| |
|

This overlay will guide you through the buttons:

अथ सप्तविंशोऽध्यायः
atha saptaviṃśo'dhyāyaḥ
प्रायश्चित्तम्
आचार्यस्यर्त्विजां चैव पूजकस्य विशेषतः । यथोक्तवरणे हीने शान्तिं कुर्याद्यथाविधि ॥ २७.१ ॥
ācāryasyartvijāṃ caiva pūjakasya viśeṣataḥ . yathoktavaraṇe hīne śāntiṃ kuryādyathāvidhi .. 27.1 ..
अब्जाग्नौ तु महाशान्तिं दशवारं हुनेत्ततः । यथोक्तं वरणं कृत्वा पश्चात्कर्म समाचरेथ् ॥ २७.२ ॥
abjāgnau tu mahāśāntiṃ daśavāraṃ hunettataḥ . yathoktaṃ varaṇaṃ kṛtvā paścātkarma samācareth .. 27.2 ..
अङ्कुरार्पणकाले तु ब्रह्मादीनामथार्ऽचने । हविर्निवेदने वापि हीने शान्तिं समाचरेथ् ॥ २७.३ ॥
aṅkurārpaṇakāle tu brahmādīnāmathār'cane . havirnivedane vāpi hīne śāntiṃ samācareth .. 27.3 ..
तद्दैवत्यं वैष्णवं च हुत्वा-भ्यर्च्य निवेदयेथ् । अङ्कुरार्पणहीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.४ ॥
taddaivatyaṃ vaiṣṇavaṃ ca hutvā-bhyarcya nivedayeth . aṅkurārpaṇahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.4 ..
पुरुषसूक्तं च ब्राह्मं च व्याहृतीश्च हुनेत्तथा । पुनरप्यङ्कुरान्कृत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.५ ॥
puruṣasūktaṃ ca brāhmaṃ ca vyāhṛtīśca hunettathā . punarapyaṅkurānkṛtvā paścātkāryaṃ samācareth .. 27.5 ..
कृत्वांकुरार्पणं पश्चान्नाचरेत्कर्म चेत्ततः । राजराष्ट्रविनाशस्स्यान्महाशान्तिं समाचरेथ् ॥ २७.६ ॥
kṛtvāṃkurārpaṇaṃ paścānnācaretkarma cettataḥ . rājarāṣṭravināśassyānmahāśāntiṃ samācareth .. 27.6 ..
क्षमऽस्वेति प्रणम्यैव पुनरङ्कुंमाचरेथ् । अक्ष्युन्मेषात्तु पूर्वं चेत्पीठसंघातकर्मणि ॥ २७.७ ॥
kṣama'sveti praṇamyaiva punaraṅkuṃmācareth . akṣyunmeṣāttu pūrvaṃ cetpīṭhasaṃghātakarmaṇi .. 27.7 ..
अलाभे चैव रत्नानां वैष्णवं विष्णुसूक्तकं । सूक्तं तु पौरुषं ब्राह्मं स्ॐयं चैव तु व्याहृतिः ॥ २७.८ ॥
alābhe caiva ratnānāṃ vaiṣṇavaṃ viṣṇusūktakaṃ . sūktaṃ tu pauruṣaṃ brāhmaṃ s_oṃyaṃ caiva tu vyāhṛtiḥ .. 27.8 ..
हुत्वा सुवर्णं बहुश स्तत्तत्थ्साने विनिक्षिपेथ् । अक्ष्युन्मेषणकाले तु गवादीनामसंभवे ॥ २७.९ ॥
hutvā suvarṇaṃ bahuśa stattatthsāne vinikṣipeth . akṣyunmeṣaṇakāle tu gavādīnāmasaṃbhave .. 27.9 ..
दर्शनद्रव्यरूपाणां यथालाभं प्रगृह्य च । तत्तद्द्रव्याधिदैवत्यं वैष्णवं जुहुयात्क्रमाथ् ॥ २७.१० ॥
darśanadravyarūpāṇāṃ yathālābhaṃ pragṛhya ca . tattaddravyādhidaivatyaṃ vaiṣṇavaṃ juhuyātkramāth .. 27.10 ..
तत्तद्द्रव्यं च संपाद्य विधिवद्दर्शयेत्पुनः । अक्ष्युन्मेषणहीने वा राहुसौरोदयेऽथ वा ॥ २७.११ ॥
tattaddravyaṃ ca saṃpādya vidhivaddarśayetpunaḥ . akṣyunmeṣaṇahīne vā rāhusaurodaye'tha vā .. 27.11 ..
अन्धकेचैव नक्षत्रे कृते चैवाक्षिमोचने । सर्वनाशो भवेत्तस्माद्वैष्णवं विष्णुसूक्तकं ॥ २७.१२ ॥
andhakecaiva nakṣatre kṛte caivākṣimocane . sarvanāśo bhavettasmādvaiṣṇavaṃ viṣṇusūktakaṃ .. 27.12 ..
नवग्रहादिमन्त्राश्च हुत्वाक्ष्युन्मीलनं चरेथ् । पञ्चगव्यादिषु द्रव्येष्वधिवासे विवर्जिते ॥ २७.१३ ॥
navagrahādimantrāśca hutvākṣyunmīlanaṃ careth . pañcagavyādiṣu dravyeṣvadhivāse vivarjite .. 27.13 ..
हुत्वा वैष्णवमार्षञ्च विष्णुसूक्तं तथैव च । जलाधिवासं त्रियहमेकाहं वापि कालयेथ् ॥ २७.१४ ॥
hutvā vaiṣṇavamārṣañca viṣṇusūktaṃ tathaiva ca . jalādhivāsaṃ triyahamekāhaṃ vāpi kālayeth .. 27.14 ..
यज्ञालये महावेद्यां कृतायामप्रमाणतः । अन्यदेशकृतायां वा विहीनायां च शोभनैः ॥ २७.१५ ॥
yajñālaye mahāvedyāṃ kṛtāyāmapramāṇataḥ . anyadeśakṛtāyāṃ vā vihīnāyāṃ ca śobhanaiḥ .. 27.15 ..
तत्तद्देशाधिदैवत्यं वैष्णवं विष्णुसूक्तकं । श्रीभूदैवत्यं च हुत्वैव यथोक्तं पुनराचरेथ् ॥ २७.१६ ॥
tattaddeśādhidaivatyaṃ vaiṣṇavaṃ viṣṇusūktakaṃ . śrībhūdaivatyaṃ ca hutvaiva yathoktaṃ punarācareth .. 27.16 ..
ध्रुवबेराक्षिमोक्षान्ते यदि बेरं न शोधयेथ् । विपरीतेऽपि वा हुत्वा वैष्णवं विष्णुसूक्तकं ॥ २७.१७ ॥
dhruvaberākṣimokṣānte yadi beraṃ na śodhayeth . viparīte'pi vā hutvā vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.17 ..
पुरुषसूक्तं रौद्रमार्षं वारुणं च पुनश्चरेथ् । अग्निकुण्डान्यविधिना कृतान्यालक्ष्य सत्वरं ॥ २७.१८ ॥
puruṣasūktaṃ raudramārṣaṃ vāruṇaṃ ca punaścareth . agnikuṇḍānyavidhinā kṛtānyālakṣya satvaraṃ .. 27.18 ..
ब्राह्मं स्ॐयमथाग्नेयं विधिना कारयेत्ततः । अप्रमाणेषु कूर्चादिष्वाज्यपात्र स्रुवादिषु ॥ २७.१९ ॥
brāhmaṃ s_oṃyamathāgneyaṃ vidhinā kārayettataḥ . apramāṇeṣu kūrcādiṣvājyapātra sruvādiṣu .. 27.19 ..
मिन्दाहुती च सावित्रं व्याहृतीश्च हुनेद्बधः । पञ्चाग्निषु यथास्थानं प्रोक्षणोल्लेखने कृते ॥ २७.२० ॥
mindāhutī ca sāvitraṃ vyāhṛtīśca hunedbadhaḥ . pañcāgniṣu yathāsthānaṃ prokṣaṇollekhane kṛte .. 27.20 ..
मथिताग्नावलाभे तु प्राप्य चाचार्यमन्दिरं । अथ वा श्रोत्रियागारादाहृत्याग्निं समाचरेथ् ॥ २७.२१ ॥
mathitāgnāvalābhe tu prāpya cācāryamandiraṃ . atha vā śrotriyāgārādāhṛtyāgniṃ samācareth .. 27.21 ..
निधाय गार्हपत्येग्निमाघारं जुहुयाद्बुधः । वैष्णवं भूमिदैवत्यमाग्नेयं च हुनेत्क्रमाथ् ॥ २७.२२ ॥
nidhāya gārhapatyegnimāghāraṃ juhuyādbudhaḥ . vaiṣṇavaṃ bhūmidaivatyamāgneyaṃ ca hunetkramāth .. 27.22 ..
तमग्निं वर्धयित्वातु दक्षिणाग्नौ प्रणीय च । तत आहवनीयाग्नावावसध्ये ततः परं ॥ २७.२३ ॥
tamagniṃ vardhayitvātu dakṣiṇāgnau praṇīya ca . tata āhavanīyāgnāvāvasadhye tataḥ paraṃ .. 27.23 ..
सभ्ये पद्मानले चैवं क्रमात्प्रणयनं चरेथ् । विपरीते प्रणयने तत्तन्मन्त्रविवर्जिते ॥ २७.२४ ॥
sabhye padmānale caivaṃ kramātpraṇayanaṃ careth . viparīte praṇayane tattanmantravivarjite .. 27.24 ..
वैष्णवं पावकं ब्राह्मंस्ॐयं हुत्वा पुनश्चरेथ् । तत्तदग्निषु चाघारात्पूर्वं तेषामथान्तरा ॥ २७.२५ ॥
vaiṣṇavaṃ pāvakaṃ brāhmaṃs_oṃyaṃ hutvā punaścareth . tattadagniṣu cāghārātpūrvaṃ teṣāmathāntarā .. 27.25 ..
नगच्छेद्यदि गच्छेत्तु तत्तद्दिक्पालदैवतं । वैष्णवं पावकं चेति प्रायश्चित्तं हुनैत्क्रमाथ् ॥ २७.२६ ॥
nagacchedyadi gacchettu tattaddikpāladaivataṃ . vaiṣṇavaṃ pāvakaṃ ceti prāyaścittaṃ hunaitkramāth .. 27.26 ..
उत्पन्ने मथिताग्नौ तु शान्ते तत्र प्रमादतः । आदौ प्रणयनादर्वागथवाग्निषु सर्वशः शान्तिं यथोदितां कुर्यादग्नि सूक्तं सहस्रशः) । तण्डुलैरेकजातीयैर्द्विप्रस्थैः पाचयेच्चरुं गव्यं च नवनीतं च लौकिकानलसंस्कृतं ॥ २७.२७ ॥
utpanne mathitāgnau tu śānte tatra pramādataḥ . ādau praṇayanādarvāgathavāgniṣu sarvaśaḥ śāntiṃ yathoditāṃ kuryādagni sūktaṃ sahasraśaḥ) . taṇḍulairekajātīyairdviprasthaiḥ pācayeccaruṃ gavyaṃ ca navanītaṃ ca laukikānalasaṃskṛtaṃ .. 27.27 ..
संस्कारकाले संस्कुर्यात्तदग्निं मन्त्रवत्तदा । आज्यस्थाल्यामथ चरौ मक्षिकादिः पतेद्यदि ॥ २७.२८ ॥
saṃskārakāle saṃskuryāttadagniṃ mantravattadā . ājyasthālyāmatha carau makṣikādiḥ patedyadi .. 27.28 ..
तद्व्यपोह्यान्यदादाय प्राजापत्यं च पावकं । वैष्णवं च हुनेदाज्ये त्वलब्धे नूतने पूनः ॥ २७.२९ ॥
tadvyapohyānyadādāya prājāpatyaṃ ca pāvakaṃ . vaiṣṇavaṃ ca hunedājye tvalabdhe nūtane pūnaḥ .. 27.29 ..
व्यपोह्य दोषं तं दर्भैरुद्दीप्योत्पूय चाचरेथ् । आघारितेऽग्नौ नष्टे तु अयं ते योनिऽ मुच्चरन् ॥ २७.३० ॥
vyapohya doṣaṃ taṃ darbhairuddīpyotpūya cācareth . āghārite'gnau naṣṭe tu ayaṃ te yoni' muccaran .. 27.30 ..
आरोपयेच्च समिधं तद्भस्मनि यथार्हतः । उद्बुद्ध्यऽस्वेति निक्षिप्य विधिना लौकिकेऽनले ॥ २७.३१ ॥
āropayecca samidhaṃ tadbhasmani yathārhataḥ . udbuddhya'sveti nikṣipya vidhinā laukike'nale .. 27.31 ..
विच्छिन्नं मिन्दाहुती च वैष्णवं व्याहृतिपूर्वकं । परिस्तरादिद्रव्याणां दाहे भेदेऽथ नाशने ॥ २७.३२ ॥
vicchinnaṃ mindāhutī ca vaiṣṇavaṃ vyāhṛtipūrvakaṃ . paristarādidravyāṇāṃ dāhe bhede'tha nāśane .. 27.32 ..
पुनस्तत्तच्च संयोज्य महाव्याहृतिपूर्वकं । आग्नेयं मिन्दाहुती च वैष्णवं च हुनेद्बुधः ॥ २७.३३ ॥
punastattacca saṃyojya mahāvyāhṛtipūrvakaṃ . āgneyaṃ mindāhutī ca vaiṣṇavaṃ ca hunedbudhaḥ .. 27.33 ..
पात्रेऽनुक्ते स्रुवं पात्रं गृह्णीयाद्धोमकर्मणि । हविर्विशेषेऽनु क्तेतु घृतं वा सघृतं चरु ॥ २७.३४ ॥
pātre'nukte sruvaṃ pātraṃ gṛhṇīyāddhomakarmaṇi . havirviśeṣe'nu ktetu ghṛtaṃ vā saghṛtaṃ caru .. 27.34 ..
द्रव्ये प्रमाणहीने तु कापिलेन घृतेन वै । वैष्णवं विंशतिर्हुत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.३५ ॥
dravye pramāṇahīne tu kāpilena ghṛtena vai . vaiṣṇavaṃ viṃśatirhutvā paścātkāryaṃ samācareth .. 27.35 ..
प्रायश्चित्तानलेऽनुक्ते छुल्ल्यां नित्यानलेऽपि वा । क्रियाहीने विपर्यासे मन्त्राणां संकरेऽपि वा ॥ २७.३६ ॥
prāyaścittānale'nukte chullyāṃ nityānale'pi vā . kriyāhīne viparyāse mantrāṇāṃ saṃkare'pi vā .. 27.36 ..
वैष्णवं व्याहृतीश्चैव व्याहृत्यन्तं हुनेत्क्रमाथ् । पुण्याहहीने पुण्याहमन्त्रान्द्वादशशो जपेथ् ॥ २७.३७ ॥
vaiṣṇavaṃ vyāhṛtīścaiva vyāhṛtyantaṃ hunetkramāth . puṇyāhahīne puṇyāhamantrāndvādaśaśo japeth .. 27.37 ..
वास्तुहोमविहीने तु तन्मन्त्रान्दशशो हुनेथ् । प्रायश्चित्तविशेषे यद्यनुक्ते वैष्णवं ततः ॥ २७.३८ ॥
vāstuhomavihīne tu tanmantrāndaśaśo huneth . prāyaścittaviśeṣe yadyanukte vaiṣṇavaṃ tataḥ .. 27.38 ..
विष्णुसूक्तं पौरुषं च सूक्तं हुत्वा समाचरेथ् । रत्नप्रतिनिधी रुक्मं धातूनां पारदं तथा ॥ २७.३९ ॥
viṣṇusūktaṃ pauruṣaṃ ca sūktaṃ hutvā samācareth . ratnapratinidhī rukmaṃ dhātūnāṃ pāradaṃ tathā .. 27.39 ..
बीजानां च यवाः प्रोक्ताः पूर्वालाभे परस्स्मतः । रत्नानां प्रणिधिं गृह्य वैष्णवं विष्णुसूक्तकं ॥ २७.४० ॥
bījānāṃ ca yavāḥ proktāḥ pūrvālābhe parassmataḥ . ratnānāṃ praṇidhiṃ gṛhya vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.40 ..
दिग्दैवत्यं वैष्णवं च धातूनामथ तत्परं । बीजानां प्रणिधिं गृह्य वायव्यं वैष्णवं तथा ॥ २७.४१ ॥
digdaivatyaṃ vaiṣṇavaṃ ca dhātūnāmatha tatparaṃ . bījānāṃ praṇidhiṃ gṛhya vāyavyaṃ vaiṣṇavaṃ tathā .. 27.41 ..
हुने द्विंशतिवारं तु प्रत्येकं दोषशान्तये । वस्त्रेलक्षणहीने वा युक्ते छेदादिना ततः ॥ २७.४२ ॥
hune dviṃśativāraṃ tu pratyekaṃ doṣaśāntaye . vastrelakṣaṇahīne vā yukte chedādinā tataḥ .. 27.42 ..
तत्त्यक्त्वान्यं समाहृत्य श्रीदैवत्यं च वैष्णवं । अण्डजादिद्वलब्धेषु वस्त्रं प्रत्येकमाहरेथ् ॥ २७.४३ ॥
tattyaktvānyaṃ samāhṛtya śrīdaivatyaṃ ca vaiṣṇavaṃ . aṇḍajādidvalabdheṣu vastraṃ pratyekamāhareth .. 27.43 ..
वैष्णवं श्रीभूदैवत्यं हुत्वा कार्यं समाचरेथ् । प्रमाणहीनेषु पुनस्तोरणादिषु चात्वरः ॥ २७.४४ ॥
vaiṣṇavaṃ śrībhūdaivatyaṃ hutvā kāryaṃ samācareth . pramāṇahīneṣu punastoraṇādiṣu cātvaraḥ .. 27.44 ..
पृथग्द्वाराधिदैवत्यं जुहुयाद्विंशतिं बुधः । दर्भरज्ज्वां विहीनायां हुनैदार्षं च वैष्णवम्, ॥ २७.४५ ॥
pṛthagdvārādhidaivatyaṃ juhuyādviṃśatiṃ budhaḥ . darbharajjvāṃ vihīnāyāṃ hunaidārṣaṃ ca vaiṣṇavam, .. 27.45 ..
कुंभे प्रमाणहीने वा दोषयुक्तेऽपि वा तथा । वस्त्राभ्यां वर्णचिह्नैश्च हीने नात्रवसेद्धरिः ॥ २७.४६ ॥
kuṃbhe pramāṇahīne vā doṣayukte'pi vā tathā . vastrābhyāṃ varṇacihnaiśca hīne nātravaseddhariḥ .. 27.46 ..
यत्नेन तानि निक्षिप्य वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्मं च मुनिमन्त्रांश्च पावकं ॥ २७.४७ ॥
yatnena tāni nikṣipya vaiṣṇavaṃ viṣṇusūktakaṃ . puruṣasūktaṃ brāhmaṃ ca munimantrāṃśca pāvakaṃ .. 27.47 ..
जुहुयाद्दशकृत्वन्तु विप्राणां भोजनं चरेथ् । आचार्यदक्षिणान्दद्यात्सफलं भवति ध्रुवं ॥ २७.४८ ॥
juhuyāddaśakṛtvantu viprāṇāṃ bhojanaṃ careth . ācāryadakṣiṇāndadyātsaphalaṃ bhavati dhruvaṃ .. 27.48 ..
भिन्ने तु साधिते कुंभे वैष्णपं विष्णुसूक्तकं । पुरुषसूक्तं ब्राह्ममैन्द्रमाग्नेयं चार्षमेव च ॥ २७.४९ ॥
bhinne tu sādhite kuṃbhe vaiṣṇapaṃ viṣṇusūktakaṃ . puruṣasūktaṃ brāhmamaindramāgneyaṃ cārṣameva ca .. 27.49 ..
हुत्वा विंशतिकृत्वन्तु दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव संपूज्यैव च वैष्मवान् ॥ २७.५० ॥
hutvā viṃśatikṛtvantu dadyādācāryadakṣiṇāṃ . brāhmaṇānbhojayitvaiva saṃpūjyaiva ca vaiṣmavān .. 27.50 ..
अन्यत्कुंभं समाहृत्य पूर्ववत्साधयेद्बुधः । स्पृष्टे तु साथिते कुंभे पतितैः कुक्कुटादिभिः ॥ २७.५१ ॥
anyatkuṃbhaṃ samāhṛtya pūrvavatsādhayedbudhaḥ . spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭādibhiḥ .. 27.51 ..
तद्व्यपोह्यार्यदादाय पूर्ववत्साधयेत्तथा । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.५२ ॥
tadvyapohyāryadādāya pūrvavatsādhayettathā . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca .. 27.52 ..
ब्राह्मं सौरमथाग्नेयमष्टाधिकशतं यजेथ् । आचार्यदक्षिणां दद्याद्वैष्णवान्पूजयेद्विधिः ॥ २७.५३ ॥
brāhmaṃ sauramathāgneyamaṣṭādhikaśataṃ yajeth . ācāryadakṣiṇāṃ dadyādvaiṣṇavānpūjayedvidhiḥ .. 27.53 ..
स्पर्शदुष्टे तथा बेरे स्नपनं शास्त्रतश्चरेथ् । पूर्वोक्तां निष्कृतिं कृत्वा पश्चात्कार्यं समाचरेथ् ॥ २७.५४ ॥
sparśaduṣṭe tathā bere snapanaṃ śāstrataścareth . pūrvoktāṃ niṣkṛtiṃ kṛtvā paścātkāryaṃ samācareth .. 27.54 ..
न्रुवादीनामलाभेतु स्रुवेणैव हुनेद्धविः । श्वकुक्कुटाद्यैस्संस्पृष्टे कुण्डे तं तं व्यपोह्य च ॥ २७.५५ ॥
nruvādīnāmalābhetu sruveṇaiva huneddhaviḥ . śvakukkuṭādyaissaṃspṛṣṭe kuṇḍe taṃ taṃ vyapohya ca .. 27.55 ..
कुण्डं तु पूर्ववत्कृत्वा कृत्वाघारं यथाविधि । आग्नेयं वैष्णवं पञ्चवारुणं मूलहोमकं ॥ २७.५६ ॥
kuṇḍaṃ tu pūrvavatkṛtvā kṛtvāghāraṃ yathāvidhi . āgneyaṃ vaiṣṇavaṃ pañcavāruṇaṃ mūlahomakaṃ .. 27.56 ..
शतशो जुहुयात्कुर्याद्ब्राह्मणानां च भोजनं । अलाभे समिधां कृह्य पालाशीर्वटसंभवाः ॥ २७.५७ ॥
śataśo juhuyātkuryādbrāhmaṇānāṃ ca bhojanaṃ . alābhe samidhāṃ kṛhya pālāśīrvaṭasaṃbhavāḥ .. 27.57 ..
आग्नेयं वैष्णवं ब्राह्मं हुत्वाकार्यं समाचरेथ् । दर्भान्कुशान्वा समिधो मासातीतान्प्रगृह्य च ॥ २७.५८ ॥
āgneyaṃ vaiṣṇavaṃ brāhmaṃ hutvākāryaṃ samācareth . darbhānkuśānvā samidho māsātītānpragṛhya ca .. 27.58 ..
वारुणं वैष्णवं ब्राह्मं स्ॐयमाग्नेयमेव च । आदित्यं जुहुयाच्चैव दोष शान्तिर्भवेत्तथा ॥ २७.५९ ॥
vāruṇaṃ vaiṣṇavaṃ brāhmaṃ s_oṃyamāgneyameva ca . ādityaṃ juhuyāccaiva doṣa śāntirbhavettathā .. 27.59 ..
दधि क्षीरं गृहीतं चेदाजं माहिषमेव वा । वैष्णवं ब्राह्ममाग्नेयं सौरं च व्याहृतीर्हुनेथ् ॥ २७.६० ॥
dadhi kṣīraṃ gṛhītaṃ cedājaṃ māhiṣameva vā . vaiṣṇavaṃ brāhmamāgneyaṃ sauraṃ ca vyāhṛtīrhuneth .. 27.60 ..
अनुक्तदेशादानीता मृदो वा वालुकास्तथा । अग्निकुण्डार्थमाहृत्य वारुणं वैष्णवे हुनेथ् ॥ २७.६१ ॥
anuktadeśādānītā mṛdo vā vālukāstathā . agnikuṇḍārthamāhṛtya vāruṇaṃ vaiṣṇave huneth .. 27.61 ..
आर्द्रं सधूमं दुर्गन्धं लेपयुक्तं सकण्टकं । जन्तुयुक्तं क्षिपेद्वह्नाविन्धनं तत्परित्यजेथ् ॥ २७.६२ ॥
ārdraṃ sadhūmaṃ durgandhaṃ lepayuktaṃ sakaṇṭakaṃ . jantuyuktaṃ kṣipedvahnāvindhanaṃ tatparityajeth .. 27.62 ..
अन्यत्प्रक्षिप्य चाग्नेयं वैष्णवं व्याहृतीर्हुनेथ् । वस्त्रादिद्रव्ये दर्भेषु प्रपायां कूट एव वा ॥ २७.६३ ॥
anyatprakṣipya cāgneyaṃ vaiṣṇavaṃ vyāhṛtīrhuneth . vastrādidravye darbheṣu prapāyāṃ kūṭa eva vā .. 27.63 ..
दग्धायामग्निना ब्राह्मं वैष्णवं सौरमेव च । आग्नेयं वैष्णवमिति प्रत्येकं दशशो हुनेथ् ॥ २७.६४ ॥
dagdhāyāmagninā brāhmaṃ vaiṣṇavaṃ saurameva ca . āgneyaṃ vaiṣṇavamiti pratyekaṃ daśaśo huneth .. 27.64 ..
कलशन्यासरचनाविपर्याने तु वैष्णवं । पङ्क्तीशदैवत्यं च हुनेत्ततश्शास्त्रवदाचरेथ् ॥ २७.६५ ॥
kalaśanyāsaracanāviparyāne tu vaiṣṇavaṃ . paṅktīśadaivatyaṃ ca hunettataśśāstravadācareth .. 27.65 ..
स्नपने तु विपर्याने बेरस्य जुहुयाद्बुधः । पञ्चवारुणमन्त्रांश्च वैष्णवं च यथाविधि ॥ २७.६६ ॥
snapane tu viparyāne berasya juhuyādbudhaḥ . pañcavāruṇamantrāṃśca vaiṣṇavaṃ ca yathāvidhi .. 27.66 ..
शयने चेद्विपर्यासो वैष्णवं श्रीमहीमनून् । कलशस्नानशयने प्रत्येकं दशशो हुनेथ् ॥ २७.६७ ॥
śayane cedviparyāso vaiṣṇavaṃ śrīmahīmanūn . kalaśasnānaśayane pratyekaṃ daśaśo huneth .. 27.67 ..
हीने वा विपरीते वा तत्र हौत्रप्रशंसने । ब्राह्मं मुनीन्द्रमन्त्रांश्चहुनेत्पारिषदामपि ॥ २७.६८ ॥
hīne vā viparīte vā tatra hautrapraśaṃsane . brāhmaṃ munīndramantrāṃścahunetpāriṣadāmapi .. 27.68 ..
अवाहनादावर्चायां विपरीते विवर्जिते । वैष्णवं विष्णुसूक्तं च ब्राह्मं रौन्द्रं हुनेद्दश ॥ २७.६९ ॥
avāhanādāvarcāyāṃ viparīte vivarjite . vaiṣṇavaṃ viṣṇusūktaṃ ca brāhmaṃ raundraṃ huneddaśa .. 27.69 ..
सर्वेषामुक्तहोमानां विपरीते विवर्जिते । पद्माग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ॥ २७.७० ॥
sarveṣāmuktahomānāṃ viparīte vivarjite . padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ .. 27.70 ..
शयानमुद्धरेद्देवमकाले चाप्यमन्त्रकं । हुत्वा श्रीभूमिदैवत्यं चतुष्कृत्वन्तु शाययेथ् ॥ २७.७१ ॥
śayānamuddhareddevamakāle cāpyamantrakaṃ . hutvā śrībhūmidaivatyaṃ catuṣkṛtvantu śāyayeth .. 27.71 ..
हीने चाध्ययने सारस्वतमष्टाधिकं शतं । प्रायश्चित्तं च हुत्वैव यथाशास्त्रं समाचरेथ् ॥ २७.७२ ॥
hīne cādhyayane sārasvatamaṣṭādhikaṃ śataṃ . prāyaścittaṃ ca hutvaiva yathāśāstraṃ samācareth .. 27.72 ..
यथालाभं च गृह्णीयादलाभे षोडशर्त्विजां । तन्त्रेण कारयेत्सर्वमेष शास्त्रविधिस्स्मृतः ॥ २७.७३ ॥
yathālābhaṃ ca gṛhṇīyādalābhe ṣoḍaśartvijāṃ . tantreṇa kārayetsarvameṣa śāstravidhissmṛtaḥ .. 27.73 ..
प्रतिष्ठायामुत्सवेवा तथान्यच्छुभकर्मणि । कुर्वतां तु पुरश्चर्यामाचार्यस्य र्त्विजां तथा ॥ २७.७४ ॥
pratiṣṭhāyāmutsavevā tathānyacchubhakarmaṇi . kurvatāṃ tu puraścaryāmācāryasya rtvijāṃ tathā .. 27.74 ..
आस्नानाद्दीक्षितानां तु नाशौचःपरिकीर्तितः । मोहादनुष्ठिताशौचाःपतन्तिनरकेऽशुचौ ॥ २७.७५ ॥
āsnānāddīkṣitānāṃ tu nāśaucaḥparikīrtitaḥ . mohādanuṣṭhitāśaucāḥpatantinarake'śucau .. 27.75 ..
गृह्णीया त्संस्कृतांस्तान्वा पुनरन्यानथापि वा । आचार्य स्थ्सापकादींस्तु भर्त्सनादिकमाचरन् ॥ २७.७६ ॥
gṛhṇīyā tsaṃskṛtāṃstānvā punaranyānathāpi vā . ācārya sthsāpakādīṃstu bhartsanādikamācaran .. 27.76 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । ब्राह्मं सारस्वतं हुत्वा ताननुज्ञाप्य चाचरेथ् ॥ २७.७७ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca . brāhmaṃ sārasvataṃ hutvā tānanujñāpya cācareth .. 27.77 ..
आचार्यदक्षिणाकालेऽतीते हुत्वा तु वैष्णवं । मुनिमन्त्रञ्च जुहुयात्पृथगष्टोत्तरं शतं ॥ २७.७८ ॥
ācāryadakṣiṇākāle'tīte hutvā tu vaiṣṇavaṃ . munimantrañca juhuyātpṛthagaṣṭottaraṃ śataṃ .. 27.78 ..
यथोक्तदक्षिणां दद्यादर्थलोभं न कारयेथ् । ब्राह्मणानामन्नदाने विहीने शान्तिमाचरेथ् ॥ २७.७९ ॥
yathoktadakṣiṇāṃ dadyādarthalobhaṃ na kārayeth . brāhmaṇānāmannadāne vihīne śāntimācareth .. 27.79 ..
त्रियहं तु महाशान्ति स्तद्दोषविनिवारिणी । हन्त्यल्पदक्षिणो यागः फलं दद्यात्सदक्षिणः ॥ २७.८० ॥
triyahaṃ tu mahāśānti staddoṣavinivāriṇī . hantyalpadakṣiṇo yāgaḥ phalaṃ dadyātsadakṣiṇaḥ .. 27.80 ..
यज्ञस्य दक्षिणा जीवस्तस्माद्यत्नेन पालयेथ् । इयं तात्कालिकीज्ञेया भूमिमग्रे प्रदापयेथ् ॥ २७.८१ ॥
yajñasya dakṣiṇā jīvastasmādyatnena pālayeth . iyaṃ tātkālikījñeyā bhūmimagre pradāpayeth .. 27.81 ..
अर्चकस्यार्चनार्धं च कुटुंबार्थं विशेषतः । भूमिभोगमकल्प्यैव महाशान्तिं समाचरेथ् ॥ २७.८२ ॥
arcakasyārcanārdhaṃ ca kuṭuṃbārthaṃ viśeṣataḥ . bhūmibhogamakalpyaiva mahāśāntiṃ samācareth .. 27.82 ..
असंकल्पितवृत्तिस्तु देवावासो न वर्धते । अर्चकः प्रणिधिर्यस्माद्राज्ञो राष्ट्रस्य कल्पते ॥ २७.८३ ॥
asaṃkalpitavṛttistu devāvāso na vardhate . arcakaḥ praṇidhiryasmādrājño rāṣṭrasya kalpate .. 27.83 ..
तस्मात्समाहितः कुर्याद्यथा पूजा न लुप्यते । आपद्यपि च कष्टायां पूजामेतां न लोपयेथ् ॥ २७.८४ ॥
tasmātsamāhitaḥ kuryādyathā pūjā na lupyate . āpadyapi ca kaṣṭāyāṃ pūjāmetāṃ na lopayeth .. 27.84 ..
यदैव लुप्यते पूजा येन केनापि हेतुना । अग्रेर्ऽचकमियाद्दोष आर्द्रमेषोऽपराध्यति ॥ २७.८५ ॥
yadaiva lupyate pūjā yena kenāpi hetunā . agrer'cakamiyāddoṣa ārdrameṣo'parādhyati .. 27.85 ..
तस्माद्दायेन भूम्यादि स्थिरदानेन सादरं । रूढाधिकार एवाग्रे प्रवर्तेतार्ऽचनेर्ऽचकः ॥ २७.८६ ॥
tasmāddāyena bhūmyādi sthiradānena sādaraṃ . rūḍhādhikāra evāgre pravartetār'caner'cakaḥ .. 27.86 ..
यस्मादर्चनहीने तु राजराष्ट्रादिसंक्षयः । तद्ग्रामवासिनस्तस्माद्राजा राष्ट्रगता अपि ॥ २७.८७ ॥
yasmādarcanahīne tu rājarāṣṭrādisaṃkṣayaḥ . tadgrāmavāsinastasmādrājā rāṣṭragatā api .. 27.87 ..
भगवत्पूजनाहेतो रुपकुर्युः प्रयत्नतः । आर्द्रापराधो भवति यस्माद्दोषेषु पूजकः ॥ २७.८८ ॥
bhagavatpūjanāheto rupakuryuḥ prayatnataḥ . ārdrāparādho bhavati yasmāddoṣeṣu pūjakaḥ .. 27.88 ..
तं वृत्तिकर्शितं दृष्य्वा राजा च ग्रामवासिनः । सुखितं तं तथा कुर्युर्यथा देवस्तथार्चकः ॥ २७.८९ ॥
taṃ vṛttikarśitaṃ dṛṣyvā rājā ca grāmavāsinaḥ . sukhitaṃ taṃ tathā kuryuryathā devastathārcakaḥ .. 27.89 ..
दत्वृत्तिमधिकां चापिन शङ्केयुरसूयवः । यथार्हमुपयुञ्जीरन्स्वशक्तिं तत्सुखाय वै ॥ २७.९० ॥
datvṛttimadhikāṃ cāpina śaṅkeyurasūyavaḥ . yathārhamupayuñjīransvaśaktiṃ tatsukhāya vai .. 27.90 ..
प्रतिष्ठान्ते तु विधिवदर्चके त्वप्रकल्पिते । आसुरी सा भवेदर्चा कर्ता नैवाप्नु यात्फलं ॥ २७.९१ ॥
pratiṣṭhānte tu vidhivadarcake tvaprakalpite . āsurī sā bhavedarcā kartā naivāpnu yātphalaṃ .. 27.91 ..
देवेन सार्थमुद्दिष्टं यत्कुलं पूजकस्य तु । तदतिक्रम्य पूजां तु कारयेदितरेण चेथ् ॥ २७.९२ ॥
devena sārthamuddiṣṭaṃ yatkulaṃ pūjakasya tu . tadatikramya pūjāṃ tu kārayeditareṇa ceth .. 27.92 ..
रौरवं नरकं याति कर्ता कारयिता च यः । तस्मा त्सर्वप्रयत्नेन शास्त्रोक्तं परिपालयेथ् ॥ २७.९३ ॥
rauravaṃ narakaṃ yāti kartā kārayitā ca yaḥ . tasmā tsarvaprayatnena śāstroktaṃ paripālayeth .. 27.93 ..
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं । न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसंग्रहः ॥ २७.९४ ॥
śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikaṃ . na hi pratīkṣate mṛtyuḥ kartavyo dharmasaṃgrahaḥ .. 27.94 ..
न त्य क्तविभवो जातु भवेच्च विभवे सति । यथाशक्ति प्रकुर्वीत विभवांश्च न लोभयेथ् ॥ २७.९५ ॥
na tya ktavibhavo jātu bhavecca vibhave sati . yathāśakti prakurvīta vibhavāṃśca na lobhayeth .. 27.95 ..
अलाभे कौतुकादीनां सुवर्णं न्यस्य वैष्मवं । विष्णुसूक्तं नृसुक्तं च वायव्यं दिगधीश्वरं ॥ २७.९६ ॥
alābhe kautukādīnāṃ suvarṇaṃ nyasya vaiṣmavaṃ . viṣṇusūktaṃ nṛsuktaṃ ca vāyavyaṃ digadhīśvaraṃ .. 27.96 ..
सभ्येऽन्तहोमहीने तु वैष्णवं पावकं तथा । व्याहृतीश्च हुनेद्विद्वान्दशकृत्वस्समाहितः ॥ २७.९७ ॥
sabhye'ntahomahīne tu vaiṣṇavaṃ pāvakaṃ tathā . vyāhṛtīśca hunedvidvāndaśakṛtvassamāhitaḥ .. 27.97 ..
अग्निग्रहणहीने तु हुत्वा पूर्वोक्तनिष्कृतिं । श्रोत्रियावसथादग्निमाहृत्याघारवूर्वकं ॥ २७.९८ ॥
agnigrahaṇahīne tu hutvā pūrvoktaniṣkṛtiṃ . śrotriyāvasathādagnimāhṛtyāghāravūrvakaṃ .. 27.98 ..
नित्यहोमं च जुहुयात्ततः प्रभृति चाचरेथ् । ध्रुवादावाहयेद्यस्मात्कौतुकादि चतुर्ष्वपि ॥ २७.९९ ॥
nityahomaṃ ca juhuyāttataḥ prabhṛti cācareth . dhruvādāvāhayedyasmātkautukādi caturṣvapi .. 27.99 ..
प्रमादात्कुंभतीर्थेन तेषामावाहने कृते । इषेत्वेऽत्यादिना स्नाप्य शीघ्रं शुद्धेन वारिणा ॥ २७.१०० ॥
pramādātkuṃbhatīrthena teṣāmāvāhane kṛte . iṣetve'tyādinā snāpya śīghraṃ śuddhena vāriṇā .. 27.100 ..
अनुमान्य च देवेशं वैष्णवं विष्णुसूक्तकं । जुहुयात्पौरुषंसूक्तं ध्रुवादावाहयेत्पुनः ॥ २७.१०१ ॥
anumānya ca deveśaṃ vaiṣṇavaṃ viṣṇusūktakaṃ . juhuyātpauruṣaṃsūktaṃ dhruvādāvāhayetpunaḥ .. 27.101 ..
अथनित्यार्चनायान्तु प्रायश्चित्तं प्रवक्ष्यते । सूर्योदयाच्च मध्याह्नात्पूर्व मस्तमयादपि ॥ २७.१०२ ॥
athanityārcanāyāntu prāyaścittaṃ pravakṣyate . sūryodayācca madhyāhnātpūrva mastamayādapi .. 27.102 ..
कवाटोद्घाटने हीने नित्याग्नौ वा महानने । वैष्णवं धात्रादिदैवत्यं हुत्वा दौवारिकं तथा ॥ २७.१०३ ॥
kavāṭodghāṭane hīne nityāgnau vā mahānane . vaiṣṇavaṃ dhātrādidaivatyaṃ hutvā dauvārikaṃ tathā .. 27.103 ..
शीघ्रमुद्घाटयेद्द्वारं देवदेवं प्रणम्य च । अमन्त्रकमथान्यैर्वा कवाटोद्घाटने कृते ॥ २७.१०४ ॥
śīghramudghāṭayeddvāraṃ devadevaṃ praṇamya ca . amantrakamathānyairvā kavāṭodghāṭane kṛte .. 27.104 ..
पूर्वोक्तं जुहुयाच्छान्तिं जपेद्द्वादशसूक्तकं । मार्जनादिषु हीनेषु निर्माल्येचाप्यशोधिते ॥ २७.१०५ ॥
pūrvoktaṃ juhuyācchāntiṃ japeddvādaśasūktakaṃ . mārjanādiṣu hīneṣu nirmālyecāpyaśodhite .. 27.105 ..
वैष्णवं वारुणं हुत्वा वायव्यं शान्तमेव च । यथावत्कारयेत्सर्वं मन्त्रेणैव पुनर्गुरुः ॥ २७.१०६ ॥
vaiṣṇavaṃ vāruṇaṃ hutvā vāyavyaṃ śāntameva ca . yathāvatkārayetsarvaṃ mantreṇaiva punarguruḥ .. 27.106 ..
द्रव्यप्रतिनिधिस्तोयमलाभे तेन चाचरेथ् । देवस्य स्नपने हीने वैष्णवे वारुणं हुनेथ् ॥ २७.१०७ ॥
dravyapratinidhistoyamalābhe tena cācareth . devasya snapane hīne vaiṣṇave vāruṇaṃ huneth .. 27.107 ..
अपो हिऽष्ठादिभिर्मन्त्रैस्स्नावयेन्निष्कृतिर्भवेथ् । पश्नान्नित्यं प्रकुर्वीत स्नानं नित्यार्चनोदितं ॥ २७.१०८ ॥
apo hi'ṣṭhādibhirmantraissnāvayenniṣkṛtirbhaveth . paśnānnityaṃ prakurvīta snānaṃ nityārcanoditaṃ .. 27.108 ..
अशक्तौस्नापने प्रोक्ष्यं मन्त्रेण कुशवारिभिः । वस्त्रादींश्च व्यपोह्यैव धौतवस्त्रं समर्पयेथ् ॥ २७.१०९ ॥
aśaktausnāpane prokṣyaṃ mantreṇa kuśavāribhiḥ . vastrādīṃśca vyapohyaiva dhautavastraṃ samarpayeth .. 27.109 ..
नित्यं स्नानमशक्यं चेद्विष्णुपञ्चदिनेषु वै । स्नापयेद्देवदेवेशमिति केचिद्वदन्तिहि ॥ २७.११० ॥
nityaṃ snānamaśakyaṃ cedviṣṇupañcadineṣu vai . snāpayeddevadeveśamiti kecidvadantihi .. 27.110 ..
ध्रुवपीठेतु निर्माल्यं संशोध्य पुनरेव च । पुष्पन्यासं प्रकुर्वीत ध्रुवे नित्यार्चनं भवेथ् ॥ २७.१११ ॥
dhruvapīṭhetu nirmālyaṃ saṃśodhya punareva ca . puṣpanyāsaṃ prakurvīta dhruve nityārcanaṃ bhaveth .. 27.111 ..
पुष्पन्यासं विनाकुर्यात्कौतुकस्यार्चनं यदि । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तधैव च ॥ २७.११२ ॥
puṣpanyāsaṃ vinākuryātkautukasyārcanaṃ yadi . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tadhaiva ca .. 27.112 ..
हुत्वा च विष्णुगायत्रीं पुष्बन्यासं क्रमाच्चरेथ् । संबन्धकूर्चहीनेतु वैष्णवं मुनिमन्त्रकं ॥ २७.११३ ॥
hutvā ca viṣṇugāyatrīṃ puṣbanyāsaṃ kramāccareth . saṃbandhakūrcahīnetu vaiṣṇavaṃ munimantrakaṃ .. 27.113 ..
हुत्वासन्न्यस्य कूर्चं तु पश्चात्कार्यं समाचरेथ् । धात्राद्यर्चनहीने तु तद्दैवत्यं सवैष्णवं ॥ २७.११४ ॥
hutvāsannyasya kūrcaṃ tu paścātkāryaṃ samācareth . dhātrādyarcanahīne tu taddaivatyaṃ savaiṣṇavaṃ .. 27.114 ..
हुत्वार्चयेद्धातृमुखान्तथा परिषदः क्रमाथ् । उपचारविपर्यासे क्षमऽन्वेति प्रणम्य च ॥ २७.११५ ॥
hutvārcayeddhātṛmukhāntathā pariṣadaḥ kramāth . upacāraviparyāse kṣama'nveti praṇamya ca .. 27.115 ..
अनुमान्यार्चयेद्देवं हीने चैव तु विग्रहे । तद्देवतामनुं जप्त्वा वैष्णवं च विशेषतः ॥ २७.११६ ॥
anumānyārcayeddevaṃ hīne caiva tu vigrahe . taddevatāmanuṃ japtvā vaiṣṇavaṃ ca viśeṣataḥ .. 27.116 ..
पुनस्तदुपचारादि पूजये त्सर्वविग्रहैः । उक्तद्रव्ये ष्वलब्धेषु पुष्पं तोयमथाक्षतं ॥ २७.११७ ॥
punastadupacārādi pūjaye tsarvavigrahaiḥ . uktadravye ṣvalabdheṣu puṣpaṃ toyamathākṣataṃ .. 27.117 ..
गृहीत्वा चैव तत्सर्वं ध्यात्वा देवं समर्चयेथ् । अर्चाकालेऽन्यकालं वा स्मये वा मूषिकादिभिः ॥ २७.११८ ॥
gṛhītvā caiva tatsarvaṃ dhyātvā devaṃ samarcayeth . arcākāle'nyakālaṃ vā smaye vā mūṣikādibhiḥ .. 27.118 ..
मरुता वापि विच्छिन्नमजस्रं दीपमादराथ् । द्विगुणं तु समुद्दीप्य सौरं रौद्रं च पावकं ॥ २७.११९ ॥
marutā vāpi vicchinnamajasraṃ dīpamādarāth . dviguṇaṃ tu samuddīpya sauraṃ raudraṃ ca pāvakaṃ .. 27.119 ..
वैष्णवं च तथाहुत्वा पुनरर्चनमाचरेथ् । तत्काले सर्वदीपानां नाशे दोषो महत्तरः ॥ २७.१२० ॥
vaiṣṇavaṃ ca tathāhutvā punararcanamācareth . tatkāle sarvadīpānāṃ nāśe doṣo mahattaraḥ .. 27.120 ..
देवं शुद्धोदकैस्स्नाप्य कुशोदैरभिषिच्य च । पूर्वोक्तां निष्कृतिं हुत्वा द्विगुणं तु निदेवयेथ् ॥ २७.१२१ ॥
devaṃ śuddhodakaissnāpya kuśodairabhiṣicya ca . pūrvoktāṃ niṣkṛtiṃ hutvā dviguṇaṃ tu nidevayeth .. 27.121 ..
बहुदीपेषुचैकस्मिन्नष्टे तेनन दुष्यति । मन्त्राणां स्खलने मूर्त्याप्रणवेन सहाचरेथ् ॥ २७.१२२ ॥
bahudīpeṣucaikasminnaṣṭe tenana duṣyati . mantrāṇāṃ skhalane mūrtyāpraṇavena sahācareth .. 27.122 ..
अर्चाकाले यवनिकाहीने चैव प्रजापतिं । वैष्णपं चैव हुत्वा तु पटं कृत्वार्ऽचयेत्पुनः ॥ २७.१२३ ॥
arcākāle yavanikāhīne caiva prajāpatiṃ . vaiṣṇapaṃ caiva hutvā tu paṭaṃ kṛtvār'cayetpunaḥ .. 27.123 ..
वेददूषक पाषण्ड पापरोगान्वितैर्जनैः । प्रतिलोमादिभिर्ल्मेच्छैरन्त्यजातिभिरेव च ॥ २७.१२४ ॥
vedadūṣaka pāṣaṇḍa pāparogānvitairjanaiḥ . pratilomādibhirlmecchairantyajātibhireva ca .. 27.124 ..
तत्काले दर्शने हुत्वा वैष्णवं ब्राह्ममेव च । रौद्रं च पावकं हुत्वा व्याहृतीश्च ततोर्ऽचयेथ् ॥ २७.१२५ ॥
tatkāle darśane hutvā vaiṣṇavaṃ brāhmameva ca . raudraṃ ca pāvakaṃ hutvā vyāhṛtīśca tator'cayeth .. 27.125 ..
यदि चावरणाद्बाह्ये पञ्चाशद्दण्डकान्तरे । मनुष्याणां मृतिस्स्यात्तदुद्धृत्यैवार्चयेद्धरिं ॥ २७.१२६ ॥
yadi cāvaraṇādbāhye pañcāśaddaṇḍakāntare . manuṣyāṇāṃ mṛtissyāttaduddhṛtyaivārcayeddhariṃ .. 27.126 ..
नैवार्चनं हविर्दानं ततः पूर्वं समाचरेथ् । ध्रुवकौतुकयोः कुर्यात्पुष्पन्यासावसानकं ॥ २७.१२७ ॥
naivārcanaṃ havirdānaṃ tataḥ pūrvaṃ samācareth . dhruvakautukayoḥ kuryātpuṣpanyāsāvasānakaṃ .. 27.127 ..
पश्चात्कालात्यये शान्तिं हुत्वा द्विगुणमर्चयेथ् । एककालार्चने हीने द्वितीये द्विगुणं चरेथ् ॥ २७.१२८ ॥
paścātkālātyaye śāntiṃ hutvā dviguṇamarcayeth . ekakālārcane hīne dvitīye dviguṇaṃ careth .. 27.128 ..
तृतीये त्रिगुणं कुर्यादेकाहेर्ऽचाविवर्जिते । वैष्णवं विष्णुसूक्तं च पुरुष सूक्तं तथैव च ॥ २७.१२९ ॥
tṛtīye triguṇaṃ kuryādekāher'cāvivarjite . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktaṃ tathaiva ca .. 27.129 ..
हुनेच्छ्रीभूमिदैवत्यं द्व्यहे तु द्विगुणं भवेथ् । त्षहे त्रिगुणमेवन्तु द्वादशाहान्तमाचरेथ् ॥ २७.१३० ॥
hunecchrībhūmidaivatyaṃ dvyahe tu dviguṇaṃ bhaveth . tṣahe triguṇamevantu dvādaśāhāntamācareth .. 27.130 ..
अतीते द्वादशाहेतु संधायौपासनानले । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१३१ ॥
atīte dvādaśāhetu saṃdhāyaupāsanānale . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca .. 27.131 ..
आलये परिषद्देव मन्त्रान्हुत्वा च शक्तितः । कलशैस्स्नाप्य देवेशमभ्यर्च्य हविरर्पयेथ् ॥ २७.१३२ ॥
ālaye pariṣaddeva mantrānhutvā ca śaktitaḥ . kalaśaissnāpya deveśamabhyarcya havirarpayeth .. 27.132 ..
मासं हीनेर्ऽचने कुर्यादालयाभिमुखे गुरुः । सभ्याग्नौ वैष्णवं विष्णुसूक्तं सूक्तं च पौरुषं ॥ २७.१३३ ॥
māsaṃ hīner'cane kuryādālayābhimukhe guruḥ . sabhyāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣaṃ .. 27.133 ..
हुत्वा श्रीभूमिदैवत्यं सर्वदैवत्यमेव च । कलशैरष्टभिश्च त्वारिंशद्भिस्स्नापयेद्धरिं ॥ २७.१३४ ॥
hutvā śrībhūmidaivatyaṃ sarvadaivatyameva ca . kalaśairaṣṭabhiśca tvāriṃśadbhissnāpayeddhariṃ .. 27.134 ..
विशेषेण हविर्दद्याद्द्वितीयेद्विगुणं तथा । तृतीये त्रिगुणं चैवं वत्सरानन्तु वर्धयेथ् ॥ २७.१३५ ॥
viśeṣeṇa havirdadyāddvitīyedviguṇaṃ tathā . tṛtīye triguṇaṃ caivaṃ vatsarānantu vardhayeth .. 27.135 ..
अतीते वत्सरे चैवं पद्माग्नौ सप्तवासरं । महाशान्तिं तु हुत्वैव कृत्वा वैष्णवपूजनं ॥ २७.१३६ ॥
atīte vatsare caivaṃ padmāgnau saptavāsaraṃ . mahāśāntiṃ tu hutvaiva kṛtvā vaiṣṇavapūjanaṃ .. 27.136 ..
ब्राह्मणान्भोजयित्वैव शताष्टकलशैः पुनः । संस्नाप्य देवदेवेशं पुनस्थ्सापन माचरेथ् ॥ २७.१३७ ॥
brāhmaṇānbhojayitvaiva śatāṣṭakalaśaiḥ punaḥ . saṃsnāpya devadeveśaṃ punasthsāpana mācareth .. 27.137 ..
अक्ष्युन्नेषाधिवासौ तु पुनस्थ्सापनकर्मणि । हित्वान्यत्सकलं कर्म पूर्ववत्तु समाचरेथ् ॥ २७.१३८ ॥
akṣyunneṣādhivāsau tu punasthsāpanakarmaṇi . hitvānyatsakalaṃ karma pūrvavattu samācareth .. 27.138 ..
हविर्हीने जनास्सर्वेतद्ग्रामस्थास्समीपगाः । पीडिताः क्षुत्पिपासाद्यैर्भवेयुर्व्याधिता अपि ॥ २७.१३९ ॥
havirhīne janāssarvetadgrāmasthāssamīpagāḥ . pīḍitāḥ kṣutpipāsādyairbhaveyurvyādhitā api .. 27.139 ..
तस्मादतिप्रयत्नेन हविस्सम्य ङ्निवेदयेथ् । हीने हविष्येक काले द्वितीये द्विगुणं भवेथ् ॥ २७.१४० ॥
tasmādatiprayatnena havissamya ṅnivedayeth . hīne haviṣyeka kāle dvitīye dviguṇaṃ bhaveth .. 27.140 ..
तृतीये त्रिगुणं कुर्यादेकस्मिन्दिवसे गते । वैष्णवं श्रीमहीमन्त्रान्मूर्ति होमं तथा हुनेथ् ॥ २७.१४१ ॥
tṛtīye triguṇaṃ kuryādekasmindivase gate . vaiṣṇavaṃ śrīmahīmantrānmūrti homaṃ tathā huneth .. 27.141 ..
देवं शुद्धोदकैस्स्नाप्य प्रभूतं तु निवेदयेथ् । सोपदंशमपक्वं च शीतं पर्युषितं तथा ॥ २७.१४२ ॥
devaṃ śuddhodakaissnāpya prabhūtaṃ tu nivedayeth . sopadaṃśamapakvaṃ ca śītaṃ paryuṣitaṃ tathā .. 27.142 ..
पात्रान्तरेष्वनिक्षिप्तं सावशेषं च लङ्घितं । विवृतं स्रावितं चैव विकृतं दृष्टि दूषितं ॥ २७.१४३ ॥
pātrāntareṣvanikṣiptaṃ sāvaśeṣaṃ ca laṅghitaṃ . vivṛtaṃ srāvitaṃ caiva vikṛtaṃ dṛṣṭi dūṣitaṃ .. 27.143 ..
अप्रोक्षितमथास्पृष्ट मगृहीतममुद्रितं । हविर्निवेदयेच्चेत्तु वैष्णवं श्रीमहीमनून् ॥ २७.१४४ ॥
aprokṣitamathāspṛṣṭa magṛhītamamudritaṃ . havirnivedayeccettu vaiṣṇavaṃ śrīmahīmanūn .. 27.144 ..
आग्नेयं वारुणं चैव वायव्यं दशशो हुनेथ् । द्विगुणं तु पुनःकृत्वा प्रभूतं तु निवेदयेथ् ॥ २७.१४५ ॥
āgneyaṃ vāruṇaṃ caiva vāyavyaṃ daśaśo huneth . dviguṇaṃ tu punaḥkṛtvā prabhūtaṃ tu nivedayeth .. 27.145 ..
निवेद्य चाशुमिस्पृष्टं देवं संस्नाप्य मन्त्रतः । वैष्णवं विष्णुगायत्रीं त्रयस्त्रिंशत्क्रमाद्धुनेथ् ॥ २७.१४६ ॥
nivedya cāśumispṛṣṭaṃ devaṃ saṃsnāpya mantrataḥ . vaiṣṇavaṃ viṣṇugāyatrīṃ trayastriṃśatkramāddhuneth .. 27.146 ..
जुहुयाद्विधिनाशान्तिं प्रोक्षणैरपि प्रोक्षयेथ् । पुण्याहं वाचयित्वैव द्विगुणं चार्चनं हविः ॥ २७.१४७ ॥
juhuyādvidhināśāntiṃ prokṣaṇairapi prokṣayeth . puṇyāhaṃ vācayitvaiva dviguṇaṃ cārcanaṃ haviḥ .. 27.147 ..
व्रीह्यङ्गारतुषैर्युक्तेशर्करादिविमिश्रिते । निवेदिते तु हविषि मन्त्रेणाष्टाक्षरेण तु ॥ २७.१४८ ॥
vrīhyaṅgāratuṣairyukteśarkarādivimiśrite . nivedite tu haviṣi mantreṇāṣṭākṣareṇa tu .. 27.148 ..
वैष्णप्या चैव गायत्षा मन्त्रैस्संस्तूय वैष्णवैः । क्षमऽस्वेत्यनुमान्यैव प्रणमयैव च याचयेथ् ॥ २७.१४९ ॥
vaiṣṇapyā caiva gāyatṣā mantraissaṃstūya vaiṣṇavaiḥ . kṣama'svetyanumānyaiva praṇamayaiva ca yācayeth .. 27.149 ..
मक्षिकाद्यैर्जन्तुभिश्च केशाद्यैरपि दूषिते । निवेदिते तु हविषि शुद्धोदैस्स्नाव्यवै हरिं ॥ २७.१५० ॥
makṣikādyairjantubhiśca keśādyairapi dūṣite . nivedite tu haviṣi śuddhodaissnāvyavai hariṃ .. 27.150 ..
वैष्णवं विष्णुसूक्तं च श्रीभूदैवत्यमेव च । अष्टोत्तरशतं हुत्वा द्विगुणं तु निवेदयेथ् ॥ २७.१५१ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca śrībhūdaivatyameva ca . aṣṭottaraśataṃ hutvā dviguṇaṃ tu nivedayeth .. 27.151 ..
महाहविषि चैतैन्तु संयुक्ते तत्र दूषितं । पुरुषाशनमात्रं तु व्यपोह्य तदनन्तरं ॥ २७.१५२ ॥
mahāhaviṣi caitaintu saṃyukte tatra dūṣitaṃ . puruṣāśanamātraṃ tu vyapohya tadanantaraṃ .. 27.152 ..
भस्मांभसाकुशै रापो हिरण्य पवमानऽकैः । प्रोक्ष्य देवं सुसंप्रार्ध्य तद्गृहीत्वा निवेदयेथ् ॥ २७.१५३ ॥
bhasmāṃbhasākuśai rāpo hiraṇya pavamāna'kaiḥ . prokṣya devaṃ susaṃprārdhya tadgṛhītvā nivedayeth .. 27.153 ..
पूर्वमर्कोदयात्पक्व मुपदंशमथो हविः । कोष्णं चेदर्पयेत्प्रातरर्चनान्तेन दोषभाक् ॥ २७.१५४ ॥
pūrvamarkodayātpakva mupadaṃśamatho haviḥ . koṣṇaṃ cedarpayetprātararcanāntena doṣabhāk .. 27.154 ..
पूर्व मस्तमयात्पक्वं तथा सायं निवेदयेथ् । असंस्कृतं तु तांबूलं लेपकेशान्वितं तथा ॥ २७.१५५ ॥
pūrva mastamayātpakvaṃ tathā sāyaṃ nivedayeth . asaṃskṛtaṃ tu tāṃbūlaṃ lepakeśānvitaṃ tathā .. 27.155 ..
जन्तुस्पृष्टं निवेद्यैव वैष्णवंश्रीमहीमनुन् । हुत्वा संस्कृत्य तांबूलं पुनरन्यन्निवेदयेथ् ॥ २७.१५६ ॥
jantuspṛṣṭaṃ nivedyaiva vaiṣṇavaṃśrīmahīmanun . hutvā saṃskṛtya tāṃbūlaṃ punaranyannivedayeth .. 27.156 ..
अर्चनांगेषु चान्येषु पदार्थेष्वेवमेव हि । दूषितेष्वध हीनेषु तस्य तस्याधिदैवतं ॥ २७.१५७ ॥
arcanāṃgeṣu cānyeṣu padārtheṣvevameva hi . dūṣiteṣvadha hīneṣu tasya tasyādhidaivataṃ .. 27.157 ..
मन्त्रं स वैष्णवं हुत्वा पुनरन्यैस्समर्चयेथ् । अलाभे चैव सर्वेषां पुष्पं तोयं प्रगृह्यच ॥ २७.१५८ ॥
mantraṃ sa vaiṣṇavaṃ hutvā punaranyaissamarcayeth . alābhe caiva sarveṣāṃ puṣpaṃ toyaṃ pragṛhyaca .. 27.158 ..
संकल्प्यैव प्रतिनिधिं तत्तत्स्मृत्वा समर्चयेथ् । नित्यहोमे विहीनेतु वैष्णवं दशशो हुनेथ् ॥ २७.१५९ ॥
saṃkalpyaiva pratinidhiṃ tattatsmṛtvā samarcayeth . nityahome vihīnetu vaiṣṇavaṃ daśaśo huneth .. 27.159 ..
यथोक्तहोमं द्विगुणमाचरेत्तदनन्तरं । अग्निसंरक्षणेऽशक्ता "वयन्ते योऽनिमुच्चरन् ॥ २७.१६० ॥
yathoktahomaṃ dviguṇamācarettadanantaraṃ . agnisaṃrakṣaṇe'śaktā "vayante yo'nimuccaran .. 27.160 ..
समिध्यारोपयेत्कुण्डात्पश्चात्संस्थाप्य लौकिके । न्यस्य "चोपावरोऽहेतिप्रत्यहं जुहुयात्क्रमाथ् ॥ २७.१६१ ॥
samidhyāropayetkuṇḍātpaścātsaṃsthāpya laukike . nyasya "copāvaro'hetipratyahaṃ juhuyātkramāth .. 27.161 ..
सुरर्षिमनुजानां तु बलं यस्मात्पृवर्धते । तस्माद्बलिस्समाख्यातस्तदर्थं प्रत्यहं हरिं ॥ २७.१६२ ॥
surarṣimanujānāṃ tu balaṃ yasmātpṛvardhate . tasmādbalissamākhyātastadarthaṃ pratyahaṃ hariṃ .. 27.162 ..
उक्तद्रव्येषु चावाह्य त्रिषु कालेषु देशिकः । अभ्यर्च्य भ्रामयेदेवमशक्तः कर्तुमुत्तमं ॥ २७.१६३ ॥
uktadravyeṣu cāvāhya triṣu kāleṣu deśikaḥ . abhyarcya bhrāmayedevamaśaktaḥ kartumuttamaṃ .. 27.163 ..
यथोक्तपात्रे निक्षिप्य बलिद्कव्यन्तु केवलं । तस्योपरि यथोक्तं तु बलिबेरं च विन्यसेथ् ॥ २७.१६४ ॥
yathoktapātre nikṣipya balidkavyantu kevalaṃ . tasyopari yathoktaṃ tu baliberaṃ ca vinyaseth .. 27.164 ..
शिरसा धारयन्पात्रं त्रिर्द्विर्वा सकृदेव वा । देने ततः परीयाच्च देवागारं प्रदक्षिणं ॥ २७.१६५ ॥
śirasā dhārayanpātraṃ trirdvirvā sakṛdeva vā . dene tataḥ parīyācca devāgāraṃ pradakṣiṇaṃ .. 27.165 ..
अथ हित्वा बलिद्रव्यं शिबिकादौ गजेऽथवा । अरोप्य याने विधिवत्कारयेच्च प्रदक्षिणं ॥ २७.१६६ ॥
atha hitvā balidravyaṃ śibikādau gaje'thavā . aropya yāne vidhivatkārayecca pradakṣiṇaṃ .. 27.166 ..
प्रातर्भ्रमणहीने तु वैष्मवं सौरस्ॐयकं । प्राजापत्यं च जुहुयाद्धीने चोक्तप्रदक्षिणे ॥ २७.१६७ ॥
prātarbhramaṇahīne tu vaiṣmavaṃ sauras_oṃyakaṃ . prājāpatyaṃ ca juhuyāddhīne coktapradakṣiṇe .. 27.167 ..
वैष्णवं गारुडं हुत्वा बलिभ्रमणमाचरेथ् । हीने प्रातर्बलौ कुर्यान्मध्याह्ने द्विगुणं बलिं ॥ २७.१६८ ॥
vaiṣṇavaṃ gāruḍaṃ hutvā balibhramaṇamācareth . hīne prātarbalau kuryānmadhyāhne dviguṇaṃ baliṃ .. 27.168 ..
तथा हीने च मध्याह्ने रात्रौ त्रिगुणमाचरेथ् । एकाहे तु बलौ हीने नित्याग्नौ वा महानने ॥ २७.१६९ ॥
tathā hīne ca madhyāhne rātrau triguṇamācareth . ekāhe tu balau hīne nityāgnau vā mahānane .. 27.169 ..
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च । दिग्दैवत्यं च हुत्वा तु प्रदक्षिणनुथाचरेथ् ॥ २७.१७० ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca . digdaivatyaṃ ca hutvā tu pradakṣiṇanuthācareth .. 27.170 ..
देवालङ्कारहीने तु श्रीदैवत्यं यजेद्बुधः । छत्रपिञ्छाद्यलाभे तु वारुणं जुहुयात्तथा ॥ २७.१७१ ॥
devālaṅkārahīne tu śrīdaivatyaṃ yajedbudhaḥ . chatrapiñchādyalābhe tu vāruṇaṃ juhuyāttathā .. 27.171 ..
अलाभे चामरादीनां वायव्यं चैव हूयते । दीपालाभे पावकं च व्याहृत्यन्तं यजेत्त्रयं ॥ २७.१७२ ॥
alābhe cāmarādīnāṃ vāyavyaṃ caiva hūyate . dīpālābhe pāvakaṃ ca vyāhṛtyantaṃ yajettrayaṃ .. 27.172 ..
द्व्यहे तु द्विगुणं कुर्वात्त्षहे त्रिगुणमेव च । द्वादशाहान्तमेवं स्याद्द्वादशाहे गते ततः ॥ २७.१७३ ॥
dvyahe tu dviguṇaṃ kurvāttṣahe triguṇameva ca . dvādaśāhāntamevaṃ syāddvādaśāhe gate tataḥ .. 27.173 ..
औपासनाग्निमाधाय वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं च श्रीभूमिदैवत्यं ब्राह्म मेव च ॥ २७.१७४ ॥
aupāsanāgnimādhāya vaiṣṇavaṃ viṣṇusūktakaṃ . puruṣasūktaṃ ca śrībhūmidaivatyaṃ brāhma meva ca .. 27.174 ..
रौद्रं दिग्देवतामन्त्रं हुत्वैव भ्रमणं चरेथ् । मानेऽतीते तु पद्माग्नौ वैष्णवं विष्णुसूक्तं ॥ २७.१७५ ॥
raudraṃ digdevatāmantraṃ hutvaiva bhramaṇaṃ careth . māne'tīte tu padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ .. 27.175 ..
नृसूक्तं पारमात्मीकमीङ्कारादीं स्तदालये । परिषद्देवमन्त्रांश्च हुत्वा भ्रमणमाचरेथ् ॥ २७.१७६ ॥
nṛsūktaṃ pāramātmīkamīṅkārādīṃ stadālaye . pariṣaddevamantrāṃśca hutvā bhramaṇamācareth .. 27.176 ..
द्विमासे द्विगुणं कुर्यात्त्रिमासे त्रिगुणं चरेथ् । वर्धये द्वत्सरान्तं चाप्यतीते वत्सरे पुनः ॥ २७.१७७ ॥
dvimāse dviguṇaṃ kuryāttrimāse triguṇaṃ careth . vardhaye dvatsarāntaṃ cāpyatīte vatsare punaḥ .. 27.177 ..
सभ्यं संसाध्य देवाभिमुखे वा दक्षिणे नलं । वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ॥ २७.१७८ ॥
sabhyaṃ saṃsādhya devābhimukhe vā dakṣiṇe nalaṃ . vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca .. 27.178 ..
श्रीभूम्योश्चैव दैवत्यं सर्वदैवत्यमेव च । हुत्वा चार्यं च संपूज्य बल्युद्धरणमाचरेथ् ॥ २७.१७९ ॥
śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca . hutvā cāryaṃ ca saṃpūjya balyuddharaṇamācareth .. 27.179 ..
पतितेऽन्नबलौ भूम्यां भिन्ने जीर्णे च पूर्ववथ् । बलिमापाद्य हुत्वा च वैष्णवं गारुडं तथा ॥ २७.१८० ॥
patite'nnabalau bhūmyāṃ bhinne jīrṇe ca pūrvavath . balimāpādya hutvā ca vaiṣṇavaṃ gāruḍaṃ tathā .. 27.180 ..
प्राजापत्यं तु विधिना ततः कुर्यात्प्रदक्षिणं । बल्युद्धरणकाले तु विघ्नश्चेदापतेत्तदा ॥ २७.१८१ ॥
prājāpatyaṃ tu vidhinā tataḥ kuryātpradakṣiṇaṃ . balyuddharaṇakāle tu vighnaścedāpatettadā .. 27.181 ..
सौरं स्ॐयं वैष्णवं च हुत्वा पुनरथाचरेथ् । पात्रालाभे हविःपात्रं हुनैदादाय वैष्णवं ॥ २७.१८२ ॥
sauraṃ s_oṃyaṃ vaiṣṇavaṃ ca hutvā punarathācareth . pātrālābhe haviḥpātraṃ hunaidādāya vaiṣṇavaṃ .. 27.182 ..
प्रमाणहीनेऽन्नबलौ वैष्णवं च प्रजापतिं । जुहुयाद्दोषदुष्टे तु हविर्निष्कृतिमाचरेथ् ॥ २७.१८३ ॥
pramāṇahīne'nnabalau vaiṣṇavaṃ ca prajāpatiṃ . juhuyāddoṣaduṣṭe tu havirniṣkṛtimācareth .. 27.183 ..
आवाहनं विना चान्नबलौ तु भ्रमणेकृते । वैष्णवं विष्णुसूक्तं च पुरुषसूक्तं तथैव च ॥ २७.१८४ ॥
āvāhanaṃ vinā cānnabalau tu bhramaṇekṛte . vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca .. 27.184 ..
हुत्वा श्रीभूमिदैवत्यं विधिना भ्रमणं चरेथ् । बल्यग्रखण्डे विधिना शान्ताय त्वनिवेदिते ॥ २७.१८५ ॥
hutvā śrībhūmidaivatyaṃ vidhinā bhramaṇaṃ careth . balyagrakhaṇḍe vidhinā śāntāya tvanivedite .. 27.185 ..
वैष्णवं मूर्तिमन्त्रं च हुत्वैव दशशः क्रमाथ् । निवेद्य विष्वक्चेनाय प्रदाय मुखवासनं ॥ २७.१८६ ॥
vaiṣṇavaṃ mūrtimantraṃ ca hutvaiva daśaśaḥ kramāth . nivedya viṣvakcenāya pradāya mukhavāsanaṃ .. 27.186 ..
पुनश्च बल्युद्धरणं विधिना कारयेत्ततः । अकृते बलिदाने तु प्राश्य पादोदकं हरेः ॥ २७.१८७ ॥
punaśca balyuddharaṇaṃ vidhinā kārayettataḥ . akṛte balidāne tu prāśya pādodakaṃ hareḥ .. 27.187 ..
प्रसादं चापि संप्राश्य पुनर्द्विगुणमर्चयेथ् । प्रवृत्तायां तु पूजायां हविर्दानान्तमेव च ॥ २७.१८८ ॥
prasādaṃ cāpi saṃprāśya punardviguṇamarcayeth . pravṛttāyāṃ tu pūjāyāṃ havirdānāntameva ca .. 27.188 ..
तीर्थप्रसाददानं वा पादुकाग्रहणं तथा । नशस्तमन्यथा कृत्वा शान्तिहोमं समाचरेथ् ॥ २७.१८९ ॥
tīrthaprasādadānaṃ vā pādukāgrahaṇaṃ tathā . naśastamanyathā kṛtvā śāntihomaṃ samācareth .. 27.189 ..
पूजान्ते पूजकात्पूर्वमन्यस्तीर्थादिकं पिबेथ् । प्रसादं वापि गृह्णीयात्तत्पूजा निष्फला भवेथ् ॥ २७.१९० ॥
pūjānte pūjakātpūrvamanyastīrthādikaṃ pibeth . prasādaṃ vāpi gṛhṇīyāttatpūjā niṣphalā bhaveth .. 27.190 ..
महाशान्तिं तथा हुत्वा पुनःपूजां समाचरेथ् । तीर्थं पुष्पं ततः क्षीरं गन्धं च तदनन्तरं ॥ २७.१९१ ॥
mahāśāntiṃ tathā hutvā punaḥpūjāṃ samācareth . tīrthaṃ puṣpaṃ tataḥ kṣīraṃ gandhaṃ ca tadanantaraṃ .. 27.191 ..
सर्वाण्वपि हवींष्यत्र नागवल्लीदलान्यपि । यद्यन्निवेदितं देवे दद्यादग्रेर्ऽचकाय च ॥ २७.१९२ ॥
sarvāṇvapi havīṃṣyatra nāgavallīdalānyapi . yadyanniveditaṃ deve dadyādagrer'cakāya ca .. 27.192 ..
अर्चकस्तु हरिस्साक्षाच्चररूपो यतस्स्मृतः । नित्ये कर्मणि सर्वत्र पूजकं पूर्वमर्चयेथ् ॥ २७.१९३ ॥
arcakastu harissākṣāccararūpo yatassmṛtaḥ . nitye karmaṇi sarvatra pūjakaṃ pūrvamarcayeth .. 27.193 ..
आचार्य मर्चकं वाथ तथा नैमित्तिकेर्ऽचयेथ् । यद्यवैखानसो विप्रः कदापि हरिमन्दिरे ॥ २७.१९४ ॥
ācārya marcakaṃ vātha tathā naimittiker'cayeth . yadyavaikhānaso vipraḥ kadāpi harimandire .. 27.194 ..
समिच्छेदग्रसन्मानं तद्देवस्य विमाननं । यजमानो विपन्नस्स्याद्राजराष्ट्रं विनश्यति ॥ २७.१९५ ॥
samicchedagrasanmānaṃ taddevasya vimānanaṃ . yajamāno vipannassyādrājarāṣṭraṃ vinaśyati .. 27.195 ..
अज्ञानादथ वा मोहादाचले दन्यथायदि । द्विगुणं तु समभ्यर्च्य चान्यद्द्विगुण माचरेथ् ॥ २७.१९६ ॥
ajñānādatha vā mohādācale danyathāyadi . dviguṇaṃ tu samabhyarcya cānyaddviguṇa mācareth .. 27.196 ..
अशुचिर्वाप्यनाचारः सदावैखानस श्शुचिः । पिता मृष्यति पुत्राणां विशङ्कं दोषसंचयं ॥ २७.१९७ ॥
aśucirvāpyanācāraḥ sadāvaikhānasa śśuciḥ . pitā mṛṣyati putrāṇāṃ viśaṅkaṃ doṣasaṃcayaṃ .. 27.197 ..
पिता हि भगवान्विष्णुपुत्रास्स्युः पूजका हरेः । तस्मात्तेषु न कुप्येत दीर्घमायुर्जिजीविषुः ॥ २७.१९८ ॥
pitā hi bhagavānviṣṇuputrāssyuḥ pūjakā hareḥ . tasmātteṣu na kupyeta dīrghamāyurjijīviṣuḥ .. 27.198 ..
अतःपरं प्रवक्ष्यामि निष्कृतिं स्नपनाश्रितां । नित्यं नैमित्तिकं काम्यं त्रिविधं स्नपनं भवेथ् ॥ २७.१९९ ॥
ataḥparaṃ pravakṣyāmi niṣkṛtiṃ snapanāśritāṃ . nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snapanaṃ bhaveth .. 27.199 ..
विषुवे चायनद्वन्द्वे स्नपनं नित्यमुच्यते । चन्द्र सूर्योपरोगे यन्नैमित्तिकमिति स्मृतं ॥ २७.२०० ॥
viṣuve cāyanadvandve snapanaṃ nityamucyate . candra sūryoparoge yannaimittikamiti smṛtaṃ .. 27.200 ..
शेषेषु स्नपनं यत्तत्काम्यं तु परिकीर्तितं । नित्यस्नापनहीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.२०१ ॥
śeṣeṣu snapanaṃ yattatkāmyaṃ tu parikīrtitaṃ . nityasnāpanahīne tu vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.201 ..
पुरुषसूक्तं वारुणं च दशकृत्वो हुनेत्पुनः । स्नपनं विधिवत्कुर्यान्नि त्यस्नपन निष्कृतिः ॥ २७.२०२ ॥
puruṣasūktaṃ vāruṇaṃ ca daśakṛtvo hunetpunaḥ . snapanaṃ vidhivatkuryānni tyasnapana niṣkṛtiḥ .. 27.202 ..
ग्रहणे स्नपने हीने पूर्ववन्निष्कृतिं चरेथ् । काम्ये च पूर्ववत्कृत्वा शुद्धोदैरभिषेचयेथ् ॥ २७.२०३ ॥
grahaṇe snapane hīne pūrvavanniṣkṛtiṃ careth . kāmye ca pūrvavatkṛtvā śuddhodairabhiṣecayeth .. 27.203 ..
अन्यथा चेन्महादोषो यजमानो विनश्यति । आलयात्पुरतश्चैव उत्तरे वा मनोरमे ॥ २७.२०४ ॥
anyathā cenmahādoṣo yajamāno vinaśyati . ālayātpurataścaiva uttare vā manorame .. 27.204 ..
उत्तमं स्नपनागारमैशान्यां मध्यमं भवेथ् । पश्चिमे दक्षिणे चैवमधमं संप्रकीर्तितं ॥ २७.२०५ ॥
uttamaṃ snapanāgāramaiśānyāṃ madhyamaṃ bhaveth . paścime dakṣiṇe caivamadhamaṃ saṃprakīrtitaṃ .. 27.205 ..
आग्नेय्यादिषु कोणेषु स्नपने वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च दिगीशानां मनुं हुनेथ् ॥ २७.२०६ ॥
āgneyyādiṣu koṇeṣu snapane vaiṣṇavaṃ tathā . viṣṇusūktaṃ nṛsūktaṃ ca digīśānāṃ manuṃ huneth .. 27.206 ..
स्नपनं कारयेत्पश्चादेषा व्यत्यय निष्कृतिः । संध्याकालेतु संप्राप्ते निमित्तस्नपने तथा ॥ २७.२०७ ॥
snapanaṃ kārayetpaścādeṣā vyatyaya niṣkṛtiḥ . saṃdhyākāletu saṃprāpte nimittasnapane tathā .. 27.207 ..
नैमित्तिकं समाप्यैव नित्यपूजं समाचरेथ् । अन्यथा वैष्णवं मन्त्रं शतवारं जपेत्सुधीः ॥ २७.२०८ ॥
naimittikaṃ samāpyaiva nityapūjaṃ samācareth . anyathā vaiṣṇavaṃ mantraṃ śatavāraṃ japetsudhīḥ .. 27.208 ..
पूर्वरात्रौ प्रतिसरे हीने च शयने तथा । वैष्णवं श्रीमहीमन्त्रान्हुत्वा सौदर्शनं तथा ॥ २७.२०९ ॥
pūrvarātrau pratisare hīne ca śayane tathā . vaiṣṇavaṃ śrīmahīmantrānhutvā saudarśanaṃ tathā .. 27.209 ..
शय्याधिवासनं हित्वा बन्धयेत्कौतुकं पुनः । एमबेरे कौतुके तु कर्तव्ये शयनं विना ॥ २७.२१० ॥
śayyādhivāsanaṃ hitvā bandhayetkautukaṃ punaḥ . emabere kautuke tu kartavye śayanaṃ vinā .. 27.210 ..
बद्ध्वा प्रतिसरं सद्यस्स्नपनं सम्यगाचरेथ् । कृतेऽंकुरार्पणे हीने स्नपने वैष्णपं तथा ॥ २७.२११ ॥
baddhvā pratisaraṃ sadyassnapanaṃ samyagācareth . kṛte'ṃkurārpaṇe hīne snapane vaiṣṇapaṃ tathā .. 27.211 ..
स्ॐयं श्रीभूमिदैवत्यं वैघ्नं हुत्वाभिषेचयेथ् । विनांकुरार्पणं चाथ स्नापयेदिति केचन ॥ २७.२१२ ॥
s_oṃyaṃ śrībhūmidaivatyaṃ vaighnaṃ hutvābhiṣecayeth . vināṃkurārpaṇaṃ cātha snāpayediti kecana .. 27.212 ..
प्रमाणहीनेऽधिके वा पङ्क्तौ स्नानावटेऽपि च । वैष्णवं भूमिदैवत्यं पङ्क्तीशस्य मनुं यजेथ् ॥ २७.२१३ ॥
pramāṇahīne'dhike vā paṅktau snānāvaṭe'pi ca . vaiṣṇavaṃ bhūmidaivatyaṃ paṅktīśasya manuṃ yajeth .. 27.213 ..
हीने शान्ताद्यर्चने च वैष्णवं शान्तमेव च । पङ्क्तीशस्यार्चने हीने तन्मन्त्रं च जयादीकान् ॥ २७.२१४ ॥
hīne śāntādyarcane ca vaiṣṇavaṃ śāntameva ca . paṅktīśasyārcane hīne tanmantraṃ ca jayādīkān .. 27.214 ..
इन्द्राद्यर्चनहीने तु तन्मन्त्रं वैष्णवं हुनेथ् । कलशेष्वप्रमाणेषु वैष्णवं वायुदैवतं ॥ २७.२१५ ॥
indrādyarcanahīne tu tanmantraṃ vaiṣṇavaṃ huneth . kalaśeṣvapramāṇeṣu vaiṣṇavaṃ vāyudaivataṃ .. 27.215 ..
आग्नेयं जुहुयान्मृत्सु हीनास्वत्र च वैष्णवं । भूदैवत्यं च जुहुयान्मृत्सु सर्वास्वयं विधिः ॥ २७.२१६ ॥
āgneyaṃ juhuyānmṛtsu hīnāsvatra ca vaiṣṇavaṃ . bhūdaivatyaṃ ca juhuyānmṛtsu sarvāsvayaṃ vidhiḥ .. 27.216 ..
पर्वतेष्यप्रमाणेषु वैष्णवं पावकं हुनेथ् । धान्येषु वैष्णवं चैव वायव्यं च हुनेद्बुधः ॥ २७.२१७ ॥
parvateṣyapramāṇeṣu vaiṣṇavaṃ pāvakaṃ huneth . dhānyeṣu vaiṣṇavaṃ caiva vāyavyaṃ ca hunedbudhaḥ .. 27.217 ..
अङ्कुरेषु विहीनेषु वैष्णवं गारुडं तथा । जुहुयाद्व्याहृतीश्चैव यथार्हं संभरेत्पुनः ॥ २७.२१८ ॥
aṅkureṣu vihīneṣu vaiṣṇavaṃ gāruḍaṃ tathā . juhuyādvyāhṛtīścaiva yathārhaṃ saṃbharetpunaḥ .. 27.218 ..
वर्णहीनेष्वमानेषु मङ्गलेषु तु वैष्णवं । ऐन्द्रं च जुहुयात्कुर्याद्यथार्हं संभरेदपि ॥ २७.२१९ ॥
varṇahīneṣvamāneṣu maṅgaleṣu tu vaiṣṇavaṃ . aindraṃ ca juhuyātkuryādyathārhaṃ saṃbharedapi .. 27.219 ..
पञ्चगव्ये मन्त्रहीने विहीने योगकर्मणि । जुहुयाद्वैष्णवं रौद्रं मन्त्रेणैव सुयोजयेथ् ॥ २७.२२० ॥
pañcagavye mantrahīne vihīne yogakarmaṇi . juhuyādvaiṣṇavaṃ raudraṃ mantreṇaiva suyojayeth .. 27.220 ..
उक्तप्रमाणहीनेषु पञ्चगव्यादिषु क्रमाथ् । प्रधानेषु जलैःपूर्व द्रव्याधिपमनुं तथा ॥ २७.२२१ ॥
uktapramāṇahīneṣu pañcagavyādiṣu kramāth . pradhāneṣu jalaiḥpūrva dravyādhipamanuṃ tathā .. 27.221 ..
वैष्णवेनैव मन्त्रेण सह हुत्वा समाचरेथ् । प्राशनं प्रोक्षं वापि शास्त्रेऽस्मिन्यत्र चोद्यते ॥ २७.२२२ ॥
vaiṣṇavenaiva mantreṇa saha hutvā samācareth . prāśanaṃ prokṣaṃ vāpi śāstre'sminyatra codyate .. 27.222 ..
अयमेव विधिर्ज्ञेयः पञ्चगव्यस्य सर्वतः । साधिते कलशेभिन्ने त्वन्यमादाय पूर्ववथ् ॥ २७.२२३ ॥
ayameva vidhirjñeyaḥ pañcagavyasya sarvataḥ . sādhite kalaśebhinne tvanyamādāya pūrvavath .. 27.223 ..
आपूर्याभ्यर्च्य दशशो वैष्णवं जुहुयात्ततः । कलशानां विपर्यामे तद्धृतेनैव चाप्लुते ॥ २७.२२४ ॥
āpūryābhyarcya daśaśo vaiṣṇavaṃ juhuyāttataḥ . kalaśānāṃ viparyāme taddhṛtenaiva cāplute .. 27.224 ..
वैष्णवं द्रव्यदैवत्यं हुत्वा संशोध्य तत्पुनः । शुद्धोदैस्स्नापयेच्चैव यथावच्च पुनर्न्यसेथ् ॥ २७.२२५ ॥
vaiṣṇavaṃ dravyadaivatyaṃ hutvā saṃśodhya tatpunaḥ . śuddhodaissnāpayeccaiva yathāvacca punarnyaseth .. 27.225 ..
कृते तु कलशन्यासे श्वकाकादिभिरेव वा । अस्पृश्यैर्वापि संस्पर्शे संसाध्यान्यत्तु पूर्ववथ् ॥ २७.२२६ ॥
kṛte tu kalaśanyāse śvakākādibhireva vā . aspṛśyairvāpi saṃsparśe saṃsādhyānyattu pūrvavath .. 27.226 ..
शान्तिं वैष्णवमन्त्रांश्च हुत्वा कार्यं समाचरेथ् । कृमिकीटादिपतने तत्तद्द्रव्यं परित्यजेथ् ॥ २७.२२७ ॥
śāntiṃ vaiṣṇavamantrāṃśca hutvā kāryaṃ samācareth . kṛmikīṭādipatane tattaddravyaṃ parityajeth .. 27.227 ..
अन्यदादाय जुहुयाद्वैष्णवं द्रव्यदैवतं । रत्नालाभे वैष्णवं तु हुत्वा स्वर्णं तु निक्षिपेथ् ॥ २७.२२८ ॥
anyadādāya juhuyādvaiṣṇavaṃ dravyadaivataṃ . ratnālābhe vaiṣṇavaṃ tu hutvā svarṇaṃ tu nikṣipeth .. 27.228 ..
वस्त्रालाभे वैष्णवं च श्रीदैवत्यं च हावयेथ् । यथोक्तस्नपने हीने कथं चित्स्नपनं चरेथ् ॥ २७.२२९ ॥
vastrālābhe vaiṣṇavaṃ ca śrīdaivatyaṃ ca hāvayeth . yathoktasnapane hīne kathaṃ citsnapanaṃ careth .. 27.229 ..
अथ वा कारयेच्छुद्धस्नपनं वा विधानतः । अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ॥ २७.२३० ॥
atha vā kārayecchuddhasnapanaṃ vā vidhānataḥ . ata ūrdhvaṃ pravakṣyāmi prāyaścittamathotsave .. 27.230 ..
कालादिभेदन्तेषां च लक्षणं च पुरोदितं । पुरस्कृत्य तिथिं केचित्केचिन्नक्षत्रपूर्वकं ॥ २७.२३१ ॥
kālādibhedanteṣāṃ ca lakṣaṇaṃ ca puroditaṃ . puraskṛtya tithiṃ kecitkecinnakṣatrapūrvakaṃ .. 27.231 ..
संकल्पयन्त्यवभृथं वरमृक्षापवर्गकं । अकृते नियते कालं कृते वानियते तथा ॥ २७.२३२ ॥
saṃkalpayantyavabhṛthaṃ varamṛkṣāpavargakaṃ . akṛte niyate kālaṃ kṛte vāniyate tathā .. 27.232 ..
कालोत्सवे महान्दोषस्तत्र कुर्यात्तुनिष्कृतिं । उत्सवात्पूर्वमुद्दिस्य महाशान्तिं त्षहं चरेथ् ॥ २७.२३३ ॥
kālotsave mahāndoṣastatra kuryāttuniṣkṛtiṃ . utsavātpūrvamuddisya mahāśāntiṃ tṣahaṃ careth .. 27.233 ..
विज्ञाप्य देवदेवेशं ततः कालोत्सवं चरेथ् । अन्यथा तु कृतं कार्यमकृतं स्यादसंशयं ॥ २७.२३४ ॥
vijñāpya devadeveśaṃ tataḥ kālotsavaṃ careth . anyathā tu kṛtaṃ kāryamakṛtaṃ syādasaṃśayaṃ .. 27.234 ..
अन्यस्मिन्वापि मासे तु न कुर्याद्यदि चोत्सवं । एष एव विधिः प्रोक्तः परस्मिन्वत्सरे कृते ॥ २७.२३५ ॥
anyasminvāpi māse tu na kuryādyadi cotsavaṃ . eṣa eva vidhiḥ proktaḥ parasminvatsare kṛte .. 27.235 ..
एवं त्रिवत्सरेभ्यस्स्यादत ऊर्ध्वं विशेषतः । सप्ताहन्तु महाशान्तिं कृत्वा तूत्सव माचरेथ् ॥ २७.२३६ ॥
evaṃ trivatsarebhyassyādata ūrdhvaṃ viśeṣataḥ . saptāhantu mahāśāntiṃ kṛtvā tūtsava mācareth .. 27.236 ..
एवे द्वादशवर्षान्तं ततश्चस्थापनं पुनः । तत्र देवो न रमते योऽसावुत्सव दैवतं ॥ २७.२३७ ॥
eve dvādaśavarṣāntaṃ tataścasthāpanaṃ punaḥ . tatra devo na ramate yo'sāvutsava daivataṃ .. 27.237 ..
यत्र देवालये विष्णुस्थ्साप्यते प्रथमं ततः । तेनैव कारयेत्सर्वमाचार्येणार्ऽचकेन च ॥ २७.२३८ ॥
yatra devālaye viṣṇusthsāpyate prathamaṃ tataḥ . tenaiva kārayetsarvamācāryeṇār'cakena ca .. 27.238 ..
तदभावे तु तत्पुत्रैःपौत्रैस्तद्वंशजैस्तथा । तन्नियुक्तैस्तदीयैर्वापूर्वाभावे परैश्चरेथ् ॥ २७.२३९ ॥
tadabhāve tu tatputraiḥpautraistadvaṃśajaistathā . tanniyuktaistadīyairvāpūrvābhāve paraiścareth .. 27.239 ..
अन्यथा क्रियते चेत्तु यजमानो विनश्यति । उत्सवाहस्सु हीनेषु प्रायश्चित्तं समाचरेथ् ॥ २७.२४० ॥
anyathā kriyate cettu yajamāno vinaśyati . utsavāhassu hīneṣu prāyaścittaṃ samācareth .. 27.240 ..
वर्धयेद्वैष्णवं कार्यं ह्रासयेन्न कदा चन । प्रमादाद्वाप्यशक्तौ वा कृत्वा संप्रार्थयेद्धरिं ॥ २७.२४१ ॥
vardhayedvaiṣṇavaṃ kāryaṃ hrāsayenna kadā cana . pramādādvāpyaśaktau vā kṛtvā saṃprārthayeddhariṃ .. 27.241 ..
महाशान्तिं तु हुत्वैव शेषं कुर्यात्प्रयत्नतः । एष एव विधिर्वृद्धौ स तु श्रेयोऽभिवृद्धिदः ॥ २७.२४२ ॥
mahāśāntiṃ tu hutvaiva śeṣaṃ kuryātprayatnataḥ . eṣa eva vidhirvṛddhau sa tu śreyo'bhivṛddhidaḥ .. 27.242 ..
यदा त्ववभृथेदैवात्कृते विनिमयेन तु । असंकल्पितवत्कुर्यात्तत्र पूर्वोक्त निष्कृतिः ॥ २७.२४३ ॥
yadā tvavabhṛthedaivātkṛte vinimayena tu . asaṃkalpitavatkuryāttatra pūrvokta niṣkṛtiḥ .. 27.243 ..
प्रमादाद्बुद्धिपूर्वं वा तत्तद्वेलोत्सवादिषु । अकृतेषु यथाशास्त्रं कृत्वा तन्त्रेण वैपुनः ॥ २७.२४४ ॥
pramādādbuddhipūrvaṃ vā tattadvelotsavādiṣu . akṛteṣu yathāśāstraṃ kṛtvā tantreṇa vaipunaḥ .. 27.244 ..
मन्त्रेण वा पुनस्सूक्ष्मं कालेऽवभृथमाचरेथ् । यज्ञस्यापभृथोऽन्तस्स्यान्नोत्सवस्तदनन्तरं ॥ २७.२४५ ॥
mantreṇa vā punassūkṣmaṃ kāle'vabhṛthamācareth . yajñasyāpabhṛtho'ntassyānnotsavastadanantaraṃ .. 27.245 ..
अकृतोत्सवकार्याणि यथोक्तं पूर्वमाचरेथ् । नित्योत्सवं हरेः कुर्यान्नित्यश्री र्नित्यमङ्गलः ॥ २७.२४६ ॥
akṛtotsavakāryāṇi yathoktaṃ pūrvamācareth . nityotsavaṃ hareḥ kuryānnityaśrī rnityamaṅgalaḥ .. 27.246 ..
हरिर्नारायणो देवो नालं देवा स्तमर्चितुं । आचार्ये यजमाने वा पूजकेऽन्यपदार्थिनि ॥ २७.२४७ ॥
harirnārāyaṇo devo nālaṃ devā stamarcituṃ . ācārye yajamāne vā pūjake'nyapadārthini .. 27.247 ..
नष्टे सद्यस्तदान्यन्तु वरयित्वा समाचरेथ् । न दैवं प्रतिबध्नाति कार्यं यत्कर्म मानुषं ॥ २७.२४८ ॥
naṣṭe sadyastadānyantu varayitvā samācareth . na daivaṃ pratibadhnāti kāryaṃ yatkarma mānuṣaṃ .. 27.248 ..
देवेशमनुमान्याथ महाशान्तिं तु पद्मके । समृतो ब्रह्ममेधार्ऽहः पूतं तद्गात्रमुच्यते ॥ २७.२४९ ॥
deveśamanumānyātha mahāśāntiṃ tu padmake . samṛto brahmamedhār'haḥ pūtaṃ tadgātramucyate .. 27.249 ..
सर्वे पदार्थिनः प्रोक्ता गुरुपूर्वाःपदार्थिनः । ग्रामान्तरं प्रयाते तु दीक्षामध्ये पदार्थिनि ॥ २७.२५० ॥
sarve padārthinaḥ proktā gurupūrvāḥpadārthinaḥ . grāmāntaraṃ prayāte tu dīkṣāmadhye padārthini .. 27.250 ..
अस्पृश्यस्पर्शदोषेण सुरापानादिना तथा । अनुक्तदोषैर्वा दुष्टे रोगाच्छौचाद्यसंभवे ॥ २७.२५१ ॥
aspṛśyasparśadoṣeṇa surāpānādinā tathā . anuktadoṣairvā duṣṭe rogācchaucādyasaṃbhave .. 27.251 ..
शावाद्याशौसयोग्ये वा शवानुगमने तथा । वाहने दाहने चैव प्रेतान्नश्राद्धभोक्तरि ॥ २७.२५२ ॥
śāvādyāśausayogye vā śavānugamane tathā . vāhane dāhane caiva pretānnaśrāddhabhoktari .. 27.252 ..
श्राद्धस्य याजके श्राद्धशिष्टभोक्तरिभोक्तरि । दोषस्स्याद्विधिना तत्र महाशान्तिमथाचरेथ् ॥ २७.२५३ ॥
śrāddhasya yājake śrāddhaśiṣṭabhoktaribhoktari . doṣassyādvidhinā tatra mahāśāntimathācareth .. 27.253 ..
श्राद्धकर्तिरि नो दोष स्तत्र दाता भवेत्सहि । परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहाथ् ॥ २७.२५४ ॥
śrāddhakartiri no doṣa statra dātā bhavetsahi . parānnena mukhaṃ dagdhaṃ hastau dagdhau pratigrahāth .. 27.254 ..
परस्त्रीभिर्मनोदग्धं ब्रह्मशापः कुतः कलौ । दीक्षामध्ये नान्यदीक्षां गर्भदीक्षां विना चरेथ् ॥ २७.२५५ ॥
parastrībhirmanodagdhaṃ brahmaśāpaḥ kutaḥ kalau . dīkṣāmadhye nānyadīkṣāṃ garbhadīkṣāṃ vinā careth .. 27.255 ..
विधुरे यजमाने तु दीक्षितः पुरुषो भवेथ् । सदारो वा प्यदारोवा दीक्षितस्स्यात्कलत्रवान् ॥ २७.२५६ ॥
vidhure yajamāne tu dīkṣitaḥ puruṣo bhaveth . sadāro vā pyadārovā dīkṣitassyātkalatravān .. 27.256 ..
दंपती यजमानो चेदयमभ्युदयो भवेथ् । अनग्निमत्यदारे वा गुरौ तं तु न दीक्षयेथ् ॥ २७.२५७ ॥
daṃpatī yajamāno cedayamabhyudayo bhaveth . anagnimatyadāre vā gurau taṃ tu na dīkṣayeth .. 27.257 ..
अन्यस्मिन्पदभाजी स्याद्यथासंभवमादरः । वैधुर्यसंभवे त्वेषां मध्ये दुष्यन्ति नैव ते ॥ २७.२५८ ॥
anyasminpadabhājī syādyathāsaṃbhavamādaraḥ . vaidhuryasaṃbhave tveṣāṃ madhye duṣyanti naiva te .. 27.258 ..
वत्सराशौचमितरच्चाशौचं न प्रवर्तते । मातापित्रोर्मृतौ यत्तु प्रोक्तमभ्युदये पुनः ॥ २७.२५९ ॥
vatsarāśaucamitaraccāśaucaṃ na pravartate . mātāpitrormṛtau yattu proktamabhyudaye punaḥ .. 27.259 ..
ध्वजारोहणहीने तु कृते निष्फल उत्सवः । कृत्वैवारोहणं तस्माद्ध्वजस्योत्सवमाचरेथ् ॥ २७.२६० ॥
dhvajārohaṇahīne tu kṛte niṣphala utsavaḥ . kṛtvaivārohaṇaṃ tasmāddhvajasyotsavamācareth .. 27.260 ..
ध्वजस्यारोहणं कृत्वा नाचरेद्यदि चोत्सवं । अज्ञानादर्थलोभाद्वामासेऽ न्यस्मिन्त्समाचरेथ् ॥ २७.२६१ ॥
dhvajasyārohaṇaṃ kṛtvā nācaredyadi cotsavaṃ . ajñānādarthalobhādvāmāse' nyasmintsamācareth .. 27.261 ..
नकुर्याच्चेद्द्वितीये तु मासे कर्ता विनश्यति । तस्मान्निष्कृतिमब्जाग्नौ हुत्वा तूत्सवमाचरेथ् ॥ २७.२६२ ॥
nakuryācceddvitīye tu māse kartā vinaśyati . tasmānniṣkṛtimabjāgnau hutvā tūtsavamācareth .. 27.262 ..
वैष्णवं विष्णुसूक्तं च नृसूक्तं चैव गारुडं । ध्वाजं शान्तं च चक्रं च तथैवोत्सवदैवतं ॥ २७.२६३ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ caiva gāruḍaṃ . dhvājaṃ śāntaṃ ca cakraṃ ca tathaivotsavadaivataṃ .. 27.263 ..
व्याहृत्यन्तं च हुत्वा तु वैष्णवान्पूज्य चाचरेथ् । ध्वजस्य लक्षणं वक्ष्ये येन मानेन कारयेथ् ॥ २७.२६४ ॥
vyāhṛtyantaṃ ca hutvā tu vaiṣṇavānpūjya cācareth . dhvajasya lakṣaṇaṃ vakṣye yena mānena kārayeth .. 27.264 ..
विमानेन समं वाथ पादेनार्ऽधेन वाधिकं । पादेनार्धेन हीसं वा पञ्चधापि प्रकल्पयेथ् ॥ २७.२६५ ॥
vimānena samaṃ vātha pādenār'dhena vādhikaṃ . pādenārdhena hīsaṃ vā pañcadhāpi prakalpayeth .. 27.265 ..
जयश्रीकीर्तिविजयमङ्गलाख्याः प्रकीर्तिताः । अर्धहीनं न कुर्वीत तदेवागतिकं भवेथ् ॥ २७.२६६ ॥
jayaśrīkīrtivijayamaṅgalākhyāḥ prakīrtitāḥ . ardhahīnaṃ na kurvīta tadevāgatikaṃ bhaveth .. 27.266 ..
तस्माच्चहीनं नैव स्यादधिकं स्यात्तु शक्तितः । अवक्रमृजुमन्येनासंबद्धं कीलितादिभिः ॥ २७.२६७ ॥
tasmāccahīnaṃ naiva syādadhikaṃ syāttu śaktitaḥ . avakramṛjumanyenāsaṃbaddhaṃ kīlitādibhiḥ .. 27.267 ..
श्लक्ष्णं मनोहरं दारु गृहीत्वाखण्डमुत्तमं । तं चतुर्दशधा कुर्याम्मालाग्रे तेन कारयेथ् ॥ २७.२६८ ॥
ślakṣṇaṃ manoharaṃ dāru gṛhītvākhaṇḍamuttamaṃ . taṃ caturdaśadhā kuryāmmālāgre tena kārayeth .. 27.268 ..
भागमेकं विहायाग्रे तत्र कुर्यात्त्रिमेखलाः । मेखलानामथायामस्तद्भागेन समो भवेत्, ॥ २७.२६९ ॥
bhāgamekaṃ vihāyāgre tatra kuryāttrimekhalāḥ . mekhalānāmathāyāmastadbhāgena samo bhavet, .. 27.269 ..
त्रितालविस्तृतं कुर्याद्दण्डविस्तृतमेव वा । अन्तरं च समं तेषां तिस्रः कुर्यात्तु यष्टिकाः ॥ २७.२७० ॥
tritālavistṛtaṃ kuryāddaṇḍavistṛtameva vā . antaraṃ ca samaṃ teṣāṃ tisraḥ kuryāttu yaṣṭikāḥ .. 27.270 ..
यष्टी द्वे पुरतः कुर्यात्पश्चादेका विधीयते । सर्वत्र किङ्किणीनां तु कुर्याच्छतम शेषतः ॥ २७.२७१ ॥
yaṣṭī dve purataḥ kuryātpaścādekā vidhīyate . sarvatra kiṅkiṇīnāṃ tu kuryācchatama śeṣataḥ .. 27.271 ..
पश्चाच्छेषं त्रिधा कुर्याच्चतुर्धा वा ध्वजं बुधः । अष्टाश्रं च षडश्रं च चतुरश्रं च वृत्तकं ॥ २७.२७२ ॥
paścāccheṣaṃ tridhā kuryāccaturdhā vā dhvajaṃ budhaḥ . aṣṭāśraṃ ca ṣaḍaśraṃ ca caturaśraṃ ca vṛttakaṃ .. 27.272 ..
मूलादारभ्य कुर्वीत चतुर्धा विहितं ध्वजं । त्रिधा कृते न कुर्यात्तु षडश्रं शेषमाचरेथ् ॥ २७.२७३ ॥
mūlādārabhya kurvīta caturdhā vihitaṃ dhvajaṃ . tridhā kṛte na kuryāttu ṣaḍaśraṃ śeṣamācareth .. 27.273 ..
आद्यं भागं त्रिधा कृत्वा केचिदेवं प्रकुर्वते । शिखरं शिर इत्याहुरर्धेन शिखरं भवेथ् ॥ २७.२७४ ॥
ādyaṃ bhāgaṃ tridhā kṛtvā kecidevaṃ prakurvate . śikharaṃ śira ityāhurardhena śikharaṃ bhaveth .. 27.274 ..
प्रमादात्पतितं गृह्य शिखरं स्थापयेद्विधिः । स्पुटितेवाथ भिन्ने वा बिंबस्योक्तवदाचरेथ् ॥ २७.२७५ ॥
pramādātpatitaṃ gṛhya śikharaṃ sthāpayedvidhiḥ . spuṭitevātha bhinne vā biṃbasyoktavadācareth .. 27.275 ..
अधिष्टिते तु शिखरे द्विजैर्गृध्रादिभिस्सकृथ् । विष्ठादिकरणे वापि उषिते वा निरन्तरं ॥ २७.२७६ ॥
adhiṣṭite tu śikhare dvijairgṛdhrādibhissakṛth . viṣṭhādikaraṇe vāpi uṣite vā nirantaraṃ .. 27.276 ..
वास्तुहोमं च हुत्वैव पर्यग्निकरणं चरेथ् । एष एव विधिः प्रोक्तो विमानशिखरादिषु ॥ २७.२७७ ॥
vāstuhomaṃ ca hutvaiva paryagnikaraṇaṃ careth . eṣa eva vidhiḥ prokto vimānaśikharādiṣu .. 27.277 ..
अधिष्ठानेन पादेन प्रस्तरेण च संयुतं । ध्वजमूले त्विष्टकाभिर्वेदिं कुर्यान्मनोहरां ॥ २७.२७८ ॥
adhiṣṭhānena pādena prastareṇa ca saṃyutaṃ . dhvajamūle tviṣṭakābhirvediṃ kuryānmanoharāṃ .. 27.278 ..
न तामप्यधितिष्ठेत नरो दीर्घं जिजीविषुः । किं पुनस्तत्र वक्तव्यमालयाद्यवरोहणे ॥ २७.२७९ ॥
na tāmapyadhitiṣṭheta naro dīrghaṃ jijīviṣuḥ . kiṃ punastatra vaktavyamālayādyavarohaṇe .. 27.279 ..
विमानं विष्णुरूपं स्यान्न तत्पादादिवा क्रमेथ् । धामप्रदक्षिणे पूर्वं कुर्यात्तत्र नमस्त्रियाः ॥ २७.२८० ॥
vimānaṃ viṣṇurūpaṃ syānna tatpādādivā krameth . dhāmapradakṣiṇe pūrvaṃ kuryāttatra namastriyāḥ .. 27.280 ..
न लङ्घयेद्ध्वजछायां प्रदक्षिणविधिं विना । गोपुरस्य विमानस्य प्राकारस्यालयस्य च ॥ २७.२८१ ॥
na laṅghayeddhvajachāyāṃ pradakṣiṇavidhiṃ vinā . gopurasya vimānasya prākārasyālayasya ca .. 27.281 ..
प्रमादादतिलङ्घ्यैव प्राणायामशतं चरेथ् । शिवदृष्टिं विष्णुवृष्ठं दुर्गायाः पार्श्वतो दृशं ॥ २७.२८२ ॥
pramādādatilaṅghyaiva prāṇāyāmaśataṃ careth . śivadṛṣṭiṃ viṣṇuvṛṣṭhaṃ durgāyāḥ pārśvato dṛśaṃ .. 27.282 ..
विघ्नेशस्योर्ध्वदृष्टिं च तीक्ष्णमाहुर्मनीषिणः । यावच्छावतरेच्छाया तावती दोषभूमिका ॥ २७.२८३ ॥
vighneśasyordhvadṛṣṭiṃ ca tīkṣṇamāhurmanīṣiṇaḥ . yāvacchāvatarecchāyā tāvatī doṣabhūmikā .. 27.283 ..
दोषभूमिं परित्यज्य निवासं परिकल्पयेथ् । त्यागे संपत्समृद्धिस्स्यादन्यथा विपरीतकृथ् ॥ २७.२८४ ॥
doṣabhūmiṃ parityajya nivāsaṃ parikalpayeth . tyāge saṃpatsamṛddhissyādanyathā viparītakṛth .. 27.284 ..
रध्यादिभिर्यथा भूयादन्तरं तन्न दोषकृथ् । अथ वा शतदण्डान्तं त्यक्त्वान्वे वसतिं जगुः ॥ २७.२८५ ॥
radhyādibhiryathā bhūyādantaraṃ tanna doṣakṛth . atha vā śatadaṇḍāntaṃ tyaktvānve vasatiṃ jaguḥ .. 27.285 ..
यावद्धामायतं दावत्पृष्ठं वा मुघमेव वा । ततोधिकं तच्च तच्च केचिदाहुर्मनीषिणः ॥ २७.२८६ ॥
yāvaddhāmāyataṃ dāvatpṛṣṭhaṃ vā mughameva vā . tatodhikaṃ tacca tacca kecidāhurmanīṣiṇaḥ .. 27.286 ..
ध्वजं नित्यमुशन्त्येके यत्रैको ह्यनवायिषु । तत्रारोहणकर्मादि नेच्छन्ति परमर्षयः ॥ २७.२८७ ॥
dhvajaṃ nityamuśantyeke yatraiko hyanavāyiṣu . tatrārohaṇakarmādi necchanti paramarṣayaḥ .. 27.287 ..
औत्सवं ध्वजमास्थाप्य तत्र कार्यं प्रकुर्वते । ध्वजमेकं तु सर्वत्र केचिदाहुर्मनीषिणः ॥ २७.२८८ ॥
autsavaṃ dhvajamāsthāpya tatra kāryaṃ prakurvate . dhvajamekaṃ tu sarvatra kecidāhurmanīṣiṇaḥ .. 27.288 ..
अतः परं प्रवक्ष्यामि ध्वजदण्डे तु निष्कृतिं । प्रमादात्पतिते भूम्यां ध्वजे वातादिना दृढे ॥ २७.२८९ ॥
ataḥ paraṃ pravakṣyāmi dhvajadaṇḍe tu niṣkṛtiṃ . pramādātpatite bhūmyāṃ dhvaje vātādinā dṛḍhe .. 27.289 ..
अभग्ने वाथ भग्ने वा ध्वजं तत्र पूनः क्षिपेथ् । अभग्ने तं ध्वजं गृह्य कृत्वा मन्त्रेण तक्षणं ॥ २७.२९० ॥
abhagne vātha bhagne vā dhvajaṃ tatra pūnaḥ kṣipeth . abhagne taṃ dhvajaṃ gṛhya kṛtvā mantreṇa takṣaṇaṃ .. 27.290 ..
अधिवासादिकं कृत्वा तत्थ्साने स्थापयेद्बुधः । भग्ने ध्वजे न सग्राह्यस्तमप्सु विधिना त्यजेथ् ॥ २७.२९१ ॥
adhivāsādikaṃ kṛtvā tatthsāne sthāpayedbudhaḥ . bhagne dhvaje na sagrāhyastamapsu vidhinā tyajeth .. 27.291 ..
ततोऽन्यं ध्वजमादाय स्थापयेदविलंबितं । चोराद्यैर्बुद्धिपूर्वं वा पातिते पूर्ववद्विधिः ॥ २७.२९२ ॥
tato'nyaṃ dhvajamādāya sthāpayedavilaṃbitaṃ . corādyairbuddhipūrvaṃ vā pātite pūrvavadvidhiḥ .. 27.292 ..
तत्राधिकं प्रकुर्वीत शिल्पिभिस्तक्षणं पुनः । अभग्नध्वजवत्कुर्यादन्यत्पूर्ववदत्वरः ॥ २७.२९३ ॥
tatrādhikaṃ prakurvīta śilpibhistakṣaṇaṃ punaḥ . abhagnadhvajavatkuryādanyatpūrvavadatvaraḥ .. 27.293 ..
भागेनानुपयुक्तस्य ध्वजस्य त्याज्यतैव हि । दुष्टभागस्य दानेन न कदाचित्परिग्रहः ॥ २७.२९४ ॥
bhāgenānupayuktasya dhvajasya tyājyataiva hi . duṣṭabhāgasya dānena na kadācitparigrahaḥ .. 27.294 ..
अथ वा सुदृडं गृह्य प्रतिष्ठां महतीं चरेथ् । दुष्टं भागं व्यपोह्यैव प्रमाणं लक्षयेत्पुनः ॥ २७.२९५ ॥
atha vā sudṛḍaṃ gṛhya pratiṣṭhāṃ mahatīṃ careth . duṣṭaṃ bhāgaṃ vyapohyaiva pramāṇaṃ lakṣayetpunaḥ .. 27.295 ..
प्रमाणमप्रमाणं वा ध्वजं नान्येन दारुणा । संयुतां वर्धितां कुर्यादेष सार्वत्रिको विधिः ॥ २७.२९६ ॥
pramāṇamapramāṇaṃ vā dhvajaṃ nānyena dāruṇā . saṃyutāṃ vardhitāṃ kuryādeṣa sārvatriko vidhiḥ .. 27.296 ..
यन्तु ताम्रादिना कुर्याल्लोहेन कवचादिकं । बालालयं प्रकल्प्यैव तत्रकार्यं समाचरेथ् ॥ २७.२९७ ॥
yantu tāmrādinā kuryāllohena kavacādikaṃ . bālālayaṃ prakalpyaiva tatrakāryaṃ samācareth .. 27.297 ..
स्थितमेव ध्वजं कुर्यान्न तु तं चालयेत्क्वचिथ् । दग्धं ध्वजं परित्यज्य पुनरन्यं समाहरेथ् ॥ २७.२९८ ॥
sthitameva dhvajaṃ kuryānna tu taṃ cālayetkvacith . dagdhaṃ dhvajaṃ parityajya punaranyaṃ samāhareth .. 27.298 ..
ध्वजेऽन्त्यजातिभिस्स्पृष्टे महाशान्तिमथाचरेथ् । तैस्समीपमुपेतैन्तु सहस्राहुतिमाचरेथ् ॥ २७.२९९ ॥
dhvaje'ntyajātibhisspṛṣṭe mahāśāntimathācareth . taissamīpamupetaintu sahasrāhutimācareth .. 27.299 ..
पतिते वात्यया चैवं ध्वजस्य शिखरे तथा । मेखलासु च तत्सर्वं नवीकृत्य यथाविधि ॥ २७.३०० ॥
patite vātyayā caivaṃ dhvajasya śikhare tathā . mekhalāsu ca tatsarvaṃ navīkṛtya yathāvidhi .. 27.300 ..
ध्वजदण्डे तु संयोज्य प्रतिष्ठां पुनराचरेथ् । ध्वजस्य चलने चापि प्रमादाद्व्रश्चने तथा ॥ २७.३०१ ॥
dhvajadaṇḍe tu saṃyojya pratiṣṭhāṃ punarācareth . dhvajasya calane cāpi pramādādvraścane tathā .. 27.301 ..
भग्नाभग्न ध्वजस्योक्तनिष्कृतिं तु समाचरेथ् । एष एव विधिः प्रोक्तो दण्डेष्वन्वेषु सर्वतः ॥ २७.३०२ ॥
bhagnābhagna dhvajasyoktaniṣkṛtiṃ tu samācareth . eṣa eva vidhiḥ prokto daṇḍeṣvanveṣu sarvataḥ .. 27.302 ..
अशन्यादिनिपातेन धामन्यन्तरिते यदि । देवे नष्टे ध्वजे सुस्थे ध्वजस्याराधनं भवेथ् ॥ २७.३०३ ॥
aśanyādinipātena dhāmanyantarite yadi . deve naṣṭe dhvaje susthe dhvajasyārādhanaṃ bhaveth .. 27.303 ..
आलयं च पुनःकृत्वा तमेवाराधयेद्ध्वजं । निरीक्ष्यत्रीणि वर्षाणि देवागारे त्वनिर्मिते ॥ २७.३०४ ॥
ālayaṃ ca punaḥkṛtvā tamevārādhayeddhvajaṃ . nirīkṣyatrīṇi varṣāṇi devāgāre tvanirmite .. 27.304 ..
तत्र देवो न रमते तद्ध्वजं तु त्यजेत्सुधीः । अथ वा यत्र कुत्रापि प्रतिष्ठाप्य समर्चयेथ् ॥ २७.३०५ ॥
tatra devo na ramate taddhvajaṃ tu tyajetsudhīḥ . atha vā yatra kutrāpi pratiṣṭhāpya samarcayeth .. 27.305 ..
अथ वक्ष्ये ध्वजस्थानं यथाशास्त्रविनिश्चितं । पिठगोपुरयोर्मध्ये पञ्चभागं प्रकल्प्य च ॥ २७.३०६ ॥
atha vakṣye dhvajasthānaṃ yathāśāstraviniścitaṃ . piṭhagopurayormadhye pañcabhāgaṃ prakalpya ca .. 27.306 ..
पीठात्त्यक्त्या चतुर्भागं पञ्चमे ध्वजसंस्थितिः । तत्संधौ तु प्रशस्तं स्याद्यथा संफवमाचरेथ् ॥ २७.३०७ ॥
pīṭhāttyaktyā caturbhāgaṃ pañcame dhvajasaṃsthitiḥ . tatsaṃdhau tu praśastaṃ syādyathā saṃphavamācareth .. 27.307 ..
यदि प्राकारबाह्ये स्याद्ध्वजश्शास्त्रवदाचरेथ् । अनुक्तस्थाननिहितं तं च शास्त्रवदाचरेथ् ॥ २७.३०८ ॥
yadi prākārabāhye syāddhvajaśśāstravadācareth . anuktasthānanihitaṃ taṃ ca śāstravadācareth .. 27.308 ..
अशक्तौ पुनरन्यं च प्राकारं कारयेत्क्रमाथ् । देवदृग्विषयं कुर्याद्ध्वजं लैवापरोक्षयेथ् ॥ २७.३०९ ॥
aśaktau punaranyaṃ ca prākāraṃ kārayetkramāth . devadṛgviṣayaṃ kuryāddhvajaṃ laivāparokṣayeth .. 27.309 ..
यदा चान्यालयैर्वापि गोपुरादिभिरेव वा । अभ्यन्तरं भवेच्चेत्तु छिद्रं कुर्यात्तु दृक्पथे ॥ २७.३१० ॥
yadā cānyālayairvāpi gopurādibhireva vā . abhyantaraṃ bhaveccettu chidraṃ kuryāttu dṛkpathe .. 27.310 ..
वृक्षाद्यैःपतितैर्नष्टे चालितेऽवनतेऽपि च । तद्ध्यजं पूर्ववत्कुर्यात्त्रिमासाभ्यन्तरेऽत्वरः ॥ २७.३११ ॥
vṛkṣādyaiḥpatitairnaṣṭe cālite'vanate'pi ca . taddhyajaṃ pūrvavatkuryāttrimāsābhyantare'tvaraḥ .. 27.311 ..
कृम्यादिभिर्विहङ्गैर्वाकोटरादौ कृते ध्वजे । कृत्वा बालालयं पश्चात्समीकृत्यार्चयेत्पुनः ॥ २७.३१२ ॥
kṛmyādibhirvihaṅgairvākoṭarādau kṛte dhvaje . kṛtvā bālālayaṃ paścātsamīkṛtyārcayetpunaḥ .. 27.312 ..
रज्जुबन्धादिकरणे ध्वजस्यारोहणे कृते । बालालयं न तत्र स्याद्वास्तुशुद्धिं समाचरेथ् ॥ २७.३१३ ॥
rajjubandhādikaraṇe dhvajasyārohaṇe kṛte . bālālayaṃ na tatra syādvāstuśuddhiṃ samācareth .. 27.313 ..
प्राक्षयेत्पञ्चगव्यैस्तु ध्वजमन्त्रेण हूयते । अत ऊर्ध्वं प्रवक्ष्यामि निष्कृतावर्चनक्रमं ॥ २७.३१४ ॥
prākṣayetpañcagavyaistu dhvajamantreṇa hūyate . ata ūrdhvaṃ pravakṣyāmi niṣkṛtāvarcanakramaṃ .. 27.314 ..
उक्तेन विधिना यत्र नष्टे दुष्टेऽपि वा ध्वजे । पुनस्थ्सापनपर्यन्तं कुर्याद्वेणुध्वजं शुभं ॥ २७.३१५ ॥
uktena vidhinā yatra naṣṭe duṣṭe'pi vā dhvaje . punasthsāpanaparyantaṃ kuryādveṇudhvajaṃ śubhaṃ .. 27.315 ..
अथ वा कारयेद्विद्वान्सुवर्णरजतादिभिः । ध्वजं तालोन्नतं स्थाप्य गर्भगेहे तु पूजयेथ् ॥ २७.३१६ ॥
atha vā kārayedvidvānsuvarṇarajatādibhiḥ . dhvajaṃ tālonnataṃ sthāpya garbhagehe tu pūjayeth .. 27.316 ..
अधिवासादि तत्सर्वं प्रतिष्ठोक्तवदाचरेथ् । अचलो वेणुदण्डः स्याद्गर्भगेहे भवेच्चलः ॥ २७.३१७ ॥
adhivāsādi tatsarvaṃ pratiṣṭhoktavadācareth . acalo veṇudaṇḍaḥ syādgarbhagehe bhaveccalaḥ .. 27.317 ..
उत्सवादौ तु सर्वत्र वेणुदण्डं समाचरेथ् । चलदण्डो वेणुदण्ड इति स्यादुत्सवेद्वयं ॥ २७.३१८ ॥
utsavādau tu sarvatra veṇudaṇḍaṃ samācareth . caladaṇḍo veṇudaṇḍa iti syādutsavedvayaṃ .. 27.318 ..
उत्सवादौ प्रवृत्ते तु उक्तदोषे त्वयं विधिः । ध्वजस्थं गरुडं तस्मादवमुच्य समाहितः ॥ २७.३१९ ॥
utsavādau pravṛtte tu uktadoṣe tvayaṃ vidhiḥ . dhvajasthaṃ garuḍaṃ tasmādavamucya samāhitaḥ .. 27.319 ..
नीत्वातु यागशालायां संस्थाप्य तु समर्चयेथ् । वेणुदण्डं प्रतिष्ठाप्य सद्यस्तस्मिन्प्रयोजयेथ् ॥ २७.३२० ॥
nītvātu yāgaśālāyāṃ saṃsthāpya tu samarcayeth . veṇudaṇḍaṃ pratiṣṭhāpya sadyastasminprayojayeth .. 27.320 ..
महाशान्तिं तथा कुर्यात्सहस्राहुतिमेव च । वैष्णवं विष्णुदैवत्यं गारुडं ध्वाजमेव च ॥ २७.३२१ ॥
mahāśāntiṃ tathā kuryātsahasrāhutimeva ca . vaiṣṇavaṃ viṣṇudaivatyaṃ gāruḍaṃ dhvājameva ca .. 27.321 ..
सौदर्शनं च कूश्माण्डान्शतमष्टाधिकं यजेथ् । तथैव दीपदण्डस्य भवेत्सर्वत्र चक्रमः ॥ २७.३२२ ॥
saudarśanaṃ ca kūśmāṇḍānśatamaṣṭādhikaṃ yajeth . tathaiva dīpadaṇḍasya bhavetsarvatra cakramaḥ .. 27.322 ..
ध्वजे नारोपयेद्दीपं दीपदण्डः पृथग्भवेथ् । तत्र दीपं समारोप्य न लभेत्फलमव्ययं ॥ २७.३२३ ॥
dhvaje nāropayeddīpaṃ dīpadaṇḍaḥ pṛthagbhaveth . tatra dīpaṃ samāropya na labhetphalamavyayaṃ .. 27.323 ..
ध्वजे दीपं समारोप्य वैष्णवं शतशो यजेथ् । आपत्कल्पं प्रवक्ष्यन्ति ध्वजे दीपावरोहणं ॥ २७.३२४ ॥
dhvaje dīpaṃ samāropya vaiṣṇavaṃ śataśo yajeth . āpatkalpaṃ pravakṣyanti dhvaje dīpāvarohaṇaṃ .. 27.324 ..
दीपयुक्ते ध्वजे नष्टे पूर्ववन्निष्कृतिं चरेथ् । वीशप्रतिष्ठाहीने तु ध्वजस्यारोहणे कृते ॥ २७.३२५ ॥
dīpayukte dhvaje naṣṭe pūrvavanniṣkṛtiṃ careth . vīśapratiṣṭhāhīne tu dhvajasyārohaṇe kṛte .. 27.325 ..
वैष्णवं विष्णुसूक्तं च नृसूक्तं ध्वाजमेव च । गारुडं दशशो हुत्वा प्रतिष्ठां पुनराचरेथ् ॥ २७.३२६ ॥
vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ dhvājameva ca . gāruḍaṃ daśaśo hutvā pratiṣṭhāṃ punarācareth .. 27.326 ..
ध्वजदेवस्य चक्रस्य शान्तनन्दीशयोस्तथा । हीनेर्ऽचने वैष्णवं च तद्दैवत्यसमन्वितं ॥ २७.३२७ ॥
dhvajadevasya cakrasya śāntanandīśayostathā . hīner'cane vaiṣṇavaṃ ca taddaivatyasamanvitaṃ .. 27.327 ..
हुत्वैव पुनरभ्यर्च्य पश्चात्कार्यं समाचरेथ् । भेरीताडनहीने च रौद्रं च व्याहृतीस्तथा ॥ २७.३२८ ॥
hutvaiva punarabhyarcya paścātkāryaṃ samācareth . bherītāḍanahīne ca raudraṃ ca vyāhṛtīstathā .. 27.328 ..
हुत्वा महाव्याहृतीश्च भेरीताडनमाचरेथ् । अर्चनादिषु सर्वत्र यत्र घण्टानिनादनं ॥ २७.३२९ ॥
hutvā mahāvyāhṛtīśca bherītāḍanamācareth . arcanādiṣu sarvatra yatra ghaṇṭāninādanaṃ .. 27.329 ..
एष एव विधिः प्रोक्तः प्रायश्चित्तं समाचरेथ् । आरोपिते तु गरुडे हीने चैव निवेदने ॥ २७.३३० ॥
eṣa eva vidhiḥ proktaḥ prāyaścittaṃ samācareth . āropite tu garuḍe hīne caiva nivedane .. 27.330 ..
वैष्णवं ध्वंमेत्रौ च हुत्वा गारुडमेव च । निवेदयेत्तुद्विगुणं "क्षमऽस्वेत्यनुमानयेथ् ॥ २७.३३१ ॥
vaiṣṇavaṃ dhvaṃmetrau ca hutvā gāruḍameva ca . nivedayettudviguṇaṃ "kṣama'svetyanumānayeth .. 27.331 ..
मुद्गान्ने तु तथा हीने वैष्णवं वायुदैवतं । आग्नेयमीङ्कारादींश्च गारुडं ध्वाजमेव च ॥ २७.३३२ ॥
mudgānne tu tathā hīne vaiṣṇavaṃ vāyudaivataṃ . āgneyamīṅkārādīṃśca gāruḍaṃ dhvājameva ca .. 27.332 ..
हुत्वा यत्नेन बहुशो मौद्गिकं च निवेदयेथ् । वर्षवातातपैस्सम्यगुपघातादिसंभवे ॥ २७.३३३ ॥
hutvā yatnena bahuśo maudgikaṃ ca nivedayeth . varṣavātātapaissamyagupaghātādisaṃbhave .. 27.333 ..
विष्ठाद्युपहते चैव पक्षिणामसकृत्सकृथ् । रज्ज्वादित्रुटने चैव प्रमादात्पतनेऽपि च ॥ २७.३३४ ॥
viṣṭhādyupahate caiva pakṣiṇāmasakṛtsakṛth . rajjvāditruṭane caiva pramādātpatane'pi ca .. 27.334 ..
पातिते बुद्धिपूर्वं वा अकालेऽप्यवरोपिते । शूद्राद्यैरनुलोमैर्वा स्पृष्टे ध्वजगते पटे ॥ २७.३३५ ॥
pātite buddhipūrvaṃ vā akāle'pyavaropite . śūdrādyairanulomairvā spṛṣṭe dhvajagate paṭe .. 27.335 ..
अशुचिं शोधयित्वान्यत्समीकृत्यासमीकृतं । उत्सवाधिपदैवत्यं षड्वारं जुहुयाद्गुरुः ॥ २७.३३६ ॥
aśuciṃ śodhayitvānyatsamīkṛtyāsamīkṛtaṃ . utsavādhipadaivatyaṃ ṣaḍvāraṃ juhuyādguruḥ .. 27.336 ..
गारुडं ध्वजमन्त्रं च सहस्तं चैव हूयतां । ततश्शेषं समाप्येत विपरीतं न कारयेथ् ॥ २७.३३७ ॥
gāruḍaṃ dhvajamantraṃ ca sahastaṃ caiva hūyatāṃ . tataśśeṣaṃ samāpyeta viparītaṃ na kārayeth .. 27.337 ..
प्रमादाद्बुद्धिपूर्वं वा पटे दग्धेऽन्यमाहरेथ् । शान्तिं पूर्वोदितां कृत्वा प्रतिष्ठां पुनराचरेथ् ॥ २७.३३८ ॥
pramādādbuddhipūrvaṃ vā paṭe dagdhe'nyamāhareth . śāntiṃ pūrvoditāṃ kṛtvā pratiṣṭhāṃ punarācareth .. 27.338 ..
अवरोहणमुद्वासन्तं च मन्त्रेण कारयेथ् । अवरोहणहीने तु मन्त्रेणोद्वासनं भवेथ् ॥ २७.३३९ ॥
avarohaṇamudvāsantaṃ ca mantreṇa kārayeth . avarohaṇahīne tu mantreṇodvāsanaṃ bhaveth .. 27.339 ..
ततश्शेषं प्रकूर्वीत अशक्ताववरोहणे । अप्रमाणं पटं गृह्य महाशान्तिं समाचरेथ् ॥ २७.३४० ॥
tataśśeṣaṃ prakūrvīta aśaktāvavarohaṇe . apramāṇaṃ paṭaṃ gṛhya mahāśāntiṃ samācareth .. 27.340 ..
पुनरन्यं समादाय कर्मशेषं समाचरेथ् । हीने तु चोत्सवारंभस्नपने वैष्णवं तथा ॥ २७.३४१ ॥
punaranyaṃ samādāya karmaśeṣaṃ samācareth . hīne tu cotsavāraṃbhasnapane vaiṣṇavaṃ tathā .. 27.341 ..
विष्णुसूक्तं नृसूक्तं च वारुणं चैव हूयते । शुद्धोददैरभिषाकस्स्यात्प्रायश्चित्तविधिस्स्मृतः ॥ २७.३४२ ॥
viṣṇusūktaṃ nṛsūktaṃ ca vāruṇaṃ caiva hūyate . śuddhodadairabhiṣākassyātprāyaścittavidhissmṛtaḥ .. 27.342 ..
हीने कौतुकबन्धे तु वैष्णवं शान्तमेव च । सौदर्शनं च हुत्वा तु कौतुकं बन्धयेत्पुनः ॥ २७.३४३ ॥
hīne kautukabandhe tu vaiṣṇavaṃ śāntameva ca . saudarśanaṃ ca hutvā tu kautukaṃ bandhayetpunaḥ .. 27.343 ..
यज्ञागारे कुंभवेद्याहीने वाप्यधिकेऽपि वा । वैष्णवं पावकं भूमिदैवत्यं च हुनेद्बुधः ॥ २७.३४४ ॥
yajñāgāre kuṃbhavedyāhīne vāpyadhike'pi vā . vaiṣṇavaṃ pāvakaṃ bhūmidaivatyaṃ ca hunedbudhaḥ .. 27.344 ..
तोरणानामलाभे तु हुनेद्दौवारिकान्मनून् । हीनायां दर्भमालायामार्षं हुत्वेतराङ्क्रियाथ् ॥ २७.३४५ ॥
toraṇānāmalābhe tu huneddauvārikānmanūn . hīnāyāṃ darbhamālāyāmārṣaṃ hutvetarāṅkriyāth .. 27.345 ..
अलङ्कारविहीने तु श्रीदैवत्यं तधा हुनेथ् । प्रातर्बलिं तु निर्वाप्य हीने नित्योत्सवे तथा ॥ २७.३४६ ॥
alaṅkāravihīne tu śrīdaivatyaṃ tadhā huneth . prātarbaliṃ tu nirvāpya hīne nityotsave tathā .. 27.346 ..
वैष्णवं शान्तवीशौ च हुत्वा चोत्सवदैवतं । सायं कुर्यादुत्सवं तु द्विगुणं कारयेत्क्रमाथ् ॥ २७.३४७ ॥
vaiṣṇavaṃ śāntavīśau ca hutvā cotsavadaivataṃ . sāyaṃ kuryādutsavaṃ tu dviguṇaṃ kārayetkramāth .. 27.347 ..
सायं हीनं तु द्विगुणं प्रातरुत्सवमाचरेथ् । एककालोत्सवश्चेत्तु कृत्वा कालद्वयं बलिं ॥ २७.३४८ ॥
sāyaṃ hīnaṃ tu dviguṇaṃ prātarutsavamācareth . ekakālotsavaścettu kṛtvā kāladvayaṃ baliṃ .. 27.348 ..
सायाह्ने चोत्सवं कुर्यात्कालातीतेऽप्ययं विधिः । दिग्देवतास्समावाह्य प्रथमेऽहनि पूजयेथ् ॥ २७.३४९ ॥
sāyāhne cotsavaṃ kuryātkālātīte'pyayaṃ vidhiḥ . digdevatāssamāvāhya prathame'hani pūjayeth .. 27.349 ..
प्राच्यादि बलिदानं स्यादीशानान्तं प्रदक्षिणं । देवाह्वाने व्यत्ययस्स्याद्व्यतीहारोऽथ वा भवेथ् ॥ २७.३५० ॥
prācyādi balidānaṃ syādīśānāntaṃ pradakṣiṇaṃ . devāhvāne vyatyayassyādvyatīhāro'tha vā bhaveth .. 27.350 ..
पूर्वोक्तां निष्कृतिं कृत्वा द्विगुणं तु बलिं ददेथ् । ब्रह्मणश्च दिगीशानां बलिदानं तु नैत्यिकं ॥ २७.३५१ ॥
pūrvoktāṃ niṣkṛtiṃ kṛtvā dviguṇaṃ tu baliṃ dadeth . brahmaṇaśca digīśānāṃ balidānaṃ tu naityikaṃ .. 27.351 ..
अदाने निष्कृतिं कृत्वा पूर्वोक्तं षड्गुणं बलिः । चतुष्पथाधिदेवानां वृक्षादीनामथेच्छया ॥ २७.३५२ ॥
adāne niṣkṛtiṃ kṛtvā pūrvoktaṃ ṣaḍguṇaṃ baliḥ . catuṣpathādhidevānāṃ vṛkṣādīnāmathecchayā .. 27.352 ..
प्रथमावाहनादर्वाग्व्यत्यये पूर्वनिष्कृतिः । प्रथमं वास्तुशुद्धिस्स्याद्य वै दीयते बलिः ॥ २७.३५३ ॥
prathamāvāhanādarvāgvyatyaye pūrvaniṣkṛtiḥ . prathamaṃ vāstuśuddhissyādya vai dīyate baliḥ .. 27.353 ..
अन्तं शुद्ध्यन्ति रथ्यास्ताश्शुर्ध्यन्ति समये पुनः । अकृतायां वास्तुशुद्धौ दद्याद्रथ्यासु चेद्बलिं ॥ २७.३५४ ॥
antaṃ śuddhyanti rathyāstāśśurdhyanti samaye punaḥ . akṛtāyāṃ vāstuśuddhau dadyādrathyāsu cedbaliṃ .. 27.354 ..
शान्तिं कृत्वातु पूर्वोक्तां वास्तुशुद्धिं पनर्बलिः । अन्तश्शचे वास्तुनि तु न बलिभ्रमणं चरेथ् ॥ २७.३५५ ॥
śāntiṃ kṛtvātu pūrvoktāṃ vāstuśuddhiṃ panarbaliḥ . antaśśace vāstuni tu na balibhramaṇaṃ careth .. 27.355 ..
शवमुद्धृत्य पश्चात्तु पर्यग्नि करणं भवेथ् । अकाले बलिदानं स्यादसुरप्रीतिवर्धनं ॥ २७.३५६ ॥
śavamuddhṛtya paścāttu paryagni karaṇaṃ bhaveth . akāle balidānaṃ syādasuraprītivardhanaṃ .. 27.356 ..
अकाले तु बलिं दत्वा काले तु त्रिगुणं बलिः । बलिभ्रमणदेशस्स्याद्देवस्य भ्रमणाय हि ॥ २७.३५७ ॥
akāle tu baliṃ datvā kāle tu triguṇaṃ baliḥ . balibhramaṇadeśassyāddevasya bhramaṇāya hi .. 27.357 ..
नान्यत्र चर्या देवस्य लघुप्रोक्षण मन्यथा । न हि श्रद्धोत्सवे दोषमुशन्त्येनं स हीतरः ॥ २७.३५८ ॥
nānyatra caryā devasya laghuprokṣaṇa manyathā . na hi śraddhotsave doṣamuśantyenaṃ sa hītaraḥ .. 27.358 ..
वास्तुवृद्धौ तथा ह्रासे ग्रामसीमानवीकृतौ । अनुमान्य च देवेशं शताष्टकलशाप्लवः ॥ २७.३५९ ॥
vāstuvṛddhau tathā hrāse grāmasīmānavīkṛtau . anumānya ca deveśaṃ śatāṣṭakalaśāplavaḥ .. 27.359 ..
कृत्वा सीमां विनिश्चित्य ततः कार्यं समाचरेथ् । अस्तरा चोत्सवं कुर्यात्सहस्रकलशाप्लवः ॥ २७.३६० ॥
kṛtvā sīmāṃ viniścitya tataḥ kāryaṃ samācareth . astarā cotsavaṃ kuryātsahasrakalaśāplavaḥ .. 27.360 ..
देवतावाहनं कृत्वा तथैवोत्सव माचरेथ् । देवादीनां बलं यस्माद्वर्धते स बलिस्स्मृतः ॥ २७.३६१ ॥
devatāvāhanaṃ kṛtvā tathaivotsava mācareth . devādīnāṃ balaṃ yasmādvardhate sa balissmṛtaḥ .. 27.361 ..
श्वसूकरादिभिर्दुष्टैर्नभक्ष्यो बलिरुच्यते । बलिभुग्वायसः प्रोक्तो गोमुख्या मेध्यजन्तवः ॥ २७.३६२ ॥
śvasūkarādibhirduṣṭairnabhakṣyo balirucyate . balibhugvāyasaḥ prokto gomukhyā medhyajantavaḥ .. 27.362 ..
विपरीते महान्दोषस्तन्मन्त्रैर्हावयेच्छतं । बलिशेषं न शूद्रोऽद्यादर्चको बलिशेषभाक् ॥ २७.३६३ ॥
viparīte mahāndoṣastanmantrairhāvayecchataṃ . baliśeṣaṃ na śūdro'dyādarcako baliśeṣabhāk .. 27.363 ..
बलावमन्त्रकं क्षिप्ते संक्षिप्ते विधिवर्जिते । भक्षिते चानुलोमाद्यैःपूर्वोक्तां निष्कृतिं चरेथ् ॥ २७.३६४ ॥
balāvamantrakaṃ kṣipte saṃkṣipte vidhivarjite . bhakṣite cānulomādyaiḥpūrvoktāṃ niṣkṛtiṃ careth .. 27.364 ..
बलौ पर्युषितेऽत्युष्णे तथा चैवानिवेदिते । निवेदनात्प्रागर्वाग्वादृष्टे शूद्रादिभिर्बलौ ॥ २७.३६५ ॥
balau paryuṣite'tyuṣṇe tathā caivānivedite . nivedanātprāgarvāgvādṛṣṭe śūdrādibhirbalau .. 27.365 ..
पूर्वोक्तां निष्कृतिं कृत्वा सर्वत्र द्विगुणं बलिः । देवतावाहनं यत्र देशेप्राक्क्रियते ततः ॥ २७.३६६ ॥
pūrvoktāṃ niṣkṛtiṃ kṛtvā sarvatra dviguṇaṃ baliḥ . devatāvāhanaṃ yatra deśeprākkriyate tataḥ .. 27.366 ..
तत्रैव बलिदानं स्याद्यावदुद्वासनं भवेथ् । मण्डलं च जलं कूर्चमाह्वानाधार उच्यते ॥ २७.३६७ ॥
tatraiva balidānaṃ syādyāvadudvāsanaṃ bhaveth . maṇḍalaṃ ca jalaṃ kūrcamāhvānādhāra ucyate .. 27.367 ..
रथ्यासु बलिदानाय पीठं शैलादिभिर्भवेथ् । बलिदानं तु गुप्तं स्यान्न तत्बश्यन्त्यवैदिकाः ॥ २७.३६८ ॥
rathyāsu balidānāya pīṭhaṃ śailādibhirbhaveth . balidānaṃ tu guptaṃ syānna tatbaśyantyavaidikāḥ .. 27.368 ..
तत्थ्सावं तु तिरस्कुर्यात्काले यवनिकादिभिः । बलिप्रदानहीने तु वैष्णवं बलिरक्षकं ॥ २७.३६९ ॥
tatthsāvaṃ tu tiraskuryātkāle yavanikādibhiḥ . balipradānahīne tu vaiṣṇavaṃ balirakṣakaṃ .. 27.369 ..
हुत्वा तु निष्कृतिं कुर्याद्बलिदानं पुनस्तदा । बलिद्रव्येऽथ वा पात्रे पतिते भूतले तथा ॥ २७.३७० ॥
hutvā tu niṣkṛtiṃ kuryādbalidānaṃ punastadā . balidravye'tha vā pātre patite bhūtale tathā .. 27.370 ..
भिन्ने नष्टे च पूर्वोक्तं हुत्वान्यं बलिमाहरेथ् । बलिदानं तु कृत्वैव भुतपीठे क्षिपेत्ततः ॥ २७.३७१ ॥
bhinne naṣṭe ca pūrvoktaṃ hutvānyaṃ balimāhareth . balidānaṃ tu kṛtvaiva bhutapīṭhe kṣipettataḥ .. 27.371 ..
बलिशेषमनुक्ते तु स्थाने बुद्ध्या तु निर्वपेथ् । वैष्णवं चाक्षहमनुं वैष्वक्चेनं च गारुडं ॥ २७.३७२ ॥
baliśeṣamanukte tu sthāne buddhyā tu nirvapeth . vaiṣṇavaṃ cākṣahamanuṃ vaiṣvakcenaṃ ca gāruḍaṃ .. 27.372 ..
सौदर्शनं च हुत्वैव भूतपीठे बलि क्षिपेथ् । हविर्निवेदने हीनेहीने च द्विगुणार्चने ॥ २७.३७३ ॥
saudarśanaṃ ca hutvaiva bhūtapīṭhe bali kṣipeth . havirnivedane hīnehīne ca dviguṇārcane .. 27.373 ..
शान्तिं च वैष्णवं हुत्वा तथाभ्यर्च्य निवेदयेथ् । यथोक्तहोमे हीने तु वैष्णवं विष्णुसूक्तकं ॥ २७.३७४ ॥
śāntiṃ ca vaiṣṇavaṃ hutvā tathābhyarcya nivedayeth . yathoktahome hīne tu vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.374 ..
नृसूक्तं च त्रयस्त्रिंशत्कृत्वो हुत्वा हुनेत्पुनः । चक्रवीशामितानां च कुंभस्थानामथापिवा ॥ २७.३७५ ॥
nṛsūktaṃ ca trayastriṃśatkṛtvo hutvā hunetpunaḥ . cakravīśāmitānāṃ ca kuṃbhasthānāmathāpivā .. 27.375 ..
देवानामर्चने हीने वैष्णवं विष्णुसूक्तकं । नृसूक्तं सान्तमन्त्रौ च गारुडं चाक्रमेव च ॥ २७.३७६ ॥
devānāmarcane hīne vaiṣṇavaṃ viṣṇusūktakaṃ . nṛsūktaṃ sāntamantrau ca gāruḍaṃ cākrameva ca .. 27.376 ..
हुत्वा पुनस्समभ्यर्च्य विशेषेण निवेदयेथ् । देवालङ्करणे हीने श्रीदैवत्यं च वैष्णवं ॥ २७.३७७ ॥
hutvā punassamabhyarcya viśeṣeṇa nivedayeth . devālaṅkaraṇe hīne śrīdaivatyaṃ ca vaiṣṇavaṃ .. 27.377 ..
हुद्वालङ्कारमासाद्य विधीना भूषयेद्गुरुः । अलङ्कारेषु द्रव्येषु निर्यासं चन्दनं सुमं ॥ २७.३७८ ॥
hudvālaṅkāramāsādya vidhīnā bhūṣayedguruḥ . alaṅkāreṣu dravyeṣu niryāsaṃ candanaṃ sumaṃ .. 27.378 ..
तद्धित्वान्यत्समादाय द्रव्यं प्रक्षाल्यमन्त्रतः । पञ्चगव्यैस्समभ्युक्ष्य तेनालङ्कार उच्यते ॥ २७.३७९ ॥
taddhitvānyatsamādāya dravyaṃ prakṣālyamantrataḥ . pañcagavyaissamabhyukṣya tenālaṅkāra ucyate .. 27.379 ..
नृत्ते गेयेऽथ वा हीने वैष्णवं रुद्रदैवतं । स्तोत्रहीने तथा ब्राह्मं हुत्वा सारस्वतं ततः ॥ २७.३८० ॥
nṛtte geye'tha vā hīne vaiṣṇavaṃ rudradaivataṃ . stotrahīne tathā brāhmaṃ hutvā sārasvataṃ tataḥ .. 27.380 ..
भक्तबृन्दैः परिवृतौ हीनायां वारुणं तथा । वैष्णवं शान्तदैवत्यं हीने पिच्छादिके तथा ॥ २७.३८१ ॥
bhaktabṛndaiḥ parivṛtau hīnāyāṃ vāruṇaṃ tathā . vaiṣṇavaṃ śāntadaivatyaṃ hīne picchādike tathā .. 27.381 ..
वैष्णवं जुहुयात्तद्वद्धविरक्षमनुं ततः । यानात्काले यागशालां देवे न प्रतिगच्छति ॥ २७.३८२ ॥
vaiṣṇavaṃ juhuyāttadvaddhavirakṣamanuṃ tataḥ . yānātkāle yāgaśālāṃ deve na pratigacchati .. 27.382 ..
भवेन्नित्यार्चनं तत्र यत्रदेवोऽधिवासितः । ध्रुवार्चनं यथा पूर्वं न तत्रास्ति व्यतिक्रमः ॥ २७.३८३ ॥
bhavennityārcanaṃ tatra yatradevo'dhivāsitaḥ . dhruvārcanaṃ yathā pūrvaṃ na tatrāsti vyatikramaḥ .. 27.383 ..
देवं प्रत्यागतं दृष्ट्या पुनरन्योत्सवं चरेथ् । दिनव्यपाये कुर्याच्च तत्कालनियतोत्सवं ॥ २७.३८४ ॥
devaṃ pratyāgataṃ dṛṣṭyā punaranyotsavaṃ careth . dinavyapāye kuryācca tatkālaniyatotsavaṃ .. 27.384 ..
अतीतमुत्सवं चापि तन्त्रेणात्र समाचरेथ् । तद्दिनेप्यप्रमादाच्चेद्भूयात्कालस्य यापनं ॥ २७.३८५ ॥
atītamutsavaṃ cāpi tantreṇātra samācareth . taddinepyapramādāccedbhūyātkālasya yāpanaṃ .. 27.385 ..
न जह्या देवकुर्याच्च तत्कालोचितमुत्सवं । अत्र प्रमादेतु भवेत्पूर्वोक्तैव हि निष्कृतिः ॥ २७.३८६ ॥
na jahyā devakuryācca tatkālocitamutsavaṃ . atra pramādetu bhavetpūrvoktaiva hi niṣkṛtiḥ .. 27.386 ..
दीक्षितो वस्त्रमाल्याद्यैः पञ्चागार्पितभूषणैः । चरेन्नित्यं विशुद्धात्मा विपरीते तु दोषकृथ् ॥ २७.३८७ ॥
dīkṣito vastramālyādyaiḥ pañcāgārpitabhūṣaṇaiḥ . carennityaṃ viśuddhātmā viparīte tu doṣakṛth .. 27.387 ..
दीक्षाङ्गस्य तु वस्त्रस्य तथा प्रतिसरस्य वा । नाशे तत्र महान्दोषस्तदान्यत्पुनराहरेथ् ॥ २७.३८८ ॥
dīkṣāṅgasya tu vastrasya tathā pratisarasya vā . nāśe tatra mahāndoṣastadānyatpunarāhareth .. 27.388 ..
सहस्रं विष्णुगायत्रीं हुत्वा शान्तिमथाचरेथ् । यावद्दीक्षाभवेत्तावद्दीक्षाङ्गस्य परिग्रहः ॥ २७.३८९ ॥
sahasraṃ viṣṇugāyatrīṃ hutvā śāntimathācareth . yāvaddīkṣābhavettāvaddīkṣāṅgasya parigrahaḥ .. 27.389 ..
अन्तेतु तद्गताशक्तिस्स्वयमेवावहीयते । अथ वा मोचनं कुर्यादिते के चिद्वदन्तिहि ॥ २७.३९० ॥
antetu tadgatāśaktissvayamevāvahīyate . atha vā mocanaṃ kuryādite ke cidvadantihi .. 27.390 ..
तत्र पूर्णाहुतिं कालं प्रवदन्ति विपश्चितः । प्रतिष्ठान्ते तु सा दीक्षा भवेदुत्सवसंगता ॥ २७.३९१ ॥
tatra pūrṇāhutiṃ kālaṃ pravadanti vipaścitaḥ . pratiṣṭhānte tu sā dīkṣā bhavedutsavasaṃgatā .. 27.391 ..
न तत्र दीक्षासांकर्यं द्वयमेकत्र चेद्यदि । अन्योन्यं कलहायन्ते यद्याचार्यादयःक्रतौ ॥ २७.३९२ ॥
na tatra dīkṣāsāṃkaryaṃ dvayamekatra cedyadi . anyonyaṃ kalahāyante yadyācāryādayaḥkratau .. 27.392 ..
महाननर्थस्तत्र स्यात्प्रतिभूर्गुरुरत्र हि । गुरुवाक्यं च राजाज्ञां सममाहुर्महर्षयः ॥ २७.३९३ ॥
mahānanarthastatra syātpratibhūrgururatra hi . guruvākyaṃ ca rājājñāṃ samamāhurmaharṣayaḥ .. 27.393 ..
दीक्षिते वर्तमाने तु नान्यं तत्र प्रवेशयेथ् । नह्येकस्मिन्भवेत्कार्य आचार्यद्वय संगतिः ॥ २७.३९४ ॥
dīkṣite vartamāne tu nānyaṃ tatra praveśayeth . nahyekasminbhavetkārya ācāryadvaya saṃgatiḥ .. 27.394 ..
प्रमादाद्बुद्धिपूर्वं वा कलहे क्षतजस्रुतिः । क्षतानि वा भवेयुस्तं विसृज्यान्येन कारयेथ् ॥ २७.३९५ ॥
pramādādbuddhipūrvaṃ vā kalahe kṣatajasrutiḥ . kṣatāni vā bhaveyustaṃ visṛjyānyena kārayeth .. 27.395 ..
न तस्य तु भवेद्दीक्षा महाशान्तिं तु कारयेथ् । स दीक्षितो भवेदेव पूर्वस्य प्कणिधिस्स हि ॥ २७.३९६ ॥
na tasya tu bhaveddīkṣā mahāśāntiṃ tu kārayeth . sa dīkṣito bhavedeva pūrvasya pkaṇidhissa hi .. 27.396 ..
यावदाशौचसंक्रान्ति राशौचेत्वशुचिर्भवेथ् । पुनरन्यं समादाय शेषं पूर्ववदायरेथ् ॥ २७.३९७ ॥
yāvadāśaucasaṃkrānti rāśaucetvaśucirbhaveth . punaranyaṃ samādāya śeṣaṃ pūrvavadāyareth .. 27.397 ..
आदौ मध्ये तधान्ते च हीने ब्राह्मणभोजने । त्रिवाकं तु महाशान्तिं हुत्वा ब्राह्मणभोजनम्, ॥ २७.३९८ ॥
ādau madhye tadhānte ca hīne brāhmaṇabhojane . trivākaṃ tu mahāśāntiṃ hutvā brāhmaṇabhojanam, .. 27.398 ..
द्विगुणं कारयेच्चैव वैष्णवानां तु पूजनं । पुनाति पूजितस्सद्यः पाप्मभ्यो वैष्णपस्सकृथ् ॥ २७.३९९ ॥
dviguṇaṃ kārayeccaiva vaiṣṇavānāṃ tu pūjanaṃ . punāti pūjitassadyaḥ pāpmabhyo vaiṣṇapassakṛth .. 27.399 ..
अवैष्णवैश्च पाषण्डैरूढे देवे द्वनर्थकृथ् । तद्दोषशान्तये कुर्यात्सहस्रकलशाप्लवं ॥ २७.४०० ॥
avaiṣṇavaiśca pāṣaṇḍairūḍhe deve dvanarthakṛth . taddoṣaśāntaye kuryātsahasrakalaśāplavaṃ .. 27.400 ..
अवैष्णवकृतापूजा हन्ति पुण्यं पुरातनं । यानात्तु पतिते देवे शीघ्रमुद्धृत्य सादरं ॥ २७.४०१ ॥
avaiṣṇavakṛtāpūjā hanti puṇyaṃ purātanaṃ . yānāttu patite deve śīghramuddhṛtya sādaraṃ .. 27.401 ..
क्षमऽस्वेत्यनुमान्यैव शुद्धोदैरभिषिच्यच । वैष्णवं विष्णुसूक्तं च नृसूक्तं सहितं क्रमाथ् ॥ २७.४०२ ॥
kṣama'svetyanumānyaiva śuddhodairabhiṣicyaca . vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ sahitaṃ kramāth .. 27.402 ..
दिनाधिपस्य दैवत्यं हुत्वा चोत्सवमाचरेथ् । चक्रवीशाखमितादीनां बिंबाभावे पृथक्पृथक् ॥ २७.४०३ ॥
dinādhipasya daivatyaṃ hutvā cotsavamācareth . cakravīśākhamitādīnāṃ biṃbābhāve pṛthakpṛthak .. 27.403 ..
तण्डुलोपरिपात्रेषु कूर्चेष्वावाह्य मन्त्रतः । तत्तद्रूपं तु संस्मृत्य समभ्यर्च्य विधानतः ॥ २७.४०४ ॥
taṇḍuloparipātreṣu kūrceṣvāvāhya mantrataḥ . tattadrūpaṃ tu saṃsmṛtya samabhyarcya vidhānataḥ .. 27.404 ..
हुत्वा च तत्तद्दैवत्यं पश्चादुत्सवमाचरेथ् । पतने तु तथैतेषामुद्धृत्यैव च पूर्ववथ् ॥ २७.४०५ ॥
hutvā ca tattaddaivatyaṃ paścādutsavamācareth . patane tu tathaiteṣāmuddhṛtyaiva ca pūrvavath .. 27.405 ..
स्नापयित्वा हुनेत्तत्तद्दैवत्यं वैष्णवं तथा । यानात्तु पतिते बिंबे हीनाङ्गे दोषगौरवे ॥ २७.४०६ ॥
snāpayitvā hunettattaddaivatyaṃ vaiṣṇavaṃ tathā . yānāttu patite biṃbe hīnāṅge doṣagaurave .. 27.406 ..
पद्मानले महाशान्तिं हुत्वा तद्दोषशान्तये । ध्रुवबेरे समारोप्य तच्चक्तिं विधिना ततः ॥ २७.४०७ ॥
padmānale mahāśāntiṃ hutvā taddoṣaśāntaye . dhruvabere samāropya taccaktiṃ vidhinā tataḥ .. 27.407 ..
कौतुकं स्नापनं वाथ बलिबेरमथापि वा । यथार्हं समलङ्कृत्य समावाह्य यथाविधि ॥ २७.४०८ ॥
kautukaṃ snāpanaṃ vātha baliberamathāpi vā . yathārhaṃ samalaṅkṛtya samāvāhya yathāvidhi .. 27.408 ..
समभ्यर्च्योत्सवं कुर्यान्न तत्रस्याद्व्यतिक्रमः । बेरान्तरस्यालाभे तु रत्नं वा काञ्चनं तथा ॥ २७.४०९ ॥
samabhyarcyotsavaṃ kuryānna tatrasyādvyatikramaḥ . berāntarasyālābhe tu ratnaṃ vā kāñcanaṃ tathā .. 27.409 ..
न्यस्य पात्रे समावाह्य समभ्यर्च्य दिने दिने । महाशान्तिं च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४१० ॥
nyasya pātre samāvāhya samabhyarcya dine dine . mahāśāntiṃ ca hutvaiva punarutsavamācareth .. 27.410 ..
हीनाङ्गं च पुनर्बेरं संधानविधिना पुनः । संधाय चात्वरेणैव प्रतिष्ठां पुनराचरेथ् ॥ २७.४११ ॥
hīnāṅgaṃ ca punarberaṃ saṃdhānavidhinā punaḥ . saṃdhāya cātvareṇaiva pratiṣṭhāṃ punarācareth .. 27.411 ..
पतने गायगादीनां श्रीदैवत्यं च वैष्णवं । वादकानां तु पतनै ब्राह्मं रौद्रं तथैव च ॥ २७.४१२ ॥
patane gāyagādīnāṃ śrīdaivatyaṃ ca vaiṣṇavaṃ . vādakānāṃ tu patanai brāhmaṃ raudraṃ tathaiva ca .. 27.412 ..
आचार्यादीनां तु पतने संक्षोभे च तथाकृते । आर्षभं वैष्णवं तद्वद्ध्वजादीनां च पातने ॥ २७.४१३ ॥
ācāryādīnāṃ tu patane saṃkṣobhe ca tathākṛte . ārṣabhaṃ vaiṣṇavaṃ tadvaddhvajādīnāṃ ca pātane .. 27.413 ..
ध्वाजं च वारुणं चैव वायव्यं च हुनेद्विधिः । वर्षधारासु वात्यायां विद्युद्व्रजसमाहतौ ॥ २७.४१४ ॥
dhvājaṃ ca vāruṇaṃ caiva vāyavyaṃ ca hunedvidhiḥ . varṣadhārāsu vātyāyāṃ vidyudvrajasamāhatau .. 27.414 ..
काले न चोत्सवं कुर्यात्कुर्याच्चेद्वैष्णवं तथा । विष्णुसूक्तं नृसूक्तं च श्रीभूदैवत्यमेव च ॥ २७.४१५ ॥
kāle na cotsavaṃ kuryātkuryāccedvaiṣṇavaṃ tathā . viṣṇusūktaṃ nṛsūktaṃ ca śrībhūdaivatyameva ca .. 27.415 ..
हुत्वोत्सवं प्रकुर्वीत विपरीते तु दोषकृथ् । वीथ्यन्तरे वर्षधाराप्रवेशेऽशनिगर्जिते ॥ २७.४१६ ॥
hutvotsavaṃ prakurvīta viparīte tu doṣakṛth . vīthyantare varṣadhārāpraveśe'śanigarjite .. 27.416 ..
तृणपांसु समायुक्तवातस्पर्शे विशेषतः । कलहध्वनिसंयुक्ते देवं संस्नाप्य मन्त्रविथ् ॥ २७.४१७ ॥
tṛṇapāṃsu samāyuktavātasparśe viśeṣataḥ . kalahadhvanisaṃyukte devaṃ saṃsnāpya mantravith .. 27.417 ..
वैष्णवं दिग्दैवत्यं च वारुणं वायुदैवतं । यद्देवादींश्च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४१८ ॥
vaiṣṇavaṃ digdaivatyaṃ ca vāruṇaṃ vāyudaivataṃ . yaddevādīṃśca hutvaiva punarutsavamācareth .. 27.418 ..
कलहे रुधिरस्रावे दाहे चाप्युत्सवे ततः । वैष्णपं चाग्निदैवत्यं ब्राह्मं रौद्रं तथैव च ॥ २७.४१९ ॥
kalahe rudhirasrāve dāhe cāpyutsave tataḥ . vaiṣṇapaṃ cāgnidaivatyaṃ brāhmaṃ raudraṃ tathaiva ca .. 27.419 ..
तद्दिनाधिपदैवत्यं जुहुयात्प्रार्थयेद्धरिं । आलयाभ्यन्तरे चैव शस्त्राद्यैर्मरणे सति ॥ २७.४२० ॥
taddinādhipadaivatyaṃ juhuyātprārthayeddhariṃ . ālayābhyantare caiva śastrādyairmaraṇe sati .. 27.420 ..
तच्छीघ्रमपहायैव पद्माग्नौ जुहुयात्तथा । महाशान्तिं तद्दिनाधिदैवत्यं च विशेषतः ॥ २७.४२१ ॥
tacchīghramapahāyaiva padmāgnau juhuyāttathā . mahāśāntiṃ taddinādhidaivatyaṃ ca viśeṣataḥ .. 27.421 ..
वीथ्यां चेन्मरहणादौतु तच्छीघ्रं तु व्यपोह्य च । शान्तिहोमं च हुत्वैव पुनरुत्सवमाचरेथ् ॥ २७.४२२ ॥
vīthyāṃ cenmarahaṇādautu tacchīghraṃ tu vyapohya ca . śāntihomaṃ ca hutvaiva punarutsavamācareth .. 27.422 ..
नाडिकाया अथार्याक्चेत्पुनरुत्सवमाचरेथ् । आलयस्याशीतिदण्डाभ्यन्तरे तु शवे सति ॥ २७.४२३ ॥
nāḍikāyā athāryākcetpunarutsavamācareth . ālayasyāśītidaṇḍābhyantare tu śave sati .. 27.423 ..
तत्रोत्सवं न कुर्यात्तु कुर्याच्चेत्स विनश्यति । तच्छीघ्रमपहायेव प्रायश्चित्तं यथोदितं ॥ २७.४२४ ॥
tatrotsavaṃ na kuryāttu kuryāccetsa vinaśyati . tacchīghramapahāyeva prāyaścittaṃ yathoditaṃ .. 27.424 ..
महाशान्तिं पार्षदं च चहुत्वा चोत्सवमाचरेथ् । लगरे विधिरेषस्स्याद्ग्रामेनैष विकल्प्यते ॥ २७.४२५ ॥
mahāśāntiṃ pārṣadaṃ ca cahutvā cotsavamācareth . lagare vidhireṣassyādgrāmenaiṣa vikalpyate .. 27.425 ..
अन्तश्सवेनैव कुर्यादुत्सवं ग्रामवृद्धये । ध्वजस्वारोहणादुर्ध्वं यावत्तीर्थदिनं भवेथ् ॥ २७.४२६ ॥
antaśsavenaiva kuryādutsavaṃ grāmavṛddhaye . dhvajasvārohaṇādurdhvaṃ yāvattīrthadinaṃ bhaveth .. 27.426 ..
अन्यात्सवं शुभं कर्म कुर्याच्चेदाभिचारिकं । तद्दोषशमनायैव वैष्णवं विष्णुसूक्तकं ॥ २७.४२७ ॥
anyātsavaṃ śubhaṃ karma kuryāccedābhicārikaṃ . taddoṣaśamanāyaiva vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.427 ..
नृसूक्तं पार्षदं चैव हुत्वा विप्रांस्तु भोजयेथ् । तीर्थाहात्पूर्वरात्रौ तु हीने कौतुक बन्धने ॥ २७.४२८ ॥
nṛsūktaṃ pārṣadaṃ caiva hutvā viprāṃstu bhojayeth . tīrthāhātpūrvarātrau tu hīne kautuka bandhane .. 27.428 ..
शयने वा वैष्णवं च श्रीभूदैवत्यमेव च । सौदर्शनं च हुत्वान्ते यथोक्तं तु समाचरेथ् ॥ २७.४२९ ॥
śayane vā vaiṣṇavaṃ ca śrībhūdaivatyameva ca . saudarśanaṃ ca hutvānte yathoktaṃ tu samācareth .. 27.429 ..
तीर्थस्नाने तु कालस्यातीते हीने च वैष्मवं । वारुणं स्कन्ददैवत्यं हुत्वा चौक्तं समाचरेथ् ॥ २७.४३० ॥
tīrthasnāne tu kālasyātīte hīne ca vaiṣmavaṃ . vāruṇaṃ skandadaivatyaṃ hutvā cauktaṃ samācareth .. 27.430 ..
ध्वजावरोहणे हीने तद्रात्रौ ध्वाजमेव च । गारुडं वैष्णवं हुत्वा देवेशं प्रार्थयेद्गुरुः ॥ २७.४३१ ॥
dhvajāvarohaṇe hīne tadrātrau dhvājameva ca . gāruḍaṃ vaiṣṇavaṃ hutvā deveśaṃ prārthayedguruḥ .. 27.431 ..
अवरोहणकारे तु बलौ हीने विशेषतः । ध्वजदेवं सुसंपूज्य वैष्णवं विष्णुसूक्तकं ॥ २७.४३२ ॥
avarohaṇakāre tu balau hīne viśeṣataḥ . dhvajadevaṃ susaṃpūjya vaiṣṇavaṃ viṣṇusūktakaṃ .. 27.432 ..
तदालयस्थदेवानां मन्त्रांश्चैव विशेषतः । हुत्वा देवेशमभ्यर्छ्य ध्वजं समवरोहयेथ् ॥ २७.४३३ ॥
tadālayasthadevānāṃ mantrāṃścaiva viśeṣataḥ . hutvā deveśamabhyarchya dhvajaṃ samavarohayeth .. 27.433 ..
उत्सवान्ताप्लवेहीने वैष्णवं विष्णुसूक्तकं । पुरुषसूक्तं जयादीनश्च मूर्तिमन्त्राश्च हावयेथ् ॥ २७.४३४ ॥
utsavāntāplavehīne vaiṣṇavaṃ viṣṇusūktakaṃ . puruṣasūktaṃ jayādīnaśca mūrtimantrāśca hāvayeth .. 27.434 ..
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं भवेदिदं । वैष्णवं विष्णुसूक्तं च नृसूक्तं च तथैव च ॥ २७.४३५ ॥
atrānukteṣu doṣeṣu prāyaścittaṃ bhavedidaṃ . vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ ca tathaiva ca .. 27.435 ..
हूयते विष्णुगायत्री सर्वपापप्राणाशिनि । एवमष्टाविंशतिर्वा शक्तावष्टोत्तरं शतं ॥ २७.४३६ ॥
hūyate viṣṇugāyatrī sarvapāpaprāṇāśini . evamaṣṭāviṃśatirvā śaktāvaṣṭottaraṃ śataṃ .. 27.436 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे सप्तविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptaviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In