| |
|

This overlay will guide you through the buttons:

अथषष्ठोऽध्यायः
athaṣaṣṭho'dhyāyaḥ
मूधेन्ष्टकाविधिः
अथवक्ष्येविशेषेण क्रमंमूर्धेष्टकाविधेः । प्रमुखेयागशालाञ्च कृत्वाचैवविचक्षण ॥ ६.१ ॥
athavakṣyeviśeṣeṇa kramaṃmūrdheṣṭakāvidheḥ . pramukheyāgaśālāñca kṛtvācaivavicakṣaṇa .. 6.1 ..
मध्येवेदिंप्रकल्प्यैव स्थूपिकीलप्रमाणतः । सभ्यंप्रकल्प्यचप्राच्या माघारंविधिवद्यजेथ् ॥ ६.२ ॥
madhyevediṃprakalpyaiva sthūpikīlapramāṇataḥ . sabhyaṃprakalpyacaprācyā māghāraṃvidhivadyajeth .. 6.2 ..
वेदिमध्येन्यसेद्विद्वान्सुस्निग्धानिर्व्रणादृढाः । वैष्णवञ्चजपित्वैवचतस्रश्चेष्टकाःक्रमाथ् ॥ ६.३ ॥
vedimadhyenyasedvidvānsusnigdhānirvraṇādṛḍhāḥ . vaiṣṇavañcajapitvaivacatasraśceṣṭakāḥkramāth .. 6.3 ..
किञ्चिदग्रंभवेन्निम्नं मूलेवैकिञ्चिदुन्नतं । अधोभागेभवेत्पृष्ट मूर्ध्वभागेमुखंभवेथ् ॥ ६.४ ॥
kiñcidagraṃbhavennimnaṃ mūlevaikiñcidunnataṃ . adhobhāgebhavetpṛṣṭa mūrdhvabhāgemukhaṃbhaveth .. 6.4 ..
शालिपिष्टमयेनाथ लेखयेदक्षराणितु । यकारंपूर्वतोलेख्य रकारन्दक्षिणेन्यसेथ् ॥ ६.५ ॥
śālipiṣṭamayenātha lekhayedakṣarāṇitu . yakāraṃpūrvatolekhya rakārandakṣiṇenyaseth .. 6.5 ..
लकारंपश्चिमेलेख्यवकारे चोत्तरेलिखेथ् । लोहजान्दारुजांवाथ स्थूपिन्तत्रन्यसेद्बुधः ॥ ६.६ ॥
lakāraṃpaścimelekhyavakāre cottarelikheth . lohajāndārujāṃvātha sthūpintatranyasedbudhaḥ .. 6.6 ..
पादायामसमन्दीघंन्विस्तारंपादसम्मितं । अग्रमङ्गुलविस्तार मानुपूर्व्यात्कृशन्तथा ॥ ६.७ ॥
pādāyāmasamandīghaṃnvistāraṃpādasammitaṃ . agramaṅgulavistāra mānupūrvyātkṛśantathā .. 6.7 ..
चतुरश्रंभवेन्मूलं त्रिभागै कंसमंयथा । वृत्तन्तदूर्ध्वतःकुर्याच्छीलीपादमधोन्यसेथ् ॥ ६.८ ॥
caturaśraṃbhavenmūlaṃ tribhāgai kaṃsamaṃyathā . vṛttantadūrdhvataḥkuryācchīlīpādamadhonyaseth .. 6.8 ..
विस्तारत्रिगुणायामं विस्तारसमविस्तरं । तद्द्वयेनसमायोज्य नमंशूलंस्थितंयधा ॥ ६.९ ॥
vistāratriguṇāyāmaṃ vistārasamavistaraṃ . taddvayenasamāyojya namaṃśūlaṃsthitaṃyadhā .. 6.9 ..
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपिवाचयेथ् । वास्तुजोमञ्चहुत्वैव पर्यग्निकरणञ्चरेथ् ॥ ६.१० ॥
pañcagavyaissamabhyukṣya puṇyāhamapivācayeth . vāstujomañcahutvaiva paryagnikaraṇañcareth .. 6.10 ..
मूर्धेष्टकाविधानेन होमङ्कृत्वाविचक्षणः । पुनःप्रभातेधर्मात्मा यजमानयुतोगुरुः ॥ ६.११ ॥
mūrdheṣṭakāvidhānena homaṅkṛtvāvicakṣaṇaḥ . punaḥprabhātedharmātmā yajamānayutoguruḥ .. 6.11 ..
शिलादीन्संप्रगृह्यैव विमानेरोपयेत्तधा । पाणिभ्यांसंप्रगृह्यैव प्राङ्मुखोदङ्मुखोऽपिवा ॥ ६.१२ ॥
śilādīnsaṃpragṛhyaiva vimāneropayettadhā . pāṇibhyāṃsaṃpragṛhyaiva prāṅmukhodaṅmukho'pivā .. 6.12 ..
चतुर्वेदादिमन्त्रैश्च शिला इन्द्रादिषुन्यसेथ् । ध्रुवसूक्तञ्जपित्वातु मथ्येस्थूपिंन्यसेत्तधा ॥ ६.१३ ॥
caturvedādimantraiśca śilā indrādiṣunyaseth . dhruvasūktañjapitvātu mathyesthūpiṃnyasettadhā .. 6.13 ..
कालेशिल्पिनमाहूय पूजयित्वा विशेषतः । शिलाद्युपरिविन्यस्य दृढीकरणमाचरेथ् ॥ ६.१४ ॥
kāleśilpinamāhūya pūjayitvā viśeṣataḥ . śilādyuparivinyasya dṛḍhīkaraṇamācareth .. 6.14 ..
पादबन्धेगलेचैव विमाने परितःक्रमात्विमानदेवाः । प्राच्यां विष्णुं प्रकुर्वीत यस्य गर्भगृहेस्थितिः ॥ ६.१५ ॥
pādabandhegalecaiva vimāne paritaḥkramātvimānadevāḥ . prācyāṃ viṣṇuṃ prakurvīta yasya garbhagṛhesthitiḥ .. 6.15 ..
दक्षिणेसत्यमूर्तेस्तु पश्चिमेचा च्युतस्य च । उत्तरेचानिरुद्धस्य स्थितिमेवं प्रकल्पयेथ् ॥ ६.१६ ॥
dakṣiṇesatyamūrtestu paścimecā cyutasya ca . uttarecāniruddhasya sthitimevaṃ prakalpayeth .. 6.16 ..
गलेपुरुषमूर्तिस्तु दक्षिणे नारसिंहकः । पश्चिमे तु वराहश्च हयग्रीवस्तथोत्तरे ॥ ६.१७ ॥
galepuruṣamūrtistu dakṣiṇe nārasiṃhakaḥ . paścime tu varāhaśca hayagrīvastathottare .. 6.17 ..
सुखसनसमालुक्तं सर्वालङ्कारसंयुतं । व्यालोद्ध्वकोणकञ्चैव वीशं वाथ मृगेश्वरं ॥ ६.१८ ॥
sukhasanasamāluktaṃ sarvālaṅkārasaṃyutaṃ . vyāloddhvakoṇakañcaiva vīśaṃ vātha mṛgeśvaraṃ .. 6.18 ..
वक्रतुण्डं च दुर्गां चाप्यग्रमण्डपभित्तिषु । स्थितमेवं सुसंस्थाप्य यथालाभं समर्चयेथ् ॥ ६.१९ ॥
vakratuṇḍaṃ ca durgāṃ cāpyagramaṇḍapabhittiṣu . sthitamevaṃ susaṃsthāpya yathālābhaṃ samarcayeth .. 6.19 ..
द्वारेषु द्वारपालानां स्थितिमेवं प्रकल्पयेथ् । प्रासादलक्षणंप्रोक्तं मण्डपानामथोच्यते ॥ ६.२० ॥
dvāreṣu dvārapālānāṃ sthitimevaṃ prakalpayeth . prāsādalakṣaṇaṃproktaṃ maṇḍapānāmathocyate .. 6.20 ..
स्तंभैष्षोडशभिर्युक्तं मण्डपं श्रीप्रतिष्ठितं । द्वादशस्तंभसंयुक्तं बीजासनमिति स्मृतं ॥ ६.२१ ॥
staṃbhaiṣṣoḍaśabhiryuktaṃ maṇḍapaṃ śrīpratiṣṭhitaṃ . dvādaśastaṃbhasaṃyuktaṃ bījāsanamiti smṛtaṃ .. 6.21 ..
द्वात्रिंशद्गात्रसंयुक्तं जयभद्रेतिकीर्त्यते । षट्त्रिंशद्गात्रसंयुक्तं नन्द्यावर्तं सुशोभनं ॥ ६.२२ ॥
dvātriṃśadgātrasaṃyuktaṃ jayabhadretikīrtyate . ṣaṭtriṃśadgātrasaṃyuktaṃ nandyāvartaṃ suśobhanaṃ .. 6.22 ..
चतुर्भिष्षष्टिभिस्त्संभैर्युक्तंश्रीभद्रकं स्मृतं । स्तंभानां तु शतैर्युक्तं विशालमिति संज्ञितं ॥ ६.२३ ॥
caturbhiṣṣaṣṭibhistsaṃbhairyuktaṃśrībhadrakaṃ smṛtaṃ . staṃbhānāṃ tu śatairyuktaṃ viśālamiti saṃjñitaṃ .. 6.23 ..
प्रासादवत्समाख्यातं प्रस्तारं तत्प्रमाणतः । वाजिनोपरि कर्तव्यं धारकस्तु कलास्तथा ॥ ६.२४ ॥
prāsādavatsamākhyātaṃ prastāraṃ tatpramāṇataḥ . vājinopari kartavyaṃ dhārakastu kalāstathā .. 6.24 ..
स्तंभविष्कंभमुत्सेधं चतुर्भागेनविस्तृतं । तुलाविस्तारमानेन जयन्तीस्यात्समोन्नता ॥ ६.२५ ॥
staṃbhaviṣkaṃbhamutsedhaṃ caturbhāgenavistṛtaṃ . tulāvistāramānena jayantīsyātsamonnatā .. 6.25 ..
ततो दण्डार्धबाहुल्य मनुमार्गं तदूर्ध्वतः । इष्टकाभिस्तदूर्ध्वं तु छादयेद्गल कान्वितं ॥ ६.२६ ॥
tato daṇḍārdhabāhulya manumārgaṃ tadūrdhvataḥ . iṣṭakābhistadūrdhvaṃ tu chādayedgala kānvitaṃ .. 6.26 ..
पादाधिकमधाध्यर्धं द्विगुणं पादहीनकं । चतुर्विधमथायामं कर्तव्यं मण्डपस्यतु ॥ ६.२७ ॥
pādādhikamadhādhyardhaṃ dviguṇaṃ pādahīnakaṃ . caturvidhamathāyāmaṃ kartavyaṃ maṇḍapasyatu .. 6.27 ..
आयामे तु यथायुक्तं स्तंभानां विधिरुच्यते । द्विहस्तं वात्रिहस्तं वा चतुर्हस्तमथापिवा ॥ ६.२८ ॥
āyāme tu yathāyuktaṃ staṃbhānāṃ vidhirucyate . dvihastaṃ vātrihastaṃ vā caturhastamathāpivā .. 6.28 ..
स्तंभान्तरं प्रकर्तव्यं यथायुक्ति विशेषतः । एवङ्क्रमात्समाख्यातं प्राकारमधुनोच्यते ॥ ६.२९ ॥
staṃbhāntaraṃ prakartavyaṃ yathāyukti viśeṣataḥ . evaṅkramātsamākhyātaṃ prākāramadhunocyate .. 6.29 ..
पाकारं परितः कुर्यात्प्रासादस्य प्रमाणतः । प्राकारस्यतुविस्तारं तस्यदण्डमिहोच्यते ॥ ६.३० ॥
pākāraṃ paritaḥ kuryātprāsādasya pramāṇataḥ . prākārasyatuvistāraṃ tasyadaṇḍamihocyate .. 6.30 ..
अन्तर्मण्डलमित्याहु रध्यर्धं दण्डमानतः । अन्तर्भारमितिप्रोस्तं मध्यभारं द्विदण्डत ॥ ६.३१ ॥
antarmaṇḍalamityāhu radhyardhaṃ daṇḍamānataḥ . antarbhāramitiprostaṃ madhyabhāraṃ dvidaṇḍata .. 6.31 ..
चतुर्दण्डप्रमाणेन युक्ता मर्यादभित्तिका । महामर्यादभित्तिस्स्यात्सप्तदण्डप्रमाणतः ॥ ६.३२ ॥
caturdaṇḍapramāṇena yuktā maryādabhittikā . mahāmaryādabhittissyātsaptadaṇḍapramāṇataḥ .. 6.32 ..
अध्यर्धद्विगुणं वापि त्रिगुणं वा चतुर्गुणं । मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ॥ ६.३३ ॥
adhyardhadviguṇaṃ vāpi triguṇaṃ vā caturguṇaṃ . mukhāyāmamiti proktaṃ prākārāṇāṃ viśeṣataḥ .. 6.33 ..
कपोता न्तंसमुत्सेधं भित्तिहस्तप्रमाणतः । कूटशालायुतं वापि कुर्यात्प्राकारसंयुतं ॥ ६.३४ ॥
kapotā ntaṃsamutsedhaṃ bhittihastapramāṇataḥ . kūṭaśālāyutaṃ vāpi kuryātprākārasaṃyutaṃ .. 6.34 ..
मूलजं तु तलोत्सेधं हस्तमेवं विधीयते । यथालाभोन्नतं वापि प्रधमावरणं स्मृतं ॥ ६.३५ ॥
mūlajaṃ tu talotsedhaṃ hastamevaṃ vidhīyate . yathālābhonnataṃ vāpi pradhamāvaraṇaṃ smṛtaṃ .. 6.35 ..
षडङ्गुलं क्रमात्कुर्यान्न्यूनप्राकारकंविदुः । जलनिर्याणमार्गं स्यात्पदान्ते तटकेऽपिवा ॥ ६.३६ ॥
ṣaḍaṅgulaṃ kramātkuryānnyūnaprākārakaṃviduḥ . jalaniryāṇamārgaṃ syātpadānte taṭake'pivā .. 6.36 ..
प्रधमावरणद्वारं प्रमुखेकल्पयेत्तथा । द्वितीयावरणद्वारो व्यस्तश्छेन्नास्तिदूषणं ॥ ६.३७ ॥
pradhamāvaraṇadvāraṃ pramukhekalpayettathā . dvitīyāvaraṇadvāro vyastaśchennāstidūṣaṇaṃ .. 6.37 ..
विमानोत्सेधतुर्यं वा पोदोनं चार्थमेव वा । पृधग्गोपुरसंयुक्त मुच्छ्रितं तु समन्तुवा ॥ ६.३८ ॥
vimānotsedhaturyaṃ vā podonaṃ cārthameva vā . pṛdhaggopurasaṃyukta mucchritaṃ tu samantuvā .. 6.38 ..
पञ्चप्राकारमित्येवं त्रिप्राकारमथापिवा । त्रिप्राकारेषडङ्गुल्यं त्रिधाधस्तलनिम्नगं ॥ ६.३९ ॥
pañcaprākāramityevaṃ triprākāramathāpivā . triprākāreṣaḍaṅgulyaṃ tridhādhastalanimnagaṃ .. 6.39 ..
प्राकारेहुच्छ्रयं विन्द्यात्कपोतान्तं तदुत्तमं । मध्यमं चोत्करान्तेन कलशान्तं तथाधमं ॥ ६.४० ॥
prākārehucchrayaṃ vindyātkapotāntaṃ taduttamaṃ . madhyamaṃ cotkarāntena kalaśāntaṃ tathādhamaṃ .. 6.40 ..
एवं प्राकारसंगेन तूत्सेधं त्रिविधं क्रमाथ् । उत्सेधात्पञ्चभागैकं चतुरंशकमेव वा ॥ ६.४१ ॥
evaṃ prākārasaṃgena tūtsedhaṃ trividhaṃ kramāth . utsedhātpañcabhāgaikaṃ caturaṃśakameva vā .. 6.41 ..
षड्भागैकेन वाकुर्यात्त्रिविधं भित्तिविस्तरं अथ वा । प्रासादभित्तिस्तु तत्समं भित्तिमेव च ॥ ६.४२ ॥
ṣaḍbhāgaikena vākuryāttrividhaṃ bhittivistaraṃ atha vā . prāsādabhittistu tatsamaṃ bhittimeva ca .. 6.42 ..
गर्भेऽष्टांशोच्छ्रयं श्रेष्ठं सप्तभागेद्विमध्यमं । पञ्चभागैकमधमं बलिपीठं तथाभवेथ् ॥ ६.४३ ॥
garbhe'ṣṭāṃśocchrayaṃ śreṣṭhaṃ saptabhāgedvimadhyamaṃ . pañcabhāgaikamadhamaṃ balipīṭhaṃ tathābhaveth .. 6.43 ..
गर्भपञ्चत्रिभागैकं ... । नवांशेषट्चतुर्भागं मध्यमाधममुत्तमं ॥ ६.४४ ॥
garbhapañcatribhāgaikaṃ ... . navāṃśeṣaṭcaturbhāgaṃ madhyamādhamamuttamaṃ .. 6.44 ..
त्रिधा पैशाचिकं पीठाद्धस्तमात्रं क्रमाद्भवेथ् । द्विहस्तान्तं त्रिहस्तान्तं चतुर्हस्तान्तमुच्यते ॥ ६.४५ ॥
tridhā paiśācikaṃ pīṭhāddhastamātraṃ kramādbhaveth . dvihastāntaṃ trihastāntaṃ caturhastāntamucyate .. 6.45 ..
अधमं मध्यमं श्रेष्ठं त्रिधा पैशाचपीठकं । सप्तविंशतिभागैश्च सममेवं समुन्नतं ॥ ६.४६ ॥
adhamaṃ madhyamaṃ śreṣṭhaṃ tridhā paiśācapīṭhakaṃ . saptaviṃśatibhāgaiśca samamevaṃ samunnataṃ .. 6.46 ..
द्व्यंशं च पादुका ज्ञेयं चतुरंशं जनिं विदुः । त्षंशं तु कुंभमित्याहु श्चतुर्थङ्कण्ठमेव च ॥ ६.४७ ॥
dvyaṃśaṃ ca pādukā jñeyaṃ caturaṃśaṃ janiṃ viduḥ . tṣaṃśaṃ tu kuṃbhamityāhu ścaturthaṅkaṇṭhameva ca .. 6.47 ..
षड्भागं करणेत्याहुर्द्व्यंशं वलकमेव च । चतुरंशे कपोताश्च अंशेचैवाग्रपट्टिका ॥ ६.४८ ॥
ṣaḍbhāgaṃ karaṇetyāhurdvyaṃśaṃ valakameva ca . caturaṃśe kapotāśca aṃśecaivāgrapaṭṭikā .. 6.48 ..
अध्यर्धं पद्मपुष्पन्तु एकार्धं पद्मपुष्पकं । एवं सम्यग्विदित्वातु भागेभागे विनिर्दिशेथ् ॥ ६.४९ ॥
adhyardhaṃ padmapuṣpantu ekārdhaṃ padmapuṣpakaṃ . evaṃ samyagviditvātu bhāgebhāge vinirdiśeth .. 6.49 ..
इति श्रीवैखानसे भगवच्चास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षष्ठोऽध्यायः.
iti śrīvaikhānase bhagavaccāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaṣṭho'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In