| |
|

This overlay will guide you through the buttons:

अथषट्त्रिंशोऽध्यायः.
अथ षट्त्रिंशः अध्यायः।
atha ṣaṭtriṃśaḥ adhyāyaḥ.
अपचाराः
अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः । यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥ ३६.१ ॥
अपचाराः तथा विष्णोः द्वात्रिंशत् परिकीर्तिताः । यानैः वा पादुकैः वा अपि गमनम् भगवत्-गृहे ॥ ३६।१ ॥
apacārāḥ tathā viṣṇoḥ dvātriṃśat parikīrtitāḥ . yānaiḥ vā pādukaiḥ vā api gamanam bhagavat-gṛhe .. 36.1 ..
देवोत्सवाद्यसेवाचाप्रणामं च तदग्रतः । एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणं ॥ ३६.२ ॥
देव-उत्सव-आदि-असेवा-च अप्रणामम् च तद्-अग्रतस् । एक-हस्त-प्रणामः च तद्-पुरस्तात् प्रदक्षिणम् ॥ ३६।२ ॥
deva-utsava-ādi-asevā-ca apraṇāmam ca tad-agratas . eka-hasta-praṇāmaḥ ca tad-purastāt pradakṣiṇam .. 36.2 ..
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकं । पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनं ॥ ३६.३ ॥
उच्छिष्टे च एव च आशौचे भगवत्-वन्दन-आदिकम् । पाद-प्रसारणम् च अग्रे तथा पर्यङ्क-बन्धनम् ॥ ३६।३ ॥
ucchiṣṭe ca eva ca āśauce bhagavat-vandana-ādikam . pāda-prasāraṇam ca agre tathā paryaṅka-bandhanam .. 36.3 ..
शयनं भोजनं चैव मुधाभाषणमेव च । उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः ॥ ३६.४ ॥
शयनम् भोजनम् च एव मुधा भाषणम् एव च । उच्चैर्भाषा वृधाजल्पः रोदन-आद्यम् च विग्रहः ॥ ३६।४ ॥
śayanam bhojanam ca eva mudhā bhāṣaṇam eva ca . uccairbhāṣā vṛdhājalpaḥ rodana-ādyam ca vigrahaḥ .. 36.4 ..
निग्रहोऽनुग्रहश्चैव स्त्रीषु साकूतभाषणं । अश्लीलकथनं चैवाप्यधोवायुविमोक्षणं ॥ ३६.५ ॥
निग्रहः अनुग्रहः च एव स्त्रीषु स आकूत-भाषणम् । अश्लील-कथनम् च एव अपि अधस् वायु-विमोक्षणम् ॥ ३६।५ ॥
nigrahaḥ anugrahaḥ ca eva strīṣu sa ākūta-bhāṣaṇam . aślīla-kathanam ca eva api adhas vāyu-vimokṣaṇam .. 36.5 ..
कंबलावरणं चैव वरनिन्दा परस्तुतिः । शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणं ॥ ३६.६ ॥
कंबल-आवरणम् च एव वर-निन्दा पर-स्तुतिः । शक्तौ गौण-उपचारः च अपि अनिवेदित-भक्षणम् ॥ ३६।६ ॥
kaṃbala-āvaraṇam ca eva vara-nindā para-stutiḥ . śaktau gauṇa-upacāraḥ ca api anivedita-bhakṣaṇam .. 36.6 ..
तत्तत्कालोद्भवानां च फलादीनामनर्पणं । विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥ ३६.७ ॥
तद्-तद्-काल-उद्भवानाम् च फल-आदीनाम् अनर्पणम् । विनियुक्त-अवशिष्टस्य प्रदानम् व्यञ्जन-आदिषु ॥ ३६।७ ॥
tad-tad-kāla-udbhavānām ca phala-ādīnām anarpaṇam . viniyukta-avaśiṣṭasya pradānam vyañjana-ādiṣu .. 36.7 ..
पृष्ठीकृत्यासनं चैव परेषामभिवन्दनं । गुर्ॐऔनं निजस्तोत्रं देवतानिन्दनं तथा ॥ ३६.८ ॥
पृष्ठीकृत्य आसनम् च एव परेषाम् अभिवन्दनम् । गुरों ओंऔनम् निज-स्तोत्रम् देवता-निन्दनम् तथा ॥ ३६।८ ॥
pṛṣṭhīkṛtya āsanam ca eva pareṣām abhivandanam . guroṃ oṃaunam nija-stotram devatā-nindanam tathā .. 36.8 ..
अपचारां स्तु विविधानीदृशान्परिवर्जयेथ् । अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः ॥ ३६.९ ॥
अपचारान् स्तु विविधान् ईदृशान् परिवर्जयेथ् । अपचारेषु अनन्तेषु सत्सु अन्येषु प्रमादतः ॥ ३६।९ ॥
apacārān stu vividhān īdṛśān parivarjayeth . apacāreṣu ananteṣu satsu anyeṣu pramādataḥ .. 36.9 ..
क्षमऽऽस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा । अन्यथा यदि कुर्वाणःप्रमादात्ज्ञानतोऽथवा ॥ ३६.१० ॥
निष्कृतिः निरुपद्रवा । अन्यथा यदि कुर्वाणः प्रमादात् ज्ञानतः अथवा ॥ ३६।१० ॥
niṣkṛtiḥ nirupadravā . anyathā yadi kurvāṇaḥ pramādāt jñānataḥ athavā .. 36.10 ..
स याति नरकान्घोरान्सन्ततं भृशदारुणान् । येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः ॥ ३६.११ ॥
स याति नरकान् घोरान् सन्ततम् भृश-दारुणान् । ये तु स्मरण-मात्रेण भवन्ति हृदय-छिदः ॥ ३६।११ ॥
sa yāti narakān ghorān santatam bhṛśa-dāruṇān . ye tu smaraṇa-mātreṇa bhavanti hṛdaya-chidaḥ .. 36.11 ..
द्वात्रिंशन्नरकाः
द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः । रौरवध्वान्तशीतोष्णतापांबुजमहांबुजाः ॥ ३६.१२ ॥
द्वात्रिंशत्-नरकाः ते तु कीर्त्यन्ते ब्रह्म-वादिभिः । ॥ ३६।१२ ॥
dvātriṃśat-narakāḥ te tu kīrtyante brahma-vādibhiḥ . .. 36.12 ..
कालसूत्रोऽष्टमो ह्येते नरका इति विश्रुताः । सूच्यग्रकालखड्गाश्च क्षुरधारांचबरीषकाः ॥ ३६.१३ ॥
कालसूत्रः अष्टमः हि एते नरकाः इति विश्रुताः । सूचि-अग्र-कालखड्गाः च क्षुर-धारा-अंचबरीषकाः ॥ ३६।१३ ॥
kālasūtraḥ aṣṭamaḥ hi ete narakāḥ iti viśrutāḥ . sūci-agra-kālakhaḍgāḥ ca kṣura-dhārā-aṃcabarīṣakāḥ .. 36.13 ..
तप्तांगारमहादाहौ संतापश्चेति के चन । भवन्त्यष्टासु भीभत्का महाशब्दा भयानकाः ॥ ३६.१४ ॥
तप्त-अंगार-महा-दाहौ संतापः च इति के चन । भवन्ति अष्टासु भीभत्काः महा-शब्दाः भयानकाः ॥ ३६।१४ ॥
tapta-aṃgāra-mahā-dāhau saṃtāpaḥ ca iti ke cana . bhavanti aṣṭāsu bhībhatkāḥ mahā-śabdāḥ bhayānakāḥ .. 36.14 ..
लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः । युग्माद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः ॥ ३६.१५ ॥
लक्षा-प्रलेप-मांसाद-निरुच्छ्वस-नसा-उच्छ्वसाः । ॥ ३६।१५ ॥
lakṣā-pralepa-māṃsāda-nirucchvasa-nasā-ucchvasāḥ . .. 36.15 ..
कृमीणां निचयश्चैव राजानः परिकीर्तिताः । लोहस्तम्भोऽथ विण्मूत्रे तथा वैतरणी नदी ॥ ३६.१६ ॥
कृमीणाम् निचयः च एव राजानः परिकीर्तिताः । लोह-स्तम्भः अथ विष्-मूत्रे तथा वैतरणी नदी ॥ ३६।१६ ॥
kṛmīṇām nicayaḥ ca eva rājānaḥ parikīrtitāḥ . loha-stambhaḥ atha viṣ-mūtre tathā vaitaraṇī nadī .. 36.16 ..
तामिस्रश्चान्धतामिस्रः कुम्भीपाकोऽथ रौरवः । महापदानुगामी च राजराजेश्वराह्वयः ॥ ३६.१७ ॥
तामिस्रः च अन्धतामिस्रः कुम्भीपाकः अथ रौरवः । च ॥ ३६।१७ ॥
tāmisraḥ ca andhatāmisraḥ kumbhīpākaḥ atha rauravaḥ . ca .. 36.17 ..
त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसं । तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः ॥ ३६.१८ ॥
त्रयस्त्रींशत्-पुटेषु अर्धम् पार्थिवम् च अर्धम् आयसम् । तद्-मध्ये नरकाः घोराः बहुशस् तमसि स्थिताः ॥ ३६।१८ ॥
trayastrīṃśat-puṭeṣu ardham pārthivam ca ardham āyasam . tad-madhye narakāḥ ghorāḥ bahuśas tamasi sthitāḥ .. 36.18 ..
तेषां नरकभेदानामष्टाविंशतिकोटयः । एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः ॥ ३६.१९ ॥
तेषाम् नरक-भेदानाम् अष्टाविंशति-कोटयः । एतेषाम् दारुणानाम् तु नरकाणाम् ॥ ३६।१९ ॥
teṣām naraka-bhedānām aṣṭāviṃśati-koṭayaḥ . eteṣām dāruṇānām tu narakāṇām .. 36.19 ..
कूश्माण्ड इति विख्यातः प्रलयार्कालनद्युतिः । करालवदनः क्रुद्धो वृत्तकोटरलोचनः ॥ ३६.२० ॥
इति । कराल-वदनः क्रुद्धः वृत्त-कोटर-लोचनः ॥ ३६।२० ॥
iti . karāla-vadanaḥ kruddhaḥ vṛtta-koṭara-locanaḥ .. 36.20 ..
टङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः । पापास्त्वेतेषु पच्यन्तेनराः कर्मानुरूपतः ॥ ३६.२१ ॥
टङ्कपाणिः तथाभूतैः भूतैः भूयोभिः आवृतः । पापाः तु एतेषु पच्यन्ते नराः कर्म-अनुरूपतः ॥ ३६।२१ ॥
ṭaṅkapāṇiḥ tathābhūtaiḥ bhūtaiḥ bhūyobhiḥ āvṛtaḥ . pāpāḥ tu eteṣu pacyante narāḥ karma-anurūpataḥ .. 36.21 ..
यातनाभिर्विचित्राभिरापापप्रक्षयान्तकं । प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः ॥ ३६.२२ ॥
यातनाभिः विचित्राभिः आ पाप-प्रक्षय-अन्तकम् । प्रायश्चित्त-उज्घिताः दृप्त-अ निज-धर्म-पराङ्मुखाः ॥ ३६।२२ ॥
yātanābhiḥ vicitrābhiḥ ā pāpa-prakṣaya-antakam . prāyaścitta-ujghitāḥ dṛpta-a nija-dharma-parāṅmukhāḥ .. 36.22 ..
परधर्मरताश्चोराः पतन्ति नरकाग्निषु । महापातकिनःकल्पं तिष्ठन्ति नरकाग्निषु ॥ ३६.२३ ॥
पर-धर्म-रताः चोराः पतन्ति नरक-अग्निषु । महापातकिनः कल्पम् तिष्ठन्ति नरक-अग्निषु ॥ ३६।२३ ॥
para-dharma-ratāḥ corāḥ patanti naraka-agniṣu . mahāpātakinaḥ kalpam tiṣṭhanti naraka-agniṣu .. 36.23 ..
मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः । उपपातकिनो मर्त्या देवदेवाग्नियज्वनां ॥ ३६.२४ ॥
मन्वन्तरम् पातकिनः देव-ब्रह्म-स्व-हारिणः । उपपातकिनः मर्त्याः देव-देव-अग्नि-यज्वनाम् ॥ ३६।२४ ॥
manvantaram pātakinaḥ deva-brahma-sva-hāriṇaḥ . upapātakinaḥ martyāḥ deva-deva-agni-yajvanām .. 36.24 ..
द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनं । अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः ॥ ३६.२५ ॥
द्विज-गो-गुरु-धर्माणाम् निन्दकाः ब्रह्मणः दिनम् । अन्ये चतुर्-युगम् मर्त्याः तद्-अर्धम् च नर-अधमाः ॥ ३६।२५ ॥
dvija-go-guru-dharmāṇām nindakāḥ brahmaṇaḥ dinam . anye catur-yugam martyāḥ tad-ardham ca nara-adhamāḥ .. 36.25 ..
तिष्ठन्ति नरके घोरे निजपापानुरूप्यतः । द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः ॥ ३६.२६ ॥
तिष्ठन्ति नरके घोरे निज-पाप-आनुरूप्यतः । द्यूत-स्त्री-विषय-आसक्ताः ये धर्म-विकलाः खलाः ॥ ३६।२६ ॥
tiṣṭhanti narake ghore nija-pāpa-ānurūpyataḥ . dyūta-strī-viṣaya-āsaktāḥ ye dharma-vikalāḥ khalāḥ .. 36.26 ..
पतन्ति तेषु घोरेषु नरकेषु नराधमाः । न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवं ॥ ३६.२७ ॥
पतन्ति तेषु घोरेषु नरकेषु नर-अधमाः । न श्रुण्वन्ति च ये मूढाः साधु-उक्तम् धर्म-गौरवम् ॥ ३६।२७ ॥
patanti teṣu ghoreṣu narakeṣu nara-adhamāḥ . na śruṇvanti ca ye mūḍhāḥ sādhu-uktam dharma-gauravam .. 36.27 ..
प्यत्यक्षं केन तद्दृष्टं प्रत्युऽऽतेति वदन्ति च । कामलोभाभिभूताश्च बिडालव्रतिनस्तथा ॥ ३६.२८ ॥
पि अत्यक्षम् केन तत् दृष्टम् वदन्ति च । काम-लोभ-अभिभूताः च बिडालव्रतिनः तथा ॥ ३६।२८ ॥
pi atyakṣam kena tat dṛṣṭam vadanti ca . kāma-lobha-abhibhūtāḥ ca biḍālavratinaḥ tathā .. 36.28 ..
पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः । यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः ॥ ३६.२९ ॥
पापिष्ठाः कर्म-हीनाः च जिह्वा-उपस्थ-परायणाः । यति-निन्दा-पराः ये च क्षेत्र-तीर्थ-आदि-दूषकाः ॥ ३६।२९ ॥
pāpiṣṭhāḥ karma-hīnāḥ ca jihvā-upastha-parāyaṇāḥ . yati-nindā-parāḥ ye ca kṣetra-tīrtha-ādi-dūṣakāḥ .. 36.29 ..
पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः । इहानुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयंभुवा ॥ ३६.३० ॥
पतन्ति तेषु ते मर्त्याः विवशाः पाप-बन्धनाः । इह अनुभूय निर्दिष्टम् आयुः मर्त्याः स्वयंभुवा ॥ ३६।३० ॥
patanti teṣu te martyāḥ vivaśāḥ pāpa-bandhanāḥ . iha anubhūya nirdiṣṭam āyuḥ martyāḥ svayaṃbhuvā .. 36.30 ..
निमित्तं किञ्चिदासाद्य विमुच्यन्तेकलेवरैः । लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजं ॥ ३६.३१ ॥
निमित्तम् किञ्चिद् आसाद्य विमुच्यन्ते कलेवरैः । लभन्ते ते पुनर् देबम् यातनीयम् स्व-कर्म-जम् ॥ ३६।३१ ॥
nimittam kiñcid āsādya vimucyante kalevaraiḥ . labhante te punar debam yātanīyam sva-karma-jam .. 36.31 ..
तन्मात्रगुणसंपन्नं सुखदुःखोपभोगदं । पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु ॥ ३६.३२ ॥
तन्मात्र-गुण-संपन्नम् सुख-दुःख-उपभोग-दम् । पापाः पाप-क्षयः यावत् पच्यन्ते नरक-अग्निषु ॥ ३६।३२ ॥
tanmātra-guṇa-saṃpannam sukha-duḥkha-upabhoga-dam . pāpāḥ pāpa-kṣayaḥ yāvat pacyante naraka-agniṣu .. 36.32 ..
आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा । यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः ॥ ३६.३३ ॥
आमल-प्रक्षयात् वह्नौ ध्मायन्ते धातवः यथा । यावन्तः जन्तवः स्वर्ग-भू-पातालेषु सर्वतस् ॥ ३६।३३ ॥
āmala-prakṣayāt vahnau dhmāyante dhātavaḥ yathā . yāvantaḥ jantavaḥ svarga-bhū-pātāleṣu sarvatas .. 36.33 ..
तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु । अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः ॥ ३६.३४ ॥
तावन्तः एव घोरेषु सन्ति अधस् नरक-अग्निषु । अष्टाविंशतिः एव उक्ताः क्षितेः नरक-कोटयः ॥ ३६।३४ ॥
tāvantaḥ eva ghoreṣu santi adhas naraka-agniṣu . aṣṭāviṃśatiḥ eva uktāḥ kṣiteḥ naraka-koṭayaḥ .. 36.34 ..
सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः । घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः ॥ ३६.३५ ॥
सप्तमस्य तलस्य अधस् घोरेतमसि संस्थिताः । घोर-आख्या घोर-तल-संस्थिताः ॥ ३६।३५ ॥
saptamasya talasya adhas ghoretamasi saṃsthitāḥ . ghora-ākhyā ghora-tala-saṃsthitāḥ .. 36.35 ..
अतिघोरा महाघोरा घोरघोरा च पञ्चमी । षष्ठी तरलताराख्या सप्तमी च भयावहा ॥ ३६.३६ ॥
अति घोरा महा-घोरा घोर-घोरा च पञ्चमी । षष्ठी तरलतार-आख्या सप्तमी च भयावहा ॥ ३६।३६ ॥
ati ghorā mahā-ghorā ghora-ghorā ca pañcamī . ṣaṣṭhī taralatāra-ākhyā saptamī ca bhayāvahā .. 36.36 ..
अष्टमी कालरात्री च नवमी च भयोत्कटा । दशमी तदधश्चण्णा महाचण्डा ततोऽप्यधः ॥ ३६.३७ ॥
अष्टमी कालरात्री च नवमी च भय-उत्कटा । दशमी तद्-अधस् चण्णा महाचण्डा ततस् अपि अधस् ॥ ३६।३७ ॥
aṣṭamī kālarātrī ca navamī ca bhaya-utkaṭā . daśamī tad-adhas caṇṇā mahācaṇḍā tatas api adhas .. 36.37 ..
चण्डकोलाहलाचान्या प्रचण्डानरकाधिका । पद्मापद्मवती भीमा भीमभीषणनायका ॥ ३६.३८ ॥
चण्डकोलाहला च अन्या प्रचण्डा-नरक-अधिका । ॥ ३६।३८ ॥
caṇḍakolāhalā ca anyā pracaṇḍā-naraka-adhikā . .. 36.38 ..
कराला विकराला च वज्रा विंशतिकास्मृता । त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ३६.३९ ॥
कराला विकराला च वज्रा विंशतिका स्मृता । त्रि-कोणा पञ्च-कोणा च सु दीर्घा परिवर्तुला ॥ ३६।३९ ॥
karālā vikarālā ca vajrā viṃśatikā smṛtā . tri-koṇā pañca-koṇā ca su dīrghā parivartulā .. 36.39 ..
सप्तभ्ॐआष्टभ्ॐआ च दीप्तायामेति चाष्टमी । इत्येता नामतः प्रोक्ता घोरा नरककोटयः ॥ ३६.४० ॥
च दीप्ता आयाम-इति च अष्टमी । इति एताः नामतः प्रोक्ताः घोराः नरक-कोटयः ॥ ३६।४० ॥
ca dīptā āyāma-iti ca aṣṭamī . iti etāḥ nāmataḥ proktāḥ ghorāḥ naraka-koṭayaḥ .. 36.40 ..
अष्टाविंशतिरेवैताः पापानां यातनात्मनां । तासां क्रमेण विज्ञेयाः पञ्च पञ्चैकनायकाः ॥ ३६.४१ ॥
अष्टाविंशतिः एव एताः पापानाम् यातना-आत्मनाम् । तासाम् क्रमेण विज्ञेयाः पञ्च पञ्च-एक-नायकाः ॥ ३६।४१ ॥
aṣṭāviṃśatiḥ eva etāḥ pāpānām yātanā-ātmanām . tāsām krameṇa vijñeyāḥ pañca pañca-eka-nāyakāḥ .. 36.41 ..
प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत । रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ॥ ३६.४२ ॥
प्रत्येकम् सर्व-कोटीनाम् नामतः तान् निबोधत । रौरवः प्रथमः तेषाम् रुदन्ते यत्र देहिनः ॥ ३६।४२ ॥
pratyekam sarva-koṭīnām nāmataḥ tān nibodhata . rauravaḥ prathamaḥ teṣām rudante yatra dehinaḥ .. 36.42 ..
महारौरवको यत्र महान्तोऽपि रुदन्तिच । तमश्शीतं यथा चोष्णं पञ्चाद्या नायकास्स्मृताः ॥ ३६.४३ ॥
महारौरवकः यत्र महान्तः अपि रुदन्ति च । तमः शीतम् यथा च उष्णम् पञ्च-आद्याः नायकाः स्मृताः ॥ ३६।४३ ॥
mahārauravakaḥ yatra mahāntaḥ api rudanti ca . tamaḥ śītam yathā ca uṣṇam pañca-ādyāḥ nāyakāḥ smṛtāḥ .. 36.43 ..
सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः । महामांसो विलोमश्च सुभीमश्च कटङ्कटः ॥ ३६.४४ ॥
सु घोरः सु तपः तीक्ष्णः पद्मः सम् जीवनः शतः । महामांसः विलोमः च सुभीमः च कटङ्कटः ॥ ३६।४४ ॥
su ghoraḥ su tapaḥ tīkṣṇaḥ padmaḥ sam jīvanaḥ śataḥ . mahāmāṃsaḥ vilomaḥ ca subhīmaḥ ca kaṭaṅkaṭaḥ .. 36.44 ..
तीव्रवेषी करालश्च विकरालः प्रकम्पनः । महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः ॥ ३६.४५ ॥
तीव्र-वेषी करालः च विकरालः प्रकम्पनः । महापद्मः सुपद्मः च कालवक्रः च गर्जनः ॥ ३६।४५ ॥
tīvra-veṣī karālaḥ ca vikarālaḥ prakampanaḥ . mahāpadmaḥ supadmaḥ ca kālavakraḥ ca garjanaḥ .. 36.45 ..
सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः । कुंभीपाकस्सुपाकश्च चक्रकश्चातिदारुणः ॥ ३६.४६ ॥
च । कुंभीपाकः सुपाकः च चक्रकः च अति दारुणः ॥ ३६।४६ ॥
ca . kuṃbhīpākaḥ supākaḥ ca cakrakaḥ ca ati dāruṇaḥ .. 36.46 ..
अङ्गारराशिफवनमसृक्पूयचहद्रस्तथा । तीक्ष्णायस्तुण्डशकुनिर्महासंवर्तकस्तता ॥ ३६.४७ ॥
अङ्गार-राशिफ-वनमसृज्-पूय-चहद्रः तथा । तीक्ष्णायस्तुण्ड-शकुनिः महा-संवर्तकः ॥ ३६।४७ ॥
aṅgāra-rāśipha-vanamasṛj-pūya-cahadraḥ tathā . tīkṣṇāyastuṇḍa-śakuniḥ mahā-saṃvartakaḥ .. 36.47 ..
सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु । उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली ॥ ३६.४८ ॥
sutaptābjassulopaśca pūtimāṃso dravatrapu | ucchvāsaśca nirucchvāso sudīrghaḥ kūṭaśālmalī || 36.48 ||
sutaptābjassulopaśca pūtimāṃso dravatrapu | ucchvāsaśca nirucchvāso sudīrghaḥ kūṭaśālmalī || 36.48 ||
दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः । ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः ॥ ३६.४९ ॥
दरीष्टः सु महा-नाद-प्रभावः सु प्रभावनः । सिंह-व्याघ्र-गज-आननाः ॥ ३६।४९ ॥
darīṣṭaḥ su mahā-nāda-prabhāvaḥ su prabhāvanaḥ . siṃha-vyāghra-gaja-ānanāḥ .. 36.49 ..
श्वसूकराजमहिषखरमेषहयाननाः । ग्रहकुंभीरनक्रास्याः सर्पकूर्मास्यवायसाः ॥ ३६.५० ॥
श्व-सूक-राज-महिष-खर-मेष-हय-आननाः । ॥ ३६।५० ॥
śva-sūka-rāja-mahiṣa-khara-meṣa-haya-ānanāḥ . .. 36.50 ..
कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः । गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः ॥ ३६.५१ ॥
कृध्र-उलूक-जलूकाः च शार्दूल-कपि-कर्कटाः । गन्धकः पूतिवक्रः च रक्ताक्षः पूतिमृत्तिकः ॥ ३६।५१ ॥
kṛdhra-ulūka-jalūkāḥ ca śārdūla-kapi-karkaṭāḥ . gandhakaḥ pūtivakraḥ ca raktākṣaḥ pūtimṛttikaḥ .. 36.51 ..
कणधूमस्तुषाग्निश्च कृमीणां निचयस्तथा । अमेध्यश्चाप्रतीकारो रुधिरान्नस्यभोजनं ॥ ३६.५२ ॥
कण-धूमः तुष-अग्निः च कृमीणाम् निचयः तथा । अमेध्यः च अप्रतीकारः रुधिर-अन्नस्य-भोजनम् ॥ ३६।५२ ॥
kaṇa-dhūmaḥ tuṣa-agniḥ ca kṛmīṇām nicayaḥ tathā . amedhyaḥ ca apratīkāraḥ rudhira-annasya-bhojanam .. 36.52 ..
लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः । जङ्कटस्सुविलासश्च विकटः कटपूतनः ॥ ३६.५३ ॥
लाला-भक्षम् अ भक्षः च सर्व-भक्षः च दारुणः । जङ्कटः सुविलासः च विकटः कटपूतनः ॥ ३६।५३ ॥
lālā-bhakṣam a bhakṣaḥ ca sarva-bhakṣaḥ ca dāruṇaḥ . jaṅkaṭaḥ suvilāsaḥ ca vikaṭaḥ kaṭapūtanaḥ .. 36.53 ..
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी । सुतप्तलोहशयनमेकपादप्रतप्तकं ॥ ३६.५४ ॥
अम्बरीषः कटाहः च कष्टा वैतरणी नदी । सु तप्त-लोह-शयनम् एक-पाद-प्रतप्तकम् ॥ ३६।५४ ॥
ambarīṣaḥ kaṭāhaḥ ca kaṣṭā vaitaraṇī nadī . su tapta-loha-śayanam eka-pāda-prataptakam .. 36.54 ..
असितालवनं घोरमस्थिभङ्गप्रपीडनं । तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनं ॥ ३६.५५ ॥
असिताल-वनम् घोरम् अस्थि-भङ्ग-प्रपीडनम् । तिल-अतसी-क्षु-यान्त्-राणिकूट-पाश-प्रमर्दनम् ॥ ३६।५५ ॥
asitāla-vanam ghoram asthi-bhaṅga-prapīḍanam . tila-atasī-kṣu-yānt-rāṇikūṭa-pāśa-pramardanam .. 36.55 ..
महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला । पर्वतक्षुरधाराख्यं तथा च मलपर्वतः ॥ ३६.५६ ॥
महा-छुल्ली सुछुल्ली च तप्त-लोह-मयी शिला । पर्वत-क्षुरधार-आख्यम् तथा च मल-पर्वतः ॥ ३६।५६ ॥
mahā-chullī suchullī ca tapta-loha-mayī śilā . parvata-kṣuradhāra-ākhyam tathā ca mala-parvataḥ .. 36.56 ..
मूत्रविष्ठांधकूपेषु क्षारकूपेषु पातनं । मुसलोलूखलं यन्त्रं शिलाशकललाङ्गलं ॥ ३६.५७ ॥
मूत्र-विष्ठा-अंधकूपेषु क्षारकूपेषु पातनम् । मुसल-उलूखलम् यन्त्रम् शिला-शकल-लाङ्गलम् ॥ ३६।५७ ॥
mūtra-viṣṭhā-aṃdhakūpeṣu kṣārakūpeṣu pātanam . musala-ulūkhalam yantram śilā-śakala-lāṅgalam .. 36.57 ..
तालपत्रासिगहनं महामशकमण्डपं । सम्मोहनोऽस्थिभङ्गश्च तपुःशूलमयोगुडः(?) ॥ ३६.५८ ॥
ताल-पत्र-असि-गहनम् महा-मशक-मण्डपम् । सम्मोहनः अस्थिभङ्गः च तपुःशूलम् अयः-गुडः(?) ॥ ३६।५८ ॥
tāla-patra-asi-gahanam mahā-maśaka-maṇḍapam . sammohanaḥ asthibhaṅgaḥ ca tapuḥśūlam ayaḥ-guḍaḥ(?) .. 36.58 ..
बहुदुःखं महादुःखं कश्मलं शमलं मलं । हालाहलो निरूपश्च सुरूपश्च तमोऽनुगः ॥ ३६.५९ ॥
बहु-दुःखम् महा-दुःखम् कश्मलम् शमलम् मलम् । हालाहलः निरूपः च सुरूपः च तमः-अनुगः ॥ ३६।५९ ॥
bahu-duḥkham mahā-duḥkham kaśmalam śamalam malam . hālāhalaḥ nirūpaḥ ca surūpaḥ ca tamaḥ-anugaḥ .. 36.59 ..
एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः । अष्टाविंशतिरेवैतैः क्रमशः पञ्चकाः स्मृताः ॥ ३६.६० ॥
एकपादः त्रिपादः च तीव्रवीचिः च रन्तिमः । अष्टाविंशतिः एव एतैः क्रमशस् पञ्चकाः स्मृताः ॥ ३६।६० ॥
ekapādaḥ tripādaḥ ca tīvravīciḥ ca rantimaḥ . aṣṭāviṃśatiḥ eva etaiḥ kramaśas pañcakāḥ smṛtāḥ .. 36.60 ..
कोटीनामानु पूर्व्येण पञ्च पञ्चैव नायकाः । रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः ॥ ३६.६१ ॥
कोटीनाम् अनु पूर्व्येण पञ्च पञ्च एव नायकाः । रौरव-आद्यम् च वीर्यम् च शतम् एकम् तु सर्वतस् ॥ ३६।६१ ॥
koṭīnām anu pūrvyeṇa pañca pañca eva nāyakāḥ . raurava-ādyam ca vīryam ca śatam ekam tu sarvatas .. 36.61 ..
चत्वारिंशत्समधिकं महानरकमण्डलं । तेषु पापाः प्रपच्यन्तेनराः कर्मानुरूपतः ॥ ३६.६२ ॥
चत्वारिंशत्-समधिकम् महानरक-मण्डलम् । तेषु पापाः प्रपच्यन्ते नराः कर्म-अनुरूपतः ॥ ३६।६२ ॥
catvāriṃśat-samadhikam mahānaraka-maṇḍalam . teṣu pāpāḥ prapacyante narāḥ karma-anurūpataḥ .. 36.62 ..
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशं । सुसूढं हस्तयोर्बद्ध्वातप्तशृङ्खलया नराः ॥ ३६.६३ ॥
यातनाभिः विचित्राभिः आकर्म-प्रक्षयात् भृशम् । सु सूढम् हस्तयोः बद्ध्वा अ तप्त-शृङ्खलयाः नराः ॥ ३६।६३ ॥
yātanābhiḥ vicitrābhiḥ ākarma-prakṣayāt bhṛśam . su sūḍham hastayoḥ baddhvā a tapta-śṛṅkhalayāḥ narāḥ .. 36.63 ..
महावृङ्गरशाखासुगम्यन्तेयमकिङ्करैः । डोलिताश्चातिवेगेन निस्संज्ञा यान्तियोजनं ॥ ३६.६४ ॥
महावृङ्गर-शाखासु गम्यन्ते इयम् अकिङ्करैः । डोलिताः च अति वेगेन निस्संज्ञाः यान्ति योजनम् ॥ ३६।६४ ॥
mahāvṛṅgara-śākhāsu gamyante iyam akiṅkaraiḥ . ḍolitāḥ ca ati vegena nissaṃjñāḥ yānti yojanam .. 36.64 ..
अन्तरिक्षस्थितानां च लोहभारशतं ततः । पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ३६.६५ ॥
अन्तरिक्ष-स्थितानाम् च लोह-भार-शतम् ततस् । पादयोः बध्यते तेषाम् यमदूतैः महा-बलैः ॥ ३६।६५ ॥
antarikṣa-sthitānām ca loha-bhāra-śatam tatas . pādayoḥ badhyate teṣām yamadūtaiḥ mahā-balaiḥ .. 36.65 ..
तेन भारेण महता भृशमाताडितानराः । आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः ॥ ३६.६६ ॥
तेन भारेण महता भृशम् आताडिताः अनराः । आख्यान्तः स्वानि कर्माणि तूष्णीम् तिष्टन्ति विह्वलाः ॥ ३६।६६ ॥
tena bhāreṇa mahatā bhṛśam ātāḍitāḥ anarāḥ . ākhyāntaḥ svāni karmāṇi tūṣṇīm tiṣṭanti vihvalāḥ .. 36.66 ..
ततस्तप्तैरग्नि वर्णैर्लोहदण्डैस्सकण्टकैः । हन्यन्ते किङ्करैर्घोरैस्समर्तात्पापकारिणः ॥ ३६.६७ ॥
ततस् तप्तैः अग्नि-वर्णैः लोह-दण्डैः स कण्टकैः । हन्यन्ते किङ्करैः घोरैः समर्तात् पाप-कारिणः ॥ ३६।६७ ॥
tatas taptaiḥ agni-varṇaiḥ loha-daṇḍaiḥ sa kaṇṭakaiḥ . hanyante kiṅkaraiḥ ghoraiḥ samartāt pāpa-kāriṇaḥ .. 36.67 ..
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः । समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः ॥ ३६.६८ ॥
ततस् क्षारेण दीप्तेन वह्नेः अपि विशेषतः । समन्ततः प्रलिप्यन्ते ताम्रेण च पुनर् पुनर् ॥ ३६।६८ ॥
tatas kṣāreṇa dīptena vahneḥ api viśeṣataḥ . samantataḥ pralipyante tāmreṇa ca punar punar .. 36.68 ..
द्रुतेनात्यन्तलिप्तेन क्षताङ्गा जर्जरीकृताः । पुनर्विधाय चाङ्गानि शिरःप्रभृति चक्रमाथ् ॥ ३६.६९ ॥
द्रुतेन अत्यन्त-लिप्तेन क्षत-अङ्गाः जर्जरीकृताः । पुनर् विधाय च अङ्गानि शिरः-प्रभृति चक्रमाथ् ॥ ३६।६९ ॥
drutena atyanta-liptena kṣata-aṅgāḥ jarjarīkṛtāḥ . punar vidhāya ca aṅgāni śiraḥ-prabhṛti cakramāth .. 36.69 ..
वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके । निष्ठापूर्णे तथाकूपे कृमीणांनिचये पुनः ॥ ३६.७० ॥
वार्ताक-वत् प्रपच्यन्ते तप्त-तैले कटाहके । निष्ठा-पूर्णे तथा आकूपे कृमीणाम् निचये पुनर् ॥ ३६।७० ॥
vārtāka-vat prapacyante tapta-taile kaṭāhake . niṣṭhā-pūrṇe tathā ākūpe kṛmīṇām nicaye punar .. 36.70 ..
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः । भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.७१ ॥
मेदः-असृज्-पूय-पूर्णायाम् वाप्याम् क्षिप्यन्ति? ते पुनर् । भक्ष्यन्ते कृमिभिः तीव्रैः लोहतुण्डैः च वायसैः ॥ ३६।७१ ॥
medaḥ-asṛj-pūya-pūrṇāyām vāpyām kṣipyanti? te punar . bhakṣyante kṛmibhiḥ tīvraiḥ lohatuṇḍaiḥ ca vāyasaiḥ .. 36.71 ..
श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः । पच्यन्ते चरुवद्वापि प्रदीप्ताङ्गारराशिषु ॥ ३६.७२ ॥
श्वभिः दंशैः वृकैः उग्रैः व्याघ्रैः च विकृतैः नरैः । पच्यन्ते चरु-वत् वा अपि प्रदीप्त-अङ्गार-राशिषु ॥ ३६।७२ ॥
śvabhiḥ daṃśaiḥ vṛkaiḥ ugraiḥ vyāghraiḥ ca vikṛtaiḥ naraiḥ . pacyante caru-vat vā api pradīpta-aṅgāra-rāśiṣu .. 36.72 ..
प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा । शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः ॥ ३६.७३ ॥
प्रोताः तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा । शैल-पीठैः अथ आक्रम्य घोरैः कर्मभिः आत्मजैः ॥ ३६।७३ ॥
protāḥ tīkṣṇeṣu śūleṣu narāḥ pāpena karmaṇā . śaila-pīṭhaiḥ atha ākramya ghoraiḥ karmabhiḥ ātmajaiḥ .. 36.73 ..
तिलवत्संप्रपीड्यन्ते चक्राख्ये नरके नराः । पच्यन्ते चातितप्तेषु लोहभाण्डेष्वनेकथा ॥ ३६.७४ ॥
तिल-वत् संप्रपीड्यन्ते चक्र-आख्ये नरके नराः । पच्यन्ते च अतितप्तेषु लोह-भाण्डेषु अनेकथा ॥ ३६।७४ ॥
tila-vat saṃprapīḍyante cakra-ākhye narake narāḥ . pacyante ca atitapteṣu loha-bhāṇḍeṣu anekathā .. 36.74 ..
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः । सर्देन्द्रियाणि संबद्ध्य क्रमात्पापेन यातनाः ॥ ३६.७५ ॥
तैल-पूर्ण-कटाहेषु सु तप्तेषु पुनर् पुनर् । सर्द-इन्द्रियाणि संबद्ध्य क्रमात् पापेन यातनाः ॥ ३६।७५ ॥
taila-pūrṇa-kaṭāheṣu su tapteṣu punar punar . sarda-indriyāṇi saṃbaddhya kramāt pāpena yātanāḥ .. 36.75 ..
भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च । ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते ॥ ३६.७६ ॥
भवन्ति घोराः प्रत्येकम् शरीरे तद्-कृतेन च । ये श्रुण्वन्ति हरेः निन्दाम् तेषाम् कर्णः प्रपूर्यते ॥ ३६।७६ ॥
bhavanti ghorāḥ pratyekam śarīre tad-kṛtena ca . ye śruṇvanti hareḥ nindām teṣām karṇaḥ prapūryate .. 36.76 ..
अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः । त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः ॥ ३६.७७ ॥
अग्निना ऋणैः अयःकीलैः तप्तैः ताम्र-आदिक-द्रुतैः । त्रपु-सीस-आरकूरकूट-आद्यैः क्षारेण जतुना पुनर् ॥ ३६।७७ ॥
agninā ṛṇaiḥ ayaḥkīlaiḥ taptaiḥ tāmra-ādika-drutaiḥ . trapu-sīsa-ārakūrakūṭa-ādyaiḥ kṣāreṇa jatunā punar .. 36.77 ..
सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः । क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः ॥ ३६.७८ ॥
सु तप्त-तीक्ष्ण-तैलेन वज्र-लेपेन च अन्ततस् । क्रमात् आपूर्यते कर्णौ? नरकेषु च यातनाः ॥ ३६।७८ ॥
su tapta-tīkṣṇa-tailena vajra-lepena ca antatas . kramāt āpūryate karṇau? narakeṣu ca yātanāḥ .. 36.78 ..
अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः । ये तु देव गृहं गत्वा तत्र सेवार्थमागताः ॥ ३६.७९ ॥
अनुक्रमेण सर्वेषु भ्रमन्ति एतेषु यातनाः । ये तु देव गृहम् गत्वा तत्र सेवा-अर्थम् आगताः ॥ ३६।७९ ॥
anukrameṇa sarveṣu bhramanti eteṣu yātanāḥ . ye tu deva gṛham gatvā tatra sevā-artham āgatāḥ .. 36.79 ..
अथ वान्यत्र तद्रूपा मदमोहपराजिताः । परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा ॥ ३६.८० ॥
अथ वा अन्यत्र तद्-रूपाः मद-मोह-पराजिताः । परदारान् च गच्छन्ति लुब्धाः स्निग्धेन चक्षुषा ॥ ३६।८० ॥
atha vā anyatra tad-rūpāḥ mada-moha-parājitāḥ . paradārān ca gacchanti lubdhāḥ snigdhena cakṣuṣā .. 36.80 ..
श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि । सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ॥ ३५.३८० ॥
श्रावयेत् यः बुधः भक्त्या तथा यः श्रुणुयात् अपि । सर्व-पाप-विनिर्मुक्ताः वैष्णवम् पदम् आप्नुयुः ॥ ३५।३८० ॥
śrāvayet yaḥ budhaḥ bhaktyā tathā yaḥ śruṇuyāt api . sarva-pāpa-vinirmuktāḥ vaiṣṇavam padam āpnuyuḥ .. 35.380 ..
अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः । सकामानां फलं काम्यमकामानां परं पदं ॥ ३५.३८१ ॥
अथ उत्सव-आदि-करणे फलम् वक्ष्ये मधुद्विषः । स कामानाम् फलम् काम्यम् अकामानाम् परम् पदम् ॥ ३५।३८१ ॥
atha utsava-ādi-karaṇe phalam vakṣye madhudviṣaḥ . sa kāmānām phalam kāmyam akāmānām param padam .. 35.381 ..
उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः । उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ॥ ३५.३८२ ॥
उत्सवम् तु प्रवक्ष्यन्ति देवदेव-अर्चनाम् सुराः । उत्साहः उत्सवः प्रोक्तः मनुष्याणाम् विशेषेतर् ॥ ३५।३८२ ॥
utsavam tu pravakṣyanti devadeva-arcanām surāḥ . utsāhaḥ utsavaḥ proktaḥ manuṣyāṇām viśeṣetar .. 35.382 ..
उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः । तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ॥ ३५.३८३ ॥
उद् इति उत्कृष्ट-शब्दः अयम् सवः यज्ञः उदाहृतः । तस्मात् उत्तम-यज्ञ-त्वात् उत्सवः परिभाष्यते ॥ ३५।३८३ ॥
ud iti utkṛṣṭa-śabdaḥ ayam savaḥ yajñaḥ udāhṛtaḥ . tasmāt uttama-yajña-tvāt utsavaḥ paribhāṣyate .. 35.383 ..
वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः । उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकं ॥ ३५.३८४ ॥
वाजिमेधाः तया आगानाम् तस्मात् देव-उत्सवः वरः । उत्सवम् देवदेवस्य यः कुर्यात् स्व-कुलम् स्वकम् ॥ ३५।३८४ ॥
vājimedhāḥ tayā āgānām tasmāt deva-utsavaḥ varaḥ . utsavam devadevasya yaḥ kuryāt sva-kulam svakam .. 35.384 ..
उत्तारयन्स्वयं विष्णोस्स याति परमं पदं । सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ॥ ३५.३८५ ॥
उत्तारयन् स्वयम् विष्णोः स याति परमम् पदम् । सवात् उत्तारणम् यस्मात् उत्सवः परिकीर्त्यते ॥ ३५।३८५ ॥
uttārayan svayam viṣṇoḥ sa yāti paramam padam . savāt uttāraṇam yasmāt utsavaḥ parikīrtyate .. 35.385 ..
स यज्ञो वो नरान्युष्मानुत्तारयति निश्चयं । इति वेदा वदन्तीति स उत्सव उदीर्य ते ॥ ३५.३८६ ॥
स यज्ञः वः नरान् युष्मान् उत्तारयति निश्चयम् । इति वेदाः वदन्ति इति सः उत्सवः उदीर्य ते ॥ ३५।३८६ ॥
sa yajñaḥ vaḥ narān yuṣmān uttārayati niścayam . iti vedāḥ vadanti iti saḥ utsavaḥ udīrya te .. 35.386 ..
वाजीमेधसहस्रेण यजतो यत्फलं भवेथ् । यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतं ॥ ३५.३८७ ॥
वाजीमेध-सहस्रेण यजतः यत् फलम् । यः च उत्सवेन यजते तयोः तुल्यम् फलम् ॥ ३५।३८७ ॥
vājīmedha-sahasreṇa yajataḥ yat phalam . yaḥ ca utsavena yajate tayoḥ tulyam phalam .. 35.387 ..
यागानामपि सर्वेषां फलमुत्सवकर्मणा । देवस्याश्नुवते सर्वं ये यजन्ते संशयः ॥ ३५.३८८ ॥
यागानाम् अपि सर्वेषाम् फलम् उत्सव-कर्मणा । देवस्य अश्नुवते सर्वम् ये यजन्ते संशयः ॥ ३५।३८८ ॥
yāgānām api sarveṣām phalam utsava-karmaṇā . devasya aśnuvate sarvam ye yajante saṃśayaḥ .. 35.388 ..
सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते । उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ॥ ३५.३८९ ॥
सवान् उत्क्रमते यस्मात् तस्मात् उत्सवः उछ्यते । उपकुर्वन्ति ये मर्त्याः देवस्य उत्सव-कर्मणि ॥ ३५।३८९ ॥
savān utkramate yasmāt tasmāt utsavaḥ uchyate . upakurvanti ye martyāḥ devasya utsava-karmaṇi .. 35.389 ..
कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु । ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ॥ ३५.३९० ॥
कर्माणा मनसा वाचा ते अपि यान्ति फलम् बहु । ग्रामे वा रगरे पत्तने वा महा-उत्सवः ॥ ३५।३९० ॥
karmāṇā manasā vācā te api yānti phalam bahu . grāme vā ragare pattane vā mahā-utsavaḥ .. 35.390 ..
यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ॥ ३५.३९१ ॥
यत्र प्रवर्तते विष्णोः संपदः सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा पि उत्सवः हरेः ॥ ३५।३९१ ॥
yatra pravartate viṣṇoḥ saṃpadaḥ santi tatra vai . yatra deśe janapade rāṣṭre vā pi utsavaḥ hareḥ .. 35.391 ..
इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा । पृष्ठेनानीय जङ्घे द्वे विन्यस्ते स्रन्धयोजिते ॥ ३६.९३ ॥
इतस् ततस् च धावन्ति दह्यमानाः तद्-अर्चिषा । पृष्ठेन आनीय जङ्घे द्वे विन्यस्ते स्रन्ध-योजिते ॥ ३६।९३ ॥
itas tatas ca dhāvanti dahyamānāḥ tad-arciṣā . pṛṣṭhena ānīya jaṅghe dve vinyaste srandha-yojite .. 36.93 ..
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः । बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः ॥ ३६.९४ ॥
तयोः मध्येन च आकृष्य बाहु-पृष्ठेन गाढतः । बद्ध्वा परस्परम् सर्वम् सु दृढम् पाप-रज्जुभिः ॥ ३६।९४ ॥
tayoḥ madhyena ca ākṛṣya bāhu-pṛṣṭhena gāḍhataḥ . baddhvā parasparam sarvam su dṛḍham pāpa-rajjubhiḥ .. 36.94 ..
पिण्डबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः । मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः ॥ ३६.९५ ॥
पिण्ड-बद्धम् दशन्ति एनम् भ्रमाराः तीक्ष्णलोह-जाः । मानिनाम् क्रोधिनाम् च एव तस्कराणाम् च दारुणाः ॥ ३६।९५ ॥
piṇḍa-baddham daśanti enam bhramārāḥ tīkṣṇaloha-jāḥ . māninām krodhinām ca eva taskarāṇām ca dāruṇāḥ .. 36.95 ..
पिण्डबद्धास्स्मृता याम्यमहाज्वाले च यातनाः । रिज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ॥ ३६.९६ ॥
पिण्ड-बद्धाः स्मृताः याम्य-महाज्वाले च यातनाः । रिज्जुभिः वेष्टित-अंगाः च प्रलिप्ताः कर्दमेन च ॥ ३६।९६ ॥
piṇḍa-baddhāḥ smṛtāḥ yāmya-mahājvāle ca yātanāḥ . rijjubhiḥ veṣṭita-aṃgāḥ ca praliptāḥ kardamena ca .. 36.96 ..
करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा । सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च ॥ ३६.९७ ॥
करीष-वत् प्रपच्यन्ते म्रियन्ते तेन ते तथा । सु तीक्ष्ण-क्षार-तोयेन शिलासु च ॥ ३६।९७ ॥
karīṣa-vat prapacyante mriyante tena te tathā . su tīkṣṇa-kṣāra-toyena śilāsu ca .. 36.97 ..
अपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः ॥ ३६.९८ ॥
अपाप-संक्षयात् पापाः घृष्यन्ते चन्दनम् यथा । शरीर-अभ्यन्तर-गतैः सन्ततम् कृमिभिः नराः ॥ ३६।९८ ॥
apāpa-saṃkṣayāt pāpāḥ ghṛṣyante candanam yathā . śarīra-abhyantara-gataiḥ santatam kṛmibhiḥ narāḥ .. 36.98 ..
भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशं । कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ॥ ३६.९९ ॥
भक्ष्यन्ते तीव्र-वदनैः आदेह प्रक्षयात् भृशम् । कृमीणाम् निचये क्षिप्ताः पूति-मांसस्य राशिषु ॥ ३६।९९ ॥
bhakṣyante tīvra-vadanaiḥ ādeha prakṣayāt bhṛśam . kṛmīṇām nicaye kṣiptāḥ pūti-māṃsasya rāśiṣu .. 36.99 ..
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः । सुतप्तवज्रलेपेन शरीरमुपलिप्यते ॥ ३६.१०० ॥
तिष्ठन्ति उद्विग्न-हृदयाः पर्वत-अभ्यन्तर-अर्दिताः । सु तप्त-वज्र-लेपेन शरीरम् उपलिप्यते ॥ ३६।१०० ॥
tiṣṭhanti udvigna-hṛdayāḥ parvata-abhyantara-arditāḥ . su tapta-vajra-lepena śarīram upalipyate .. 36.100 ..
जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च । आरोप्यते शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः ॥ ३६.१०३ ॥
जिघ्रन्ति शिरसा धारयन्ति च । आरोप्यते शिरः तेषाम् सु तप्तैः लोह-शङ्कुभिः ॥ ३६।१०३ ॥
jighranti śirasā dhārayanti ca . āropyate śiraḥ teṣām su taptaiḥ loha-śaṅkubhiḥ .. 36.103 ..
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमाथ् । शरीरे च महाघोराश्चित्रा नरकयातनाः ॥ ३६.१०४ ॥
ततस् क्षारेण दीप्तेन तैल-ताम्र-आदिभिः । शरीरे च महा-घोराः चित्राः नरक-यातनाः ॥ ३६।१०४ ॥
tatas kṣāreṇa dīptena taila-tāmra-ādibhiḥ . śarīre ca mahā-ghorāḥ citrāḥ naraka-yātanāḥ .. 36.104 ..
बहुधोत्पाट्यते जीह्वा येऽसत्य प्रियवादिनः । संदंशेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ३६.१०५ ॥
बहुधा उत्पाट्यते जीह्वा ये असत्य प्रिय-वादिनः । संदंशेन सु तप्तेन प्रपीड्य उरसि पादतः ॥ ३६।१०५ ॥
bahudhā utpāṭyate jīhvā ye asatya priya-vādinaḥ . saṃdaṃśena su taptena prapīḍya urasi pādataḥ .. 36.105 ..
मिध्यागमप्रवक्तुश्च जीह्वा चास्य विनिर्गता । क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते ॥ ३६.१०६ ॥
मिध्या आगम-प्रवक्तुः च जीह्वा च अस्य विनिर्गता । क्रोश-अर्ध-जीह्वा-विस्तीर्णैः हलैः तीक्ष्णैः प्रपाट्यते ॥ ३६।१०६ ॥
midhyā āgama-pravaktuḥ ca jīhvā ca asya vinirgatā . krośa-ardha-jīhvā-vistīrṇaiḥ halaiḥ tīkṣṇaiḥ prapāṭyate .. 36.106 ..
निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुं । तेषां वज्रजलूकाभिर्मुखमादश्यते यतः ॥ ३६.१०७ ॥
निर्भर्त्सयन्ति ये क्रूराः मातरम् पितरम् गुरुम् । तेषाम् वज्र-जलूकाभिः मुखम् आदश्यते यतस् ॥ ३६।१०७ ॥
nirbhartsayanti ye krūrāḥ mātaram pitaram gurum . teṣām vajra-jalūkābhiḥ mukham ādaśyate yatas .. 36.107 ..
ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः । द्रुतैरापूर्यतेऽत्यर्थं तप्तलोहैश्च तन्मुखं ॥ ३६.१०८ ॥
ततस् क्षारेण ताम्रेण त्रपुणा सिच्यते पुनर् । द्रुतैः आपूर्यते अत्यर्थम् तप्त-लोहैः च तद्-मुखम् ॥ ३६।१०८ ॥
tatas kṣāreṇa tāmreṇa trapuṇā sicyate punar . drutaiḥ āpūryate atyartham tapta-lohaiḥ ca tad-mukham .. 36.108 ..
इतस्ततः पुनर्धावन्बद्ध्यते यमकिङ्करैः । ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकं ॥ ३६.१०९ ॥
इतस् ततस् पुनर् धावन् बद्ध्यते यम-किङ्करैः । ये निन्दन्ति महात्मानम् आचार्यम् धर्म-देशिकम् ॥ ३६।१०९ ॥
itas tatas punar dhāvan baddhyate yama-kiṅkaraiḥ . ye nindanti mahātmānam ācāryam dharma-deśikam .. 36.109 ..
विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतं । तेषामुरसि कन्थे च जिह्मायां दन्तसन्धिषु ॥ ३६.११० ॥
विष्णु-भक्तान् च सम्मूढाः तद्-धर्मम् च इह शाश्वतम् । तेषाम् उरसि कन्थे च जिह्मायाम् दन्त-सन्धिषु ॥ ३६।११० ॥
viṣṇu-bhaktān ca sammūḍhāḥ tad-dharmam ca iha śāśvatam . teṣām urasi kanthe ca jihmāyām danta-sandhiṣu .. 36.110 ..
तालुन्योष्ठे च नासायां मूर्ध्नि सर्वांगसन्धिषु । अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशङ्कवः ॥ ३६.१११ ॥
तालुनि ओष्ठे च नासायाम् मूर्ध्नि सर्व-अंग-सन्धिषु । अग्नि-वर्णाः सु तप्ताः च त्रि-शिखाः लोह-शङ्कवः ॥ ३६।१११ ॥
tāluni oṣṭhe ca nāsāyām mūrdhni sarva-aṃga-sandhiṣu . agni-varṇāḥ su taptāḥ ca tri-śikhāḥ loha-śaṅkavaḥ .. 36.111 ..
आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः । ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ॥ ३६.११२ ॥
आरोप्यन्ते सु बहुशस् स्थानेषु एतेषु मुद्गरैः । ततस् क्षारेण तप्तेन ताम्रेण त्रपुणा पुनर् ॥ ३६।११२ ॥
āropyante su bahuśas sthāneṣu eteṣu mudgaraiḥ . tatas kṣāreṇa taptena tāmreṇa trapuṇā punar .. 36.112 ..
तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः । यातनाश्च महाचित्राश्शरीरस्यापि सर्वतः ॥ ३६.११३ ॥
तप्त-लोह-आदिभिः सर्वैः आपूर्यन्ते समन्ततः । यातनाः च महा-चित्राः शरीरस्य अपि सर्वतस् ॥ ३६।११३ ॥
tapta-loha-ādibhiḥ sarvaiḥ āpūryante samantataḥ . yātanāḥ ca mahā-citrāḥ śarīrasya api sarvatas .. 36.113 ..
निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ ३६.११४ ॥
निश्शेष-नरकेषु एवम् भ्रमन्ति क्रमशस् पुनर् । ये गृह्णन्ति पर-द्रव्यम् पद्भ्याम् विप्रम् स्पृशन्ति च ॥ ३६।११४ ॥
niśśeṣa-narakeṣu evam bhramanti kramaśas punar . ye gṛhṇanti para-dravyam padbhyām vipram spṛśanti ca .. 36.114 ..
देवोपकरणांगं च ज्ञानं च लिखितं क्वचिथ् । हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः ॥ ३६.११५ ॥
देव-उपकरण-अंगम् च ज्ञानम् च लिखितम् । हस्त-पाद-आघनैः ते साम् आपूर्यन्ते समन्ततः ॥ ३६।११५ ॥
deva-upakaraṇa-aṃgam ca jñānam ca likhitam . hasta-pāda-āghanaiḥ te sām āpūryante samantataḥ .. 36.115 ..
क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः । नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥ ३६.११६ ॥
क्षार-ताम्र-आदिभिः धीप्तैः दह्यन्ते क्रमशस् पुनर् । नरकेषु च सर्वेषु विचित्राः देह-यातनाः ॥ ३६।११६ ॥
kṣāra-tāmra-ādibhiḥ dhīptaiḥ dahyante kramaśas punar . narakeṣu ca sarveṣu vicitrāḥ deha-yātanāḥ .. 36.116 ..
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः । प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा ॥ ३६.११७ ॥
भवन्ति बहुशस् कष्टाः पाणि-पाद-समुद्भवाः । प्रदत्ताम् देवदेवस्य तद्-नाम्ना पूजकस्य वा ॥ ३६।११७ ॥
bhavanti bahuśas kaṣṭāḥ pāṇi-pāda-samudbhavāḥ . pradattām devadevasya tad-nāmnā pūjakasya vā .. 36.117 ..
पदार्धिनामथान्येषां हठाद्वृत्तिं हरन्तिये । ते वै नरककूपेषु पच्यमानास्स्वकर्मभिः ॥ ३६.११८ ॥
पद-अर्धिनाम् अथ अन्येषाम् हठात् वृत्तिम् हरन्ति ये । ते वै नरक-कूपेषु पच्यमानाः स्व-कर्मभिः ॥ ३६।११८ ॥
pada-ardhinām atha anyeṣām haṭhāt vṛttim haranti ye . te vai naraka-kūpeṣu pacyamānāḥ sva-karmabhiḥ .. 36.118 ..
व्रजन्तियातना भूयो नातियन्तियामाङ्गणं । ये देवायतनारामवापीकूपमठाङ्गणं ॥ ३६.११९ ॥
व्रजन्ति यातनाः भूयस् । ये देवायतन-आराम-वापी-कूप-मठ-अङ्गणम् ॥ ३६।११९ ॥
vrajanti yātanāḥ bhūyas . ye devāyatana-ārāma-vāpī-kūpa-maṭha-aṅgaṇam .. 36.119 ..
उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च । व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनं ॥ ३६.१२० ॥
उपद्रवन्ति पापिष्ठाः नृपाः तत्र वसन्ति च । व्यायाम-उद्वर्तन-अभ्यङ्ग-स्नान-पान-अन्न-भोजनम् ॥ ३६।१२० ॥
upadravanti pāpiṣṭhāḥ nṛpāḥ tatra vasanti ca . vyāyāma-udvartana-abhyaṅga-snāna-pāna-anna-bhojanam .. 36.120 ..
क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च । ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः ॥ ३६.१२१ ॥
क्रीडनम् मैथुनम् द्यूतम् अशौच-आदि आचरन्ति च । ते नधैः विविधैः घोरैः इक्षु यन्त्र-आदि-पीडनैः ॥ ३६।१२१ ॥
krīḍanam maithunam dyūtam aśauca-ādi ācaranti ca . te nadhaiḥ vividhaiḥ ghoraiḥ ikṣu yantra-ādi-pīḍanaiḥ .. 36.121 ..
निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकं । देवायतनपर्यन्ते देवारामे च कुत्रचिथ् ॥ ३६.१२२ ॥
निरय-अग्निषु पच्यन्ते यावत् आचन्द्रतारकम् । देवायतन-पर्यन्ते देवारामे च ॥ ३६।१२२ ॥
niraya-agniṣu pacyante yāvat ācandratārakam . devāyatana-paryante devārāme ca .. 36.122 ..
समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा । तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, ॥ ३६.१२३ ॥
समुत्सृजन्ति ये मूढाः पुरीषम् मूत्रम् एव वा । तेषाम् शिश्नम् स वृषणम् हन्यते लोह-मुद्गरैः, ॥ ३६।१२३ ॥
samutsṛjanti ye mūḍhāḥ purīṣam mūtram eva vā . teṣām śiśnam sa vṛṣaṇam hanyate loha-mudgaraiḥ, .. 36.123 ..
सूचीभीर्नेत्रपर्यन्तैरग्निवर्णैस्सकण्टकैः । अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः ॥ ३६.१२४ ॥
सूचीभीः नेत्र-पर्यन्तैः अग्नि-वर्णैः स कण्टकैः । अरोप्यन्ते गुदे तेषाम् यावत् मूर्ध्नि विनिर्गतैः ॥ ३६।१२४ ॥
sūcībhīḥ netra-paryantaiḥ agni-varṇaiḥ sa kaṇṭakaiḥ . aropyante gude teṣām yāvat mūrdhni vinirgataiḥ .. 36.124 ..
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्यते गाढं गुदं शिश्नं च देहिनां ॥ ३६.१२५ ॥
ततस् क्षारेण महता ताम्रेण त्रपुणा पुनर् । द्रुतेन आपूर्यते गाढम् गुदम् शिश्नम् च देहिनाम् ॥ ३६।१२५ ॥
tatas kṣāreṇa mahatā tāmreṇa trapuṇā punar . drutena āpūryate gāḍham gudam śiśnam ca dehinām .. 36.125 ..
मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनं । तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितं ॥ ३६.१२६ ॥
मनः सर्व-इन्द्रियाणाम् च यस्मात् उक्तम् प्रवर्तनम् । तस्मात् इन्द्रिय-दुःखेन जायते तत् सु दुःखितम् ॥ ३६।१२६ ॥
manaḥ sarva-indriyāṇām ca yasmāt uktam pravartanam . tasmāt indriya-duḥkhena jāyate tat su duḥkhitam .. 36.126 ..
अन्न पानमदत्तं यैर्मूढैर्नाप्यनुमोदितं । धने सत्यपि ये दानं न च यच्छन्ति तृष्णया ॥ ३६.१२७ ॥
अन्न-पानम् अदत्तम् यैः मूढैः न अपि अनुमोदितम् । धने सति अपि ये दानम् न च यच्छन्ति तृष्णया ॥ ३६।१२७ ॥
anna-pānam adattam yaiḥ mūḍhaiḥ na api anumoditam . dhane sati api ye dānam na ca yacchanti tṛṣṇayā .. 36.127 ..
अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे । तेजोहीना रणे बद्धा हस्तपादानधारिताः ॥ ३६.१२८ ॥
अतिथिम् च अवमन्यन्ते काल-प्राप्तम् गृहाश्रमे । तेजः-हीनाः रणे बद्धाः हस्त-पादान-धारिताः ॥ ३६।१२८ ॥
atithim ca avamanyante kāla-prāptam gṛhāśrame . tejaḥ-hīnāḥ raṇe baddhāḥ hasta-pādāna-dhāritāḥ .. 36.128 ..
विस्तारितांगाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः । हस्तपादललाटेषु कीलिता लोहशङ्कुभिः ॥ ३६.१२९ ॥
विस्तारित-अंगाः शुष्यन्ति तिष्ठन्ति अब्द-शतम् नराः । हस्त-पाद-ललाटेषु कीलिताः लोह-शङ्कुभिः ॥ ३६।१२९ ॥
vistārita-aṃgāḥ śuṣyanti tiṣṭhanti abda-śatam narāḥ . hasta-pāda-lalāṭeṣu kīlitāḥ loha-śaṅkubhiḥ .. 36.129 ..
नित्यं च विकृतं वक्रं कीलकद्वयघाटितं । कृमिभिःप्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.१३० ॥
नित्यम् च विकृतम् वक्रम् कीलक-द्वय-घाटितम् । कृमिभिः प्राणिभिः च उग्रैः लोहतुण्डैः च वायसैः ॥ ३६।१३० ॥
nityam ca vikṛtam vakram kīlaka-dvaya-ghāṭitam . kṛmibhiḥ prāṇibhiḥ ca ugraiḥ lohatuṇḍaiḥ ca vāyasaiḥ .. 36.130 ..
उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते । जिह्वा ततः प्रभिन्ना च गाढं शृङ्खलया पुनः ॥ ३६.१३१ ॥
उपद्रवैः बहुविधैः मुखम् अन्तर् प्रपीड्यते । जिह्वा ततस् प्रभिन्ना च गाढम् शृङ्खलया पुनर् ॥ ३६।१३१ ॥
upadravaiḥ bahuvidhaiḥ mukham antar prapīḍyate . jihvā tatas prabhinnā ca gāḍham śṛṅkhalayā punar .. 36.131 ..
तिष्टन्ति लंबमानाश्च लोहाकारास्सुवर्तुलाः । ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः ॥ ३६.१३२ ॥
तिष्टन्ति लंबमानाः च लोह-आकाराः सु वर्तुलाः । ततस् स्व-मांसम् उत्कृष्य तिल-मात्र-प्रमाणतः ॥ ३६।१३२ ॥
tiṣṭanti laṃbamānāḥ ca loha-ākārāḥ su vartulāḥ . tatas sva-māṃsam utkṛṣya tila-mātra-pramāṇataḥ .. 36.132 ..
खादितुं दीयते तेषां सूच्यग्रेण च शोणितं । यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः ॥ ३६.१३३ ॥
खादितुम् दीयते तेषाम् सूचि-अग्रेण च शोणितम् । यथा निर्मांस-ताम् प्राप्ताः कालेन बहुधा पुनर् ॥ ३६।१३३ ॥
khāditum dīyate teṣām sūci-agreṇa ca śoṇitam . yathā nirmāṃsa-tām prāptāḥ kālena bahudhā punar .. 36.133 ..
ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते । भिद्यन्ते वर्ष धाराभिश्शुष्यन्ते वायुना पुनः ॥ ३६.१३४ ॥
ततस् क्षारेण दीप्तेन तत् शरीरम् प्रलिप्यते । भिद्यन्ते वर्ष-धाराभिः शुष्यन्ते वायुना पुनर् ॥ ३६।१३४ ॥
tatas kṣāreṇa dīptena tat śarīram pralipyate . bhidyante varṣa-dhārābhiḥ śuṣyante vāyunā punar .. 36.134 ..
पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः । इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः ॥ ३६.१३५ ॥
पुनर् तैलेन सिच्यन्ते सु तप्तेन समन्ततः । इति चित्रविधैः घोरैः मध्यमानाः स्व-कर्म-जैः ॥ ३६।१३५ ॥
punar tailena sicyante su taptena samantataḥ . iti citravidhaiḥ ghoraiḥ madhyamānāḥ sva-karma-jaiḥ .. 36.135 ..
म्रियन्ते नैव पापिष्ठा यावत्पापस्य संक्षयः । तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ॥ ३६.१३६ ॥
म्रियन्ते न एव पापिष्ठाः यावत् पापस्य संक्षयः । तस्मात् पापम् न कुर्वीत चञ्चले जीविते सति ॥ ३६।१३६ ॥
mriyante na eva pāpiṣṭhāḥ yāvat pāpasya saṃkṣayaḥ . tasmāt pāpam na kurvīta cañcale jīvite sati .. 36.136 ..
एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ ३६.१३७ ॥
एवम् क्लिष्टाः विशिष्टाः च स अवशेषेण कर्मणा । ततस् क्षितिम् समासाद्य जायन्ते देहिनः पुनर् ॥ ३६।१३७ ॥
evam kliṣṭāḥ viśiṣṭāḥ ca sa avaśeṣeṇa karmaṇā . tatas kṣitim samāsādya jāyante dehinaḥ punar .. 36.137 ..
स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः । तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु, ॥ ३६.१३८ ॥
स्थावराः विविधाः क्रूराः तृण-गुल्म-आदि-भेदितः । तत्र अनुभूय दुःखानि जायन्ते कीट-योनिषु, ॥ ३६।१३८ ॥
sthāvarāḥ vividhāḥ krūrāḥ tṛṇa-gulma-ādi-bheditaḥ . tatra anubhūya duḥkhāni jāyante kīṭa-yoniṣu, .. 36.138 ..
निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमाथ् । संक्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु ॥ ३६.१३९ ॥
निष्क्रान्ताः कीट-योनिभ्यः जायन्ते पक्षिणः क्रमाथ् । संक्लिष्टाः पक्षि-भेवेन भवन्ति मृग-जातिषु ॥ ३६।१३९ ॥
niṣkrāntāḥ kīṭa-yonibhyaḥ jāyante pakṣiṇaḥ kramāth . saṃkliṣṭāḥ pakṣi-bhevena bhavanti mṛga-jātiṣu .. 36.139 ..
मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः ॥ ३६.१४० ॥
मार्गम् दुःघम् अतिक्रम्य जायन्ते पशु-योनिषु । क्रमात् गो-योनिम् आसाद्य जायन्ते मानुषे पुनर् ॥ ३६।१४० ॥
mārgam duḥgham atikramya jāyante paśu-yoniṣu . kramāt go-yonim āsādya jāyante mānuṣe punar .. 36.140 ..
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवाथ् । ततो मनुष्यतां प्राप्य तत्तत्पापानुसारतः ॥ ३६.१४१ ॥
व्युत्क्रमेण अपि मानुष्यम् प्राप्यते पुण्य-गौरवाथ् । ततस् मनुष्य-ताम् प्राप्य तद्-तद्-पाप-अनुसारतः ॥ ३६।१४१ ॥
vyutkrameṇa api mānuṣyam prāpyate puṇya-gauravāth . tatas manuṣya-tām prāpya tad-tad-pāpa-anusārataḥ .. 36.141 ..
संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः । देवाभिगमनम्स्नातो धृतोर्ध्वपुण्ड्रश्च प्रयतश्शान्तमानसः ॥ ३६.१४२ ॥
संयुताम् पाप-चिह्नेः च वर्तन्ते प्राणिनः ततस् । देव-अभिगमनम् स्नातः धृत-ऊर्ध्व-पुण्ड्रः च प्रयतः शान्त-मानसः ॥ ३६।१४२ ॥
saṃyutām pāpa-cihneḥ ca vartante prāṇinaḥ tatas . deva-abhigamanam snātaḥ dhṛta-ūrdhva-puṇḍraḥ ca prayataḥ śānta-mānasaḥ .. 36.142 ..
अव्यग्रश्चान्यकार्येषु गृहीत्वा शक्तितस्स्वयं । फलादीन्युपहाराणि गन्धान्सुमनसस्तथा ॥ ३६.१४३ ॥
अव्यग्रः च अन्य-कार्येषु गृहीत्वा शक्तितः स्वयम् । फल-आदीनि उपहाराणि गन्धान् सुमनसः तथा ॥ ३६।१४३ ॥
avyagraḥ ca anya-kāryeṣu gṛhītvā śaktitaḥ svayam . phala-ādīni upahārāṇi gandhān sumanasaḥ tathā .. 36.143 ..
हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे । उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुं ॥ ३६.१४४ ॥
हिरण्यम् हरिम् उद्दिश्य येन सर्वाः कृताः इमे । उपहार-आदिभिः सम्यक् अभिसच्छेत् जगद्गुरुम् ॥ ३६।१४४ ॥
hiraṇyam harim uddiśya yena sarvāḥ kṛtāḥ ime . upahāra-ādibhiḥ samyak abhisacchet jagadgurum .. 36.144 ..
पत्रैः पुष्पैःफलैर्वापि यथाशक्ति समर्पितैः । अयत्नसुलभेनापि तोयेनापि स तुष्यति ॥ ३६.१४५ ॥
पत्रैः पुष्पैः फलैः वा अपि यथाशक्ति समर्पितैः । अयत्न-सुलभेन अपि तोयेन अपि स तुष्यति ॥ ३६।१४५ ॥
patraiḥ puṣpaiḥ phalaiḥ vā api yathāśakti samarpitaiḥ . ayatna-sulabhena api toyena api sa tuṣyati .. 36.145 ..
पादचार्येव गच्छेत्तु देवालयमतन्द्रितः । अशक्तोऽप्यथ वाशक्त आढ्यो वा दुर्विधोऽध वा ॥ ३६.१४६ ॥
पाद-चारी एव गच्छेत् तु देवालयम् अतन्द्रितः । अशक्तः अपि अथ वा अशक्तः आढ्यः वा दुर्विधः अध वा ॥ ३६।१४६ ॥
pāda-cārī eva gacchet tu devālayam atandritaḥ . aśaktaḥ api atha vā aśaktaḥ āḍhyaḥ vā durvidhaḥ adha vā .. 36.146 ..
आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः । न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ ३६.१४७ ॥
आधिराज्ये जगद्धातुः अधिकारी । न हि संहरते ज्योत्स्नाम् चन्द्रः चण्डाल-वेश्मनि ॥ ३६।१४७ ॥
ādhirājye jagaddhātuḥ adhikārī . na hi saṃharate jyotsnām candraḥ caṇḍāla-veśmani .. 36.147 ..
न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति । भोगायतनमे तेषा मेकाकारं कलेपरं ॥ ३६.१४८ ॥
न वा सौधेषु सम्राजाम् सुधा-धाराः प्रवर्षति । तेषाम् मेक-आकारम् कलेपरम् ॥ ३६।१४८ ॥
na vā saudheṣu samrājām sudhā-dhārāḥ pravarṣati . teṣām meka-ākāram kaleparam .. 36.148 ..
अनुगृह्णाति दाता तस्य नोच्चानचो विधिः विष्णुपारम्यं । देवतेह परञ्ज्योतिरेक एव परः पुमान् ॥ ३६.१४९ ॥
अनुगृह्णाति दाता तस्य न उच्चानचः विधिः । देवता इह परन् ज्योतिः एकः एव परः पुमान् ॥ ३६।१४९ ॥
anugṛhṇāti dātā tasya na uccānacaḥ vidhiḥ . devatā iha paran jyotiḥ ekaḥ eva paraḥ pumān .. 36.149 ..
स एव बहुधा लोके मायया भिद्यते स्वया । विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा ॥ ३६.१५० ॥
सः एव बहुधा लोके मायया भिद्यते स्वया । विष्णु-आख्यः स स्वयम् मायम् प्रकृतिम् व्यज्य स द्विधा ॥ ३६।१५० ॥
saḥ eva bahudhā loke māyayā bhidyate svayā . viṣṇu-ākhyaḥ sa svayam māyam prakṛtim vyajya sa dvidhā .. 36.150 ..
स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते । विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः ॥ ३६.१५१ ॥
स्थितः त्रिधा च सत्त्व-आदि-गुण-भेदात् प्रतीयते । विष्णु-ब्रह्म-शिव-आख्यः असौ स्थिति-उत्पति-अन्त-कृत् स्मृतः ॥ ३६।१५१ ॥
sthitaḥ tridhā ca sattva-ādi-guṇa-bhedāt pratīyate . viṣṇu-brahma-śiva-ākhyaḥ asau sthiti-utpati-anta-kṛt smṛtaḥ .. 36.151 ..
विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः । चतस्र एव विज्ञेया वेदवर्ण युगाश्रयाः ॥ ३६.१५२ ॥
विष्णु-आद्याः मूर्तयः तस्य धर्म-ज्ञान-आदि-भेदतः । चतस्रः एव विज्ञेयाः वेदवर्ण युग-आश्रयाः ॥ ३६।१५२ ॥
viṣṇu-ādyāḥ mūrtayaḥ tasya dharma-jñāna-ādi-bhedataḥ . catasraḥ eva vijñeyāḥ vedavarṇa yuga-āśrayāḥ .. 36.152 ..
विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छानिरुद्धकः । पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ॥ ३६.२५३ ॥
विष्णुः च पुरुषः सत्यः हि अच्युतः छ अनिरुद्धकः । पञ्चधा उपनिषद्-भेदात् महाभूत-त्वम् आगतः ॥ ३६।२५३ ॥
viṣṇuḥ ca puruṣaḥ satyaḥ hi acyutaḥ cha aniruddhakaḥ . pañcadhā upaniṣad-bhedāt mahābhūta-tvam āgataḥ .. 36.253 ..
मनश्श्रोत्रादिभिष्षड्भिरङ्गैश्च हृदयादिभिः । षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते ॥ ३६.१५४ ॥
मनः-श्रोत्र-आदिभिः षड्भिः अङ्गैः च हृदय-आदिभिः । षष्-अक्षर-आत्मकः नित्यम् ऋषिभिः च एष भिद्यते ॥ ३६।१५४ ॥
manaḥ-śrotra-ādibhiḥ ṣaḍbhiḥ aṅgaiḥ ca hṛdaya-ādibhiḥ . ṣaṣ-akṣara-ātmakaḥ nityam ṛṣibhiḥ ca eṣa bhidyate .. 36.154 ..
सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा । सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः ॥ ३६.१५५ ॥
सप्त-व्याहृतिभिः लो कैः छन्दोभिः क्रतुभिः तथा । सप्तधा भिद्यमानः असौ विज्ञातव्यः विचक्षणैः ॥ ३६।१५५ ॥
sapta-vyāhṛtibhiḥ lo kaiḥ chandobhiḥ kratubhiḥ tathā . saptadhā bhidyamānaḥ asau vijñātavyaḥ vicakṣaṇaiḥ .. 36.155 ..
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च । अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ॥ ३६.१५६ ॥
अष्ट-प्रकृतिभिः च असौ अष्ट-मूर्तिभिः एव च । अष्ट-अक्षर-मयः नित्यम् अष्टधा च एष भिद्यते ॥ ३६।१५६ ॥
aṣṭa-prakṛtibhiḥ ca asau aṣṭa-mūrtibhiḥ eva ca . aṣṭa-akṣara-mayaḥ nityam aṣṭadhā ca eṣa bhidyate .. 36.156 ..
नारायणो नृसिंहश्च वराहो वामनस्तथा । रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः ॥ ३६.१५७ ॥
नारायणः नृसिंहः च वराहः वामनः तथा । राम-ब्रह्म-इन्द्र-सूर्याः च चन्द्रः तैः न वधा स्थितिः ॥ ३६।१५७ ॥
nārāyaṇaḥ nṛsiṃhaḥ ca varāhaḥ vāmanaḥ tathā . rāma-brahma-indra-sūryāḥ ca candraḥ taiḥ na vadhā sthitiḥ .. 36.157 ..
इन्द्रोऽग्निश्ट यमश्चैव निरृतिर्वरुणस्तथा । वायुस्सोमस्तथेशानो ब्रह्मानन्तश्चते दश ॥ ३६.१५८ ॥
यमः च एव निरृतिः वरुणः तथा । वायुः सोमः तथा ईशानः ब्रह्मा अनन्तः च ते दश ॥ ३६।१५८ ॥
yamaḥ ca eva nirṛtiḥ varuṇaḥ tathā . vāyuḥ somaḥ tathā īśānaḥ brahmā anantaḥ ca te daśa .. 36.158 ..
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमानपैः । स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः ॥ ३६.१५९ ॥
एकादश-इन्द्रियैः भिन्नः तथा द्वादश-मानपैः । स त्रयोदशधा च एव विश्वेदेव-आदिभिः स्थितः ॥ ३६।१५९ ॥
ekādaśa-indriyaiḥ bhinnaḥ tathā dvādaśa-mānapaiḥ . sa trayodaśadhā ca eva viśvedeva-ādibhiḥ sthitaḥ .. 36.159 ..
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः । तिथिभिः पञ्चदशधा भिन्नो ज्ञेयस्सु वै प्रभुः ॥ ३६.१६० ॥
स चतुर्दशधा भिन्नः मनुभिः चाक्षुष-आदिभिः । तिथिभिः पञ्चदशधा भिन्नः वै प्रभुः ॥ ३६।१६० ॥
sa caturdaśadhā bhinnaḥ manubhiḥ cākṣuṣa-ādibhiḥ . tithibhiḥ pañcadaśadhā bhinnaḥ vai prabhuḥ .. 36.160 ..
स्वरैष्षोडशधा भिन्नोदिक्कोणावान्तरैस्तथा । मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः ॥ ३६.१६१ ॥
स्वरैः षोडशधा भिन्न-उदिश्-कोण-अवान्तरैः तथा । मूर्ति-अन्तरैः च विज्ञेयः बहुधा तस्य विस्तरः ॥ ३६।१६१ ॥
svaraiḥ ṣoḍaśadhā bhinna-udiś-koṇa-avāntaraiḥ tathā . mūrti-antaraiḥ ca vijñeyaḥ bahudhā tasya vistaraḥ .. 36.161 ..
एकद्वित्रिचतुःपञ्चषडाद्या विश्वतो मुखाः । मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः ॥ ३६.१६२ ॥
एक-द्वि-त्रि-चतुर्-पञ्च-षष्-आद्याः विश्वतस् मुखाः । मुख-भेदाः समाख्याताः तस्य विश्वात्मनः हरेः ॥ ३६।१६२ ॥
eka-dvi-tri-catur-pañca-ṣaṣ-ādyāḥ viśvatas mukhāḥ . mukha-bhedāḥ samākhyātāḥ tasya viśvātmanaḥ hareḥ .. 36.162 ..
द्व्यादयो विश्वतःपाणेर्भुजभेदस्तथा स्मृताः । विविधाभरणा दीर्घा विविधायुधधारिणः ॥ ३६.१६३ ॥
द्वि-आदयः विश्वतस् पाणेः भुज-भेदः तथा स्मृताः । विविध-आभरणाः दीर्घाः विविध-आयुध-धारिणः ॥ ३६।१६३ ॥
dvi-ādayaḥ viśvatas pāṇeḥ bhuja-bhedaḥ tathā smṛtāḥ . vividha-ābharaṇāḥ dīrghāḥ vividha-āyudha-dhāriṇaḥ .. 36.163 ..
मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुण्डलाः । हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुन्तलाः ॥ ३६.१६४ ॥
मूर्धानः च एव तस्य उक्ताः लसत्-मुकुट-कुण्डलाः । हैम-ऊर्ध्व-पुड्र-लावण्य-प्रभवाः वक्र-कुन्तलाः ॥ ३६।१६४ ॥
mūrdhānaḥ ca eva tasya uktāḥ lasat-mukuṭa-kuṇḍalāḥ . haima-ūrdhva-puḍra-lāvaṇya-prabhavāḥ vakra-kuntalāḥ .. 36.164 ..
स्मेरारुणाधरास्स्ॐयाः प्रसादामृतवर्षिणः । सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ॥ ३६.१६५ ॥
प्रसाद-अमृत-वर्षिणः । सहस्रम् पौरुषे सूक्ते पादाः च अक्षीणि अनेकशस् ॥ ३६।१६५ ॥
prasāda-amṛta-varṣiṇaḥ . sahasram pauruṣe sūkte pādāḥ ca akṣīṇi anekaśas .. 36.165 ..
हिरण्यगर्भोऽनेकात्मा विमलश्श्याम एव च । नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः ॥ ३६.१६६ ॥
हिरण्यगर्भः अनेक-आत्मा विमलः श्यामः एव च । नीलः पीतः तथा रक्तः नाना वर्णः प्रकीर्तितः ॥ ३६।१६६ ॥
hiraṇyagarbhaḥ aneka-ātmā vimalaḥ śyāmaḥ eva ca . nīlaḥ pītaḥ tathā raktaḥ nānā varṇaḥ prakīrtitaḥ .. 36.166 ..
चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे । ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ॥ ३६.१६७ ॥
तस्य नयने वाम-दक्षिणे । ब्रह्माणम् आहुः मूर्धानम् केशान् च अस्य वनस्पतीन् ॥ ३६।१६७ ॥
tasya nayane vāma-dakṣiṇe . brahmāṇam āhuḥ mūrdhānam keśān ca asya vanaspatīn .. 36.167 ..
आस्यं वेदाश्च येऽनन्ता तोयं रुधिरमेव च । उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा ॥ ३६.१६८ ॥
आस्यम् वेदाः च ये अनन्ता तोयम् रुधिरम् एव च । उपजिह्वा तु तस्य उक्तम् उपश्रुति-शतम् तथा ॥ ३६।१६८ ॥
āsyam vedāḥ ca ye anantā toyam rudhiram eva ca . upajihvā tu tasya uktam upaśruti-śatam tathā .. 36.168 ..
भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितं । रुद्रा एकादश ज्ञे या स्तस्य कण्ठं समाश्रिता ॥ ३६.१६९ ॥
भ्रुवोः मध्ये तथा रुद्रम् भृगुम् मनसि संस्थितम् । रुद्राः एकादश ज्ञे याः स्तस्य कण्ठम् समाश्रिता ॥ ३६।१६९ ॥
bhruvoḥ madhye tathā rudram bhṛgum manasi saṃsthitam . rudrāḥ ekādaśa jñe yāḥ stasya kaṇṭham samāśritā .. 36.169 ..
नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतोऽपि च । धर्माधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ ॥ ३६.१७० ॥
नक्षत्र-ग्रह-ताराः च दन्ताः स्युः मरुतः अपि च । धर्म-अधर्मौ तथा ऊर्ध्व-अधर-उष्ठौ तु परिकीर्तितौ ॥ ३६।१७० ॥
nakṣatra-graha-tārāḥ ca dantāḥ syuḥ marutaḥ api ca . dharma-adharmau tathā ūrdhva-adhara-uṣṭhau tu parikīrtitau .. 36.170 ..
इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती । दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः ॥ ३६.१७१ ॥
इन्द्र-अग्नी तालुके तस्य जिह्मा च एव सरस्वती । दिशः च विदिशः च एव संस्मृताः ॥ ३६।१७१ ॥
indra-agnī tāluke tasya jihmā ca eva sarasvatī . diśaḥ ca vidiśaḥ ca eva saṃsmṛtāḥ .. 36.171 ..
वायुःप्राणेषु विज्ञेयस्साध्याश्चांगुलयःस्मृताः । ऋषयो रोमकूपेषु सागरा वस्तिगोचराः ॥ ३६.१७२ ॥
वायुः प्राणेषु विज्ञेयः साध्याः च अंगुलयः स्मृताः । ऋषयः रोमकूपेषु सागराः वस्ति-गोचराः ॥ ३६।१७२ ॥
vāyuḥ prāṇeṣu vijñeyaḥ sādhyāḥ ca aṃgulayaḥ smṛtāḥ . ṛṣayaḥ romakūpeṣu sāgarāḥ vasti-gocarāḥ .. 36.172 ..
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः । जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः ॥ ३६.१७३ ॥
नद्यः च वसुधा च अस्य नागाः च नलके स्थिताः । जानु-स्थौ अश्विनौ देवौ पर्वताः च ऊरु-संस्थिताः ॥ ३६।१७३ ॥
nadyaḥ ca vasudhā ca asya nāgāḥ ca nalake sthitāḥ . jānu-sthau aśvinau devau parvatāḥ ca ūru-saṃsthitāḥ .. 36.173 ..
गुह्योऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः । नखाग्रेषु च विज्ञेया दिव्या ओषधयस्तथा ॥ ३६.१७४ ॥
गुह्यः अस्य गुह्यकाः ज्ञेयाः वसवः च उरसि स्थिताः । नख-अग्रेषु च विज्ञेयाः दिव्याः ओषधयः तथा ॥ ३६।१७४ ॥
guhyaḥ asya guhyakāḥ jñeyāḥ vasavaḥ ca urasi sthitāḥ . nakha-agreṣu ca vijñeyāḥ divyāḥ oṣadhayaḥ tathā .. 36.174 ..
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे । ऋतवो बाहुमूले तु मासाः करतलेषु च ॥ ३६.१७५ ॥
नासिकायाः पुटौ ज्ञेयौ अयने दक्षिण-उत्तरे । ऋतवः बाहुमूले तु मासाः कर-तलेषु च ॥ ३६।१७५ ॥
nāsikāyāḥ puṭau jñeyau ayane dakṣiṇa-uttare . ṛtavaḥ bāhumūle tu māsāḥ kara-taleṣu ca .. 36.175 ..
ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः । यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ॥ ३६.१७६ ॥
ललाट-अग्रे तथा सिद्धाः भ्रुवोः मेघाः स विद्युतः । यक्ष-किन्नर-गन्धर्वाः दैतेयाः दानवाः तथा ॥ ३६।१७६ ॥
lalāṭa-agre tathā siddhāḥ bhruvoḥ meghāḥ sa vidyutaḥ . yakṣa-kinnara-gandharvāḥ daiteyāḥ dānavāḥ tathā .. 36.176 ..
राक्षसाश्चारणाश्चास्य जठरं समुसाश्रिताः । पितरः प्रेतकूश्माण्ड वेतालप्रमथास्तथा ॥ ३६.१७७ ॥
राक्षसाः चारणाः च अस्य जठरम् स मुसा-आश्रिताः । पितरः प्रेत-कूश्माण्ड वेताल-प्रमथाः तथा ॥ ३६।१७७ ॥
rākṣasāḥ cāraṇāḥ ca asya jaṭharam sa musā-āśritāḥ . pitaraḥ preta-kūśmāṇḍa vetāla-pramathāḥ tathā .. 36.177 ..
पातालगोचराश्चास्य पावयुग्मं समाश्रिताः । पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः ॥ ३६.१७८ ॥
पाताल-गोचराः च अस्य पाव-युग्मम् समाश्रिताः । पार्श्वयोः तस्य विज्ञेयाः क्रियाः वेदैः अभिष्टुताः ॥ ३६।१७८ ॥
pātāla-gocarāḥ ca asya pāva-yugmam samāśritāḥ . pārśvayoḥ tasya vijñeyāḥ kriyāḥ vedaiḥ abhiṣṭutāḥ .. 36.178 ..
अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च । स्वाहास्वधावषट्का रास्सर्वेऽस्य हृदये श्रिताः ॥ ३६.१७९ ॥
अग्निहोत्र-आदि-कर्माणि वर्ण-आश्रम-हितानि च । स्वाहा-स्वधा-वषट्काः राः सर्वे अस्य हृदये श्रिताः ॥ ३६।१७९ ॥
agnihotra-ādi-karmāṇi varṇa-āśrama-hitāni ca . svāhā-svadhā-vaṣaṭkāḥ rāḥ sarve asya hṛdaye śritāḥ .. 36.179 ..
नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियथ् । अनन्तानन्तरूपस्य यथायोगं समन्वितं ॥ ३६.१८० ॥
नाम्नाम् शतम् सहस्रम् वा तथा अनन्तम् । अनन्त-अनन्त-रूपस्य यथायोगम् समन्वितम् ॥ ३६।१८० ॥
nāmnām śatam sahasram vā tathā anantam . ananta-ananta-rūpasya yathāyogam samanvitam .. 36.180 ..
मूर्तयश्चास्य सर्वास्तास्संख्यातीताः प्रकीर्तिताः । देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः ॥ ३६.१८१ ॥
मूर्तयः च अस्य सर्वाः ताः संख्या-अतीताः प्रकीर्तिताः । देव-आदीनाम् च सर्वेषाम् मूर्तयः तत्र संश्रिताः ॥ ३६।१८१ ॥
mūrtayaḥ ca asya sarvāḥ tāḥ saṃkhyā-atītāḥ prakīrtitāḥ . deva-ādīnām ca sarveṣām mūrtayaḥ tatra saṃśritāḥ .. 36.181 ..
तस्मादनन्तन्संप्रोक्तः पुंसूक्ते तदुदीरितं । सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्ऽऽ ॥ ३६.१८२ ॥
पुंसूक्ते तत् उदीरितम् । सहस्र-शीर्षा पुरुषः सहस्र-अक्षः सहस्र-पाद् ॥ ३६।१८२ ॥
puṃsūkte tat udīritam . sahasra-śīrṣā puruṣaḥ sahasra-akṣaḥ sahasra-pād .. 36.182 ..
ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः । ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि ॥ ३६.१८३ ॥
ब्राह्मणाः यस्य क्षत्रियाः यस्य बाहुतः । ऊरुतः यस्य वै जाताः वैश्याः च इति नराः भुवि ॥ ३६।१८३ ॥
brāhmaṇāḥ yasya kṣatriyāḥ yasya bāhutaḥ . ūrutaḥ yasya vai jātāḥ vaiśyāḥ ca iti narāḥ bhuvi .. 36.183 ..
चन्द्रमा मनसो जातश्चक्षुषोर्मिहिरस्तथा । मूखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ ३६.१८४ ॥
चन्द्रमाः मनसः जातः चक्षुषा ऊर्मि-हिरः तथा । मूखात् इन्द्रः तथा अग्निः च प्राणात् वायुः अजायत ॥ ३६।१८४ ॥
candramāḥ manasaḥ jātaḥ cakṣuṣā ūrmi-hiraḥ tathā . mūkhāt indraḥ tathā agniḥ ca prāṇāt vāyuḥ ajāyata .. 36.184 ..
नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत । पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य संबभौ ॥ ३६.१८५ ॥
नाभ्यायस्य अन्तरिक्षम् च शिरसः द्यौः अजायत । पद्भ्याम् भूमिः दिशः श्रोत्रात् यस्य देवस्य संबभौ ॥ ३६।१८५ ॥
nābhyāyasya antarikṣam ca śirasaḥ dyauḥ ajāyata . padbhyām bhūmiḥ diśaḥ śrotrāt yasya devasya saṃbabhau .. 36.185 ..
तमीदृशं महाविष्णुमप्रमेयमनामयं । तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते ॥ ३६.१८६ ॥
तम् ईदृशम् महा-विष्णुम् अप्रमेयम् अनामयम् । तद्-प्रसादात् ऋते ज्ञातुम् वक्तुम् वा ना एव शक्यते ॥ ३६।१८६ ॥
tam īdṛśam mahā-viṣṇum aprameyam anāmayam . tad-prasādāt ṛte jñātum vaktum vā nā eva śakyate .. 36.186 ..
सर्वदेवमयो विष्णुः सर्वे देवास्तदात्मकाः । अशेषं वाङ्मयं चेदं लोकालोकं चराचरं ॥ ३६.१८७ ॥
सर्व-देव-मयः विष्णुः सर्वे देवाः तद्-आत्मकाः । अशेषम् वाच्-मयम् च इदम् लोक-अलोकम् चराचरम् ॥ ३६।१८७ ॥
sarva-deva-mayaḥ viṣṇuḥ sarve devāḥ tad-ātmakāḥ . aśeṣam vāc-mayam ca idam loka-alokam carācaram .. 36.187 ..
वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशोऽन्तरं । सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः ॥ ३६.१८८ ॥
वैष्णव्या व्याप्यते शक्त्या वायुना इव दिशः अन्तरम् । सर्वे विष्णु-मयाः देवाः सर्व-शास्त्रेषु कीर्तिताः ॥ ३६।१८८ ॥
vaiṣṇavyā vyāpyate śaktyā vāyunā iva diśaḥ antaram . sarve viṣṇu-mayāḥ devāḥ sarva-śāstreṣu kīrtitāḥ .. 36.188 ..
आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति । सर्वभूतहितायैव निष्कलस्सकलःस्थितः ॥ ३६.१८९ ॥
आधार-आधेय-भावेन व्याप्य तिष्ठति । सर्व-भूत-हिताय एव निष्कलः सकलः स्थितः ॥ ३६।१८९ ॥
ādhāra-ādheya-bhāvena vyāpya tiṣṭhati . sarva-bhūta-hitāya eva niṣkalaḥ sakalaḥ sthitaḥ .. 36.189 ..
निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः । सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखं ॥ ३६.१९० ॥
निष्कलः सकलः च एवम् ज्ञेयः विष्णुः सनातनः । सर्वतस् पाणि-पादम् तत् सर्वतस् अक्षि-शिरः-मुखम् ॥ ३६।१९० ॥
niṣkalaḥ sakalaḥ ca evam jñeyaḥ viṣṇuḥ sanātanaḥ . sarvatas pāṇi-pādam tat sarvatas akṣi-śiraḥ-mukham .. 36.190 ..
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतं ॥ ३६.१९१ ॥
सर्वतस् श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति, । सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जतम् ॥ ३६।१९१ ॥
sarvatas śrutimat loke sarvam āvṛtya tiṣṭhati, . sarva-indriya-guṇa-ābhāsam sarva-indriya-vivarjatam .. 36.191 ..
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । अविभक्तं च भूतेषु विभक्तमिव च स्थितं ॥ ३६.१९२ ॥
असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च । अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् ॥ ३६।१९२ ॥
asaktam sarva-bhṛt ca eva nirguṇam guṇa-bhoktṛ ca . avibhaktam ca bhūteṣu vibhaktam iva ca sthitam .. 36.192 ..
भूतभर्तृच तद्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥ ३६.१९३ ॥
भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च । ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते ॥ ३६।१९३ ॥
bhūta-bhartṛ ca tat jñeyam grasiṣṇu prabhaviṣṇu ca . jyotiṣām api tat jyotiḥ tamasaḥ param ucyate .. 36.193 ..
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितं । तच्चाद्यो जगतामीशः परेशः परमेश्वरः ॥ ३६.१९४ ॥
ज्ञानम् ज्ञेयम् ज्ञान-गम्यम् हृदि सर्वस्य विष्ठितम् । तत् च आद्यः जगताम् ईशः पर-ईशः परमेश्वरः ॥ ३६।१९४ ॥
jñānam jñeyam jñāna-gamyam hṛdi sarvasya viṣṭhitam . tat ca ādyaḥ jagatām īśaḥ para-īśaḥ parameśvaraḥ .. 36.194 ..
परावरस्वरूपेण विष्णुस्सर्वहृदि स्थितः । स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान्स्थितः ॥ ३६.१९५ ॥
परावर-स्वरूपेण विष्णुः सर्व-हृदि स्थितः । स्थूल-सूक्ष्म-पर-त्वेन त्रिधा च भगवान् स्थितः ॥ ३६।१९५ ॥
parāvara-svarūpeṇa viṣṇuḥ sarva-hṛdi sthitaḥ . sthūla-sūkṣma-para-tvena tridhā ca bhagavān sthitaḥ .. 36.195 ..
प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः । आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः ॥ ३६.१९६ ॥
प्रभविष्णुः महा-विष्णुः सदा विष्णुः स्मृतः च सः । आत्मा स हि अन्तरात्मा च परमात्मा च संस्मृतः ॥ ३६।१९६ ॥
prabhaviṣṇuḥ mahā-viṣṇuḥ sadā viṣṇuḥ smṛtaḥ ca saḥ . ātmā sa hi antarātmā ca paramātmā ca saṃsmṛtaḥ .. 36.196 ..
वैराजं लैङ्गिकं चैव बहिरन्तश्च सर्वशः । शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगं ॥ ३६.१९७ ॥
वैराजम् लैङ्गिकम् च एव बहिस् अन्तर् च सर्वशस् । शब्द-आदिः चित्-मयम् रूपम् जाग्रत्-स्वप्न-सुषुप्ति-गम् ॥ ३६।१९७ ॥
vairājam laiṅgikam ca eva bahis antar ca sarvaśas . śabda-ādiḥ cit-mayam rūpam jāgrat-svapna-suṣupti-gam .. 36.197 ..
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद्बुधः । वेदे च भगवच्छास्त्रे सांख्ये योगे तथैव च ॥ ३६.१९८ ॥
मन्त्र-अनुस्वार-नादेषु त्रयम् अन्वेषयेत् बुधः । वेदे च भगवत्-शास्त्रे सांख्ये योगे तथा एव च ॥ ३६।१९८ ॥
mantra-anusvāra-nādeṣu trayam anveṣayet budhaḥ . vede ca bhagavat-śāstre sāṃkhye yoge tathā eva ca .. 36.198 ..
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः । पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगथ् ॥ ३६.१९९ ॥
धर्म-शास्त्रे पुराणे च मुनिभिः देव-मानुषैः । पठ्यते निखिलैः नित्यम् विश्वम् विष्णु-मयम् ॥ ३६।१९९ ॥
dharma-śāstre purāṇe ca munibhiḥ deva-mānuṣaiḥ . paṭhyate nikhilaiḥ nityam viśvam viṣṇu-mayam .. 36.199 ..
यच्च भूतं भविष्यच्च वर्तमानं तु किं चन । इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च ॥ ३६.२०० ॥
यत् च भूतम् भविष्यत् च वर्तमानम् तु किम् चन । इन्द्रियाणि इन्द्रिय-अर्थाः च भूत-अन्तर् करणानि च ॥ ३६।२०० ॥
yat ca bhūtam bhaviṣyat ca vartamānam tu kim cana . indriyāṇi indriya-arthāḥ ca bhūta-antar karaṇāni ca .. 36.200 ..
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा । नियतिश्च कला कालः सर्वमन्यच्च तन्मयं ॥ ३६.२०१ ॥
अव्यक्तम् त्रिगुणा माया विद्या धर्म-आदयः तथा । नियतिः च कला कालः सर्वम् अन्यत् च तन्मयम् ॥ ३६।२०१ ॥
avyaktam triguṇā māyā vidyā dharma-ādayaḥ tathā . niyatiḥ ca kalā kālaḥ sarvam anyat ca tanmayam .. 36.201 ..
विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः । सर्वभूतानि चैवाचौ न तदस्तीह यन्न सः ॥ ३६.२०२ ॥
विष्णुः एव परः देवः सर्व-भूतेषु अवस्थितः । सर्व-भूतानि च एव आचौ न तत् अस्ति इह यत् न सः ॥ ३६।२०२ ॥
viṣṇuḥ eva paraḥ devaḥ sarva-bhūteṣu avasthitaḥ . sarva-bhūtāni ca eva ācau na tat asti iha yat na saḥ .. 36.202 ..
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः । तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ॥ ३६.२०३ ॥
देव-असुर-आदयः मर्त्याः पशवः च सरीसृपाः । तरुवल्ली-तृणौषध्यः महा-अभ्र-अशनि-विद्युतः ॥ ३६।२०३ ॥
deva-asura-ādayaḥ martyāḥ paśavaḥ ca sarīsṛpāḥ . taruvallī-tṛṇauṣadhyaḥ mahā-abhra-aśani-vidyutaḥ .. 36.203 ..
शैलाब्धिसरिदारामनगराणि सरांसि च । लोकाश्चान न्तकालोऽग्नि प्रेतावासोरगालयाः ॥ ३६.२०४ ॥
शैल-अब्धि-सरित्-आराम-नगराणि सरांसि च । लोकाः च अनन्त-कालः अग्नि-प्रेत-आवास-उरग-आलयाः ॥ ३६।२०४ ॥
śaila-abdhi-sarit-ārāma-nagarāṇi sarāṃsi ca . lokāḥ ca ananta-kālaḥ agni-preta-āvāsa-uraga-ālayāḥ .. 36.204 ..
सप्तभूरादयो ब्राह्मशैववैष्णवसंज्ञिताः । सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनात्मना ॥ ३६.२०५ ॥
सप्त-भूः आदयः ब्राह्म-शैव-वैष्णव-संज्ञिताः । सर्वे च विष्णुना एकेन व्याप्ताः सर्व-आत्मना आत्मना ॥ ३६।२०५ ॥
sapta-bhūḥ ādayaḥ brāhma-śaiva-vaiṣṇava-saṃjñitāḥ . sarve ca viṣṇunā ekena vyāptāḥ sarva-ātmanā ātmanā .. 36.205 ..
वराहो भार्गवस्सिंहो रामश्रीधरवामनाः । अश्विकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलं ॥ ३६.२०६ ॥
वराहः भार्गवः सिंहः राम-श्रीधर-वामनाः । अश्वि-कृष्णौ च दिक्षु एषाम् लोक-एरण्डम् सह अखिलम् ॥ ३६।२०६ ॥
varāhaḥ bhārgavaḥ siṃhaḥ rāma-śrīdhara-vāmanāḥ . aśvi-kṛṣṇau ca dikṣu eṣām loka-eraṇḍam saha akhilam .. 36.206 ..
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः । विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः ॥ ३६.२०७ ॥
यत् च अन् उक्तम् अशेषेण विष्णोः एताः विभूतयः । विश्व-व्यापितया इव एष विष्णुः वृद्धैः उधीरितः ॥ ३६।२०७ ॥
yat ca an uktam aśeṣeṇa viṣṇoḥ etāḥ vibhūtayaḥ . viśva-vyāpitayā iva eṣa viṣṇuḥ vṛddhaiḥ udhīritaḥ .. 36.207 ..
पुरुसंज्ञेशरीरेऽस्मिन्शयनात्पुरुषः स्मृतः । सत्यश्छाबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः ॥ ३६.२०८ ॥
पुरु-संज्ञे शरीरे अस्मिन् शयनात् पुरुषः स्मृतः । सत्यः छा-अ बाधित-अर्थ-त्वात् नित्य-त्वात् स प्रकीर्तितः ॥ ३६।२०८ ॥
puru-saṃjñe śarīre asmin śayanāt puruṣaḥ smṛtaḥ . satyaḥ chā-a bādhita-artha-tvāt nitya-tvāt sa prakīrtitaḥ .. 36.208 ..
अच्युतोऽच्यवनादेव स हरिः समदीरितः । अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनाथ् ॥ ३६.२०९ ॥
अच्युतः अच्यवनात् एव स हरिः समदीरितः । अनिरुद्धः तथा प्रोक्तः सर्वस्मात् अनिरोधनाथ् ॥ ३६।२०९ ॥
acyutaḥ acyavanāt eva sa hariḥ samadīritaḥ . aniruddhaḥ tathā proktaḥ sarvasmāt anirodhanāth .. 36.209 ..
वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान् । आदिमूर्तेस्समाकृष्टः स्मृतस्संकर्षणः प्रभुः ॥ ३६.२१० ॥
वसनाः तर्व-भूतेषु वासुदेव-त्वम् ईयिवान् । आदि-मूर्तेः समाकृष्टः स्मृतः संकर्षणः प्रभुः ॥ ३६।२१० ॥
vasanāḥ tarva-bhūteṣu vāsudeva-tvam īyivān . ādi-mūrteḥ samākṛṣṭaḥ smṛtaḥ saṃkarṣaṇaḥ prabhuḥ .. 36.210 ..
प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः । वैकुण्ठामलवर्णत्वाद्वैकुण्ठश्टायमुच्यते ॥ ३६.२११ ॥
प्रद्युम्नः द्युम्न-पृष्ठ-त्वात् त्रिधामा धामभिः त्रिभिः । वैकुण्ठ-अमल-वर्ण-त्वात् वैकुण्ठश्टायम् उच्यते ॥ ३६।२११ ॥
pradyumnaḥ dyumna-pṛṣṭha-tvāt tridhāmā dhāmabhiḥ tribhiḥ . vaikuṇṭha-amala-varṇa-tvāt vaikuṇṭhaśṭāyam ucyate .. 36.211 ..
लीयेते प्रलये त्वस्मिन्केशावित्येष केशवः । नरनारीप्रकर्तृत्वान्नराणां चायनादयं ॥ ३६.२१२ ॥
लीयेते प्रलये तु अस्मिन् केशौ इति एष केशवः । नर-नारी-प्रकर्तृ-त्वात् नराणाम् च अयनात् अयम् ॥ ३६।२१२ ॥
līyete pralaye tu asmin keśau iti eṣa keśavaḥ . nara-nārī-prakartṛ-tvāt narāṇām ca ayanāt ayam .. 36.212 ..
नारायणो नरोद्धानामयनत्वादपाञ्च सः । माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः ॥ ३६.२१३ ॥
नारायणः सः । माधवः मधुषु उत्पत्त्या धव-त्वात् वा श्रियः स्मृतः ॥ ३६।२१३ ॥
nārāyaṇaḥ saḥ . mādhavaḥ madhuṣu utpattyā dhava-tvāt vā śriyaḥ smṛtaḥ .. 36.213 ..
गोविन्दतीति गोविन्दो गावो विन्दन्ति यं तथा । असुरं मधुनामानं हन्तीति मधुसूदन ॥ ३६.२१४ ॥
गोविन्दति इति गो-विन्दः गावः विन्दन्ति यम् तथा । असुरम् मधु-नामानम् हन्ति इति मधुसूदन ॥ ३६।२१४ ॥
govindati iti go-vindaḥ gāvaḥ vindanti yam tathā . asuram madhu-nāmānam hanti iti madhusūdana .. 36.214 ..
त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः । वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ॥ ३६.२१५ ॥
त्रिभिः स्वैः विक्रमैः व्याप्तः जगत् एष त्रिविक्रमः । वामनः व्रास्वता-योगात् श्रीधरः वहनात् श्रियः ॥ ३६।२१५ ॥
tribhiḥ svaiḥ vikramaiḥ vyāptaḥ jagat eṣa trivikramaḥ . vāmanaḥ vrāsvatā-yogāt śrīdharaḥ vahanāt śriyaḥ .. 36.215 ..
हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः । पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः ॥ ३६.२१६ ॥
हृषीकस्य इन्द्रियस्य ईशः हृषीकेशः उदीरितः । पद्मम् पद्मनाभः ततस्म्मतः ॥ ३६।२१६ ॥
hṛṣīkasya indriyasya īśaḥ hṛṣīkeśaḥ udīritaḥ . padmam padmanābhaḥ tatasmmataḥ .. 36.216 ..
उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः । उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः ॥ ३६.२१७ ॥
उदर-आलम्बि दाम अस्य इति उक्तः दामोदरः हरिः । उत्तमः पुरुषः यस्मात् उक्तः स पुरुषोत्तमः ॥ ३६।२१७ ॥
udara-ālambi dāma asya iti uktaḥ dāmodaraḥ hariḥ . uttamaḥ puruṣaḥ yasmāt uktaḥ sa puruṣottamaḥ .. 36.217 ..
विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः । अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः ॥ ३६.२१८ ॥
विलोम-इन्द्रिय-गम्य-त्वात् प्रोच्यते स तु अधोक्षजः । अर्धम् अर्धम् नरसिंहाः उदाहृतः ॥ ३६।२१८ ॥
viloma-indriya-gamya-tvāt procyate sa tu adhokṣajaḥ . ardham ardham narasiṃhāḥ udāhṛtaḥ .. 36.218 ..
जनार्दनस्स पापिष्ठान्जनानर्दयतीति सः । इन्द्रस्यावरजो भूत उपेन्द्रः प्रोच्यते हरिः ॥ ३६.२१९ ॥
जनार्दनः स पापिष्ठान् जनान् अर्दयति इति सः । इन्द्रस्य अवरजः भूतः उपेन्द्रः प्रोच्यते हरिः ॥ ३६।२१९ ॥
janārdanaḥ sa pāpiṣṭhān janān ardayati iti saḥ . indrasya avarajaḥ bhūtaḥ upendraḥ procyate hariḥ .. 36.219 ..
हरणात्सर्वपापानां हरिर्नायणः स्मृतः । कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः ॥ ३६.२२० ॥
हरणात् सर्व-पापानाम् हरिः नायणः स्मृतः । कर्षणात् पाप-राशीनाम् कृष्णः सर्व-आत्मकः हरिः ॥ ३६।२२० ॥
haraṇāt sarva-pāpānām hariḥ nāyaṇaḥ smṛtaḥ . karṣaṇāt pāpa-rāśīnām kṛṣṇaḥ sarva-ātmakaḥ hariḥ .. 36.220 ..
रुद्रो रोदयते तस्मात्ब्रह्मा बृंहणकर्मणा । इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते ॥ ३६.२२१ ॥
रुद्रः रोदयते तस्मात् ब्रह्मा बृंहण-कर्मणा । इन्द्रः च परम-ऐश्वर्यात् वहनात् वह्निः उच्यते ॥ ३६।२२१ ॥
rudraḥ rodayate tasmāt brahmā bṛṃhaṇa-karmaṇā . indraḥ ca parama-aiśvaryāt vahanāt vahniḥ ucyate .. 36.221 ..
यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा । वायुर्वानात्सवात्सोमरिशश्चेष्टे जनेषु यः ॥ ३६.२२२ ॥
यमः संयमनात् पुंसाम् वरणात् वरुणः तथा । वायुः वानात् सवात् सोम-रिशः च इष्टे जनेषु यः ॥ ३६।२२२ ॥
yamaḥ saṃyamanāt puṃsām varaṇāt varuṇaḥ tathā . vāyuḥ vānāt savāt soma-riśaḥ ca iṣṭe janeṣu yaḥ .. 36.222 ..
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयते यतः । इत्येवं गुणवृत्त्योह्यैः शब्देरेकोऽप्यनेकथा ॥ ३६.२२३ ॥
आदित्यः अदिति-पुत्र-त्वात् चन्द्रः चन्दयते यतस् । इति एवम् गुण-वृत्त्या ऊह्यैः शब्देः एकः अपि अनेकथा ॥ ३६।२२३ ॥
ādityaḥ aditi-putra-tvāt candraḥ candayate yatas . iti evam guṇa-vṛttyā ūhyaiḥ śabdeḥ ekaḥ api anekathā .. 36.223 ..
श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरथ् । तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते ॥ ३६.२२४ ॥
श्रुतिभिः प्रोच्यते ब्रह्म विष्णु-आख्यम् जातु न इतरथा । तस्य ईश्वरस्य च ऐश्वर्यात् सर्वम् एतत् प्रवर्तते ॥ ३६।२२४ ॥
śrutibhiḥ procyate brahma viṣṇu-ākhyam jātu na itarathā . tasya īśvarasya ca aiśvaryāt sarvam etat pravartate .. 36.224 ..
सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचिथ् । तन्मयत्वेन गोविन्दे न्यस्तसर्वभरा नराः ॥ ३६.२२५ ॥
स ईश्वरम् हि जगत् सर्वम् भवेत् न अनीश्वरम् । तद्-मय-त्वेन गोविन्दे न्यस्त-सर्व-भराः नराः ॥ ३६।२२५ ॥
sa īśvaram hi jagat sarvam bhavet na anīśvaram . tad-maya-tvena govinde nyasta-sarva-bharāḥ narāḥ .. 36.225 ..
तद्याजीनो महाभागास्तरन्ति भववारिधिं । तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः ॥ ३६.२२६ ॥
तद्-याजीनः महाभागाः तरन्ति भव-वारिधिम् । तम् प्रसाधयितुम् यत्नः कार्यः सर आत्मना नरैः ॥ ३६।२२६ ॥
tad-yājīnaḥ mahābhāgāḥ taranti bhava-vāridhim . tam prasādhayitum yatnaḥ kāryaḥ sara ātmanā naraiḥ .. 36.226 ..
भक्तिनम्रस्सदा गच्छेत्सर्वोऽपि जगतः पतिं । तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तथ् ॥ ३६.२२७ ॥
भक्ति-नम्रः सदा गच्छेत् सर्वः अपि जगतः पतिम् । तत् देवस्य प्रियम् भूयात् यतस् सम्माननम् तु ॥ ३६।२२७ ॥
bhakti-namraḥ sadā gacchet sarvaḥ api jagataḥ patim . tat devasya priyam bhūyāt yatas sammānanam tu .. 36.227 ..
तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः । दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः ॥ ३६.२२८ ॥
तस्य सन्निहितः देवः यस्य चित्ते जनार्दनः । दानेन तपसा न अन्यैः त्यस्य तुष्टः भवेत् हरिः ॥ ३६।२२८ ॥
tasya sannihitaḥ devaḥ yasya citte janārdanaḥ . dānena tapasā na anyaiḥ tyasya tuṣṭaḥ bhavet hariḥ .. 36.228 ..
आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः । नारी वा बालको वाथ वृद्ध आतुर एव वा ॥ ३६.२२९ ॥
आरुह्य शकटम् गच्छेत् यः विष्णोः मन्दिरम् नरः । नारी वा बालकः वा अथ वृद्धः आतुरः एव वा ॥ ३६।२२९ ॥
āruhya śakaṭam gacchet yaḥ viṣṇoḥ mandiram naraḥ . nārī vā bālakaḥ vā atha vṛddhaḥ āturaḥ eva vā .. 36.229 ..
तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते । ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये ॥ ३६.२३० ॥
तस्य पुण्य-फलम् न अस्ति प्रेत्य युग्यः च जायते । ये वाहयन्ति तान् मर्त्यान् नराः वा प्राणिनः च ये ॥ ३६।२३० ॥
tasya puṇya-phalam na asti pretya yugyaḥ ca jāyate . ye vāhayanti tān martyān narāḥ vā prāṇinaḥ ca ye .. 36.230 ..
ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते । ये वाहयन्ति जन्तूंस्तान्स्तेऽपिमूढाः पतन्ति वै ॥ ३६.२३१ ॥
ते यास्यन्ति पदम् विष्णोः यस्मात् पादः च ते । ये वाहयन्ति जन्तून् तान् स्ते अपि मूढाः पतन्ति वै ॥ ३६।२३१ ॥
te yāsyanti padam viṣṇoḥ yasmāt pādaḥ ca te . ye vāhayanti jantūn tān ste api mūḍhāḥ patanti vai .. 36.231 ..
यस्तोदयति तानेव गमने मूढचेतनः । स यामीर्यातनाः प्राप्य तोद्यते यमकिङ्करैः ॥ ३६.२३२ ॥
यः तोदयति तान् एव गमने मूढ-चेतनः । स यामीः यातनाः प्राप्य तोद्यते यम-किङ्करैः ॥ ३६।२३२ ॥
yaḥ todayati tān eva gamane mūḍha-cetanaḥ . sa yāmīḥ yātanāḥ prāpya todyate yama-kiṅkaraiḥ .. 36.232 ..
पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः । यो वा भृतकदानेन वाहनेन तु मानवः ॥ ३६.२३३ ॥
पुनर् पशु-त्वम् आपन्नः तोद्यते पशुभिः नरैः । यः वा भृतक-दानेन वाहनेन तु मानवः ॥ ३६।२३३ ॥
punar paśu-tvam āpannaḥ todyate paśubhiḥ naraiḥ . yaḥ vā bhṛtaka-dānena vāhanena tu mānavaḥ .. 36.233 ..
वाहयत्यथ वोहेत सोऽपि यास्यति दुर्गतिं । अपारे दुर्गसंसारे कर्मबद्धे विशेषतः ॥ ३६.२३४ ॥
वाहयति अथ वा ऊहेत सः अपि यास्यति दुर्गतिम् । अपारे दुर्ग-संसारे कर्म-बद्धे विशेषतः ॥ ३६।२३४ ॥
vāhayati atha vā ūheta saḥ api yāsyati durgatim . apāre durga-saṃsāre karma-baddhe viśeṣataḥ .. 36.234 ..
स्वीयं कर्म समुत्सृज्य पतन्ति नरकेऽशुचौ । ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले ॥ ३६.२३५ ॥
स्वीयम् कर्म समुत्सृज्य पतन्ति नरके अशुचौ । ततःपशु-त्वम् आपन्नाः चिरम् तिष्ठन्ति भू-तले ॥ ३६।२३५ ॥
svīyam karma samutsṛjya patanti narake aśucau . tataḥpaśu-tvam āpannāḥ ciram tiṣṭhanti bhū-tale .. 36.235 ..
पादुकामधिरुह्यापि यो देवालयमाप्रजेथ् । स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते ॥ ३६.२३६ ॥
पादुकाम् अधिरुह्य अपि यः देवालयम् आप्रजेथ् । स पशुः जोयते प्रेत्य रोगी च इह प्रजायते ॥ ३६।२३६ ॥
pādukām adhiruhya api yaḥ devālayam āprajeth . sa paśuḥ joyate pretya rogī ca iha prajāyate .. 36.236 ..
पादुकां वाहनं चापि योऽधिष्ठित्य विमूढधीः । प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः ॥ ३६.२३७ ॥
पादुकाम् वाहनम् च अपि यः अधिष्ठित्य विमूढ-धीः । प्रणामम् हरये कुर्यात् दूरतरः हरिः ॥ ३६।२३७ ॥
pādukām vāhanam ca api yaḥ adhiṣṭhitya vimūḍha-dhīḥ . praṇāmam haraye kuryāt dūrataraḥ hariḥ .. 36.237 ..
देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेथ् । अयत्नाद्गमने जातेऽप्यवरुह्य च वाहनाथ् ॥ ३६.२३८ ॥
देव-दर्णनम् उद्दिश्य न एव इदम् विधे आव्रजेथ् । अयत्नात् गमने जाते अपि अवरुह्य च वाहनात् ॥ ३६।२३८ ॥
deva-darṇanam uddiśya na eva idam vidhe āvrajeth . ayatnāt gamane jāte api avaruhya ca vāhanāt .. 36.238 ..
पादुकादि विमुच्यैव समुपस्पृश्य वारिणा । प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः ॥ ३६.२३९ ॥
पादुका-आदि विमुच्य एव समुपस्पृश्य वारिणा । प्रविशेत् प्रयतः भूत्वा प्राकारम् प्रथमम् पुनर् ॥ ३६।२३९ ॥
pādukā-ādi vimucya eva samupaspṛśya vāriṇā . praviśet prayataḥ bhūtvā prākāram prathamam punar .. 36.239 ..
न विशेद्धाम देवस्य यादता वाहनादिभिः । तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेथ् ॥ ३६.२४० ॥
न विशेत् धाम देवस्य यादता वाहन-आदिभिः । तादृशम् पुरुषम् दृष्ट्वा यथाशक्ति अवबोधयेथ् ॥ ३६।२४० ॥
na viśet dhāma devasya yādatā vāhana-ādibhiḥ . tādṛśam puruṣam dṛṣṭvā yathāśakti avabodhayeth .. 36.240 ..
आद्यस्त्वेषोऽपचारस्स्याद्यत्नहार्योभवेत्ततः । श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहं ॥ ३६.२४१ ॥
आद्यः तु एषः अपचारः स्यात् यत्न-हार्यः भवेत् ततस् । श्मशान-मध्ये गत्वा तु यः गच्छेत् देवतागृहम् ॥ ३६।२४१ ॥
ādyaḥ tu eṣaḥ apacāraḥ syāt yatna-hāryaḥ bhavet tatas . śmaśāna-madhye gatvā tu yaḥ gacchet devatāgṛham .. 36.241 ..
सप्तजन्मकृतात्पुण्यात्तत्क्षणान्मुच्यते नरः । सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः ॥ ३६.२४२ ॥
सप्त-जन्म-कृतात् पुण्यात् तद्-क्षणात् मुच्यते नरः । सार्गालीम् योनिम् आश्रित्य पसेत् जन्म-त्रयम् ततस् ॥ ३६।२४२ ॥
sapta-janma-kṛtāt puṇyāt tad-kṣaṇāt mucyate naraḥ . sārgālīm yonim āśritya paset janma-trayam tatas .. 36.242 ..
दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकं । अन्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहं ॥ ३६.२४३ ॥
दरिद्राः च एव मार्खाः च भविष्यन्ति त्रि-जन्मकम् । अन्य-देवगृहम् यः व्रजेत् गृहम् ॥ ३६।२४३ ॥
daridrāḥ ca eva mārkhāḥ ca bhaviṣyanti tri-janmakam . anya-devagṛham yaḥ vrajet gṛham .. 36.243 ..
देवदेवस्य मोहात्तु तस्य पापं महाद्भवेथ् । गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयं ॥ ३६.२४४ ॥
देवदेवस्य मोहात् तु तस्य पापम् । गृहात् गृहम् तथा गद्वा भिक्षा-अर्थी क्षुधितः स्वयम् ॥ ३६।२४४ ॥
devadevasya mohāt tu tasya pāpam . gṛhāt gṛham tathā gadvā bhikṣā-arthī kṣudhitaḥ svayam .. 36.244 ..
भिक्षामलब्ध्वा कुत्रापि दरिद्रो जायते नरः । चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? ॥ ३६.२४५ ॥
भिक्षाम् अ लब्ध्वा कुत्र अपि दरिद्रः जायते नरः । चत्वारि च एव जन्मानि तेषाम् अन्ते च यः बुधः? ॥ ३६।२४५ ॥
bhikṣām a labdhvā kutra api daridraḥ jāyate naraḥ . catvāri ca eva janmāni teṣām ante ca yaḥ budhaḥ? .. 36.245 ..
चण्डालयोनि माप्नोति जन्मानि दश पञ्च च । अत्र चोदाहरन्तीमं विशेषं काश्यपादयः ॥ ३६.२४६ ॥
चण्डाल-योनि मा आप्नोति जन्मानि दश पञ्च च । अत्र च उदाहरन्ति इमम् विशेषम् काश्यप-आदयः ॥ ३६।२४६ ॥
caṇḍāla-yoni mā āpnoti janmāni daśa pañca ca . atra ca udāharanti imam viśeṣam kāśyapa-ādayaḥ .. 36.246 ..
सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः । तस्यातिरिक्तं नो किञ्चिद्विशेषस्तत्र वक्ष्यते ॥ ३६.२४७ ॥
सर्व-देव-मयः विष्णुः सर्व-वेद-मयः हरिः । तस्य अतिरिक्तम् नो किञ्चिद् विशेषः तत्र वक्ष्यते ॥ ३६।२४७ ॥
sarva-deva-mayaḥ viṣṇuḥ sarva-veda-mayaḥ hariḥ . tasya atiriktam no kiñcid viśeṣaḥ tatra vakṣyate .. 36.247 ..
सर्वेऽप्यधिकृता लोके तत्तत्कर्मानुरूपतः । आब्रह्मस्तंबपर्यन्तं जगदन्तर्व्यवस्थिताः ॥ ३६.२४८ ॥
सर्वे अपि अधिकृताः लोके तद्-तद्-कर्म-अनुरूपतः । आ ब्रह्मस्तंब-पर्यन्तम् जगत्-अन्तर् व्यवस्थिताः ॥ ३६।२४८ ॥
sarve api adhikṛtāḥ loke tad-tad-karma-anurūpataḥ . ā brahmastaṃba-paryantam jagat-antar vyavasthitāḥ .. 36.248 ..
तस्मादेव जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते ॥ ३६.२४९ ॥
तस्मात् एव जगत् सर्वम् सर्ग-काले प्रजायते । तस्मिन् एव पुनर् तत् च प्रलये संप्रलीयते ॥ ३६।२४९ ॥
tasmāt eva jagat sarvam sarga-kāle prajāyate . tasmin eva punar tat ca pralaye saṃpralīyate .. 36.249 ..
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषोऽव्ययः । स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ ३६.२५० ॥
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषः अव्ययः । सः एव सर्व-भूत-आत्मा नरः इति अभिधीयते ॥ ३६।२५० ॥
yaḥ varaḥ prakṛteḥ proktaḥ purāṇaḥ puruṣaḥ avyayaḥ . saḥ eva sarva-bhūta-ātmā naraḥ iti abhidhīyate .. 36.250 ..
नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते । तान्येव चायनं यस्य स तु नारायणः स्मृतः ॥ ३६.२५१ ॥
नरात् जातानि तत्त्वानि नाराणि इति प्रचक्षते । तानि एव च अयनम् यस्य स तु नारायणः स्मृतः ॥ ३६।२५१ ॥
narāt jātāni tattvāni nārāṇi iti pracakṣate . tāni eva ca ayanam yasya sa tu nārāyaṇaḥ smṛtaḥ .. 36.251 ..
नारायणः परं ब्रह्म तत्त्वं नारायणः परः । विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे ॥ ३६.२५२ ॥
नारायणः परम् ब्रह्म तत्त्वम् नारायणः परः । विष्णु-आदिभिः तथा केचिद् वासुदेव-आदिभिः परे ॥ ३६।२५२ ॥
nārāyaṇaḥ param brahma tattvam nārāyaṇaḥ paraḥ . viṣṇu-ādibhiḥ tathā kecid vāsudeva-ādibhiḥ pare .. 36.252 ..
संज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितं । सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु ॥ ३६.२५३ ॥
संज्ञा-भेदैः महात्मानः सदा एव आराधयन्ति तम् । सर्वत्र परिपूर्णस्य सर्वधा सर्व-वस्तुषु ॥ ३६।२५३ ॥
saṃjñā-bhedaiḥ mahātmānaḥ sadā eva ārādhayanti tam . sarvatra paripūrṇasya sarvadhā sarva-vastuṣu .. 36.253 ..
न जातु लभ्यते किञ्चिद्येनाव्याप्तं तु किं चन । तस्मात्तस्मिन्समारोप्य सर्वं देवेश्वरेश्वरे ॥ ३६.२५४ ॥
न जातु लभ्यते किञ्चिद् येन अव्याप्तम् तु किम् चन । तस्मात् तस्मिन् समारोप्य सर्वम् देव-ईश्वर-ईश्वरे ॥ ३६।२५४ ॥
na jātu labhyate kiñcid yena avyāptam tu kim cana . tasmāt tasmin samāropya sarvam deva-īśvara-īśvare .. 36.254 ..
उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः । अन्यत्र तं समारोप्य यदि चोपासनं भवेथ् ॥ ३६.२५५ ॥
उपासनम् भवेत् यत् तु तत् भवेत् उचितम् बुधैः । अन्यत्र तम् समारोप्य यदि च उपासनम् ॥ ३६।२५५ ॥
upāsanam bhavet yat tu tat bhavet ucitam budhaiḥ . anyatra tam samāropya yadi ca upāsanam .. 36.255 ..
तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलं । येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयोऽन्विताः ॥ ३६.२५६ ॥
तत् भवेत् अन्यत् एव अर्चा तस्मात् परिमितम् फलम् । ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धयः अन्विताः ॥ ३६।२५६ ॥
tat bhavet anyat eva arcā tasmāt parimitam phalam . ye api anya-devatā-bhaktāḥ yajante śraddhayaḥ anvitāḥ .. 36.256 ..
यजन्ते तेऽपि देवेशं तमेवाविधि पूर्वकं । अन्ये ते ब्रह्मरुद्रेन्द्रास्तदाद्या देवतास्स्मृताः ॥ ३६.२५७ ॥
यजन्ते ते अपि देवेशम् तम् एव अविधि पूर्वकम् । अन्ये ते ब्रह्म-रुद्र-इन्द्राः तद्-आद्याः देवताः स्मृताः ॥ ३६।२५७ ॥
yajante te api deveśam tam eva avidhi pūrvakam . anye te brahma-rudra-indrāḥ tad-ādyāḥ devatāḥ smṛtāḥ .. 36.257 ..
वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा । परमार्थे न भिद्यन्ते नान्यत्वं स्यात्परस्परं ॥ ३६.२५८ ॥
वैष्णवाः अवताराः च ये तु शास्त्र-उदिताः पुरा । परमार्थे न भिद्यन्ते न अन्य-त्वम् स्यात् परस्परम् ॥ ३६।२५८ ॥
vaiṣṇavāḥ avatārāḥ ca ye tu śāstra-uditāḥ purā . paramārthe na bhidyante na anya-tvam syāt parasparam .. 36.258 ..
विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु । तत्स्थानां दैवतानां वा नान्यत्वं जातु संभवेथ् ॥ ३६.२५९ ॥
विष्णु-आलयात् अथ एकस्मात् अन्य-विष्णु-आलयस्य तु । तद्-स्थानाम् दैवतानाम् वा न अन्य-त्वम् जातु संभवेथ् ॥ ३६।२५९ ॥
viṣṇu-ālayāt atha ekasmāt anya-viṣṇu-ālayasya tu . tad-sthānām daivatānām vā na anya-tvam jātu saṃbhaveth .. 36.259 ..
अथ शास्त्रविधिर्भिन्नो यत्र नाप्युपलभ्यते । तत्रान्यत्वं विजानीयान्न चेच्छेच्छास्त्रसंकरं ॥ ३६.२६० ॥
अथ शास्त्र-विधिः भिन्नः यत्र ना अपि उपलभ्यते । तत्र अन्य-त्वम् विजानीयात् न च इच्छेत् शास्त्र-संकरम् ॥ ३६।२६० ॥
atha śāstra-vidhiḥ bhinnaḥ yatra nā api upalabhyate . tatra anya-tvam vijānīyāt na ca icchet śāstra-saṃkaram .. 36.260 ..
हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः । यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितं ॥ ३६.२६१ ॥
हरिम् देवम् तु संसेव्य वाहन-स्थम् द्विजोत्तमः । यत् अन्यम् सेदते वीथ्याम् तद्-काले वाहन-स्थितम् ॥ ३६।२६१ ॥
harim devam tu saṃsevya vāhana-stham dvijottamaḥ . yat anyam sedate vīthyām tad-kāle vāhana-sthitam .. 36.261 ..
सोऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति । देवेशस्योत्सवो यत्र ग्रामे वा नगरेऽपि वा ॥ ३६.२६२ ॥
सः अपि पापम् अवाप्नोति विष्णु-ध्यानेन शुद्धि-अति । देवेशस्य उत्सवः यत्र ग्रामे वा नगरे अपि वा ॥ ३६।२६२ ॥
saḥ api pāpam avāpnoti viṣṇu-dhyānena śuddhi-ati . deveśasya utsavaḥ yatra grāme vā nagare api vā .. 36.262 ..
पर्वताग्रे महानद्यास्तीरे दुर्गाटवीषुवा । तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादराथ् ॥ ३६.२६३ ॥
पर्वत-अग्रे महा-नद्याः तीरे दुर्ग-अटवीषुवा । तत्र गच्छेत् नरः भक्त्या सेवेत उत्सवम् आदराथ् ॥ ३६।२६३ ॥
parvata-agre mahā-nadyāḥ tīre durga-aṭavīṣuvā . tatra gacchet naraḥ bhaktyā seveta utsavam ādarāth .. 36.263 ..
सह पुत्त्रेस्सहामात्यैस्सर्वैः परिजनैर्वृतः । वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः ॥ ३६.२६४ ॥
सह पुत्त्रेः सह अमात्यैः सर्वैः परिजनैः वृतः । वैष्णवम् क्रतु-देशन् तु गत्वा सेवेत मानवः ॥ ३६।२६४ ॥
saha puttreḥ saha amātyaiḥ sarvaiḥ parijanaiḥ vṛtaḥ . vaiṣṇavam kratu-deśan tu gatvā seveta mānavaḥ .. 36.264 ..
यथार्ऽहमुपयुञ्जीत स्वशक्तिं तत्क्रियासु च । श्रुत्वा देवोत्सवारंभं पङ्गूभावेन यो नरः ॥ ३६.२६५ ॥
यथार्ऽहम् उपयुञ्जीत स्व-शक्तिम् तद्-क्रियासु च । श्रुत्वा देव-उत्सव-आरंभम् पङ्गूभावेन यः नरः ॥ ३६।२६५ ॥
yathār'ham upayuñjīta sva-śaktim tad-kriyāsu ca . śrutvā deva-utsava-āraṃbham paṅgūbhāvena yaḥ naraḥ .. 36.265 ..
तिष्ठेत्स जन्मसाहस्रं पङ्गुरेव भविष्यति । तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितं ॥ ३६.२६६ ॥
तिष्ठेत् स जन्म-साहस्रम् पङ्गुः एव भविष्यति । तत् भवेत् विफलम् जन्म भू-भारः तस्य जीवितम् ॥ ३६।२६६ ॥
tiṣṭhet sa janma-sāhasram paṅguḥ eva bhaviṣyati . tat bhavet viphalam janma bhū-bhāraḥ tasya jīvitam .. 36.266 ..
देवेशस्योत्सवे सम्यग्वर्तमाने महाफले । योऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः ॥ ३६.२६७ ॥
देवेशस्य उत्सवे सम्यक् वर्तमाने महा-फले । यः अन्यत्र व्यापृतः तत्र न गच्छेत् दुर्मनाः नरः ॥ ३६।२६७ ॥
deveśasya utsave samyak vartamāne mahā-phale . yaḥ anyatra vyāpṛtaḥ tatra na gacchet durmanāḥ naraḥ .. 36.267 ..
न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेथ् । अनाहूतोऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेथ् ॥ ३६.२६८ ॥
न तस्य निष्कृतिः प्रोक्ता स पापी नरकम् । अनाहूतः अध्वरम् गच्छेत् तथा गुरु-कुलम् ॥ ३६।२६८ ॥
na tasya niṣkṛtiḥ proktā sa pāpī narakam . anāhūtaḥ adhvaram gacchet tathā guru-kulam .. 36.268 ..
योऽध्वरं गन्तुकामोऽत्र प्रतीक्षेतार्ङ्गणादिकं । तन्य पूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति ॥ ३६.२६९ ॥
यः अध्वरम् गन्तु-कामः अत्र प्रतीक्षेत आर्ङ्गण-आदिकम् । पूर्व-अर्जितम् पुण्यम् तद्-क्षणात् एव नश्यति ॥ ३६।२६९ ॥
yaḥ adhvaram gantu-kāmaḥ atra pratīkṣeta ārṅgaṇa-ādikam . pūrva-arjitam puṇyam tad-kṣaṇāt eva naśyati .. 36.269 ..
देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुं । वारयेद्येन केनापि हेतुना स तु दुर्मतिः ॥ ३६.२७० ॥
देव-उत्सवम् तु यः मर्त्यः यतमानम् तु सेवितुम् । वारयेत् येन केन अपि हेतुना स तु दुर्मतिः ॥ ३६।२७० ॥
deva-utsavam tu yaḥ martyaḥ yatamānam tu sevitum . vārayet yena kena api hetunā sa tu durmatiḥ .. 36.270 ..
अफलस्सफलो वापि पतत्येव न संशयः । विष्णुपञ्चदिने वापि पुण्याहेष्वितरेष्वपि ॥ ३६.२७१ ॥
अफलः सफलः वा अपि पतति एव न संशयः । विष्णुपञ्चदिने वा अपि पुण्य-अहेषु इतरेषु अपि ॥ ३६।२७१ ॥
aphalaḥ saphalaḥ vā api patati eva na saṃśayaḥ . viṣṇupañcadine vā api puṇya-aheṣu itareṣu api .. 36.271 ..
उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठाथ् । तत्क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेथ् ॥ ३६.२७२ ॥
उपोषितः तु श्रुत्वा एव देवेशस्य उत्सवम् । तद्-क्षणात् यः न गच्छेत् तु तस्य पापम् महत् भवेथ् ॥ ३६।२७२ ॥
upoṣitaḥ tu śrutvā eva deveśasya utsavam . tad-kṣaṇāt yaḥ na gacchet tu tasya pāpam mahat bhaveth .. 36.272 ..
खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे । आसीनस्थ्सित एवात्र स यामीर्यातना व्रजेथ् ॥ ३६.२७३ ॥
खट्वाम् आस्थाय यः शेते वर्तमाने तद्-उत्सवे । आसीन-स्थ्सितः एव अत्र स यामीः यातनाः व्रजेथ् ॥ ३६।२७३ ॥
khaṭvām āsthāya yaḥ śete vartamāne tad-utsave . āsīna-sthsitaḥ eva atra sa yāmīḥ yātanāḥ vrajeth .. 36.273 ..
देवेशाभिमुखं गत्वा न कुर्याद्यो नमस्क्रियां । स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते ॥ ३६.२७४ ॥
देवेश-अभिमुखम् गत्वा न कुर्यात् यः नमस्क्रियाम् । स पापिष्ठतरः लोके निष्कृतिः न अस्य विद्यते ॥ ३६।२७४ ॥
deveśa-abhimukham gatvā na kuryāt yaḥ namaskriyām . sa pāpiṣṭhataraḥ loke niṣkṛtiḥ na asya vidyate .. 36.274 ..
उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते । प्रत्युद्थानाभिवादाभ्यां पुनस्तान्प्रतिपादयेथ् ॥ ३६.२७५ ॥
उत्क्रमिष्यन्ति यत् प्राणाः प्राणदे समुपस्थिते । प्रत्युद्थान-अभिवादाभ्याम् पुनर् तान् प्रतिपादयेथ् ॥ ३६।२७५ ॥
utkramiṣyanti yat prāṇāḥ prāṇade samupasthite . pratyudthāna-abhivādābhyām punar tān pratipādayeth .. 36.275 ..
सर्वेषां प्राणभूतोऽसौ भगवान्हरिरव्ययः । प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदोऽपरः ॥ ३६.२७६ ॥
सर्वेषाम् प्राण-भूतः असौ भगवान् हरिः अव्ययः । प्राणिनः चेतनाः सर्वे प्राणी एकः प्राण-दः अपरः ॥ ३६।२७६ ॥
sarveṣām prāṇa-bhūtaḥ asau bhagavān hariḥ avyayaḥ . prāṇinaḥ cetanāḥ sarve prāṇī ekaḥ prāṇa-daḥ aparaḥ .. 36.276 ..
अन्यथा चेन्महादोषः संक्षुफ्यन्ते च मानवाः । एकहस्तप्रणामेन यत्पापं न तदन्यतः ॥ ३६.२७७ ॥
अन्यथा चेद् महा-दोषः संक्षुफ्यन्ते च मानवाः । एक-हस्त-प्रणामेन यत् पापम् न तत् अन्यतस् ॥ ३६।२७७ ॥
anyathā ced mahā-doṣaḥ saṃkṣuphyante ca mānavāḥ . eka-hasta-praṇāmena yat pāpam na tat anyatas .. 36.277 ..
हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेथ् । प्राञ्जलीकृत्य हस्तौतु याचेत मधुसूदनं ॥ ३६.२७८ ॥
हस्तौ द्वौ निर्मितौ धात्रा किम् तेन सु कृतम् भवेथ् । प्राञ्जलीकृत्य हस्तौ तु याचेत मधुसूदनम् ॥ ३६।२७८ ॥
hastau dvau nirmitau dhātrā kim tena su kṛtam bhaveth . prāñjalīkṛtya hastau tu yāceta madhusūdanam .. 36.278 ..
य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिं । तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि ॥ ३६.२७९ ॥
यः एकेन एव हस्तेन प्रणमेत् मन्द-धीः हरिम् । तस्य हस्तः भवेत् एकः पश्चात् जन्म-शतैः अपि ॥ ३६।२७९ ॥
yaḥ ekena eva hastena praṇamet manda-dhīḥ harim . tasya hastaḥ bhavet ekaḥ paścāt janma-śataiḥ api .. 36.279 ..
इह वै जायते पङ्गू रोगी चैव न संशयः । किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनं ॥ ३६.२८० ॥
इह वै जायते पङ्गुः रोगी च एव न संशयः । किम् इदम् बहुलैः चित्रैः करणैः देह-कल्पनम् ॥ ३६।२८० ॥
iha vai jāyate paṅguḥ rogī ca eva na saṃśayaḥ . kim idam bahulaiḥ citraiḥ karaṇaiḥ deha-kalpanam .. 36.280 ..
यद्येकैकं न चेत्तस्य कैङ्कर्यायोपयुज्यते । किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुं ॥ ३६.२८१ ॥
यदि एकैकम् न चेद् तस्य कैङ्कर्याय उपयुज्यते । किम् स्वाधीनेन हस्तेन स्वाधीनम् कर्म सेवितुम् ॥ ३६।२८१ ॥
yadi ekaikam na ced tasya kaiṅkaryāya upayujyate . kim svādhīnena hastena svādhīnam karma sevitum .. 36.281 ..
अशक्नु वानास्स्वातन्त्षहताः पापहता हताः । एकहस्तप्रणामस्तु परिहार्यो विशेषतः ॥ ३६.२८२ ॥
शक्नु वा अनाः स्वातन्त्ष-हताः पाप-हताः हताः । एक-हस्त-प्रणामः तु परिहार्यः विशेषतः ॥ ३६।२८२ ॥
śaknu vā anāḥ svātantṣa-hatāḥ pāpa-hatāḥ hatāḥ . eka-hasta-praṇāmaḥ tu parihāryaḥ viśeṣataḥ .. 36.282 ..
प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेथ् । तावुभौ नरकं यातस्तयोर्यस्मात्समागमः ॥ ३६.२८३ ॥
प्रणतम् च एक-हस्तेन यः तु । तौ उभौ नरकम् यातः तयोः यस्मात् समागमः ॥ ३६।२८३ ॥
praṇatam ca eka-hastena yaḥ tu . tau ubhau narakam yātaḥ tayoḥ yasmāt samāgamaḥ .. 36.283 ..
देवतास्तादृशं मूढं शपन्ति च विशङ्किताः । पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणं ॥ ३६.२८४ ॥
देवताः तादृशम् मूढम् शपन्ति च विशङ्किताः । पुरस्तात् यः तु देवस्य कुर्यात् आत्म-प्रदक्षिणम् ॥ ३६।२८४ ॥
devatāḥ tādṛśam mūḍham śapanti ca viśaṅkitāḥ . purastāt yaḥ tu devasya kuryāt ātma-pradakṣiṇam .. 36.284 ..
आत्मना स भवेद्वापस्स द्रुह्येदात्मने बुधः । पुरस्ताद्देवबिंबे तु देव्यमङ्गलविग्रहे ॥ ३६.२८५ ॥
आत्मना स भवेत् वापः स द्रुह्येत् आत्मने बुधः । पुरस्तात् देव-बिंबे तु देवी-अमङ्गल-विग्रहे ॥ ३६।२८५ ॥
ātmanā sa bhavet vāpaḥ sa druhyet ātmane budhaḥ . purastāt deva-biṃbe tu devī-amaṅgala-vigrahe .. 36.285 ..
वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणं । यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेथ् ॥ ३६.२८६ ॥
वर्तमाने तु अन् आदृत्य न हि अन्यस्य प्रदक्षिणम् । यत्र मानसिका अर्चा स्यात् तत् च मानसिकम् ॥ ३६।२८६ ॥
vartamāne tu an ādṛtya na hi anyasya pradakṣiṇam . yatra mānasikā arcā syāt tat ca mānasikam .. 36.286 ..
अन्तर्यामी य एवास्ते हृदये निष्कलो हरिः । स एव सकलो भूत्वा बिंबे यत्सन्निधापितः ॥ ३६.२८७ ॥
अन्तर्यामी यः एव आस्ते हृदये निष्कलः हरिः । सः एव सकलः भूत्वा बिंबे यत् सन्निधापितः ॥ ३६।२८७ ॥
antaryāmī yaḥ eva āste hṛdaye niṣkalaḥ hariḥ . saḥ eva sakalaḥ bhūtvā biṃbe yat sannidhāpitaḥ .. 36.287 ..
तस्मात्सकलपूजायां नैव कुर्याद्व्यतिक्रमं । न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु ॥ ३६.२८८ ॥
तस्मात् सकल-पूजायाम् ना एव कुर्यात् व्यतिक्रमम् । न कदापि भवेत् प्राज्ञः उच्भिष्टः स्वेषु कर्मसु ॥ ३६।२८८ ॥
tasmāt sakala-pūjāyām nā eva kuryāt vyatikramam . na kadāpi bhavet prājñaḥ ucbhiṣṭaḥ sveṣu karmasu .. 36.288 ..
विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेथ् । उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु ॥ ३६.२८९ ॥
विष्-मूत्रम् पथि कृत्वा तु शौचम् यावत् न च आचरेथ् । उच्छिष्टः तावत् एव स्यात् अनर्हः सर्व-कर्मसु ॥ ३६।२८९ ॥
viṣ-mūtram pathi kṛtvā tu śaucam yāvat na ca ācareth . ucchiṣṭaḥ tāvat eva syāt anarhaḥ sarva-karmasu .. 36.289 ..
नखरोमाणि यश्चैव केशास्थीनि तथैव च । क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः ॥ ३६.२९० ॥
नख-रोमाणि यः च एव केश-अस्थीनि तथा एव च । क्षिपेत् तु देवतागारे स भवेत् ब्रह्म-हा नरः ॥ ३६।२९० ॥
nakha-romāṇi yaḥ ca eva keśa-asthīni tathā eva ca . kṣipet tu devatāgāre sa bhavet brahma-hā naraḥ .. 36.290 ..
माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः । सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः ॥ ३६.२९१ ॥
माक्षिकीम् योनिम् श्रित्य जायते म्रियते पुनर् । सप्त जन्मानि तत्र एव व्रजेत् नरक-मस्ततः ॥ ३६।२९१ ॥
mākṣikīm yonim śritya jāyate mriyate punar . sapta janmāni tatra eva vrajet naraka-mastataḥ .. 36.291 ..
तांबूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे । स याति नरकं घोरं यावदाभूतसंप्लवं ॥ ३६.२९२ ॥
तांबूलम् चर्वितम् यः तु प्रक्षिपेत् देवम् अन्तिरे । स याति नरकम् घोरम् यावत् आभूतसंप्लवम् ॥ ३६।२९२ ॥
tāṃbūlam carvitam yaḥ tu prakṣipet devam antire . sa yāti narakam ghoram yāvat ābhūtasaṃplavam .. 36.292 ..
ततो मुक्तो महापापी शुनकोऽपरजन्मनि । संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ॥ ३६.२९३ ॥
ततस् मुक्तः महा-पापी शुनकः अपर-जन्मनि । संस्थितः त्रीणि जन्मानि वसति एव न संशयः ॥ ३६।२९३ ॥
tatas muktaḥ mahā-pāpī śunakaḥ apara-janmani . saṃsthitaḥ trīṇi janmāni vasati eva na saṃśayaḥ .. 36.293 ..
निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः । कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥ ३६.२९४ ॥
निष्ठीवन-करः यः तु मन्दिरे मधुविद्विषः । कृमिभक्ष्ये पतेत् घोरे नरके पाप-कृत् नरः ॥ ३६।२९४ ॥
niṣṭhīvana-karaḥ yaḥ tu mandire madhuvidviṣaḥ . kṛmibhakṣye patet ghore narake pāpa-kṛt naraḥ .. 36.294 ..
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकं । मूत्रयेन्मन्दिरे यस्तु केशवस्य विमूढधीः ॥ ३६.२९५ ॥
श्लेष्मातक-तरुः भूत्वा जायते जन्म-पञ्चकम् । मूत्रयेत् मन्दिरे यः तु केशवस्य विमूढ-धीः ॥ ३६।२९५ ॥
śleṣmātaka-taruḥ bhūtvā jāyate janma-pañcakam . mūtrayet mandire yaḥ tu keśavasya vimūḍha-dhīḥ .. 36.295 ..
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः । तस्मान्मुक्तस्तुरक्तादिनिंबकद्रुममास्थितः ॥ ३६.२९६ ॥
स मूत्र-गर्त-नरके पतति एव हि अवाक् शिराः । तस्मात् मुक्तः तु रक्त-आदि-निंबक-द्रुमम् आस्थितः ॥ ३६।२९६ ॥
sa mūtra-garta-narake patati eva hi avāk śirāḥ . tasmāt muktaḥ tu rakta-ādi-niṃbaka-drumam āsthitaḥ .. 36.296 ..
जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीं । पुरीषं वात्र कुर्वीत यो नरो भगवद्गृहे ॥ ३६.२९७ ॥
जनिष्यति न सन्देहः सप्त-जन्मसु सौकरीम् । पुरीषम् वा अत्र कुर्वीत यः नरः भगवत्-गृहे ॥ ३६।२९७ ॥
janiṣyati na sandehaḥ sapta-janmasu saukarīm . purīṣam vā atra kurvīta yaḥ naraḥ bhagavat-gṛhe .. 36.297 ..
स याति नरकान्घोरान्पर्यायेणैकविंशतिं । ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः ॥ ३६.२९८ ॥
स याति नरकान् घोरान् पर्यायेण एकविंशतिम् । ततस् मुक्तः तु पाप-आत्मा विष्ठायाम् जायते कृमिः ॥ ३६।२९८ ॥
sa yāti narakān ghorān paryāyeṇa ekaviṃśatim . tatas muktaḥ tu pāpa-ātmā viṣṭhāyām jāyate kṛmiḥ .. 36.298 ..
समीपे मन्दिरस्यापि सकृन्मूत्रं करोति यः । स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतं ॥ ३६.२९९ ॥
समीपे मन्दिरस्य अपि सकृत् मूत्रम् करोति यः । स तिष्ठेत् रौरवे घोरे वर्षाणाम् अयुतम् शतम् ॥ ३६।२९९ ॥
samīpe mandirasya api sakṛt mūtram karoti yaḥ . sa tiṣṭhet raurave ghore varṣāṇām ayutam śatam .. 36.299 ..
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातितां । ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा ॥ ३६.३०० ॥
ततस् अपि मनुजः मुक्तः ग्राम-सूकर-जाति-ताम् । ग्रामे जन्म-शतम् प्राप्य विष्ठा-भू-सूकरः तथा ॥ ३६।३०० ॥
tatas api manujaḥ muktaḥ grāma-sūkara-jāti-tām . grāme janma-śatam prāpya viṣṭhā-bhū-sūkaraḥ tathā .. 36.300 ..
यस्तु रेतोविसर्गं च कृत्वा कामादकामतः । अस्नातो देवतागारमियात्सद्यस्स नश्यति ॥ ३६.३०१ ॥
यः तु रेतः-विसर्गम् च कृत्वा कामात् अकामतः । अ स्नातः देवतागारम् इयात् सद्यस् स नश्यति ॥ ३६।३०१ ॥
yaḥ tu retaḥ-visargam ca kṛtvā kāmāt akāmataḥ . a snātaḥ devatāgāram iyāt sadyas sa naśyati .. 36.301 ..
यो यत्र देवतागेहे दन्तधावनमाचरेथ् । तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवं ॥ ३६.३०२ ॥
यः यत्र देवता-गेहे दन्तधावनम् आचरेथ् । तथा निर्लेखयेत् जिह्वाम् स पापी नश्यति ध्रुवम् ॥ ३६।३०२ ॥
yaḥ yatra devatā-gehe dantadhāvanam ācareth . tathā nirlekhayet jihvām sa pāpī naśyati dhruvam .. 36.302 ..
तैलेनाभ्यक्तसर्वाङ्गः कषायोद्वर्तितस्तथा । यो नरःप्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.३०३ ॥
तैलेन अभ्यक्त-सर्व-अङ्गः कषाय-उद्वर्तितः तथा । यः नरः प्रविशेत् गेहम् देवस्य परमात्मनः ॥ ३६।३०३ ॥
tailena abhyakta-sarva-aṅgaḥ kaṣāya-udvartitaḥ tathā . yaḥ naraḥ praviśet geham devasya paramātmanaḥ .. 36.303 ..
स याति गृहगोधात्वं नवजन्मानि पञ्च च । अनुगम्य यथा प्रेतं याति देवालयं तु यः ॥ ३६.३०४ ॥
स याति गृहगोधा-त्वम् नव-जन्मानि पञ्च च । अनुगम्य यथा प्रेतम् याति देवालयम् तु यः ॥ ३६।३०४ ॥
sa yāti gṛhagodhā-tvam nava-janmāni pañca ca . anugamya yathā pretam yāti devālayam tu yaḥ .. 36.304 ..
आराधितुमथेच्छेद्वास गच्छेन्नरायुतं । बलिभुग्योनितां याति जन्मानि सुबहूनि वै ॥ ३६.३०५ ॥
आराधितुम् अथ इच्छेत् वास गच्छेत् नर-अयुतम् । बलिभुज् योनि-ताम् याति जन्मानि सु बहूनि वै ॥ ३६।३०५ ॥
ārādhitum atha icchet vāsa gacchet nara-ayutam . balibhuj yoni-tām yāti janmāni su bahūni vai .. 36.305 ..
भरणं तु तथा कृत्वा मृतकस्य विशेषतः । मन्दिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति ॥ ३६.३०६ ॥
भरणम् तु तथा कृत्वा मृतकस्य विशेषतः । मन्दिरम् न प्रवेष्टव्यम् प्रविष्टः तु प्रणश्यति ॥ ३६।३०६ ॥
bharaṇam tu tathā kṛtvā mṛtakasya viśeṣataḥ . mandiram na praveṣṭavyam praviṣṭaḥ tu praṇaśyati .. 36.306 ..
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च । भविष्यति तथा भूयः पृथक्क्रूरोऽथ निष्ठुरः ॥ ३६.३०७ ॥
चाण्डालीम् योनिम् आश्रित्य जन्म-कृत् नव पञ्च च । भविष्यति तथा भूयस् पृथक् क्रूरः अथ निष्ठुरः ॥ ३६।३०७ ॥
cāṇḍālīm yonim āśritya janma-kṛt nava pañca ca . bhaviṣyati tathā bhūyas pṛthak krūraḥ atha niṣṭhuraḥ .. 36.307 ..
भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः । अर्चयेद्वा विशेषेण चटको जायते खलः ॥ ३६.३०८ ॥
भुक्त्वा श्राद्धम् पर-गृहे यायात् विष्णु-गृहन् तु यः । अर्चयेत् वा विशेषेण चटकः जायते खलः ॥ ३६।३०८ ॥
bhuktvā śrāddham para-gṛhe yāyāt viṣṇu-gṛhan tu yaḥ . arcayet vā viśeṣeṇa caṭakaḥ jāyate khalaḥ .. 36.308 ..
तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः । छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मन्दिरं ॥ ३६.३०९ ॥
तत्र जन्म-शतम् प्राप्य ततस् गोधा-वपुः गतः । छायाम् आक्रम्य यः मोहात् याति विष्णोः तु मन्दिरम् ॥ ३६।३०९ ॥
tatra janma-śatam prāpya tatas godhā-vapuḥ gataḥ . chāyām ākramya yaḥ mohāt yāti viṣṇoḥ tu mandiram .. 36.309 ..
प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकं । सोऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदं ॥ ३६.३१० ॥
प्रदक्षिणम् अकुर्वन् वा यः तिष्ठेत् मति-पूर्वकम् । सः अपि उच्छिष्टः भवेत् मूढः तस्य पाप-फलम् तु इदम् ॥ ३६।३१० ॥
pradakṣiṇam akurvan vā yaḥ tiṣṭhet mati-pūrvakam . saḥ api ucchiṣṭaḥ bhavet mūḍhaḥ tasya pāpa-phalam tu idam .. 36.310 ..
तिष्सेत्स कानने शून्ये कण्टकैर्बहुभिर्वृतः । फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षतां ॥ ३६.३११ ॥
तिष्सेत् स कानने शून्ये कण्टकैः बहुभिः वृतः । फल-पुह्प-आदि-हीनः च श्मशाने? शून्य-वृक्ष-ताम् ॥ ३६।३११ ॥
tiṣset sa kānane śūnye kaṇṭakaiḥ bahubhiḥ vṛtaḥ . phala-puhpa-ādi-hīnaḥ ca śmaśāne? śūnya-vṛkṣa-tām .. 36.311 ..
यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः । अपसव्यं च धृत्वैव धृत्वा चैव निवीतवथ् ॥ ३६.३१२ ॥
यज्ञ-सूत्रम् अधःकृत्य कर्णे कृत्वा विशेषतः । अपसव्यम् च धृत्वा एव धृत्वा च एव ॥ ३६।३१२ ॥
yajña-sūtram adhaḥkṛtya karṇe kṛtvā viśeṣataḥ . apasavyam ca dhṛtvā eva dhṛtvā ca eva .. 36.312 ..
न गच्छेद्देवतागारं न वा मुक्तशिखो नरः । अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक् ॥ ३६.३१३ ॥
न गच्छेत् देवतागारम् न वा मुक्त-शिखः नरः । अ कच्छः पुच्छ-कच्छः च नग्नः ॥ ३६।३१३ ॥
na gacchet devatāgāram na vā mukta-śikhaḥ naraḥ . a kacchaḥ puccha-kacchaḥ ca nagnaḥ .. 36.313 ..
रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च । खादन्नपि च तांबूलमुपहारादि भक्षयन् ॥ ३६.३१४ ॥
रिक्त-हस्तः शून्य-फालः त्यक्त-संव्यानः एव च । खादन् अपि च तांबूलम् उपहार-आदि भक्षयन् ॥ ३६।३१४ ॥
rikta-hastaḥ śūnya-phālaḥ tyakta-saṃvyānaḥ eva ca . khādan api ca tāṃbūlam upahāra-ādi bhakṣayan .. 36.314 ..
देवालयं विशेन्नैव तस्य पापं महद्भवेथ् । दुराचारो हि पुरुषो नेहायुर्विन्दते महथ् ॥ ३६.३१५ ॥
देवालयम् विशेत् न एव तस्य पापम् महत् भवेथ् । दुराचारः हि पुरुषः न इह आयुः विन्दते ॥ ३६।३१५ ॥
devālayam viśet na eva tasya pāpam mahat bhaveth . durācāraḥ hi puruṣaḥ na iha āyuḥ vindate .. 36.315 ..
त्रस्यन्ति चास्य भूतानि तथा परिभनन्तिच । तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः ॥ ३६.३१६ ॥
त्रस्यन्ति च अस्य भूतानि तथा परिभनन्ति च । तस्मात् आचारवान् एव कुर्यात् वैवैदिकीः क्रियाः ॥ ३६।३१६ ॥
trasyanti ca asya bhūtāni tathā paribhananti ca . tasmāt ācāravān eva kuryāt vaivaidikīḥ kriyāḥ .. 36.316 ..
अपि पापशरीरस्य आचारो हन्त्यलक्षणं । आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ॥ ३६.३१७ ॥
अपि पाप-शरीरस्य आचारः हन्ति अलक्षणम् । आचार-लक्षणः धर्मः सन्तः चारित्र-लक्षणाः ॥ ३६।३१७ ॥
api pāpa-śarīrasya ācāraḥ hanti alakṣaṇam . ācāra-lakṣaṇaḥ dharmaḥ santaḥ cāritra-lakṣaṇāḥ .. 36.317 ..
साधूनां च यथावृत्तमेतदाचारलक्षणं । अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणं ॥ ३६.३१८ ॥
साधूनाम् च यथावृत्तम् एतत् आचार-लक्षणम् । अपि अदृष्टम् श्रवात् एव पुरुषम् धर्म-चारिणम् ॥ ३६।३१८ ॥
sādhūnām ca yathāvṛttam etat ācāra-lakṣaṇam . api adṛṣṭam śravāt eva puruṣam dharma-cāriṇam .. 36.318 ..
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियं । ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ॥ ३६.३१९ ॥
स्वानि कर्माणि कुर्वाणम् तम् जनाः कुर्वते प्रियम् । ये नास्तिकाः निष्क्रियाः च गुरु-शास्त्र-अतिलङ्घिनः ॥ ३६।३१९ ॥
svāni karmāṇi kurvāṇam tam janāḥ kurvate priyam . ye nāstikāḥ niṣkriyāḥ ca guru-śāstra-atilaṅghinaḥ .. 36.319 ..
अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः । विशीला धर्ममर्यादा नित्यं संकीर्णमैथुनाः ॥ ३६.३२० ॥
अ धर्म-ज्ञाः दुराचाराः ते भवन्ति गत-आयुषः । विशीलाः धर्म-मर्यादाः नित्यम् संकीर्ण-मैथुनाः ॥ ३६।३२० ॥
a dharma-jñāḥ durācārāḥ te bhavanti gata-āyuṣaḥ . viśīlāḥ dharma-maryādāḥ nityam saṃkīrṇa-maithunāḥ .. 36.320 ..
अल्पायुषो भवन्तीहनरा निरयगामिनः । लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ॥ ३६.३२१ ॥
अल्प-आयुषः भवन्ति इह नराः निरय-गामिनः । लोष्ठ-मर्दी तृण-छेदी नख-खादी च यः नरः ॥ ३६।३२१ ॥
alpa-āyuṣaḥ bhavanti iha narāḥ niraya-gāminaḥ . loṣṭha-mardī tṛṇa-chedī nakha-khādī ca yaḥ naraḥ .. 36.321 ..
नित्योच्छिष्टस्संकुसुको नेहयुर्विन्दते क्वचिथ् । विष्णुस्थानसमीपस्थान्विष्णुसेवार्थमागतान् ॥ ३६.३२२ ॥
नित्य-उच्छिष्टः संकुसुकः न इहयुः विन्दते । विष्णु-स्थान-समीप-स्थान् विष्णु-सेवा-अर्थम् आगतान् ॥ ३६।३२२ ॥
nitya-ucchiṣṭaḥ saṃkusukaḥ na ihayuḥ vindate . viṣṇu-sthāna-samīpa-sthān viṣṇu-sevā-artham āgatān .. 36.322 ..
श्वपचान्पतितान्वापि स्पृष्ट्वा न स्नानमाचरेथ् । उत्सवे वासुदेवस्य यःस्नाति स्पर्शशङ्कया ॥ ३६.३२३ ॥
श्वपचान् पतितान् वा अपि स्पृष्ट्वा न स्नानम् आचरेथ् । उत्सवे वासुदेवस्य यः स्नाति स्पर्श-शङ्कया ॥ ३६।३२३ ॥
śvapacān patitān vā api spṛṣṭvā na snānam ācareth . utsave vāsudevasya yaḥ snāti sparśa-śaṅkayā .. 36.323 ..
स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ । पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः ॥ ३६.३२४ ॥
स्वर्ग-स्थाः पितरः तस्य पतन्ति नरके अशुचौ । पिबेत् पाद-उदकम् विष्णोः गुरूणाम् वा विशेषतः ॥ ३६।३२४ ॥
svarga-sthāḥ pitaraḥ tasya patanti narake aśucau . pibet pāda-udakam viṣṇoḥ gurūṇām vā viśeṣataḥ .. 36.324 ..
तत्र नाचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः । अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिं ॥ ३६.३२५ ॥
तत्र न आचमनम् कुर्यात् तद्वत् सोमे द्विजोत्तमः । अन्य-देव-अर्थ-सन्दिष्ठैः पूजयेयुः च ये हरिम् ॥ ३६।३२५ ॥
tatra na ācamanam kuryāt tadvat some dvijottamaḥ . anya-deva-artha-sandiṣṭhaiḥ pūjayeyuḥ ca ye harim .. 36.325 ..
सप्तजन्मानि पञ्चापि मुडूकत्वं व्रजन्ति ते । जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः ॥ ३६.३२६ ॥
सप्त-जन्मानि पञ्च अपि मुडूक-त्वम् व्रजन्ति ते । जन्म-द्वयम् तु वै मूढाः शूद्र-ताम् यान्ति ते नराः ॥ ३६।३२६ ॥
sapta-janmāni pañca api muḍūka-tvam vrajanti te . janma-dvayam tu vai mūḍhāḥ śūdra-tām yānti te narāḥ .. 36.326 ..
कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः । स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवं ॥ ३६.३२७ ॥
कुसुमानाम् निवेद्य अहम् गन्धम् आघ्राति यः नरः । स पूति-गन्ध-संयुक्तः कुष्ठी च एव भवेत् ध्रुवम् ॥ ३६।३२७ ॥
kusumānām nivedya aham gandham āghrāti yaḥ naraḥ . sa pūti-gandha-saṃyuktaḥ kuṣṭhī ca eva bhavet dhruvam .. 36.327 ..
तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत । जातकं मृतकं वापि यस्याशौचं विधीयते ॥ ३६.३२८ ॥
तद्-अन्ते त्रीणि जन्मानि तादृशानि भवन्ति उत । जातकम् मृतकम् वा अपि यस्य आशौचम् विधीयते ॥ ३६।३२८ ॥
tad-ante trīṇi janmāni tādṛśāni bhavanti uta . jātakam mṛtakam vā api yasya āśaucam vidhīyate .. 36.328 ..
अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहं । पुंप्रसूतौ स्मृतं पूर्वैस्सापिण्ड्यं सप्तपूरुषं ॥ ३६.३२९ ॥
अनर्हः सर्व-कर्मभ्यः स न इयात् देवताः गृहम् । पुं प्रसूतौ स्मृतम् पूर्वैः सापिण्ड्यम् सप्त-पूरुषम् ॥ ३६।३२९ ॥
anarhaḥ sarva-karmabhyaḥ sa na iyāt devatāḥ gṛham . puṃ prasūtau smṛtam pūrvaiḥ sāpiṇḍyam sapta-pūruṣam .. 36.329 ..
कन्यकाजनने तद्वत्सापिण्डन्तु त्रिपूरुषं । व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणां ॥ ३६.३३० ॥
कन्यका-जनने तद्वत् सापिण्डम् तु त्रि-पूरुषम् । व्रतिनाम् सत्रिणाम् तद्वत् यतीनाम् ब्रह्मचारिणाम् ॥ ३६।३३० ॥
kanyakā-janane tadvat sāpiṇḍam tu tri-pūruṣam . vratinām satriṇām tadvat yatīnām brahmacāriṇām .. 36.330 ..
नाशौचः कथ्यते प्राज्ञैर्यथा शातातपोऽब्रवीथ् । व्रतसंकल्पमात्रेण व्रतित्वं व्रतिनो भवेथ् ॥ ३६.३३१ ॥
न आशौचः कथ्यते प्राज्ञैः यथा । व्रत-संकल्प-मात्रेण व्रति-त्वम् व्रतिनः ॥ ३६।३३१ ॥
na āśaucaḥ kathyate prājñaiḥ yathā . vrata-saṃkalpa-mātreṇa vrati-tvam vratinaḥ .. 36.331 ..
वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः । काषायदण्डमात्रेण यतित्वञ्च यतेर्मतं ॥ ३६.३३२ ॥
वृत-मात्रः तथा ऋत्विज् च सत्रे सत्री प्रकीर्तितः । काषाय-दण्ड-मात्रेण यति-त्वञ्च यतेः मतम् ॥ ३६।३३२ ॥
vṛta-mātraḥ tathā ṛtvij ca satre satrī prakīrtitaḥ . kāṣāya-daṇḍa-mātreṇa yati-tvañca yateḥ matam .. 36.332 ..
उपनीतो वसेन्मा वा तथा गुरुकुले क्रमाथ् । ब्रह्माध्येति नचाध्येति ब्रह्मचारी कुमारकः ॥ ३६.३३३ ॥
उपनीतः वसेत् मा वा तथा गुरु-कुले । ब्रह्म अध्येति न च अध्येति ब्रह्मचारी कुमारकः ॥ ३६।३३३ ॥
upanītaḥ vaset mā vā tathā guru-kule . brahma adhyeti na ca adhyeti brahmacārī kumārakaḥ .. 36.333 ..
राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य चर् । इदृशानामथान्येषामत्रास्तर्भावरिरितः ॥ ३६.३३४ ॥
राज-आज्ञा-कारिणाम् तद्वत् राज्ञाम् च स्नातकस्य चर् । इदृशानाम् अथ अन्येषाम् अत्र आस्तर्भावरिः इतस् ॥ ३६।३३४ ॥
rāja-ājñā-kāriṇām tadvat rājñām ca snātakasya car . idṛśānām atha anyeṣām atra āstarbhāvariḥ itas .. 36.334 ..
न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेथ् । नार्ऽपयेदुपहारांश्च तीर्थादीन्नापि सेवते ॥ ३६.३३५ ॥
न कुर्यात् च नमस्कारम् न एव । न आर्ऽपयेत् उपहारान् च तीर्थ-आदीन् ना अपि सेवते ॥ ३६।३३५ ॥
na kuryāt ca namaskāram na eva . na ār'payet upahārān ca tīrtha-ādīn nā api sevate .. 36.335 ..
आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेथ् । सप्तजन्मसु दारिद्षमत्यन्तं समवाप्नुयाथ् ॥ ३६.३३६ ॥
आशौची ब्राह्मणः यः तु मोहात् देवम् । सप्त-जन्मसु दारिद्षम् अत्यन्तम् समवाप्नुयाथ् ॥ ३६।३३६ ॥
āśaucī brāhmaṇaḥ yaḥ tu mohāt devam . sapta-janmasu dāridṣam atyantam samavāpnuyāth .. 36.336 ..
श्वानयोनिशतं प्राप्य ततश्चण्डालतामियाथ् । योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु ॥ ३६.३३७ ॥
श्वान-योनि-शतम् प्राप्य ततस् चण्डाल-ताम् इयाथ् । यः भुक्त्वा देवतागारे निक्षिप्य उच्छिष्टम् अत्र तु ॥ ३६।३३७ ॥
śvāna-yoni-śatam prāpya tatas caṇḍāla-tām iyāth . yaḥ bhuktvā devatāgāre nikṣipya ucchiṣṭam atra tu .. 36.337 ..
गच्छेदन्यत्र वा प्रास्यात्सोपि मूढो विपद्यते । यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचिथ् ॥ ३६.३३८ ॥
गच्छेत् अन्यत्र वा प्रास्यात् सः अपि मूढः विपद्यते । यः तु देवगृह-द्वारे प्रसार्य चरणौ ॥ ३६।३३८ ॥
gacchet anyatra vā prāsyāt saḥ api mūḍhaḥ vipadyate . yaḥ tu devagṛha-dvāre prasārya caraṇau .. 36.338 ..
शेते निद्राति सम्मोहात्स याति नरकायुतं । पुनश्च जन्म संप्राप्य नीचयोनिष्वनेकशः ॥ ३६.३३९ ॥
शेते सम्मोहात् स याति नरक-अयुतम् । पुनर् च जन्म संप्राप्य नीच-योनिषु अनेकशस् ॥ ३६।३३९ ॥
śete sammohāt sa yāti naraka-ayutam . punar ca janma saṃprāpya nīca-yoniṣu anekaśas .. 36.339 ..
यातनाश्चानुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः । यस्तु देवगृहे मूढश्सयीत मदमोहितः ॥ ३६.३४० ॥
यातनाः च अनुभूय इव दौर्ब्राह्मण्यम् व्रजेत् तु सः । यः तु देवगृहे मूढः सयीत मद-मोहितः ॥ ३६।३४० ॥
yātanāḥ ca anubhūya iva daurbrāhmaṇyam vrajet tu saḥ . yaḥ tu devagṛhe mūḍhaḥ sayīta mada-mohitaḥ .. 36.340 ..
तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः । दुर्गन्धी जायते मर्त्योजायते जन्मपञ्चकं ॥ ३६.३४१ ॥
तत्र उच्छिष्ट-निधानेन भृशम् निश्श्वास-मारुतैः । दुर्गन्धी जायते मर्त्यः जायते जन्म-पञ्चकम् ॥ ३६।३४१ ॥
tatra ucchiṣṭa-nidhānena bhṛśam niśśvāsa-mārutaiḥ . durgandhī jāyate martyaḥ jāyate janma-pañcakam .. 36.341 ..
ततस्सूकरतां प्राप्य जन्मानि नव पञ्च च । क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे ॥ ३६.३४२ ॥
ततस् सूकर-ताम् प्राप्य जन्मानि नव पञ्च च । क्लिश्यते बहुभिः कष्टैः न शयीत हरेः गृहे ॥ ३६।३४२ ॥
tatas sūkara-tām prāpya janmāni nava pañca ca . kliśyate bahubhiḥ kaṣṭaiḥ na śayīta hareḥ gṛhe .. 36.342 ..
उपधानादिसहितं य स्तल्पमधितिष्ठति । देवालये विशेषेण प्राकारे वापि मूढधीः ॥ ३६.३४३ ॥
उपधान-आदि-सहितम् यः स्तल्पम् अधितिष्ठति । देवालये विशेषेण प्राकारे वा अपि मूढ-धीः ॥ ३६।३४३ ॥
upadhāna-ādi-sahitam yaḥ stalpam adhitiṣṭhati . devālaye viśeṣeṇa prākāre vā api mūḍha-dhīḥ .. 36.343 ..
स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते । सप्त पञ्च च जन्मानि ततो मानुषतां व्रजेथ् ॥ ३६.३४४ ॥
स भवेत् दुर्भगः च एव सर्प-यौनिषु जायते । सप्त पञ्च च जन्मानि ततस् मानुष-ताम् व्रजेथ् ॥ ३६।३४४ ॥
sa bhavet durbhagaḥ ca eva sarpa-yauniṣu jāyate . sapta pañca ca janmāni tatas mānuṣa-tām vrajeth .. 36.344 ..
शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः । स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि ॥ ३६.३४५ ॥
शयीत देवता-गेहे व्याधितः यः तु दुर्मतिः । स भवेत् दुर्मनाः प्रेत्य च इह च जन्मनि ॥ ३६।३४५ ॥
śayīta devatā-gehe vyādhitaḥ yaḥ tu durmatiḥ . sa bhavet durmanāḥ pretya ca iha ca janmani .. 36.345 ..
यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे । स भवेद्दुरितष्षण्डस्सप्तजन्मानि पञ्च च ॥ ३६.३४६ ॥
यः स्त्रिया सहितः मूढः शयीत भगवत्-गृहे । स भवेत् दुरित-षण्डः सप्त-जन्मानि पञ्च च ॥ ३६।३४६ ॥
yaḥ striyā sahitaḥ mūḍhaḥ śayīta bhagavat-gṛhe . sa bhavet durita-ṣaṇḍaḥ sapta-janmāni pañca ca .. 36.346 ..
योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः । आसनानि त्वसंख्यानि देवागारे न चाचरेथ् ॥ ३६.३४७ ॥
योगिभिः योग-सिद्धि-अर्थम् अभ्यस्यन्ते विशेषतः । आसनानि तु असंख्यानि देवागारे न च आचरेथ् ॥ ३६।३४७ ॥
yogibhiḥ yoga-siddhi-artham abhyasyante viśeṣataḥ . āsanāni tu asaṃkhyāni devāgāre na ca ācareth .. 36.347 ..
मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः । हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः ॥ ३६.३४८ ॥
मन्त्र-योग-परैः तद्वत् लय-योग-परायणैः । हठ-योगिभिः एतानि क्रियन्ते राजयोगिभिः ॥ ३६।३४८ ॥
mantra-yoga-paraiḥ tadvat laya-yoga-parāyaṇaiḥ . haṭha-yogibhiḥ etāni kriyante rājayogibhiḥ .. 36.348 ..
स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा । सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा ॥ ३६.३४९ ॥
स्वस्तिकम् सर्वतोभद्रम् सिद्धम् सिंहासनम् तथा । सव्यम् खूलम् सुखम् च एव गोमुखम् गरुडम् तथा ॥ ३६।३४९ ॥
svastikam sarvatobhadram siddham siṃhāsanam tathā . savyam khūlam sukham ca eva gomukham garuḍam tathā .. 36.349 ..
मयूरं मत्स्यमत्स्येन्द्रं मण्डूकं मुद्गरं मृगं । कुञ्जरं कुक्कुटं नागं काष्ठं क्रैञ्चं च कूर्मकं ॥ ३६.३५० ॥
मयूरम् मत्स्य-मत्स्येन्द्रम् मण्डूकम् मुद्गरम् मृगम् । कुञ्जरम् कुक्कुटम् नागम् काष्ठम् क्रैञ्चम् च कूर्मकम् ॥ ३६।३५० ॥
mayūram matsya-matsyendram maṇḍūkam mudgaram mṛgam . kuñjaram kukkuṭam nāgam kāṣṭham kraiñcam ca kūrmakam .. 36.350 ..
खड्गं च कामदहनं वैयाघ्रं वेणुकासनं । योन्यासनं वासकं च धीरं पद्मासनं तथा ॥ ३६.३५१ ॥
खड्गम् च कामदहनम् वैयाघ्रम् वेणुका-आसनम् । योन्यासनम् वासकम् च धीरम् पद्मासनम् तथा ॥ ३६।३५१ ॥
khaḍgam ca kāmadahanam vaiyāghram veṇukā-āsanam . yonyāsanam vāsakam ca dhīram padmāsanam tathā .. 36.351 ..
वाराहं चैव पर्यङ्कं पतगासनमेव च । त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा ॥ ३६.३५२ ॥
वाराहम् च एव पर्यङ्कम् पतग-आसनम् एव च । त्रिपदम् हस्तिकर्णम् च हेमम् अर्धासनम् तथा ॥ ३६।३५२ ॥
vārāham ca eva paryaṅkam pataga-āsanam eva ca . tripadam hastikarṇam ca hemam ardhāsanam tathā .. 36.352 ..
इत्यादीना मासना नामशीतिश्च तुरुत्तरा । अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः ॥ ३६.३५३ ॥
नाम अशीतिः च तुर्-उत्तरा । अन्यानि शास्त्र-सिद्धानि यानि सन्ति विशेषतः ॥ ३६।३५३ ॥
nāma aśītiḥ ca tur-uttarā . anyāni śāstra-siddhāni yāni santi viśeṣataḥ .. 36.353 ..
तान्यास्थायि तु देवाग्रेनो पतिष्ठेत बुद्धिमान् । भुञ्जीयाद्देवतागारे यः पापस्स तु दुर्मनाः ॥ ३६.३५४ ॥
तानि आस्थायि तु उपतिष्ठेत बुद्धिमान् । भुञ्जीयात् देवतागारे यः पापः स तु दुर्मनाः ॥ ३६।३५४ ॥
tāni āsthāyi tu upatiṣṭheta buddhimān . bhuñjīyāt devatāgāre yaḥ pāpaḥ sa tu durmanāḥ .. 36.354 ..
कुक्षिरोगार्दितो भूत्वा जन्मानि दश पञ्च च । ततस्सृगालतां प्राप्य पतेद्धि नरकेऽशुचौ ॥ ३६.३५५ ॥
कुक्षि-रोग-अर्दितः भूत्वा जन्मानि दश पञ्च च । ततस् सृगाल-ताम् प्राप्य पतेत् हि नरके अशुचौ ॥ ३६।३५५ ॥
kukṣi-roga-arditaḥ bhūtvā janmāni daśa pañca ca . tatas sṛgāla-tām prāpya patet hi narake aśucau .. 36.355 ..
यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनं । देवागारे विशेषेण स भवेन्निन्दितो जनः ॥ ३६.३५६ ॥
यः वा मूढ-मतिः मोहात् कारयेत् द्विज-भोजनम् । देवागारे विशेषेण स भवेत् निन्दितः जनः ॥ ३६।३५६ ॥
yaḥ vā mūḍha-matiḥ mohāt kārayet dvija-bhojanam . devāgāre viśeṣeṇa sa bhavet ninditaḥ janaḥ .. 36.356 ..
गर्भागारे चान्तराले तथा चैवार्धमण्डपे । महामण्डपमध्ये च नान्नमद्याद्विशेषतः ॥ ३६.३५७ ॥
गर्भागारे च अन्तराले तथा च एव अर्ध-मण्डपे । महा-मण्डप-मध्ये च न अन्नम् अद्यात् विशेषतः ॥ ३६।३५७ ॥
garbhāgāre ca antarāle tathā ca eva ardha-maṇḍape . mahā-maṇḍapa-madhye ca na annam adyāt viśeṣataḥ .. 36.357 ..
अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते । आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतथ् ॥ ३६.३५८ ॥
अन्नम् पात्रे विनिक्षिप्य पुट-पत्र-आदि-निर्मिते । तु कृत्वा एव यत् अद्यात् भोजनम् ॥ ३६।३५८ ॥
annam pātre vinikṣipya puṭa-patra-ādi-nirmite . tu kṛtvā eva yat adyāt bhojanam .. 36.358 ..
न देवताप्रसादस्य गृहीतस्याञ्जलौ तथा । न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतं ॥ ३६.३५९ ॥
न देवता-प्रसादस्य गृहीतस्य अञ्जलौ तथा । न च एव अपोशनम् कुर्यात् कुर्यात् चेद् तत् असम्मतम् ॥ ३६।३५९ ॥
na devatā-prasādasya gṛhītasya añjalau tathā . na ca eva apośanam kuryāt kuryāt ced tat asammatam .. 36.359 ..
यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेथ् । स गच्छेन्नरकान्क्रूरान्यावन्त उदबिन्दवः ॥ ३६.३६० ॥
यः तु पानीय-पात्राणि पीतानि अत्र तु । स गच्छेत् नरकान् क्रूरान् यावन्तः उद-बिन्दवः ॥ ३६।३६० ॥
yaḥ tu pānīya-pātrāṇi pītāni atra tu . sa gacchet narakān krūrān yāvantaḥ uda-bindavaḥ .. 36.360 ..
पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः । निवेदितं तु देवस्य देवस्याग्रे विशेषतः ॥ ३६.३६१ ॥
पात्रे तिष्ठन्ति शरदः तावतीः न अत्र संशयः । निवेदितम् तु देवस्य देवस्य अग्रे विशेषतः ॥ ३६।३६१ ॥
pātre tiṣṭhanti śaradaḥ tāvatīḥ na atra saṃśayaḥ . niveditam tu devasya devasya agre viśeṣataḥ .. 36.361 ..
प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः । अश्नन्तिभक्तास्सर्वेऽपिगृहीत्वैवांजलौ पुनः ॥ ३६.३६२ ॥
प्रदद्यात् तु क्रमेण एव वर्ण-आश्रम-विधानतः । अश्नन्ति भक्ताः सर्वे अपि गृहीत्वा एव अंजलौ पुनर् ॥ ३६।३६२ ॥
pradadyāt tu krameṇa eva varṇa-āśrama-vidhānataḥ . aśnanti bhaktāḥ sarve api gṛhītvā eva aṃjalau punar .. 36.362 ..
ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियं । नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरं ॥ ३६.३६३ ॥
ब्रह्मण्यदेवम् उद्दिश्य पुरुषम् ब्राह्मणप्रियम् । नारायणम् अनादि-अन्तम् विष्णुम् सर्व-ईश्वर-ईश्वरम् ॥ ३६।३६३ ॥
brahmaṇyadevam uddiśya puruṣam brāhmaṇapriyam . nārāyaṇam anādi-antam viṣṇum sarva-īśvara-īśvaram .. 36.363 ..
ब्राह्मणान्भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये । तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः ॥ ३६.३६४ ॥
ब्राह्मणान् भोजयेत् यः तु कर्म-साद्गुण्य-सिद्धये । तथा निष्कृति-निष्पत्त्या ऐशास्त्र-उक्तेन विधानतः ॥ ३६।३६४ ॥
brāhmaṇān bhojayet yaḥ tu karma-sādguṇya-siddhaye . tathā niṣkṛti-niṣpattyā aiśāstra-uktena vidhānataḥ .. 36.364 ..
कारयेन्नोक्तदेशेषु कदापि द्विजभोजनं । यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः ॥ ३६.३६५ ॥
कारयेत् न उक्त-देशेषु कदापि द्विज-भोजनम् । यः तु अन्नम् दापयेत् विप्रः द्विजेभ्यः भक्ति-संयुतः ॥ ३६।३६५ ॥
kārayet na ukta-deśeṣu kadāpi dvija-bhojanam . yaḥ tu annam dāpayet vipraḥ dvijebhyaḥ bhakti-saṃyutaḥ .. 36.365 ..
निवेदितं तु देवस्य संतुष्ट्यैस्वस्य तस्य च । तस्य तुष्यति देवेश आदाता तु विपद्यते ॥ ३६.३६६ ॥
निवेदितम् तु देवस्य संतुष्ट्यै स्वस्य तस्य च । तस्य तुष्यति देवेशः आदाता तु विपद्यते ॥ ३६।३६६ ॥
niveditam tu devasya saṃtuṣṭyai svasya tasya ca . tasya tuṣyati deveśaḥ ādātā tu vipadyate .. 36.366 ..
दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः । बहुशस्संचितं पूर्वमादाता समवाप्नुयाथ् ॥ ३६.३६७ ॥
दातुः तु सकलम् पापम् मनः-वाच्-काय-कर्मभिः । बहुशस् संचितम् पूर्वम् आदाता समवाप्नुयाथ् ॥ ३६।३६७ ॥
dātuḥ tu sakalam pāpam manaḥ-vāc-kāya-karmabhiḥ . bahuśas saṃcitam pūrvam ādātā samavāpnuyāth .. 36.367 ..
प्रसादोऽपिहि देवस्य परपाकरुचिं नरं । न जातु पावयेन्नैव पावयेत्पावयेन्न तु ॥ ३६.३६८ ॥
प्रसादः अपि हि देवस्य पर-पाक-रुचिम् नरम् । न जातु पावयेत् न एव पावयेत् पावयेत् न तु ॥ ३६।३६८ ॥
prasādaḥ api hi devasya para-pāka-rucim naram . na jātu pāvayet na eva pāvayet pāvayet na tu .. 36.368 ..
यदृच्छालाभसंतुष्टं यथा भक्तवरं तथा । महिमानं प्रसादस्य योऽवजानाति मूढधीः ॥ ३६.३६९ ॥
यदृच्छा-लाभ-संतुष्टम् यथा भक्त-वरम् तथा । महिमानम् प्रसादस्य यः अवजानाति मूढ-धीः ॥ ३६।३६९ ॥
yadṛcchā-lābha-saṃtuṣṭam yathā bhakta-varam tathā . mahimānam prasādasya yaḥ avajānāti mūḍha-dhīḥ .. 36.369 ..
तेन भुक्तं भवेत्पापं दातुरेव न संशयः । अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलं ॥ ३६.३७० ॥
तेन भुक्तम् भवेत् पापम् दातुः एव न संशयः । अयुतम् ब्राह्मणानाम् तु तर्पयित्वा तु यत् फलम् ॥ ३६।३७० ॥
tena bhuktam bhavet pāpam dātuḥ eva na saṃśayaḥ . ayutam brāhmaṇānām tu tarpayitvā tu yat phalam .. 36.370 ..
तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु । अथान्नविक्रयेदोषः कथ्यते विधिवित्तमैः ॥ ३६.३७१ ॥
तद्-फलम् नश्यति क्षिप्रम् उच्छिष्टस्य कणेन तु । अथ अन्न-विक्रये दोषः कथ्यते विधि-वित्तमैः ॥ ३६।३७१ ॥
tad-phalam naśyati kṣipram ucchiṣṭasya kaṇena tu . atha anna-vikraye doṣaḥ kathyate vidhi-vittamaiḥ .. 36.371 ..
अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः । प्रेत्य सृगालतां यान्ति नव जन्मानि पञ्च च ॥ ३६.३७२ ॥
अन्न-विक्रयिणः पापाः व्रजन्ति यम-यातनाः । प्रेत्य सृगाल-ताम् यान्ति नव जन्मानि पञ्च च ॥ ३६।३७२ ॥
anna-vikrayiṇaḥ pāpāḥ vrajanti yama-yātanāḥ . pretya sṛgāla-tām yānti nava janmāni pañca ca .. 36.372 ..
यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः । चण्डालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः ॥ ३६.३७३ ॥
यः तु अन्नम् भगवत्-गेहे विक्रीणाति विशेषतः । चण्डालः जायते प्रेत्य क्षुधितः च चरेत् मुहुर् ॥ ३६।३७३ ॥
yaḥ tu annam bhagavat-gehe vikrīṇāti viśeṣataḥ . caṇḍālaḥ jāyate pretya kṣudhitaḥ ca caret muhur .. 36.373 ..
विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः । येऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे ॥ ३६.३७४ ॥
विक्रीणते तु ये विप्राः वाणिज्ये दत्त-चक्षुषः । ये अपि अन्नम् उपहार-आदि च इतरत् देवमन्दिरे ॥ ३६।३७४ ॥
vikrīṇate tu ye viprāḥ vāṇijye datta-cakṣuṣaḥ . ye api annam upahāra-ādi ca itarat devamandire .. 36.374 ..
तेऽपि यान्ति महाघोरं नरकं भृशदारुणं । यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः ॥ ३६.३७५ ॥
ते अपि यान्ति महा-घोरम् नरकम् भृश-दारुणम् । यत्र पालीयाय उद-बिन्दवः ॥ ३६।३७५ ॥
te api yānti mahā-ghoram narakam bhṛśa-dāruṇam . yatra pālīyāya uda-bindavaḥ .. 36.375 ..
कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः । ये गृहीत्वा तदन्नादि भुञ्जते क्षुधिता जनाः ॥ ३६.३७६ ॥
स्यात् तप्यन्ते तत्र ते जनाः । ये गृहीत्वा तत् अन्न-आदि भुञ्जते क्षुधिताः जनाः ॥ ३६।३७६ ॥
syāt tapyante tatra te janāḥ . ye gṛhītvā tat anna-ādi bhuñjate kṣudhitāḥ janāḥ .. 36.376 ..
उपकुर्वन्तिये वा तानुच्यन्तेऽभक्ष्यभोजनाः । अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितं ॥ ३६.३७७ ॥
उपकुर्वन्ति ये वा तान् उच्यन्ते अभक्ष्य-भोजनाः । अन्नम् प्राणाः मनुष्याणाम् सर्वम् अन्ने प्रतिष्ठितम् ॥ ३६।३७७ ॥
upakurvanti ye vā tān ucyante abhakṣya-bhojanāḥ . annam prāṇāḥ manuṣyāṇām sarvam anne pratiṣṭhitam .. 36.377 ..
अन्नं ब्रह्मात्मकं विन्द्याद्विन्द्यादन्नमयीं तनुं । अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः ॥ ३६.३७८ ॥
अन्नम् ब्रह्म-आत्मकम् विन्द्यात् विन्द्यात् अन्न-मयीम् तनुम् । अन्नम् विक्रीणते ये तु प्राण-विक्रयिणः स्मृताः ॥ ३६।३७८ ॥
annam brahma-ātmakam vindyāt vindyāt anna-mayīm tanum . annam vikrīṇate ye tu prāṇa-vikrayiṇaḥ smṛtāḥ .. 36.378 ..
तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ । न कुर्याद्देवता गेहेऽभ्युदयं श्राद्धभोजनं ॥ ३६.३७९ ॥
तस्मात् सर्व-प्रयत्नेन त्यजेत् तद्-क्रय-विक्रयौ । न कुर्यात् देवताः गेहे अभ्युदयम् श्राद्ध-भोजनम् ॥ ३६।३७९ ॥
tasmāt sarva-prayatnena tyajet tad-kraya-vikrayau . na kuryāt devatāḥ gehe abhyudayam śrāddha-bhojanam .. 36.379 ..
कुर्यान्न चापि श्राद्धादीन्विहायापि द्विजाशनं । तस्मात्सर्वप्रयत्नेन नाश्नीयाद्धरिमन्दिरे ॥ ३६.३८० ॥
कुर्यात् न च अपि श्राद्ध-आदीन् विहाय अपि द्विज-अशनम् । तस्मात् सर्व-प्रयत्नेन न अश्नीयात् हरि-मन्दिरे ॥ ३६।३८० ॥
kuryāt na ca api śrāddha-ādīn vihāya api dvija-aśanam . tasmāt sarva-prayatnena na aśnīyāt hari-mandire .. 36.380 ..
मुधा संभाषते यस्तु प्रविश्य हरिमन्दिरं । स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीं ॥ ३६.३८१ ॥
मुधा संभाषते यः तु प्रविश्य हरि-मन्दिरम् । स निधिम् पुरतस् सिद्धम् त्यक्त्वा भिक्षति काकिणीम् ॥ ३६।३८१ ॥
mudhā saṃbhāṣate yaḥ tu praviśya hari-mandiram . sa nidhim puratas siddham tyaktvā bhikṣati kākiṇīm .. 36.381 ..
यस्तु संभाषते व्यर्थं देवालयमुपाश्रितः । सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः ॥ ३६.३८२ ॥
यः तु संभाषते व्यर्थम् देवालयम् उपाश्रितः । सिद्धम् अन्नम् परित्यज्य भिक्षाम् अटति दुर्जनः ॥ ३६।३८२ ॥
yaḥ tu saṃbhāṣate vyartham devālayam upāśritaḥ . siddham annam parityajya bhikṣām aṭati durjanaḥ .. 36.382 ..
यन्मुहूर्तं क्षणं वापि परमात्मान चिन्त्यते । सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया ॥ ३६.३८३ ॥
यत् मुहूर्तम् क्षणम् वा अपि चिन्त्यते । सा हानिः तत् मम अह छिद्रम् सा भ्रान्तिः सा तु विक्रिया ॥ ३६।३८३ ॥
yat muhūrtam kṣaṇam vā api cintyate . sā hāniḥ tat mama aha chidram sā bhrāntiḥ sā tu vikriyā .. 36.383 ..
दस्युभिर्मुषितेनेव दग्धेनेव दवाग्निना । व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना ॥ ३६.३८४ ॥
दस्युभिः मुषितेन इव दग्धेन इव दव-अग्निना । व्याधिभिः पीडितेन इव च आकृष्टेन इव मृत्युना ॥ ३६।३८४ ॥
dasyubhiḥ muṣitena iva dagdhena iva dava-agninā . vyādhibhiḥ pīḍitena iva ca ākṛṣṭena iva mṛtyunā .. 36.384 ..
भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः । मग्नेनेव महासिंधौ हतेनेव च वात्यया ॥ ३६.३८५ ॥
भीतेन इव उत्तमर्णेन धर्षितेन इव राजभिः । मग्नेन इव महा-सिंधौ हतेन इव च वा अत्यया ॥ ३६।३८५ ॥
bhītena iva uttamarṇena dharṣitena iva rājabhiḥ . magnena iva mahā-siṃdhau hatena iva ca vā atyayā .. 36.385 ..
संपिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते । सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः ॥ ३६.३८६ ॥
संपिष्टेन इव पाषाणैः आक्रन्देत् यः स मुच्यते । सन्ति अनेका प्रदेशाः च समयाः च विशेषतः ॥ ३६।३८६ ॥
saṃpiṣṭena iva pāṣāṇaiḥ ākrandet yaḥ sa mucyate . santi anekā pradeśāḥ ca samayāḥ ca viśeṣataḥ .. 36.386 ..
लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः । तस्माद्देवगृहं गत्वा नरो नान्यपरो भवेथ् ॥ ३६.३८७ ॥
लोकयात्रा-विनिष्पत्त्यै देहयात्रा-उपयोगिनः । तस्मात् देवगृहम् गत्वा नरः न अन्य-परः ॥ ३६।३८७ ॥
lokayātrā-viniṣpattyai dehayātrā-upayoginaḥ . tasmāt devagṛham gatvā naraḥ na anya-paraḥ .. 36.387 ..
यत्प्रसंगे हरेर्नाम तन्ममहत्त्वं च नाप्यते । स सर्वोऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितं ॥ ३६.३८८ ॥
यद्-प्रसंगे हरेः नाम च ना आप्यते । स सर्वः अपि मुधा प्रोक्तः मिथ्या इति एके वदन्ति तम् ॥ ३६।३८८ ॥
yad-prasaṃge hareḥ nāma ca nā āpyate . sa sarvaḥ api mudhā proktaḥ mithyā iti eke vadanti tam .. 36.388 ..
न हि देवस्य पुरतः क्वचिदप्यनृतं वदेथ् । सत्यस्वरूपी भगवान्सत्यं तस्मैन गूहयेथ् ॥ ३६.३८९ ॥
न हि देवस्य पुरतस् क्वचिद् अपि अनृतम् वदेथ् । सत्य-स्वरूपी भगवान् सत्यम् तस्मै न गूहयेथ् ॥ ३६।३८९ ॥
na hi devasya puratas kvacid api anṛtam vadeth . satya-svarūpī bhagavān satyam tasmai na gūhayeth .. 36.389 ..
सत्यमेव परं ब्रह्म सत्यमेव परं तपः । सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतं ॥ ३६.३९० ॥
सत्यम् एव परम् ब्रह्म सत्यम् एव परम् तपः । सत्यम् एव परः यज्ञः सत्यम् एव परम् श्रुतम् ॥ ३६।३९० ॥
satyam eva param brahma satyam eva param tapaḥ . satyam eva paraḥ yajñaḥ satyam eva param śrutam .. 36.390 ..
सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलं । तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनं ॥ ३६.३९१ ॥
सत्यम् देवेषु जागर्ति सत्यम् धर्म-तरोः फलम् । तपः-यज्ञः च पुण्यम् च देव-ऋषि-पितृ-पूजनम् ॥ ३६।३९१ ॥
satyam deveṣu jāgarti satyam dharma-taroḥ phalam . tapaḥ-yajñaḥ ca puṇyam ca deva-ṛṣi-pitṛ-pūjanam .. 36.391 ..
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितं । सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती ॥ ३६.३९२ ॥
आद्यः विधिः च विद्या च सर्वम् सत्ये प्रतिष्ठितम् । सत्यम् यज्ञम् तथा वेदाः सत्या देवी सरस्वती ॥ ३६।३९२ ॥
ādyaḥ vidhiḥ ca vidyā ca sarvam satye pratiṣṭhitam . satyam yajñam tathā vedāḥ satyā devī sarasvatī .. 36.392 ..
व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च । सत्येन वायुरावाति सत्येनार्ऽकः प्रकाशते ॥ ३६.३९३ ॥
व्रत-चर्या तथा सत्यम् ओङ्कारः सत्यम् एव च । सत्येन वायुः आवाति सत्येन अर्ऽकः प्रकाशते ॥ ३६।३९३ ॥
vrata-caryā tathā satyam oṅkāraḥ satyam eva ca . satyena vāyuḥ āvāti satyena ar'kaḥ prakāśate .. 36.393 ..
दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिं । पर्जन्यो धरणीभागे सत्येनापः प्रवर्षति ॥ ३६.३९४ ॥
दहति अग्निः च सत्येन यायात् सत्येन सत्-गतिम् । पर्जन्यः धरणी-भागे सत्येन अपः प्रवर्षति ॥ ३६।३९४ ॥
dahati agniḥ ca satyena yāyāt satyena sat-gatim . parjanyaḥ dharaṇī-bhāge satyena apaḥ pravarṣati .. 36.394 ..
स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनं । सत्यं तु वदतो लोके तुलितं स्यान्न संशयः ॥ ३६.३९५ ॥
स्वाध्यायः सर्व-वेदानाम् सर्व-तीर्थ-अवगाहनम् । सत्यम् तु वदतः लोके तुलितम् स्यात् न संशयः ॥ ३६।३९५ ॥
svādhyāyaḥ sarva-vedānām sarva-tīrtha-avagāhanam . satyam tu vadataḥ loke tulitam syāt na saṃśayaḥ .. 36.395 ..
अश्वमेधसहस्रं च सत्यं च तुलया कृतं । अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते ॥ ३६.३९६ ॥
अश्वमेध-सहस्रम् च सत्यम् च तुलया कृतम् । अश्वमेध-सहस्रात् तु भारः सत्ये विशिष्यते ॥ ३६।३९६ ॥
aśvamedha-sahasram ca satyam ca tulayā kṛtam . aśvamedha-sahasrāt tu bhāraḥ satye viśiṣyate .. 36.396 ..
सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा । सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदं ॥ ३६.३९७ ॥
सत्येन देवाः प्रीणन्ति पितरः ब्राह्मणाः तथा । सत्यम् आहुः परम् धर्मम् सत्यम् आहुः परम् पदम् ॥ ३६।३९७ ॥
satyena devāḥ prīṇanti pitaraḥ brāhmaṇāḥ tathā . satyam āhuḥ param dharmam satyam āhuḥ param padam .. 36.397 ..
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेथ् । ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः ॥ ३६.३९८ ॥
सत्यम् आहुः परम् ब्रह्म तस्मात् सत्यम् न लोभयेथ् । ये सत्य-निरताः सत्य-शपथाः सत्य-विक्रमाः ॥ ३६।३९८ ॥
satyam āhuḥ param brahma tasmāt satyam na lobhayeth . ye satya-niratāḥ satya-śapathāḥ satya-vikramāḥ .. 36.398 ..
महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन् । दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः ॥ ३६.३९९ ॥
महत्मानः मुनि-श्रेष्ठाः ते पराम् सिद्धिम् आप्नुवन् । दैवतैः सह मोदन्ते स्वर्गे सत्य-परायणाः ॥ ३६।३९९ ॥
mahatmānaḥ muni-śreṣṭhāḥ te parām siddhim āpnuvan . daivataiḥ saha modante svarge satya-parāyaṇāḥ .. 36.399 ..
अप्चरोगणसंकीर्णैर्विमानैस्संचरन्ति च । वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परं ॥ ३६.४०० ॥
अप्-चरः-गण-संकीर्णैः विमानैः संचरन्ति च । वक्तव्यम् च सदा सत्यम् न सत्यात् विद्यते परम् ॥ ३६।४०० ॥
ap-caraḥ-gaṇa-saṃkīrṇaiḥ vimānaiḥ saṃcaranti ca . vaktavyam ca sadā satyam na satyāt vidyate param .. 36.400 ..
अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे । स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतं ॥ ३६.४०१ ॥
अगोधे विमले शुद्धे सत्य-तीर्थे शुचि-ह्रदे । स्नातव्यम् मनसा युक्तैः तत् स्नानम् परमम् स्मृतम् ॥ ३६।४०१ ॥
agodhe vimale śuddhe satya-tīrthe śuci-hrade . snātavyam manasā yuktaiḥ tat snānam paramam smṛtam .. 36.401 ..
देवार्थे वा परार्थे वा पुत्रार्थे वाऽऽत्मने तथा । येऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः ॥ ३६.४०२ ॥
देव-अर्थे वा पर-अर्थे वा पुत्र-अर्थे वा आत्मने तथा । ये अनृतम् न अभिभाषन्ते ते स्वर्गम् यान्ति मानवाः ॥ ३६।४०२ ॥
deva-arthe vā para-arthe vā putra-arthe vā ātmane tathā . ye anṛtam na abhibhāṣante te svargam yānti mānavāḥ .. 36.402 ..
यस्सत्यवादी पुरुषो नानृतं परिभाषते । संप्राप्य विरजान्लोकानुषित्वा शाश्वतीस्समाः ॥ ३६.४०३ ॥
यः सत्य-वादी पुरुषः न अनृतम् परिभाषते । संप्राप्य विरजान् लोकान् उषित्वा शाश्वतीः समाः ॥ ३६।४०३ ॥
yaḥ satya-vādī puruṣaḥ na anṛtam paribhāṣate . saṃprāpya virajān lokān uṣitvā śāśvatīḥ samāḥ .. 36.403 ..
भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले । साक्षिणस्सन्तिसर्वेते देवता भास्करादयः ॥ ३६.४०४ ॥
भगवत्-भक्ति-मुक्तानाम् जायते श्रीमताम् कुले । साक्षिणः सन्ति सर्वे एते देवताः भास्कर-आदयः ॥ ३६।४०४ ॥
bhagavat-bhakti-muktānām jāyate śrīmatām kule . sākṣiṇaḥ santi sarve ete devatāḥ bhāskara-ādayaḥ .. 36.404 ..
परीक्षन्ते च सर्वासु दशासु पुरुषं सदा । न वाच्यमनृतं तस्मात्प्राणैः कण्ठगतैरपि ॥ ३६.४०५ ॥
परीक्षन्ते च सर्वासु दशासु पुरुषम् सदा । न वाच्यम् अनृतम् तस्मात् प्राणैः कण्ठ-गतैः अपि ॥ ३६।४०५ ॥
parīkṣante ca sarvāsu daśāsu puruṣam sadā . na vācyam anṛtam tasmāt prāṇaiḥ kaṇṭha-gataiḥ api .. 36.405 ..
येऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते । देवागारे विशेषेण ते प्रणश्यन्ति सान्वयं ॥ ३६.४०६ ॥
ये अनृतम् ब्रुवते मूढाः शपथानि च कुर्वते । देवागारे विशेषेण ते प्रणश्यन्ति स अन्वयम् ॥ ३६।४०६ ॥
ye anṛtam bruvate mūḍhāḥ śapathāni ca kurvate . devāgāre viśeṣeṇa te praṇaśyanti sa anvayam .. 36.406 ..
पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः । गीतवादित्रनृत्तादीन्पुण्याख्यानकथाश्च ये ॥ ३६.४०७ ॥
पुनर्जन्म-शतम् यान्ति कीटड-योनिषु अनेकशस् । गीत-वादित्र-नृत्त-आदीन् पुण्य-आख्यान-कथाः च ये ॥ ३६।४०७ ॥
punarjanma-śatam yānti kīṭaḍa-yoniṣu anekaśas . gīta-vāditra-nṛtta-ādīn puṇya-ākhyāna-kathāḥ ca ye .. 36.407 ..
लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः । ते यान्ति नरकं पापा जायन्ते नीचयोनिषु ॥ ३६.४०८ ॥
लोपयन्ति अथ पारुष्यैः मन्दिरे मधुविद्विषः । ते यान्ति नरकम् पापाः जायन्ते नीच-योनिषु ॥ ३६।४०८ ॥
lopayanti atha pāruṣyaiḥ mandire madhuvidviṣaḥ . te yānti narakam pāpāḥ jāyante nīca-yoniṣu .. 36.408 ..
तथा तेऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः । तथान्ते क्रूरा नव जन्मानि पञ्च च ॥ ३६.४०९ ॥
तथा ते अपि दुरात्मानः गार्दभीम् योनिम् आप्नुयुः । तथा अन्ते क्रूराः नव जन्मानि पञ्च च ॥ ३६।४०९ ॥
tathā te api durātmānaḥ gārdabhīm yonim āpnuyuḥ . tathā ante krūrāḥ nava janmāni pañca ca .. 36.409 ..
अनिबद्धप्रलापान्ये कुर्वते देवमन्दिरे । तेऽपि तित्तिरितां भूत्वा जायन्ते जन्मपञ्चकं ॥ ३६.४१० ॥
अ निबद्ध-प्रलापान् ये कुर्वते देव-मन्दिरे । ते अपि तित्तिरिताम् भूत्वा जायन्ते जन्म-पञ्चकम् ॥ ३६।४१० ॥
a nibaddha-pralāpān ye kurvate deva-mandire . te api tittiritām bhūtvā jāyante janma-pañcakam .. 36.410 ..
देवभाषां परित्यज्य देशभाषासु यो नरः । स्तुवीत देवतागेहे देवस्याग्रे विशेषतः ॥ ३६.४११ ॥
देव-भाषाम् परित्यज्य देश-भाषासु यः नरः । स्तुवीत देवता-गेहे देवस्य अग्रे विशेषतः ॥ ३६।४११ ॥
deva-bhāṣām parityajya deśa-bhāṣāsu yaḥ naraḥ . stuvīta devatā-gehe devasya agre viśeṣataḥ .. 36.411 ..
तस्य दोषोमहानाशु नैव पूजाफलं भवेथ् । असाराणि तु शास्त्राणि भूयांसि पृथिवीतले ॥ ३६.४१२ ॥
तस्य दोषः महान् आशु ना एव पूजा-फलम् । असाराणि तु शास्त्राणि भूयांसि पृथिवी-तले ॥ ३६।४१२ ॥
tasya doṣaḥ mahān āśu nā eva pūjā-phalam . asārāṇi tu śāstrāṇi bhūyāṃsi pṛthivī-tale .. 36.412 ..
यत्र देवस्य महात्म्यकथनं न प्रपञ्च्यते । तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः ॥ ३६.४१३ ॥
यत्र देवस्य महात्म्य-कथनम् न प्रपञ्च्यते । तेषु शास्त्रेषु ये जाताः शास्त्र-अर्थाः च विशेषतः ॥ ३६।४१३ ॥
yatra devasya mahātmya-kathanam na prapañcyate . teṣu śāstreṣu ye jātāḥ śāstra-arthāḥ ca viśeṣataḥ .. 36.413 ..
वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि । चित्रशिल्पा न संदेहो नरस्तेन न मुच्यते ॥ ३६.४१४ ॥
वादाः च प्रतिवादाः च संस्काराः सर्वे एव हि । चित्र-शिल्पाः न संदेहः नरः तेन न मुच्यते ॥ ३६।४१४ ॥
vādāḥ ca prativādāḥ ca saṃskārāḥ sarve eva hi . citra-śilpāḥ na saṃdehaḥ naraḥ tena na mucyate .. 36.414 ..
सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनं । या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका ॥ ३६.४१५ ॥
सा विद्या या हरिम् स्तौति सा क्रिया यत् तत् अर्चनम् । या न्या यत् अन्यत् अखिलम् दुष्ट-उदर्का हि जीविका ॥ ३६।४१५ ॥
sā vidyā yā harim stauti sā kriyā yat tat arcanam . yā nyā yat anyat akhilam duṣṭa-udarkā hi jīvikā .. 36.415 ..
न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः । मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना ॥ ३६.४१६ ॥
न हि देवगृहम् गत्वा शास्त्र-अर्थैः नी रसैः नरः । मुहूर्तम् क्षपयेत् कालम् तत् देवस्य विमानना ॥ ३६।४१६ ॥
na hi devagṛham gatvā śāstra-arthaiḥ nī rasaiḥ naraḥ . muhūrtam kṣapayet kālam tat devasya vimānanā .. 36.416 ..
विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः । तदन्तस्संप्रविश्यैव वाच्यवाचकभेदतः ॥ ३६.४१७ ॥
विशालम् वाच्-मयम् सर्वम् सृष्ट्वा स्रष्टा हरिः प्रभुः । तद्-अन्तर् संप्रविश्य एव वाच्य-वाचक-भेदतः ॥ ३६।४१७ ॥
viśālam vāc-mayam sarvam sṛṣṭvā sraṣṭā hariḥ prabhuḥ . tad-antar saṃpraviśya eva vācya-vācaka-bhedataḥ .. 36.417 ..
विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः । सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा ॥ ३६.४१८ ॥
विज्ञानाय मनुष्याणाम् विज्ञान-घन-विग्रहः । सदा उपकुरुते यस्मात् सर्वे भक्त-वराः सदा ॥ ३६।४१८ ॥
vijñānāya manuṣyāṇām vijñāna-ghana-vigrahaḥ . sadā upakurute yasmāt sarve bhakta-varāḥ sadā .. 36.418 ..
सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरं । तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा ॥ ३६.४१९ ॥
सर्वाः वाचः विमुच्य अन्याः चिन्तयानाः च सादरम् । तद्-महत्त्व-कथा-गन्ध-दरिद्रम् वाचनम् तथा ॥ ३६।४१९ ॥
sarvāḥ vācaḥ vimucya anyāḥ cintayānāḥ ca sādaram . tad-mahattva-kathā-gandha-daridram vācanam tathā .. 36.419 ..
पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः । स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमं ॥ ३६.४२० ॥
पाठनम् लेखन-आद्यम् च ना एव कुर्यात् गृहे हरेः । स भवेत् अक्षर-द्रोङी यः तु कुर्यात् व्यतिक्रमम् ॥ ३६।४२० ॥
pāṭhanam lekhana-ādyam ca nā eva kuryāt gṛhe hareḥ . sa bhavet akṣara-droṅī yaḥ tu kuryāt vyatikramam .. 36.420 ..
द्रुह्येत्स वाङ्मयायापि तस्माद्युक्ततरो भवेथ् । यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा ॥ ३६.४२१ ॥
द्रुह्येत् स वाच्-मयाय अपि तस्मात् युक्ततरः । यः तु देवगृहम् गत्वा रोदिति प्रणयात् यथा ॥ ३६।४२१ ॥
druhyet sa vāc-mayāya api tasmāt yuktataraḥ . yaḥ tu devagṛham gatvā roditi praṇayāt yathā .. 36.421 ..
दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलं । निर्वाणपरमं स्थानं म्लानेन मनसा तु यः ॥ ३६.४२२ ॥
दुःखितः स्तौति वा देवम् तत् स्यात् मानसिकम् मलम् । निर्वाण-परमम् स्थानम् म्लानेन मनसा तु यः ॥ ३६।४२२ ॥
duḥkhitaḥ stauti vā devam tat syāt mānasikam malam . nirvāṇa-paramam sthānam mlānena manasā tu yaḥ .. 36.422 ..
सेवते स न जानाति तद्विष्णोः परमं पदं । नारी वा पुरुषो वापि गत्वा देवगृहं क्वचिथ् ॥ ३६.४२३ ॥
सेवते स न जानाति तत् विष्णोः परमम् पदम् । नारी वा पुरुषः वा अपि गत्वा देवगृहम् ॥ ३६।४२३ ॥
sevate sa na jānāti tat viṣṇoḥ paramam padam . nārī vā puruṣaḥ vā api gatvā devagṛham .. 36.423 ..
न रोदेत्पातयेन्नाश्रु नैवान्यं रोदयेदपि । यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे ॥ ३६.४२४ ॥
न रोदेत् पातयेत् न अश्रु न एव अन्यम् रोदयेत् अपि । यावन्ति अश्रूणि रुदताम् पतेयुः देव-मन्दिरे ॥ ३६।४२४ ॥
na rodet pātayet na aśru na eva anyam rodayet api . yāvanti aśrūṇi rudatām pateyuḥ deva-mandire .. 36.424 ..
तावन्त्यब्दसहस्राणि ते वसन्ति यमालये । अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः ॥ ३६.४२५ ॥
तावन्ति अब्द-सहस्राणि ते वसन्ति यम-आलये । अनुभूय पुनर् तत्र यातनाः तीव्र-चोदनाः ॥ ३६।४२५ ॥
tāvanti abda-sahasrāṇi te vasanti yama-ālaye . anubhūya punar tatra yātanāḥ tīvra-codanāḥ .. 36.425 ..
प्राप्य तित्तिरितां कालं वसिष्यन्ति चिरं भुवि । नैवात्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचिथ् ॥ ३६.४२६ ॥
प्राप्य तित्तिरिताम् कालम् वसिष्यन्ति चिरम् भुवि । न एव अत्र हिंसाम् कुर्वीत प्राणिनाम् दुःख-दाम् ॥ ३६।४२६ ॥
prāpya tittiritām kālam vasiṣyanti ciram bhuvi . na eva atra hiṃsām kurvīta prāṇinām duḥkha-dām .. 36.426 ..
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः । तपोऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः ॥ ३६.४२७ ॥
अहिंसा वैदिकम् कर्म ध्यानम् इन्द्रिय-निग्रहः । तपः अथ गुरु-शुश्रूषा धर्म-द्वाराः षड् ईरिताः ॥ ३६।४२७ ॥
ahiṃsā vaidikam karma dhyānam indriya-nigrahaḥ . tapaḥ atha guru-śuśrūṣā dharma-dvārāḥ ṣaḍ īritāḥ .. 36.427 ..
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेथ् । त्रीदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः ॥ ३६.४२८ ॥
अहिंसा-अपाश्रयम् धर्मम् दान्तः विद्वान् समाचरेथ् । त्री-दण्डम् सर्व-भूतेषु निधाय पुरुषः शुचिः ॥ ३६।४२८ ॥
ahiṃsā-apāśrayam dharmam dāntaḥ vidvān samācareth . trī-daṇḍam sarva-bhūteṣu nidhāya puruṣaḥ śuciḥ .. 36.428 ..
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नु ते । अहिंसकानि भूतानि दण्डेन विनिहन्तियः ॥ ३६.४२९ ॥
काम-क्रोधौ च संयम्य ततस् सिद्धिम् अवाप्नु ते । अहिंसकानि भूतानि दण्डेन ॥ ३६।४२९ ॥
kāma-krodhau ca saṃyamya tatas siddhim avāpnu te . ahiṃsakāni bhūtāni daṇḍena .. 36.429 ..
आत्मनस्सुखमन्विच्छन्स प्रेत्य न सुखी भवेथ् । आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः ॥ ३६.४३० ॥
आत्मनः सुखम् अन्विच्छन् स प्रेत्य न सुखी । आत्म-उपमः तु भूतेषु यः वैभवति पूरुषः ॥ ३६।४३० ॥
ātmanaḥ sukham anvicchan sa pretya na sukhī . ātma-upamaḥ tu bhūteṣu yaḥ vaibhavati pūruṣaḥ .. 36.430 ..
त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते । सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥ ३६.४३१ ॥
त्यक्त-दण्डः जित-क्रोधः स प्रेत्य सुखम् एधते । सर्व-भूत-आत्म-भूतस्य सर्व-भूतानि पश्यतः ॥ ३६।४३१ ॥
tyakta-daṇḍaḥ jita-krodhaḥ sa pretya sukham edhate . sarva-bhūta-ātma-bhūtasya sarva-bhūtāni paśyataḥ .. 36.431 ..
मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः । न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ॥ ३६.४३२ ॥
मुह्यन्ति मार्गे देवाः च हि अपदस्य पद-एषिणः । न तत् परस्य संदध्यात् प्रतिकूलम् यत् आत्मनः ॥ ३६।४३२ ॥
muhyanti mārge devāḥ ca hi apadasya pada-eṣiṇaḥ . na tat parasya saṃdadhyāt pratikūlam yat ātmanaḥ .. 36.432 ..
एष सांग्राहिको धर्मःकामादन्यः प्रवर्तते । प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ॥ ३६.४३३ ॥
एष सांग्राहिकः धर्मः कामात् अन्यः प्रवर्तते । प्रख्यापने च दाने च सुख-दुःखे प्रिय-अप्रिये ॥ ३६।४३३ ॥
eṣa sāṃgrāhikaḥ dharmaḥ kāmāt anyaḥ pravartate . prakhyāpane ca dāne ca sukha-duḥkhe priya-apriye .. 36.433 ..
आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति । ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः ॥ ३६.४३४ ॥
पुरुषः प्रमाणम् अधिगच्छति । ऋषयः ब्राह्मणाः देवाः प्रशंसन्ति विशेषतः ॥ ३६।४३४ ॥
puruṣaḥ pramāṇam adhigacchati . ṛṣayaḥ brāhmaṇāḥ devāḥ praśaṃsanti viśeṣataḥ .. 36.434 ..
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनाथ् । कर्मणा न नरः कुर्वन्हिंसां जातु विचक्षणः, ॥ ३६.४३५ ॥
अहिंसा-लक्षणम् धर्मम् वेद-प्रामाण्य-दर्णनाथ् । कर्मणा न नरः कुर्वन् हिंसाम् जातु विचक्षणः, ॥ ३६।४३५ ॥
ahiṃsā-lakṣaṇam dharmam veda-prāmāṇya-darṇanāth . karmaṇā na naraḥ kurvan hiṃsām jātu vicakṣaṇaḥ, .. 36.435 ..
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते । चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ॥ ३६.४३६ ॥
वाचा च मनसा च एव ततस् दुःखात् प्रमुच्यते । चतुर्विधा इयम् निर्दिष्टा हि अहिंसा ब्रह्म-वादिभिः ॥ ३६।४३६ ॥
vācā ca manasā ca eva tatas duḥkhāt pramucyate . caturvidhā iyam nirdiṣṭā hi ahiṃsā brahma-vādibhiḥ .. 36.436 ..
एकैकतोऽपि विभ्रष्टा न भवेन्नात्र संशयः । यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ॥ ३६.४३७ ॥
एकैकतः अपि विभ्रष्टा न भवेत् न अत्र संशयः । यथा सर्वः चतुष्पाद् वै त्रिभिः पादैः न तिष्ठति ॥ ३६।४३७ ॥
ekaikataḥ api vibhraṣṭā na bhavet na atra saṃśayaḥ . yathā sarvaḥ catuṣpād vai tribhiḥ pādaiḥ na tiṣṭhati .. 36.437 ..
तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः । यथा नागपदेऽन्यानि पदानि पदगामिनां ॥ ३६.४३८ ॥
तथा एवा इयम् विशेषेण कारणैः प्रोच्यते त्रिभिः । यथा नाग-पदे अन्यानि पदानि पद-गामिनाम् ॥ ३६।४३८ ॥
tathā evā iyam viśeṣeṇa kāraṇaiḥ procyate tribhiḥ . yathā nāga-pade anyāni padāni pada-gāminām .. 36.438 ..
सर्वाण्येवापिधीयन्ते पदजातानि कैञ्जरे । एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा ॥ ३६.४३९ ॥
सर्वाणि एव अपिधीयन्ते पद-जातानि कैञ्जरे । एवम् लोकेषु अहिंसा तु निर्दिष्टा अधर्मतः पुरा ॥ ३६।४३९ ॥
sarvāṇi eva apidhīyante pada-jātāni kaiñjare . evam lokeṣu ahiṃsā tu nirdiṣṭā adharmataḥ purā .. 36.439 ..
न ह्यतस्सदृशं किञ्चिदिहलोके परत्र च । यत्सर्वेष्विह भूतेषु दयाहिंसात्मिका तु या ॥ ३६.४४० ॥
न हि अतस् सदृशम् किञ्चिद् इहलोके परत्र च । यत् सर्वेषु इह भूतेषु दया-हिंसा-आत्मिका तु या ॥ ३६।४४० ॥
na hi atas sadṛśam kiñcid ihaloke paratra ca . yat sarveṣu iha bhūteṣu dayā-hiṃsā-ātmikā tu yā .. 36.440 ..
न भयं विद्यते जातु नरस्येह दयावतः । दयावतामिमे लोकाः परत्रापि तपस्विनां ॥ ३६.४४१ ॥
न भयम् विद्यते जातु नरस्य इह दयावतः । दयावताम् इमे लोकाः परत्र अपि तपस्विनाम् ॥ ३६।४४१ ॥
na bhayam vidyate jātu narasya iha dayāvataḥ . dayāvatām ime lokāḥ paratra api tapasvinām .. 36.441 ..
अभयं सर्वभूतेभ्यो यो ददाति दयापरः । अभयं सर्वभूतानि ददतीति जगौ श्रुतिः ॥ ३६.४४२ ॥
अभयम् सर्व-भूतेभ्यः यः ददाति दया-परः । अभयम् सर्व-भूतानि ददति इति जगौ श्रुतिः ॥ ३६।४४२ ॥
abhayam sarva-bhūtebhyaḥ yaḥ dadāti dayā-paraḥ . abhayam sarva-bhūtāni dadati iti jagau śrutiḥ .. 36.442 ..
क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतं । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ ३६.४४३ ॥
क्षतम् च पतितम् च एव स्खलितम् क्लिन्नम् आहतम् । सर्व-भूतानि रक्षन्ति समेषु विषमेषु च ॥ ३६।४४३ ॥
kṣatam ca patitam ca eva skhalitam klinnam āhatam . sarva-bhūtāni rakṣanti sameṣu viṣameṣu ca .. 36.443 ..
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ ३६.४४४ ॥
न एनम् व्याल-मृगाः घ्नन्ति न पिशाचाः न राक्षसाः । मुच्यते भय-कालेषु मोक्षयेत् यः भये परान् ॥ ३६।४४४ ॥
na enam vyāla-mṛgāḥ ghnanti na piśācāḥ na rākṣasāḥ . mucyate bhaya-kāleṣu mokṣayet yaḥ bhaye parān .. 36.444 ..
प्राणदानात्परं दानं न भूतं न भविष्यति । न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितं ॥ ३६.४४५ ॥
प्राण-दानात् परम् दानम् न भूतम् न भविष्यति । न हि आत्मनः प्रिय-करम् किम् चित् अस्ति इह निश्चितम् ॥ ३६।४४५ ॥
prāṇa-dānāt param dānam na bhūtam na bhaviṣyati . na hi ātmanaḥ priya-karam kim cit asti iha niścitam .. 36.445 ..
अनिष्टं सर्वभूतानां मरणं नाम कथ्यते । मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः ॥ ३६.४४६ ॥
अनिष्टम् सर्व-भूतानाम् मरणम् नाम कथ्यते । मृत्यु-काले हि भूतानाम् सद्यस् जायेत वेपथुः ॥ ३६।४४६ ॥
aniṣṭam sarva-bhūtānām maraṇam nāma kathyate . mṛtyu-kāle hi bhūtānām sadyas jāyeta vepathuḥ .. 36.446 ..
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे । जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ ३६.४४७ ॥
व्याधि-जन्म-जरा-दुःखैः नित्यम् संसार-सागरे । जन्तवः परिवर्तन्ते मरणात् उद्विजन्ति च ॥ ३६।४४७ ॥
vyādhi-janma-jarā-duḥkhaiḥ nityam saṃsāra-sāgare . jantavaḥ parivartante maraṇāt udvijanti ca .. 36.447 ..
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ ३६.४४८ ॥
गर्भ-वासेषु पच्यन्ते क्षार-अम्ल-कटुकैः रसैः । मूत्र-स्वेद-पुरीषाणाम् परुषैः भृश-दारुणैः ॥ ३६।४४८ ॥
garbha-vāseṣu pacyante kṣāra-amla-kaṭukaiḥ rasaiḥ . mūtra-sveda-purīṣāṇām paruṣaiḥ bhṛśa-dāruṇaiḥ .. 36.448 ..
जाताश्चाप्यवशास्तत्र छिद्यमानाः पुनः पुनः । हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः ॥ ३६.४४९ ॥
जाताः च अपि अवशाः तत्र छिद्यमानाः पुनर् पुनर् । हन्यमानाः च दृश्यन्ते विवशाः घातुकाः नराः ॥ ३६।४४९ ॥
jātāḥ ca api avaśāḥ tatra chidyamānāḥ punar punar . hanyamānāḥ ca dṛśyante vivaśāḥ ghātukāḥ narāḥ .. 36.449 ..
कुंभीपाकेच पच्यन्तेतां तां योनिमुपागताः । आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः ॥ ३६.४५० ॥
कुंभीपाके च पच्यन्ते एताम् ताम् योनिम् उपागताः । आक्रम्य मार्यमाणाः च त्रास्यन्ति अन्ये पुनर् पुनर् ॥ ३६।४५० ॥
kuṃbhīpāke ca pacyante etām tām yonim upāgatāḥ . ākramya māryamāṇāḥ ca trāsyanti anye punar punar .. 36.450 ..
नात्मनोऽस्ति प्रियतमः पृथिवीमनुसृत्य ह । तस्मात्राणेषु सर्वेषु दयावानात्मवान्भवेथ् ॥ ३६.४५१ ॥
न आत्मनः अस्ति प्रियतमः पृथिवीम् अनुसृत्य ह । तस्मात् त्राणेषु सर्वेषु दयावान् आत्मवान् भवेथ् ॥ ३६।४५१ ॥
na ātmanaḥ asti priyatamaḥ pṛthivīm anusṛtya ha . tasmāt trāṇeṣu sarveṣu dayāvān ātmavān bhaveth .. 36.451 ..
येन येन शरीरण यद्यत्कर्मकरोति यः । तेन तेन शरीरण तत्तत्फलमुपाश्नुते ॥ ३६.४५२ ॥
येन येन शरीरण यत् यत् कर्म करोति यः । तेन तेन शरीरण तत् तत् फलम् उपाश्नुते ॥ ३६।४५२ ॥
yena yena śarīraṇa yat yat karma karoti yaḥ . tena tena śarīraṇa tat tat phalam upāśnute .. 36.452 ..
अहिंसा परमो धर्मस्तथाहिंसा परो दमः । अहिंसा परमं दानमहिंसा परमं तपः ॥ ३६.४५३ ॥
अहिंसा परमः धर्मः तथा अहिंसा परः दमः । अहिंसा परमम् दानम् अहिंसा परमम् तपः ॥ ३६।४५३ ॥
ahiṃsā paramaḥ dharmaḥ tathā ahiṃsā paraḥ damaḥ . ahiṃsā paramam dānam ahiṃsā paramam tapaḥ .. 36.453 ..
अहिंसा परमो यज्ञस्तथाहिंसा परं फलं । अहिंसा परमं मित्रमहिंसा परमं सुखं ॥ ३६.४५४ ॥
अहिंसा परमः यज्ञः तथा अहिंसा परम् फलम् । अहिंसा परमम् मित्रम् अहिंसा परमम् सुखम् ॥ ३६।४५४ ॥
ahiṃsā paramaḥ yajñaḥ tathā ahiṃsā param phalam . ahiṃsā paramam mitram ahiṃsā paramam sukham .. 36.454 ..
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतं । सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३६.४५५ ॥
सर्व-यज्ञेषु वा दानम् सर्व-तीर्थेषु वा प्लुतम् । सर्व-दान-फलम् वा अपि न एतत् तुल्यम् अहिंसया ॥ ३६।४५५ ॥
sarva-yajñeṣu vā dānam sarva-tīrtheṣu vā plutam . sarva-dāna-phalam vā api na etat tulyam ahiṃsayā .. 36.455 ..
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो जयते सदा । अहिंस्रस्सर्वभूतानां यथा माता यथा पिता ॥ ३६.४५६ ॥
अहिंस्रस्य तपः अक्षय्यम् अहिंस्रः जयते सदा । अहिंस्रः सर्व-भूतानाम् यथा माता यथा पिता ॥ ३६।४५६ ॥
ahiṃsrasya tapaḥ akṣayyam ahiṃsraḥ jayate sadā . ahiṃsraḥ sarva-bhūtānām yathā mātā yathā pitā .. 36.456 ..
तस्मादहिंस्रस्सततमुपवास व्रतं चरेथ् । फलमङ्गिरसाप्रोक्तमुपवासस्य विस्तराथ् ॥ ३६.४५७ ॥
तस्मात् अहिंस्रः सततम् उपवास व्रतम् चरेथ् । फलम् अङ्गिरसा अ प्रोक्तम् उपवासस्य विस्तराथ् ॥ ३६।४५७ ॥
tasmāt ahiṃsraḥ satatam upavāsa vratam careth . phalam aṅgirasā a proktam upavāsasya vistarāth .. 36.457 ..
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः ॥ ३६.४५८ ॥
त्रि-रात्रम् पञ्च-रात्रम् वा सप्त-रात्रम् अथ अपि वा । धान्यानि अपि न हिंसेत यः स भूयात् अहिंसकः ॥ ३६।४५८ ॥
tri-rātram pañca-rātram vā sapta-rātram atha api vā . dhānyāni api na hiṃseta yaḥ sa bhūyāt ahiṃsakaḥ .. 36.458 ..
नाश्नाति यावतो जीवस्तावत्पुण्येन यज्यते । आहारस्य वियोगेन शरीरं परितप्यते ॥ ३६.४५९ ॥
न अश्नाति यावतः जीवः तावत्-पुण्येन यज्यते । आहारस्य वियोगेन शरीरम् परितप्यते ॥ ३६।४५९ ॥
na aśnāti yāvataḥ jīvaḥ tāvat-puṇyena yajyate . āhārasya viyogena śarīram paritapyate .. 36.459 ..
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु । तिष्ठन्ति स्ववशे तस्य नृपाणामिव किङ्कराः ॥ ३६.४६० ॥
तप्यमाने शरीरे तु शरीरे च इन्द्रियाणि तु । तिष्ठन्ति स्व-वशे तस्य नृपाणाम् इव किङ्कराः ॥ ३६।४६० ॥
tapyamāne śarīre tu śarīre ca indriyāṇi tu . tiṣṭhanti sva-vaśe tasya nṛpāṇām iva kiṅkarāḥ .. 36.460 ..
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः । इन्द्रियाणां निरोधेन दानेन च दमेन च ॥ ३६.४६१ ॥
निरुणद्धि इन्द्रियाणि एव स सुखी स विचक्षणः । इन्द्रियाणाम् निरोधेन दानेन च दमेन च ॥ ३६।४६१ ॥
niruṇaddhi indriyāṇi eva sa sukhī sa vicakṣaṇaḥ . indriyāṇām nirodhena dānena ca damena ca .. 36.461 ..
नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति । एवं मूलमहिंसाया उपवासः प्रकीर्तितः ॥ ३६.४६२ ॥
नरः सर्वम् अवाप्नोति मनसा यत् यत् इच्छति । एवम् मूलम् अहिंसायाः उपवासः प्रकीर्तितः ॥ ३६।४६२ ॥
naraḥ sarvam avāpnoti manasā yat yat icchati . evam mūlam ahiṃsāyāḥ upavāsaḥ prakīrtitaḥ .. 36.462 ..
कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवाथ् । व्रतोपवासनात्प्रीतस्तान्प्रयच्छत्यसौ हरिः ॥ ३६.४६३ ॥
काम-अन्य-अन्यान् नरः भक्त्या मनसा इच्छति । व्रत-उपवासनात् प्रीतः तान् प्रयच्छति असौ हरिः ॥ ३६।४६३ ॥
kāma-anya-anyān naraḥ bhaktyā manasā icchati . vrata-upavāsanāt prītaḥ tān prayacchati asau hariḥ .. 36.463 ..
मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेथ् ॥ ३६.४६४ ॥
मासे मासे तथा एकस्मिन् एकस्मिन् नियतम् चरेथ् ॥ ३६।४६४ ॥
māse māse tathā ekasmin ekasmin niyatam careth .. 36.464 ..
उपवासव्रतमिदं तस्यानन्तं फलं भवेथ् । एकादश्यां निराहारस्संपूज्य हरिमव्ययं ॥ ३६.४६५ ॥
उपवास-व्रतम् इदम् तस्य अनन्तम् फलम् । एकादश्याम् निराहारः संपूज्य हरिम् अव्ययम् ॥ ३६।४६५ ॥
upavāsa-vratam idam tasya anantam phalam . ekādaśyām nirāhāraḥ saṃpūjya harim avyayam .. 36.465 ..
तत्पादसलिलं तद्वत्तुलसीं च तदर्पितामा । पीत्वा च भक्षयित्वा च उपवासव्रतं चरेथ् ॥ ३६.४६६ ॥
तद्-पाद-सलिलम् तद्वत् तुलसीम् च तद्-अर्पित-अमा । पीत्वा च भक्षयित्वा च उपवास-व्रतम् चरेथ् ॥ ३६।४६६ ॥
tad-pāda-salilam tadvat tulasīm ca tad-arpita-amā . pītvā ca bhakṣayitvā ca upavāsa-vratam careth .. 36.466 ..
उपवासदिने यस्तु तीर्धं श्रीतुलसीयुतं । न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेथ् ॥ ३६.४६७ ॥
उपवास-दिने यः तु तीर्धम् श्री-तुलसी-युतम् । न प्राश्नीयात् विमूढ-आत्मा रौरवम् नरकम् ॥ ३६।४६७ ॥
upavāsa-dine yaḥ tu tīrdham śrī-tulasī-yutam . na prāśnīyāt vimūḍha-ātmā rauravam narakam .. 36.467 ..
न हि देवगृहं गत्वा विवदेत नरः क्वचिथ् । न तत्स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेथ् ॥ ३६.४६८ ॥
न हि देवगृहम् गत्वा विवदेत नरः । न तत् स्थानम् विवादस्य तस्मात् तम् दूरतस् स्त्यजेथ् ॥ ३६।४६८ ॥
na hi devagṛham gatvā vivadeta naraḥ . na tat sthānam vivādasya tasmāt tam dūratas styajeth .. 36.468 ..
मनोऽनवस्थितं यस्य स नालं पूजितं हरिं । यस्यैव निर्मलं चित्तं सोर्ऽहस्सर्वेषु कर्मसु ॥ ३६.४६९ ॥
मनः अनवस्थितम् यस्य स न अलम् पूजितम् हरिम् । यस्य एव निर्मलम् चित्तम् सः ऋअहर् सर्वेषु कर्मसु ॥ ३६।४६९ ॥
manaḥ anavasthitam yasya sa na alam pūjitam harim . yasya eva nirmalam cittam saḥ ṛahar sarveṣu karmasu .. 36.469 ..
रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितः कायः केशवाराधने त्रयं ॥ ३६.४७० ॥
राग-आदि-अपेतम् हृदयम् वाच्-अदुष्ट-अनृत-आदिना । हिंसा-आदि-रहितः कायः केशव-आराधने त्रयम् ॥ ३६।४७० ॥
rāga-ādi-apetam hṛdayam vāc-aduṣṭa-anṛta-ādinā . hiṃsā-ādi-rahitaḥ kāyaḥ keśava-ārādhane trayam .. 36.470 ..
रागादिदूषिते चित्तं नास्पदं कुरुते हरिः । न बध्नाति पदं हंसः कदाचित्कर्दमांभसि ॥ ३६.४७१ ॥
राग-आदि-दूषिते चित्तम् न आस्पदम् कुरुते हरिः । न बध्नाति पदम् हंसः कदाचिद् कर्दम-अंभसि ॥ ३६।४७१ ॥
rāga-ādi-dūṣite cittam na āspadam kurute hariḥ . na badhnāti padam haṃsaḥ kadācid kardama-aṃbhasi .. 36.471 ..
न योग्या माधवं स्तोतुं वाग्दुष्टा चानृतादिना । तमसो नाशनायालं मेघच्छन्नोन चन्द्रयाः ॥ ३६.४७२ ॥
न योग्या माधवम् स्तोतुम् वाच् दुष्टा च अनृत-आदिना । तमसः नाशनाय अलम् चन्द्र-याः ॥ ३६।४७२ ॥
na yogyā mādhavam stotum vāc duṣṭā ca anṛta-ādinā . tamasaḥ nāśanāya alam candra-yāḥ .. 36.472 ..
हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः । जनचित्तप्रसादाय यथा काशस्तमोवृतः ॥ ३६.४७३ ॥
हिंसा-आदि-दूषितः कायः प्रभवेत् न अर्चने हरेः । जन-चित्त-प्रसादाय यथा काशः तमः-वृतः ॥ ३६।४७३ ॥
hiṃsā-ādi-dūṣitaḥ kāyaḥ prabhavet na arcane hareḥ . jana-citta-prasādāya yathā kāśaḥ tamaḥ-vṛtaḥ .. 36.473 ..
मनोदोषविहीनानां न दोषस्स्यात्कथं च न । अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा ॥ ३६.४७४ ॥
मनः-दोष-विहीनानाम् न दोषः स्यात् कथम् च न । अन्यथा आलिङ्ग्यते कान्ता स्नेहेन दुहिता अन्यथा ॥ ३६।४७४ ॥
manaḥ-doṣa-vihīnānām na doṣaḥ syāt katham ca na . anyathā āliṅgyate kāntā snehena duhitā anyathā .. 36.474 ..
यतेश्च कामुकानां च योषिद्रूबेऽन्यथा मतिः । अशिक्षयैव मनसः प्रायो लोकश्च वञ्च्यते ॥ ३६.४७५ ॥
यतेः च कामुकानाम् च योषित्-रूबे अन्यथा मतिः । अशिक्षया एव मनसः प्रायस् लोकः च वञ्च्यते ॥ ३६।४७५ ॥
yateḥ ca kāmukānām ca yoṣit-rūbe anyathā matiḥ . aśikṣayā eva manasaḥ prāyas lokaḥ ca vañcyate .. 36.475 ..
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा । विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः ॥ ३६.४७६ ॥
लाला इति उद्विजते लोकः वक्त्र-आसवः इति स्पृहा । विशुद्धैः करणैः तस्मात् व्रजेत् देवगृहम् नरः ॥ ३६।४७६ ॥
lālā iti udvijate lokaḥ vaktra-āsavaḥ iti spṛhā . viśuddhaiḥ karaṇaiḥ tasmāt vrajet devagṛham naraḥ .. 36.476 ..
विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेथ् । क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ ३६.४७७ ॥
विवादः क्रोध-जः यस्मात् तस्मात् तम् । क्रुद्धः पापम् न कुर्यात् कः क्रुद्धः हन्यात् गुरून् अपि ॥ ३६।४७७ ॥
vivādaḥ krodha-jaḥ yasmāt tasmāt tam . kruddhaḥ pāpam na kuryāt kaḥ kruddhaḥ hanyāt gurūn api .. 36.477 ..
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेथ् । साधुसज्जनसन्तापः साधूनां च विमानना ॥ ३६.४७८ ॥
क्रुद्धः परुषया वाचा नरः साधून् अधिक्षिपेथ् । साधु-सत्-जन-सन्तापः साधूनाम् च विमानना ॥ ३६।४७८ ॥
kruddhaḥ paruṣayā vācā naraḥ sādhūn adhikṣipeth . sādhu-sat-jana-santāpaḥ sādhūnām ca vimānanā .. 36.478 ..
दहत्यासप्तमं तस्य कुलं नात्र विचारणा । वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चिथ् ॥ ३६.४७९ ॥
दहति आसप्तमम् तस्य कुलम् न अत्र विचारणा । वाच्य-अवाच्यम् प्रकुपितः न विचानाति कर्हि ॥ ३६।४७९ ॥
dahati āsaptamam tasya kulam na atra vicāraṇā . vācya-avācyam prakupitaḥ na vicānāti karhi .. 36.479 ..
नाकार्यमस्ते क्रुद्धस्य नावाच्यं विद्यते क्वचिथ् । यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति ॥ ३६.४८० ॥
न अकार्यम् अस्ते क्रुद्धस्य न अवाच्यम् विद्यते । यः समुत्पतितम् क्रोधम् क्षमया तु निरस्यति ॥ ३६।४८० ॥
na akāryam aste kruddhasya na avācyam vidyate . yaḥ samutpatitam krodham kṣamayā tu nirasyati .. 36.480 ..
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते । ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितं ॥ ३६.४८१ ॥
यथा उरगः त्वचम् जीर्णाम् स वै पुरुषः उच्यते । ते मान्याः पुरुष-श्रेष्ठाः क्षमया क्रोधम् उद्धितम् ॥ ३६।४८१ ॥
yathā uragaḥ tvacam jīrṇām sa vai puruṣaḥ ucyate . te mānyāḥ puruṣa-śreṣṭhāḥ kṣamayā krodham uddhitam .. 36.481 ..
निर्वापयन्ते ये नित्यं दीप्तमग्निमिवांभसा । परापवादं न ब्रूयान्नाप्रियं च कदा चन ॥ ३६.४८२ ॥
निर्वापयन्ते ये नित्यम् दीप्तम् अग्निम् इव अंभसा । पर-अपवादम् न ब्रूयात् न अप्रियम् च कदा चन ॥ ३६।४८२ ॥
nirvāpayante ye nityam dīptam agnim iva aṃbhasā . para-apavādam na brūyāt na apriyam ca kadā cana .. 36.482 ..
न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ । स्वयं दत्तावधानस्तु देवकार्ये विशेषतः ॥ ३६.४८३ ॥
न मन्युः कश्चिद् उत्पाद्यः महताम् देव-सन्निधौ । स्वयम् दत्त-अवधानः तु देव-कार्ये विशेषतः ॥ ३६।४८३ ॥
na manyuḥ kaścid utpādyaḥ mahatām deva-sannidhau . svayam datta-avadhānaḥ tu deva-kārye viśeṣataḥ .. 36.483 ..
मन्येत भगवत्सर्गे स्वात्मानं चाप्यकिञ्चनं । स एव भगवान्देवस्सर्वज्ञः सर्वशक्तियुक् ॥ ३६.४८४ ॥
मन्येत भगवत्-सर्गे स्व-आत्मानम् च अपि अकिञ्चनम् । सः एव भगवान् देवः सर्वज्ञः सर्व-शक्ति-युज् ॥ ३६।४८४ ॥
manyeta bhagavat-sarge sva-ātmānam ca api akiñcanam . saḥ eva bhagavān devaḥ sarvajñaḥ sarva-śakti-yuj .. 36.484 ..
सर्वेशस्सर्ववित्सर्वोनिग्रहानुग्रहे रतः । तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः ॥ ३६.४८५ ॥
सर्व-ईशः सर्व-विद् सर्वः निग्रह-अनुग्रहे रतः । तस्मात् न अन्यस्य जातु अस्ति शक्तिः क्रोध-प्रसादयोः ॥ ३६।४८५ ॥
sarva-īśaḥ sarva-vid sarvaḥ nigraha-anugrahe rataḥ . tasmāt na anyasya jātu asti śaktiḥ krodha-prasādayoḥ .. 36.485 ..
इति संचिन्त्य भूयोऽपि सर्वेष्वपि च जन्तुषु । भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेथ् ॥ ३६.४८६ ॥
इति संचिन्त्य भूयस् अपि सर्वेषु अपि च जन्तुषु । भगवत्-सन्निधौ स्थित्वा आनृशंस्यम् ॥ ३६।४८६ ॥
iti saṃcintya bhūyas api sarveṣu api ca jantuṣu . bhagavat-sannidhau sthitvā ānṛśaṃsyam .. 36.486 ..
यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितं । यद्यहङ्कारमाश्रित्य स्वातन्त्षमदमोहितः ॥ ३६.४८७ ॥
यत् यत् भावि भवत् भूतम् विद्यात् तत् तस्य चेष्ठितम् । यदि अहङ्कारम् आश्रित्य स्वातन्त्ष-मद-मोहितः ॥ ३६।४८७ ॥
yat yat bhāvi bhavat bhūtam vidyāt tat tasya ceṣṭhitam . yadi ahaṅkāram āśritya svātantṣa-mada-mohitaḥ .. 36.487 ..
निग्रहेऽनुग्रहे वापि शक्तिं स्वस्यावबोधयेथ् । स याति नरकं घोरं न दैवं तस्य मृष्यति ॥ ३६.४८८ ॥
निग्रहे अनुग्रहे वा अपि शक्तिम् स्वस्य अवबोधयेथ् । स याति नरकम् घोरम् न दैवम् तस्य मृष्यति ॥ ३६।४८८ ॥
nigrahe anugrahe vā api śaktim svasya avabodhayeth . sa yāti narakam ghoram na daivam tasya mṛṣyati .. 36.488 ..
तथा स्त्रीणां विशेषण त्याज्या स्यादतिसंगतिः । देवतामन्दिरं प्राप्य कालेष्वन्येषु वा तथा ॥ ३६.४८९ ॥
तथा स्त्रीणाम् त्याज्या स्यात् अति संगतिः । देवता-मन्दिरम् प्राप्य कालेषु अन्येषु वा तथा ॥ ३६।४८९ ॥
tathā strīṇām tyājyā syāt ati saṃgatiḥ . devatā-mandiram prāpya kāleṣu anyeṣu vā tathā .. 36.489 ..
आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसंगिनां । पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि ॥ ३६.४९० ॥
आयुः-यशः-तपः-हानिः पुंसाम् स्त्रीषु अति संगिनाम् । पुरुषेषु अति सक्तानाम् तुल्या सा योषिताम् अपि ॥ ३६।४९० ॥
āyuḥ-yaśaḥ-tapaḥ-hāniḥ puṃsām strīṣu ati saṃginām . puruṣeṣu ati saktānām tulyā sā yoṣitām api .. 36.490 ..
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ॥ ३६.४९१ ॥
कुलीनाः रूपवत्यः च नाथवत्यः च योषितः । मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ॥ ३६।४९१ ॥
kulīnāḥ rūpavatyaḥ ca nāthavatyaḥ ca yoṣitaḥ . maryādāsu sa tiṣṭhanti sa doṣaḥ strīṣu garhitaḥ .. 36.491 ..
न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै । स्त्रियो हि मूलं दोषाणां सर्वेषां नात्र संशयः ॥ ३६.४९२ ॥
न स्त्रीभ्यः परम् अन्यत् वै पापीयस्तरम् अस्ति वै । स्त्रियः हि मूलम् दोषाणाम् सर्वेषाम् न अत्र संशयः ॥ ३६।४९२ ॥
na strībhyaḥ param anyat vai pāpīyastaram asti vai . striyaḥ hi mūlam doṣāṇām sarveṣām na atra saṃśayaḥ .. 36.492 ..
समाज्ञातानृद्धिमतः प्रतिरूपान्व शेस्थितान् । पतीनन्तरमासाद्य नालं नार्यः परीक्षितुं ॥ ३६.४९३ ॥
समाज्ञातान् ऋद्धिमतः प्रतिरूपान् वै शे स्थितान् । पतीन् अन्तरम् आसाद्य न अलम् नार्यः परीक्षितुम् ॥ ३६।४९३ ॥
samājñātān ṛddhimataḥ pratirūpān vai śe sthitān . patīn antaram āsādya na alam nāryaḥ parīkṣitum .. 36.493 ..
असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि । पापीयसो नरान्यद्वै त्यक्तलज्जा भजन्तिताः ॥ ३६.४९४ ॥
असत्-धर्मः तु अयम् स्त्रीणाम् प्रायेण हि भवेत् भुवि । पापीयसः नर-अन्यत् वै त्यक्त-लज्जाः भजन्ति ताः ॥ ३६।४९४ ॥
asat-dharmaḥ tu ayam strīṇām prāyeṇa hi bhavet bhuvi . pāpīyasaḥ nara-anyat vai tyakta-lajjāḥ bhajanti tāḥ .. 36.494 ..
स्त्रीयं हि यः प्रार्थयते सन्निकर्षं च गच्छतिर् । इषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ ३६.४९५ ॥
स्त्री इयम् हि यः प्रार्थयते सन्निकर्षम् च गच्छतिः । इषत् च कुरुते सेवाम् तम् एव इच्छन्ति योषितः ॥ ३६।४९५ ॥
strī iyam hi yaḥ prārthayate sannikarṣam ca gacchatiḥ . iṣat ca kurute sevām tam eva icchanti yoṣitaḥ .. 36.495 ..
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु ॥ ३६.४९६ ॥
अन् अर्थि-त्वात् मनुष्याणाम् भयात् परिजनस्य च । मर्यादायाम् अमर्यादाः भर्तृषु ॥ ३६।४९६ ॥
an arthi-tvāt manuṣyāṇām bhayāt parijanasya ca . maryādāyām amaryādāḥ bhartṛṣu .. 36.496 ..
नासां कश्चिदगम्योऽस्तिनासां वयसि संस्थितिः । रूपवन्तं विरूपं वा पुमानित्येव भुञ्जते ॥ ३६.४९७ ॥
न आसाम् कश्चिद् अगम्यः अस्ति न आसाम् वयसि संस्थितिः । रूपवन्तम् विरूपम् वा पुमान् इति एव भुञ्जते ॥ ३६।४९७ ॥
na āsām kaścid agamyaḥ asti na āsām vayasi saṃsthitiḥ . rūpavantam virūpam vā pumān iti eva bhuñjate .. 36.497 ..
न भयान्नाप्यनुक्रोश्नान्नार्ऽथहेतोः कथं च न । न ज्ञातिकुलसंबन्धात्त्स्रियस्तिष्ठन्ति भर्तृषु ॥ ३६.४९८ ॥
न भयात् न अपि अनुक्रोश्नात् न अर्ऽथ-हेतोः कथम् च न । न ज्ञाति-कुल-संबन्धात् त्स्रियः तिष्ठन्ति भर्तृषु ॥ ३६।४९८ ॥
na bhayāt na api anukrośnāt na ar'tha-hetoḥ katham ca na . na jñāti-kula-saṃbandhāt tsriyaḥ tiṣṭhanti bhartṛṣu .. 36.498 ..
यौवने वर्तमानानां मृष्टाभरणवाससां । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः ॥ ३६.४९९ ॥
यौवने वर्तमानानाम् मृष्ट-आभरण-वाससाम् । नारीणाम् स्वैर-वृत्तीनाम् स्पृहयन्ति ॥ ३६।४९९ ॥
yauvane vartamānānām mṛṣṭa-ābharaṇa-vāsasām . nārīṇām svaira-vṛttīnām spṛhayanti .. 36.499 ..
याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः । अपि ताः संप्रसज्जन्ते कुब्जान्धजूवामनैः ॥ ३६.५०० ॥
याः च शस्वत्-बहु-मताः रक्ष्यन्ते । अपि ताः संप्रसज्जन्ते कुब्ज-अन्धजू-वामनैः ॥ ३६।५०० ॥
yāḥ ca śasvat-bahu-matāḥ rakṣyante . api tāḥ saṃprasajjante kubja-andhajū-vāmanaiḥ .. 36.500 ..
पङ्गुष्वन्येषु कुष्ठेषु ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्छिदिहोद्यते ॥ ३६.५०१ ॥
पङ्गुषु अन्येषु कुष्ठेषु ये च अन्ये कुत्सिताः नराः । स्त्रीणाम् अगम्यः लोके अस्मिन् न अस्ति कश्छिद् इह उद्यते ॥ ३६।५०१ ॥
paṅguṣu anyeṣu kuṣṭheṣu ye ca anye kutsitāḥ narāḥ . strīṇām agamyaḥ loke asmin na asti kaśchid iha udyate .. 36.501 ..
यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु ॥ ३६.५०२ ॥
यदि पुंसाम् गतिः तत्र कथम् चित् न उपपद्यते । अपि अन्योन्यम् हि तिष्ठन्ति भर्तृषु ॥ ३६।५०२ ॥
yadi puṃsām gatiḥ tatra katham cit na upapadyate . api anyonyam hi tiṣṭhanti bhartṛṣu .. 36.502 ..
दुष्ठाचाराः पापरता असत्या मायया वृताः । अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते ॥ ३६.५०३ ॥
दुष्ठ-आचाराः पाप-रताः असत्याः मायया वृताः । अदृष्ट-बुद्धि-बहुलाः प्रायेण इति अवधार्यते ॥ ३६।५०३ ॥
duṣṭha-ācārāḥ pāpa-ratāḥ asatyāḥ māyayā vṛtāḥ . adṛṣṭa-buddhi-bahulāḥ prāyeṇa iti avadhāryate .. 36.503 ..
अलाभात्पुरुषाणां हि भयात्परिजनस्य च । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३६.५०४ ॥
अलाभात् पुरुषाणाम् हि भयात् परिजनस्य च । वध-बन्ध-भयात् च अपि स्वयम् गुप्ताः भवन्ति ताः ॥ ३६।५०४ ॥
alābhāt puruṣāṇām hi bhayāt parijanasya ca . vadha-bandha-bhayāt ca api svayam guptāḥ bhavanti tāḥ .. 36.504 ..
चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा । प्राजस्य पुरुषस्येव यथा भावास्तथा स्त्रीयः ॥ ३६.५०५ ॥
चल-स्वभावाः दुस्सेव्याः दुर्ग्राह्याः भावतः तथा । प्राजस्य पुरुषस्य इव यथा भावाः तथा स्त्रीयः ॥ ३६।५०५ ॥
cala-svabhāvāḥ dussevyāḥ durgrāhyāḥ bhāvataḥ tathā . prājasya puruṣasya iva yathā bhāvāḥ tathā strīyaḥ .. 36.505 ..
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥ ३६.५०६ ॥
न अग्निः तृप्यति काष्ठानाम् न आपगानाम् महा-उदधिः । न अन्तकः सर्व-भूतानाम् न पुंसाम् वामलोचनाः ॥ ३६।५०६ ॥
na agniḥ tṛpyati kāṣṭhānām na āpagānām mahā-udadhiḥ . na antakaḥ sarva-bhūtānām na puṃsām vāmalocanāḥ .. 36.506 ..
रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषितां । दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६.५०७ ॥
रहस्यम् इदम् अन्यत् च विज्ञेयम् सर्व-योषिताम् । दृष्ट्वा एव पुरुषम् हि अन्यम् योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६।५०७ ॥
rahasyam idam anyat ca vijñeyam sarva-yoṣitām . dṛṣṭvā eva puruṣam hi anyam yoniḥ praklidyate striyāḥ .. 36.507 ..
कामानामपि दातारं कर्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥ ३६.५०८ ॥
कामानाम् अपि दातारम् कर्तारम् मान-सान्त्वयोः । रक्षितारम् न मृष्यन्ति स्व-भर्तारम् असत्-स्त्रियः ॥ ३६।५०८ ॥
kāmānām api dātāram kartāram māna-sāntvayoḥ . rakṣitāram na mṛṣyanti sva-bhartāram asat-striyaḥ .. 36.508 ..
न कामभोगान्विपुलान्नालङ्कारार्थ संचयान् । तथैव बहुमन्यन्ते यथा रत्यामनुग्रहं ॥ ३६.५०९ ॥
न काम-भोगान् विपुलान् न अलङ्कार-अर्थ संचयान् । तथा एव बहु मन्यन्ते यथा रत्याम् अनुग्रहम् ॥ ३६।५०९ ॥
na kāma-bhogān vipulān na alaṅkāra-artha saṃcayān . tathā eva bahu manyante yathā ratyām anugraham .. 36.509 ..
अन्तकः शमनो मृत्युः पातालं बडबामुखं । क्षुरधारा विषः सर्पो वह्निरित्येकतः स्त्रियः ॥ ३६.५१० ॥
अन्तकः शमनः मृत्युः पातालम् बडबामुखम् । क्षुर-धारा विषः सर्पः वह्निः इति एकतस् स्त्रियः ॥ ३६।५१० ॥
antakaḥ śamanaḥ mṛtyuḥ pātālam baḍabāmukham . kṣura-dhārā viṣaḥ sarpaḥ vahniḥ iti ekatas striyaḥ .. 36.510 ..
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ ३६.५११ ॥
एताः हि स्वीय-मायाभिः वञ्चयन्ति इह मानवान् । न च आसाम् मुच्यते कश्चिद् पुरुषः हस्तम् आगतः ॥ ३६।५११ ॥
etāḥ hi svīya-māyābhiḥ vañcayanti iha mānavān . na ca āsām mucyate kaścid puruṣaḥ hastam āgataḥ .. 36.511 ..
गावो नवतृणानीव गृह्णन्त्येता नवं नवं । शंबरस्य च या माया या माया नमुचेरपि ॥ ३६.५१२ ॥
गावः नव-तृणानि इव गृह्णन्ति एताः नवम् नवम् । शंबरस्य च या माया या माया नमुचेः अपि ॥ ३६।५१२ ॥
gāvaḥ nava-tṛṇāni iva gṛhṇanti etāḥ navam navam . śaṃbarasya ca yā māyā yā māyā namuceḥ api .. 36.512 ..
बलेः कुंभीनसेश्चैव तास्सर्वायोषितो विदुः । हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ॥ ३६.५१३ ॥
बलेः कुंभीनसेः च एव ताः सर्वाः अयोषितः विदुः । हसन्तम् प्रहसन्ति एताः रुदन्तम् प्ररुदन्ति च ॥ ३६।५१३ ॥
baleḥ kuṃbhīnaseḥ ca eva tāḥ sarvāḥ ayoṣitaḥ viduḥ . hasantam prahasanti etāḥ rudantam prarudanti ca .. 36.513 ..
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः । यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतं ॥ ३६.५१४ ॥
अप्रियम् प्रिय-वाक्यैः च गृह्णते काल-योगतः । यदि जिह्मा सहस्रम् स्यात् जीवेत् च शरदाम् शतम् ॥ ३६।५१४ ॥
apriyam priya-vākyaiḥ ca gṛhṇate kāla-yogataḥ . yadi jihmā sahasram syāt jīvet ca śaradām śatam .. 36.514 ..
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेथ् । उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥ ३६.५१५ ॥
अन् अन्य-कर्मा स्त्री-दोषान् अन् उक्त्वा निधनम् व्रजेथ् । उशनाः वेद यत् शास्त्रम् यत् च वेद बृहस्पतिः ॥ ३६।५१५ ॥
an anya-karmā strī-doṣān an uktvā nidhanam vrajeth . uśanāḥ veda yat śāstram yat ca veda bṛhaspatiḥ .. 36.515 ..
स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः । अनृतं सत्यमित्याहुस्सत्यं चापि तथानृतं ॥ ३६.५१६ ॥
स्त्री-बुद्ध्याः न विशिष्येत सु रक्ष्याः न भवन्ति ताः । अनृतम् सत्यम् इति आहुः सत्यम् च अपि तथा अनृतम् ॥ ३६।५१६ ॥
strī-buddhyāḥ na viśiṣyeta su rakṣyāḥ na bhavanti tāḥ . anṛtam satyam iti āhuḥ satyam ca api tathā anṛtam .. 36.516 ..
इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः । संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ॥ ३६.५१७ ॥
इति याः ताः कथम् रक्ष्याः पुरुषैः दुर्भराः स्त्रियः । संपूज्यमानाः पुरुषैः विकुर्वन्ति मनः नृषु ॥ ३६।५१७ ॥
iti yāḥ tāḥ katham rakṣyāḥ puruṣaiḥ durbharāḥ striyaḥ . saṃpūjyamānāḥ puruṣaiḥ vikurvanti manaḥ nṛṣu .. 36.517 ..
अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः । न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ॥ ३६.५१८ ॥
अपास्ताः च तथा सद्यस् विकुर्वन्ति मनः स्त्रियः । न च स्त्रीणाम् क्रियाः काश्चिद् इति धर्मः व्यवस्थितः ॥ ३६।५१८ ॥
apāstāḥ ca tathā sadyas vikurvanti manaḥ striyaḥ . na ca strīṇām kriyāḥ kāścid iti dharmaḥ vyavasthitaḥ .. 36.518 ..
निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयोऽनृतमिति श्रुतिः । शय्यासनमलङ्कारमन्न पानमनार्यतां ॥ ३६.५१९ ॥
निरिन्द्रियाः हि अशास्त्राः च स्त्रीयः अनृतम् इति श्रुतिः । शय्या-आसनम् अलङ्कारम् अन्न पानम् अनार्य-ताम् ॥ ३६।५१९ ॥
nirindriyāḥ hi aśāstrāḥ ca strīyaḥ anṛtam iti śrutiḥ . śayyā-āsanam alaṅkāram anna pānam anārya-tām .. 36.519 ..
दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः । न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन ॥ ३६.५२० ॥
रतिम् च एव ददौ स्त्रीभ्यः प्रजापतिः । न तासाम् रक्षणम् शक्यम् कर्तुम् पुंसाम् कथम् चन ॥ ३६।५२० ॥
ratim ca eva dadau strībhyaḥ prajāpatiḥ . na tāsām rakṣaṇam śakyam kartum puṃsām katham cana .. 36.520 ..
अपि विश्वकृता चैव कुतस्तु पुरुषैरिह । वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ॥ ३६.५२१ ॥
अपि विश्वकृता च एव कुतस् तु पुरुषैः इह । वाचा च वध-बन्धैः वा क्लेशैः वा विविधैः तथा ॥ ३६।५२१ ॥
api viśvakṛtā ca eva kutas tu puruṣaiḥ iha . vācā ca vadha-bandhaiḥ vā kleśaiḥ vā vividhaiḥ tathā .. 36.521 ..
न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः । अविद्वांसमलंलोके विद्वांसमपि वा पुनः ॥ ३६.५२२ ॥
न शक्याः रक्षिताम् नार्यः ताः हि नित्यम् अ संयताः । अ विद्वांसम् अलंलोके विद्वांसम् अपि वा पुनर् ॥ ३६।५२२ ॥
na śakyāḥ rakṣitām nāryaḥ tāḥ hi nityam a saṃyatāḥ . a vidvāṃsam alaṃloke vidvāṃsam api vā punar .. 36.522 ..
प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगं । नातः परं हि नारीणां विद्यते च कदा चन ॥ ३६.५२३ ॥
प्रमदा-हि उत्पथम् नेतुम् काम-क्रोध-वश-अनुगम् । न अतस् परम् हि नारीणाम् विद्यते च कदा चन ॥ ३६।५२३ ॥
pramadā-hi utpatham netum kāma-krodha-vaśa-anugam . na atas param hi nārīṇām vidyate ca kadā cana .. 36.523 ..
यथा पुरुष संसर्गः परमेतत्फलं विदुः । आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ॥ ३६.५२४ ॥
यथा पुरुष-संसर्गः परम् एतत् फलम् विदुः । आत्म-छन्देन वर्तन्ते नार्यः मन्मथ-चोदिताः ॥ ३६।५२४ ॥
yathā puruṣa-saṃsargaḥ param etat phalam viduḥ . ātma-chandena vartante nāryaḥ manmatha-coditāḥ .. 36.524 ..
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः । नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशान्तथा ॥ ३६.५२५ ॥
न च दह्यन्ति गच्छन्त्यः सु तप्तैः अपि पांसुभिः । न अनिलः अग्निः न वरुणः न च अन्ये त्रिदशान् तथा ॥ ३६।५२५ ॥
na ca dahyanti gacchantyaḥ su taptaiḥ api pāṃsubhiḥ . na anilaḥ agniḥ na varuṇaḥ na ca anye tridaśān tathā .. 36.525 ..
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः । सहस्रेकिल नारीणां प्राप्येतैका कदा चन ॥ ३६.५२६ ॥
प्रियाः स्त्रीणाम् यथा कामः रति-शीलाः हि योषितः । नारीणाम् प्राप्येत एका कदा चन ॥ ३६।५२६ ॥
priyāḥ strīṇām yathā kāmaḥ rati-śīlāḥ hi yoṣitaḥ . nārīṇām prāpyeta ekā kadā cana .. 36.526 ..
तथा शतसहस्रेषु यदि काचित्पतिव्रता । नैता जानन्ति पितरं न कुलं न च मातरं ॥ ३६.५२७ ॥
तथा शत-सहस्रेषु यदि काचिद् पतिव्रता । न एताः जानन्ति पितरम् न कुलम् न च मातरम् ॥ ३६।५२७ ॥
tathā śata-sahasreṣu yadi kācid pativratā . na etāḥ jānanti pitaram na kulam na ca mātaram .. 36.527 ..
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् । लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ॥ ३६.५२८ ॥
न भ्रातॄन् न च भर्तारम् न च पुत्रान् न देवरान् । लीलायन्त्यः कुलम् घ्नन्ति कूलानि इव सरित्-वराः ॥ ३६।५२८ ॥
na bhrātṝn na ca bhartāram na ca putrān na devarān . līlāyantyaḥ kulam ghnanti kūlāni iva sarit-varāḥ .. 36.528 ..
स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥ ३६.५२९ ॥
स्त्रीषु आयास-समेतस्य ये पुंसः शक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेद-जाः इव बिन्दवः ॥ ३६।५२९ ॥
strīṣu āyāsa-sametasya ye puṃsaḥ śakrabindavaḥ . na te sukhāya mantavyāḥ sveda-jāḥ iva bindavaḥ .. 36.529 ..
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा । कण्डूयनाग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः ॥ ३६.५३० ॥
कृमिभिः तुद्यमानस्य कुष्ठिनः पामनस्य वा । कण्डूयन-अग्नि-तापाभ्याम् यत् सुखम् स्त्रीषु तत् विदुः ॥ ३६।५३० ॥
kṛmibhiḥ tudyamānasya kuṣṭhinaḥ pāmanasya vā . kaṇḍūyana-agni-tāpābhyām yat sukham strīṣu tat viduḥ .. 36.530 ..
यादृशं विद्यते सौख्यं कण्डूपूयविनिर्गमे । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३१ ॥
यादृशम् विद्यते सौख्यम् कण्डू-पूय-विनिर्गमे । तादृशम् स्त्रीषु विज्ञेयम् न अधिकम् तासु विद्यते ॥ ३६।५३१ ॥
yādṛśam vidyate saukhyam kaṇḍū-pūya-vinirgame . tādṛśam strīṣu vijñeyam na adhikam tāsu vidyate .. 36.531 ..
ग्रन्थेस्तु वेदना यद्वत्स्फुटितस्य निवर्तने । तद्वत्स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः ॥ ३६.५३२ ॥
ग्रन्थेः तु वेदना यद्वत् स्फुटितस्य निवर्तने । तद्वत् स्त्रीषु अपि विज्ञेयम् न सौख्यम् परमार्थतः ॥ ३६।५३२ ॥
grantheḥ tu vedanā yadvat sphuṭitasya nivartane . tadvat strīṣu api vijñeyam na saukhyam paramārthataḥ .. 36.532 ..
वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशं । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३३ ॥
वर्चः-मूत्र-विसर्गात् तु सुखम् भवति यादृशम् । तादृशम् स्त्रीषु विज्ञेयम् न अधिकम् तासु विद्यते ॥ ३६।५३३ ॥
varcaḥ-mūtra-visargāt tu sukham bhavati yādṛśam . tādṛśam strīṣu vijñeyam na adhikam tāsu vidyate .. 36.533 ..
न चाणुमात्रमप्येवे सुखमस्ति विचारतः । तथा देवोत्सवादीनां सेवा तासां निषिध्यते ॥ ३६.५३४ ॥
न च अणु-मात्रम् अपि एवे सुखम् अस्ति विचारतः । तथा देव-उत्सव-आदीनाम् सेवा तासाम् निषिध्यते ॥ ३६।५३४ ॥
na ca aṇu-mātram api eve sukham asti vicārataḥ . tathā deva-utsava-ādīnām sevā tāsām niṣidhyate .. 36.534 ..
न हि स्वतन्त्रतो योषिज्जातु गच्छेत्स्थलान्तरं । न हि निर्मिमते वृद्धा लीलया देवमन्दिरान् ॥ ३६.५३५ ॥
न हि स्वतन्त्रतः योषित् जातु गच्छेत् स्थल-अन्तरम् । न हि निर्मिमते वृद्धाः लीलया देव-मन्दिरान् ॥ ३६।५३५ ॥
na hi svatantrataḥ yoṣit jātu gacchet sthala-antaram . na hi nirmimate vṛddhāḥ līlayā deva-mandirān .. 36.535 ..
कामुकानां विलासार्थं तस्माद्युक्ततरो भवेथ् । अनुगच्छेत्पिता भ्राता भर्ता पुत्रोऽथ वा यदि ॥ ३६.५३६ ॥
कामुकानाम् विलास-अर्थम् तस्मात् युक्ततरः । अनुगच्छेत् पिता भ्राता भर्ता पुत्रः अथ वा यदि ॥ ३६।५३६ ॥
kāmukānām vilāsa-artham tasmāt yuktataraḥ . anugacchet pitā bhrātā bhartā putraḥ atha vā yadi .. 36.536 ..
तदा देवगृहं यायान्नान्यथा जातु कामिनी । ध्यायतो विषयान्पुंसस्संगस्तेषूपजायते ॥ ३६.५३७ ॥
तदा देवगृहम् यायात् न अन्यथा जातु कामिनी । ध्यायतः विषयान् पुंसः संगः तेषु उपजायते ॥ ३६।५३७ ॥
tadā devagṛham yāyāt na anyathā jātu kāminī . dhyāyataḥ viṣayān puṃsaḥ saṃgaḥ teṣu upajāyate .. 36.537 ..
संगात्संजायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः ॥ ३६.५३८ ॥
संगात् संजायते कामः कामात् क्रोधः अभिजायते । क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः ॥ ३६।५३८ ॥
saṃgāt saṃjāyate kāmaḥ kāmāt krodhaḥ abhijāyate . krodhāt bhavati sammohaḥ sammohāt smṛti-vibhramaḥ .. 36.538 ..
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । बलवानिन्द्रियग्रामो विद्वांसमपिकर्षति ॥ ३६.५३९ ॥
स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति । बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपिकर्षति ॥ ३६।५३९ ॥
smṛti-bhraṃśāt buddhi-nāśaḥ buddhi-nāśāt praṇaśyati . balavān indriya-grāmaḥ vidvāṃsam apikarṣati .. 36.539 ..
तस्मात्स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन । तस्मात्स्त्रीषु न कर्तव्यः प्रसंगो देवताकृहे ॥ ३६.५४० ॥
तस्मात् स्त्रीया भवेत् विद्वान् न अति सक्तः कथम् चन । तस्मात् स्त्रीषु न कर्तव्यः प्रसंगः देवता-कृहे ॥ ३६।५४० ॥
tasmāt strīyā bhavet vidvān na ati saktaḥ katham cana . tasmāt strīṣu na kartavyaḥ prasaṃgaḥ devatā-kṛhe .. 36.540 ..
तथैव परदारेभ्यो मनः प्रहिणुयान्न च । परदारा न गन्तव्या नरैरृद्धिमभीप्सुभिः ॥ ३६.५४१ ॥
तथा एव पर-दारेभ्यः मनः प्रहिणुयात् न च । पर-दाराः न गन्तव्याः नरैः ऋद्धिम् अभीप्सुभिः ॥ ३६।५४१ ॥
tathā eva para-dārebhyaḥ manaḥ prahiṇuyāt na ca . para-dārāḥ na gantavyāḥ naraiḥ ṛddhim abhīpsubhiḥ .. 36.541 ..
न हीदृशमनायुष्यं लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारनिषेवनं ॥ ३६.५४२ ॥
न हि ईदृशम् अनायुष्यम् लोके किम् चन विद्यते । यादृशम् पुरुषस्य इह पर-दार-निषेवनम् ॥ ३६।५४२ ॥
na hi īdṛśam anāyuṣyam loke kim cana vidyate . yādṛśam puruṣasya iha para-dāra-niṣevanam .. 36.542 ..
तादृशं विद्यते किञ्चि दनायुष्यं नृणामिह । यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ॥ ३६.५४३ ॥
तादृशम् विद्यते किञ्चिद् दनायुष्यम् नृणाम् इह । यावन्तः रोमकूपाः स्युः स्त्रीणाम् गात्रेषु निर्मिताः ॥ ३६।५४३ ॥
tādṛśam vidyate kiñcid danāyuṣyam nṛṇām iha . yāvantaḥ romakūpāḥ syuḥ strīṇām gātreṣu nirmitāḥ .. 36.543 ..
तावद्वर्षसहस्राणि नरकं पर्युपासते । अतिसंगं त्यजेत्तस्माद्योषितां देवमन्दिरे ॥ ३६.५४४ ॥
तावत्-वर्ष-सहस्राणि नरकम् पर्युपासते । अति संगम् त्यजेत् तस्मात् योषिताम् देवमन्दिरे ॥ ३६।५४४ ॥
tāvat-varṣa-sahasrāṇi narakam paryupāsate . ati saṃgam tyajet tasmāt yoṣitām devamandire .. 36.544 ..
यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा । गम्यते कथनं तादृगश्लीलं परिवर्जयेथ् ॥ ३६.५४५ ॥
यैः असभ्यः पदैः अर्थः पदेन एकेन वा तथा । गम्यते कथनम् तादृश् अश्लीलम् ॥ ३६।५४५ ॥
yaiḥ asabhyaḥ padaiḥ arthaḥ padena ekena vā tathā . gamyate kathanam tādṛś aślīlam .. 36.545 ..
अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणां । भक्तानां भगवद्गेहे भवेच्चित्तमथाविलं ॥ ३६.५४६ ॥
अश्लील-कथनात् च एव भवेत् उद्वेजनम् नृणाम् । भक्तानाम् भगवत्-गेहे भवेत् चित्तम् अथ आविलम् ॥ ३६।५४६ ॥
aślīla-kathanāt ca eva bhavet udvejanam nṛṇām . bhaktānām bhagavat-gehe bhavet cittam atha āvilam .. 36.546 ..
निवर्तेत मनस्तत्र निविष्टं परमात्मनि । तस्मादश्लीलमाभाष्ट नरः पापपरो भवेथ् ॥ ३६.५४७ ॥
निवर्तेत मनः तत्र निविष्टम् परमात्मनि । तस्मात् अश्लीलम् आभाष्ट नरः पाप-परः ॥ ३६।५४७ ॥
nivarteta manaḥ tatra niviṣṭam paramātmani . tasmāt aślīlam ābhāṣṭa naraḥ pāpa-paraḥ .. 36.547 ..
स तु चण्डालतां प्राप्य जायते जन्मनां शतं । अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.५४८ ॥
स तु चण्डाल-ताम् प्राप्य जायते जन्मनाम् शतम् । प्रविशेत् गेहम् देवस्य परमात्मनः ॥ ३६।५४८ ॥
sa tu caṇḍāla-tām prāpya jāyate janmanām śatam . praviśet geham devasya paramātmanaḥ .. 36.548 ..
वायुभूते शरीरेऽस्मिन्वायुसंचारकर्मणि । मलवायुविसर्गस्तु देवगेहे विशेषतः ॥ ३६.५४९ ॥
वायु-भूते शरीरे अस्मिन् वायु-संचार-कर्मणि । मल-वायु-विसर्गः तु देव-गेहे विशेषतः ॥ ३६।५४९ ॥
vāyu-bhūte śarīre asmin vāyu-saṃcāra-karmaṇi . mala-vāyu-visargaḥ tu deva-gehe viśeṣataḥ .. 36.549 ..
पातयेत्पुरुषं सत्यमपि वेदान्तपारगं । तस्मादपानगन्धस्य विसर्गं नैव चाचरेथ् ॥ ३६.५५० ॥
पातयेत् पुरुषम् सत्यम् अपि वेदान्त-पारगम् । तस्मात् अपान-गन्धस्य विसर्गम् न एव च आचरेथ् ॥ ३६।५५० ॥
pātayet puruṣam satyam api vedānta-pāragam . tasmāt apāna-gandhasya visargam na eva ca ācareth .. 36.550 ..
अथ वायुनिरोधेतु व्याधिकोपो भविष्यति । तस्माद्वायुविसर्गं तु कुर्यादेवाविचारयन् ॥ ३६.५५१ ॥
अथ व्याधि-कोपः भविष्यति । तस्मात् वायुविसर्गम् तु कुर्यात् एव अ विचारयन् ॥ ३६।५५१ ॥
atha vyādhi-kopaḥ bhaviṣyati . tasmāt vāyuvisargam tu kuryāt eva a vicārayan .. 36.551 ..
इति देवगृहं गन्तुं व्याधितो नैव चार्हति । तथा कुष्ठी विशेषेण पापरोगार्दितास्समे ॥ ३६.५५२ ॥
इति देवगृहम् गन्तुम् व्याधितः ना एव च अर्हति । तथा कुष्ठी विशेषेण पाप-रोग-अर्दिताः समे ॥ ३६।५५२ ॥
iti devagṛham gantum vyādhitaḥ nā eva ca arhati . tathā kuṣṭhī viśeṣeṇa pāpa-roga-arditāḥ same .. 36.552 ..
उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनं । अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा ॥ ३६.५५३ ॥
उद्वीक्षितुम् च देवेशम् मन्दिरे मधुसूदनम् । अर्चितुम् सेवितुम् च अपि दातुम् द्रव्य-चयम् तथा ॥ ३६।५५३ ॥
udvīkṣitum ca deveśam mandire madhusūdanam . arcitum sevitum ca api dātum dravya-cayam tathā .. 36.553 ..
नार्हन्तियस्मात्तत्सक्तं पापं सांक्रामिकं भवेथ् । यद्यन्यथा भवेत्सद्यस्स पापी संप्रजायते ॥ ३६.५५४ ॥
न अर्हन्ति यस्मात् तत् सक्तम् पापम् सांक्रामिकम् । यदि अन्यथा भवेत् सद्यस् स पापी संप्रजायते ॥ ३६।५५४ ॥
na arhanti yasmāt tat saktam pāpam sāṃkrāmikam . yadi anyathā bhavet sadyas sa pāpī saṃprajāyate .. 36.554 ..
जन्मानि नव पञ्चापि जायते मलभुक्कृमिः । यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः ॥ ३६.५५५ ॥
जन्मानि नव पञ्च अपि जायते मलभुज् कृमिः । यदा विशेत् गृहम् विष्णोः सेव अर्धम् मधुविद्विषः ॥ ३६।५५५ ॥
janmāni nava pañca api jāyate malabhuj kṛmiḥ . yadā viśet gṛham viṣṇoḥ seva ardham madhuvidviṣaḥ .. 36.555 ..
कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरं । सेवेत देवदेवशमुपवीतः सदा शुचिः ॥ ३६.५५६ ॥
कृत्वा उपवीत-वत् सम्यक् उत्तरीयम् मनोहरम् । सेवेत देव-देवशम् उपवीतः सदा शुचिः ॥ ३६।५५६ ॥
kṛtvā upavīta-vat samyak uttarīyam manoharam . seveta deva-devaśam upavītaḥ sadā śuciḥ .. 36.556 ..
कञ्चुकेनावृताङ्गस्तु न गच्छेद्धरिमन्दिरं । नैवाभिवादनं कुर्यान्नाभिवाद्यः स उच्चते ॥ ३६.५५७ ॥
कञ्चुकेन आवृत-अङ्गः तु न गच्छेत् हरि-मन्दिरम् । न एव अभिवादनम् कुर्यात् न अभिवाद्यः सः उच्चते ॥ ३६।५५७ ॥
kañcukena āvṛta-aṅgaḥ tu na gacchet hari-mandiram . na eva abhivādanam kuryāt na abhivādyaḥ saḥ uccate .. 36.557 ..
उष्णीषी न च सेवेत नैव पाणौ धृतायुधः । वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण वा ॥ ३६.५५८ ॥
उष्णीषी न च सेवेत न एव पाणौ धृत-आयुधः । वस्त्रेण आच्छाद्य देहन्तु-कम्बलेन इतरेण वा ॥ ३६।५५८ ॥
uṣṇīṣī na ca seveta na eva pāṇau dhṛta-āyudhaḥ . vastreṇa ācchādya dehantu-kambalena itareṇa vā .. 36.558 ..
योगच्छेद्वैष्णवं धाम यो वापि प्रणमेद्धरिं । श्वित्री संजायते मूढो नवजन्मानि पञ्च च ॥ ३६.५५९ ॥
यः गच्छेत् वैष्णवम् धाम यः वा अपि प्रणमेत् हरिम् । श्वित्री संजायते मूढः नव-जन्मानि पञ्च च ॥ ३६।५५९ ॥
yaḥ gacchet vaiṣṇavam dhāma yaḥ vā api praṇamet harim . śvitrī saṃjāyate mūḍhaḥ nava-janmāni pañca ca .. 36.559 ..
क्ष्ॐआदिभिर्वा संवीतो यो नरःप्रणमेद्धरिं । चण्डालयोनितां याति नव जन्मानि पञ्च च ॥ ३६.५६० ॥
क्षों आदिभिः वा संवीतः यः नरः प्रणमेत् हरिम् । चण्डाल-योनि-ताम् याति नव जन्मानि पञ्च च ॥ ३६।५६० ॥
kṣoṃ ādibhiḥ vā saṃvītaḥ yaḥ naraḥ praṇamet harim . caṇḍāla-yoni-tām yāti nava janmāni pañca ca .. 36.560 ..
न जातु त्वमितब्रूयादापन्नोपि महत्तरं । त्वङ्कारो वा वधो वेति विद्वत्सु न निशिष्यते ॥ ३६.५६१ ॥
न जातु महत्तरम् । त्वङ्कारः वा वधः वा इति विद्वत्सु न निशिष्यते ॥ ३६।५६१ ॥
na jātu mahattaram . tvaṅkāraḥ vā vadhaḥ vā iti vidvatsu na niśiṣyate .. 36.561 ..
परनिन्दा परस्यैव पुंसो निन्दा भविष्यति । परनिन्दा च शास्त्रस्य परस्य तु विनिन्दनं ॥ ३६.५६२ ॥
पर-निन्दा परस्य एव पुंसः निन्दा भविष्यति । पर-निन्दा च शास्त्रस्य परस्य तु विनिन्दनम् ॥ ३६।५६२ ॥
para-nindā parasya eva puṃsaḥ nindā bhaviṣyati . para-nindā ca śāstrasya parasya tu vinindanam .. 36.562 ..
परनिन्दा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति । निन्दया वै परेषां तु निन्दितास्ते पुनस्स्मृताः ॥ ३६.५६३ ॥
पर-निन्दा भवेत् क्रोधात् क्रोधात् सद्यस् विनश्यति । निन्दया वै परेषाम् तु निन्दिताः ते पुनर् स्मृताः ॥ ३६।५६३ ॥
para-nindā bhavet krodhāt krodhāt sadyas vinaśyati . nindayā vai pareṣām tu ninditāḥ te punar smṛtāḥ .. 36.563 ..
तस्मान्निदां परेषां तुदेवाग्रे परिवर्जयेथ् । तथा परस्तुतिं चैव विधिना संत्यजेन्नरः ॥ ३६.५६४ ॥
तस्मात् निदाम् परेषाम् तुदा इव अग्रे परिवर्जयेथ् । तथा पर-स्तुतिम् च एव विधिना संत्यजेत् नरः ॥ ३६।५६४ ॥
tasmāt nidām pareṣām tudā iva agre parivarjayeth . tathā para-stutim ca eva vidhinā saṃtyajet naraḥ .. 36.564 ..
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः । तदग्रेऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः ॥ ३६.५६५ ॥
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः । तद्-अग्रे अन्यस्य देवस्य न स्तुतिम् स्तावयेत् नरः ॥ ३६।५६५ ॥
paraḥ parātmā puruṣaḥ purāṇaḥ procyate tu yaḥ . tad-agre anyasya devasya na stutim stāvayet naraḥ .. 36.565 ..
यस्तु सर्वेश्वरादन्यमधिकं तस्य चाग्रतः । पूजयेद्यदि मन्येत पूजार्हं वास नश्यति ॥ ३६.५६६ ॥
यः तु सर्वेश्वरात् अन्यम् अधिकम् तस्य च अग्रतस् । पूजयेत् यदि मन्येत पूजा-अर्हम् नश्यति ॥ ३६।५६६ ॥
yaḥ tu sarveśvarāt anyam adhikam tasya ca agratas . pūjayet yadi manyeta pūjā-arham naśyati .. 36.566 ..
सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः । तथापि तत्तद्रूषेण तारतम्यजुषा पुनः ॥ ३६.५६७ ॥
सर्वम् जगत् च तस्य एव स्वरूपम् परमात्मनः । तथा अपि तद्-तद्-रूषेण तारतम्य-जुषा पुनर् ॥ ३६।५६७ ॥
sarvam jagat ca tasya eva svarūpam paramātmanaḥ . tathā api tad-tad-rūṣeṇa tāratamya-juṣā punar .. 36.567 ..
पूज्यते भगवान्भक्तैस्तत्र शास्त्रोदिता गतिः । तस्माद्देवेश्वरादन्यद्यत्किञ्चित्थ्साणु जङ्गमं ॥ ३६.५६८ ॥
पूज्यते भगवान् भक्तैः तत्र शास्त्र-उदिता गतिः । तस्मात् देवेश्वरात् अन्यत् यत् किञ्चिद् थ्स अणु जङ्गमम् ॥ ३६।५६८ ॥
pūjyate bhagavān bhaktaiḥ tatra śāstra-uditā gatiḥ . tasmāt deveśvarāt anyat yat kiñcid thsa aṇu jaṅgamam .. 36.568 ..
पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः । तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयं ॥ ३६.५६९ ॥
पूजा-अर्हम् विद्यते वस्तु तद्-धामनि विशेषतः । तस्मात् पूजाम् स्तुतिम् च अन्याम् इतरेषाम् असंशयम् ॥ ३६।५६९ ॥
pūjā-arham vidyate vastu tad-dhāmani viśeṣataḥ . tasmāt pūjām stutim ca anyām itareṣām asaṃśayam .. 36.569 ..
त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुं । शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः ॥ ३६.५७० ॥
त्यजेत् देवगृहे यः तु सुखम् मन्येत जीवितुम् । शक्तौ सत्याम् विशेषेण यः तु लोभ-आदिना नरः ॥ ३६।५७० ॥
tyajet devagṛhe yaḥ tu sukham manyeta jīvitum . śaktau satyām viśeṣeṇa yaḥ tu lobha-ādinā naraḥ .. 36.570 ..
गौणैरर्चयते विष्णमुपचारैरुदीरितैः । न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते ॥ ३६.५७१ ॥
गौणैः अर्चयते उपचारैः उदीरितैः । न तस्य विद्यते पुण्यम् स तु उच्छास्त्रम् ॥ ३६।५७१ ॥
gauṇaiḥ arcayate upacāraiḥ udīritaiḥ . na tasya vidyate puṇyam sa tu ucchāstram .. 36.571 ..
यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः । तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः ॥ ३६.५७२ ॥
यावता कीर्त्यते ईशास्त्रे फलम् आढ्य-दरिद्रयोः । तद्-तद्-शक्ति-अर्पितैः एव यथार्हम् च धन-आदिकैः ॥ ३६।५७२ ॥
yāvatā kīrtyate īśāstre phalam āḍhya-daridrayoḥ . tad-tad-śakti-arpitaiḥ eva yathārham ca dhana-ādikaiḥ .. 36.572 ..
यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजां । तथैव तुलसीदाम्ना दुर्विधस्यापि तुष्यति ॥ ३६.५७३ ॥
यथा तुष्यति देवेशः मुक्ता-हारेण भूभुजाम् । तथा एव तुलसी-दाम्ना दुर्विधस्य अपि तुष्यति ॥ ३६।५७३ ॥
yathā tuṣyati deveśaḥ muktā-hāreṇa bhūbhujām . tathā eva tulasī-dāmnā durvidhasya api tuṣyati .. 36.573 ..
तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चिथ् । अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते ॥ ३६.५७४ ॥
तस्मात् कुर्वीत यत्नेन शक्ति-लोभम् न जातु । अन्यथा यदि कुर्वाणः फलम् न एव प्रपद्यते ॥ ३६।५७४ ॥
tasmāt kurvīta yatnena śakti-lobham na jātu . anyathā yadi kurvāṇaḥ phalam na eva prapadyate .. 36.574 ..
प्रेत्य मार्जारतां प्राप्य जायते जन्मपञ्चकं । विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः ॥ ३६.५७५ ॥
प्रेत्य मार्जार-ताम् प्राप्य जायते जन्म-पञ्चकम् । विषम् प्राश्नाति सम्मूढः यः स्वस्मै पचते नरः ॥ ३६।५७५ ॥
pretya mārjāra-tām prāpya jāyate janma-pañcakam . viṣam prāśnāti sammūḍhaḥ yaḥ svasmai pacate naraḥ .. 36.575 ..
योऽद्यादन्नं कणं वापि यद्विष्णोरनिवेदितं । स भवेद्ब्रह्महाभूयः स भुङ्क्तेपूयशोणितं ॥ ३६.५७६ ॥
यः अद्यात् अन्नम् कणम् वा अपि यत् विष्णोः अनिवेदितम् । स भवेत् ब्रह्म-हा भूयस् स भुङ्क्ते ईपूय-शोणितम् ॥ ३६।५७६ ॥
yaḥ adyāt annam kaṇam vā api yat viṣṇoḥ aniveditam . sa bhavet brahma-hā bhūyas sa bhuṅkte īpūya-śoṇitam .. 36.576 ..
यत्पिबेच्च यदश्नीयात्यच्चजिघ्रेच्च धारयेथ् । अनुलिंपेच्च यत्तत्तन्निवेद्याग्रे मधुद्विषे ॥ ३६.५७७ ॥
यत् पिबेत् च यत् अश्नीयात् यत् च जिघ्रेत् च । अनुलिंपेत् च यत् तत् तत् निवेद्य अग्रे मधुद्विषे ॥ ३६।५७७ ॥
yat pibet ca yat aśnīyāt yat ca jighret ca . anuliṃpet ca yat tat tat nivedya agre madhudviṣe .. 36.577 ..
तन्निवेदितशेषं तु भुञ्जीयाद्वोपयोजयेथ् । विष्णोर्निवेदितं यस्तु न भुङ्क्ते मनुजाधमः ॥ ३६.५७८ ॥
तद्-निवेदित-शेषम् तु भुञ्जीयात् वा उपयोजयेथ् । विष्णोः निवेदितम् यः तु न भुङ्क्ते मनुज-अधमः ॥ ३६।५७८ ॥
tad-nivedita-śeṣam tu bhuñjīyāt vā upayojayeth . viṣṇoḥ niveditam yaḥ tu na bhuṅkte manuja-adhamaḥ .. 36.578 ..
कल्पकोटिशतेनापि निष्कृतिर्नास्य विद्यते । निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनाथ् ॥ ३६.५७९ ॥
कल्प-कोटि-शतेन अपि निष्कृतिः ना अस्य विद्यते । निवेदितम् तु यत् विष्णोः भक्तेभ्यः तस्य दापना अथ् ॥ ३६।५७९ ॥
kalpa-koṭi-śatena api niṣkṛtiḥ nā asya vidyate . niveditam tu yat viṣṇoḥ bhaktebhyaḥ tasya dāpanā ath .. 36.579 ..
प्रीयत्भगवान्देवस्तत्परस्तु भवेन्नरः । निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः ॥ ३६.५८० ॥
प्रीयत् भगवान् देवः तद्-परः तु भवेत् नरः । निवेदितम् यदि ब्रूयात् उच्छिष्टम् इति मन्द-धीः ॥ ३६।५८० ॥
prīyat bhagavān devaḥ tad-paraḥ tu bhavet naraḥ . niveditam yadi brūyāt ucchiṣṭam iti manda-dhīḥ .. 36.580 ..
स तु दुर्गतिमासाद्य विन्दते यमयातनाः । विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतं ॥ ३६.५८१ ॥
स तु दुर्गतिम् आसाद्य विन्दते यम-यातनाः । विभूतिम् समुपाश्रित्य यस्य अनन्तस्य शाश्वतम् ॥ ३६।५८१ ॥
sa tu durgatim āsādya vindate yama-yātanāḥ . vibhūtim samupāśritya yasya anantasya śāśvatam .. 36.581 ..
समृद्धा धरणी सेयं सशैलवनकानना । या च भूयांसि लोकेऽस्मिन्नुत्पादयति सन्ततं ॥ ३६.५८२ ॥
समृद्धा धरणी सा इयम् स शैल-वन-कानना । या च भूयांसि लोके अस्मिन् उत्पादयति सन्ततम् ॥ ३६।५८२ ॥
samṛddhā dharaṇī sā iyam sa śaila-vana-kānanā . yā ca bhūyāṃsi loke asmin utpādayati santatam .. 36.582 ..
ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च । तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः ॥ ३६.५८३ ॥
ओषधीः निखिलाः स्तद्वत् पुष्पाणि च फलानि च । तस्य अनृण्यस्य-हेतोः वैय विधिना नरः ॥ ३६।५८३ ॥
oṣadhīḥ nikhilāḥ stadvat puṣpāṇi ca phalāni ca . tasya anṛṇyasya-hetoḥ vaiya vidhinā naraḥ .. 36.583 ..
यस्तु नार्ऽपयते विष्णोस्तत्तत्कालोद्भवानि तु । सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च ॥ ३६.५८४ ॥
यः तु न आर्ऽपयते विष्णोः तद्-तद्-काल-उद्भवानि तु । सस्यानि च ओषधीः तद्वत् फलानि कुसुमानि च ॥ ३६।५८४ ॥
yaḥ tu na ār'payate viṣṇoḥ tad-tad-kāla-udbhavāni tu . sasyāni ca oṣadhīḥ tadvat phalāni kusumāni ca .. 36.584 ..
संभृतानि यथाशक्ति सभवेद्ब्रह्मह्नरः । नवानि काले जातानि सस्यादीनि विशेषतः ॥ ३६.५८५ ॥
संभृतानि यथाशक्ति सभवेत् ब्रह्म-ह्नरः । नवानि काले जातानि सस्य-आदीनि विशेषतः ॥ ३६।५८५ ॥
saṃbhṛtāni yathāśakti sabhavet brahma-hnaraḥ . navāni kāle jātāni sasya-ādīni viśeṣataḥ .. 36.585 ..
ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च । कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परं ॥ ३६.५८६ ॥
ध्यायन्ति देवदेवेशम् अभिगन्तुम् यतन्ति च । कदर्थयन्तः ये मूढाः तेषाम् अभ्यर्थनम् परम् ॥ ३६।५८६ ॥
dhyāyanti devadeveśam abhigantum yatanti ca . kadarthayantaḥ ye mūḍhāḥ teṣām abhyarthanam param .. 36.586 ..
औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुञ्जते । तेयान्तिनरकान्घोरान्कृतघ्ना यान्तियान्बहून् ॥ ३६.५८७ ॥
औदासीन्येन तिष्ठन्ति स्वयम् वा अपि उपयुञ्जते । ते यान्ति नरकान् घोरान् कृतघ्नाः यान्ति यान् बहून् ॥ ३६।५८७ ॥
audāsīnyena tiṣṭhanti svayam vā api upayuñjate . te yānti narakān ghorān kṛtaghnāḥ yānti yān bahūn .. 36.587 ..
शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः । नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु ॥ ३६.५८८ ॥
शपन्ति औषधयः सर्वाः तस्मात् भक्त्या विशेषतः । नवम् सस्यम् फलम् पुष्पम् दधि-क्षीरम् घृतम् मधु ॥ ३६।५८८ ॥
śapanti auṣadhayaḥ sarvāḥ tasmāt bhaktyā viśeṣataḥ . navam sasyam phalam puṣpam dadhi-kṣīram ghṛtam madhu .. 36.588 ..
यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेथ् । लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेथ् ॥ ३६.५८९ ॥
यद्-अर्हम् अर्पणे सर्वम् अग्रे तस्मै समर्पयेथ् । लोभात् मोहात् अथ अज्ञानात् यः उच्छिष्टम् ॥ ३६।५८९ ॥
yad-arham arpaṇe sarvam agre tasmai samarpayeth . lobhāt mohāt atha ajñānāt yaḥ ucchiṣṭam .. 36.589 ..
देवेशाय विशेषेण स भवेत्पातकी नरः । उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेथ् ॥ ३६.५९० ॥
देवेशाय विशेषेण स भवेत् पातकी नरः । उच्छिष्ट मन्यदेवस्य यः देवाय निवेदयेथ् ॥ ३६।५९० ॥
deveśāya viśeṣeṇa sa bhavet pātakī naraḥ . ucchiṣṭa manyadevasya yaḥ devāya nivedayeth .. 36.590 ..
सोऽपि चण्डालतां प्राप्य नश्येदेव न संशयः । निवेदितं तु देवस्य य उच्छिष्टेन योजयेथ् ॥ ३६.५९१ ॥
सः अपि चण्डाल-ताम् प्राप्य नश्येत् एव न संशयः । निवेदितम् तु देवस्य यः उच्छिष्टेन ॥ ३६।५९१ ॥
saḥ api caṇḍāla-tām prāpya naśyet eva na saṃśayaḥ . niveditam tu devasya yaḥ ucchiṣṭena .. 36.591 ..
देवानामित रेषां वा मनुष्याणामथापि वा । स पापी जन्मसाहस्रं श्वानयोनिषु जायते ॥ ३६.५९२ ॥
देवानाम् इत रेषाम् वा मनुष्याणाम् अथ अपि वा । स पापी जन्म-साहस्रम् श्वान-योनिषु जायते ॥ ३६।५९२ ॥
devānām ita reṣām vā manuṣyāṇām atha api vā . sa pāpī janma-sāhasram śvāna-yoniṣu jāyate .. 36.592 ..
न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेथ् । देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः ॥ ३६.५९३ ॥
न हि देवगृहम् गत्वा पृष्टी कृत्या-आसनम् चरेथ् । देव-अभिमुखः एव स्यात् भक्तः सर्व-आत्मना नरः ॥ ३६।५९३ ॥
na hi devagṛham gatvā pṛṣṭī kṛtyā-āsanam careth . deva-abhimukhaḥ eva syāt bhaktaḥ sarva-ātmanā naraḥ .. 36.593 ..
न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः । पार्श्वतस्तु चरन्नेव निवर्तेतालयं प्रति ॥ ३६.५९४ ॥
न पृष्ठम् दर्शयेत् जातु देव-अग्रे हित-चिन्तकः । पार्श्वतस् तु चरन् एव निवर्तेत आलयम् प्रति ॥ ३६।५९४ ॥
na pṛṣṭham darśayet jātu deva-agre hita-cintakaḥ . pārśvatas tu caran eva nivarteta ālayam prati .. 36.594 ..
नैवान्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरं । स हि सर्वेश्वर श्शेषी यस्तत्रास्ते रमाधवः ॥ ३६.५९५ ॥
न एव अन्यम् प्रणमेत् जातु प्रविश्य हरि-मन्दिरम् । स हि सर्व-ईश्वर श्शेषी यः तत्र आस्ते ॥ ३६।५९५ ॥
na eva anyam praṇamet jātu praviśya hari-mandiram . sa hi sarva-īśvara śśeṣī yaḥ tatra āste .. 36.595 ..
पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः । यस्तथा प्रणमेन्मूढस्स याति नरकायुतं ॥ ३६.५९६ ॥
पूजा-अर्हः च प्रणाम-अर्हः पूजा-अर्हः तत्र न इतरः । यः तथा प्रणमेत् मूढः स याति नरक-अयुतम् ॥ ३६।५९६ ॥
pūjā-arhaḥ ca praṇāma-arhaḥ pūjā-arhaḥ tatra na itaraḥ . yaḥ tathā praṇamet mūḍhaḥ sa yāti naraka-ayutam .. 36.596 ..
चण्डालयोनिमासाद्य भजते यातना मुहुः । यस्तु देवगृहं प्राप्तान्वैष्णवान्भगवत्प्रियान् ॥ ३६.५९७ ॥
चण्डाल-योनिम् आसाद्य भजते यातना मुहुर् । यः तु देवगृहम् प्राप्तान् वैष्णवान् भगवत्-प्रियान् ॥ ३६।५९७ ॥
caṇḍāla-yonim āsādya bhajate yātanā muhur . yaḥ tu devagṛham prāptān vaiṣṇavān bhagavat-priyān .. 36.597 ..
आचार्यमृत्विजश्चाथ पूजकान्परिचारकान् । नार्ऽचयेन्मौनमास्थाय स विनश्यति सान्वयः ॥ ३६.५९८ ॥
आचार्यम् ऋत्विजः च अथ पूजकान् परिचारकान् । न आर्ऽचयेत् मौनम् आस्थाय स विनश्यति स अन्वयः ॥ ३६।५९८ ॥
ācāryam ṛtvijaḥ ca atha pūjakān paricārakān . na ār'cayet maunam āsthāya sa vinaśyati sa anvayaḥ .. 36.598 ..
यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु । भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः ॥ ३६.५९९ ॥
यत् इष्टम् याजकेभ्यः स्यात् पूरणाय इव तस्य तु । भक्ताः परिचरेयुः च विशेषात् ग्राम-वासिनः ॥ ३६।५९९ ॥
yat iṣṭam yājakebhyaḥ syāt pūraṇāya iva tasya tu . bhaktāḥ paricareyuḥ ca viśeṣāt grāma-vāsinaḥ .. 36.599 ..
अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेथ् । अत्मानं यो विशेषेणस्तौत्यहङ्कार भाविदः ॥ ३६.६०० ॥
अन्यथा चेद् मद्-दोषः सर्वेषाम् च । अत्मानम् यः विशेषेण स्तौति अहङ्कार-भाविदः ॥ ३६।६०० ॥
anyathā ced mad-doṣaḥ sarveṣām ca . atmānam yaḥ viśeṣeṇa stauti ahaṅkāra-bhāvidaḥ .. 36.600 ..
अनादृत्य गुरून्दैवमनिबद्धं च संपदेथ् । अवलीप्तोन जानाति दोषमात्मनि संगतं ॥ ३६.६०१ ॥
अन् आदृत्य गुरून् दैवम् अनिबद्धम् च । अवलीप्तः न जानाति दोषम् आत्मनि संगतम् ॥ ३६।६०१ ॥
an ādṛtya gurūn daivam anibaddham ca . avalīptaḥ na jānāti doṣam ātmani saṃgatam .. 36.601 ..
कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः । न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयं ॥ ३६.६०२ ॥
कुल-विद्या-तपः-सम्पद्-प्रमुखैः गर्विते नरः । न सुखम् न च सौभाग्यम् येन आत्मा अन्तूयते स्वयम् ॥ ३६।६०२ ॥
kula-vidyā-tapaḥ-sampad-pramukhaiḥ garvite naraḥ . na sukham na ca saubhāgyam yena ātmā antūyate svayam .. 36.602 ..
तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयं । ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः ॥ ३६.६०३ ॥
तस्मात् आत्म-स्तुतिम् कृत्वा नरः पतति निश्चयम् । ततस् जन्म-शतम् प्राप्य मृग-योनौ विशेषतः ॥ ३६।६०३ ॥
tasmāt ātma-stutim kṛtvā naraḥ patati niścayam . tatas janma-śatam prāpya mṛga-yonau viśeṣataḥ .. 36.603 ..
जायते म्रियतेऽभीक्ष्णं तस्य पापं महद्भवेथ् । यस्देवगृहं गत्वा वाञ्छत्यपचितिं जनः ॥ ३६.६०४ ॥
जायते म्रियते अभीक्ष्णम् तस्य पापम् महत् भवेथ् । यः देवगृहम् गत्वा वाञ्छति अपचितिम् जनः ॥ ३६।६०४ ॥
jāyate mriyate abhīkṣṇam tasya pāpam mahat bhaveth . yaḥ devagṛham gatvā vāñchati apacitim janaḥ .. 36.604 ..
स तु तित्तिरितां याति नवजन्मानि पञ्च च । देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः ॥ ३६.६०५ ॥
स तु तित्तिरि-ताम् याति नव-जन्मानि पञ्च च । देवेशस्य तु सेवा-अर्थम् वर्णानाम् आनुपूर्व्यशः ॥ ३६।६०५ ॥
sa tu tittiri-tām yāti nava-janmāni pañca ca . deveśasya tu sevā-artham varṇānām ānupūrvyaśaḥ .. 36.605 ..
अधिकारः समाख्यातस्तत्क्रमं न विमानयेथ् । विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः ॥ ३६.६०६ ॥
अधिकारः समाख्यातः तद्-क्रमम् न विमानयेथ् । विशन्ति गर्भ-गेहे तु ये वैखानस-सूत्रिणः ॥ ३६।६०६ ॥
adhikāraḥ samākhyātaḥ tad-kramam na vimānayeth . viśanti garbha-gehe tu ye vaikhānasa-sūtriṇaḥ .. 36.606 ..
गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचिथ् । अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते ॥ ३६.६०७ ॥
गर्भागारे प्रवेष्टव्यः न हि अ वैखानसः । अन्तराले तथा येषाम् स्थानम् तत् तु प्रवक्ष्यते ॥ ३६।६०७ ॥
garbhāgāre praveṣṭavyaḥ na hi a vaikhānasaḥ . antarāle tathā yeṣām sthānam tat tu pravakṣyate .. 36.607 ..
अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः । ते द्विजास्तत्स्त्रीयश्चापि सेवन्ते तत्र संगताः ॥ ३६.६०८ ॥
अन्ये द्विजाः च तिष्ठन्ति यथा स्यात् आश्रम-क्रमः । ते द्विजाः तद्-स्त्री-यः च अपि सेवन्ते तत्र संगताः ॥ ३६।६०८ ॥
anye dvijāḥ ca tiṣṭhanti yathā syāt āśrama-kramaḥ . te dvijāḥ tad-strī-yaḥ ca api sevante tatra saṃgatāḥ .. 36.608 ..
क्षत्रजाता विशेषण स्थित्वा चैवार्ऽधमण्डपे । देवेशमभिसेवन्ते तदीया याश्च योषितः ॥ ३६.६०९ ॥
स्थित्वा । देवेशम् अभिसेवन्ते तदीयाः याः च योषितः ॥ ३६।६०९ ॥
sthitvā . deveśam abhisevante tadīyāḥ yāḥ ca yoṣitaḥ .. 36.609 ..
संगताश्शूद्रजाताश्च प्रतिलोमभवाश्चये । महामण्डपमास्थाय सेवन्ते पुरुषोत्तमं ॥ ३६.६१० ॥
संगताः शूद्र-जाताः च प्रतिलोम-भवाः चये । महा-मण्डपम् आस्थाय सेवन्ते पुरुषोत्तमम् ॥ ३६।६१० ॥
saṃgatāḥ śūdra-jātāḥ ca pratiloma-bhavāḥ caye . mahā-maṇḍapam āsthāya sevante puruṣottamam .. 36.610 ..
अनुलोमभुवश्चैवये चान्ये म्लेच्छजातयः । गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः ॥ ३६.६११ ॥
अनुलोम-भुवः च एवये च अन्ये म्लेच्छ-जातयः । गोपुरात् बाह्यतस् स्थित्वा सेवन्ते मन्दिरम् हरेः ॥ ३६।६११ ॥
anuloma-bhuvaḥ ca evaye ca anye mleccha-jātayaḥ . gopurāt bāhyatas sthitvā sevante mandiram hareḥ .. 36.611 ..
तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिं । देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते ॥ ३६.६१२ ॥
तारतम्यम् इदम् ज्ञात्वा सेवेत सततम् हरिम् । देवता-निन्दनम् कुर्यात् यः स मुच्यते ॥ ३६।६१२ ॥
tāratamyam idam jñātvā seveta satatam harim . devatā-nindanam kuryāt yaḥ sa mucyate .. 36.612 ..
अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमं । चण्डालयोनितामेति नव जन्मानि पञ्च च ॥ ३६.६१३ ॥
अन्य-देव-समम् यः तु मन्यते पुरुषोत्तमम् । चण्डाल-योनि-ताम् एति नव जन्मानि पञ्च च ॥ ३६।६१३ ॥
anya-deva-samam yaḥ tu manyate puruṣottamam . caṇḍāla-yoni-tām eti nava janmāni pañca ca .. 36.613 ..
अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः । स भवेद्देवहा सत्यं जायते श्वादियोनिषु, ॥ ३६.६१४ ॥
अपह्नुत्य पुनर् देवान् हरेत् तु यः । स भवेत् देव-हा सत्यम् जायते श्व-आदि-योनिषु, ॥ ३६।६१४ ॥
apahnutya punar devān haret tu yaḥ . sa bhavet deva-hā satyam jāyate śva-ādi-yoniṣu, .. 36.614 ..
तिरस्कृत्य तथा देवान्भगवच्छास्त्रमेव च । कर्माणि स्वेच्छया कुर्यात्सोऽपि स्याद्देवहा नरः ॥ ३६.६१५ ॥
तिरस्कृत्य तथा देवान् भगवत्-शास्त्रम् एव च । कर्माणि स्व-इच्छया कुर्यात् सः अपि स्यात् देव-हा नरः ॥ ३६।६१५ ॥
tiraskṛtya tathā devān bhagavat-śāstram eva ca . karmāṇi sva-icchayā kuryāt saḥ api syāt deva-hā naraḥ .. 36.615 ..
कथायां कथ्यमानायां देवस्य मधुविद्विषः । अनादृत्य च ये यान्ति ते नराः पापकारिणः ॥ ३६.६१६ ॥
कथायाम् कथ्यमानायाम् देवस्य मधुविद्विषः । अन् आदृत्य च ये यान्ति ते नराः पाप-कारिणः ॥ ३६।६१६ ॥
kathāyām kathyamānāyām devasya madhuvidviṣaḥ . an ādṛtya ca ye yānti te narāḥ pāpa-kāriṇaḥ .. 36.616 ..
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षतां । जायन्ते सप्तजन्मानि ततश्चण्डालतां ययुः ॥ ३६.६१७ ॥
तोय-हीने अति रौद्रे च वने वै शून्य-वृक्ष-ताम् । जायन्ते सप्त-जन्मानि ततस् चण्डाल-ताम् ययुः ॥ ३६।६१७ ॥
toya-hīne ati raudre ca vane vai śūnya-vṛkṣa-tām . jāyante sapta-janmāni tatas caṇḍāla-tām yayuḥ .. 36.617 ..
देवेषु गोषु विप्रेषु देवागारेषु चैव हि । वहेन्नैवाधिपत्यं यन्नासावृद्धिमवाप्नुयाथ् ॥ ३६.६१८ ॥
देवेषु गोषु विप्रेषु देवागारेषु च एव हि । वहेत् न एव आधिपत्यम् यत् न असौ ऋद्धिम् अवाप्नुयाथ् ॥ ३६।६१८ ॥
deveṣu goṣu vipreṣu devāgāreṣu ca eva hi . vahet na eva ādhipatyam yat na asau ṛddhim avāpnuyāth .. 36.618 ..
दोषाश्च बहुला स्तस्मिन्नाधिपत्ये स्मृता बुधैः । कामतोऽकामतश्चापि सर्वं तस्य विचेष्टितं ॥ ३६.६१९ ॥
दोषाः च बहुलाः स्तस्मिन् आधिपत्ये स्मृताः बुधैः । कामतस् अकामतस् च अपि सर्वम् तस्य विचेष्टितम् ॥ ३६।६१९ ॥
doṣāḥ ca bahulāḥ stasmin ādhipatye smṛtāḥ budhaiḥ . kāmatas akāmatas ca api sarvam tasya viceṣṭitam .. 36.619 ..
पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेथ् । सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः ॥ ३६.६२० ॥
पापाय एव भवेत् तस्मात् भूति-कामः तु तम् त्यजेथ् । सेवा-अर्थिनाम् सकाशात् तु बलात्कारेण यः प्रभुः ॥ ३६।६२० ॥
pāpāya eva bhavet tasmāt bhūti-kāmaḥ tu tam tyajeth . sevā-arthinām sakāśāt tu balātkāreṇa yaḥ prabhuḥ .. 36.620 ..
गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च । देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते ॥ ३६.६२१ ॥
गृह्णीयात् तु करम् सद्यस् पतेत् स सह तेन च । देवस्य सन्निधौ भक्तैः भक्त्यायत् तु समर्प्यते ॥ ३६।६२१ ॥
gṛhṇīyāt tu karam sadyas patet sa saha tena ca . devasya sannidhau bhaktaiḥ bhaktyāyat tu samarpyate .. 36.621 ..
पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरथ् । दायाद्यमर्चकानां तु यो मोहादपनिह्नुते ॥ ३६.६२२ ॥
पत्रम् फलम् वा मूलम् वा स्वर्णम् वासांसि च इतरथा । दायाद्यम् अर्चकानाम् तु यः मोहात् अपनिह्नुते ॥ ३६।६२२ ॥
patram phalam vā mūlam vā svarṇam vāsāṃsi ca itarathā . dāyādyam arcakānām tu yaḥ mohāt apanihnute .. 36.622 ..
स्वयं वाप्युपयुञ्जीत स पापी नरकं व्रजेथ् । विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः ॥ ३६.६२३ ॥
स्वयम् वा अपि उपयुञ्जीत स पापी नरकम् । हरये यद्-भक्ताः भक्ति-भाविताः ॥ ३६।६२३ ॥
svayam vā api upayuñjīta sa pāpī narakam . haraye yad-bhaktāḥ bhakti-bhāvitāḥ .. 36.623 ..
तन्नाम्ना पूजकानेव जानन्ति फलभागिनः । स्थिरजङ्गमयोः पूजा यतस्सम्पादिता भवेथ् ॥ ३६.६२४ ॥
तद्-नाम्ना पूजकान् एव जानन्ति फल-भागिनः । स्थिर-जङ्गमयोः पूजा यतस् सम्पादिता ॥ ३६।६२४ ॥
tad-nāmnā pūjakān eva jānanti phala-bhāginaḥ . sthira-jaṅgamayoḥ pūjā yatas sampāditā .. 36.624 ..
तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे । विहायाभरणादीनि वासांस्यन्यत्परिच्छदं ॥ ३६.६२५ ॥
तस्मात् भगवतः नाम्ना दत्तम् यत् देवमन्दिरे । विहाय आभरण-आदीनि वासांसि अन्य-परिच्छदम् ॥ ३६।६२५ ॥
tasmāt bhagavataḥ nāmnā dattam yat devamandire . vihāya ābharaṇa-ādīni vāsāṃsi anya-paricchadam .. 36.625 ..
देवालङ्कारयोग्यानि मूल्यवन्ति विशेषतः । अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः ॥ ३६.६२६ ॥
देव-अलङ्कार-योग्यानि मूल्यवन्ति विशेषतः । अर्चकाः एव गृह्णीयुः प्रतिबध्नीत न इतरः ॥ ३६।६२६ ॥
deva-alaṅkāra-yogyāni mūlyavanti viśeṣataḥ . arcakāḥ eva gṛhṇīyuḥ pratibadhnīta na itaraḥ .. 36.626 ..
यस्त्वधीकारगर्वेण देवागारमुपाश्रितः । अकाले सेवितुं चेच्छेत्सोऽपि यास्यति दुर्गतिं ॥ ३६.६२७ ॥
यः तु अधीकार-गर्वेण देवागारम् उपाश्रितः । अकाले सेवितुम् च इच्छेत् सः अपि यास्यति दुर्गतिम् ॥ ३६।६२७ ॥
yaḥ tu adhīkāra-garveṇa devāgāram upāśritaḥ . akāle sevitum ca icchet saḥ api yāsyati durgatim .. 36.627 ..
अथ वा सेवितुं चेच्छेत्कारणेनापि केन चिथ् । उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः ॥ ३६.६२८ ॥
अथ वा सेवितुम् च इच्छेत् कारणेन अपि । उक्तेषु एव तु कालेषु सेवेत मतिमान् नरः ॥ ३६।६२८ ॥
atha vā sevitum ca icchet kāraṇena api . ukteṣu eva tu kāleṣu seveta matimān naraḥ .. 36.628 ..
अन्त्यार्चनावसाने यत्कवाटो बध्यते ततः । पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति ॥ ३६.६२९ ॥
अन्त्य-अर्चन-अवसाने यत् कवाटः बध्यते ततस् । पुनर् उद्घाटनम् यावत् प्रत्यूषे च भविष्यति ॥ ३६।६२९ ॥
antya-arcana-avasāne yat kavāṭaḥ badhyate tatas . punar udghāṭanam yāvat pratyūṣe ca bhaviṣyati .. 36.629 ..
तावन्नैव हरिं सेवेदकालस्स विशेषतः । प्रत्यूषाद्यन्त्यकालान्तपूजनेऽपि तु मन्त्रतः ॥ ३६.६३० ॥
तावत् ना एव हरिम् सेवेत् अकालः स विशेषतः । प्रत्यूष-आदि-अन्त्य-काल-अन्त-पूजने अपि तु मन्त्रतः ॥ ३६।६३० ॥
tāvat nā eva harim sevet akālaḥ sa viśeṣataḥ . pratyūṣa-ādi-antya-kāla-anta-pūjane api tu mantrataḥ .. 36.630 ..
तत्तत्काले कवाटस्य बन्धने विहितेऽपि च । न तदा तावती हानिरवबद्धेऽप्यमन्त्रकं ॥ ३६.६३१ ॥
तद्-तद्-काले कवाटस्य बन्धने विहिते अपि च । न तदा तावती हानिः अवबद्धे अपि अमन्त्रकम् ॥ ३६।६३१ ॥
tad-tad-kāle kavāṭasya bandhane vihite api ca . na tadā tāvatī hāniḥ avabaddhe api amantrakam .. 36.631 ..
अथार्ऽचनार्हकालेपि भक्तानां सेवनाय तु । अकाला बहवः प्रोक्तास्तथा यवसिकोदिता ॥ ३६.६३२ ॥
अथ अर्-अर्ह-काले इपि भक्तानाम् सेवनाय तु । अकालाः बहवः प्रोक्ताः तथा यवसिका उदिता ॥ ३६।६३२ ॥
atha ar-arha-kāle ipi bhaktānām sevanāya tu . akālāḥ bahavaḥ proktāḥ tathā yavasikā uditā .. 36.632 ..
तस्मादकालसेवां तु विधिना परिवर्जयेथ् । विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वतां ॥ ३६.६३३ ॥
तस्मात् अकाल-सेवाम् तु विधिना । विषय-आक्रान्त-चित्तानाम् विष्णु-अर्चनम् अकुर्वताम् ॥ ३६।६३३ ॥
tasmāt akāla-sevām tu vidhinā . viṣaya-ākrānta-cittānām viṣṇu-arcanam akurvatām .. 36.633 ..
कर्मभूमौ नृणां जन्म कर्मापि विभलं ध्रुवं । यो गुरौ मानुषं भावं शिलाभावं च दैवते ॥ ३६.६३४ ॥
कर्म-भूमौ नृणाम् जन्म कर्म अपि विभलम् ध्रुवम् । यः गुरौ मानुषम् भावम् शिला-भावम् च दैवते ॥ ३६।६३४ ॥
karma-bhūmau nṛṇām janma karma api vibhalam dhruvam . yaḥ gurau mānuṣam bhāvam śilā-bhāvam ca daivate .. 36.634 ..
मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च । पूजकेषु च पूजायां नीरसं भावमेति सः ॥ ३६.६३५ ॥
मन्त्रेषु जीविका-अभावम् हिंसा-अभावम् मखेषु च । पूजकेषु च पूजायाम् नीरसम् भावम् एति सः ॥ ३६।६३५ ॥
mantreṣu jīvikā-abhāvam hiṃsā-abhāvam makheṣu ca . pūjakeṣu ca pūjāyām nīrasam bhāvam eti saḥ .. 36.635 ..
सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलं । क्षमामन्त्रः
सर्वधा निन्दितव्यः हि जीवितम् तस्य निष्फलम् । क्षमा-मन्त्रः
sarvadhā ninditavyaḥ hi jīvitam tasya niṣphalam . kṣamā-mantraḥ
क्षमामन्त्रः
अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परं ॥ ३६.६३६ ॥
अथ वक्ष्ये विशेषण-क्षमा-मन्त्र-विधिम् परम् ॥ ३६।६३६ ॥
atha vakṣye viśeṣaṇa-kṣamā-mantra-vidhim param .. 36.636 ..
अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः । अपराधः कृतो येन जानता स्ववशेन सः ॥ ३६.६३७ ॥
अपचारेषु सर्वेषु यम् जप्त्वा मुच्यते नरः । अपराधः कृतः येन जानता स्व-वशेन सः ॥ ३६।६३७ ॥
apacāreṣu sarveṣu yam japtvā mucyate naraḥ . aparādhaḥ kṛtaḥ yena jānatā sva-vaśena saḥ .. 36.637 ..
क्षमामन्त्रसहस्रस्य जापेनापि न मुच्यते । क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते ॥ ३६.६३८ ॥
क्षमा-मन्त्र-सहस्रस्य जापेन अपि न मुच्यते । क्षमा-मन्त्रः तु अशेष-अघ-ध्वंसन-क्षमः उच्यते ॥ ३६।६३८ ॥
kṣamā-mantra-sahasrasya jāpena api na mucyate . kṣamā-mantraḥ tu aśeṣa-agha-dhvaṃsana-kṣamaḥ ucyate .. 36.638 ..
नारायण नमस्तेऽस्तु नमो भक्तपरायण । नमो नमो नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ॥ ३६.६३९ ॥
नारायण नमः ते अस्तु नमः भक्त-परायण । नमः नमः नमः ते अस्तु नमः ते अस्तु नमः नमः ॥ ३६।६३९ ॥
nārāyaṇa namaḥ te astu namaḥ bhakta-parāyaṇa . namaḥ namaḥ namaḥ te astu namaḥ te astu namaḥ namaḥ .. 36.639 ..
अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४० ॥
अज्ञानात् अर्थ-लोभात् वा रागात् द्वेषात् प्रमादतः । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४० ॥
ajñānāt artha-lobhāt vā rāgāt dveṣāt pramādataḥ . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.640 ..
संध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४१ ॥
संध्ययोः च दिवा रात्रौ जाग्रत्-स्वप्न-सुषुप्तिषु । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४१ ॥
saṃdhyayoḥ ca divā rātrau jāgrat-svapna-suṣuptiṣu . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.641 ..
कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४२ ॥
कायेन मनसा वाचा सर्वैः वा अपि समुच्चितैः । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४२ ॥
kāyena manasā vācā sarvaiḥ vā api samuccitaiḥ . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.642 ..
तिष्ठता प्रजता चैव शय्यासनगतेन च । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४३ ॥
तिष्ठता च एव शय्या-आसन-गतेन च । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४३ ॥
tiṣṭhatā ca eva śayyā-āsana-gatena ca . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.643 ..
स्नास्यता जपता वापि यजता जुह्वता मया । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४४ ॥
स्नास्यता जपता वा अपि यजता जुह्वता मया । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४४ ॥
snāsyatā japatā vā api yajatā juhvatā mayā . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.644 ..
भुजता ध्यायता नूनं विषयानुपसेवता । अपराधाः कृता ये तान्क्षमस्व पुरुषोत्तम ॥ ३६.६४५ ॥
भुजता ध्यायता नूनम् विषयान् उपसेवता । अपराधाः कृताः ये तान् क्षमस्व पुरुषोत्तम ॥ ३६।६४५ ॥
bhujatā dhyāyatā nūnam viṣayān upasevatā . aparādhāḥ kṛtāḥ ye tān kṣamasva puruṣottama .. 36.645 ..
मया वा मज्जनैर्वापि मम बन्धुभिरेववा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४६ ॥
मया वा मज्जनैः वा अपि मम बन्धुभिः एव वा । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४६ ॥
mayā vā majjanaiḥ vā api mama bandhubhiḥ eva vā . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.646 ..
राज्ञा वा तदमात्यैर्वा राजभृत्यैरथापिवा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४७ ॥
राज्ञा वा तद्-अमात्यैः वा राज-भृत्यैः अथ अपि वा । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४७ ॥
rājñā vā tad-amātyaiḥ vā rāja-bhṛtyaiḥ atha api vā . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.647 ..
आचार्येणार्ऽचकेनापि भक्तैर्वापरिचारकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४८ ॥
आचार्येण आर्ऽचकेन अपि भक्तैः वा अ परिचारकैः । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४८ ॥
ācāryeṇa ār'cakena api bhaktaiḥ vā a paricārakaiḥ . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.648 ..
गायकैर्नर्तकैर्वाथ वादित्राणां च वादकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४९ ॥
गायकैः नर्तकैः वा अथ वादित्राणाम् च वादकैः । अपराधः कृतः यः तम् क्षमस्व पुरुषोत्तम ॥ ३६।६४९ ॥
gāyakaiḥ nartakaiḥ vā atha vāditrāṇām ca vādakaiḥ . aparādhaḥ kṛtaḥ yaḥ tam kṣamasva puruṣottama .. 36.649 ..
प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकं । अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५० ॥
प्रणव-आदि-विसर्ग-अन्तम् क्रियासु विधि-पूर्वकम् । अमन्त्रम् अर्चने दोषम् क्षमस्व पुरुषोत्तम ॥ ३६।६५० ॥
praṇava-ādi-visarga-antam kriyāsu vidhi-pūrvakam . amantram arcane doṣam kṣamasva puruṣottama .. 36.650 ..
उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च । श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५१ ॥
क्रियासु विविधासु च । श्रद्धा-लोप-कृतम् दोषम् क्षमस्व पुरुषोत्तम ॥ ३६।६५१ ॥
kriyāsu vividhāsu ca . śraddhā-lopa-kṛtam doṣam kṣamasva puruṣottama .. 36.651 ..
कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययं । तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम ॥ ३६.६५२ ॥
कः शक्नोति अर्चितुम् देवम् त्वाम् अनादि-अन्तम् अव्ययम् । तस्मात् अज्ञान-चरितम् क्षमस्व पुरुषोत्तम ॥ ३६।६५२ ॥
kaḥ śaknoti arcitum devam tvām anādi-antam avyayam . tasmāt ajñāna-caritam kṣamasva puruṣottama .. 36.652 ..
प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि । प्रसीदतु रं मह्यं तव वक्षःस्थलालया ॥ ३६.६५३ ॥
प्रार्थये देवदेवम् त्वाम् प्रसीद भगवत् मयि । प्रसीदतु रं मह्यम् तव वक्षःस्थल-आलया ॥ ३६।६५३ ॥
prārthaye devadevam tvām prasīda bhagavat mayi . prasīdatu raṃ mahyam tava vakṣaḥsthala-ālayā .. 36.653 ..
इशाना जगतो देवी माता नित्यानपायिनी । प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि ॥ ३६.६५४ ॥
इशाना जगतः देवी माता नित्य-अनपायिनी । प्रसीदन्तु सुराः सर्वे प्रसादात् युवयोः मयि ॥ ३६।६५४ ॥
iśānā jagataḥ devī mātā nitya-anapāyinī . prasīdantu surāḥ sarve prasādāt yuvayoḥ mayi .. 36.654 ..
स्वस्त्यस्तु कृपयास्माकं युवयोः सुप्रसन्नयोः । उपचारापदेशेन कृतानहरहर्मया ॥ ३६.६५५ ॥
स्वस्ति अस्तु कृपया अस्माकम् युवयोः सु प्रसन्नयोः । उपचार-अपदेशेन कृतान् अहरहर् मया ॥ ३६।६५५ ॥
svasti astu kṛpayā asmākam yuvayoḥ su prasannayoḥ . upacāra-apadeśena kṛtān aharahar mayā .. 36.655 ..
अपचारानिमान्त्सर्वान्क्षमस्व पुरुषोत्तम । इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः ॥ ३६.६५६ ॥
अपचारान् इमान् सर्वान् क्षमस्व पुरुषोत्तम । इति विज्ञापयेत् भूयस् भक्ति-साध्वस-भावितः ॥ ३६।६५६ ॥
apacārān imān sarvān kṣamasva puruṣottama . iti vijñāpayet bhūyas bhakti-sādhvasa-bhāvitaḥ .. 36.656 ..
तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः । क्षमामन्त्रमिमं देयान्न चाशुश्रूषवे क्वचिथ् ॥ ३६.६५७ ॥
तद्-अर्थनात् परम् प्रीतः प्रसीदति खगध्वजः । क्षमा-मन्त्रम् इमम् देयात् न च अशुश्रूषवे ॥ ३६।६५७ ॥
tad-arthanāt param prītaḥ prasīdati khagadhvajaḥ . kṣamā-mantram imam deyāt na ca aśuśrūṣave .. 36.657 ..
गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा
गुह्यात् गुह्यतमः गोप्यः सर्वदा गुरुभिः सदा
guhyāt guhyatamaḥ gopyaḥ sarvadā gurubhiḥ sadā
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगुप्रोक्तायाम् सिहितायाम् प्रकीर्ण-अधिकारे षट्त्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛguproktāyām sihitāyām prakīrṇa-adhikāre ṣaṭtriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In