| |
|

This overlay will guide you through the buttons:

अथ षड्विंशोऽध्यायः
अथ षड्विंशः अध्यायः
atha ṣaḍviṃśaḥ adhyāyaḥ
प्रायश्चित्तम्
अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिं । न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेथ् ॥ २६.१ ॥
अतस् परम् प्रवक्ष्यामि भू-परीक्षा-आदि-निष्कृतिम् । न्यूने अतिरिक्ते व्याघाते प्रायश्चित्तम् समाचरेथ् ॥ २६।१ ॥
atas param pravakṣyāmi bhū-parīkṣā-ādi-niṣkṛtim . nyūne atirikte vyāghāte prāyaścittam samācareth .. 26.1 ..
प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणं । प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ॥ २६.२ ॥
प्रायस् दोषः समुद्दिष्टः चित्तम् तस्य निवारणम् । प्रायश्चित्तम् समाख्यातम् कुर्यात् कर्म-समृद्धये ॥ २६।२ ॥
prāyas doṣaḥ samuddiṣṭaḥ cittam tasya nivāraṇam . prāyaścittam samākhyātam kuryāt karma-samṛddhaye .. 26.2 ..
प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति । तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिं ॥ २६.३ ॥
प्रायश्चित्तम् अकुर्वाणः सति दोषे विनश्यति । तस्मात् सर्म-प्रयत्नेन कुर्यात् यत्नेन निष्कृतिम् ॥ २६।३ ॥
prāyaścittam akurvāṇaḥ sati doṣe vinaśyati . tasmāt sarma-prayatnena kuryāt yatnena niṣkṛtim .. 26.3 ..
आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः । अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ॥ २६.४ ॥
आलयस्य च निर्माणम् पूजा-आद्याः तत्र याः क्रियाः । अस्मात् शास्त्रात् अतिक्रम्य निष्फलाः प्रभवन्ति हि ॥ २६।४ ॥
ālayasya ca nirmāṇam pūjā-ādyāḥ tatra yāḥ kriyāḥ . asmāt śāstrāt atikramya niṣphalāḥ prabhavanti hi .. 26.4 ..
तद्दोषशमनायैव महाशान्तिपुरस्सरं । सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेथ् ॥ २६.५ ॥
तद्-दोष-शमनाय एव महाशान्ति-पुरस्सरम् । सर्वाः क्रियाः क्रमेण एव पुनर् शास्त्र-उक्त-वत् चरेथ् ॥ २६।५ ॥
tad-doṣa-śamanāya eva mahāśānti-purassaram . sarvāḥ kriyāḥ krameṇa eva punar śāstra-ukta-vat careth .. 26.5 ..
यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः । नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेथ् ॥ २६.६ ॥
यत् शास्त्र-विधिम् उत्सृज्य क्रियते कामकारतः । न उक्तम् दद्यात् फलम् कर्म प्रत्युत अनर्थ-दम् ॥ २६।६ ॥
yat śāstra-vidhim utsṛjya kriyate kāmakārataḥ . na uktam dadyāt phalam karma pratyuta anartha-dam .. 26.6 ..
शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे । तावता हि प्रमाणं स्याद्यावदेतेन नान्तरं ॥ २६.७ ॥
शिल्पम् च ज्योतिषम् वास्तु च आगमाः परे । तावता हि प्रमाणम् स्यात् यावत् एतेन न अन्तरम् ॥ २६।७ ॥
śilpam ca jyotiṣam vāstu ca āgamāḥ pare . tāvatā hi pramāṇam syāt yāvat etena na antaram .. 26.7 ..
वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितं । प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहं ॥ २६.८ ॥
वैखानसम् इदम् शास्त्र मन्य-शास्त्र-अन् अपेक्षितम् । प्रणिवाय अब्जजः पूर्वम् सर्व-शास्त्र-अर्थ-संग्रहम् ॥ २६।८ ॥
vaikhānasam idam śāstra manya-śāstra-an apekṣitam . praṇivāya abjajaḥ pūrvam sarva-śāstra-artha-saṃgraham .. 26.8 ..
मोहादज्ञानतो वापि विचिकित्सापदेषु यः । शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेथ् ॥ २६.९ ॥
मोहात् अज्ञानतः वा अपि विचिकित्सा-पदेषु यः । शास्त्र-अन्तर-अनुरोधेन शास्त्रम् एतत् विमानयेथ् ॥ २६।९ ॥
mohāt ajñānataḥ vā api vicikitsā-padeṣu yaḥ . śāstra-antara-anurodhena śāstram etat vimānayeth .. 26.9 ..
स याति नरकं घोरं यावदाभूतसंप्लवं । तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेथ् ॥ २६.१० ॥
स याति नरकम् घोरम् यावत् आभूतसंप्लवम् । तस्मात् निष्कास्य तम् मूढम् शास्त्र-उक्तम् सम्यक् आचरेथ् ॥ २६।१० ॥
sa yāti narakam ghoram yāvat ābhūtasaṃplavam . tasmāt niṣkāsya tam mūḍham śāstra-uktam samyak ācareth .. 26.10 ..
यदागच्छेद्बहिर्द्वारं भूमिं सम्यक्परीक्षितुं । अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ॥ २६.११ ॥
यदा आगच्छेत् बहिर्द्वारम् भूमिम् सम्यक् परीक्षितुम् । अपतेत् अन्तरायः चेद् प्रायश्चित्तम् हुनेत् बुधः ॥ २६।११ ॥
yadā āgacchet bahirdvāram bhūmim samyak parīkṣitum . apatet antarāyaḥ ced prāyaścittam hunet budhaḥ .. 26.11 ..
जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेथ् । दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ॥ २६.१२ ॥
जपेत् च वैष्णवम् वैघ्नम् शतशस् । दुर्दर्शने जपेत् सौरम् हुनेत् पूर्व-उक्त-वत् बुधः ॥ २६।१२ ॥
japet ca vaiṣṇavam vaighnam śataśas . durdarśane japet sauram hunet pūrva-ukta-vat budhaḥ .. 26.12 ..
दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा । तत्काले कलहे चैव शोणितप्रस्रवे तथा ॥ २६.१३ ॥
दुर्वाक्ये तु श्रुते ब्राह्मम् जपेत् सारस्वतम् तथा । तद्-काले कलहे च एव शोणित-प्रस्रवे तथा ॥ २६।१३ ॥
durvākye tu śrute brāhmam japet sārasvatam tathā . tad-kāle kalahe ca eva śoṇita-prasrave tathā .. 26.13 ..
अग्निदाहादिके चैव वैष्णवं स्ॐयसंयुतं । वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ॥ २६.१४ ॥
अग्नि-दाह-आदिके च एव वैष्णवम् । वैष्वक्सेनम् तथा सौदर्शनम् गारुडम् एव च ॥ २६।१४ ॥
agni-dāha-ādike ca eva vaiṣṇavam . vaiṣvaksenam tathā saudarśanam gāruḍam eva ca .. 26.14 ..
लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेथ् । भूपरीक्षणकाले तु यदि पांसुक्षयो भवेथ् ॥ २६.१५ ॥
लौकिक-अग्नौ हुनेत् ध्यात्वा देवम् पश्चात् समाचरेथ् । भू-परीक्षण-काले तु यदि पांसु-क्षयः ॥ २६।१५ ॥
laukika-agnau hunet dhyātvā devam paścāt samācareth . bhū-parīkṣaṇa-kāle tu yadi pāṃsu-kṣayaḥ .. 26.15 ..
पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः । परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ॥ २६.१६ ॥
पूर्णाहुतिम् च जुहुयात् तथा मिन्दाहुती बुधः । परीक्षिता यदा भूमिः पूर्वम् एव अन्य-वर्त्मना ॥ २६।१६ ॥
pūrṇāhutim ca juhuyāt tathā mindāhutī budhaḥ . parīkṣitā yadā bhūmiḥ pūrvam eva anya-vartmanā .. 26.16 ..
औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवं । जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ॥ २६.१७ ॥
औपासन-अग्निम् आधाय व्याहृति-अन्तम् तु वैष्णवम् । जुहुयात् दशशस् कुर्यात् ततस् कर्माणि मन्त्रतः ॥ २६।१७ ॥
aupāsana-agnim ādhāya vyāhṛti-antam tu vaiṣṇavam . juhuyāt daśaśas kuryāt tatas karmāṇi mantrataḥ .. 26.17 ..
वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये । रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेथ् ॥ २६.१८ ॥
वृषभस्य अङ्ग-हानौ तु कर्षणे दोष-शान्तये । रौद्रम् ब्राह्मम् च जुहुयात् ततस् अन्यम् वृषम् आहरेथ् ॥ २६।१८ ॥
vṛṣabhasya aṅga-hānau tu karṣaṇe doṣa-śāntaye . raudram brāhmam ca juhuyāt tatas anyam vṛṣam āhareth .. 26.18 ..
हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते । तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ॥ २६.१९ ॥
हल-आदीनाम् तु निर्माणे यज्ञवृक्ष-इतरैः कृते । तथा प्रमाण-हीने च जुहुयात् वैष्णवम् तथा ॥ २६।१९ ॥
hala-ādīnām tu nirmāṇe yajñavṛkṣa-itaraiḥ kṛte . tathā pramāṇa-hīne ca juhuyāt vaiṣṇavam tathā .. 26.19 ..
स्ॐयं चैव तथाग्नेयं प्राजापत्यं च देशिकः । रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ॥ २६.२० ॥
सोंयम् च एव तथा आग्नेयम् प्राजापत्यम् च देशिकः । रज्जभेदे वारुणम् च तथा ॥ २६।२० ॥
soṃyam ca eva tathā āgneyam prājāpatyam ca deśikaḥ . rajjabhede vāruṇam ca tathā .. 26.20 ..
दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः । ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ॥ २६.२१ ॥
दातृ-अभेदे तु जुहुयात् ज्येष्ठा-मन्त्रम् विचक्षणः । ऋषि-भेदे तु वायव्यम् क्षिणीये वासवम् तथा ॥ २६।२१ ॥
dātṛ-abhede tu juhuyāt jyeṣṭhā-mantram vicakṣaṇaḥ . ṛṣi-bhede tu vāyavyam kṣiṇīye vāsavam tathā .. 26.21 ..
युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतं । कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ॥ २६.२२ ॥
युगे नागम् प्रतोदे तु याम्ये व्याहृति-संयुतम् । कपाल-अस्थि-तुष-अङ्गार-केश-वल्मीक-खर्पराः ॥ २६।२२ ॥
yuge nāgam pratode tu yāmye vyāhṛti-saṃyutam . kapāla-asthi-tuṣa-aṅgāra-keśa-valmīka-kharparāḥ .. 26.22 ..
दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलंबितं । अभ्युक्ष्य पञ्चगव्येन स्ॐयाग्नेयौ हुनेत्क्रमाथ् ॥ २६.२३ ॥
दृष्टाः कर्षण-काले चेद् तत् व्यपोह्य अविलंबितम् । अभ्युक्ष्य पञ्चगव्येन सोंय-आग्नेयौ हुनेत् क्रमाथ् ॥ २६।२३ ॥
dṛṣṭāḥ karṣaṇa-kāle ced tat vyapohya avilaṃbitam . abhyukṣya pañcagavyena soṃya-āgneyau hunet kramāth .. 26.23 ..
तत्र चेदर्चने हीने शान्तवीशानपायिनां । वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ॥ २६.२४ ॥
तत्र चेद् अर्चने हीने शान्त-वीशान-पायिनाम् । वैष्णपम् जुहुयात् तद्-तद्-दैवत्यम् च आर्ऽचयेत् पुनर् ॥ २६।२४ ॥
tatra ced arcane hīne śānta-vīśāna-pāyinām . vaiṣṇapam juhuyāt tad-tad-daivatyam ca ār'cayet punar .. 26.24 ..
बीजावापनहीने तु जुहुयाद्वैष्णवं तथा । स्ॐयं हुत्वा च वायव्यं पुनर्बीजानि वापयेथ् ॥ २६.२५ ॥
बीज-आवापन-हीने तु जुहुयात् वैष्णवम् तथा । सोंयम् हुत्वा च वायव्यम् पुनर् बीजानि ॥ २६।२५ ॥
bīja-āvāpana-hīne tu juhuyāt vaiṣṇavam tathā . soṃyam hutvā ca vāyavyam punar bījāni .. 26.25 ..
गवां निवेदने हीने वैष्णपं चामितं हुनेथ् । गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ॥ २६.२६ ॥
गवाम् निवेदने हीने वैष्णपम् च अमितम् । गारुडम् चक्र-मन्त्रम् च दशशस् सु समाहितः ॥ २६।२६ ॥
gavām nivedane hīne vaiṣṇapam ca amitam . gāruḍam cakra-mantram ca daśaśas su samāhitaḥ .. 26.26 ..
पलालभारानाहृत्य गोगणेभ्यो निवेदयेथ् । पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकं ॥ २६.२७ ॥
पलाल-भारान् आहृत्य गो-गणेभ्यः निवेदयेथ् । पद-देव-बलौ हीने हुनेत् तद्-मन्त्र-पूर्वकम् ॥ २६।२७ ॥
palāla-bhārān āhṛtya go-gaṇebhyaḥ nivedayeth . pada-deva-balau hīne hunet tad-mantra-pūrvakam .. 26.27 ..
वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च । कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेथ् ॥ २६.२८ ॥
वैष्णवम् ब्राह्मम् ऐन्द्रम् च याम्यम् वारुणम् एव च । कौबेरम् च क्रमात् हुत्वा बलिम् तत्र ॥ २६।२८ ॥
vaiṣṇavam brāhmam aindram ca yāmyam vāruṇam eva ca . kauberam ca kramāt hutvā balim tatra .. 26.28 ..
ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् । भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेथ् ॥ २६.२९ ॥
ब्रह्मपद्म-क्रिया-हानौ वैष्णव-ब्राह्म-वारुणान् । भूदैवत्यम् च जुहुयात् पुनर् कार्यम् ॥ २६।२९ ॥
brahmapadma-kriyā-hānau vaiṣṇava-brāhma-vāruṇān . bhūdaivatyam ca juhuyāt punar kāryam .. 26.29 ..
दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवं । सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ॥ २६.३० ॥
तु दिग्दैवत्यम् च वैष्णवम् । सौरम् च एव पुनर् हुत्वा कुर्यात् दिश्-साधनम् ततस् ॥ २६।३० ॥
tu digdaivatyam ca vaiṣṇavam . sauram ca eva punar hutvā kuryāt diś-sādhanam tatas .. 26.30 ..
विमानार्थं यदा भूमिःखन्यते तत्र संभवे । शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ॥ २६.३१ ॥
विमान-अर्थम् यदा भूमिः खन्यते तत्र संभवे । शर्करा-शल्य-लोष्ट-आदौ वैष्णवम् ब्राह्मम् एव च ॥ २६।३१ ॥
vimāna-artham yadā bhūmiḥ khanyate tatra saṃbhave . śarkarā-śalya-loṣṭa-ādau vaiṣṇavam brāhmam eva ca .. 26.31 ..
पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमाथ् । हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा ॥ २६.३२ ॥
पञ्चभूत-अधिदैवत्यम् व्याहृतीः च हुनेत् क्रमाथ् । हीने अधिके वा माने तु शीलायाः इष्टकस्य वा ॥ २६।३२ ॥
pañcabhūta-adhidaivatyam vyāhṛtīḥ ca hunet kramāth . hīne adhike vā māne tu śīlāyāḥ iṣṭakasya vā .. 26.32 ..
वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेथ् । विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवं ॥ २६.३३ ॥
वैष्णवम् विष्णुसूक्तम् च हुत्वा विधिवत् आचरेथ् । विपर्यासे तु विन्यासे दिग्दैवत्यम् च वैष्णवम् ॥ २६।३३ ॥
vaiṣṇavam viṣṇusūktam ca hutvā vidhivat ācareth . viparyāse tu vinyāse digdaivatyam ca vaiṣṇavam .. 26.33 ..
हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् । रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ॥ २६.३४ ॥
हुत्वा यथा उक्त-वत् कृत्वा जपेत् वेद-आदिकान् मनून् । रत्न-न्यास-विहीने तु हुनेत् तद्-अधिपान् ॥ २६।३४ ॥
hutvā yathā ukta-vat kṛtvā japet veda-ādikān manūn . ratna-nyāsa-vihīne tu hunet tad-adhipān .. 26.34 ..
विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेथ् । गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकं ॥ २६.३५ ॥
विष्णुसूक्तम् ततस् हुत्वा रत्न-न्यासम् समाचरेथ् । गर्भन्यास-विहीने तु वैष्णवम् विष्णुसूक्तकम् ॥ २६।३५ ॥
viṣṇusūktam tatas hutvā ratna-nyāsam samācareth . garbhanyāsa-vihīne tu vaiṣṇavam viṣṇusūktakam .. 26.35 ..
हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेथ् । प्रमाणहीने तु वैष्णवं विष्णुसूक्तकं ॥ २६.३६ ॥
हुत्वा श्री-भूमि दैवत्यम् गर्भन्यासम् पुनर् चरेथ् । प्रमाण-हीने तु वैष्णवम् विष्णुसूक्तकम् ॥ २६।३६ ॥
hutvā śrī-bhūmi daivatyam garbhanyāsam punar careth . pramāṇa-hīne tu vaiṣṇavam viṣṇusūktakam .. 26.36 ..
सौरं स्ॐयमथाग्नेयं यजेत्कुर्याद्विधावतः । निर्माणकाले द्रव्याणां स्थापने संकरेणवै ॥ २६.३७ ॥
सौरम् सोंयम् अथ आग्नेयम् यजेत् कुर्यात् विधावतः । निर्माण-काले द्रव्याणाम् स्थापने संकरेण वै ॥ २६।३७ ॥
sauram soṃyam atha āgneyam yajet kuryāt vidhāvataḥ . nirmāṇa-kāle dravyāṇām sthāpane saṃkareṇa vai .. 26.37 ..
विपर्यासे च संप्राप्ते वैष्णवं जुहु यात्क्रमाथ् । तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेथ् ॥ २६.३८ ॥
विपर्यासे च संप्राप्ते वैष्णवम् जुहु । हुत्वा विधिवत् आचरेथ् ॥ २६।३८ ॥
viparyāse ca saṃprāpte vaiṣṇavam juhu . hutvā vidhivat ācareth .. 26.38 ..
अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषं । हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेथ् ॥ २६.३९ ॥
अन् उक्त-देशे न्यासे च विष्णुसूक्तम् च पौरुषम् । हुनेत् श्री-भूमि-दैवत्यम् तत् तत् साने ॥ २६।३९ ॥
an ukta-deśe nyāse ca viṣṇusūktam ca pauruṣam . hunet śrī-bhūmi-daivatyam tat tat sāne .. 26.39 ..
अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु । जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ॥ २६.४० ॥
अप्रमाणे शिलायाम् वा तथा मूर्धेष्टक-आदिषु । जुहुयात् निष्कृतिम् विद्वान् आद्य-इष्टक-विधानतः ॥ २६।४० ॥
apramāṇe śilāyām vā tathā mūrdheṣṭaka-ādiṣu . juhuyāt niṣkṛtim vidvān ādya-iṣṭaka-vidhānataḥ .. 26.40 ..
स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते । अलाभे चोक्तदारूणां वैष्णवं स्ॐयपावके ॥ २६.४१ ॥
स्थूपि-कीले तद्-आधारे प्रमाण-परिवर्जिते । अलाभे च उक्त-दारूणाम् वैष्णवम् ॥ २६।४१ ॥
sthūpi-kīle tad-ādhāre pramāṇa-parivarjite . alābhe ca ukta-dārūṇām vaiṣṇavam .. 26.41 ..
भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः । विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ॥ २६.४२ ॥
भू-दैवत्यम् च हुत्वा तु विधिना कालयेत् बुधः । विमाने निर्मिते पश्चात् सुधा-कर्मणि अकल्पिते ॥ २६।४२ ॥
bhū-daivatyam ca hutvā tu vidhinā kālayet budhaḥ . vimāne nirmite paścāt sudhā-karmaṇi akalpite .. 26.42 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेथ् ॥ २६.४३ ॥
वैष्णवम् विष्णुसूक्तम् च सूक्तम् पौरुषम् एव च । हुनेत् श्री-भूमि-दैवत्यम् विधिना ॥ २६।४३ ॥
vaiṣṇavam viṣṇusūktam ca sūktam pauruṣam eva ca . hunet śrī-bhūmi-daivatyam vidhinā .. 26.43 ..
आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेथ् । हीने धाम्नःकवाटादौ धात्रादीन्जुहुयाच्च षठ् ॥ २६.४४ ॥
आग्नेयम् भूमि-दैवत्यम् हुत्वा कार्यम् समाचरेथ् । हीने धाम्नः कवाट-आदौ धातृ-आदीन् जुहुयात् च षठ् ॥ २६।४४ ॥
āgneyam bhūmi-daivatyam hutvā kāryam samācareth . hīne dhāmnaḥ kavāṭa-ādau dhātṛ-ādīn juhuyāt ca ṣaṭh .. 26.44 ..
वैष्णवं श्रीमहीमन्त्रान्हुत्वा निर्मापयेत्पुनः । प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ॥ २६.४५ ॥
वैष्णवम् श्री-मही-मन्त्रान् हुत्वा निर्मापयेत् पुनर् । प्राकारे गोपुरे दोषः भूयात् महत्तरः ॥ २६।४५ ॥
vaiṣṇavam śrī-mahī-mantrān hutvā nirmāpayet punar . prākāre gopure doṣaḥ bhūyāt mahattaraḥ .. 26.45 ..
वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयं । शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवं ॥ २६.४६ ॥
वंश-हानिः द्विषत्-वृद्धिः अर्थ-नाशः महत् भयम् । शान्त-ईहिने महा-आपद् स्यात् कुलम् च उत्सीदति ध्रुवम् ॥ २६।४६ ॥
vaṃśa-hāniḥ dviṣat-vṛddhiḥ artha-nāśaḥ mahat bhayam . śānta-īhine mahā-āpad syāt kulam ca utsīdati dhruvam .. 26.46 ..
भूतपीठविहीने तु धनधान्यायुषां क्षयः । कूपारामहविश्शालपुष्पसंचयवाटिकाः ॥ २६.४७ ॥
भूत-पीठ-विहीने तु धन-धान्य-आयुषाम् क्षयः । कूप-आराम-ह-विश्शाल-पुष्प-संचय-वाटिकाः ॥ २६।४७ ॥
bhūta-pīṭha-vihīne tu dhana-dhānya-āyuṣām kṣayaḥ . kūpa-ārāma-ha-viśśāla-puṣpa-saṃcaya-vāṭikāḥ .. 26.47 ..
स्नानपानीयशाला च तथैवास्थानमण्डपं । नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ॥ २६.४८ ॥
स्नान-पानीय-शाला च तथा एव आस्थान-मण्डपम् । नृत्त-गीत-प्रपाः च एवम् मण्डप-आदौ अनिर्मिते ॥ २६।४८ ॥
snāna-pānīya-śālā ca tathā eva āsthāna-maṇḍapam . nṛtta-gīta-prapāḥ ca evam maṇḍapa-ādau anirmite .. 26.48 ..
संपद्येत महान्दोषः कृतं स्यादकृतं पुनः । तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ॥ २६.४९ ॥
संपद्येत महान् दोषः कृतम् स्यात् अकृतम् पुनर् । तस्मात् सर्व-प्रयत्नेन कारयेत् शक्तितः बुधः ॥ २६।४९ ॥
saṃpadyeta mahān doṣaḥ kṛtam syāt akṛtam punar . tasmāt sarva-prayatnena kārayet śaktitaḥ budhaḥ .. 26.49 ..
वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च । हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ॥ २६.५० ॥
वैष्णवम् विष्णुसुक्तम् च पौरुषम् सूक्तम् एव च । हुत्वा श्री-भूमि-दैवत्यम् तद्-तद्-दैवत्यम् एव च ॥ २६।५० ॥
vaiṣṇavam viṣṇusuktam ca pauruṣam sūktam eva ca . hutvā śrī-bhūmi-daivatyam tad-tad-daivatyam eva ca .. 26.50 ..
यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेथ् । प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ॥ २६.५१ ॥
यथा उक्तम् तु प्रकुर्वीत वित्त-शाठ्यम् न । प्रथम-इष्टकाम् समारभ्य स्थूपि-कील-अवसानके ॥ २६।५१ ॥
yathā uktam tu prakurvīta vitta-śāṭhyam na . prathama-iṣṭakām samārabhya sthūpi-kīla-avasānake .. 26.51 ..
आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः । आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ॥ २६.५२ ॥
च दोषाणाम् इयम् स्यात् सर्व-निष्कृतिः । आलयात् पुरतस् वा अथ दक्षिणे वा मनोरमे ॥ २६।५२ ॥
ca doṣāṇām iyam syāt sarva-niṣkṛtiḥ . ālayāt puratas vā atha dakṣiṇe vā manorame .. 26.52 ..
शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमाथ् । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.५३ ॥
शुचौ देशे प्रतिष्ठाप्य पद्म-अग्नौ जुहुयात् क्रमाथ् । वैष्णवम् विष्णुसूक्तम् च पौरुषम् सूक्तम् एव च ॥ २६।५३ ॥
śucau deśe pratiṣṭhāpya padma-agnau juhuyāt kramāth . vaiṣṇavam viṣṇusūktam ca pauruṣam sūktam eva ca .. 26.53 ..
हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते । स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ॥ २६.५४ ॥
हुनेत् श्री-भूमि-दै वत्यम् अङ्ग होमः च हूयते । स्थूपि-आदि-उपान-पर्यन्त-विमान-अङ्गानि नामतः ॥ २६।५४ ॥
hunet śrī-bhūmi-dai vatyam aṅga homaḥ ca hūyate . sthūpi-ādi-upāna-paryanta-vimāna-aṅgāni nāmataḥ .. 26.54 ..
दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकं । आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेथ् ॥ २६.५५ ॥
जुहुयात् ब्राह्मम् रौद्रम् विनायकम् । आग्नेयम् दुर्गासूक्तम् च प्राजापत्यम् च हावयेथ् ॥ २६।५५ ॥
juhuyāt brāhmam raudram vināyakam . āgneyam durgāsūktam ca prājāpatyam ca hāvayeth .. 26.55 ..
समापिते विमाने तु धनलोभादिना पुनः । ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ॥ २६.५६ ॥
समापिते विमाने तु धन-लोभ-आदिना पुनर् । ध्रुव-बेरम् विना कृत्वा कौतुके स्थापिते यदि ॥ २६।५६ ॥
samāpite vimāne tu dhana-lobha-ādinā punar . dhruva-beram vinā kṛtvā kautuke sthāpite yadi .. 26.56 ..
आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनं । तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेथ् ॥ २६.५७ ॥
आभिचारिकम् एतत् स्यात् राज राष्ट्र-विनाशनम् । तद्-दोष-परिहार-अर्थम् महाशान्तिम् चरेथ् ॥ २६।५७ ॥
ābhicārikam etat syāt rāja rāṣṭra-vināśanam . tad-doṣa-parihāra-artham mahāśāntim careth .. 26.57 ..
वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान्बहून् । क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकं ॥ २६.५८ ॥
वैष्णवान् च सु संपूज्य भोजयेत् ब्राह्मणान् बहून् । क्षम अस्व इति नमस्कृत्य देवदेवम् तु ॥ २६।५८ ॥
vaiṣṇavān ca su saṃpūjya bhojayet brāhmaṇān bahūn . kṣama asva iti namaskṛtya devadevam tu .. 26.58 ..
बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेथ् । ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेथ् ॥ २६.५९ ॥
बाल-आलये प्रतिष्ठाप्य ध्रुव-बेरम् समाचरेथ् । ध्रुव-अर्चा-बेरम् अथ वा कृत्वा स्थापनम् आचरेथ् ॥ २६।५९ ॥
bāla-ālaye pratiṣṭhāpya dhruva-beram samācareth . dhruva-arcā-beram atha vā kṛtvā sthāpanam ācareth .. 26.59 ..
विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै । ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ॥ २६.६० ॥
विमानस्य समाप्तौ तु मासात् ऊर्ध्वम् तु तत्र वै । ध्रुव-स्थापन-हीने तु वैष्णवम् जुहुयात् ततस् ॥ २६।६० ॥
vimānasya samāptau tu māsāt ūrdhvam tu tatra vai . dhruva-sthāpana-hīne tu vaiṣṇavam juhuyāt tatas .. 26.60 ..
विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च । वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ॥ २६.६१ ॥
विष्णुसूक्तम् तथा रौद्रम् ऐन्द्रम् आग्ने यम् एव च । वारुणम् बार्हस्पत्यम् च श्री-भू-दैवत्यम् एव च ॥ २६।६१ ॥
viṣṇusūktam tathā raudram aindram āgne yam eva ca . vāruṇam bārhaspatyam ca śrī-bhū-daivatyam eva ca .. 26.61 ..
शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणां । ब्राह्मणान्भोजयित्वैव पूजयित्वा तु वैष्णवान् ॥ २६.६२ ॥
शान्तिम् हुत्वा विधानेन दद्यात् आचार्य-दक्षिणाम् । ब्राह्मणान् भोजयित्वा एव पूजयित्वा तु वैष्णवान् ॥ २६।६२ ॥
śāntim hutvā vidhānena dadyāt ācārya-dakṣiṇām . brāhmaṇān bhojayitvā eva pūjayitvā tu vaiṣṇavān .. 26.62 ..
ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेथ् । एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेथ् ॥ २६.६३ ॥
ध्रुव-बेरम् प्रतिष्ठाप्य विधिना सम्यक् अर्चयेथ् । एवम् मास-द्वये अतीते द्विगुणम् ॥ २६।६३ ॥
dhruva-beram pratiṣṭhāpya vidhinā samyak arcayeth . evam māsa-dvaye atīte dviguṇam .. 26.63 ..
मासत्रये तु त्रिगुणमेवमावत्सरं भवेथ् । संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ॥ २६.६४ ॥
मास-त्रये तु त्रिगुणम् एव मावत्सरम् । संवत्सरे व्यतीते तु दोषः भूयात् महत्तरः ॥ २६।६४ ॥
māsa-traye tu triguṇam eva māvatsaram . saṃvatsare vyatīte tu doṣaḥ bhūyāt mahattaraḥ .. 26.64 ..
सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः । ब्राह्मणान्भोजयेत्पश्चाद्विधिना सर्वमाचरेथ् ॥ २६.६५ ॥
सप्त-अहम् तु महाशान्तिम् हुत्वा अब्ज-अग्नौ विधानतः । ब्राह्मणान् भोजयेत् पश्चात् विधिना सर्वम् आचरेथ् ॥ २६।६५ ॥
sapta-aham tu mahāśāntim hutvā abja-agnau vidhānataḥ . brāhmaṇān bhojayet paścāt vidhinā sarvam ācareth .. 26.65 ..
सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै । केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेथ् ॥ २६.६६ ॥
सप्त-वर्षेषु सप्त-अहम् प्रथम-आदि-क्रमेण वै । केचिद् इच्छन्ति मुनयः सप्त-अह-अन्तम् इदम् ॥ २६।६६ ॥
sapta-varṣeṣu sapta-aham prathama-ādi-krameṇa vai . kecid icchanti munayaḥ sapta-aha-antam idam .. 26.66 ..
अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेथ् । जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ॥ २६.६७ ॥
अतस् ऊर्ध्वम् कर्षण-आदि पुनर् संस्कारम् आचरेथ् । जल-अधिवासनात् पूर्वम् अङ्ग-हानौ ध्रुवस्यतु ॥ २६।६७ ॥
atas ūrdhvam karṣaṇa-ādi punar saṃskāram ācareth . jala-adhivāsanāt pūrvam aṅga-hānau dhruvasyatu .. 26.67 ..
वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च । हुनेच्छ्रीभूमिदैवत्यं "दद्भ्यस्स्वाहाऽदिकं तथा ॥ २६.६८ ॥
वैष्णवम् विष्णुसूक्तम् च सूक्तम् पौरुषम् एव च । हुनेत् श्री-भूमि-दैवत्यम् "तथा ॥ २६।६८ ॥
vaiṣṇavam viṣṇusūktam ca sūktam pauruṣam eva ca . hunet śrī-bhūmi-daivatyam "tathā .. 26.68 ..
आचार्यदक्षिणां दद्याद्बेरं सम्यक्परीक्षयेथ् । संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेथ् ॥ २६.६९ ॥
आचार्य-दक्षिणाम् दद्यात् बेरम् । संधान-योग्यम् संदध्यात् पुनर् कार्यम् ॥ २६।६९ ॥
ācārya-dakṣiṇām dadyāt beram . saṃdhāna-yogyam saṃdadhyāt punar kāryam .. 26.69 ..
शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेथ् । शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतं ॥ २६.७० ॥
शक्तः चेद् नूतनम् बेरम् आहृत्य तु समाचरेथ् । शिला-ग्रहण-संस्कारम् अ कृत्वा शिल्पिना कृतम् ॥ २६।७० ॥
śaktaḥ ced nūtanam beram āhṛtya tu samācareth . śilā-grahaṇa-saṃskāram a kṛtvā śilpinā kṛtam .. 26.70 ..
बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः । भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेथ् ॥ २६.७१ ॥
बेरम् आदाय जुहुयात् शान्तिम् वैष्णव-मन्त्रतः । भूमौ पिधाय तत् बेरम् वास्तु-होमम् समाचरेथ् ॥ २६।७१ ॥
beram ādāya juhuyāt śāntim vaiṣṇava-mantrataḥ . bhūmau pidhāya tat beram vāstu-homam samācareth .. 26.71 ..
पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः । परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ॥ २६.७२ ॥
पर्यग्नि-पञ्चगव्याभ्याम् बेरम् संशोध्य यत्नतः । परितस् पूर्ववत् गत्वा बलिम् देवम् समर्च्य च ॥ २६।७२ ॥
paryagni-pañcagavyābhyām beram saṃśodhya yatnataḥ . paritas pūrvavat gatvā balim devam samarcya ca .. 26.72 ..
पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः । जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ॥ २६.७३ ॥
पश्चात् स मन्त्रकम् कृत्वा अविधिना स्थापयेत् बुधः । जल-अधिवासनात् अर्वाक्थ्सापनात् पूर्वम् एव च ॥ २६।७३ ॥
paścāt sa mantrakam kṛtvā avidhinā sthāpayet budhaḥ . jala-adhivāsanāt arvākthsāpanāt pūrvam eva ca .. 26.73 ..
देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.७४ ॥
देवस्य देवी-आदीनाम् वा अङ्ग-हानिः भवेत् यदि । वैष्णवम् विष्णुसूक्तम् च पौरुषम् सूक्तम् एव च ॥ २६।७४ ॥
devasya devī-ādīnām vā aṅga-hāniḥ bhavet yadi . vaiṣṇavam viṣṇusūktam ca pauruṣam sūktam eva ca .. 26.74 ..
श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च । मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयतां ॥ २६.७५ ॥
श्रीसूक्तम् च महीसूक्तम् ब्राह्मम् रौद्रम् तथा एव च । मुन्योः मन्त्रम् अथ अन्येषाम् तत् तत् मत्रम् ॥ २६।७५ ॥
śrīsūktam ca mahīsūktam brāhmam raudram tathā eva ca . munyoḥ mantram atha anyeṣām tat tat matram .. 26.75 ..
संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेथ् । संधाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेथ् ॥ २६.७६ ॥
संधान-योग्यम् संदध्यात् अयोग्यम् विधिवत् त्यजेथ् । संधाय वा अन्यम् च आहृत्य पुनस्थ्सापनम् आचरेथ् ॥ २६।७६ ॥
saṃdhāna-yogyam saṃdadhyāt ayogyam vidhivat tyajeth . saṃdhāya vā anyam ca āhṛtya punasthsāpanam ācareth .. 26.76 ..
स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते । अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ॥ २६.७७ ॥
स्थापिते तु महाबेरे मासात् ऊर्ध्वम् अ संस्कृते । अब्ज-अग्नौ वैष्णवम् च एव विष्णुसूक्तम् तथा एव च ॥ २६।७७ ॥
sthāpite tu mahābere māsāt ūrdhvam a saṃskṛte . abja-agnau vaiṣṇavam ca eva viṣṇusūktam tathā eva ca .. 26.77 ..
सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च । ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेथ् ॥ २६.७८ ॥
सूक्तम् तु पौरुषम् हुत्वा श्री-भू-दैवत्यम् एव च । ब्राह्मम् रौद्रम् पार्षदम् च हुत्वा कार्यम् समाचरेथ् ॥ २६।७८ ॥
sūktam tu pauruṣam hutvā śrī-bhū-daivatyam eva ca . brāhmam raudram pārṣadam ca hutvā kāryam samācareth .. 26.78 ..
मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेथ् । संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ॥ २६.७९ ॥
मास-द्वये तु द्विगुणम् त्रि-मासे त्रिगुणम् । संवत्सर-अन्तम् एवम् स्यात् तद्-अन्ते स्थापयेत् पुनर् ॥ २६।७९ ॥
māsa-dvaye tu dviguṇam tri-māse triguṇam . saṃvatsara-antam evam syāt tad-ante sthāpayet punar .. 26.79 ..
अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः । शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेथ् ॥ २६.८० ॥
अतीते द्वादशे वर्षे कर्षण-आदि पुनर् क्रियाः । शिला-संग्रहण-आदि अन्यत् कृत्वा स्थापनम् आचरेथ् ॥ २६।८० ॥
atīte dvādaśe varṣe karṣaṇa-ādi punar kriyāḥ . śilā-saṃgrahaṇa-ādi anyat kṛtvā sthāpanam ācareth .. 26.80 ..
अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेथ् । तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ॥ २६.८१ ॥
अथ वक्ष्ये कर्षण-आदौ । तृण-गुल्म-लता-आदीनि शोधयेत् पूर्वम् आलये ॥ २६।८१ ॥
atha vakṣye karṣaṇa-ādau . tṛṇa-gulma-latā-ādīni śodhayet pūrvam ālaye .. 26.81 ..
कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमाथ् । सुधावर्णानुलेपादीन्समाप्य गुरुत्वरः ॥ २६.८२ ॥
कुर्यात् शिला-इष्टका-दारु-प्रक्षेपण-विधिम् । सुधा-वर्ण-अनुलेप-आदीन् समाप्य गुरु-त्वरः ॥ २६।८२ ॥
kuryāt śilā-iṣṭakā-dāru-prakṣepaṇa-vidhim . sudhā-varṇa-anulepa-ādīn samāpya guru-tvaraḥ .. 26.82 ..
अलयस्योत्तरे कुर्याद्वास्तुह्ॐअं यथाविथि । पुण्याहं वाचयेद्विद्वान्पर्यग्निं चैव कारयेथ् ॥ २६.८३ ॥
अलयस्य उत्तरे कुर्यात् वास्तु-होंअम् यथाविथि । पुण्याहम् वाचयेत् विद्वान् पर्यग्निम् च एव ॥ २६।८३ ॥
alayasya uttare kuryāt vāstu-hoṃam yathāvithi . puṇyāham vācayet vidvān paryagnim ca eva .. 26.83 ..
पञ्चगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणं । आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः ॥ २६.८४ ॥
पञ्चगव्यैः समभ्युक्ष्य ततस् संकर्प्य कर्षणम् । आलय-अभिमुखे कृत्वा बुधः ॥ २६।८४ ॥
pañcagavyaiḥ samabhyukṣya tatas saṃkarpya karṣaṇam . ālaya-abhimukhe kṛtvā budhaḥ .. 26.84 ..
शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेथ् । सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ॥ २६.८५ ॥
शान्त-अनपायिनौ वीशम् च अभ्यर्च च निवेदयेथ् । सुवर्णेन हलम् कृत्वा गर्भागार-आदि सर्वशस् ॥ २६।८५ ॥
śānta-anapāyinau vīśam ca abhyarca ca nivedayeth . suvarṇena halam kṛtvā garbhāgāra-ādi sarvaśas .. 26.85 ..
गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः । कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ॥ २६.८६ ॥
गृहीत्वा दक्षिणे हस्ते मन्त्रैः विष्णोः नु-का-आदिभिः । कर्षयित्वा यथा उक्तानि बीजानि आहृत्य देशिकः ॥ २६।८६ ॥
gṛhītvā dakṣiṇe haste mantraiḥ viṣṇoḥ nu-kā-ādibhiḥ . karṣayitvā yathā uktāni bījāni āhṛtya deśikaḥ .. 26.86 ..
अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् । अभिमन्त्ष ततो बीजान्"सोमं राजानऽमुच्चरन् ॥ २६.८७ ॥
अभ्युक्ष्य सोमम् अभ्यर्च्य विष्णुगायत्रिम् उच्चरन् । अभिमन्त्ष ततस् बीजान्"सोमम् ॥ २६।८७ ॥
abhyukṣya somam abhyarcya viṣṇugāyatrim uccaran . abhimantṣa tatas bījān"somam .. 26.87 ..
सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् । आस्तीर्योपरि ता न्तृर्वान्सूक्तं गौदानिकं पुनः ॥ २६.८८ ॥
सर्वत्र वापनम् कुर्यात् दूर्वा-आदीन् च आहरेत् तृणान् । आस्तीर्य उपरि ताः तृर्वान् सूक्तम् गौदानिकम् पुनर् ॥ २६।८८ ॥
sarvatra vāpanam kuryāt dūrvā-ādīn ca āharet tṛṇān . āstīrya upari tāḥ tṛrvān sūktam gaudānikam punar .. 26.88 ..
उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेथ् । आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिं ॥ २६.८९ ॥
उच्चार्य गो-गणेभ्यः तान् निवेद्य च । आलयम् तु सु संशोध्य ब्रह्म-आदीनाम् ददेत् बलिम् ॥ २६।८९ ॥
uccārya go-gaṇebhyaḥ tān nivedya ca . ālayam tu su saṃśodhya brahma-ādīnām dadet balim .. 26.89 ..
द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुं । पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेथ् ॥ २६.९० ॥
द्रोणैः तद्-अर्धैः वा पक्त्वा तण्डुलैः स घृतम् चरुम् । पूर्वम् तोयम् ततस् पुष्पम् बलिम् यम् समर्पयेथ् ॥ २६।९० ॥
droṇaiḥ tad-ardhaiḥ vā paktvā taṇḍulaiḥ sa ghṛtam carum . pūrvam toyam tatas puṣpam balim yam samarpayeth .. 26.90 ..
पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरं । तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ॥ २६.९१ ॥
पुनर् संशोधयेत् धाम शान्ति-होम-पुरस्सरम् । तद्-तद्-संस्कार-होमम् च हुत्वा कुर्यात् क्रियाः ततस् ॥ २६।९१ ॥
punar saṃśodhayet dhāma śānti-homa-purassaram . tad-tad-saṃskāra-homam ca hutvā kuryāt kriyāḥ tatas .. 26.91 ..
आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः । वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ॥ २६.९२ ॥
आद्य-इष्टका-अर्थम् आसाद्य कुण्डम् औपासनम् बुधः । वैष्णवम् विष्णुसूक्तम् च पौरुषम् सूक्तम् एव च ॥ २६।९२ ॥
ādya-iṣṭakā-artham āsādya kuṇḍam aupāsanam budhaḥ . vaiṣṇavam viṣṇusūktam ca pauruṣam sūktam eva ca .. 26.92 ..
देग्दैवत्यं च जुहुयाद्देवं ध्यायन्समाहितः । जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलं ॥ २६.९३ ॥
देग्दैवत्यम् च जुहुयात् देवम् ध्यायन् समाहितः । जपेत् वेद-आदि-मन्त्रान् तु संस्पृश्य आद्य-इष्टका-स्थलम् ॥ २६।९३ ॥
degdaivatyam ca juhuyāt devam dhyāyan samāhitaḥ . japet veda-ādi-mantrān tu saṃspṛśya ādya-iṣṭakā-sthalam .. 26.93 ..
कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः । गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकं ॥ २६.९४ ॥
कृत्वा अन्तर् परिषेकम् च परिषिच्य अनलम् पुनर् । गर्भन्यास-अर्थम् आगूर्य वैष्णवम् विष्णुसूक्तकम् ॥ २६।९४ ॥
kṛtvā antar pariṣekam ca pariṣicya analam punar . garbhanyāsa-artham āgūrya vaiṣṇavam viṣṇusūktakam .. 26.94 ..
पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च । देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ॥ २६.९५ ॥
पुरुषसूक्तम् च श्रीसूक्तम् महीसूक्तम् तथा एव च । देक्-दैवत्यम् च जुहुया"न्नागराजाय अस इति अपि ॥ २६।९५ ॥
puruṣasūktam ca śrīsūktam mahīsūktam tathā eva ca . dek-daivatyam ca juhuyā"nnāgarājāya asa iti api .. 26.95 ..
सर्वरत्नेभ्यऽइत्युक्त्वा सर्वधातुभ्यऽइत्यपि । सर्वबीजेभ्यऽइत्युक्त्वासर्वलोहेभ्यऽइत्यपे ॥ २६.९६ ॥
सर्व-रत्नेभ्यः इति उक्त्वा सर्व-धातुभ्यः इति अपि । सर्व-बीजेभ्यः इति उक्त्वा सर्व-लोहेभ्यः इति अपे ॥ २६।९६ ॥
sarva-ratnebhyaḥ iti uktvā sarva-dhātubhyaḥ iti api . sarva-bījebhyaḥ iti uktvā sarva-lohebhyaḥ iti ape .. 26.96 ..
नदीभ्यःपातालेभ्यऽश्च नागेभ्योऽजुहुयात्ततः । दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमाथ् ॥ २६.९७ ॥
नदीभ्यः पातालेभ्यः च नागेभ्यः अजुहुयात् ततस् । दिग्गजेभ्यः विष्णवे च स्वाहा-अन्तम् जुहुयात् क्रमाथ् ॥ २६।९७ ॥
nadībhyaḥ pātālebhyaḥ ca nāgebhyaḥ ajuhuyāt tatas . diggajebhyaḥ viṣṇave ca svāhā-antam juhuyāt kramāth .. 26.97 ..
तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे । मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषं ॥ २६.९८ ॥
ततस् आभ्यन्तर-द्वार-दक्षिण-न्तंभ-दक्षिणे । मेदिनीम् तु समभ्यर्च्य जपेत् सूक्तम् तु पौरुषम् ॥ २६।९८ ॥
tatas ābhyantara-dvāra-dakṣiṇa-ntaṃbha-dakṣiṇe . medinīm tu samabhyarcya japet sūktam tu pauruṣam .. 26.98 ..
मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः । कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेथ् ॥ २६.९९ ॥
मेदिनी-आदीन् ततस् जप्त्वा तद्-तद्-थ्सावम् स्पृशेत् बुधः । कृत्वा अन्तर् तत्र कार्यम् समाचरेथ् ॥ २६।९९ ॥
medinī-ādīn tatas japtvā tad-tad-thsāvam spṛśet budhaḥ . kṛtvā antar tatra kāryam samācareth .. 26.99 ..
नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः । अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकं ॥ २६.१०० ॥
नष्टे गर्भे च हुत्वा एवम् संपाद्य स्थापयेत् पुनर् । अन्य-ऐष्टक-अर्थम् जुहुयात् वैष्णवम् विष्णुसूक्तकम् ॥ २६।१०० ॥
naṣṭe garbhe ca hutvā evam saṃpādya sthāpayet punar . anya-aiṣṭaka-artham juhuyāt vaiṣṇavam viṣṇusūktakam .. 26.100 ..
पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः । विमानपालदैवत्यं जपन्वेदादिकान्मनून् ॥ २६.१०१ ॥
पुरुषसूक्तम् च हुत्वा तु जुहुयात् विधिना बुधः । विमानपाल-दैवत्यम् जपन् वेद-आदिकान् मनून् ॥ २६।१०१ ॥
puruṣasūktam ca hutvā tu juhuyāt vidhinā budhaḥ . vimānapāla-daivatyam japan veda-ādikān manūn .. 26.101 ..
विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा । जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनं ॥ २६.१०२ ॥
विमानस्य उपरिष्टात् तु स्थूपि-कीलात् अधस् तथा । जपन् वैविष्णुसूक्तम् च कुर्यात् च एव अभिमर्शनम् ॥ २६।१०२ ॥
vimānasya upariṣṭāt tu sthūpi-kīlāt adhas tathā . japan vaiviṣṇusūktam ca kuryāt ca eva abhimarśanam .. 26.102 ..
ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकं । ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ॥ २६.१०३ ॥
ध्रुवे प्रमाण-हीने च परिस्तीर्य च पावकम् । ध्रुव-स्थापन-वत् हुत्वा रत्न-न्यास-उदितान् मनून् ॥ २६।१०३ ॥
dhruve pramāṇa-hīne ca paristīrya ca pāvakam . dhruva-sthāpana-vat hutvā ratna-nyāsa-uditān manūn .. 26.103 ..
जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः । कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ॥ २६.१०४ ॥
जपेत् थ्सापन-सूक्तम् च नवीकृत्य प्रयत्नतः । कौतुक-आदीन् च कृत्वा एव प्रतिष्ठाम् कारयेत् बुधः ॥ २६।१०४ ॥
japet thsāpana-sūktam ca navīkṛtya prayatnataḥ . kautuka-ādīn ca kṛtvā eva pratiṣṭhām kārayet budhaḥ .. 26.104 ..
नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितं । अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ॥ २६.१०५ ॥
नष्टे ध्रुवे पुनर् कुर्यात् उत्कृष्ट-द्रव्य-निर्मितम् । अथ वा वूर्ववत् कृत्वा स्थापयेत् विधिना अत्वरः, ॥ २६।१०५ ॥
naṣṭe dhruve punar kuryāt utkṛṣṭa-dravya-nirmitam . atha vā vūrvavat kṛtvā sthāpayet vidhinā atvaraḥ, .. 26.105 ..
नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि । अहीनाङ्गं तु संगृह्य शुद्ध्यर्थमधिवासयेथ् ॥ २६.१०६ ॥
नरैः वृषैः मृग-आद्यैः वाबेरम् उत्पाटितम् यदि । अहीन-अङ्गम् तु संगृह्य शुद्धि-अर्थम् अधिवासयेथ् ॥ २६।१०६ ॥
naraiḥ vṛṣaiḥ mṛga-ādyaiḥ vāberam utpāṭitam yadi . ahīna-aṅgam tu saṃgṛhya śuddhi-artham adhivāsayeth .. 26.106 ..
जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः । रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेथ् ॥ २६.१०७ ॥
जल-अधिवासम् कृत्वा तु विधिना बुधः । रत्न-न्यासम् च कृत्वा एव प्रतिष्ठाम् पुनर् आचरेथ् ॥ २६।१०७ ॥
jala-adhivāsam kṛtvā tu vidhinā budhaḥ . ratna-nyāsam ca kṛtvā eva pratiṣṭhām punar ācareth .. 26.107 ..
अन्यालयादपहृतमनिष्पन्नक्रियं तथा । शिलाबेरं यदि स्यात्तद्भूमौ सम्यक्पिधाय च ॥ २६.१०८ ॥
अन्य-आलयात् अपहृतम् अनिष्पन्न-क्रियम् तथा । शिलाबेरम् यदि स्यात् तत् भूमौ सम्यक् पिधाय च ॥ २६।१०८ ॥
anya-ālayāt apahṛtam aniṣpanna-kriyam tathā . śilāberam yadi syāt tat bhūmau samyak pidhāya ca .. 26.108 ..
विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेथ् । शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेथ् ॥ २६.१०९ ॥
विधिना आहृत्य संस्कार्यम् कृत्वा स्थापनम् आचरेथ् । शिल्पिना तु कृतम् बेलम् तथा ॥ २६।१०९ ॥
vidhinā āhṛtya saṃskāryam kṛtvā sthāpanam ācareth . śilpinā tu kṛtam belam tathā .. 26.109 ..
यथाविधि यथास्थानं स्थापितं दोषवर्जितं । बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनं ॥ २६.११० ॥
यथाविधि यथास्थानम् स्थापितम् दोष-वर्जितम् । बेरम् न चालयेत् यस्मात् राज-राष्ट्र-विनाशनम् ॥ २६।११० ॥
yathāvidhi yathāsthānam sthāpitam doṣa-varjitam . beram na cālayet yasmāt rāja-rāṣṭra-vināśanam .. 26.110 ..
तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमाथ् । सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनं ॥ २६.१११ ॥
तद्-दोष-शमन-अर्थाय पद्म-अग्नौ जुहुयात् क्रमाथ् । सप्त-अहम् तु महाशान्तिम् कुर्यात् ब्राह्मण-भोजनम् ॥ २६।१११ ॥
tad-doṣa-śamana-arthāya padma-agnau juhuyāt kramāth . sapta-aham tu mahāśāntim kuryāt brāhmaṇa-bhojanam .. 26.111 ..
दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेथ् । अविधिज्ञैरथाचार्यैरृत्विग्भिस्थापगैस्तथा ॥ २६.११२ ॥
दद्यात् सुवर्णम् गाम् भूमिम् प्रतिष्ठाम् पुनर् आचरेथ् । अ विधि-ज्ञैः अथ आचार्यैः ऋत्विग्भिः स्थापगैः तथा ॥ २६।११२ ॥
dadyāt suvarṇam gām bhūmim pratiṣṭhām punar ācareth . a vidhi-jñaiḥ atha ācāryaiḥ ṛtvigbhiḥ sthāpagaiḥ tathā .. 26.112 ..
स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि । विधिज्ञैस्थ्पापनं विद्वान्कारयेदत्वरं तथा ॥ २६.११३ ॥
स्थापितम् बेरम् आज्ञाय चालयित्वा यथाविधि । विधि-ज्ञैः थ्पापनम् विद्वान् कारयेत् अत्वरम् तथा ॥ २६।११३ ॥
sthāpitam beram ājñāya cālayitvā yathāvidhi . vidhi-jñaiḥ thpāpanam vidvān kārayet atvaram tathā .. 26.113 ..
विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि । शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ॥ २६.११४ ॥
विधि-ज्ञैः थ्सापितम् बेरम् अज्ञानात् चालितम् यदि । शान्तिम् हुद् वा विधानेन विधि-ज्ञैः थ्सापयेत् पुनर् ॥ २६।११४ ॥
vidhi-jñaiḥ thsāpitam beram ajñānāt cālitam yadi . śāntim hud vā vidhānena vidhi-jñaiḥ thsāpayet punar .. 26.114 ..
नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा । दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा ॥ २६.११५ ॥
नदी-तटाक-पाथोधि-प्रवाहैः वा अत्यय अध वा । दैवात् प्रचालिते तत्र विमाने वा ध्रुवे अपि वा ॥ २६।११५ ॥
nadī-taṭāka-pāthodhi-pravāhaiḥ vā atyaya adha vā . daivāt pracālite tatra vimāne vā dhruve api vā .. 26.115 ..
भूमौ पिधाय तद्बेरं निर्माय पुनरालयं । अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ॥ २६.११६ ॥
भूमौ पिधाय तत् बेरम् निर्माय पुनर् आलयम् । अचलम् स्थापयेत् बेरम् शास्त्र-उक्तेन एव वर्त्मना ॥ २६।११६ ॥
bhūmau pidhāya tat beram nirmāya punar ālayam . acalam sthāpayet beram śāstra-uktena eva vartmanā .. 26.116 ..
सापाये तु स्थले तस्मिन्सन्निकृष्टे स्थले चरेथ् । ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ॥ २६.११७ ॥
स अपाये तु स्थले तस्मिन् सन्निकृष्टे स्थले चरेथ् । ग्राम-आदौ वा विविक्ते वा प्रदेशे सु मनोरमे ॥ २६।११७ ॥
sa apāye tu sthale tasmin sannikṛṣṭe sthale careth . grāma-ādau vā vivikte vā pradeśe su manorame .. 26.117 ..
विमानं सुदृढं कृत्वा देवमादाय तत्र वै । सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेथ् ॥ २६.११८ ॥
विमानम् सु दृढम् कृत्वा देवम् आदाय तत्र वै । सर्वैः च पार्षदैः युक्तम् संस्थाप्य विधिना ॥ २६।११८ ॥
vimānam su dṛḍham kṛtvā devam ādāya tatra vai . sarvaiḥ ca pārṣadaiḥ yuktam saṃsthāpya vidhinā .. 26.118 ..
ग्रामादीनामभावे तु शतदण्डात्परं ततः । विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेथ् ॥ २६.११९ ॥
ग्राम-आदीनाम् अभावे तु शत-दण्डात् परम् ततस् । विमानम् विस्तृते देशे कृत्वा संस्थाप्य च अर्चयेथ् ॥ २६।११९ ॥
grāma-ādīnām abhāve tu śata-daṇḍāt param tatas . vimānam vistṛte deśe kṛtvā saṃsthāpya ca arcayeth .. 26.119 ..
राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः । स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ॥ २६.१२० ॥
राजाराष्ट्र-अन्तरम् जित्वा बेरम् आहृत्य यत्नतः । स्व-राष्ट्रे स्थापितुम् च इच्छेत् यदि ग्रामम् विधाय च ॥ २६।१२० ॥
rājārāṣṭra-antaram jitvā beram āhṛtya yatnataḥ . sva-rāṣṭre sthāpitum ca icchet yadi grāmam vidhāya ca .. 26.120 ..
तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेथ् । अपौरुषालयाभ्याशे विमानं पौरुषं यदि ॥ २६.१२१ ॥
तद्-वास्तु-अङ्ग-आलये बेरम् विधिना स्थाप्य च अर्चयेथ् । अपौरुष-आलय-अभ्याशे विमानम् पौरुषम् यदि ॥ २६।१२१ ॥
tad-vāstu-aṅga-ālaye beram vidhinā sthāpya ca arcayeth . apauruṣa-ālaya-abhyāśe vimānam pauruṣam yadi .. 26.121 ..
कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः । भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकं ॥ २६.१२२ ॥
कर्तुम् इच्छेत् तदा कुर्यात् तद्-प्राकार-अन्तरे पुनर् । भू-शुद्धि-आदीन् विना कृत्वा प्राकारम् प्रतिमा-आदिकम् ॥ २६।१२२ ॥
kartum icchet tadā kuryāt tad-prākāra-antare punar . bhū-śuddhi-ādīn vinā kṛtvā prākāram pratimā-ādikam .. 26.122 ..
प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलं । प्रमादादथवा दैवा दालये स्नपनालये ॥ २६.१२३ ॥
प्रतिष्ठाप्य आर्ऽचयेत् तस्य मूलस्थान-आर्ऽचनम् फलम् । प्रमादात् अथवा दैवाः स्नपन-आलये ॥ २६।१२३ ॥
pratiṣṭhāpya ār'cayet tasya mūlasthāna-ār'canam phalam . pramādāt athavā daivāḥ snapana-ālaye .. 26.123 ..
आस्थानमण्डपे पाकस्थानप्राकारयोरपि । गोवुरेस्नानपानीयशालादौ वह्निदूषिते ॥ २६.१२४ ॥
आस्थान-मण्डपे पाकस्थान-प्राकारयोः अपि । गो-वुरे-स्नान-पानीय-शाला-आदौ वह्नि-दूषिते ॥ २६।१२४ ॥
āsthāna-maṇḍape pākasthāna-prākārayoḥ api . go-vure-snāna-pānīya-śālā-ādau vahni-dūṣite .. 26.124 ..
महावातहतेऽकस्मादशन्यादिहते तथा । पारमात्मिकमब्जाग्नावीङ्कारादींस्तथा हुनेथ् ॥ २६.१२५ ॥
महा-वात-हते अकस्मात् अशनि-आदि-हते तथा । पारमात्मिकम् अब्ज-अग्नौ ईङ्कार-आदीन् तथा ॥ २६।१२५ ॥
mahā-vāta-hate akasmāt aśani-ādi-hate tathā . pāramātmikam abja-agnau īṅkāra-ādīn tathā .. 26.125 ..
विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा । पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमाथ् ॥ २६.१२६ ॥
विच्छिन्नम् आग्नेयम् व्याहृतीः तथा । पुनर् अन्यत् नवम् कृत्वा प्रतिष्ठाम् कारयेत् क्रमाथ् ॥ २६।१२६ ॥
vicchinnam āgneyam vyāhṛtīḥ tathā . punar anyat navam kṛtvā pratiṣṭhām kārayet kramāth .. 26.126 ..
शिलाग्रहण काले वा तदा दारुग्रहेऽपि च । क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकं ॥ २६.१२७ ॥
शिला-ग्रहण-काले वा तदा दारु-ग्रहे अपि च । क्रिया-अङ्गीने विपर्यासे वैष्णवम् विष्णुसूक्तकम् ॥ २६।१२७ ॥
śilā-grahaṇa-kāle vā tadā dāru-grahe api ca . kriyā-aṅgīne viparyāse vaiṣṇavam viṣṇusūktakam .. 26.127 ..
मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः । द्वारस्तंभे भुवङ्गादौ हीने मानेऽग्निदूषिते ॥ २६.१२८ ॥
मिन्दाहुती च विच्छिन्नम् व्याहृति-अन्तम् हुनेत् बुधः । द्वार-स्तंभे भुवङ्ग-आदौ हीने माने अग्नि-दूषिते ॥ २६।१२८ ॥
mindāhutī ca vicchinnam vyāhṛti-antam hunet budhaḥ . dvāra-staṃbhe bhuvaṅga-ādau hīne māne agni-dūṣite .. 26.128 ..
जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः । अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववथ् ॥ २६.१२९ ॥
जीर्णे वा कृमि-दष्टे वा अनुपयुक्तम् त्यजेत् बुधः । अन्यम् आहृत्य विधिना संयोज्य एव च ॥ २६।१२९ ॥
jīrṇe vā kṛmi-daṣṭe vā anupayuktam tyajet budhaḥ . anyam āhṛtya vidhinā saṃyojya eva ca .. 26.129 ..
नित्याग्नौ वैष्णवं स्ॐयमाग्नेयं शान्तिमाचरेथ् । गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ॥ २६.१३० ॥
नित्य-अग्नौ वैष्णवम् शान्तिम् आचरेथ् । गर्भ-न्यास-अर्थम् अथवा पीठ-न्यास-अर्थम् एव वा ॥ २६।१३० ॥
nitya-agnau vaiṣṇavam śāntim ācareth . garbha-nyāsa-artham athavā pīṭha-nyāsa-artham eva vā .. 26.130 ..
रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेथ् । विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेथ् ॥ २६.१३१ ॥
रत्नानाम् अपि अलाभे तु सुवर्णम् तत्र । विष्णुसूक्तम् तु जुहुयात् प्रायश्चित्तम् तु तत् भवेथ् ॥ २६।१३१ ॥
ratnānām api alābhe tu suvarṇam tatra . viṣṇusūktam tu juhuyāt prāyaścittam tu tat bhaveth .. 26.131 ..
धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तथ् । पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ॥ २६.१३२ ॥
धातूनाम् पारदम् । पारदम् तत्र निक्षिप्य ब्राह्मम् रौद्रम् च निष्कृतिः ॥ २६।१३२ ॥
dhātūnām pāradam . pāradam tatra nikṣipya brāhmam raudram ca niṣkṛtiḥ .. 26.132 ..
यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेथ् । वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ॥ २६.१३३ ॥
यवाः बीज-प्रतिनिधिः मुद्गान् वा तत्र निक्षिपेथ् । वायव्यम् वैष्मवम् च इति जुहुयात् तत्र निष्कृतिः ॥ २६।१३३ ॥
yavāḥ bīja-pratinidhiḥ mudgān vā tatra nikṣipeth . vāyavyam vaiṣmavam ca iti juhuyāt tatra niṣkṛtiḥ .. 26.133 ..
ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि । स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवं ॥ २६.१३४ ॥
ध्रुवबेलस्य निर्माणे शूल-ग्रहण-कर्मणि । स्थापने वा विपर्यासे ब्राह्मम् रौद्रम् च वैष्णवम् ॥ २६।१३४ ॥
dhruvabelasya nirmāṇe śūla-grahaṇa-karmaṇi . sthāpane vā viparyāse brāhmam raudram ca vaiṣṇavam .. 26.134 ..
वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः । अप्रमाणे विमाने तु बेरं मानविवर्जितं ॥ २६.१३५ ॥
वा आहृति-अन्तम् च हुत्वा एव विधिना योजयेत् पुनर् । अप्रमाणे विमाने तु बेरम् मान-विवर्जितम् ॥ २६।१३५ ॥
vā āhṛti-antam ca hutvā eva vidhinā yojayet punar . apramāṇe vimāne tu beram māna-vivarjitam .. 26.135 ..
अज्ञानात्स्थापितं चेत्तद्राजराष्ट्रविनाशकृथ् । तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ॥ २६.१३६ ॥
अज्ञानात् स्थापितम् चेद् तत् राज-राष्ट्र-विनाश-कृथ् । तद्-दोष-शमन-अर्थम् च महाशान्तिम् हुनेत् बुधः ॥ २६।१३६ ॥
ajñānāt sthāpitam ced tat rāja-rāṣṭra-vināśa-kṛth . tad-doṣa-śamana-artham ca mahāśāntim hunet budhaḥ .. 26.136 ..
तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः । तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ॥ २६.१३७ ॥
तद्-विमानम् च तद्-बेरम् स्थापयेत् विधिवत् पुनर् । तद्-तद्-बेर-उक्त-शूलानाम् प्रमाणम् यदि हीयते ॥ २६।१३७ ॥
tad-vimānam ca tad-beram sthāpayet vidhivat punar . tad-tad-bera-ukta-śūlānām pramāṇam yadi hīyate .. 26.137 ..
पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च । दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ॥ २६.१३८ ॥
पूर्णम् कृत्वा वैष्णवम् च पौरुषम् सूक्तम् एव च । दद्भ्यः स्वाहा इति अङ्ग-होमम् हुत्वा तु स्थापयेत् पुनर् ॥ २६।१३८ ॥
pūrṇam kṛtvā vaiṣṇavam ca pauruṣam sūktam eva ca . dadbhyaḥ svāhā iti aṅga-homam hutvā tu sthāpayet punar .. 26.138 ..
स्नेहचूर्णकषायादौ हीने योगविपर्यये । रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ॥ २६.१३९ ॥
स्नेह-चूर्ण-कषाय-आदौ हीने योग-विपर्यये । रज्जुबन्ध-अष्टबन्ध-आदौ शर्करा-लेपने तथा ॥ २६।१३९ ॥
sneha-cūrṇa-kaṣāya-ādau hīne yoga-viparyaye . rajjubandha-aṣṭabandha-ādau śarkarā-lepane tathā .. 26.139 ..
तथा मृदालेपने च पटाच्छादनकर्मणि । भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ॥ २६.१४० ॥
तथा मृदा आलेपने च पट-आच्छादन-कर्मणि । भूषा-आदौ क्रम-हीने वा वर्ण-आदीनाम् व्यतिक्रमे ॥ २६।१४० ॥
tathā mṛdā ālepane ca paṭa-ācchādana-karmaṇi . bhūṣā-ādau krama-hīne vā varṇa-ādīnām vyatikrame .. 26.140 ..
वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा । प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेथ् ॥ २६.१४१ ॥
वैष्णवम् ब्राह्म-रौद्र-अग्नि-महाभूत-अथिपान् तथा । प्राजापत्यम् व्याहृतीः च हुत्वा विधि-पद-आचरेथ् ॥ २६।१४१ ॥
vaiṣṇavam brāhma-raudra-agni-mahābhūta-athipān tathā . prājāpatyam vyāhṛtīḥ ca hutvā vidhi-pada-ācareth .. 26.141 ..
महाबेरं चार्धचित्रं मृण्मयं नैव कारयेथ् । सौवर्णं राजतं ताम्रं शैलं दारवमेववा ॥ २६.१४२ ॥
महा-बेरम् च अर्ध-चित्रम् मृण्मयम् न एव कारयेथ् । सौवर्णम् राजतम् ताम्रम् शैलम् दारवम् एव वा ॥ २६।१४२ ॥
mahā-beram ca ardha-citram mṛṇmayam na eva kārayeth . sauvarṇam rājatam tāmram śailam dāravam eva vā .. 26.142 ..
रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणं । कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ॥ २६.१४३ ॥
रत्न-जम् वा अर्धचित्रः तु कुर्यात् बेरम् स लक्षणम् । कृत्रिमेण अपि अनुक्तेन वर्णेन आलेपितम् पुनर् ॥ २६।१४३ ॥
ratna-jam vā ardhacitraḥ tu kuryāt beram sa lakṣaṇam . kṛtrimeṇa api anuktena varṇena ālepitam punar .. 26.143 ..
बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच । वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ॥ २६.१४४ ॥
बेरम् प्रक्षाल्य निर्वास-वारिणा परिमार्ज्य च । वैष्णवम् विष्णुसूक्तम् च हुत्वा अब्ज-अग्नौ जय-आदिकान् ॥ २६।१४४ ॥
beram prakṣālya nirvāsa-vāriṇā parimārjya ca . vaiṣṇavam viṣṇusūktam ca hutvā abja-agnau jaya-ādikān .. 26.144 ..
पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेथ् । ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ॥ २६.१४५ ॥
पश्चात् यथा उक्त-वर्णेन यथार्हम् अनुलेपयेथ् । ध्रव-बेरम् सुधा-युक्तम् इष्टका-कल्पितम् तथा ॥ २६।१४५ ॥
paścāt yathā ukta-varṇena yathārham anulepayeth . dhrava-beram sudhā-yuktam iṣṭakā-kalpitam tathā .. 26.145 ..
दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकं । तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ॥ २६.१४६ ॥
दुष्ट-द्रव्य-कृतम् वा अथ स्थापितम् च आभिचारिकम् । तत् शीघ्रम् अपहाय इव पद्म-अग्नौ वैष्मवम् तथा ॥ २६।१४६ ॥
duṣṭa-dravya-kṛtam vā atha sthāpitam ca ābhicārikam . tat śīghram apahāya iva padma-agnau vaiṣmavam tathā .. 26.146 ..
विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च । यद्देवादींस्तथा ब्राह्मरौद्रपावकवारुणान् ॥ २६.१४७ ॥
विष्णुसूक्तम् पौरुषम् च श्री-भूदैवत्यम् एव च । यत् देव-आदीन् तथा ब्राह्म-रौद्र-पावक-वारुणान् ॥ २६।१४७ ॥
viṣṇusūktam pauruṣam ca śrī-bhūdaivatyam eva ca . yat deva-ādīn tathā brāhma-raudra-pāvaka-vāruṇān .. 26.147 ..
सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च । महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीं ॥ २६.१४८ ॥
सर्व-दैवत्य-मन्त्रान् च पारमात्मिकम् एव च । महाशान्ति च हुत्वा एताम् सर्व-दोष-विनाशिनीम् ॥ २६।१४८ ॥
sarva-daivatya-mantrān ca pāramātmikam eva ca . mahāśānti ca hutvā etām sarva-doṣa-vināśinīm .. 26.148 ..
पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेथ् । वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसंभवैः ॥ २६.१४९ ॥
पश्चत् संस्कृत्य विधिवत् बेरम् संस्थाप्य च अर्चयेथ् । वृत्त-लोह-आरकूट-आद्यैः अनुक्त-द्रव्य-संभवैः ॥ २६।१४९ ॥
paścat saṃskṛtya vidhivat beram saṃsthāpya ca arcayeth . vṛtta-loha-ārakūṭa-ādyaiḥ anukta-dravya-saṃbhavaiḥ .. 26.149 ..
निर्मितं कौतुकं बेरमभिचाराय कल्पते । तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेथ् ॥ २६.१५० ॥
निर्मितम् कौतुकम् बेरम् अभिचाराय कल्पते । तद्-दोष-शान्त्यै पद्म-अग्नौ महाशान्तिम् समाचरेथ् ॥ २६।१५० ॥
nirmitam kautukam beram abhicārāya kalpate . tad-doṣa-śāntyai padma-agnau mahāśāntim samācareth .. 26.150 ..
बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः । कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ॥ २६.१५१ ॥
बेरम् स लक्षणम् कृत्वा विधिना स्थापयेत् पुनर् । कौतुकम् स्थितम् आसीनम् अथ वा कारयेत् बुधः ॥ २६।१५१ ॥
beram sa lakṣaṇam kṛtvā vidhinā sthāpayet punar . kautukam sthitam āsīnam atha vā kārayet budhaḥ .. 26.151 ..
शयानं नाचरेदार्षं यथावस्थितमर्चयेथ् । निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ॥ २६.१५२ ॥
शयानम् न आचरेत् आर्षम् यथावस्थितम् अर्चयेथ् । निर्दुष्टे कौतुक-आदौ तु पूज्यमाने तु विग्रहे ॥ २६।१५२ ॥
śayānam na ācaret ārṣam yathāvasthitam arcayeth . nirduṣṭe kautuka-ādau tu pūjyamāne tu vigrahe .. 26.152 ..
नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितं । निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेथ् ॥ २६.१५३ ॥
न एव प्रवेशयेत् बेरम् उत्कृष्ट-द्रव्य-कल्पितम् । निकृष्ट-द्रव्य-जम् च अपि पूज्यमानम् न संत्यजेथ् ॥ २६।१५३ ॥
na eva praveśayet beram utkṛṣṭa-dravya-kalpitam . nikṛṣṭa-dravya-jam ca api pūjyamānam na saṃtyajeth .. 26.153 ..
अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते । युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ॥ २६.१५४ ॥
अर्च्यमाने कौतुक-आदौ विरूपे वर्ण-वर्जिते । युक्ता इव झर्झुर-आद्यैः च ध्रुवे शक्तिम् समर्प्य च ॥ २६।१५४ ॥
arcyamāne kautuka-ādau virūpe varṇa-varjite . yuktā iva jharjhura-ādyaiḥ ca dhruve śaktim samarpya ca .. 26.154 ..
नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः । कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ॥ २६.१५५ ॥
नवीकृत्य पुनर् बिंबम् संशोध्य स्थापयेत् पुनर् । कौतुकम् चेद् अर्च्यमानम् दैवात् राज-आदिभिः हृते ॥ २६।१५५ ॥
navīkṛtya punar biṃbam saṃśodhya sthāpayet punar . kautukam ced arcyamānam daivāt rāja-ādibhiḥ hṛte .. 26.155 ..
तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदितां । कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ॥ २६.१५६ ॥
तद्-देश-शुद्धिम् कृत्वा एव महाशान्तिम् पुरा उदिताम् । कृत्वा न्यस्य अत्र रत्नम् वा सुवर्णम् कूर्चम् एव वा ॥ २६।१५६ ॥
tad-deśa-śuddhim kṛtvā eva mahāśāntim purā uditām . kṛtvā nyasya atra ratnam vā suvarṇam kūrcam eva vā .. 26.156 ..
ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः । देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ॥ २६.१५७ ॥
ध्रुवात् वा हृदयात् अर्क मण्डलात् वा विधानतः । देवम् आवाह्य तद्-काले पश्चात् बेरम् यथाविधि ॥ २६।१५७ ॥
dhruvāt vā hṛdayāt arka maṇḍalāt vā vidhānataḥ . devam āvāhya tad-kāle paścāt beram yathāvidhi .. 26.157 ..
पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेथ् । कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेथ् ॥ २६.१५८ ॥
पूर्व-द्रव्येण वा उत्कृष्ट-द्रव्येण अपि । काल-अपेक्षाम् अ कृत्वा एव प्रतिष्ठाम् पूर्ववत् चरेथ् ॥ २६।१५८ ॥
pūrva-dravyeṇa vā utkṛṣṭa-dravyeṇa api . kāla-apekṣām a kṛtvā eva pratiṣṭhām pūrvavat careth .. 26.158 ..
मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवं । शान्तिंहुत्वा रौद्रसौरपावकान्पुनराचरेथ् ॥ २६.१५९ ॥
मधूच्छिष्ट-क्रिया-हीनम् बेरम् आदाय वैष्णवम् । शान्तिम् हुत्वा रौद्र-सौर-पावकान् पुनर् आचरेथ् ॥ २६।१५९ ॥
madhūcchiṣṭa-kriyā-hīnam beram ādāya vaiṣṇavam . śāntim hutvā raudra-saura-pāvakān punar ācareth .. 26.159 ..
अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा । अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ॥ २६.१६० ॥
अन्य-आलये स्थापितम् तु ध्रुवम् कौतुकम् एव वा । अन्य-आलये स्थापयेत् चेद् महाशान्तिम् हुनेत् बुधः ॥ २६।१६० ॥
anya-ālaye sthāpitam tu dhruvam kautukam eva vā . anya-ālaye sthāpayet ced mahāśāntim hunet budhaḥ .. 26.160 ..
वैष्णवांन्तु सुसंपूज्य ब्राह्मणान्भोजयेद्बहु । तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेथ् ॥ २६.१६१ ॥
वैष्णवान् तु सु संपूज्य ब्राह्मणान् भोजयेत् बहु । तु विधिना ॥ २६।१६१ ॥
vaiṣṇavān tu su saṃpūjya brāhmaṇān bhojayet bahu . tu vidhinā .. 26.161 ..
ग्रामादीनामालयस्य नाशेबेरं तु तद्गतं । अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेथ् ॥ २६.१६२ ॥
ग्राम-आदीनाम् आलयस्य तु तत् गतम् । अन्यस्मिन् आलये स्थाप्य यथार्हम् तु ॥ २६।१६२ ॥
grāma-ādīnām ālayasya tu tat gatam . anyasmin ālaye sthāpya yathārham tu .. 26.162 ..
कृते तु पीठसंघाते बेरे त्ववनते क्रमाथ् । दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनं ॥ २६.१६३ ॥
कृते तु पीठ-संघाते बेरे तु अवनते । दक्षिण-आदि भवेत् मृत्युः अर्थ-नाशः अभिवर्धनम् ॥ २६।१६३ ॥
kṛte tu pīṭha-saṃghāte bere tu avanate . dakṣiṇa-ādi bhavet mṛtyuḥ artha-nāśaḥ abhivardhanam .. 26.163 ..
पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनं । उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ॥ २६.१६४ ॥
पुत्र-हानि स्तुन्दभेदे ध्यान्यानाम् तु विनाशनम् । उरः-छिद्रेः अथ नाशः च कृशे कार्श्यम् भजेत् नरः ॥ २६।१६४ ॥
putra-hāni stundabhede dhyānyānām tu vināśanam . uraḥ-chidreḥ atha nāśaḥ ca kṛśe kārśyam bhajet naraḥ .. 26.164 ..
स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च । ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ॥ २६.१६५ ॥
स्थूले च महती-व्याधिः दीर्घे अनायुष्यम् एव च । ह्रस्वे अदुर्भिक्षम् आप्नोति न्यून-आधिक्य-समुद्भवे ॥ २६।१६५ ॥
sthūle ca mahatī-vyādhiḥ dīrghe anāyuṣyam eva ca . hrasve adurbhikṣam āpnoti nyūna-ādhikya-samudbhave .. 26.165 ..
अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेथ् । ध्रुवस्य स्थापनादर्वाक्प्राक्प्रतिष्ठाविधेस्तथा ॥ २६.१६६ ॥
अन्येषु अङ्गेषु हानिः स्यात् शास्त्र-उक्तम् सम्यक् आचरेथ् । ध्रुवस्य स्थापनात् अर्वाक् प्राक् प्रतिष्ठा-विधेः तथा ॥ २६।१६६ ॥
anyeṣu aṅgeṣu hāniḥ syāt śāstra-uktam samyak ācareth . dhruvasya sthāpanāt arvāk prāk pratiṣṭhā-vidheḥ tathā .. 26.166 ..
अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै । पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषं ॥ २६.१६७ ॥
अनुक्त-निष्कृतिम् वक्ष्ये कापिलेन घृतेन वै । पद्म-अग्नौ वैष्णवम् विष्णुसूक्तम् सुक्तम् च पौरुषम् ॥ २६।१६७ ॥
anukta-niṣkṛtim vakṣye kāpilena ghṛtena vai . padma-agnau vaiṣṇavam viṣṇusūktam suktam ca pauruṣam .. 26.167 ..
श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः । तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेथ् ॥ २६.१६८ ॥
श्री-भू-दैवत्य-मन्त्रान् च जुहुयात् व्याहृतीः बुनर् । तत् तत् कर्म पुनर् कुर्यात् अन्यथा निष्फलम् ॥ २६।१६८ ॥
śrī-bhū-daivatya-mantrān ca juhuyāt vyāhṛtīḥ bunar . tat tat karma punar kuryāt anyathā niṣphalam .. 26.168 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे षड्विंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre ṣaḍviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In