्यात् सहस्र-आहुतिम् एव च । वैष्णवम् विष्णु-दैवत्यम् गारुडम् ध्वाजम् एव च ॥ २७।३२१ ॥
mahāśāntim tathā kuryāt sahasra-āhutim eva ca . vaiṣṇavam viṣṇu-daivatyam gāruḍam dhvājam eva ca .. 27.321 ..
सौदर्शनं च कूश्माण्डान्शतमष्टाधिकं यजेथ् । तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ॥ २७.३२२ ॥
सौदर्शनम् च कूश्माण्डान् शतम् अष्ट-अधिकम् यजेथ् । तथा एव दीप-दण्डस्य भवेत् सर्वत्र चक्रमः ॥ २७।३२२ ॥
saudarśanam ca kūśmāṇḍān śatam aṣṭa-adhikam yajeth . tathā eva dīpa-daṇḍasya bhavet sarvatra cakramaḥ .. 27.322 ..
ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेथ् । तत्र दीपं समारोप्य न लभेत्फलमव्ययं ॥ २७.३२३ ॥
ध्वजे ना आरोपयेत् दीपम् दीप-दण्डः । तत्र दीपम् समारोप्य न लभेत् फलम् अव्ययम् ॥ २७।३२३ ॥
dhvaje nā āropayet dīpam dīpa-daṇḍaḥ . tatra dīpam samāropya na labhet phalam avyayam .. 27.323 ..
ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेथ् । आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणं ॥ २७.३२४ ॥
ध्वजे दीपम् समारोप्य वैष्णवम् शतशस् । आपद्-कल्पम् प्रवक्ष्यन्ति ध्वजे दीप-अवरोहणम् ॥ २७।३२४ ॥
dhvaje dīpam samāropya vaiṣṇavam śataśas . āpad-kalpam pravakṣyanti dhvaje dīpa-avarohaṇam .. 27.324 ..
दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेथ् । वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ॥ २७.३२५ ॥
दीप-युक्ते ध्वजे नष्टे पूर्ववत् निष्कृतिम् चरेथ् । वीश-प्रतिष्ठा-हीने तु ध्वजस्य आरोहणे कृते ॥ २७।३२५ ॥
dīpa-yukte dhvaje naṣṭe pūrvavat niṣkṛtim careth . vīśa-pratiṣṭhā-hīne tu dhvajasya ārohaṇe kṛte .. 27.325 ..
वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च । गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेथ् ॥ २७.३२६ ॥
वैष्णवम् विष्णुसूक्तम् च नृसूक्तम् ध्वाजम् एव च । गारुडम् दशशस् हुत्वा प्रतिष्ठाम् पुनर् आचरेथ् ॥ २७।३२६ ॥
vaiṣṇavam viṣṇusūktam ca nṛsūktam dhvājam eva ca . gāruḍam daśaśas hutvā pratiṣṭhām punar ācareth .. 27.326 ..
ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस्तथा । हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितं ॥ २७.३२७ ॥
ध्वजदेवस्य चक्रस्य शान्त-नन्दीशयोः तथा । वैष्णवम् च तद्-दैवत्य-समन्वितम् ॥ २७।३२७ ॥
dhvajadevasya cakrasya śānta-nandīśayoḥ tathā . vaiṣṇavam ca tad-daivatya-samanvitam .. 27.327 ..
हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेथ् । भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ॥ २७.३२८ ॥
हुत्वा एव पुनर् अभ्यर्च्य पश्चात् कार्यम् समाचरेथ् । भेरी-ताडन-हीने च रौद्रम् च व्याहृतीः तथा ॥ २७।३२८ ॥
hutvā eva punar abhyarcya paścāt kāryam samācareth . bherī-tāḍana-hīne ca raudram ca vyāhṛtīḥ tathā .. 27.328 ..
हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेथ् । अर्चनादिषु सर्वत्र यत्र घण्टानिनादनं ॥ २७.३२९ ॥
हुत्वा महाव्याहृतीः च भेरी-ताडनम् आचरेथ् । अर्चन-आदिषु सर्वत्र यत्र घण्टा-निनादनम् ॥ २७।३२९ ॥
hutvā mahāvyāhṛtīḥ ca bherī-tāḍanam ācareth . arcana-ādiṣu sarvatra yatra ghaṇṭā-ninādanam .. 27.329 ..
एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेथ् । आरोपिते तु गरुडे हीने चैव निवेदने ॥ २७.३३० ॥
एषः एव विधिः प्रोक्तः प्रायश्चित्तम् समाचरेथ् । आरोपिते तु गरुडे हीने च एव निवेदने ॥ २७।३३० ॥
eṣaḥ eva vidhiḥ proktaḥ prāyaścittam samācareth . āropite tu garuḍe hīne ca eva nivedane .. 27.330 ..
वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च । निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेथ् ॥ २७.३३१ ॥
वैष्णवम् ध्वम् मेत्रौ च हुत्वा गारुडम् एव च । निवेदयेत् तु द्विगुणम् "क्षम अस्व इति अनुमानयेथ् ॥ २७।३३१ ॥
vaiṣṇavam dhvam metrau ca hutvā gāruḍam eva ca . nivedayet tu dviguṇam "kṣama asva iti anumānayeth .. 27.331 ..
मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतं । आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ॥ २७.३३२ ॥
मुद्ग-अन्ने तु तथा हीने वैष्णवम् वायु-दैवतम् । आग्नेय-मीङ्कार-आदीन् च गारुडम् ध्वाजम् एव च ॥ २७।३३२ ॥
mudga-anne tu tathā hīne vaiṣṇavam vāyu-daivatam . āgneya-mīṅkāra-ādīn ca gāruḍam dhvājam eva ca .. 27.332 ..
हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेथ् । वर्षवातातपैस्सम्यगुपघातादिसंभवे ॥ २७.३३३ ॥
हुत्वा यत्नेन बहुशस् मौद्गिकम् च । वर्ष-वात-आतपैः सम्यक् उपघात-आदि-संभवे ॥ २७।३३३ ॥
hutvā yatnena bahuśas maudgikam ca . varṣa-vāta-ātapaiḥ samyak upaghāta-ādi-saṃbhave .. 27.333 ..
विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृथ् । रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च ॥ २७.३३४ ॥
विष्ठा-आदि-उपहते च एव पक्षिणाम् असकृत् सकृथ् । रज्जु-आदि-त्रुटने च एव प्रमादात् पतने अपि च ॥ २७।३३४ ॥
viṣṭhā-ādi-upahate ca eva pakṣiṇām asakṛt sakṛth . rajju-ādi-truṭane ca eva pramādāt patane api ca .. 27.334 ..
पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते । शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ॥ २७.३३५ ॥
पातिते बुद्धि-पूर्वम् वा अकाले अपि अवरोपिते । शूद्र-आद्यैः अनुलोमैः वा स्पृष्टे ध्वज-गते पटे ॥ २७।३३५ ॥
pātite buddhi-pūrvam vā akāle api avaropite . śūdra-ādyaiḥ anulomaiḥ vā spṛṣṭe dhvaja-gate paṭe .. 27.335 ..
अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतं । उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ॥ २७.३३६ ॥
अशुचिम् शोधयित्वा अन्यत् समीकृत्य अ समीकृतम् । उत्सव-अधिप-दैवत्यम् षष्-वारम् जुहुयात् गुरुः ॥ २७।३३६ ॥
aśucim śodhayitvā anyat samīkṛtya a samīkṛtam . utsava-adhipa-daivatyam ṣaṣ-vāram juhuyāt guruḥ .. 27.336 ..
गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयतां । ततश्शेषं समाप्येत विपरीतं न कारयेथ् ॥ २७.३३७ ॥
गारुडम् ध्वज-मन्त्रम् च स हस्तम् च एव हूयताम् । ततस् शेषम् समाप्येत विपरीतम् न ॥ २७।३३७ ॥
gāruḍam dhvaja-mantram ca sa hastam ca eva hūyatām . tatas śeṣam samāpyeta viparītam na .. 27.337 ..
प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेथ् । शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेथ् ॥ २७.३३८ ॥
प्रमादात् बुद्धि-पूर्वम् वा पटे दग्धे अन्यम् आहरेथ् । शान्तिम् पूर्व-उदिताम् कृत्वा प्रतिष्ठाम् पुनर् आचरेथ् ॥ २७।३३८ ॥
pramādāt buddhi-pūrvam vā paṭe dagdhe anyam āhareth . śāntim pūrva-uditām kṛtvā pratiṣṭhām punar ācareth .. 27.338 ..
अवरोहणमुद्वासन्तं च मन्त्रेण कारयेथ् । अवरोहणहीने तु मन्त्रेणोद्वासनं भवेथ् ॥ २७.३३९ ॥
अवरोहणम् उद्वासन्तम् च मन्त्रेण कारयेथ् । अवरोहण-हीने तु मन्त्रेण उद्वासनम् ॥ २७।३३९ ॥
avarohaṇam udvāsantam ca mantreṇa kārayeth . avarohaṇa-hīne tu mantreṇa udvāsanam .. 27.339 ..
ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे । अप्रमाणं पटं गृह्य महाशान्तिं समाचरेथ् ॥ २७.३४० ॥
ततस् शेषम् प्रकूर्वीत अशक्तौ अवरोहणे । अप्रमाणम् पटम् गृह्य महाशान्तिम् समाचरेथ् ॥ २७।३४० ॥
tatas śeṣam prakūrvīta aśaktau avarohaṇe . apramāṇam paṭam gṛhya mahāśāntim samācareth .. 27.340 ..
पुनरन्यं समादाय कर्मशेषं समाचरेथ् । हीने तु चोत्सवारंभस्नपने वैष्णवं तथा ॥ २७.३४१ ॥
पुनर् अन्यम् समादाय कर्म-शेषम् समाचरेथ् । हीने तु च उत्सव-आरंभ-स्नपने वैष्णवम् तथा ॥ २७।३४१ ॥
punar anyam samādāya karma-śeṣam samācareth . hīne tu ca utsava-āraṃbha-snapane vaiṣṇavam tathā .. 27.341 ..
विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते । शुद्धोददैरभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ॥ २७.३४२ ॥
विष्णुसूक्तम् नृसूक्तम् च वारुणम् च एव हूयते । शुद्ध-उद-दैः अभिषाकः स्यात् प्रायश्चित्त-विधिः स्मृतः ॥ २७।३४२ ॥
viṣṇusūktam nṛsūktam ca vāruṇam ca eva hūyate . śuddha-uda-daiḥ abhiṣākaḥ syāt prāyaścitta-vidhiḥ smṛtaḥ .. 27.342 ..
हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च । सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ॥ २७.३४३ ॥
हीने कौतुकबन्धे तु वैष्णवम् शान्तम् एव च । सौदर्शनम् च हुत्वा तु कौतुकम् बन्धयेत् पुनर् ॥ २७।३४३ ॥
hīne kautukabandhe tu vaiṣṇavam śāntam eva ca . saudarśanam ca hutvā tu kautukam bandhayet punar .. 27.343 ..
यज्ञागारे कुंभवेद्याहीने वाप्यधिकेऽपि वा । वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ॥ २७.३४४ ॥
यज्ञ-आगारे कुंभ-वेद्य-अहीने वा अपि अधिके अपि वा । वैष्णवम् पावकम् भूमि-दैवत्यम् च हुनेत् बुधः ॥ २७।३४४ ॥
yajña-āgāre kuṃbha-vedya-ahīne vā api adhike api vā . vaiṣṇavam pāvakam bhūmi-daivatyam ca hunet budhaḥ .. 27.344 ..
तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् । हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियाथ् ॥ २७.३४५ ॥
तोरणानाम् अलाभे तु हुनेत् दौवारिकान् मनून् । हीनायाम् दर्भ-मालायाम् आर्षम् हुत्वा इतरान् क्रियाथ् ॥ २७।३४५ ॥
toraṇānām alābhe tu hunet dauvārikān manūn . hīnāyām darbha-mālāyām ārṣam hutvā itarān kriyāth .. 27.345 ..
अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेथ् । प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ॥ २७.३४६ ॥
अलङ्कार-विहीने तु श्री-दैवत्यम् तधा । प्रातर् बलिम् तु निर्वाप्य हीने नित्य-उत्सवे तथा ॥ २७।३४६ ॥
alaṅkāra-vihīne tu śrī-daivatyam tadhā . prātar balim tu nirvāpya hīne nitya-utsave tathā .. 27.346 ..
वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतं । सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमाथ् ॥ २७.३४७ ॥
वैष्णवम् शान्तौ ईशौ च हुत्वा च उत्सव-दैवतम् । सायम् कुर्यात् उत्सवम् तु द्विगुणम् कारयेत् क्रमाथ् ॥ २७।३४७ ॥
vaiṣṇavam śāntau īśau ca hutvā ca utsava-daivatam . sāyam kuryāt utsavam tu dviguṇam kārayet kramāth .. 27.347 ..
सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेथ् । एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिं ॥ २७.३४८ ॥
सायम् हीनम् तु द्विगुणम् प्रातर् उत्सवम् आचरेथ् । एक-काल-उत्सवः चेद् तु कृत्वा काल-द्वयम् बलिम् ॥ २७।३४८ ॥
sāyam hīnam tu dviguṇam prātar utsavam ācareth . eka-kāla-utsavaḥ ced tu kṛtvā kāla-dvayam balim .. 27.348 ..
सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः । दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेथ् ॥ २७.३४९ ॥
सायाह्ने च उत्सवम् कुर्यात् काल-अतीते अपि अयम् विधिः । दिग्देवताः समावाह्य प्रथमे अहनि पूजयेथ् ॥ २७।३४९ ॥
sāyāhne ca utsavam kuryāt kāla-atīte api ayam vidhiḥ . digdevatāḥ samāvāhya prathame ahani pūjayeth .. 27.349 ..
प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणं । देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेथ् ॥ २७.३५० ॥
प्राची-आदि बलि-दानम् स्यात् ईशान-अन्तम् प्रदक्षिणम् । देव-आह्वाने व्यत्ययः स्यात् व्यतीहारः अथ वा ॥ २७।३५० ॥
prācī-ādi bali-dānam syāt īśāna-antam pradakṣiṇam . deva-āhvāne vyatyayaḥ syāt vyatīhāraḥ atha vā .. 27.350 ..
पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेथ् । ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकं ॥ २७.३५१ ॥
पूर्व-उक्ताम् निष्कृतिम् कृत्वा द्विगुणम् तु बलिम् । ब्रह्मणः च दिगीशानाम् बलि-दानम् तु नैत्यिकम् ॥ २७।३५१ ॥
pūrva-uktām niṣkṛtim kṛtvā dviguṇam tu balim . brahmaṇaḥ ca digīśānām bali-dānam tu naityikam .. 27.351 ..
अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः । चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ॥ २७.३५२ ॥
अदाने निष्कृतिम् कृत्वा पूर्व-उक्तम् षड्गुणम् बलिः । चतुष्पथ-अधिदेवानाम् वृक्ष-आदीनाम् अथ इच्छया ॥ २७।३५२ ॥
adāne niṣkṛtim kṛtvā pūrva-uktam ṣaḍguṇam baliḥ . catuṣpatha-adhidevānām vṛkṣa-ādīnām atha icchayā .. 27.352 ..
प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः । प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ॥ २७.३५३ ॥
प्रथम-आवाहनात् अर्वाक् व्यत्यये पूर्व-निष्कृतिः । प्रथमम् वास्तु-शुद्धिः स्यात् अद्य वै दीयते बलिः ॥ २७।३५३ ॥
prathama-āvāhanāt arvāk vyatyaye pūrva-niṣkṛtiḥ . prathamam vāstu-śuddhiḥ syāt adya vai dīyate baliḥ .. 27.353 ..
अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः । अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिं ॥ २७.३५४ ॥
अन्तम् शुद्धि-अन्ति रथ्याः ताः शुर्ध्यन्ति समये पुनर् । अ कृतायाम् वास्तु-शुद्धौ दद्यात् रथ्यासु चेद् बलिम् ॥ २७।३५४ ॥
antam śuddhi-anti rathyāḥ tāḥ śurdhyanti samaye punar . a kṛtāyām vāstu-śuddhau dadyāt rathyāsu ced balim .. 27.354 ..
शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः । अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेथ् ॥ २७.३५५ ॥
शान्तिम् कृत्वा तु पूर्व-उक्ताम् वास्तुशुद्धिम् । अन्तश्शचे वास्तुनि तु न बलि-भ्रमणम् चरेथ् ॥ २७।३५५ ॥
śāntim kṛtvā tu pūrva-uktām vāstuśuddhim . antaśśace vāstuni tu na bali-bhramaṇam careth .. 27.355 ..
शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेथ् । अकाले बलिदानं स्यादसुरप्रीतिवर्धनं ॥ २७.३५६ ॥
शवम् उद्धृत्य पश्चात् तु पर्यग्नि करणम् । अकाले बलि-दानम् स्यात् असुर-प्रीति-वर्धनम् ॥ २७।३५६ ॥
śavam uddhṛtya paścāt tu paryagni karaṇam . akāle bali-dānam syāt asura-prīti-vardhanam .. 27.356 ..
अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः । बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ॥ २७.३५७ ॥
अकाले तु बलिम् द-त्वा काले तु त्रिगुणम् बलिः । बलि-भ्रमण-देशः स्यात् देवस्य भ्रमणाय हि ॥ २७।३५७ ॥
akāle tu balim da-tvā kāle tu triguṇam baliḥ . bali-bhramaṇa-deśaḥ syāt devasya bhramaṇāya hi .. 27.357 ..
नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा । न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ॥ २७.३५८ ॥
न अन्यत्र चर्या देवस्य । न हि श्रद्धा-उत्सवे दोषम् उशन्ति एनम् स हि इतरः ॥ २७।३५८ ॥
na anyatra caryā devasya . na hi śraddhā-utsave doṣam uśanti enam sa hi itaraḥ .. 27.358 ..
वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ । अनुमान्य च देवेशं शताष्टकलशाप्लवः ॥ २७.३५९ ॥
वास्तु-वृद्धौ तथा ह्रासे ग्राम-सीमा-अनवीकृतौ । अनुमान्य च देवेशम् शत-अष्ट-कलश-आप्लवः ॥ २७।३५९ ॥
vāstu-vṛddhau tathā hrāse grāma-sīmā-anavīkṛtau . anumānya ca deveśam śata-aṣṭa-kalaśa-āplavaḥ .. 27.359 ..
कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेथ् । अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ॥ २७.३६० ॥
कृत्वा सीमाम् विनिश्चित्य ततस् कार्यम् समाचरेथ् । अस्तरा च उत्सवम् कुर्यात् सहस्र-कलश-आप्लवः ॥ २७।३६० ॥
kṛtvā sīmām viniścitya tatas kāryam samācareth . astarā ca utsavam kuryāt sahasra-kalaśa-āplavaḥ .. 27.360 ..
देवतावाहनं कृत्वा तथैवोत्सव माचरेथ् । देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ॥ २७.३६१ ॥
देवता-वाहनम् कृत्वा तथा एव उत्सव माचरेथ् । देव-आदीनाम् बलम् यस्मात् वर्धते स बलिः स्मृतः ॥ २७।३६१ ॥
devatā-vāhanam kṛtvā tathā eva utsava mācareth . deva-ādīnām balam yasmāt vardhate sa baliḥ smṛtaḥ .. 27.361 ..
श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते । बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ॥ २७.३६२ ॥
श्व-सूकर-आदिभिः दुष्टैः न भक्ष्यः बलिः उच्यते । बलिभुज् वायसः प्रोक्तः गोमुख्याः मेध्यजन्तवः ॥ २७।३६२ ॥
śva-sūkara-ādibhiḥ duṣṭaiḥ na bhakṣyaḥ baliḥ ucyate . balibhuj vāyasaḥ proktaḥ gomukhyāḥ medhyajantavaḥ .. 27.362 ..
विपरीते महान्दोषस्तन्मन्त्रैर्हावयेच्छतं । बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक् ॥ २७.३६३ ॥
विपरीते महान् दोषः तद्-मन्त्रैः हावयेत् शतम् । बलि-शेषम् न शूद्रः अद्यात् अर्चकः बलि-शेष-भाज् ॥ २७।३६३ ॥
viparīte mahān doṣaḥ tad-mantraiḥ hāvayet śatam . bali-śeṣam na śūdraḥ adyāt arcakaḥ bali-śeṣa-bhāj .. 27.363 ..
बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते । भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेथ् ॥ २७.३६४ ॥
बल-अवमन्त्रकम् क्षिप्ते संक्षिप्ते विधि-वर्जिते । भक्षिते च अनुलोम-आद्यैः पूर्व-उक्ताम् निष्कृतिम् ॥ २७।३६४ ॥
bala-avamantrakam kṣipte saṃkṣipte vidhi-varjite . bhakṣite ca anuloma-ādyaiḥ pūrva-uktām niṣkṛtim .. 27.364 ..
बलौ पर्युषितेऽत्युष्णे तथा चैवानिवेदिते । निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ॥ २७.३६५ ॥
बलौ पर्युषिते अति उष्णे तथा च एव अनिवेदिते । निवेदनात् प्राक् अर्वाक् वा अदृष्टे शूद्र-आदिभिः बलौ ॥ २७।३६५ ॥
balau paryuṣite ati uṣṇe tathā ca eva anivedite . nivedanāt prāk arvāk vā adṛṣṭe śūdra-ādibhiḥ balau .. 27.365 ..
पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः । देवतावाहनं यत्र देशेप्राक्क्रियते ततः ॥ २७.३६६ ॥
पूर्व-उक्ताम् निष्कृतिम् कृत्वा सर्वत्र द्विगुणम् बलिः । देवता-वाहनम् यत्र देशे प्राक् क्रियते ततस् ॥ २७।३६६ ॥
pūrva-uktām niṣkṛtim kṛtvā sarvatra dviguṇam baliḥ . devatā-vāhanam yatra deśe prāk kriyate tatas .. 27.366 ..
तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेथ् । मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ॥ २७.३६७ ॥
तत्र एव बलि-दानम् स्यात् यावत् उद्वासनम् । मण्डलम् च जलम् कूर्चम् आह्वान-आधारः उच्यते ॥ २७।३६७ ॥
tatra eva bali-dānam syāt yāvat udvāsanam . maṇḍalam ca jalam kūrcam āhvāna-ādhāraḥ ucyate .. 27.367 ..
रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेथ् । बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ॥ २७.३६८ ॥
रथ्यासु बलि-दानाय पीठम् । बलि-दानम् तु गुप्तम् स्यात् न तत् बश्यन्ति अवैदिकाः ॥ २७।३६८ ॥
rathyāsu bali-dānāya pīṭham . bali-dānam tu guptam syāt na tat baśyanti avaidikāḥ .. 27.368 ..
तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः । बलिप्रदानहीने तु वैष्णवं बलिरक्षकं ॥ २७.३६९ ॥
तु तिरस्कुर्यात् काले यवनिका-आदिभिः । बलि-प्रदान-हीने तु वैष्णवम् बलि-रक्षकम् ॥ २७।३६९ ॥
tu tiraskuryāt kāle yavanikā-ādibhiḥ . bali-pradāna-hīne tu vaiṣṇavam bali-rakṣakam .. 27.369 ..
हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा । बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा ॥ २७.३७० ॥
हुत्वा तु निष्कृतिम् कुर्यात् बलि-दानम् पुनर् तदा । बलि-द्रव्ये अथ वा पात्रे पतिते भू-तले तथा ॥ २७।३७० ॥
hutvā tu niṣkṛtim kuryāt bali-dānam punar tadā . bali-dravye atha vā pātre patite bhū-tale tathā .. 27.370 ..
भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेथ् । बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ॥ २७.३७१ ॥
भिन्ने नष्टे च पूर्व-उक्तम् हुत्वा अन्यम् बलिम् आहरेथ् । बलि-दानम् तु कृत्वा एव भुत-पीठे क्षिपेत् ततस् ॥ २७।३७१ ॥
bhinne naṣṭe ca pūrva-uktam hutvā anyam balim āhareth . bali-dānam tu kṛtvā eva bhuta-pīṭhe kṣipet tatas .. 27.371 ..
बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेथ् । वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडं ॥ २७.३७२ ॥
बलि-शेषम् अन् उक्ते तु स्थाने बुद्ध्या तु । वैष्णवम् च अक्षह-मनुम् वैष्वक्चेनम् च गारुडम् ॥ २७।३७२ ॥
bali-śeṣam an ukte tu sthāne buddhyā tu . vaiṣṇavam ca akṣaha-manum vaiṣvakcenam ca gāruḍam .. 27.372 ..
सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेथ् । हविर्निवेदने हीनेहीने च द्विगुणार्चने ॥ २७.३७३ ॥
सौदर्शनम् च हुत्वा एव भूतपीठे बलि क्षिपेथ् । हविः-निवेदने हीने हीने च द्विगुण-अर्चने ॥ २७।३७३ ॥
saudarśanam ca hutvā eva bhūtapīṭhe bali kṣipeth . haviḥ-nivedane hīne hīne ca dviguṇa-arcane .. 27.373 ..
शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेथ् । यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.३७४ ॥
शान्तिम् च वैष्णवम् हुत्वा तथा अभ्यर्च्य निवेदयेथ् । यथा उक्त-होमे हीने तु वैष्णवम् विष्णुसूक्तकम् ॥ २७।३७४ ॥
śāntim ca vaiṣṇavam hutvā tathā abhyarcya nivedayeth . yathā ukta-home hīne tu vaiṣṇavam viṣṇusūktakam .. 27.374 ..
नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः । चक्रवीशामितानां च कुंभस्थानामथापिवा ॥ २७.३७५ ॥
नृसूक्तम् च त्रयस्त्रिंशत्-कृत्वस् हुत्वा हुनेत् पुनर् । चक्रवीश-अमितानाम् च कुंभ-स्थानाम् अथ अपि वा ॥ २७।३७५ ॥
nṛsūktam ca trayastriṃśat-kṛtvas hutvā hunet punar . cakravīśa-amitānām ca kuṃbha-sthānām atha api vā .. 27.375 ..
देवानामर्चने हीने वैष्णवं विष्णुसूक्तकं । नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ॥ २७.३७६ ॥
देवानाम् अर्चने हीने वैष्णवम् विष्णुसूक्तकम् । नृसूक्तम् स अन्त-मन्त्रौ च गारुडम् च आक्रम् एव च ॥ २७।३७६ ॥
devānām arcane hīne vaiṣṇavam viṣṇusūktakam . nṛsūktam sa anta-mantrau ca gāruḍam ca ākram eva ca .. 27.376 ..
हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेथ् । देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवं ॥ २७.३७७ ॥
हुत्वा पुनर् समभ्यर्च्य विशेषेण निवेदयेथ् । देव-अलङ्करणे हीने श्री-दैवत्यम् च वैष्णवम् ॥ २७।३७७ ॥
hutvā punar samabhyarcya viśeṣeṇa nivedayeth . deva-alaṅkaraṇe hīne śrī-daivatyam ca vaiṣṇavam .. 27.377 ..
हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः । अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमं ॥ २७.३७८ ॥
हुद्वा अलङ्कारम् आसाद्य भूषयेत् गुरुः । अलङ्कारेषु द्रव्येषु निर्यासम् चन्दनम् सुमम् ॥ २७।३७८ ॥
hudvā alaṅkāram āsādya bhūṣayet guruḥ . alaṅkāreṣu dravyeṣu niryāsam candanam sumam .. 27.378 ..
तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः । पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ॥ २७.३७९ ॥
तत् हित्वा अन्यत् समादाय द्रव्यम् प्रक्षाल्य मन्त्रतः । पञ्चगव्यैः समभ्युक्ष्य तेन अलङ्कारः उच्यते ॥ २७।३७९ ॥
tat hitvā anyat samādāya dravyam prakṣālya mantrataḥ . pañcagavyaiḥ samabhyukṣya tena alaṅkāraḥ ucyate .. 27.379 ..
नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतं । स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ॥ २७.३८० ॥
नृत्ते गेये अथ वा हीने वैष्णवम् रुद्र-दैवतम् । स्तोत्र-हीने तथा ब्राह्मम् हुत्वा सारस्वतम् ततस् ॥ २७।३८० ॥
nṛtte geye atha vā hīne vaiṣṇavam rudra-daivatam . stotra-hīne tathā brāhmam hutvā sārasvatam tatas .. 27.380 ..
भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा । वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ॥ २७.३८१ ॥
भक्त-बृन्दैः परिवृतौ हीनायाम् वारुणम् तथा । वैष्णवम् शान्त-दैवत्यम् हीने पिच्छा-आदिके तथा ॥ २७।३८१ ॥
bhakta-bṛndaiḥ parivṛtau hīnāyām vāruṇam tathā . vaiṣṇavam śānta-daivatyam hīne picchā-ādike tathā .. 27.381 ..
वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः । यानात्काले यागशालां देवे न प्रतिगच्छति ॥ २७.३८२ ॥
वैष्णवम् जुहुयात् तद्वत् हविः-अक्ष-मनुम् ततस् । यानात् काले याग-शालाम् देवे न प्रतिगच्छति ॥ २७।३८२ ॥
vaiṣṇavam juhuyāt tadvat haviḥ-akṣa-manum tatas . yānāt kāle yāga-śālām deve na pratigacchati .. 27.382 ..
भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः । ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ॥ २७.३८३ ॥
भवेत् नित्य-अर्चनम् तत्र यत्र देवः अधिवासितः । ध्रुव-अर्चनम् यथा पूर्वम् न तत्र अस्ति व्यतिक्रमः ॥ २७।३८३ ॥
bhavet nitya-arcanam tatra yatra devaḥ adhivāsitaḥ . dhruva-arcanam yathā pūrvam na tatra asti vyatikramaḥ .. 27.383 ..
देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेथ् । दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवं ॥ २७.३८४ ॥
देवम् प्रत्यागतम् दृष्ट्या पुनर् अन्य-उत्सवम् चरेथ् । दिन-व्यपाये कुर्यात् च तद्-काल-नियत-उत्सवम् ॥ २७।३८४ ॥
devam pratyāgatam dṛṣṭyā punar anya-utsavam careth . dina-vyapāye kuryāt ca tad-kāla-niyata-utsavam .. 27.384 ..
अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेथ् । तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनं ॥ २७.३८५ ॥
अतीतम् उत्सवम् च अपि तन्त्रेण अत्र समाचरेथ् । तद्-दिने इपि अप्रमादात् चेद् भूयात् कालस्य यापनम् ॥ २७।३८५ ॥
atītam utsavam ca api tantreṇa atra samācareth . tad-dine ipi apramādāt ced bhūyāt kālasya yāpanam .. 27.385 ..
न जह्या देवकुर्याच्च तत्कालोचितमुत्सवं । अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ॥ २७.३८६ ॥
न जह्याः देव-कुर्यात् च तद्-काल-उचितम् उत्सवम् । अत्र प्रमादे तु भवेत् पूर्व-उक्ता एव हि निष्कृतिः ॥ २७।३८६ ॥
na jahyāḥ deva-kuryāt ca tad-kāla-ucitam utsavam . atra pramāde tu bhavet pūrva-uktā eva hi niṣkṛtiḥ .. 27.386 ..
दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः । चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृथ् ॥ २७.३८७ ॥
दीक्षितः वस्त्र-माल्य-आद्यैः पञ्च-आग-अर्पित-भूषणैः । चरेत् नित्यम् विशुद्ध-आत्मा विपरीते तु ॥ २७।३८७ ॥
dīkṣitaḥ vastra-mālya-ādyaiḥ pañca-āga-arpita-bhūṣaṇaiḥ . caret nityam viśuddha-ātmā viparīte tu .. 27.387 ..
दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा । नाशे तत्र महान्दोषस्तदान्यत्पुनराहरेथ् ॥ २७.३८८ ॥
दीक्षा-अङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा । नाशे तत्र महान् दोषः तदा अन्यत् पुनर् आहरेथ् ॥ २७।३८८ ॥
dīkṣā-aṅgasya tu vastrasya tathā pratisarasya vā . nāśe tatra mahān doṣaḥ tadā anyat punar āhareth .. 27.388 ..
सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेथ् । यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ॥ २७.३८९ ॥
सहस्रम् विष्णुगायत्रीम् हुत्वा शान्तिम् अथ आचरेथ् । यावत् दीक्षा भवेत् तावत् दीक्षा-अङ्गस्य परिग्रहः ॥ २७।३८९ ॥
sahasram viṣṇugāyatrīm hutvā śāntim atha ācareth . yāvat dīkṣā bhavet tāvat dīkṣā-aṅgasya parigrahaḥ .. 27.389 ..
अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते । अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ॥ २७.३९० ॥
अन्ते तु तद्-गता अशक्तिः स्वयम् एव अवहीयते । अथ वा मोचनम् कुर्यात् इते के चित् वदन्ति हि ॥ २७।३९० ॥
ante tu tad-gatā aśaktiḥ svayam eva avahīyate . atha vā mocanam kuryāt ite ke cit vadanti hi .. 27.390 ..
तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः । प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता ॥ २७.३९१ ॥
तत्र पूर्णाहुतिम् कालम् प्रवदन्ति विपश्चितः । प्रतिष्ठा-अन्ते तु सा दीक्षा भवेत् उत्सव-संगता ॥ २७।३९१ ॥
tatra pūrṇāhutim kālam pravadanti vipaścitaḥ . pratiṣṭhā-ante tu sā dīkṣā bhavet utsava-saṃgatā .. 27.391 ..
न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि । अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ॥ २७.३९२ ॥
न तत्र दीक्षा-सांकर्यम् द्वयम् एकत्र चेद् यदि । अन्योन्यम् कलहायन्ते यदि आचार्य-आदयः क्रतौ ॥ २७।३९२ ॥
na tatra dīkṣā-sāṃkaryam dvayam ekatra ced yadi . anyonyam kalahāyante yadi ācārya-ādayaḥ kratau .. 27.392 ..
महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि । गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ॥ २७.३९३ ॥
महान् अनर्थः तत्र स्यात् प्रतिभूः गुरुः अत्र हि । गुरु-वाक्यम् च राज-आज्ञाम् समम् आहुः महा-ऋषयः ॥ २७।३९३ ॥
mahān anarthaḥ tatra syāt pratibhūḥ guruḥ atra hi . guru-vākyam ca rāja-ājñām samam āhuḥ mahā-ṛṣayaḥ .. 27.393 ..
दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेथ् । नह्येकस्मिन्भवेत्कार्य आचार्यद्वय संगतिः ॥ २७.३९४ ॥
दीक्षिते वर्तमाने तु न अन्यम् तत्र । न हि एकस्मिन् भवेत् कार्ये आचार्य-द्वय-संगतिः ॥ २७।३९४ ॥
dīkṣite vartamāne tu na anyam tatra . na hi ekasmin bhavet kārye ācārya-dvaya-saṃgatiḥ .. 27.394 ..
प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः । क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेथ् ॥ २७.३९५ ॥
प्रमादात् बुद्धि-पूर्वम् वा कलहे क्षतज-स्रुतिः । क्षतानि वा भवेयुः तम् विसृज्य-अन्येन ॥ २७।३९५ ॥
pramādāt buddhi-pūrvam vā kalahe kṣataja-srutiḥ . kṣatāni vā bhaveyuḥ tam visṛjya-anyena .. 27.395 ..
न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेथ् । स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ॥ २७.३९६ ॥
न तस्य तु भवेत् दीक्षा महाशान्तिम् तु । स दीक्षितः भवेत् एव पूर्वस्य हि ॥ २७।३९६ ॥
na tasya tu bhavet dīkṣā mahāśāntim tu . sa dīkṣitaḥ bhavet eva pūrvasya hi .. 27.396 ..
यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेथ् । पुनरन्यं समादाय शेषं पूर्ववदायरेथ् ॥ २७.३९७ ॥
यावत् आशौच-संक्रान्ति । पुनर् अन्यम् समादाय शेषम् ॥ २७।३९७ ॥
yāvat āśauca-saṃkrānti . punar anyam samādāya śeṣam .. 27.397 ..
आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने । त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ॥ २७.३९८ ॥
आदौ मध्ये च हीने ब्राह्मण-भोजने । त्रि-वाकम् तु महाशान्तिम् हुत्वा ब्राह्मण-भोजनम्, ॥ २७।३९८ ॥
ādau madhye ca hīne brāhmaṇa-bhojane . tri-vākam tu mahāśāntim hutvā brāhmaṇa-bhojanam, .. 27.398 ..
द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनं । पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृथ् ॥ २७.३९९ ॥
द्विगुणम् कारयेत् च एव वैष्णवानाम् तु पूजनम् । पुनाति पूजितः सद्यस् पाप्मभ्यः वैष्णपः सकृथ् ॥ २७।३९९ ॥
dviguṇam kārayet ca eva vaiṣṇavānām tu pūjanam . punāti pūjitaḥ sadyas pāpmabhyaḥ vaiṣṇapaḥ sakṛth .. 27.399 ..
अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृथ् । तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवं ॥ २७.४०० ॥
अवैष्णवैः च पाषण्डैः ऊढे देवे । तद्-दोष-शान्तये कुर्यात् सहस्र-कलश-आप्लवम् ॥ २७।४०० ॥
avaiṣṇavaiḥ ca pāṣaṇḍaiḥ ūḍhe deve . tad-doṣa-śāntaye kuryāt sahasra-kalaśa-āplavam .. 27.400 ..
अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनं । यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरं ॥ २७.४०१ ॥
अवैष्णव-कृत-अपूजा हन्ति पुण्यम् पुरातनम् । यानात् तु पतिते देवे शीघ्रम् उद्धृत्य स आदरम् ॥ २७।४०१ ॥
avaiṣṇava-kṛta-apūjā hanti puṇyam purātanam . yānāt tu patite deve śīghram uddhṛtya sa ādaram .. 27.401 ..
क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच । वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमाथ् ॥ २७.४०२ ॥
क्षम अस्व इति अनुमान्य एव शुद्धोदैः अभिषिच्य च । वैष्णवम् विष्णुसूक्तम् च नृसूक्तम् सहितम् ॥ २७।४०२ ॥
kṣama asva iti anumānya eva śuddhodaiḥ abhiṣicya ca . vaiṣṇavam viṣṇusūktam ca nṛsūktam sahitam .. 27.402 ..
दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेथ् । चक्रवीशाखमितादीनां बिंबाभावे पृथक्पृथक् ॥ २७.४०३ ॥
दिनाधिपस्य दैवत्यम् हुत्वा च उत्सवम् आचरेथ् । चक्रवीश-आख-मित-आदीनाम् बिंब-अभावे पृथक् पृथक् ॥ २७।४०३ ॥
dinādhipasya daivatyam hutvā ca utsavam ācareth . cakravīśa-ākha-mita-ādīnām biṃba-abhāve pṛthak pṛthak .. 27.403 ..
तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः । तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ॥ २७.४०४ ॥
तण्डुल-उपरि पात्रेषु कूर्चेषु आवाह्य मन्त्रतः । तद्-तद्-रूपम् तु संस्मृत्य समभ्यर्च्य विधानतः ॥ २७।४०४ ॥
taṇḍula-upari pātreṣu kūrceṣu āvāhya mantrataḥ . tad-tad-rūpam tu saṃsmṛtya samabhyarcya vidhānataḥ .. 27.404 ..
हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेथ् । पतने तु तथैतेषामुद्धृत्यैव च पूर्ववथ् ॥ २७.४०५ ॥
हुत्वा च तद्-तद्-दैवत्यम् पश्चात् उत्सवम् आचरेथ् । पतने तु तथा एतेषाम् उद्धृत्य एव च ॥ २७।४०५ ॥
hutvā ca tad-tad-daivatyam paścāt utsavam ācareth . patane tu tathā eteṣām uddhṛtya eva ca .. 27.405 ..
स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा । यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे ॥ २७.४०६ ॥
स्नापयित्वा हुनेत् तद्-तद्-दैवत्यम् वैष्णवम् तथा । यानात् तु पतिते बिंबे हीन-अङ्गे दोष-गौरवे ॥ २७।४०६ ॥
snāpayitvā hunet tad-tad-daivatyam vaiṣṇavam tathā . yānāt tu patite biṃbe hīna-aṅge doṣa-gaurave .. 27.406 ..
पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये । ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ॥ २७.४०७ ॥
पद्मानले महाशान्तिम् हुत्वा तद्-दोष-शान्तये । ध्रुव-बेरे समारोप्य तद्-चक्तिम् विधिना ततस् ॥ २७।४०७ ॥
padmānale mahāśāntim hutvā tad-doṣa-śāntaye . dhruva-bere samāropya tad-caktim vidhinā tatas .. 27.407 ..
कौतुकं स्नापनं वाथ बलिबेरमथापि वा । यथार्हं समलङ्कृत्य समावाह्य यथाविधि ॥ २७.४०८ ॥
कौतुकम् स्नापनम् वा अथ बलिबेरम् अथ अपि वा । यथार्हम् समलङ्कृत्य समावाह्य यथाविधि ॥ २७।४०८ ॥
kautukam snāpanam vā atha baliberam atha api vā . yathārham samalaṅkṛtya samāvāhya yathāvidhi .. 27.408 ..
समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः । बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ॥ २७.४०९ ॥
समभ्यर्च्य उत्सवम् कुर्यात् न तत्र स्यात् व्यतिक्रमः । बेर-अन्तरस्य अलाभे तु रत्नम् वा काञ्चनम् तथा ॥ २७।४०९ ॥
samabhyarcya utsavam kuryāt na tatra syāt vyatikramaḥ . bera-antarasya alābhe tu ratnam vā kāñcanam tathā .. 27.409 ..
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने । महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४१० ॥
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने । महाशान्तिम् च हुत्वा एव पुनर् उत्सवम् आचरेथ् ॥ २७।४१० ॥
nyasya pātre samāvāhya samabhyarcya dine dine . mahāśāntim ca hutvā eva punar utsavam ācareth .. 27.410 ..
हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः । संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेथ् ॥ २७.४११ ॥
हीन-अङ्गम् च पुनर् बेरम् संधान-विधिना पुनर् । संधाय चात्वरेण एव प्रतिष्ठाम् पुनर् आचरेथ् ॥ २७।४११ ॥
hīna-aṅgam ca punar beram saṃdhāna-vidhinā punar . saṃdhāya cātvareṇa eva pratiṣṭhām punar ācareth .. 27.411 ..
पतने गायगादीनां श्रीदैवत्यं च वैष्णवं । वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ॥ २७.४१२ ॥
पतने गायक्-आदीनाम् श्री-दैवत्यम् च वैष्णवम् । वादकानाम् तु ब्राह्मम् रौद्रम् तथा एव च ॥ २७।४१२ ॥
patane gāyak-ādīnām śrī-daivatyam ca vaiṣṇavam . vādakānām tu brāhmam raudram tathā eva ca .. 27.412 ..
आचार्यादीनां तु पतने संक्षोभे च तथाकृते । आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ॥ २७.४१३ ॥
आचार्य-आदीनाम् तु पतने संक्षोभे च तथा कृते । आर्षभम् वैष्णवम् तद्वत् ध्वज-आदीनाम् च पातने ॥ २७।४१३ ॥
ācārya-ādīnām tu patane saṃkṣobhe ca tathā kṛte . ārṣabham vaiṣṇavam tadvat dhvaja-ādīnām ca pātane .. 27.413 ..
ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः । वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ॥ २७.४१४ ॥
ध्वाजम् च वारुणम् च एव वायव्यम् च हुनेत् विधिः । वर्ष-धारासु वात्यायाम् विद्युत्-व्रज-समाहतौ ॥ २७।४१४ ॥
dhvājam ca vāruṇam ca eva vāyavyam ca hunet vidhiḥ . varṣa-dhārāsu vātyāyām vidyut-vraja-samāhatau .. 27.414 ..
काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ॥ २७.४१५ ॥
काले न च उत्सवम् कुर्यात् कुर्यात् चेद् वैष्णवम् तथा । विष्णुसूक्तम् नृसूक्तम् च श्री-भूदैवत्यम् एव च ॥ २७।४१५ ॥
kāle na ca utsavam kuryāt kuryāt ced vaiṣṇavam tathā . viṣṇusūktam nṛsūktam ca śrī-bhūdaivatyam eva ca .. 27.415 ..
हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृथ् । वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते ॥ २७.४१६ ॥
हुत्वा उत्सवम् प्रकुर्वीत विपरीते तु । वीथि-अन्तरे वर्ष-धारा-प्रवेशे अशनि-गर्जिते ॥ २७।४१६ ॥
hutvā utsavam prakurvīta viparīte tu . vīthi-antare varṣa-dhārā-praveśe aśani-garjite .. 27.416 ..
तृणपांसु समायुक्तवातस्पर्शे विशेषतः । कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रविथ् ॥ २७.४१७ ॥
तृण-पांसु समायुक्त-वात-स्पर्शे विशेषतः । कलह-ध्वनि-संयुक्ते देवम् संस्नाप्य ॥ २७।४१७ ॥
tṛṇa-pāṃsu samāyukta-vāta-sparśe viśeṣataḥ . kalaha-dhvani-saṃyukte devam saṃsnāpya .. 27.417 ..
वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतं । यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४१८ ॥
वैष्णवम् दिश्-दैवत्यम् च वारुणम् वायु-दैवतम् । यत् देव-आदीन् च हुत्वा एव पुनर् उत्सवम् आचरेथ् ॥ २७।४१८ ॥
vaiṣṇavam diś-daivatyam ca vāruṇam vāyu-daivatam . yat deva-ādīn ca hutvā eva punar utsavam ācareth .. 27.418 ..
कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः । वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ॥ २७.४१९ ॥
कलहे रुधिर-स्रावे दाहे च अपि उत्सवे ततस् । वैष्णपम् च अग्नि-दैवत्यम् ब्राह्मम् रौद्रम् तथा एव च ॥ २७।४१९ ॥
kalahe rudhira-srāve dāhe ca api utsave tatas . vaiṣṇapam ca agni-daivatyam brāhmam raudram tathā eva ca .. 27.419 ..
तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिं । आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ॥ २७.४२० ॥
तद्-दिन-अधिप-दैवत्यम् जुहुयात् प्रार्थयेत् हरिम् । आलय-अभ्यन्तरे च एव शस्त्र-आद्यैः मरणे सति ॥ २७।४२० ॥
tad-dina-adhipa-daivatyam juhuyāt prārthayet harim . ālaya-abhyantare ca eva śastra-ādyaiḥ maraṇe sati .. 27.420 ..
तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा । महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ॥ २७.४२१ ॥
तत् शीघ्रम् अपहाय एव पद्माग्नौ जुहुयात् तथा । महाशान्तिम् तद्-दिन-आधिदैवत्यम् च विशेषतः ॥ २७।४२१ ॥
tat śīghram apahāya eva padmāgnau juhuyāt tathā . mahāśāntim tad-dina-ādhidaivatyam ca viśeṣataḥ .. 27.421 ..
वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च । शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४२२ ॥
वीथ्याम् चेद् मर-हण-आदौ तु तत् शीघ्रम् तु व्यपोह्य च । शान्ति-होमम् च हुत्वा एव पुनर् उत्सवम् आचरेथ् ॥ २७।४२२ ॥
vīthyām ced mara-haṇa-ādau tu tat śīghram tu vyapohya ca . śānti-homam ca hutvā eva punar utsavam ācareth .. 27.422 ..
नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेथ् । आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ॥ २७.४२३ ॥
नाडिकायाः । आलयस्य अशीति-दण्ड-अभ्यन्तरे तु शवे सति ॥ २७।४२३ ॥
nāḍikāyāḥ . ālayasya aśīti-daṇḍa-abhyantare tu śave sati .. 27.423 ..
तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति । तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितं ॥ २७.४२४ ॥
तत्र उत्सवम् न कुर्यात् तु कुर्यात् चेद् स विनश्यति । तत् शीघ्रम् अपहाय इव प्रायश्चित्तम् यथा उदितम् ॥ २७।४२४ ॥
tatra utsavam na kuryāt tu kuryāt ced sa vinaśyati . tat śīghram apahāya iva prāyaścittam yathā uditam .. 27.424 ..
महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेथ् । लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ॥ २७.४२५ ॥
महाशान्तिम् पार्षदम् च च हुत्वा च उत्सवम् आचरेथ् । लगरे विधिः एषः स्यात् ग्रामेन एष विकल्प्यते ॥ २७।४२५ ॥
mahāśāntim pārṣadam ca ca hutvā ca utsavam ācareth . lagare vidhiḥ eṣaḥ syāt grāmena eṣa vikalpyate .. 27.425 ..
अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये । ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेथ् ॥ २७.४२६ ॥
अन्तश्सवेन एव कुर्यात् उत्सवम् ग्राम-वृद्धये । ध्वज-स्व-आरोहणात् ऊर्ध्वम् यावत् तीर्थ-दिनम् ॥ २७।४२६ ॥
antaśsavena eva kuryāt utsavam grāma-vṛddhaye . dhvaja-sva-ārohaṇāt ūrdhvam yāvat tīrtha-dinam .. 27.426 ..
अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकं । तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकं ॥ २७.४२७ ॥
अन्यात् सवम् शुभम् कर्म कुर्यात् चेद् आभिचारिकम् । तद्-दोष-शमनाय एव वैष्णवम् विष्णुसूक्तकम् ॥ २७।४२७ ॥
anyāt savam śubham karma kuryāt ced ābhicārikam . tad-doṣa-śamanāya eva vaiṣṇavam viṣṇusūktakam .. 27.427 ..
नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेथ् । तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ॥ २७.४२८ ॥
नृसूक्तम् पार्षदम् च एव हुत्वा विप्रान् तु । तीर्थ-अहात् पूर्व-रात्रौ तु हीने कौतुक-बन्धने ॥ २७।४२८ ॥
nṛsūktam pārṣadam ca eva hutvā viprān tu . tīrtha-ahāt pūrva-rātrau tu hīne kautuka-bandhane .. 27.428 ..
शयने वा वैष्णवं च श्रीभूदैवत्यमेव च । सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेथ् ॥ २७.४२९ ॥
शयने वा वैष्णवम् च श्री-भू-दैवत्यम् एव च । सौदर्शनम् च हुत्वा अन्ते यथोक्तम् तु समाचरेथ् ॥ २७।४२९ ॥
śayane vā vaiṣṇavam ca śrī-bhū-daivatyam eva ca . saudarśanam ca hutvā ante yathoktam tu samācareth .. 27.429 ..
तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवं । वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेथ् ॥ २७.४३० ॥
तीर्थ-स्नाने तु कालस्य अतीते हीने च वैष्मवम् । वारुणम् स्कन्द-दैवत्यम् हुत्वा च औक्तम् समाचरेथ् ॥ २७।४३० ॥
tīrtha-snāne tu kālasya atīte hīne ca vaiṣmavam . vāruṇam skanda-daivatyam hutvā ca auktam samācareth .. 27.430 ..
ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च । गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ॥ २७.४३१ ॥
ध्वज-अवरोहणे हीने तद्-रात्रौ ध्वाजम् एव च । गारुडम् वैष्णवम् हुत्वा देवेशम् प्रार्थयेत् गुरुः ॥ २७।४३१ ॥
dhvaja-avarohaṇe hīne tad-rātrau dhvājam eva ca . gāruḍam vaiṣṇavam hutvā deveśam prārthayet guruḥ .. 27.431 ..
अवरोहणकारे तु बलौ हीने विशेषतः । ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकं ॥ २७.४३२ ॥
अवरोहण-कारे तु बलौ हीने विशेषतः । ध्वजदेवम् सु संपूज्य वैष्णवम् विष्णुसूक्तकम् ॥ २७।४३२ ॥
avarohaṇa-kāre tu balau hīne viśeṣataḥ . dhvajadevam su saṃpūjya vaiṣṇavam viṣṇusūktakam .. 27.432 ..
तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः । हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेथ् ॥ २७.४३३ ॥
तद्-आलय-स्थ-देवानाम् मन्त्रान् च एव विशेषतः । हुत्वा देवेशम् अभ्यर्छ्य ध्वजम् समवरोहयेथ् ॥ २७।४३३ ॥
tad-ālaya-stha-devānām mantrān ca eva viśeṣataḥ . hutvā deveśam abhyarchya dhvajam samavarohayeth .. 27.433 ..
उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेथ् ॥ २७.४३४ ॥
उत्सव-अन्त-अ प्लवे हीने वैष्णवम् विष्णुसूक्तकम् । पुरुषसूक्तम् जय अदीनः च मूर्ति-मन्त्राः च ॥ २७।४३४ ॥
utsava-anta-a plave hīne vaiṣṇavam viṣṇusūktakam . puruṣasūktam jaya adīnaḥ ca mūrti-mantrāḥ ca .. 27.434 ..
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदं । वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ॥ २७.४३५ ॥
अत्र अनुक्तेषु दोषेषु प्रायश्चित्तम् भवेत् इदम् । वैष्णवम् विष्णुसूक्तम् च नृसूक्तम् च तथा एव च ॥ २७।४३५ ॥
atra anukteṣu doṣeṣu prāyaścittam bhavet idam . vaiṣṇavam viṣṇusūktam ca nṛsūktam ca tathā eva ca .. 27.435 ..
हूयते विष्णुगायत्री सर्वपापप्राणाशिनि । एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतं ॥ २७.४३६ ॥
हूयते विष्णुगायत्री सर्व-पाप-प्राण-आशिनि । एवम् अष्टाविंशतिः वा शक्तौ अष्ट-उत्तरम् शतम् ॥ २७।४३६ ॥
hūyate viṣṇugāyatrī sarva-pāpa-prāṇa-āśini . evam aṣṭāviṃśatiḥ vā śaktau aṣṭa-uttaram śatam .. 27.436 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे सप्तविंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre saptaviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In