| |
|

This overlay will guide you through the buttons:

अथषष्ठोऽध्यायः
अथ षष्ठः अध्यायः
atha ṣaṣṭhaḥ adhyāyaḥ
मूधेन्ष्टकाविधिः
अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः । प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ॥ ६.१ ॥
अथ वक्ष्ये विशेषेण । प्रमुखे याग-शालान् च कृत्वा च एव विचक्षण ॥ ६।१ ॥
atha vakṣye viśeṣeṇa . pramukhe yāga-śālān ca kṛtvā ca eva vicakṣaṇa .. 6.1 ..
मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः । सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेथ् ॥ ६.२ ॥
मध्येवेदिम् प्रकल्प्य एव स्थूपि-कील-प्रमाणतः । सभ्यम् प्रकल्प्य च प्राच्या माघारम् विधिवत् यजेथ् ॥ ६।२ ॥
madhyevedim prakalpya eva sthūpi-kīla-pramāṇataḥ . sabhyam prakalpya ca prācyā māghāram vidhivat yajeth .. 6.2 ..
वेदिमध्येन्यसेद्विद्वान्सुस्निग्धानिर्व्रणादृढाः । वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमाथ् ॥ ६.३ ॥
वेदि-मध्ये न्यसेत् विद्वान् सु स्निग्धा निर्व्रण-अदृढाः । वैष्णवञ्च च जपित्वा एव चतस्रः च इष्टकाः ॥ ६।३ ॥
vedi-madhye nyaset vidvān su snigdhā nirvraṇa-adṛḍhāḥ . vaiṣṇavañca ca japitvā eva catasraḥ ca iṣṭakāḥ .. 6.3 ..
किञ्चिदग्रंभवेन्निम्नं मूलेवैकिञ्चिदुन्नतं । अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेथ् ॥ ६.४ ॥
किञ्चिद् अग्रम् भवेत् निम्नम् मूला इव एकिञ्चिद् उन्नतम् । अधोभागे भवेत् पृष्ट ऊर्ध्वभागे मुखम् ॥ ६।४ ॥
kiñcid agram bhavet nimnam mūlā iva ekiñcid unnatam . adhobhāge bhavet pṛṣṭa ūrdhvabhāge mukham .. 6.4 ..
शालिपिष्टमयेनाथ लेखयेदक्षराणितु । यकारंपूर्वतोलेख्य रकारन्दक्षिणेन्यसेथ् ॥ ६.५ ॥
शालि-पिष्ट-मयेन अथ लेखयेत् अक्षराणि तु । यकारम् पूर्वतस् लेख्य रकारन् दक्षिणे न्यसेथ् ॥ ६।५ ॥
śāli-piṣṭa-mayena atha lekhayet akṣarāṇi tu . yakāram pūrvatas lekhya rakāran dakṣiṇe nyaseth .. 6.5 ..
लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेथ् । लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ॥ ६.६ ॥
लकारम् पश्चिमे लेख्य-वकारे च उत्तरे लिखेथ् । लोह-जान् दारु-जाम् वा अथ स्थूपिन् तत्र न्यसेत् बुधः ॥ ६।६ ॥
lakāram paścime lekhya-vakāre ca uttare likheth . loha-jān dāru-jām vā atha sthūpin tatra nyaset budhaḥ .. 6.6 ..
पादायामसमन्दीघंन्विस्तारंपादसम्मितं । अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ॥ ६.७ ॥
पाद-आयाम-समन्-दीघन्-विस्तारम् पाद-सम्मितम् । अग्रम् अङ्गुल-विस्तार मानुपूर्व्यात् कृशन् तथा ॥ ६।७ ॥
pāda-āyāma-saman-dīghan-vistāram pāda-sammitam . agram aṅgula-vistāra mānupūrvyāt kṛśan tathā .. 6.7 ..
चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा । वृत्तन्तदूर्ध्वतःकुर्याच्छीलीपादमधोन्यसेथ् ॥ ६.८ ॥
त्रि-भागैः । वृत्तम् तद्-ऊर्ध्वतस् कुर्यात् शीली-पादम् अधस् न्यसेथ् ॥ ६।८ ॥
tri-bhāgaiḥ . vṛttam tad-ūrdhvatas kuryāt śīlī-pādam adhas nyaseth .. 6.8 ..
विस्तारत्रिगुणायामं विस्तारसमविस्तरं । तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ॥ ६.९ ॥
विस्तार-त्रिगुण-आयामम् विस्तार-सम-विस्तरम् । तद्-द्वयेन समायोज्य नमन् शूलम् स्थितम् यधा ॥ ६।९ ॥
vistāra-triguṇa-āyāmam vistāra-sama-vistaram . tad-dvayena samāyojya naman śūlam sthitam yadhā .. 6.9 ..
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेथ् । वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेथ् ॥ ६.१० ॥
पञ्चगव्यैः समभ्युक्ष्य पुण्याहम् अपिवाचयेथ् । वास्तु-जोमञ्च-हुत्वा एव पर्यग्निकरणम् चरेथ् ॥ ६।१० ॥
pañcagavyaiḥ samabhyukṣya puṇyāham apivācayeth . vāstu-jomañca-hutvā eva paryagnikaraṇam careth .. 6.10 ..
मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः । पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ॥ ६.११ ॥
मूर्धेष्टका-विधानेन होमम् कृत्वा अ विचक्षणः । पुनर् प्रभाते धर्म-आत्मा यजमान-युतः गुरुः ॥ ६।११ ॥
mūrdheṣṭakā-vidhānena homam kṛtvā a vicakṣaṇaḥ . punar prabhāte dharma-ātmā yajamāna-yutaḥ guruḥ .. 6.11 ..
शिलादीन्संप्रगृह्यैव विमानेरोपयेत्तधा । पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा ॥ ६.१२ ॥
शिला-आदीन् संप्रगृह्य एव विमान-ईरोपयेत् तधा । पाणिभ्याम् संप्रगृह्य एव प्राच्-मुख-उदक्-मुखः अपि वा ॥ ६।१२ ॥
śilā-ādīn saṃpragṛhya eva vimāna-īropayet tadhā . pāṇibhyām saṃpragṛhya eva prāc-mukha-udak-mukhaḥ api vā .. 6.12 ..
चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेथ् । ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिंन्यसेत्तधा ॥ ६.१३ ॥
चतुर्-वेद-आदि-मन्त्रैः च शिलाः । ध्रुव-सूक्तम् जपित्वा तु मथ्ये स्थूपिम् न्यसेत् तधा ॥ ६।१३ ॥
catur-veda-ādi-mantraiḥ ca śilāḥ . dhruva-sūktam japitvā tu mathye sthūpim nyaset tadhā .. 6.13 ..
कालेशिल्पिनमाहूय पूजयित्वा विशेषतः । शिलाद्युपरिविन्यस्य दृढीकरणमाचरेथ् ॥ ६.१४ ॥
कालेशिल्पिनम् आहूय पूजयित्वा विशेषतः । शिला-आदि-उपरि विन्यस्य दृढीकरणम् आचरेथ् ॥ ६।१४ ॥
kāleśilpinam āhūya pūjayitvā viśeṣataḥ . śilā-ādi-upari vinyasya dṛḍhīkaraṇam ācareth .. 6.14 ..
पादबन्धेगलेचैव विमाने परितःक्रमात्विमानदेवाः । प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ॥ ६.१५ ॥
पाद-बन्धे गले च एव विमाने । प्राच्याम् विष्णुम् प्रकुर्वीत यस्य गर्भगृहे स्थितिः ॥ ६।१५ ॥
pāda-bandhe gale ca eva vimāne . prācyām viṣṇum prakurvīta yasya garbhagṛhe sthitiḥ .. 6.15 ..
दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च । उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेथ् ॥ ६.१६ ॥
दक्षिणेसत्यमूर्तेः तु च्युतस्य च । उत्तरेथ् च अनिरुद्धस्य स्थितिम् एवम् ॥ ६।१६ ॥
dakṣiṇesatyamūrteḥ tu cyutasya ca . uttareth ca aniruddhasya sthitim evam .. 6.16 ..
गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः । पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ॥ ६.१७ ॥
गले पुरुष-मूर्तिः तु दक्षिणे नारसिंहकः । पश्चिमे तु वराहः च हयग्रीवः तथा उत्तरे ॥ ६।१७ ॥
gale puruṣa-mūrtiḥ tu dakṣiṇe nārasiṃhakaḥ . paścime tu varāhaḥ ca hayagrīvaḥ tathā uttare .. 6.17 ..
सुखसनसमालुक्तं सर्वालङ्कारसंयुतं । व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरं ॥ ६.१८ ॥
सुख-सन-समालुक्तम् सर्व-अलङ्कार-संयुतम् । व्याल-उद्ध्वकोणकम् च एव वीशम् वा अथ मृगेश्वरम् ॥ ६।१८ ॥
sukha-sana-samāluktam sarva-alaṅkāra-saṃyutam . vyāla-uddhvakoṇakam ca eva vīśam vā atha mṛgeśvaram .. 6.18 ..
वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु । स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेथ् ॥ ६.१९ ॥
वक्रतुण्डम् च दुर्गाम् च अपि अग्र-मण्डप-भित्तिषु । स्थितम् एवम् सु संस्थाप्य यथालाभम् समर्चयेथ् ॥ ६।१९ ॥
vakratuṇḍam ca durgām ca api agra-maṇḍapa-bhittiṣu . sthitam evam su saṃsthāpya yathālābham samarcayeth .. 6.19 ..
द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेथ् । प्रासादलक्षणंप्रोक्तं मण्डपानामथोच्यते ॥ ६.२० ॥
द्वारेषु द्वारपालानाम् स्थितिम् एवम् । प्रासाद-लक्षणम् प्रोक्तम् मण्डपानाम् अथ उच्यते ॥ ६।२० ॥
dvāreṣu dvārapālānām sthitim evam . prāsāda-lakṣaṇam proktam maṇḍapānām atha ucyate .. 6.20 ..
स्तंभैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितं । द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतं ॥ ६.२१ ॥
स्तंभैः षोडशभिः युक्तम् मण्डपम् श्री-प्रतिष्ठितम् । द्वादश-स्तंभ-संयुक्तम् बीजासनम् इति स्मृतम् ॥ ६।२१ ॥
staṃbhaiḥ ṣoḍaśabhiḥ yuktam maṇḍapam śrī-pratiṣṭhitam . dvādaśa-staṃbha-saṃyuktam bījāsanam iti smṛtam .. 6.21 ..
द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते । षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनं ॥ ६.२२ ॥
द्वात्रिंशत्-गात्र-संयुक्तम् जयभद्र-इति कीर्त्यते । षट्त्रिंशत्-गात्र-संयुक्तम् नन्द्यावर्तम् सु शोभनम् ॥ ६।२२ ॥
dvātriṃśat-gātra-saṃyuktam jayabhadra-iti kīrtyate . ṣaṭtriṃśat-gātra-saṃyuktam nandyāvartam su śobhanam .. 6.22 ..
चतुर्भिष्षष्टिभिस्त्संभैर्युक्तंश्रीभद्रकं स्मृतं । स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितं ॥ ६.२३ ॥
चतुर्भिः षष्टिभिः त्संभैः युक्तम् श्री-भद्रकम् स्मृतम् । स्तंभानाम् तु शतैः युक्तम् विशालम् इति संज्ञितम् ॥ ६।२३ ॥
caturbhiḥ ṣaṣṭibhiḥ tsaṃbhaiḥ yuktam śrī-bhadrakam smṛtam . staṃbhānām tu śataiḥ yuktam viśālam iti saṃjñitam .. 6.23 ..
प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः । वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ॥ ६.२४ ॥
प्रासाद-वत् समाख्यातम् प्रस्तारम् तद्-प्रमाणतः । वाजिना उपरि कर्तव्यम् धारकः तु कलाः तथा ॥ ६।२४ ॥
prāsāda-vat samākhyātam prastāram tad-pramāṇataḥ . vājinā upari kartavyam dhārakaḥ tu kalāḥ tathā .. 6.24 ..
स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतं । तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ॥ ६.२५ ॥
स्तंभ-विष्कंभम् उत्सेधम् चतुर्-भागेन विस्तृतम् । तुला-विस्तार-मानेन जयन्ती स्यात् सम-उन्नता ॥ ६।२५ ॥
staṃbha-viṣkaṃbham utsedham catur-bhāgena vistṛtam . tulā-vistāra-mānena jayantī syāt sama-unnatā .. 6.25 ..
ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः । इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितं ॥ ६.२६ ॥
ततस् दण्डार्धबाहुल्य मनु-मार्गम् तद्-ऊर्ध्वतस् । इष्टकाभिः तद्-ऊर्ध्वम् तु छादयेत् गल-क-अन्वितम् ॥ ६।२६ ॥
tatas daṇḍārdhabāhulya manu-mārgam tad-ūrdhvatas . iṣṭakābhiḥ tad-ūrdhvam tu chādayet gala-ka-anvitam .. 6.26 ..
पादाधिकमधाध्यर्धं द्विगुणं पादहीनकं । चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ॥ ६.२७ ॥
द्विगुणम् पाद-हीनकम् । चतुर्विधम् अथ आयामम् कर्तव्यम् ॥ ६।२७ ॥
dviguṇam pāda-hīnakam . caturvidham atha āyāmam kartavyam .. 6.27 ..
आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते । द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ॥ ६.२८ ॥
आयामे तु यथा युक्तम् स्तंभानाम् विधिः उच्यते । द्वि-हस्तम् वा अ त्रि-हस्तम् वा चतुर्-हस्तम् अथ अपि वा ॥ ६।२८ ॥
āyāme tu yathā yuktam staṃbhānām vidhiḥ ucyate . dvi-hastam vā a tri-hastam vā catur-hastam atha api vā .. 6.28 ..
स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः । एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ॥ ६.२९ ॥
स्तंभ-अन्तरम् प्रकर्तव्यम् यथायुक्ति विशेषतः । एवङ्क्रमात् समाख्यातम् प्राकारम् अधुना उच्यते ॥ ६।२९ ॥
staṃbha-antaram prakartavyam yathāyukti viśeṣataḥ . evaṅkramāt samākhyātam prākāram adhunā ucyate .. 6.29 ..
पाकारं परितः कुर्यात्प्रासादस्य प्रमाणतः । प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ॥ ६.३० ॥
परितस् कुर्यात् प्रासादस्य प्रमाणतः । प्राकारस्य तु विस्तारम् तस्य दण्डम् इह उच्यते ॥ ६।३० ॥
paritas kuryāt prāsādasya pramāṇataḥ . prākārasya tu vistāram tasya daṇḍam iha ucyate .. 6.30 ..
अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः । अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ॥ ६.३१ ॥
अन्तर् मण्डलम् इति आहुः रधि-अर्धम् दण्ड-मानतः । मध्य-भारम् ॥ ६।३१ ॥
antar maṇḍalam iti āhuḥ radhi-ardham daṇḍa-mānataḥ . madhya-bhāram .. 6.31 ..
चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका । महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ॥ ६.३२ ॥
चतुर्-दण्ड-प्रमाणेन युक्ता मर्याद-भित्तिका । महा-मर्याद-भित्तिः स्यात् सप्त-दण्ड-प्रमाणतः ॥ ६।३२ ॥
catur-daṇḍa-pramāṇena yuktā maryāda-bhittikā . mahā-maryāda-bhittiḥ syāt sapta-daṇḍa-pramāṇataḥ .. 6.32 ..
अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणं । मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ॥ ६.३३ ॥
अध्यर्ध-द्विगुणम् वा अपि त्रिगुणम् वा चतुर्गुणम् । मुख-आयामम् इति प्रोक्तम् प्राकाराणाम् विशेषतः ॥ ६।३३ ॥
adhyardha-dviguṇam vā api triguṇam vā caturguṇam . mukha-āyāmam iti proktam prākārāṇām viśeṣataḥ .. 6.33 ..
कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः । कूटशालायुतं वापि कुर्यात्प्राकारसंयुतं ॥ ६.३४ ॥
भित्ति-हस्त-प्रमाणतः । कूट-शाला-युतम् वा अपि कुर्यात् प्राकार-संयुतम् ॥ ६।३४ ॥
bhitti-hasta-pramāṇataḥ . kūṭa-śālā-yutam vā api kuryāt prākāra-saṃyutam .. 6.34 ..
मूलजं तु तलोत्सेधं हस्तमेवं विधीयते । यथालाभोन्नतं वापि प्रधमावरणं स्मृतं ॥ ६.३५ ॥
मूल-जम् तु तल-उत्सेधम् हस्तम् एवम् विधीयते । यथा लाभ-उन्नतम् वा अपि प्रधम-आवरणम् स्मृतम् ॥ ६।३५ ॥
mūla-jam tu tala-utsedham hastam evam vidhīyate . yathā lābha-unnatam vā api pradhama-āvaraṇam smṛtam .. 6.35 ..
षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः । जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा ॥ ६.३६ ॥
षष्-अङ्गुलम् क्रमात् कुर्यात् न्यून-प्राकारकम् विदुः । जल-निर्याण-मार्गम् स्यात् पद-अन्ते तटके अपि वा ॥ ६।३६ ॥
ṣaṣ-aṅgulam kramāt kuryāt nyūna-prākārakam viduḥ . jala-niryāṇa-mārgam syāt pada-ante taṭake api vā .. 6.36 ..
प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा । द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणं ॥ ६.३७ ॥
प्रधम-आवरण-द्वारम् प्रमुखे कल्पयेत् तथा । द्वितीय-आवरण-द्वारः व्यस्तः ॥ ६।३७ ॥
pradhama-āvaraṇa-dvāram pramukhe kalpayet tathā . dvitīya-āvaraṇa-dvāraḥ vyastaḥ .. 6.37 ..
विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा । पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ॥ ६.३८ ॥
विमान-उत्सेध-तुर्यम् वा च अर्थम् एव वा । पृधक् गोपुर-संयुक्त उच्छ्रितम् तु ॥ ६।३८ ॥
vimāna-utsedha-turyam vā ca artham eva vā . pṛdhak gopura-saṃyukta ucchritam tu .. 6.38 ..
पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा । त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगं ॥ ६.३९ ॥
पञ्च-प्राकारम् इति एवम् त्रि-प्राकारम् अथ अपि वा । त्रि-प्राकार-इषष्-अङ्गुल्यम् त्रिधा अधस् तल-निम्न-गम् ॥ ६।३९ ॥
pañca-prākāram iti evam tri-prākāram atha api vā . tri-prākāra-iṣaṣ-aṅgulyam tridhā adhas tala-nimna-gam .. 6.39 ..
प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमं । मध्यमं चोत्करान्तेन कलशान्तं तथाधमं ॥ ६.४० ॥
प्राकार-इहु-छ्रयम् विन्द्यात् कपोत-अन्तम् तत् उत्तमम् । मध्यमम् च उत्कर-अन्तेन कलश-अन्तम् तथा अधमम् ॥ ६।४० ॥
prākāra-ihu-chrayam vindyāt kapota-antam tat uttamam . madhyamam ca utkara-antena kalaśa-antam tathā adhamam .. 6.40 ..
एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमाथ् । उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ॥ ६.४१ ॥
एवम् प्राकार-संगेन तु उत्सेधम् त्रिविधम् । उत्सेधात् पञ्च-भाग-एकम् चतुर्-अंशकम् एव वा ॥ ६।४१ ॥
evam prākāra-saṃgena tu utsedham trividham . utsedhāt pañca-bhāga-ekam catur-aṃśakam eva vā .. 6.41 ..
षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरं अथ वा । प्रासादभित्तिस्तु तत्समं भित्तिमेव च ॥ ६.४२ ॥
षष्-भाग-एकेन वा अकुर्यात् त्रिविधम् भित्ति-विस्तरम् अथ वा । प्रासाद-भित्तिः तु तद्-समम् भित्तिम् एव च ॥ ६।४२ ॥
ṣaṣ-bhāga-ekena vā akuryāt trividham bhitti-vistaram atha vā . prāsāda-bhittiḥ tu tad-samam bhittim eva ca .. 6.42 ..
गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमं । पञ्चभागैकमधमं बलिपीठं तथाभवेथ् ॥ ६.४३ ॥
गर्भे अष्ट-अंश-उच्छ्रयम् श्रेष्ठम् । पञ्च-भाग-एकम् अधमम् बलि-पीठम् ॥ ६।४३ ॥
garbhe aṣṭa-aṃśa-ucchrayam śreṣṭham . pañca-bhāga-ekam adhamam bali-pīṭham .. 6.43 ..
गर्भपञ्चत्रिभागैकं ... । नवांशेषट्चतुर्भागं मध्यमाधममुत्तमं ॥ ६.४४ ॥
॥। । मध्यम-अधमम् उत्तमम् ॥ ६।४४ ॥
... . madhyama-adhamam uttamam .. 6.44 ..
त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेथ् । द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ॥ ६.४५ ॥
त्रिधा पैशाचिकम् पीठात् हस्त-मात्रम् । द्वि-हस्त-अन्तम् त्रि-हस्त-अन्तम् चतुर्-हस्त-अन्तम् उच्यते ॥ ६।४५ ॥
tridhā paiśācikam pīṭhāt hasta-mātram . dvi-hasta-antam tri-hasta-antam catur-hasta-antam ucyate .. 6.45 ..
अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकं । सप्तविंशतिभागैश्च सममेवं समुन्नतं ॥ ६.४६ ॥
अधमम् मध्यमम् श्रेष्ठम् त्रिधा पैशाच-पीठकम् । सप्तविंशति-भागैः च समम् एवम् समुन्नतम् ॥ ६।४६ ॥
adhamam madhyamam śreṣṭham tridhā paiśāca-pīṭhakam . saptaviṃśati-bhāgaiḥ ca samam evam samunnatam .. 6.46 ..
द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः । त्षंशं तु कुंभमित्याहु श्चतुर्थङ्कण्ठमेव च ॥ ६.४७ ॥
द्वि-अंशम् च पादुका ज्ञेयम् चतुर्-अंशम् जनिम् विदुः । त्षंशम् तु कुंभम् इति आहुः श्चतुर्थङ्कण्ठम् एव च ॥ ६।४७ ॥
dvi-aṃśam ca pādukā jñeyam catur-aṃśam janim viduḥ . tṣaṃśam tu kuṃbham iti āhuḥ ścaturthaṅkaṇṭham eva ca .. 6.47 ..
षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च । चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ॥ ६.४८ ॥
षड्भागम् करणा इति आहुः द्वि-अंशम् वलकम् एव च । चतुर्-अंशे कपोताः च अंशे च एव अग्र-पट्टिका ॥ ६।४८ ॥
ṣaḍbhāgam karaṇā iti āhuḥ dvi-aṃśam valakam eva ca . catur-aṃśe kapotāḥ ca aṃśe ca eva agra-paṭṭikā .. 6.48 ..
अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकं । एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेथ् ॥ ६.४९ ॥
अध्यर्धम् एक-अर्धम् पद्म-पुष्पकम् । एवम् भागे भागे ॥ ६।४९ ॥
adhyardham eka-ardham padma-puṣpakam . evam bhāge bhāge .. 6.49 ..
इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठोऽध्यायः.
इति श्री-वैखानसे भगवत्-चास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे षष्ठः अध्यायः।
iti śrī-vaikhānase bhagavat-cāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre ṣaṣṭhaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In