| |
|

This overlay will guide you through the buttons:

अथषट्त्रिंशोऽध्यायः.
athaṣaṭtriṃśo'dhyāyaḥ.
अपचाराः
अपचारास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः । यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥ ३६.१ ॥
apacārāstathā viṣṇordvātriṃśatparikīrtitāḥ . yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe .. 36.1 ..
देवोत्सवाद्यसेवाचाप्रणामं च तदग्रतः । एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणं ॥ ३६.२ ॥
devotsavādyasevācāpraṇāmaṃ ca tadagrataḥ . ekahastapraṇāmaśca tatpurastātpradakṣiṇaṃ .. 36.2 ..
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकं । पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनं ॥ ३६.३ ॥
ucchiṣṭe caiva cāśauce bhagavadvandanādikaṃ . pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanaṃ .. 36.3 ..
शयनं भोजनं चैव मुधाभाषणमेव च । उच्चैर्भाषा वृधाजल्पो रोदनाद्यं च विग्रहः ॥ ३६.४ ॥
śayanaṃ bhojanaṃ caiva mudhābhāṣaṇameva ca . uccairbhāṣā vṛdhājalpo rodanādyaṃ ca vigrahaḥ .. 36.4 ..
निग्रहोऽनुग्रहश्चैव स्त्रीषु साकूतभाषणं । अश्लीलकथनं चैवाप्यधोवायुविमोक्षणं ॥ ३६.५ ॥
nigraho'nugrahaścaiva strīṣu sākūtabhāṣaṇaṃ . aślīlakathanaṃ caivāpyadhovāyuvimokṣaṇaṃ .. 36.5 ..
कंबलावरणं चैव वरनिन्दा परस्तुतिः । शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणं ॥ ३६.६ ॥
kaṃbalāvaraṇaṃ caiva varanindā parastutiḥ . śaktau gauṇopacāraścāpyaniveditabhakṣaṇaṃ .. 36.6 ..
तत्तत्कालोद्भवानां च फलादीनामनर्पणं । विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥ ३६.७ ॥
tattatkālodbhavānāṃ ca phalādīnāmanarpaṇaṃ . viniyuktāvaśiṣṭasya pradānaṃ vyañjanādiṣu .. 36.7 ..
पृष्ठीकृत्यासनं चैव परेषामभिवन्दनं । गुर्ॐऔनं निजस्तोत्रं देवतानिन्दनं तथा ॥ ३६.८ ॥
pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivandanaṃ . gur_oṃaunaṃ nijastotraṃ devatānindanaṃ tathā .. 36.8 ..
अपचारां स्तु विविधानीदृशान्परिवर्जयेथ् । अपचारेष्वनन्तेषु सत्स्वन्येषु प्रमादतः ॥ ३६.९ ॥
apacārāṃ stu vividhānīdṛśānparivarjayeth . apacāreṣvananteṣu satsvanyeṣu pramādataḥ .. 36.9 ..
क्षमऽऽस्वेत्यर्थनैवैगा निष्कृतिर्निरुपद्रवा । अन्यथा यदि कुर्वाणःप्रमादात्ज्ञानतोऽथवा ॥ ३६.१० ॥
kṣama''svetyarthanaivaigā niṣkṛtirnirupadravā . anyathā yadi kurvāṇaḥpramādātjñānato'thavā .. 36.10 ..
स याति नरकान्घोरान्सन्ततं भृशदारुणान् । येतु स्मरणमात्रेण भवन्ति हृदयच्छिदः ॥ ३६.११ ॥
sa yāti narakānghorānsantataṃ bhṛśadāruṇān . yetu smaraṇamātreṇa bhavanti hṛdayacchidaḥ .. 36.11 ..
द्वात्रिंशन्नरकाः
द्वात्रिंशन्नरकास्ते तु कीर्त्यन्तेब्रह्मवादिभिः । रौरवध्वान्तशीतोष्णतापांबुजमहांबुजाः ॥ ३६.१२ ॥
dvātriṃśannarakāste tu kīrtyantebrahmavādibhiḥ . rauravadhvāntaśītoṣṇatāpāṃbujamahāṃbujāḥ .. 36.12 ..
कालसूत्रोऽष्टमो ह्येते नरका इति विश्रुताः । सूच्यग्रकालखड्गाश्च क्षुरधारांचबरीषकाः ॥ ३६.१३ ॥
kālasūtro'ṣṭamo hyete narakā iti viśrutāḥ . sūcyagrakālakhaḍgāśca kṣuradhārāṃcabarīṣakāḥ .. 36.13 ..
तप्तांगारमहादाहौ संतापश्चेति के चन । भवन्त्यष्टासु भीभत्का महाशब्दा भयानकाः ॥ ३६.१४ ॥
taptāṃgāramahādāhau saṃtāpaśceti ke cana . bhavantyaṣṭāsu bhībhatkā mahāśabdā bhayānakāḥ .. 36.14 ..
लक्षाप्रलेपमांसादनिरुच्छ्वसनसोच्छ्वसाः । युग्माद्रिशाल्मलीलोहप्रदीपक्षुत्पिपासिकाः ॥ ३६.१५ ॥
lakṣāpralepamāṃsādanirucchvasanasocchvasāḥ . yugmādriśālmalīlohapradīpakṣutpipāsikāḥ .. 36.15 ..
कृमीणां निचयश्चैव राजानः परिकीर्तिताः । लोहस्तम्भोऽथ विण्मूत्रे तथा वैतरणी नदी ॥ ३६.१६ ॥
kṛmīṇāṃ nicayaścaiva rājānaḥ parikīrtitāḥ . lohastambho'tha viṇmūtre tathā vaitaraṇī nadī .. 36.16 ..
तामिस्रश्चान्धतामिस्रः कुम्भीपाकोऽथ रौरवः । महापदानुगामी च राजराजेश्वराह्वयः ॥ ३६.१७ ॥
tāmisraścāndhatāmisraḥ kumbhīpāko'tha rauravaḥ . mahāpadānugāmī ca rājarājeśvarāhvayaḥ .. 36.17 ..
त्रयस्त्रींशत्पुटेष्वर्धं पार्थिवं चार्धमायसं । तन्मध्ये नरका घोरा बहुशस्तमसि स्थिताः ॥ ३६.१८ ॥
trayastrīṃśatpuṭeṣvardhaṃ pārthivaṃ cārdhamāyasaṃ . tanmadhye narakā ghorā bahuśastamasi sthitāḥ .. 36.18 ..
तेषां नरकभेदानामष्टाविंशतिकोटयः । एतेषां दारुणानां तु नरकाणां पतिस्थ्सितः ॥ ३६.१९ ॥
teṣāṃ narakabhedānāmaṣṭāviṃśatikoṭayaḥ . eteṣāṃ dāruṇānāṃ tu narakāṇāṃ patisthsitaḥ .. 36.19 ..
कूश्माण्ड इति विख्यातः प्रलयार्कालनद्युतिः । करालवदनः क्रुद्धो वृत्तकोटरलोचनः ॥ ३६.२० ॥
kūśmāṇḍa iti vikhyātaḥ pralayārkālanadyutiḥ . karālavadanaḥ kruddho vṛttakoṭaralocanaḥ .. 36.20 ..
टङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः । पापास्त्वेतेषु पच्यन्तेनराः कर्मानुरूपतः ॥ ३६.२१ ॥
ṭaṅkapāṇistathābhūtairbhūtairbhūyobhirāvṛtaḥ . pāpāstveteṣu pacyantenarāḥ karmānurūpataḥ .. 36.21 ..
यातनाभिर्विचित्राभिरापापप्रक्षयान्तकं । प्रायश्चित्तोज्घिता दृप्तानिजधर्मपराङ्मुखाः ॥ ३६.२२ ॥
yātanābhirvicitrābhirāpāpaprakṣayāntakaṃ . prāyaścittojghitā dṛptānijadharmaparāṅmukhāḥ .. 36.22 ..
परधर्मरताश्चोराः पतन्ति नरकाग्निषु । महापातकिनःकल्पं तिष्ठन्ति नरकाग्निषु ॥ ३६.२३ ॥
paradharmaratāścorāḥ patanti narakāgniṣu . mahāpātakinaḥkalpaṃ tiṣṭhanti narakāgniṣu .. 36.23 ..
मन्वन्तरं पातकिनो देवब्रह्मस्वहारिणः । उपपातकिनो मर्त्या देवदेवाग्नियज्वनां ॥ ३६.२४ ॥
manvantaraṃ pātakino devabrahmasvahāriṇaḥ . upapātakino martyā devadevāgniyajvanāṃ .. 36.24 ..
द्विजगोगुरुधर्माणां निन्दका ब्रह्मणो दिनं । अन्ये चतुर्युगं मर्त्यास्तदर्धं च नराधमाः ॥ ३६.२५ ॥
dvijagogurudharmāṇāṃ nindakā brahmaṇo dinaṃ . anye caturyugaṃ martyāstadardhaṃ ca narādhamāḥ .. 36.25 ..
तिष्ठन्ति नरके घोरे निजपापानुरूप्यतः । द्यूतस्त्रीविषयासक्ता ये धर्मविकलाःखलाः ॥ ३६.२६ ॥
tiṣṭhanti narake ghore nijapāpānurūpyataḥ . dyūtastrīviṣayāsaktā ye dharmavikalāḥkhalāḥ .. 36.26 ..
पतन्ति तेषु घोरेषु नरकेषु नराधमाः । न श्रुण्वन्ति च ये मूढास्साधूक्तं धर्मगौरवं ॥ ३६.२७ ॥
patanti teṣu ghoreṣu narakeṣu narādhamāḥ . na śruṇvanti ca ye mūḍhāssādhūktaṃ dharmagauravaṃ .. 36.27 ..
प्यत्यक्षं केन तद्दृष्टं प्रत्युऽऽतेति वदन्ति च । कामलोभाभिभूताश्च बिडालव्रतिनस्तथा ॥ ३६.२८ ॥
pyatyakṣaṃ kena taddṛṣṭaṃ pratyu''teti vadanti ca . kāmalobhābhibhūtāśca biḍālavratinastathā .. 36.28 ..
पापिष्ठाः कर्महीनाश्च जिह्वोपस्थपरायणाः । यतिनिन्दापरा ये च क्षेत्रतीर्थादिदूषकाः ॥ ३६.२९ ॥
pāpiṣṭhāḥ karmahīnāśca jihvopasthaparāyaṇāḥ . yatinindāparā ye ca kṣetratīrthādidūṣakāḥ .. 36.29 ..
पतन्ति तेषु ते मर्त्याविवशाः पापबन्धनाः । इहानुभूयनिर्दिष्टमायुर्मर्त्यास्स्वयंभुवा ॥ ३६.३० ॥
patanti teṣu te martyāvivaśāḥ pāpabandhanāḥ . ihānubhūyanirdiṣṭamāyurmartyāssvayaṃbhuvā .. 36.30 ..
निमित्तं किञ्चिदासाद्य विमुच्यन्तेकलेवरैः । लभन्ते ते पुनर्देबं यातनीयं स्वकर्मजं ॥ ३६.३१ ॥
nimittaṃ kiñcidāsādya vimucyantekalevaraiḥ . labhante te punardebaṃ yātanīyaṃ svakarmajaṃ .. 36.31 ..
तन्मात्रगुणसंपन्नं सुखदुःखोपभोगदं । पापाः पापक्षयो यावत्पच्यन्ते नरकाग्निषु ॥ ३६.३२ ॥
tanmātraguṇasaṃpannaṃ sukhaduḥkhopabhogadaṃ . pāpāḥ pāpakṣayo yāvatpacyante narakāgniṣu .. 36.32 ..
आमलप्रक्षयाद्वह्नौ ध्मायन्तेधातवो यथा । यावन्तोजन्तवस्स्वर्गभूपातालेषु सर्वतः ॥ ३६.३३ ॥
āmalaprakṣayādvahnau dhmāyantedhātavo yathā . yāvantojantavassvargabhūpātāleṣu sarvataḥ .. 36.33 ..
तावन्त एव घोरेषु सन्त्यधो नरकाग्निषु । अष्टाविंशतिरेवोक्ताः क्षितेर्नरककोटयः ॥ ३६.३४ ॥
tāvanta eva ghoreṣu santyadho narakāgniṣu . aṣṭāviṃśatirevoktāḥ kṣiternarakakoṭayaḥ .. 36.34 ..
सप्तमस्य तलस्याधो घोरेतमसि संस्थिताः । घोराख्या प्रधमाकोटिस्सु घोरतलसंस्थिताः ॥ ३६.३५ ॥
saptamasya talasyādho ghoretamasi saṃsthitāḥ . ghorākhyā pradhamākoṭissu ghoratalasaṃsthitāḥ .. 36.35 ..
अतिघोरा महाघोरा घोरघोरा च पञ्चमी । षष्ठी तरलताराख्या सप्तमी च भयावहा ॥ ३६.३६ ॥
atighorā mahāghorā ghoraghorā ca pañcamī . ṣaṣṭhī taralatārākhyā saptamī ca bhayāvahā .. 36.36 ..
अष्टमी कालरात्री च नवमी च भयोत्कटा । दशमी तदधश्चण्णा महाचण्डा ततोऽप्यधः ॥ ३६.३७ ॥
aṣṭamī kālarātrī ca navamī ca bhayotkaṭā . daśamī tadadhaścaṇṇā mahācaṇḍā tato'pyadhaḥ .. 36.37 ..
चण्डकोलाहलाचान्या प्रचण्डानरकाधिका । पद्मापद्मवती भीमा भीमभीषणनायका ॥ ३६.३८ ॥
caṇḍakolāhalācānyā pracaṇḍānarakādhikā . padmāpadmavatī bhīmā bhīmabhīṣaṇanāyakā .. 36.38 ..
कराला विकराला च वज्रा विंशतिकास्मृता । त्रिकोणा पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ३६.३९ ॥
karālā vikarālā ca vajrā viṃśatikāsmṛtā . trikoṇā pañcakoṇā ca sudīrghā parivartulā .. 36.39 ..
सप्तभ्ॐआष्टभ्ॐआ च दीप्तायामेति चाष्टमी । इत्येता नामतः प्रोक्ता घोरा नरककोटयः ॥ ३६.४० ॥
saptabh_oṃāṣṭabh_oṃā ca dīptāyāmeti cāṣṭamī . ityetā nāmataḥ proktā ghorā narakakoṭayaḥ .. 36.40 ..
अष्टाविंशतिरेवैताः पापानां यातनात्मनां । तासां क्रमेण विज्ञेयाः पञ्च पञ्चैकनायकाः ॥ ३६.४१ ॥
aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmanāṃ . tāsāṃ krameṇa vijñeyāḥ pañca pañcaikanāyakāḥ .. 36.41 ..
प्रत्येकं सर्वकोटीनां नामतस्तान्निबोधत । रौरवः प्रथमस्तेषां रुदन्ते यत्र देहिनः ॥ ३६.४२ ॥
pratyekaṃ sarvakoṭīnāṃ nāmatastānnibodhata . rauravaḥ prathamasteṣāṃ rudante yatra dehinaḥ .. 36.42 ..
महारौरवको यत्र महान्तोऽपि रुदन्तिच । तमश्शीतं यथा चोष्णं पञ्चाद्या नायकास्स्मृताः ॥ ३६.४३ ॥
mahārauravako yatra mahānto'pi rudantica . tamaśśītaṃ yathā coṣṇaṃ pañcādyā nāyakāssmṛtāḥ .. 36.43 ..
सुघोरस्सुतपस्तीक्ष्णः पद्मस्सं जीवनश्शतः । महामांसो विलोमश्च सुभीमश्च कटङ्कटः ॥ ३६.४४ ॥
sughorassutapastīkṣṇaḥ padmassaṃ jīvanaśśataḥ . mahāmāṃso vilomaśca subhīmaśca kaṭaṅkaṭaḥ .. 36.44 ..
तीव्रवेषी करालश्च विकरालः प्रकम्पनः । महापद्मस्सुपद्मश्च कालवक्रश्च गर्जनः ॥ ३६.४५ ॥
tīvraveṣī karālaśca vikarālaḥ prakampanaḥ . mahāpadmassupadmaśca kālavakraśca garjanaḥ .. 36.45 ..
सूचीमुखस्सुनेमिश्च खादकस्सुप्रपीडनः । कुंभीपाकस्सुपाकश्च चक्रकश्चातिदारुणः ॥ ३६.४६ ॥
sūcīmukhassunemiśca khādakassuprapīḍanaḥ . kuṃbhīpākassupākaśca cakrakaścātidāruṇaḥ .. 36.46 ..
अङ्गारराशिफवनमसृक्पूयचहद्रस्तथा । तीक्ष्णायस्तुण्डशकुनिर्महासंवर्तकस्तता ॥ ३६.४७ ॥
aṅgārarāśiphavanamasṛkpūyacahadrastathā . tīkṣṇāyastuṇḍaśakunirmahāsaṃvartakastatā .. 36.47 ..
सुतप्ताब्जस्सुलोपश्च पूतिमांसो द्रवत्रपु । उच्छ्वासश्च निरुच्छ्वासो सुदीर्घः कूटशाल्मली ॥ ३६.४८ ॥
sutaptābjassulopaśca pūtimāṃso dravatrapu . ucchvāsaśca nirucchvāso sudīrghaḥ kūṭaśālmalī .. 36.48 ..
दरीष्टस्सुमहानादप्रभावस्सुप्रभावनः । ऋक्षमेषवृकाश्शल्य सिंहव्याघ्रगजाननाः ॥ ३६.४९ ॥
darīṣṭassumahānādaprabhāvassuprabhāvanaḥ . ṛkṣameṣavṛkāśśalya siṃhavyāghragajānanāḥ .. 36.49 ..
श्वसूकराजमहिषखरमेषहयाननाः । ग्रहकुंभीरनक्रास्याः सर्पकूर्मास्यवायसाः ॥ ३६.५० ॥
śvasūkarājamahiṣakharameṣahayānanāḥ . grahakuṃbhīranakrāsyāḥ sarpakūrmāsyavāyasāḥ .. 36.50 ..
कृध्रोलूकजलूकाश्च शार्दूलकपिकर्कटाः । गन्धकः पूतिवक्रश्च रक्ताक्षः पूतिमृत्तिकः ॥ ३६.५१ ॥
kṛdhrolūkajalūkāśca śārdūlakapikarkaṭāḥ . gandhakaḥ pūtivakraśca raktākṣaḥ pūtimṛttikaḥ .. 36.51 ..
कणधूमस्तुषाग्निश्च कृमीणां निचयस्तथा । अमेध्यश्चाप्रतीकारो रुधिरान्नस्यभोजनं ॥ ३६.५२ ॥
kaṇadhūmastuṣāgniśca kṛmīṇāṃ nicayastathā . amedhyaścāpratīkāro rudhirānnasyabhojanaṃ .. 36.52 ..
लालाभक्षमभक्षश्च सर्वभक्षश्च दारुणः । जङ्कटस्सुविलासश्च विकटः कटपूतनः ॥ ३६.५३ ॥
lālābhakṣamabhakṣaśca sarvabhakṣaśca dāruṇaḥ . jaṅkaṭassuvilāsaśca vikaṭaḥ kaṭapūtanaḥ .. 36.53 ..
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी । सुतप्तलोहशयनमेकपादप्रतप्तकं ॥ ३६.५४ ॥
ambarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī . sutaptalohaśayanamekapādaprataptakaṃ .. 36.54 ..
असितालवनं घोरमस्थिभङ्गप्रपीडनं । तिलातसीक्षुयान्त्राणिकूटपाशप्रमर्दनं ॥ ३६.५५ ॥
asitālavanaṃ ghoramasthibhaṅgaprapīḍanaṃ . tilātasīkṣuyāntrāṇikūṭapāśapramardanaṃ .. 36.55 ..
महाछुल्ली सुछुल्ली च तप्तलोहमयी शिला । पर्वतक्षुरधाराख्यं तथा च मलपर्वतः ॥ ३६.५६ ॥
mahāchullī suchullī ca taptalohamayī śilā . parvatakṣuradhārākhyaṃ tathā ca malaparvataḥ .. 36.56 ..
मूत्रविष्ठांधकूपेषु क्षारकूपेषु पातनं । मुसलोलूखलं यन्त्रं शिलाशकललाङ्गलं ॥ ३६.५७ ॥
mūtraviṣṭhāṃdhakūpeṣu kṣārakūpeṣu pātanaṃ . musalolūkhalaṃ yantraṃ śilāśakalalāṅgalaṃ .. 36.57 ..
तालपत्रासिगहनं महामशकमण्डपं । सम्मोहनोऽस्थिभङ्गश्च तपुःशूलमयोगुडः(?) ॥ ३६.५८ ॥
tālapatrāsigahanaṃ mahāmaśakamaṇḍapaṃ . sammohano'sthibhaṅgaśca tapuḥśūlamayoguḍaḥ(?) .. 36.58 ..
बहुदुःखं महादुःखं कश्मलं शमलं मलं । हालाहलो निरूपश्च सुरूपश्च तमोऽनुगः ॥ ३६.५९ ॥
bahuduḥkhaṃ mahāduḥkhaṃ kaśmalaṃ śamalaṃ malaṃ . hālāhalo nirūpaśca surūpaśca tamo'nugaḥ .. 36.59 ..
एकपादस्त्रिपादश्च तीव्रवीचिश्च रन्तिमः । अष्टाविंशतिरेवैतैः क्रमशः पञ्चकाः स्मृताः ॥ ३६.६० ॥
ekapādastripādaśca tīvravīciśca rantimaḥ . aṣṭāviṃśatirevaitaiḥ kramaśaḥ pañcakāḥ smṛtāḥ .. 36.60 ..
कोटीनामानु पूर्व्येण पञ्च पञ्चैव नायकाः । रौरवाद्यं च वीर्यं च शतमेकन्तु सर्वतः ॥ ३६.६१ ॥
koṭīnāmānu pūrvyeṇa pañca pañcaiva nāyakāḥ . rauravādyaṃ ca vīryaṃ ca śatamekantu sarvataḥ .. 36.61 ..
चत्वारिंशत्समधिकं महानरकमण्डलं । तेषु पापाः प्रपच्यन्तेनराः कर्मानुरूपतः ॥ ३६.६२ ॥
catvāriṃśatsamadhikaṃ mahānarakamaṇḍalaṃ . teṣu pāpāḥ prapacyantenarāḥ karmānurūpataḥ .. 36.62 ..
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशं । सुसूढं हस्तयोर्बद्ध्वातप्तशृङ्खलया नराः ॥ ३६.६३ ॥
yātanābhirvicitrābhirākarmaprakṣayādbhṛśaṃ . susūḍhaṃ hastayorbaddhvātaptaśṛṅkhalayā narāḥ .. 36.63 ..
महावृङ्गरशाखासुगम्यन्तेयमकिङ्करैः । डोलिताश्चातिवेगेन निस्संज्ञा यान्तियोजनं ॥ ३६.६४ ॥
mahāvṛṅgaraśākhāsugamyanteyamakiṅkaraiḥ . ḍolitāścātivegena nissaṃjñā yāntiyojanaṃ .. 36.64 ..
अन्तरिक्षस्थितानां च लोहभारशतं ततः । पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ॥ ३६.६५ ॥
antarikṣasthitānāṃ ca lohabhāraśataṃ tataḥ . pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ .. 36.65 ..
तेन भारेण महता भृशमाताडितानराः । आख्यान्तस्स्वानि कर्माणि तूष्णीं तिष्टन्ति विह्वलाः ॥ ३६.६६ ॥
tena bhāreṇa mahatā bhṛśamātāḍitānarāḥ . ākhyāntassvāni karmāṇi tūṣṇīṃ tiṣṭanti vihvalāḥ .. 36.66 ..
ततस्तप्तैरग्नि वर्णैर्लोहदण्डैस्सकण्टकैः । हन्यन्ते किङ्करैर्घोरैस्समर्तात्पापकारिणः ॥ ३६.६७ ॥
tatastaptairagni varṇairlohadaṇḍaissakaṇṭakaiḥ . hanyante kiṅkarairghoraissamartātpāpakāriṇaḥ .. 36.67 ..
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः । समन्ततः प्रलिप्यन्ते ताम्रेण च पुनः पुनः ॥ ३६.६८ ॥
tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ . samantataḥ pralipyante tāmreṇa ca punaḥ punaḥ .. 36.68 ..
द्रुतेनात्यन्तलिप्तेन क्षताङ्गा जर्जरीकृताः । पुनर्विधाय चाङ्गानि शिरःप्रभृति चक्रमाथ् ॥ ३६.६९ ॥
drutenātyantaliptena kṣatāṅgā jarjarīkṛtāḥ . punarvidhāya cāṅgāni śiraḥprabhṛti cakramāth .. 36.69 ..
वार्ताकवत्प्रपच्यन्ते तप्ततैले कटाहके । निष्ठापूर्णे तथाकूपे कृमीणांनिचये पुनः ॥ ३६.७० ॥
vārtākavatprapacyante taptataile kaṭāhake . niṣṭhāpūrṇe tathākūpe kṛmīṇāṃnicaye punaḥ .. 36.70 ..
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति? ते पुनः । भक्ष्यन्ते कृमिभिस्तीव्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.७१ ॥
medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyanti? te punaḥ . bhakṣyante kṛmibhistīvrairlohatuṇḍaiśca vāyasaiḥ .. 36.71 ..
श्वभिर्दंशैर्वृकैरुग्रैर्व्याघ्रैश्च विकृतैर्नरैः । पच्यन्ते चरुवद्वापि प्रदीप्ताङ्गारराशिषु ॥ ३६.७२ ॥
śvabhirdaṃśairvṛkairugrairvyāghraiśca vikṛtairnaraiḥ . pacyante caruvadvāpi pradīptāṅgārarāśiṣu .. 36.72 ..
प्रोतास्तीक्ष्णेषु शूलेषु नराः पापेन कर्मणा । शैलपीठैरथाक्रम्य घोरैः कर्मभिरात्मजैः ॥ ३६.७३ ॥
protāstīkṣṇeṣu śūleṣu narāḥ pāpena karmaṇā . śailapīṭhairathākramya ghoraiḥ karmabhirātmajaiḥ .. 36.73 ..
तिलवत्संप्रपीड्यन्ते चक्राख्ये नरके नराः । पच्यन्ते चातितप्तेषु लोहभाण्डेष्वनेकथा ॥ ३६.७४ ॥
tilavatsaṃprapīḍyante cakrākhye narake narāḥ . pacyante cātitapteṣu lohabhāṇḍeṣvanekathā .. 36.74 ..
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः । सर्देन्द्रियाणि संबद्ध्य क्रमात्पापेन यातनाः ॥ ३६.७५ ॥
tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ . sardendriyāṇi saṃbaddhya kramātpāpena yātanāḥ .. 36.75 ..
भवन्ति घोराः प्रत्येकं शरीरे तत्कृतेन च । ये श्रुण्वन्ति हरेर्निन्दां तेषां कर्णः प्रपूर्यते ॥ ३६.७६ ॥
bhavanti ghorāḥ pratyekaṃ śarīre tatkṛtena ca . ye śruṇvanti harernindāṃ teṣāṃ karṇaḥ prapūryate .. 36.76 ..
अग्निनर्णैरयःकीलैस्तप्तैस्ताम्रादिकद्रुतैः । त्रपुसीसारकूरकूटाद्यैःक्षारेण जतुना पुनः ॥ ३६.७७ ॥
agninarṇairayaḥkīlaistaptaistāmrādikadrutaiḥ . trapusīsārakūrakūṭādyaiḥkṣāreṇa jatunā punaḥ .. 36.77 ..
सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः । क्रमादापूर्यते कर्णौ? नरकेषु च यातनाः ॥ ३६.७८ ॥
sutaptatīkṣṇatailena vajralepena cāntataḥ . kramādāpūryate karṇau? narakeṣu ca yātanāḥ .. 36.78 ..
अनुक्रमेण सर्वेषु भ्रमन्त्येतेषु यातनाः । ये तु देव गृहं गत्वा तत्र सेवार्थमागताः ॥ ३६.७९ ॥
anukrameṇa sarveṣu bhramantyeteṣu yātanāḥ . ye tu deva gṛhaṃ gatvā tatra sevārthamāgatāḥ .. 36.79 ..
अथ वान्यत्र तद्रूपा मदमोहपराजिताः । परदारांश्च गच्छन्ति लुब्धास्स्निग्धेन चक्षुषा ॥ ३६.८० ॥
atha vānyatra tadrūpā madamohaparājitāḥ . paradārāṃśca gacchanti lubdhāssnigdhena cakṣuṣā .. 36.80 ..
श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि । सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ॥ ३५.३८० ॥
śrāvayedyo budho bhaktyā tathā yaśśruṇuyādapi . sarvapāpavinirmuktā vaiṣṇavaṃ padamāpnuyuḥ .. 35.380 ..
अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः । सकामानां फलं काम्यमकामानां परं पदं ॥ ३५.३८१ ॥
athotsavādikaraṇe phalaṃ vakṣye madhudviṣaḥ . sakāmānāṃ phalaṃ kāmyamakāmānāṃ paraṃ padaṃ .. 35.381 ..
उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः । उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ॥ ३५.३८२ ॥
utsavaṃ tu pravakṣyanti devadevārcanāṃ surāḥ . utsāha utsavaḥ prokto manuṣyāṇāṃ viśeṣetaḥ .. 35.382 ..
उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः । तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ॥ ३५.३८३ ॥
udityutkṛṣṭaśabdo'yaṃ savo yajña udāhṛtaḥ . tasmāduttamayajñatvādutsavaḥ paribhāṣyate .. 35.383 ..
वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः । उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकं ॥ ३५.३८४ ॥
vājimedhāstayāgānāṃ tasmāddevotsavo varaḥ . utsavaṃ devadevasya yaḥ kuryātsvakulaṃ svakaṃ .. 35.384 ..
उत्तारयन्स्वयं विष्णोस्स याति परमं पदं । सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ॥ ३५.३८५ ॥
uttārayansvayaṃ viṣṇossa yāti paramaṃ padaṃ . savāduttāraṇaṃ yasmādutsavaḥ parikīrtyate .. 35.385 ..
स यज्ञो वो नरान्युष्मानुत्तारयति निश्चयं । इति वेदा वदन्तीति स उत्सव उदीर्य ते ॥ ३५.३८६ ॥
sa yajño vo narānyuṣmānuttārayati niścayaṃ . iti vedā vadantīti sa utsava udīrya te .. 35.386 ..
वाजीमेधसहस्रेण यजतो यत्फलं भवेथ् । यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतं ॥ ३५.३८७ ॥
vājīmedhasahasreṇa yajato yatphalaṃ bhaveth . yaścotsavena yajate tayostulyaṃ phalaṃ nmṛtaṃ .. 35.387 ..
यागानामपि सर्वेषां फलमुत्सवकर्मणा । देवस्याश्नुवते सर्वं ये यजन्ते संशयः ॥ ३५.३८८ ॥
yāgānāmapi sarveṣāṃ phalamutsavakarmaṇā . devasyāśnuvate sarvaṃ ye yajante saṃśayaḥ .. 35.388 ..
सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते । उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ॥ ३५.३८९ ॥
savānutkramate yasmāttasmādutsava uchyate . upakurvanti ye martyā devasyotsavakarmaṇi .. 35.389 ..
कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु । ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ॥ ३५.३९० ॥
karmāṇā manasā vācā te'pi yānti phalaṃ bahu . grāme vā ragare va'pi pattane vā mahotsavaḥ .. 35.390 ..
यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ॥ ३५.३९१ ॥
yatra pravartate viṣṇossaṃpadassanti tatra vai . yatra deśe janapade rāṣṭre vā pyutsavo hareḥ .. 35.391 ..
इतस्ततश्च धावन्ति दह्यमानास्तदर्चिषा । पृष्ठेनानीय जङ्घे द्वे विन्यस्ते स्रन्धयोजिते ॥ ३६.९३ ॥
itastataśca dhāvanti dahyamānāstadarciṣā . pṛṣṭhenānīya jaṅghe dve vinyaste srandhayojite .. 36.93 ..
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः । बद्ध्वा परस्परं सर्वं सुदृढं पापरज्जुभिः ॥ ३६.९४ ॥
tayormadhyena cākṛṣya bāhupṛṣṭhena gāḍhataḥ . baddhvā parasparaṃ sarvaṃ sudṛḍhaṃ pāparajjubhiḥ .. 36.94 ..
पिण्डबद्धं दशन्त्येनं भ्रमारास्तीक्ष्णलोहजाः । मानिनां क्रोधिनां चैव तस्कराणां च दारुणाः ॥ ३६.९५ ॥
piṇḍabaddhaṃ daśantyenaṃ bhramārāstīkṣṇalohajāḥ . mānināṃ krodhināṃ caiva taskarāṇāṃ ca dāruṇāḥ .. 36.95 ..
पिण्डबद्धास्स्मृता याम्यमहाज्वाले च यातनाः । रिज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ॥ ३६.९६ ॥
piṇḍabaddhāssmṛtā yāmyamahājvāle ca yātanāḥ . rijjubhirveṣṭitāṃgāśca praliptāḥ kardamena ca .. 36.96 ..
करीषवत्प्रपच्यन्ते म्रियन्ते तेन तेतथा । सुतीक्ष्णक्षारतोयेन कर्मशानु शिलासु च ॥ ३६.९७ ॥
karīṣavatprapacyante mriyante tena tetathā . sutīkṣṇakṣāratoyena karmaśānu śilāsu ca .. 36.97 ..
अपापसंक्षयात्पापा घृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैस्सन्ततं कृमिभिर्नराः ॥ ३६.९८ ॥
apāpasaṃkṣayātpāpā ghṛṣyante candanaṃ yathā . śarīrābhyantaragataissantataṃ kṛmibhirnarāḥ .. 36.98 ..
भक्ष्यन्ते तीव्रवदनैरादेह प्रक्षयाद्भृशं । कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ॥ ३६.९९ ॥
bhakṣyante tīvravadanairādeha prakṣayādbhṛśaṃ . kṛmīṇāṃ nicaye kṣiptāḥ pūtimāṃsasya rāśiṣu .. 36.99 ..
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यन्तरार्दिताः । सुतप्तवज्रलेपेन शरीरमुपलिप्यते ॥ ३६.१०० ॥
tiṣṭhantyudvignahṛdayāḥ parvatābhyantarārditāḥ . sutaptavajralepena śarīramupalipyate .. 36.100 ..
जिघ्रन्ति मूढमनसो शिरसा धारयन्ति च । आरोप्यते शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः ॥ ३६.१०३ ॥
jighranti mūḍhamanaso śirasā dhārayanti ca . āropyate śirasteṣāṃ sutaptairlohaśaṅkubhiḥ .. 36.103 ..
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमाथ् । शरीरे च महाघोराश्चित्रा नरकयातनाः ॥ ३६.१०४ ॥
tataḥ kṣāreṇa dīptena tailatāmrādibhiḥ kramāth . śarīre ca mahāghorāścitrā narakayātanāḥ .. 36.104 ..
बहुधोत्पाट्यते जीह्वा येऽसत्य प्रियवादिनः । संदंशेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ३६.१०५ ॥
bahudhotpāṭyate jīhvā ye'satya priyavādinaḥ . saṃdaṃśena sutaptena prapīḍyorasi pādataḥ .. 36.105 ..
मिध्यागमप्रवक्तुश्च जीह्वा चास्य विनिर्गता । क्रोशार्धजीह्वाविस्तीर्णैर्हलैस्तीक्ष्णैः प्रपाट्यते ॥ ३६.१०६ ॥
midhyāgamapravaktuśca jīhvā cāsya vinirgatā . krośārdhajīhvāvistīrṇairhalaistīkṣṇaiḥ prapāṭyate .. 36.106 ..
निर्भर्त्सयन्तिये क्रूरा मातरं पितरं गुरुं । तेषां वज्रजलूकाभिर्मुखमादश्यते यतः ॥ ३६.१०७ ॥
nirbhartsayantiye krūrā mātaraṃ pitaraṃ guruṃ . teṣāṃ vajrajalūkābhirmukhamādaśyate yataḥ .. 36.107 ..
ततःक्षारेण ताम्रेण त्रपुणा सिच्यते पुनः । द्रुतैरापूर्यतेऽत्यर्थं तप्तलोहैश्च तन्मुखं ॥ ३६.१०८ ॥
tataḥkṣāreṇa tāmreṇa trapuṇā sicyate punaḥ . drutairāpūryate'tyarthaṃ taptalohaiśca tanmukhaṃ .. 36.108 ..
इतस्ततः पुनर्धावन्बद्ध्यते यमकिङ्करैः । ये निन्दन्ति महात्मानमाचार्यं धर्मदेशिकं ॥ ३६.१०९ ॥
itastataḥ punardhāvanbaddhyate yamakiṅkaraiḥ . ye nindanti mahātmānamācāryaṃ dharmadeśikaṃ .. 36.109 ..
विष्णुभक्तांश्च सम्मूढास्तद्धर्मं चैह शाश्वतं । तेषामुरसि कन्थे च जिह्मायां दन्तसन्धिषु ॥ ३६.११० ॥
viṣṇubhaktāṃśca sammūḍhāstaddharmaṃ caiha śāśvataṃ . teṣāmurasi kanthe ca jihmāyāṃ dantasandhiṣu .. 36.110 ..
तालुन्योष्ठे च नासायां मूर्ध्नि सर्वांगसन्धिषु । अग्निवर्णास्सुतप्ताश्च त्रिशिखा लोहशङ्कवः ॥ ३६.१११ ॥
tālunyoṣṭhe ca nāsāyāṃ mūrdhni sarvāṃgasandhiṣu . agnivarṇāssutaptāśca triśikhā lohaśaṅkavaḥ .. 36.111 ..
आरोप्यन्ते सुबहुशः स्थानेष्वेतेषु मुद्गरैः । ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ॥ ३६.११२ ॥
āropyante subahuśaḥ sthāneṣveteṣu mudgaraiḥ . tataḥ kṣāreṇa taptena tāmreṇa trapuṇā punaḥ .. 36.112 ..
तप्तलोहादिभिस्सर्वैरापूर्यन्ते समन्ततः । यातनाश्च महाचित्राश्शरीरस्यापि सर्वतः ॥ ३६.११३ ॥
taptalohādibhissarvairāpūryante samantataḥ . yātanāśca mahācitrāśśarīrasyāpi sarvataḥ .. 36.113 ..
निश्शेषनरकेष्वेवं भ्रमन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशन्ति च ॥ ३६.११४ ॥
niśśeṣanarakeṣvevaṃ bhramanti kramaśaḥ punaḥ . ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśanti ca .. 36.114 ..
देवोपकरणांगं च ज्ञानं च लिखितं क्वचिथ् । हस्तपादाघनैस्ते षामापूर्यन्ते समन्ततः ॥ ३६.११५ ॥
devopakaraṇāṃgaṃ ca jñānaṃ ca likhitaṃ kvacith . hastapādāghanaiste ṣāmāpūryante samantataḥ .. 36.115 ..
क्षारताम्रादिभिर्धीप्तैर्दह्यन्ते क्रमशः पुनः । नरकेषु च सर्वेषु विचित्रा देहयातनाः ॥ ३६.११६ ॥
kṣāratāmrādibhirdhīptairdahyante kramaśaḥ punaḥ . narakeṣu ca sarveṣu vicitrā dehayātanāḥ .. 36.116 ..
भवन्ति बहुशः कष्टाः पाणिपादसमुद्भवाः । प्रदत्तां देवदेवस्य तन्नाम्ना पूजकस्य वा ॥ ३६.११७ ॥
bhavanti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ . pradattāṃ devadevasya tannāmnā pūjakasya vā .. 36.117 ..
पदार्धिनामथान्येषां हठाद्वृत्तिं हरन्तिये । ते वै नरककूपेषु पच्यमानास्स्वकर्मभिः ॥ ३६.११८ ॥
padārdhināmathānyeṣāṃ haṭhādvṛttiṃ harantiye . te vai narakakūpeṣu pacyamānāssvakarmabhiḥ .. 36.118 ..
व्रजन्तियातना भूयो नातियन्तियामाङ्गणं । ये देवायतनारामवापीकूपमठाङ्गणं ॥ ३६.११९ ॥
vrajantiyātanā bhūyo nātiyantiyāmāṅgaṇaṃ . ye devāyatanārāmavāpīkūpamaṭhāṅgaṇaṃ .. 36.119 ..
उपद्रवन्ति पापिष्ठा नृपास्तत्र वसन्ति च । व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनं ॥ ३६.१२० ॥
upadravanti pāpiṣṭhā nṛpāstatra vasanti ca . vyāyāmodvartanābhyaṅgasnānapānānnabhojanaṃ .. 36.120 ..
क्रीडनं मैथुनं द्यूतमशौचाद्याचरन्ति च । ते नधैर्विविधैर्घोरैरिक्षु यन्त्रादिपीडनैः ॥ ३६.१२१ ॥
krīḍanaṃ maithunaṃ dyūtamaśaucādyācaranti ca . te nadhairvividhairghorairikṣu yantrādipīḍanaiḥ .. 36.121 ..
निरयाग्निषु पच्यन्ते यावदाचन्द्रतारकं । देवायतनपर्यन्ते देवारामे च कुत्रचिथ् ॥ ३६.१२२ ॥
nirayāgniṣu pacyante yāvadācandratārakaṃ . devāyatanaparyante devārāme ca kutracith .. 36.122 ..
समुत्सृजन्ति ये मूढाःपुरीषं मूत्रमेव वा । तेषां शिश्नं सवृषणं हन्यते लोहमुद्गरैः, ॥ ३६.१२३ ॥
samutsṛjanti ye mūḍhāḥpurīṣaṃ mūtrameva vā . teṣāṃ śiśnaṃ savṛṣaṇaṃ hanyate lohamudgaraiḥ, .. 36.123 ..
सूचीभीर्नेत्रपर्यन्तैरग्निवर्णैस्सकण्टकैः । अरोप्यन्ते गुदे तेषां यावन्मूर्ध्नि विनिर्गतैः ॥ ३६.१२४ ॥
sūcībhīrnetraparyantairagnivarṇaissakaṇṭakaiḥ . aropyante gude teṣāṃ yāvanmūrdhni vinirgataiḥ .. 36.124 ..
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्यते गाढं गुदं शिश्नं च देहिनां ॥ ३६.१२५ ॥
tataḥ kṣāreṇa mahatā tāmreṇa trapuṇā punaḥ . drutenāpūryate gāḍhaṃ gudaṃ śiśnaṃ ca dehināṃ .. 36.125 ..
मनस्सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्तनं । तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितं ॥ ३६.१२६ ॥
manassarvendriyāṇāṃ ca yasmāduktaṃ pravartanaṃ . tasmādindriyaduḥkhena jāyate tatsuduḥkhitaṃ .. 36.126 ..
अन्न पानमदत्तं यैर्मूढैर्नाप्यनुमोदितं । धने सत्यपि ये दानं न च यच्छन्ति तृष्णया ॥ ३६.१२७ ॥
anna pānamadattaṃ yairmūḍhairnāpyanumoditaṃ . dhane satyapi ye dānaṃ na ca yacchanti tṛṣṇayā .. 36.127 ..
अतिथिं चावमन्यन्ते कालप्राप्तं गृहाश्रमे । तेजोहीना रणे बद्धा हस्तपादानधारिताः ॥ ३६.१२८ ॥
atithiṃ cāvamanyante kālaprāptaṃ gṛhāśrame . tejohīnā raṇe baddhā hastapādānadhāritāḥ .. 36.128 ..
विस्तारितांगाश्शुष्यन्ति तिष्ठन्त्यब्दशतं नराः । हस्तपादललाटेषु कीलिता लोहशङ्कुभिः ॥ ३६.१२९ ॥
vistāritāṃgāśśuṣyanti tiṣṭhantyabdaśataṃ narāḥ . hastapādalalāṭeṣu kīlitā lohaśaṅkubhiḥ .. 36.129 ..
नित्यं च विकृतं वक्रं कीलकद्वयघाटितं । कृमिभिःप्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ॥ ३६.१३० ॥
nityaṃ ca vikṛtaṃ vakraṃ kīlakadvayaghāṭitaṃ . kṛmibhiḥprāṇibhiścograirlohatuṇḍaiśca vāyasaiḥ .. 36.130 ..
उपद्रवैर्बहुविधैर्मुखमन्तः प्रपीड्यते । जिह्वा ततः प्रभिन्ना च गाढं शृङ्खलया पुनः ॥ ३६.१३१ ॥
upadravairbahuvidhairmukhamantaḥ prapīḍyate . jihvā tataḥ prabhinnā ca gāḍhaṃ śṛṅkhalayā punaḥ .. 36.131 ..
तिष्टन्ति लंबमानाश्च लोहाकारास्सुवर्तुलाः । ततः स्वमांसमुत्कृष्य तिलमात्रप्रमाणतः ॥ ३६.१३२ ॥
tiṣṭanti laṃbamānāśca lohākārāssuvartulāḥ . tataḥ svamāṃsamutkṛṣya tilamātrapramāṇataḥ .. 36.132 ..
खादितुं दीयते तेषां सूच्यग्रेण च शोणितं । यथा निर्मांसतां प्राप्ताः कालेन बहुधा पुनः ॥ ३६.१३३ ॥
khādituṃ dīyate teṣāṃ sūcyagreṇa ca śoṇitaṃ . yathā nirmāṃsatāṃ prāptāḥ kālena bahudhā punaḥ .. 36.133 ..
ततः क्षारेण दीप्तेन तच्छरीरं प्रलिप्यते । भिद्यन्ते वर्ष धाराभिश्शुष्यन्ते वायुना पुनः ॥ ३६.१३४ ॥
tataḥ kṣāreṇa dīptena taccharīraṃ pralipyate . bhidyante varṣa dhārābhiśśuṣyante vāyunā punaḥ .. 36.134 ..
पुनस्तैलेन सिच्यन्ते सुतप्तेन समन्ततः । इति चित्रविधैर्घोरैर्मध्यमानास्स्वकर्मजैः ॥ ३६.१३५ ॥
punastailena sicyante sutaptena samantataḥ . iti citravidhairghorairmadhyamānāssvakarmajaiḥ .. 36.135 ..
म्रियन्ते नैव पापिष्ठा यावत्पापस्य संक्षयः । तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ॥ ३६.१३६ ॥
mriyante naiva pāpiṣṭhā yāvatpāpasya saṃkṣayaḥ . tasmātpāpaṃ na kurvīta cañcale jīvite sati .. 36.136 ..
एवं क्लिष्टा विशिष्टाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ ३६.१३७ ॥
evaṃ kliṣṭā viśiṣṭāśca sāvaśeṣeṇa karmaṇā . tataḥ kṣitiṃ samāsādya jāyante dehinaḥ punaḥ .. 36.137 ..
स्थावरा विविधाः क्रूरास्तृण गुल्मादिभेदितः । तत्रानुभूय दुःखानि जायन्ते कीटयोनिषु, ॥ ३६.१३८ ॥
sthāvarā vividhāḥ krūrāstṛṇa gulmādibheditaḥ . tatrānubhūya duḥkhāni jāyante kīṭayoniṣu, .. 36.138 ..
निष्क्रान्ताः कीटयोनिभ्योजायन्ते पक्षिणः क्रमाथ् । संक्लिष्टाः पक्षिभेवेन भवन्ति मृगजातिषु ॥ ३६.१३९ ॥
niṣkrāntāḥ kīṭayonibhyojāyante pakṣiṇaḥ kramāth . saṃkliṣṭāḥ pakṣibhevena bhavanti mṛgajātiṣu .. 36.139 ..
मार्गं दुःघमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्गोयोनिमासाद्य जायन्ते मानुषे पुनः ॥ ३६.१४० ॥
mārgaṃ duḥghamatikramya jāyante paśuyoniṣu . kramādgoyonimāsādya jāyante mānuṣe punaḥ .. 36.140 ..
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवाथ् । ततो मनुष्यतां प्राप्य तत्तत्पापानुसारतः ॥ ३६.१४१ ॥
vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāth . tato manuṣyatāṃ prāpya tattatpāpānusārataḥ .. 36.141 ..
संयुतां पापचिह्नेश्च वर्तन्ते प्राणिनस्ततः । देवाभिगमनम्स्नातो धृतोर्ध्वपुण्ड्रश्च प्रयतश्शान्तमानसः ॥ ३६.१४२ ॥
saṃyutāṃ pāpacihneśca vartante prāṇinastataḥ . devābhigamanamsnāto dhṛtordhvapuṇḍraśca prayataśśāntamānasaḥ .. 36.142 ..
अव्यग्रश्चान्यकार्येषु गृहीत्वा शक्तितस्स्वयं । फलादीन्युपहाराणि गन्धान्सुमनसस्तथा ॥ ३६.१४३ ॥
avyagraścānyakāryeṣu gṛhītvā śaktitassvayaṃ . phalādīnyupahārāṇi gandhānsumanasastathā .. 36.143 ..
हिरण्यं हरिमुद्दिश्य येन सर्वाःकृता इमे । उपहारादिभिस्सम्यगभिसच्छेज्जगद्गुरुं ॥ ३६.१४४ ॥
hiraṇyaṃ harimuddiśya yena sarvāḥkṛtā ime . upahārādibhissamyagabhisacchejjagadguruṃ .. 36.144 ..
पत्रैः पुष्पैःफलैर्वापि यथाशक्ति समर्पितैः । अयत्नसुलभेनापि तोयेनापि स तुष्यति ॥ ३६.१४५ ॥
patraiḥ puṣpaiḥphalairvāpi yathāśakti samarpitaiḥ . ayatnasulabhenāpi toyenāpi sa tuṣyati .. 36.145 ..
पादचार्येव गच्छेत्तु देवालयमतन्द्रितः । अशक्तोऽप्यथ वाशक्त आढ्यो वा दुर्विधोऽध वा ॥ ३६.१४६ ॥
pādacāryeva gacchettu devālayamatandritaḥ . aśakto'pyatha vāśakta āḍhyo vā durvidho'dha vā .. 36.146 ..
आधिराज्ये जगद्धातुरधिकारी समस्स्मृतः । न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ ३६.१४७ ॥
ādhirājye jagaddhāturadhikārī samassmṛtaḥ . na hi saṃharate jyotsnāṃ candraścaṇḍālaveśmani .. 36.147 ..
न वा सौधेषु सम्राजां सुधाधाराः प्रवर्षति । भोगायतनमे तेषा मेकाकारं कलेपरं ॥ ३६.१४८ ॥
na vā saudheṣu samrājāṃ sudhādhārāḥ pravarṣati . bhogāyataname teṣā mekākāraṃ kaleparaṃ .. 36.148 ..
अनुगृह्णाति दाता तस्य नोच्चानचो विधिः विष्णुपारम्यं । देवतेह परञ्ज्योतिरेक एव परः पुमान् ॥ ३६.१४९ ॥
anugṛhṇāti dātā tasya noccānaco vidhiḥ viṣṇupāramyaṃ . devateha parañjyotireka eva paraḥ pumān .. 36.149 ..
स एव बहुधा लोके मायया भिद्यते स्वया । विष्ण्वाख्यस्स स्वयं मायं प्रकृतिं व्यज्य स द्विधा ॥ ३६.१५० ॥
sa eva bahudhā loke māyayā bhidyate svayā . viṣṇvākhyassa svayaṃ māyaṃ prakṛtiṃ vyajya sa dvidhā .. 36.150 ..
स्थितस्त्रिधा च सत्त्वादिगुणभेदात्प्रतीयते । विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्यन्तकृत्स्मृतः ॥ ३६.१५१ ॥
sthitastridhā ca sattvādiguṇabhedātpratīyate . viṣṇubrahmaśivākhyo'sau sthityutpatyantakṛtsmṛtaḥ .. 36.151 ..
विष्ण्वाद्या मूर्तयस्तस्य धर्मज्ञानादिभेदतः । चतस्र एव विज्ञेया वेदवर्ण युगाश्रयाः ॥ ३६.१५२ ॥
viṣṇvādyā mūrtayastasya dharmajñānādibhedataḥ . catasra eva vijñeyā vedavarṇa yugāśrayāḥ .. 36.152 ..
विष्णुश्च पुरुषस्सत्यो ह्यच्युतश्छानिरुद्धकः । पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः ॥ ३६.२५३ ॥
viṣṇuśca puruṣassatyo hyacyutaśchāniruddhakaḥ . pañcadhopaniṣadbhedānmahābhūtatvamāgataḥ .. 36.253 ..
मनश्श्रोत्रादिभिष्षड्भिरङ्गैश्च हृदयादिभिः । षडक्षरात्मको नित्यमृषिभिश्चैष भिद्यते ॥ ३६.१५४ ॥
manaśśrotrādibhiṣṣaḍbhiraṅgaiśca hṛdayādibhiḥ . ṣaḍakṣarātmako nityamṛṣibhiścaiṣa bhidyate .. 36.154 ..
सप्तव्याहृतिभिर्लो कैश्छन्दोभिः क्रतुभिस्तथा । सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः ॥ ३६.१५५ ॥
saptavyāhṛtibhirlo kaiśchandobhiḥ kratubhistathā . saptadhā bhidyamāno'sau vijñātavyo vicakṣaṇaiḥ .. 36.155 ..
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च । अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते ॥ ३६.१५६ ॥
aṣṭaprakṛtibhiścāsāvaṣṭamūrtibhireva ca . aṣṭākṣaramayo nityamaṣṭadhā caiṣa bhidyate .. 36.156 ..
नारायणो नृसिंहश्च वराहो वामनस्तथा । रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्न वधा स्थितिः ॥ ३६.१५७ ॥
nārāyaṇo nṛsiṃhaśca varāho vāmanastathā . rāmabrahmendrasūryāśca candrastairna vadhā sthitiḥ .. 36.157 ..
इन्द्रोऽग्निश्ट यमश्चैव निरृतिर्वरुणस्तथा । वायुस्सोमस्तथेशानो ब्रह्मानन्तश्चते दश ॥ ३६.१५८ ॥
indro'gniśṭa yamaścaiva nirṛtirvaruṇastathā . vāyussomastatheśāno brahmānantaścate daśa .. 36.158 ..
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमानपैः । स त्रयोदशधा चैव विश्वेदेवादिभिः स्थितः ॥ ३६.१५९ ॥
ekādaśendriyairbhinnastathā dvādaśamānapaiḥ . sa trayodaśadhā caiva viśvedevādibhiḥ sthitaḥ .. 36.159 ..
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः । तिथिभिः पञ्चदशधा भिन्नो ज्ञेयस्सु वै प्रभुः ॥ ३६.१६० ॥
sa caturdaśadhā bhinno manubhiścākṣuṣādibhiḥ . tithibhiḥ pañcadaśadhā bhinno jñeyassu vai prabhuḥ .. 36.160 ..
स्वरैष्षोडशधा भिन्नोदिक्कोणावान्तरैस्तथा । मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः ॥ ३६.१६१ ॥
svaraiṣṣoḍaśadhā bhinnodikkoṇāvāntaraistathā . mūrtyantaraiśca vijñeyo bahudhā tasya vistaraḥ .. 36.161 ..
एकद्वित्रिचतुःपञ्चषडाद्या विश्वतो मुखाः । मुखभेदास्समाख्यातास्तस्य विश्वात्मनो हरेः ॥ ३६.१६२ ॥
ekadvitricatuḥpañcaṣaḍādyā viśvato mukhāḥ . mukhabhedāssamākhyātāstasya viśvātmano hareḥ .. 36.162 ..
द्व्यादयो विश्वतःपाणेर्भुजभेदस्तथा स्मृताः । विविधाभरणा दीर्घा विविधायुधधारिणः ॥ ३६.१६३ ॥
dvyādayo viśvataḥpāṇerbhujabhedastathā smṛtāḥ . vividhābharaṇā dīrghā vividhāyudhadhāriṇaḥ .. 36.163 ..
मूर्धानश्चैव तस्योक्ता लसन्मुकुटकुण्डलाः । हैमोर्ध्वपुड्रलावण्यप्रभवा वक्रकुन्तलाः ॥ ३६.१६४ ॥
mūrdhānaścaiva tasyoktā lasanmukuṭakuṇḍalāḥ . haimordhvapuḍralāvaṇyaprabhavā vakrakuntalāḥ .. 36.164 ..
स्मेरारुणाधरास्स्ॐयाः प्रसादामृतवर्षिणः । सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः ॥ ३६.१६५ ॥
smerāruṇādharāss_oṃyāḥ prasādāmṛtavarṣiṇaḥ . sahasraṃ pauruṣe sūkte pādāścākṣīṇyanekaśaḥ .. 36.165 ..
हिरण्यगर्भोऽनेकात्मा विमलश्श्याम एव च । नीलः पीतस्तथा रक्तो नानावर्णः प्रकीर्तितः ॥ ३६.१६६ ॥
hiraṇyagarbho'nekātmā vimalaśśyāma eva ca . nīlaḥ pītastathā rakto nānāvarṇaḥ prakīrtitaḥ .. 36.166 ..
चन्द्रसूर्यौस्मृतौ तस्य नयने वामदक्षिणे । ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् ॥ ३६.१६७ ॥
candrasūryausmṛtau tasya nayane vāmadakṣiṇe . brahmāṇamāhurmūrdhānaṃ keśāṃścāsya vanaspatīn .. 36.167 ..
आस्यं वेदाश्च येऽनन्ता तोयं रुधिरमेव च । उपजिह्वा तु तस्योक्तमुपश्रुतिशतं तथा ॥ ३६.१६८ ॥
āsyaṃ vedāśca ye'nantā toyaṃ rudhirameva ca . upajihvā tu tasyoktamupaśrutiśataṃ tathā .. 36.168 ..
भ्रुवोर्मध्ये तथा रुद्रं भृगुं मनसि संस्थितं । रुद्रा एकादश ज्ञे या स्तस्य कण्ठं समाश्रिता ॥ ३६.१६९ ॥
bhruvormadhye tathā rudraṃ bhṛguṃ manasi saṃsthitaṃ . rudrā ekādaśa jñe yā stasya kaṇṭhaṃ samāśritā .. 36.169 ..
नक्षत्रग्रहताराश्च दन्तास्स्युर्मरुतोऽपि च । धर्माधर्मौतथोर्ध्वाधरोष्ठौ तु परिकीर्तितौ ॥ ३६.१७० ॥
nakṣatragrahatārāśca dantāssyurmaruto'pi ca . dharmādharmautathordhvādharoṣṭhau tu parikīrtitau .. 36.170 ..
इन्द्राग्नी तालुके तस्य जिह्माचैव सरस्वती । दिशश्च विदिशश्चैव श्रोत्रयोन्तस्य संस्मृताः ॥ ३६.१७१ ॥
indrāgnī tāluke tasya jihmācaiva sarasvatī . diśaśca vidiśaścaiva śrotrayontasya saṃsmṛtāḥ .. 36.171 ..
वायुःप्राणेषु विज्ञेयस्साध्याश्चांगुलयःस्मृताः । ऋषयो रोमकूपेषु सागरा वस्तिगोचराः ॥ ३६.१७२ ॥
vāyuḥprāṇeṣu vijñeyassādhyāścāṃgulayaḥsmṛtāḥ . ṛṣayo romakūpeṣu sāgarā vastigocarāḥ .. 36.172 ..
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः । जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः ॥ ३६.१७३ ॥
nadyaśca vasudhā cāsya nāgāśca nalake sthitāḥ . jānusthāvaśvinau devau parvatāścorusaṃsthitāḥ .. 36.173 ..
गुह्योऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः । नखाग्रेषु च विज्ञेया दिव्या ओषधयस्तथा ॥ ३६.१७४ ॥
guhyo'sya guhyakā jñeyā vasavaścorasi sthitāḥ . nakhāgreṣu ca vijñeyā divyā oṣadhayastathā .. 36.174 ..
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे । ऋतवो बाहुमूले तु मासाः करतलेषु च ॥ ३६.१७५ ॥
nāsikāyāḥ puṭau jñeyāvayane dakṣiṇottare . ṛtavo bāhumūle tu māsāḥ karataleṣu ca .. 36.175 ..
ललाटाग्रे तथा सिद्धा भ्रुवोर्मेघास्सविद्युतः । यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा ॥ ३६.१७६ ॥
lalāṭāgre tathā siddhā bhruvormeghāssavidyutaḥ . yakṣakinnaragandharvā daiteyā dānavāstathā .. 36.176 ..
राक्षसाश्चारणाश्चास्य जठरं समुसाश्रिताः । पितरः प्रेतकूश्माण्ड वेतालप्रमथास्तथा ॥ ३६.१७७ ॥
rākṣasāścāraṇāścāsya jaṭharaṃ samusāśritāḥ . pitaraḥ pretakūśmāṇḍa vetālapramathāstathā .. 36.177 ..
पातालगोचराश्चास्य पावयुग्मं समाश्रिताः । पार्श्वयोस्तस्य विज्ञेयाःक्रिया वेदैरभिष्टुताः ॥ ३६.१७८ ॥
pātālagocarāścāsya pāvayugmaṃ samāśritāḥ . pārśvayostasya vijñeyāḥkriyā vedairabhiṣṭutāḥ .. 36.178 ..
अग्निहोत्रादिकर्माणि वर्णाश्रमहितानि च । स्वाहास्वधावषट्का रास्सर्वेऽस्य हृदये श्रिताः ॥ ३६.१७९ ॥
agnihotrādikarmāṇi varṇāśramahitāni ca . svāhāsvadhāvaṣaṭkā rāssarve'sya hṛdaye śritāḥ .. 36.179 ..
नाम्नां शतं सहस्रं वा तथानन्तं पठन्तियथ् । अनन्तानन्तरूपस्य यथायोगं समन्वितं ॥ ३६.१८० ॥
nāmnāṃ śataṃ sahasraṃ vā tathānantaṃ paṭhantiyath . anantānantarūpasya yathāyogaṃ samanvitaṃ .. 36.180 ..
मूर्तयश्चास्य सर्वास्तास्संख्यातीताः प्रकीर्तिताः । देवादीनां च सर्वेषां मूर्तयस्तत्र संश्रिताः ॥ ३६.१८१ ॥
mūrtayaścāsya sarvāstāssaṃkhyātītāḥ prakīrtitāḥ . devādīnāṃ ca sarveṣāṃ mūrtayastatra saṃśritāḥ .. 36.181 ..
तस्मादनन्तन्संप्रोक्तः पुंसूक्ते तदुदीरितं । सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात्ऽऽ ॥ ३६.१८२ ॥
tasmādanantansaṃproktaḥ puṃsūkte tadudīritaṃ . sahasraśīrṣā puruṣassahasrākṣassahasrapāt'' .. 36.182 ..
ब्राह्मणा मुखते यस्य क्षत्रिया यस्य बाहुतः । ऊरुतो यस्य वै जाता वैश्याश्चेति नरा भुवि ॥ ३६.१८३ ॥
brāhmaṇā mukhate yasya kṣatriyā yasya bāhutaḥ . ūruto yasya vai jātā vaiśyāśceti narā bhuvi .. 36.183 ..
चन्द्रमा मनसो जातश्चक्षुषोर्मिहिरस्तथा । मूखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ ३६.१८४ ॥
candramā manaso jātaścakṣuṣormihirastathā . mūkhādindrastathāgniśca prāṇādvāyurajāyata .. 36.184 ..
नाभ्यायस्यान्तरिक्षं च शिरसो द्यौरजायत । पद्भ्यां भूमिर्दिशश्श्रोत्राद्यस्य देवस्य संबभौ ॥ ३६.१८५ ॥
nābhyāyasyāntarikṣaṃ ca śiraso dyaurajāyata . padbhyāṃ bhūmirdiśaśśrotrādyasya devasya saṃbabhau .. 36.185 ..
तमीदृशं महाविष्णुमप्रमेयमनामयं । तत्प्रसादादृते ज्ञातुं वक्तुं वा नैव शक्यते ॥ ३६.१८६ ॥
tamīdṛśaṃ mahāviṣṇumaprameyamanāmayaṃ . tatprasādādṛte jñātuṃ vaktuṃ vā naiva śakyate .. 36.186 ..
सर्वदेवमयो विष्णुः सर्वे देवास्तदात्मकाः । अशेषं वाङ्मयं चेदं लोकालोकं चराचरं ॥ ३६.१८७ ॥
sarvadevamayo viṣṇuḥ sarve devāstadātmakāḥ . aśeṣaṃ vāṅmayaṃ cedaṃ lokālokaṃ carācaraṃ .. 36.187 ..
वैष्णव्या व्याप्यते शक्त्या वायुनेवदिशोऽन्तरं । सर्वे विष्णुमयादेवास्सर्वशास्त्रेषु कीर्तिताः ॥ ३६.१८८ ॥
vaiṣṇavyā vyāpyate śaktyā vāyunevadiśo'ntaraṃ . sarve viṣṇumayādevāssarvaśāstreṣu kīrtitāḥ .. 36.188 ..
आधाराधेयभावेन द्वेधास व्याप्य तिष्ठति । सर्वभूतहितायैव निष्कलस्सकलःस्थितः ॥ ३६.१८९ ॥
ādhārādheyabhāvena dvedhāsa vyāpya tiṣṭhati . sarvabhūtahitāyaiva niṣkalassakalaḥsthitaḥ .. 36.189 ..
निष्कलस्सकलश्चैवं ज्ञेयो विष्णुस्सनातनः । सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखं ॥ ३६.१९० ॥
niṣkalassakalaścaivaṃ jñeyo viṣṇussanātanaḥ . sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukhaṃ .. 36.190 ..
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जतं ॥ ३६.१९१ ॥
sarvataśśrutimalloke sarvamāvṛtya tiṣṭhati, . sarvendriyaguṇābhāsaṃ sarvendriyavivarjataṃ .. 36.191 ..
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । अविभक्तं च भूतेषु विभक्तमिव च स्थितं ॥ ३६.१९२ ॥
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca . avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitaṃ .. 36.192 ..
भूतभर्तृच तद्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥ ३६.१९३ ॥
bhūtabhartṛca tadjñeyaṃ grasiṣṇu prabhaviṣṇu ca . jyotiṣāmapi tajjyotistamasaḥ paramucyate .. 36.193 ..
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितं । तच्चाद्यो जगतामीशः परेशः परमेश्वरः ॥ ३६.१९४ ॥
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitaṃ . taccādyo jagatāmīśaḥ pareśaḥ parameśvaraḥ .. 36.194 ..
परावरस्वरूपेण विष्णुस्सर्वहृदि स्थितः । स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान्स्थितः ॥ ३६.१९५ ॥
parāvarasvarūpeṇa viṣṇussarvahṛdi sthitaḥ . sthūlasūkṣmaparatvena tridhā ca bhagavānsthitaḥ .. 36.195 ..
प्रभविष्णुर्महाविष्णुस्सदाविष्णुः स्मृतश्च सः । आत्मा स ह्यन्तरात्मा च परमात्मा च संस्मृतः ॥ ३६.१९६ ॥
prabhaviṣṇurmahāviṣṇussadāviṣṇuḥ smṛtaśca saḥ . ātmā sa hyantarātmā ca paramātmā ca saṃsmṛtaḥ .. 36.196 ..
वैराजं लैङ्गिकं चैव बहिरन्तश्च सर्वशः । शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्न सुषुप्तिगं ॥ ३६.१९७ ॥
vairājaṃ laiṅgikaṃ caiva bahirantaśca sarvaśaḥ . śabdādiścinmayaṃ rūpaṃ jāgratsvapna suṣuptigaṃ .. 36.197 ..
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद्बुधः । वेदे च भगवच्छास्त्रे सांख्ये योगे तथैव च ॥ ३६.१९८ ॥
mantrānusvāranādeṣu trayamanveṣayedbudhaḥ . vede ca bhagavacchāstre sāṃkhye yoge tathaiva ca .. 36.198 ..
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः । पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगथ् ॥ ३६.१९९ ॥
dharmaśāstre purāṇe ca munibhirdevamānuṣaiḥ . paṭhyate nikhilairnityaṃ viśvaṃ viṣṇumayaṃ jagath .. 36.199 ..
यच्च भूतं भविष्यच्च वर्तमानं तु किं चन । इन्द्रियाणीन्द्रियार्थाश्च भूतान्तः करणानि च ॥ ३६.२०० ॥
yacca bhūtaṃ bhaviṣyacca vartamānaṃ tu kiṃ cana . indriyāṇīndriyārthāśca bhūtāntaḥ karaṇāni ca .. 36.200 ..
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा । नियतिश्च कला कालः सर्वमन्यच्च तन्मयं ॥ ३६.२०१ ॥
avyaktaṃ triguṇā māyā vidyā dharmādayastathā . niyatiśca kalā kālaḥ sarvamanyacca tanmayaṃ .. 36.201 ..
विष्णुरेव परो देवस्सर्व भूतेष्ववस्थितः । सर्वभूतानि चैवाचौ न तदस्तीह यन्न सः ॥ ३६.२०२ ॥
viṣṇureva paro devassarva bhūteṣvavasthitaḥ . sarvabhūtāni caivācau na tadastīha yanna saḥ .. 36.202 ..
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः । तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः ॥ ३६.२०३ ॥
devāsurādayo martyāḥ paśavaśca sarīsṛpāḥ . taruvallītṛṇauṣadhyo mahābhrāśanividyutaḥ .. 36.203 ..
शैलाब्धिसरिदारामनगराणि सरांसि च । लोकाश्चान न्तकालोऽग्नि प्रेतावासोरगालयाः ॥ ३६.२०४ ॥
śailābdhisaridārāmanagarāṇi sarāṃsi ca . lokāścāna ntakālo'gni pretāvāsoragālayāḥ .. 36.204 ..
सप्तभूरादयो ब्राह्मशैववैष्णवसंज्ञिताः । सर्वे च विष्णुनैकेन व्याप्तास्सर्वात्मनात्मना ॥ ३६.२०५ ॥
saptabhūrādayo brāhmaśaivavaiṣṇavasaṃjñitāḥ . sarve ca viṣṇunaikena vyāptāssarvātmanātmanā .. 36.205 ..
वराहो भार्गवस्सिंहो रामश्रीधरवामनाः । अश्विकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलं ॥ ३६.२०६ ॥
varāho bhārgavassiṃho rāmaśrīdharavāmanāḥ . aśvikṛṣṇau ca dikṣveṣāṃ lokairaṇḍaṃ sahākhilaṃ .. 36.206 ..
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः । विश्वव्यापितयेवैष विष्णुर्वृद्धैरुधीरितः ॥ ३६.२०७ ॥
yaccānuktamaśeṣeṇa viṣṇoretā vibhūtayaḥ . viśvavyāpitayevaiṣa viṣṇurvṛddhairudhīritaḥ .. 36.207 ..
पुरुसंज्ञेशरीरेऽस्मिन्शयनात्पुरुषः स्मृतः । सत्यश्छाबाधितार्थत्वान्नित्यत्वात्स प्रकीर्तितः ॥ ३६.२०८ ॥
purusaṃjñeśarīre'sminśayanātpuruṣaḥ smṛtaḥ . satyaśchābādhitārthatvānnityatvātsa prakīrtitaḥ .. 36.208 ..
अच्युतोऽच्यवनादेव स हरिः समदीरितः । अनिरुद्धस्तथा प्रोक्तस्सर्वस्मादनिरोधनाथ् ॥ ३६.२०९ ॥
acyuto'cyavanādeva sa hariḥ samadīritaḥ . aniruddhastathā proktassarvasmādanirodhanāth .. 36.209 ..
वसनास्तर्वभूतेषु वासुदेवत्वमीयिवान् । आदिमूर्तेस्समाकृष्टः स्मृतस्संकर्षणः प्रभुः ॥ ३६.२१० ॥
vasanāstarvabhūteṣu vāsudevatvamīyivān . ādimūrtessamākṛṣṭaḥ smṛtassaṃkarṣaṇaḥ prabhuḥ .. 36.210 ..
प्रद्युम्नो द्युम्न पृष्ठत्वात्त्रिधामा धामभिस्त्रिभिः । वैकुण्ठामलवर्णत्वाद्वैकुण्ठश्टायमुच्यते ॥ ३६.२११ ॥
pradyumno dyumna pṛṣṭhatvāttridhāmā dhāmabhistribhiḥ . vaikuṇṭhāmalavarṇatvādvaikuṇṭhaśṭāyamucyate .. 36.211 ..
लीयेते प्रलये त्वस्मिन्केशावित्येष केशवः । नरनारीप्रकर्तृत्वान्नराणां चायनादयं ॥ ३६.२१२ ॥
līyete pralaye tvasminkeśāvityeṣa keśavaḥ . naranārīprakartṛtvānnarāṇāṃ cāyanādayaṃ .. 36.212 ..
नारायणो नरोद्धानामयनत्वादपाञ्च सः । माधवो मधुषूत्पत्त्या धवत्वाद्वा श्रियःस्मृतः ॥ ३६.२१३ ॥
nārāyaṇo naroddhānāmayanatvādapāñca saḥ . mādhavo madhuṣūtpattyā dhavatvādvā śriyaḥsmṛtaḥ .. 36.213 ..
गोविन्दतीति गोविन्दो गावो विन्दन्ति यं तथा । असुरं मधुनामानं हन्तीति मधुसूदन ॥ ३६.२१४ ॥
govindatīti govindo gāvo vindanti yaṃ tathā . asuraṃ madhunāmānaṃ hantīti madhusūdana .. 36.214 ..
त्रिभिःस्वैर्विक्रमैर्व्याप्तो जगदेष त्रिविक्रमः । वामनो व्रास्वतायोगाच्छ्रीधरो वहनाच्छ्रियः ॥ ३६.२१५ ॥
tribhiḥsvairvikramairvyāpto jagadeṣa trivikramaḥ . vāmano vrāsvatāyogācchrīdharo vahanācchriyaḥ .. 36.215 ..
हृषीकस्येन्द्रियस्येशो हृषीकेश उदीरितः । पद्मं नाभेरभूद्यप्य पद्मनाभस्ततस्म्मतः ॥ ३६.२१६ ॥
hṛṣīkasyendriyasyeśo hṛṣīkeśa udīritaḥ . padmaṃ nābherabhūdyapya padmanābhastatasmmataḥ .. 36.216 ..
उदरालम्बि दामास्येत्युक्तो दामोदरो हरिः । उत्तमः पुरुषोयस्मादुक्तस्स पुरुषोत्तमः ॥ ३६.२१७ ॥
udarālambi dāmāsyetyukto dāmodaro hariḥ . uttamaḥ puruṣoyasmāduktassa puruṣottamaḥ .. 36.217 ..
विलोमेन्द्रियगम्यत्वात्प्रोच्यते स त्वधोक्षजः । अर्धमर्धं लरस्सिंहो नरसिंहा उदाहृतः ॥ ३६.२१८ ॥
vilomendriyagamyatvātprocyate sa tvadhokṣajaḥ . ardhamardhaṃ larassiṃho narasiṃhā udāhṛtaḥ .. 36.218 ..
जनार्दनस्स पापिष्ठान्जनानर्दयतीति सः । इन्द्रस्यावरजो भूत उपेन्द्रः प्रोच्यते हरिः ॥ ३६.२१९ ॥
janārdanassa pāpiṣṭhānjanānardayatīti saḥ . indrasyāvarajo bhūta upendraḥ procyate hariḥ .. 36.219 ..
हरणात्सर्वपापानां हरिर्नायणः स्मृतः । कर्षणात्पापराशीनां कृष्णस्सर्वात्मको हरिः ॥ ३६.२२० ॥
haraṇātsarvapāpānāṃ harirnāyaṇaḥ smṛtaḥ . karṣaṇātpāparāśīnāṃ kṛṣṇassarvātmako hariḥ .. 36.220 ..
रुद्रो रोदयते तस्मात्ब्रह्मा बृंहणकर्मणा । इन्द्रश्च परमैश्वर्याद्वहनाद्वह्निरुच्यते ॥ ३६.२२१ ॥
rudro rodayate tasmātbrahmā bṛṃhaṇakarmaṇā . indraśca paramaiśvaryādvahanādvahnirucyate .. 36.221 ..
यमस्संयमनात्पुंसां वरणाद्वरुणस्तथा । वायुर्वानात्सवात्सोमरिशश्चेष्टे जनेषु यः ॥ ३६.२२२ ॥
yamassaṃyamanātpuṃsāṃ varaṇādvaruṇastathā . vāyurvānātsavātsomariśaśceṣṭe janeṣu yaḥ .. 36.222 ..
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयते यतः । इत्येवं गुणवृत्त्योह्यैः शब्देरेकोऽप्यनेकथा ॥ ३६.२२३ ॥
ādityo'ditiputratvāccandraścandayate yataḥ . ityevaṃ guṇavṛttyohyaiḥ śabdereko'pyanekathā .. 36.223 ..
श्रुतिभिः प्रोच्यते ब्रह्म विष्ण्वाख्यं जातु नेतरथ् । तस्येश्वरस्य चैश्वर्यात्सर्वमेतत्प्रवर्तते ॥ ३६.२२४ ॥
śrutibhiḥ procyate brahma viṣṇvākhyaṃ jātu netarath . tasyeśvarasya caiśvaryātsarvametatpravartate .. 36.224 ..
सेश्वरं हि जगत्सर्वं भवेन्नानीश्वरं क्वचिथ् । तन्मयत्वेन गोविन्दे न्यस्तसर्वभरा नराः ॥ ३६.२२५ ॥
seśvaraṃ hi jagatsarvaṃ bhavennānīśvaraṃ kvacith . tanmayatvena govinde nyastasarvabharā narāḥ .. 36.225 ..
तद्याजीनो महाभागास्तरन्ति भववारिधिं । तं प्रसाधयितुं यत्नः कार्यस्सरात्मना नरैः ॥ ३६.२२६ ॥
tadyājīno mahābhāgāstaranti bhavavāridhiṃ . taṃ prasādhayituṃ yatnaḥ kāryassarātmanā naraiḥ .. 36.226 ..
भक्तिनम्रस्सदा गच्छेत्सर्वोऽपि जगतः पतिं । तद्देवस्य प्रियं भूयाद्यतस्सम्माननं तु तथ् ॥ ३६.२२७ ॥
bhaktinamrassadā gacchetsarvo'pi jagataḥ patiṃ . taddevasya priyaṃ bhūyādyatassammānanaṃ tu tath .. 36.227 ..
तस्य सन्निहितो देवो यस्य चित्ते जनार्दनः । दानेन तपसा नान्यैस्त्यस्य तुष्टोभवेद्धरिः ॥ ३६.२२८ ॥
tasya sannihito devo yasya citte janārdanaḥ . dānena tapasā nānyaistyasya tuṣṭobhaveddhariḥ .. 36.228 ..
आरुह्य शकटं गच्छेद्यो विष्णोर्मन्दिरं नरः । नारी वा बालको वाथ वृद्ध आतुर एव वा ॥ ३६.२२९ ॥
āruhya śakaṭaṃ gacchedyo viṣṇormandiraṃ naraḥ . nārī vā bālako vātha vṛddha ātura eva vā .. 36.229 ..
तस्य पुण्यफलं नास्ति प्रेत्य युग्यश्च जायते । ये वाहयन्ति तान्मर्त्यान्नरा वा प्राणिनश्च ये ॥ ३६.२३० ॥
tasya puṇyaphalaṃ nāsti pretya yugyaśca jāyate . ye vāhayanti tānmartyānnarā vā prāṇinaśca ye .. 36.230 ..
ते यास्यन्ति पदं विष्णोर्यस्मात्पादच रास्तु ते । ये वाहयन्ति जन्तूंस्तान्स्तेऽपिमूढाः पतन्ति वै ॥ ३६.२३१ ॥
te yāsyanti padaṃ viṣṇoryasmātpādaca rāstu te . ye vāhayanti jantūṃstānste'pimūḍhāḥ patanti vai .. 36.231 ..
यस्तोदयति तानेव गमने मूढचेतनः । स यामीर्यातनाः प्राप्य तोद्यते यमकिङ्करैः ॥ ३६.२३२ ॥
yastodayati tāneva gamane mūḍhacetanaḥ . sa yāmīryātanāḥ prāpya todyate yamakiṅkaraiḥ .. 36.232 ..
पुनः पशुत्वमापन्नस्तोद्यते पशुभिर्नरैः । यो वा भृतकदानेन वाहनेन तु मानवः ॥ ३६.२३३ ॥
punaḥ paśutvamāpannastodyate paśubhirnaraiḥ . yo vā bhṛtakadānena vāhanena tu mānavaḥ .. 36.233 ..
वाहयत्यथ वोहेत सोऽपि यास्यति दुर्गतिं । अपारे दुर्गसंसारे कर्मबद्धे विशेषतः ॥ ३६.२३४ ॥
vāhayatyatha voheta so'pi yāsyati durgatiṃ . apāre durgasaṃsāre karmabaddhe viśeṣataḥ .. 36.234 ..
स्वीयं कर्म समुत्सृज्य पतन्ति नरकेऽशुचौ । ततःपशुत्वमापन्नाश्चिरं तिष्ठन्ति भूतले ॥ ३६.२३५ ॥
svīyaṃ karma samutsṛjya patanti narake'śucau . tataḥpaśutvamāpannāściraṃ tiṣṭhanti bhūtale .. 36.235 ..
पादुकामधिरुह्यापि यो देवालयमाप्रजेथ् । स पशुर्जोयते प्रेत्य रोगी चेहप्रजायते ॥ ३६.२३६ ॥
pādukāmadhiruhyāpi yo devālayamāprajeth . sa paśurjoyate pretya rogī cehaprajāyate .. 36.236 ..
पादुकां वाहनं चापि योऽधिष्ठित्य विमूढधीः । प्रणामं हरये कुर्यात्त स्य दूरतरो हरिः ॥ ३६.२३७ ॥
pādukāṃ vāhanaṃ cāpi yo'dhiṣṭhitya vimūḍhadhīḥ . praṇāmaṃ haraye kuryātta sya dūrataro hariḥ .. 36.237 ..
देवदर्णनमुद्दिश्य नैवेदं विध आव्रजेथ् । अयत्नाद्गमने जातेऽप्यवरुह्य च वाहनाथ् ॥ ३६.२३८ ॥
devadarṇanamuddiśya naivedaṃ vidha āvrajeth . ayatnādgamane jāte'pyavaruhya ca vāhanāth .. 36.238 ..
पादुकादि विमुच्यैव समुपस्पृश्य वारिणा । प्रविशेत्प्रयतो भूत्वा प्राकारं प्रथमं पुनः ॥ ३६.२३९ ॥
pādukādi vimucyaiva samupaspṛśya vāriṇā . praviśetprayato bhūtvā prākāraṃ prathamaṃ punaḥ .. 36.239 ..
न विशेद्धाम देवस्य यादता वाहनादिभिः । तादृशं पुरुषं दृष्ट्वा यथाशक्त्यवबोधयेथ् ॥ ३६.२४० ॥
na viśeddhāma devasya yādatā vāhanādibhiḥ . tādṛśaṃ puruṣaṃ dṛṣṭvā yathāśaktyavabodhayeth .. 36.240 ..
आद्यस्त्वेषोऽपचारस्स्याद्यत्नहार्योभवेत्ततः । श्मशानमध्ये गत्वातु यो गच्छेद्देवतागृहं ॥ ३६.२४१ ॥
ādyastveṣo'pacārassyādyatnahāryobhavettataḥ . śmaśānamadhye gatvātu yo gaccheddevatāgṛhaṃ .. 36.241 ..
सप्तजन्मकृतात्पुण्यात्तत्क्षणान्मुच्यते नरः । सार्गालीं योनिमाश्रित्य पसेज्जन्मत्रयं ततः ॥ ३६.२४२ ॥
saptajanmakṛtātpuṇyāttatkṣaṇānmucyate naraḥ . sārgālīṃ yonimāśritya pasejjanmatrayaṃ tataḥ .. 36.242 ..
दरिद्राश्चैव मार्खाश्च भविष्यन्ति त्रिजन्मकं । अन्यदेवगृहं गद्वाह्यस्नात्वा यो व्रजेद्गृहं ॥ ३६.२४३ ॥
daridrāścaiva mārkhāśca bhaviṣyanti trijanmakaṃ . anyadevagṛhaṃ gadvāhyasnātvā yo vrajedgṛhaṃ .. 36.243 ..
देवदेवस्य मोहात्तु तस्य पापं महाद्भवेथ् । गृहाद्गृहं तथा गद्वा भिक्षार्थी क्षुधितस्स्वयं ॥ ३६.२४४ ॥
devadevasya mohāttu tasya pāpaṃ mahādbhaveth . gṛhādgṛhaṃ tathā gadvā bhikṣārthī kṣudhitassvayaṃ .. 36.244 ..
भिक्षामलब्ध्वा कुत्रापि दरिद्रो जायते नरः । चत्वारि चैव जन्मानि तेषामन्ते च यो बुधः? ॥ ३६.२४५ ॥
bhikṣāmalabdhvā kutrāpi daridro jāyate naraḥ . catvāri caiva janmāni teṣāmante ca yo budhaḥ? .. 36.245 ..
चण्डालयोनि माप्नोति जन्मानि दश पञ्च च । अत्र चोदाहरन्तीमं विशेषं काश्यपादयः ॥ ३६.२४६ ॥
caṇḍālayoni māpnoti janmāni daśa pañca ca . atra codāharantīmaṃ viśeṣaṃ kāśyapādayaḥ .. 36.246 ..
सर्वदेवमयो विष्णुस्सर्ववेदमयो हरिः । तस्यातिरिक्तं नो किञ्चिद्विशेषस्तत्र वक्ष्यते ॥ ३६.२४७ ॥
sarvadevamayo viṣṇussarvavedamayo hariḥ . tasyātiriktaṃ no kiñcidviśeṣastatra vakṣyate .. 36.247 ..
सर्वेऽप्यधिकृता लोके तत्तत्कर्मानुरूपतः । आब्रह्मस्तंबपर्यन्तं जगदन्तर्व्यवस्थिताः ॥ ३६.२४८ ॥
sarve'pyadhikṛtā loke tattatkarmānurūpataḥ . ābrahmastaṃbaparyantaṃ jagadantarvyavasthitāḥ .. 36.248 ..
तस्मादेव जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये संप्रलीयते ॥ ३६.२४९ ॥
tasmādeva jagatsarvaṃ sargakāle prajāyate . tasminneva punastacca pralaye saṃpralīyate .. 36.249 ..
यः वरः प्रकृतेः प्रोक्तः पुराणः पुरुषोऽव्ययः । स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ ३६.२५० ॥
yaḥ varaḥ prakṛteḥ proktaḥ purāṇaḥ puruṣo'vyayaḥ . sa eva sarvabhūtātmā nara ityabhidhīyate .. 36.250 ..
नराज्जातानि तत्त्वानि नाराणीति प्रचक्षते । तान्येव चायनं यस्य स तु नारायणः स्मृतः ॥ ३६.२५१ ॥
narājjātāni tattvāni nārāṇīti pracakṣate . tānyeva cāyanaṃ yasya sa tu nārāyaṇaḥ smṛtaḥ .. 36.251 ..
नारायणः परं ब्रह्म तत्त्वं नारायणः परः । विष्ण्वादिभिस्तथा केचिद्वासुदेवादिभिः परे ॥ ३६.२५२ ॥
nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ . viṣṇvādibhistathā kecidvāsudevādibhiḥ pare .. 36.252 ..
संज्ञाभेदैर्महात्मानस्सदैवाराधयन्तितं । सर्वत्र परिपूर्णस्य सर्वधा सर्ववस्तुषु ॥ ३६.२५३ ॥
saṃjñābhedairmahātmānassadaivārādhayantitaṃ . sarvatra paripūrṇasya sarvadhā sarvavastuṣu .. 36.253 ..
न जातु लभ्यते किञ्चिद्येनाव्याप्तं तु किं चन । तस्मात्तस्मिन्समारोप्य सर्वं देवेश्वरेश्वरे ॥ ३६.२५४ ॥
na jātu labhyate kiñcidyenāvyāptaṃ tu kiṃ cana . tasmāttasminsamāropya sarvaṃ deveśvareśvare .. 36.254 ..
उपासनं भवेद्यत्तु तद्भवेदुचितं बुधैः । अन्यत्र तं समारोप्य यदि चोपासनं भवेथ् ॥ ३६.२५५ ॥
upāsanaṃ bhavedyattu tadbhaveducitaṃ budhaiḥ . anyatra taṃ samāropya yadi copāsanaṃ bhaveth .. 36.255 ..
तद्भवेदन्यदेवार्चा तस्मात्परिमितं फलं । येऽप्यन्यदेवताभक्तायजन्ते श्रद्धयोऽन्विताः ॥ ३६.२५६ ॥
tadbhavedanyadevārcā tasmātparimitaṃ phalaṃ . ye'pyanyadevatābhaktāyajante śraddhayo'nvitāḥ .. 36.256 ..
यजन्ते तेऽपि देवेशं तमेवाविधि पूर्वकं । अन्ये ते ब्रह्मरुद्रेन्द्रास्तदाद्या देवतास्स्मृताः ॥ ३६.२५७ ॥
yajante te'pi deveśaṃ tamevāvidhi pūrvakaṃ . anye te brahmarudrendrāstadādyā devatāssmṛtāḥ .. 36.257 ..
वैष्णवा अवताराश्च ये तु शास्त्रोदिताः पुरा । परमार्थे न भिद्यन्ते नान्यत्वं स्यात्परस्परं ॥ ३६.२५८ ॥
vaiṣṇavā avatārāśca ye tu śāstroditāḥ purā . paramārthe na bhidyante nānyatvaṃ syātparasparaṃ .. 36.258 ..
विष्ण्वालयादथैकस्मादन्यविष्ण्वालयस्य तु । तत्स्थानां दैवतानां वा नान्यत्वं जातु संभवेथ् ॥ ३६.२५९ ॥
viṣṇvālayādathaikasmādanyaviṣṇvālayasya tu . tatsthānāṃ daivatānāṃ vā nānyatvaṃ jātu saṃbhaveth .. 36.259 ..
अथ शास्त्रविधिर्भिन्नो यत्र नाप्युपलभ्यते । तत्रान्यत्वं विजानीयान्न चेच्छेच्छास्त्रसंकरं ॥ ३६.२६० ॥
atha śāstravidhirbhinno yatra nāpyupalabhyate . tatrānyatvaṃ vijānīyānna cecchecchāstrasaṃkaraṃ .. 36.260 ..
हरिं देवं तु संसेव्य वाहनस्थं द्विजोत्तमः । यदन्यं सेदते वीथ्यां तत्काले वाहनस्थितं ॥ ३६.२६१ ॥
hariṃ devaṃ tu saṃsevya vāhanasthaṃ dvijottamaḥ . yadanyaṃ sedate vīthyāṃ tatkāle vāhanasthitaṃ .. 36.261 ..
सोऽपि पापमवाप्नोति विष्णुध्यानेन शुद्ध्यति । देवेशस्योत्सवो यत्र ग्रामे वा नगरेऽपि वा ॥ ३६.२६२ ॥
so'pi pāpamavāpnoti viṣṇudhyānena śuddhyati . deveśasyotsavo yatra grāme vā nagare'pi vā .. 36.262 ..
पर्वताग्रे महानद्यास्तीरे दुर्गाटवीषुवा । तत्र गच्छेन्नरो भक्त्या सेवेतोत्सवमादराथ् ॥ ३६.२६३ ॥
parvatāgre mahānadyāstīre durgāṭavīṣuvā . tatra gacchennaro bhaktyā sevetotsavamādarāth .. 36.263 ..
सह पुत्त्रेस्सहामात्यैस्सर्वैः परिजनैर्वृतः । वैष्णवं क्रतुदेशन्तु गत्वा सेवेत मानवः ॥ ३६.२६४ ॥
saha puttressahāmātyaissarvaiḥ parijanairvṛtaḥ . vaiṣṇavaṃ kratudeśantu gatvā seveta mānavaḥ .. 36.264 ..
यथार्ऽहमुपयुञ्जीत स्वशक्तिं तत्क्रियासु च । श्रुत्वा देवोत्सवारंभं पङ्गूभावेन यो नरः ॥ ३६.२६५ ॥
yathār'hamupayuñjīta svaśaktiṃ tatkriyāsu ca . śrutvā devotsavāraṃbhaṃ paṅgūbhāvena yo naraḥ .. 36.265 ..
तिष्ठेत्स जन्मसाहस्रं पङ्गुरेव भविष्यति । तद्भवेद्विफलं जन्म भूभारस्तस्य जीवितं ॥ ३६.२६६ ॥
tiṣṭhetsa janmasāhasraṃ paṅgureva bhaviṣyati . tadbhavedviphalaṃ janma bhūbhārastasya jīvitaṃ .. 36.266 ..
देवेशस्योत्सवे सम्यग्वर्तमाने महाफले । योऽन्यत्र व्यापृतस्तत्र न गच्छेद्दुर्मना नरः ॥ ३६.२६७ ॥
deveśasyotsave samyagvartamāne mahāphale . yo'nyatra vyāpṛtastatra na gaccheddurmanā naraḥ .. 36.267 ..
न तस्य निष्कृतिः प्रोक्ता स पापी नरकं व्रजेथ् । अनाहूतोऽध्वरं गच्छेत्तथा गुरुकुलं व्रजेथ् ॥ ३६.२६८ ॥
na tasya niṣkṛtiḥ proktā sa pāpī narakaṃ vrajeth . anāhūto'dhvaraṃ gacchettathā gurukulaṃ vrajeth .. 36.268 ..
योऽध्वरं गन्तुकामोऽत्र प्रतीक्षेतार्ङ्गणादिकं । तन्य पूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति ॥ ३६.२६९ ॥
yo'dhvaraṃ gantukāmo'tra pratīkṣetārṅgaṇādikaṃ . tanya pūrvārjitaṃ puṇyaṃ tatkṣaṇādeva naśyati .. 36.269 ..
देवोत्सवं तु यो मर्त्यो यतमानं तु सेवितुं । वारयेद्येन केनापि हेतुना स तु दुर्मतिः ॥ ३६.२७० ॥
devotsavaṃ tu yo martyo yatamānaṃ tu sevituṃ . vārayedyena kenāpi hetunā sa tu durmatiḥ .. 36.270 ..
अफलस्सफलो वापि पतत्येव न संशयः । विष्णुपञ्चदिने वापि पुण्याहेष्वितरेष्वपि ॥ ३६.२७१ ॥
aphalassaphalo vāpi patatyeva na saṃśayaḥ . viṣṇupañcadine vāpi puṇyāheṣvitareṣvapi .. 36.271 ..
उपोषितस्तु श्रुत्वैव देवेशस्योत्सवं हठाथ् । तत्क्षणाद्यो न गच्छेत्तु तस्य पापं महद्भवेथ् ॥ ३६.२७२ ॥
upoṣitastu śrutvaiva deveśasyotsavaṃ haṭhāth . tatkṣaṇādyo na gacchettu tasya pāpaṃ mahadbhaveth .. 36.272 ..
खट्वामास्थाय यश्शेते वर्तमाने तदुत्सवे । आसीनस्थ्सित एवात्र स यामीर्यातना व्रजेथ् ॥ ३६.२७३ ॥
khaṭvāmāsthāya yaśśete vartamāne tadutsave . āsīnasthsita evātra sa yāmīryātanā vrajeth .. 36.273 ..
देवेशाभिमुखं गत्वा न कुर्याद्यो नमस्क्रियां । स पापिष्ठतरो लोके निष्कृतिर्नास्य विद्यते ॥ ३६.२७४ ॥
deveśābhimukhaṃ gatvā na kuryādyo namaskriyāṃ . sa pāpiṣṭhataro loke niṣkṛtirnāsya vidyate .. 36.274 ..
उत्क्रमिष्यन्ति यत्प्राणाः प्राणदे समुपस्थिते । प्रत्युद्थानाभिवादाभ्यां पुनस्तान्प्रतिपादयेथ् ॥ ३६.२७५ ॥
utkramiṣyanti yatprāṇāḥ prāṇade samupasthite . pratyudthānābhivādābhyāṃ punastānpratipādayeth .. 36.275 ..
सर्वेषां प्राणभूतोऽसौ भगवान्हरिरव्ययः । प्राणिनश्चेतनास्सर्वे प्राण्येकः प्राणदोऽपरः ॥ ३६.२७६ ॥
sarveṣāṃ prāṇabhūto'sau bhagavānhariravyayaḥ . prāṇinaścetanāssarve prāṇyekaḥ prāṇado'paraḥ .. 36.276 ..
अन्यथा चेन्महादोषः संक्षुफ्यन्ते च मानवाः । एकहस्तप्रणामेन यत्पापं न तदन्यतः ॥ ३६.२७७ ॥
anyathā cenmahādoṣaḥ saṃkṣuphyante ca mānavāḥ . ekahastapraṇāmena yatpāpaṃ na tadanyataḥ .. 36.277 ..
हस्तौ द्वौ निर्मितौ धात्रा किं तेन सुकृतं भवेथ् । प्राञ्जलीकृत्य हस्तौतु याचेत मधुसूदनं ॥ ३६.२७८ ॥
hastau dvau nirmitau dhātrā kiṃ tena sukṛtaṃ bhaveth . prāñjalīkṛtya hastautu yāceta madhusūdanaṃ .. 36.278 ..
य एकेनैव हस्तेन प्रणमेन्मन्दधीर्हरिं । तस्यहस्तो भवेदेकः पश्चाज्जन्मशतैरपि ॥ ३६.२७९ ॥
ya ekenaiva hastena praṇamenmandadhīrhariṃ . tasyahasto bhavedekaḥ paścājjanmaśatairapi .. 36.279 ..
इह वै जायते पङ्गू रोगी चैव न संशयः । किमिदं बहुलैश्चित्रैः करणैर्देहकल्पनं ॥ ३६.२८० ॥
iha vai jāyate paṅgū rogī caiva na saṃśayaḥ . kimidaṃ bahulaiścitraiḥ karaṇairdehakalpanaṃ .. 36.280 ..
यद्येकैकं न चेत्तस्य कैङ्कर्यायोपयुज्यते । किं स्वाधीनेन हस्तेन स्वाधीनं कर्म सेवितुं ॥ ३६.२८१ ॥
yadyekaikaṃ na cettasya kaiṅkaryāyopayujyate . kiṃ svādhīnena hastena svādhīnaṃ karma sevituṃ .. 36.281 ..
अशक्नु वानास्स्वातन्त्षहताः पापहता हताः । एकहस्तप्रणामस्तु परिहार्यो विशेषतः ॥ ३६.२८२ ॥
aśaknu vānāssvātantṣahatāḥ pāpahatā hatāḥ . ekahastapraṇāmastu parihāryo viśeṣataḥ .. 36.282 ..
प्रणतं चैकहस्तेन यस्तु प्रत्यभिवादयेथ् । तावुभौ नरकं यातस्तयोर्यस्मात्समागमः ॥ ३६.२८३ ॥
praṇataṃ caikahastena yastu pratyabhivādayeth . tāvubhau narakaṃ yātastayoryasmātsamāgamaḥ .. 36.283 ..
देवतास्तादृशं मूढं शपन्ति च विशङ्किताः । पुरस्ताद्यस्तु देवस्य कुर्यादात्मप्रदक्षिणं ॥ ३६.२८४ ॥
devatāstādṛśaṃ mūḍhaṃ śapanti ca viśaṅkitāḥ . purastādyastu devasya kuryādātmapradakṣiṇaṃ .. 36.284 ..
आत्मना स भवेद्वापस्स द्रुह्येदात्मने बुधः । पुरस्ताद्देवबिंबे तु देव्यमङ्गलविग्रहे ॥ ३६.२८५ ॥
ātmanā sa bhavedvāpassa druhyedātmane budhaḥ . purastāddevabiṃbe tu devyamaṅgalavigrahe .. 36.285 ..
वर्तमाने त्वनादृत्य न ह्यन्यस्य प्रदक्षिणं । यत्र मानसिकार्चा स्यात्तच्च मानसिकं भवेथ् ॥ ३६.२८६ ॥
vartamāne tvanādṛtya na hyanyasya pradakṣiṇaṃ . yatra mānasikārcā syāttacca mānasikaṃ bhaveth .. 36.286 ..
अन्तर्यामी य एवास्ते हृदये निष्कलो हरिः । स एव सकलो भूत्वा बिंबे यत्सन्निधापितः ॥ ३६.२८७ ॥
antaryāmī ya evāste hṛdaye niṣkalo hariḥ . sa eva sakalo bhūtvā biṃbe yatsannidhāpitaḥ .. 36.287 ..
तस्मात्सकलपूजायां नैव कुर्याद्व्यतिक्रमं । न कदापि भवेत्प्राज्ञ उच्भिष्टस्स्वेषु कर्मसु ॥ ३६.२८८ ॥
tasmātsakalapūjāyāṃ naiva kuryādvyatikramaṃ . na kadāpi bhavetprājña ucbhiṣṭassveṣu karmasu .. 36.288 ..
विण्मूत्रं पथि कृत्वातु शौचं यावन्न चाचरेथ् । उच्छिष्टस्तावदेव स्यादनर्हस्सर्वकर्मसु ॥ ३६.२८९ ॥
viṇmūtraṃ pathi kṛtvātu śaucaṃ yāvanna cācareth . ucchiṣṭastāvadeva syādanarhassarvakarmasu .. 36.289 ..
नखरोमाणि यश्चैव केशास्थीनि तथैव च । क्षिपेत्तु देवतागारे स भवेद्ब्रह्महा नरः ॥ ३६.२९० ॥
nakharomāṇi yaścaiva keśāsthīni tathaiva ca . kṣipettu devatāgāre sa bhavedbrahmahā naraḥ .. 36.290 ..
माक्षिकीं योनिम्श्रित्य जायते म्रियते पुनः । सप्त जन्मानि तत्रैव व्रजेन्नरकमस्ततः ॥ ३६.२९१ ॥
mākṣikīṃ yonimśritya jāyate mriyate punaḥ . sapta janmāni tatraiva vrajennarakamastataḥ .. 36.291 ..
तांबूलं चर्वितं यस्तु प्रक्षिपेद्देवमन्तिरे । स याति नरकं घोरं यावदाभूतसंप्लवं ॥ ३६.२९२ ॥
tāṃbūlaṃ carvitaṃ yastu prakṣipeddevamantire . sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavaṃ .. 36.292 ..
ततो मुक्तो महापापी शुनकोऽपरजन्मनि । संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ॥ ३६.२९३ ॥
tato mukto mahāpāpī śunako'parajanmani . saṃsthitastrīṇi janmāni vasatyeva na saṃśayaḥ .. 36.293 ..
निष्ठीवनकरो यस्तु मन्दिरे मधुविद्विषः । कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥ ३६.२९४ ॥
niṣṭhīvanakaro yastu mandire madhuvidviṣaḥ . kṛmibhakṣye patedghore narake pāpakṛnnaraḥ .. 36.294 ..
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकं । मूत्रयेन्मन्दिरे यस्तु केशवस्य विमूढधीः ॥ ३६.२९५ ॥
śleṣmātakatarurbhūtvā jāyate janmapañcakaṃ . mūtrayenmandire yastu keśavasya vimūḍhadhīḥ .. 36.295 ..
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः । तस्मान्मुक्तस्तुरक्तादिनिंबकद्रुममास्थितः ॥ ३६.२९६ ॥
sa mūtragartanarake patatyeva hyavākchirāḥ . tasmānmuktasturaktādiniṃbakadrumamāsthitaḥ .. 36.296 ..
जनिष्यति न सन्देहस्सप्तजन्मसु सौकरीं । पुरीषं वात्र कुर्वीत यो नरो भगवद्गृहे ॥ ३६.२९७ ॥
janiṣyati na sandehassaptajanmasu saukarīṃ . purīṣaṃ vātra kurvīta yo naro bhagavadgṛhe .. 36.297 ..
स याति नरकान्घोरान्पर्यायेणैकविंशतिं । ततो मुक्तस्तु पापात्मा विष्ठायां जायते कृमिः ॥ ३६.२९८ ॥
sa yāti narakānghorānparyāyeṇaikaviṃśatiṃ . tato muktastu pāpātmā viṣṭhāyāṃ jāyate kṛmiḥ .. 36.298 ..
समीपे मन्दिरस्यापि सकृन्मूत्रं करोति यः । स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतं ॥ ३६.२९९ ॥
samīpe mandirasyāpi sakṛnmūtraṃ karoti yaḥ . sa tiṣṭhedraurave ghore varṣāṇāmayutaṃ śataṃ .. 36.299 ..
ततोऽपि मनुजो मुक्तो ग्रामसूकरजातितां । ग्रामे जन्मशतं प्राप्य विष्ठाभूसूकरस्तथा ॥ ३६.३०० ॥
tato'pi manujo mukto grāmasūkarajātitāṃ . grāme janmaśataṃ prāpya viṣṭhābhūsūkarastathā .. 36.300 ..
यस्तु रेतोविसर्गं च कृत्वा कामादकामतः । अस्नातो देवतागारमियात्सद्यस्स नश्यति ॥ ३६.३०१ ॥
yastu retovisargaṃ ca kṛtvā kāmādakāmataḥ . asnāto devatāgāramiyātsadyassa naśyati .. 36.301 ..
यो यत्र देवतागेहे दन्तधावनमाचरेथ् । तथा निर्लेखयेज्जिह्वां स पापी नश्यति ध्रुवं ॥ ३६.३०२ ॥
yo yatra devatāgehe dantadhāvanamācareth . tathā nirlekhayejjihvāṃ sa pāpī naśyati dhruvaṃ .. 36.302 ..
तैलेनाभ्यक्तसर्वाङ्गः कषायोद्वर्तितस्तथा । यो नरःप्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.३०३ ॥
tailenābhyaktasarvāṅgaḥ kaṣāyodvartitastathā . yo naraḥpraviśedgehaṃ devasya paramātmanaḥ .. 36.303 ..
स याति गृहगोधात्वं नवजन्मानि पञ्च च । अनुगम्य यथा प्रेतं याति देवालयं तु यः ॥ ३६.३०४ ॥
sa yāti gṛhagodhātvaṃ navajanmāni pañca ca . anugamya yathā pretaṃ yāti devālayaṃ tu yaḥ .. 36.304 ..
आराधितुमथेच्छेद्वास गच्छेन्नरायुतं । बलिभुग्योनितां याति जन्मानि सुबहूनि वै ॥ ३६.३०५ ॥
ārādhitumathecchedvāsa gacchennarāyutaṃ . balibhugyonitāṃ yāti janmāni subahūni vai .. 36.305 ..
भरणं तु तथा कृत्वा मृतकस्य विशेषतः । मन्दिरं न प्रवेष्टव्यं प्रविष्टस्तु प्रणश्यति ॥ ३६.३०६ ॥
bharaṇaṃ tu tathā kṛtvā mṛtakasya viśeṣataḥ . mandiraṃ na praveṣṭavyaṃ praviṣṭastu praṇaśyati .. 36.306 ..
चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च । भविष्यति तथा भूयः पृथक्क्रूरोऽथ निष्ठुरः ॥ ३६.३०७ ॥
cāṇḍālīṃ yonimāśritya janmakṛnnava pañca ca . bhaviṣyati tathā bhūyaḥ pṛthakkrūro'tha niṣṭhuraḥ .. 36.307 ..
भुक्त्वाश्राद्धं परगृहे यायाद्विष्णुगृहन्तु यः । अर्चयेद्वा विशेषेण चटको जायते खलः ॥ ३६.३०८ ॥
bhuktvāśrāddhaṃ paragṛhe yāyādviṣṇugṛhantu yaḥ . arcayedvā viśeṣeṇa caṭako jāyate khalaḥ .. 36.308 ..
तत्र जन्मशतं प्राप्य ततो गोधावपुर्गतः । छायामाक्रम्य यो मोहाद्याति विष्णोस्तु मन्दिरं ॥ ३६.३०९ ॥
tatra janmaśataṃ prāpya tato godhāvapurgataḥ . chāyāmākramya yo mohādyāti viṣṇostu mandiraṃ .. 36.309 ..
प्रदक्षिणमकुर्वन्वा यस्तिष्ठेन्मतिपूर्वकं । सोऽप्युच्छिष्टोभवेन्मूढस्तस्य पापफलं त्विदं ॥ ३६.३१० ॥
pradakṣiṇamakurvanvā yastiṣṭhenmatipūrvakaṃ . so'pyucchiṣṭobhavenmūḍhastasya pāpaphalaṃ tvidaṃ .. 36.310 ..
तिष्सेत्स कानने शून्ये कण्टकैर्बहुभिर्वृतः । फलपुह्पादिहीनश्च श्मशाने? शून्यवृक्षतां ॥ ३६.३११ ॥
tiṣsetsa kānane śūnye kaṇṭakairbahubhirvṛtaḥ . phalapuhpādihīnaśca śmaśāne? śūnyavṛkṣatāṃ .. 36.311 ..
यज्ञ सूत्रमधःकृत्य कर्णे कृत्वा विशेषतः । अपसव्यं च धृत्वैव धृत्वा चैव निवीतवथ् ॥ ३६.३१२ ॥
yajña sūtramadhaḥkṛtya karṇe kṛtvā viśeṣataḥ . apasavyaṃ ca dhṛtvaiva dhṛtvā caiva nivītavath .. 36.312 ..
न गच्छेद्देवतागारं न वा मुक्तशिखो नरः । अकच्छः पुच्छकच्छश्च नग्नः कौपीनमातृधृक् ॥ ३६.३१३ ॥
na gaccheddevatāgāraṃ na vā muktaśikho naraḥ . akacchaḥ pucchakacchaśca nagnaḥ kaupīnamātṛdhṛk .. 36.313 ..
रिक्तहस्तश्शून्यफालस्त्यक्तसंव्यान एव च । खादन्नपि च तांबूलमुपहारादि भक्षयन् ॥ ३६.३१४ ॥
riktahastaśśūnyaphālastyaktasaṃvyāna eva ca . khādannapi ca tāṃbūlamupahārādi bhakṣayan .. 36.314 ..
देवालयं विशेन्नैव तस्य पापं महद्भवेथ् । दुराचारो हि पुरुषो नेहायुर्विन्दते महथ् ॥ ३६.३१५ ॥
devālayaṃ viśennaiva tasya pāpaṃ mahadbhaveth . durācāro hi puruṣo nehāyurvindate mahath .. 36.315 ..
त्रस्यन्ति चास्य भूतानि तथा परिभनन्तिच । तस्मादाचारवानेव कुर्याद्वैवैदिकीः क्रियाः ॥ ३६.३१६ ॥
trasyanti cāsya bhūtāni tathā paribhanantica . tasmādācāravāneva kuryādvaivaidikīḥ kriyāḥ .. 36.316 ..
अपि पापशरीरस्य आचारो हन्त्यलक्षणं । आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ॥ ३६.३१७ ॥
api pāpaśarīrasya ācāro hantyalakṣaṇaṃ . ācāralakṣaṇo dharmaḥ santaścāritralakṣaṇāḥ .. 36.317 ..
साधूनां च यथावृत्तमेतदाचारलक्षणं । अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणं ॥ ३६.३१८ ॥
sādhūnāṃ ca yathāvṛttametadācāralakṣaṇaṃ . apyadṛṣṭaṃ śravādeva puruṣaṃ dharmacāriṇaṃ .. 36.318 ..
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियं । ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ॥ ३६.३१९ ॥
svāni karmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyaṃ . ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ .. 36.319 ..
अधर्मज्ञा दुराचारास्ते भवन्तिगतायुषः । विशीला धर्ममर्यादा नित्यं संकीर्णमैथुनाः ॥ ३६.३२० ॥
adharmajñā durācārāste bhavantigatāyuṣaḥ . viśīlā dharmamaryādā nityaṃ saṃkīrṇamaithunāḥ .. 36.320 ..
अल्पायुषो भवन्तीहनरा निरयगामिनः । लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ॥ ३६.३२१ ॥
alpāyuṣo bhavantīhanarā nirayagāminaḥ . loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ .. 36.321 ..
नित्योच्छिष्टस्संकुसुको नेहयुर्विन्दते क्वचिथ् । विष्णुस्थानसमीपस्थान्विष्णुसेवार्थमागतान् ॥ ३६.३२२ ॥
nityocchiṣṭassaṃkusuko nehayurvindate kvacith . viṣṇusthānasamīpasthānviṣṇusevārthamāgatān .. 36.322 ..
श्वपचान्पतितान्वापि स्पृष्ट्वा न स्नानमाचरेथ् । उत्सवे वासुदेवस्य यःस्नाति स्पर्शशङ्कया ॥ ३६.३२३ ॥
śvapacānpatitānvāpi spṛṣṭvā na snānamācareth . utsave vāsudevasya yaḥsnāti sparśaśaṅkayā .. 36.323 ..
स्वर्गस्थाः पितरस्तस्य पतन्ति नरकेऽशुचौ । पिबेत्पादोदकं विष्णोर्गुरूणां वा विशेषतः ॥ ३६.३२४ ॥
svargasthāḥ pitarastasya patanti narake'śucau . pibetpādodakaṃ viṣṇorgurūṇāṃ vā viśeṣataḥ .. 36.324 ..
तत्र नाचमनं कुर्यात्तद्वत्सोमे द्विजोत्तमः । अन्यदेवार्थसन्दिष्ठैः पूजयेयुश्च ये हरिं ॥ ३६.३२५ ॥
tatra nācamanaṃ kuryāttadvatsome dvijottamaḥ . anyadevārthasandiṣṭhaiḥ pūjayeyuśca ye hariṃ .. 36.325 ..
सप्तजन्मानि पञ्चापि मुडूकत्वं व्रजन्ति ते । जन्मद्वयन्तु वै मूढाश्शूद्रतां यान्ति ते नराः ॥ ३६.३२६ ॥
saptajanmāni pañcāpi muḍūkatvaṃ vrajanti te . janmadvayantu vai mūḍhāśśūdratāṃ yānti te narāḥ .. 36.326 ..
कुसुमानां निवेद्याहं गन्धमाघ्राति यो नरः । स पूतिगन्धसंयुक्तः कुष्ठी चैव भवेद्ध्रुवं ॥ ३६.३२७ ॥
kusumānāṃ nivedyāhaṃ gandhamāghrāti yo naraḥ . sa pūtigandhasaṃyuktaḥ kuṣṭhī caiva bhaveddhruvaṃ .. 36.327 ..
तदन्ते त्रीणि जन्मानि तादृशानि भवन्त्युत । जातकं मृतकं वापि यस्याशौचं विधीयते ॥ ३६.३२८ ॥
tadante trīṇi janmāni tādṛśāni bhavantyuta . jātakaṃ mṛtakaṃ vāpi yasyāśaucaṃ vidhīyate .. 36.328 ..
अनर्हस्सर्वकर्मभ्यो स नेयाद्देवता गृहं । पुंप्रसूतौ स्मृतं पूर्वैस्सापिण्ड्यं सप्तपूरुषं ॥ ३६.३२९ ॥
anarhassarvakarmabhyo sa neyāddevatā gṛhaṃ . puṃprasūtau smṛtaṃ pūrvaissāpiṇḍyaṃ saptapūruṣaṃ .. 36.329 ..
कन्यकाजनने तद्वत्सापिण्डन्तु त्रिपूरुषं । व्रतिनां सत्रिणां तद्वद्यतीनां ब्रह्मचारिणां ॥ ३६.३३० ॥
kanyakājanane tadvatsāpiṇḍantu tripūruṣaṃ . vratināṃ satriṇāṃ tadvadyatīnāṃ brahmacāriṇāṃ .. 36.330 ..
नाशौचः कथ्यते प्राज्ञैर्यथा शातातपोऽब्रवीथ् । व्रतसंकल्पमात्रेण व्रतित्वं व्रतिनो भवेथ् ॥ ३६.३३१ ॥
nāśaucaḥ kathyate prājñairyathā śātātapo'bravīth . vratasaṃkalpamātreṇa vratitvaṃ vratino bhaveth .. 36.331 ..
वृतमात्रस्तथर्त्विक्च सत्रे सत्री प्रकीर्तितः । काषायदण्डमात्रेण यतित्वञ्च यतेर्मतं ॥ ३६.३३२ ॥
vṛtamātrastathartvikca satre satrī prakīrtitaḥ . kāṣāyadaṇḍamātreṇa yatitvañca yatermataṃ .. 36.332 ..
उपनीतो वसेन्मा वा तथा गुरुकुले क्रमाथ् । ब्रह्माध्येति नचाध्येति ब्रह्मचारी कुमारकः ॥ ३६.३३३ ॥
upanīto vasenmā vā tathā gurukule kramāth . brahmādhyeti nacādhyeti brahmacārī kumārakaḥ .. 36.333 ..
राजाज्ञाकारिणां तद्वद्राज्ञां च स्नातकस्य चर् । इदृशानामथान्येषामत्रास्तर्भावरिरितः ॥ ३६.३३४ ॥
rājājñākāriṇāṃ tadvadrājñāṃ ca snātakasya car . idṛśānāmathānyeṣāmatrāstarbhāvariritaḥ .. 36.334 ..
न कुर्याच्च नमस्कारं नैव प्रत्यभिवादयेथ् । नार्ऽपयेदुपहारांश्च तीर्थादीन्नापि सेवते ॥ ३६.३३५ ॥
na kuryācca namaskāraṃ naiva pratyabhivādayeth . nār'payedupahārāṃśca tīrthādīnnāpi sevate .. 36.335 ..
आशौची ब्राह्मणो यस्तु मोहाद्देवं प्रपूजयेथ् । सप्तजन्मसु दारिद्षमत्यन्तं समवाप्नुयाथ् ॥ ३६.३३६ ॥
āśaucī brāhmaṇo yastu mohāddevaṃ prapūjayeth . saptajanmasu dāridṣamatyantaṃ samavāpnuyāth .. 36.336 ..
श्वानयोनिशतं प्राप्य ततश्चण्डालतामियाथ् । योभुक्त्वा देवतागारे निक्षिप्योच्छिष्टमत्र तु ॥ ३६.३३७ ॥
śvānayoniśataṃ prāpya tataścaṇḍālatāmiyāth . yobhuktvā devatāgāre nikṣipyocchiṣṭamatra tu .. 36.337 ..
गच्छेदन्यत्र वा प्रास्यात्सोपि मूढो विपद्यते । यस्तु देवगृहद्वारे प्रसार्य चरणौ क्वचिथ् ॥ ३६.३३८ ॥
gacchedanyatra vā prāsyātsopi mūḍho vipadyate . yastu devagṛhadvāre prasārya caraṇau kvacith .. 36.338 ..
शेते निद्राति सम्मोहात्स याति नरकायुतं । पुनश्च जन्म संप्राप्य नीचयोनिष्वनेकशः ॥ ३६.३३९ ॥
śete nidrāti sammohātsa yāti narakāyutaṃ . punaśca janma saṃprāpya nīcayoniṣvanekaśaḥ .. 36.339 ..
यातनाश्चानुभूयेव दौर्ब्राह्मण्यं व्रजेत्तु सः । यस्तु देवगृहे मूढश्सयीत मदमोहितः ॥ ३६.३४० ॥
yātanāścānubhūyeva daurbrāhmaṇyaṃ vrajettu saḥ . yastu devagṛhe mūḍhaśsayīta madamohitaḥ .. 36.340 ..
तत्रोच्छिष्टनिधानेन भृशं निश्श्वासमारुतैः । दुर्गन्धी जायते मर्त्योजायते जन्मपञ्चकं ॥ ३६.३४१ ॥
tatrocchiṣṭanidhānena bhṛśaṃ niśśvāsamārutaiḥ . durgandhī jāyate martyojāyate janmapañcakaṃ .. 36.341 ..
ततस्सूकरतां प्राप्य जन्मानि नव पञ्च च । क्लिश्यते बहुभिः कष्टैर्न शयीत हरेर्गृहे ॥ ३६.३४२ ॥
tatassūkaratāṃ prāpya janmāni nava pañca ca . kliśyate bahubhiḥ kaṣṭairna śayīta harergṛhe .. 36.342 ..
उपधानादिसहितं य स्तल्पमधितिष्ठति । देवालये विशेषेण प्राकारे वापि मूढधीः ॥ ३६.३४३ ॥
upadhānādisahitaṃ ya stalpamadhitiṣṭhati . devālaye viśeṣeṇa prākāre vāpi mūḍhadhīḥ .. 36.343 ..
स भवेद्दुर्भगश्चैव सर्पयौनिषु जायते । सप्त पञ्च च जन्मानि ततो मानुषतां व्रजेथ् ॥ ३६.३४४ ॥
sa bhaveddurbhagaścaiva sarpayauniṣu jāyate . sapta pañca ca janmāni tato mānuṣatāṃ vrajeth .. 36.344 ..
शयीत देवतागेहे व्याधितो यस्तु दुर्मतिः । स भवेद्दुर्मना दीनो प्रेत्य चेह च जन्मनि ॥ ३६.३४५ ॥
śayīta devatāgehe vyādhito yastu durmatiḥ . sa bhaveddurmanā dīno pretya ceha ca janmani .. 36.345 ..
यःस्त्रिया सहितो मूढश्शयीत भगवद्गृहे । स भवेद्दुरितष्षण्डस्सप्तजन्मानि पञ्च च ॥ ३६.३४६ ॥
yaḥstriyā sahito mūḍhaśśayīta bhagavadgṛhe . sa bhavedduritaṣṣaṇḍassaptajanmāni pañca ca .. 36.346 ..
योगिभिर्योगसिद्ध्यर्थमभ्यस्यन्ते विशेषतः । आसनानि त्वसंख्यानि देवागारे न चाचरेथ् ॥ ३६.३४७ ॥
yogibhiryogasiddhyarthamabhyasyante viśeṣataḥ . āsanāni tvasaṃkhyāni devāgāre na cācareth .. 36.347 ..
मन्त्रयोगपरैस्तद्वल्लययोगपरायणैः । हठयोगिभिरेतानि क्रियन्ते राजयोगिभिः ॥ ३६.३४८ ॥
mantrayogaparaistadvallayayogaparāyaṇaiḥ . haṭhayogibhiretāni kriyante rājayogibhiḥ .. 36.348 ..
स्वस्तिकं सर्वतोभद्रं सिद्धं सिंहासनं तथा । सव्यं खूलं सुखं चैव गोमुखं गरुडं तथा ॥ ३६.३४९ ॥
svastikaṃ sarvatobhadraṃ siddhaṃ siṃhāsanaṃ tathā . savyaṃ khūlaṃ sukhaṃ caiva gomukhaṃ garuḍaṃ tathā .. 36.349 ..
मयूरं मत्स्यमत्स्येन्द्रं मण्डूकं मुद्गरं मृगं । कुञ्जरं कुक्कुटं नागं काष्ठं क्रैञ्चं च कूर्मकं ॥ ३६.३५० ॥
mayūraṃ matsyamatsyendraṃ maṇḍūkaṃ mudgaraṃ mṛgaṃ . kuñjaraṃ kukkuṭaṃ nāgaṃ kāṣṭhaṃ kraiñcaṃ ca kūrmakaṃ .. 36.350 ..
खड्गं च कामदहनं वैयाघ्रं वेणुकासनं । योन्यासनं वासकं च धीरं पद्मासनं तथा ॥ ३६.३५१ ॥
khaḍgaṃ ca kāmadahanaṃ vaiyāghraṃ veṇukāsanaṃ . yonyāsanaṃ vāsakaṃ ca dhīraṃ padmāsanaṃ tathā .. 36.351 ..
वाराहं चैव पर्यङ्कं पतगासनमेव च । त्रिपदं हस्तिकर्णं च हेममर्धासनं तथा ॥ ३६.३५२ ॥
vārāhaṃ caiva paryaṅkaṃ patagāsanameva ca . tripadaṃ hastikarṇaṃ ca hemamardhāsanaṃ tathā .. 36.352 ..
इत्यादीना मासना नामशीतिश्च तुरुत्तरा । अन्यानि शास्त्रसिद्धानि यानि सन्ति विशेषतः ॥ ३६.३५३ ॥
ityādīnā māsanā nāmaśītiśca turuttarā . anyāni śāstrasiddhāni yāni santi viśeṣataḥ .. 36.353 ..
तान्यास्थायि तु देवाग्रेनो पतिष्ठेत बुद्धिमान् । भुञ्जीयाद्देवतागारे यः पापस्स तु दुर्मनाः ॥ ३६.३५४ ॥
tānyāsthāyi tu devāgreno patiṣṭheta buddhimān . bhuñjīyāddevatāgāre yaḥ pāpassa tu durmanāḥ .. 36.354 ..
कुक्षिरोगार्दितो भूत्वा जन्मानि दश पञ्च च । ततस्सृगालतां प्राप्य पतेद्धि नरकेऽशुचौ ॥ ३६.३५५ ॥
kukṣirogārdito bhūtvā janmāni daśa pañca ca . tatassṛgālatāṃ prāpya pateddhi narake'śucau .. 36.355 ..
यो वा मूढमतिर्मोहात्कारयेद्द्विजभोजनं । देवागारे विशेषेण स भवेन्निन्दितो जनः ॥ ३६.३५६ ॥
yo vā mūḍhamatirmohātkārayeddvijabhojanaṃ . devāgāre viśeṣeṇa sa bhavennindito janaḥ .. 36.356 ..
गर्भागारे चान्तराले तथा चैवार्धमण्डपे । महामण्डपमध्ये च नान्नमद्याद्विशेषतः ॥ ३६.३५७ ॥
garbhāgāre cāntarāle tathā caivārdhamaṇḍape . mahāmaṇḍapamadhye ca nānnamadyādviśeṣataḥ .. 36.357 ..
अन्नं पात्रे विनिक्षिप्य पुटपत्रादिनिर्मिते । आपोशनं तु कृत्वैव यदद्याद्भोजनं तुतथ् ॥ ३६.३५८ ॥
annaṃ pātre vinikṣipya puṭapatrādinirmite . āpośanaṃ tu kṛtvaiva yadadyādbhojanaṃ tutath .. 36.358 ..
न देवताप्रसादस्य गृहीतस्याञ्जलौ तथा । न चैवापोशनं कुर्यात्कुर्याच्चेत्तदसम्मतं ॥ ३६.३५९ ॥
na devatāprasādasya gṛhītasyāñjalau tathā . na caivāpośanaṃ kuryātkuryāccettadasammataṃ .. 36.359 ..
यस्तु पानीयपात्राणि पीतान्यत्र तु विन्यसेथ् । स गच्छेन्नरकान्क्रूरान्यावन्त उदबिन्दवः ॥ ३६.३६० ॥
yastu pānīyapātrāṇi pītānyatra tu vinyaseth . sa gacchennarakānkrūrānyāvanta udabindavaḥ .. 36.360 ..
पात्रे तिष्ठन्ति शरदस्तावतीर्नात्र संशयः । निवेदितं तु देवस्य देवस्याग्रे विशेषतः ॥ ३६.३६१ ॥
pātre tiṣṭhanti śaradastāvatīrnātra saṃśayaḥ . niveditaṃ tu devasya devasyāgre viśeṣataḥ .. 36.361 ..
प्रदद्यात्तु क्रमेणैव वर्णाश्रमविधानतः । अश्नन्तिभक्तास्सर्वेऽपिगृहीत्वैवांजलौ पुनः ॥ ३६.३६२ ॥
pradadyāttu krameṇaiva varṇāśramavidhānataḥ . aśnantibhaktāssarve'pigṛhītvaivāṃjalau punaḥ .. 36.362 ..
ब्रह्मण्यदेवमुद्दिश्य पुरुषं ब्राह्मणप्रियं । नारायणमनाद्यन्तं विष्णुं सर्वेश्वरेश्वरं ॥ ३६.३६३ ॥
brahmaṇyadevamuddiśya puruṣaṃ brāhmaṇapriyaṃ . nārāyaṇamanādyantaṃ viṣṇuṃ sarveśvareśvaraṃ .. 36.363 ..
ब्राह्मणान्भोजयेद्यस्तु कर्मसाद्गुण्यसिद्धये । तथा निष्कृतिनिष्पत्त्यैशास्त्रोक्तेन विधानतः ॥ ३६.३६४ ॥
brāhmaṇānbhojayedyastu karmasādguṇyasiddhaye . tathā niṣkṛtiniṣpattyaiśāstroktena vidhānataḥ .. 36.364 ..
कारयेन्नोक्तदेशेषु कदापि द्विजभोजनं । यस्त्वन्नं दापयेद्विप्रो द्विजेभ्यो भक्तिसंयुतः ॥ ३६.३६५ ॥
kārayennoktadeśeṣu kadāpi dvijabhojanaṃ . yastvannaṃ dāpayedvipro dvijebhyo bhaktisaṃyutaḥ .. 36.365 ..
निवेदितं तु देवस्य संतुष्ट्यैस्वस्य तस्य च । तस्य तुष्यति देवेश आदाता तु विपद्यते ॥ ३६.३६६ ॥
niveditaṃ tu devasya saṃtuṣṭyaisvasya tasya ca . tasya tuṣyati deveśa ādātā tu vipadyate .. 36.366 ..
दातुस्तु सकलं पापं मनोवाक्कायकर्मभिः । बहुशस्संचितं पूर्वमादाता समवाप्नुयाथ् ॥ ३६.३६७ ॥
dātustu sakalaṃ pāpaṃ manovākkāyakarmabhiḥ . bahuśassaṃcitaṃ pūrvamādātā samavāpnuyāth .. 36.367 ..
प्रसादोऽपिहि देवस्य परपाकरुचिं नरं । न जातु पावयेन्नैव पावयेत्पावयेन्न तु ॥ ३६.३६८ ॥
prasādo'pihi devasya parapākaruciṃ naraṃ . na jātu pāvayennaiva pāvayetpāvayenna tu .. 36.368 ..
यदृच्छालाभसंतुष्टं यथा भक्तवरं तथा । महिमानं प्रसादस्य योऽवजानाति मूढधीः ॥ ३६.३६९ ॥
yadṛcchālābhasaṃtuṣṭaṃ yathā bhaktavaraṃ tathā . mahimānaṃ prasādasya yo'vajānāti mūḍhadhīḥ .. 36.369 ..
तेन भुक्तं भवेत्पापं दातुरेव न संशयः । अयुतं ब्राह्मणानान्तु तर्पयित्वातु यत्फलं ॥ ३६.३७० ॥
tena bhuktaṃ bhavetpāpaṃ dātureva na saṃśayaḥ . ayutaṃ brāhmaṇānāntu tarpayitvātu yatphalaṃ .. 36.370 ..
तत्फलं नश्यति क्षिप्रमुच्छिष्टस्य कणेन तु । अथान्नविक्रयेदोषः कथ्यते विधिवित्तमैः ॥ ३६.३७१ ॥
tatphalaṃ naśyati kṣipramucchiṣṭasya kaṇena tu . athānnavikrayedoṣaḥ kathyate vidhivittamaiḥ .. 36.371 ..
अन्नविक्रयिणः पापा व्रजन्ति यमयातनाः । प्रेत्य सृगालतां यान्ति नव जन्मानि पञ्च च ॥ ३६.३७२ ॥
annavikrayiṇaḥ pāpā vrajanti yamayātanāḥ . pretya sṛgālatāṃ yānti nava janmāni pañca ca .. 36.372 ..
यस्त्वन्नं भगवद्गेहे विक्रीणाति विशेषतः । चण्डालो जायते प्रेत्य क्षुधितश्च चरेन्मुहुः ॥ ३६.३७३ ॥
yastvannaṃ bhagavadgehe vikrīṇāti viśeṣataḥ . caṇḍālo jāyate pretya kṣudhitaśca carenmuhuḥ .. 36.373 ..
विक्रीणते तु ये विप्रा वाणिज्ये दत्तचक्षुषः । येऽप्यन्नमुपहारादि चेतरद्देवमन्दिरे ॥ ३६.३७४ ॥
vikrīṇate tu ye viprā vāṇijye dattacakṣuṣaḥ . ye'pyannamupahārādi cetaraddevamandire .. 36.374 ..
तेऽपि यान्ति महाघोरं नरकं भृशदारुणं । यत्र नैवभवेष्यन्ति पालीयायोदबिन्दवः ॥ ३६.३७५ ॥
te'pi yānti mahāghoraṃ narakaṃ bhṛśadāruṇaṃ . yatra naivabhaveṣyanti pālīyāyodabindavaḥ .. 36.375 ..
कणमन्नस्य वान स्यात्तप्यन्ते तत्र ते जनाः । ये गृहीत्वा तदन्नादि भुञ्जते क्षुधिता जनाः ॥ ३६.३७६ ॥
kaṇamannasya vāna syāttapyante tatra te janāḥ . ye gṛhītvā tadannādi bhuñjate kṣudhitā janāḥ .. 36.376 ..
उपकुर्वन्तिये वा तानुच्यन्तेऽभक्ष्यभोजनाः । अन्नं प्राणा मनुष्याणां सर्वमन्ने प्रतिष्ठितं ॥ ३६.३७७ ॥
upakurvantiye vā tānucyante'bhakṣyabhojanāḥ . annaṃ prāṇā manuṣyāṇāṃ sarvamanne pratiṣṭhitaṃ .. 36.377 ..
अन्नं ब्रह्मात्मकं विन्द्याद्विन्द्यादन्नमयीं तनुं । अन्नं विक्रीणते ये तु प्राणविक्रयिणः स्मृताः ॥ ३६.३७८ ॥
annaṃ brahmātmakaṃ vindyādvindyādannamayīṃ tanuṃ . annaṃ vikrīṇate ye tu prāṇavikrayiṇaḥ smṛtāḥ .. 36.378 ..
तस्मात्सर्वप्रयत्नेन त्यजेत्तत्क्रय विक्रयौ । न कुर्याद्देवता गेहेऽभ्युदयं श्राद्धभोजनं ॥ ३६.३७९ ॥
tasmātsarvaprayatnena tyajettatkraya vikrayau . na kuryāddevatā gehe'bhyudayaṃ śrāddhabhojanaṃ .. 36.379 ..
कुर्यान्न चापि श्राद्धादीन्विहायापि द्विजाशनं । तस्मात्सर्वप्रयत्नेन नाश्नीयाद्धरिमन्दिरे ॥ ३६.३८० ॥
kuryānna cāpi śrāddhādīnvihāyāpi dvijāśanaṃ . tasmātsarvaprayatnena nāśnīyāddharimandire .. 36.380 ..
मुधा संभाषते यस्तु प्रविश्य हरिमन्दिरं । स निधिं पुरतस्सिद्धं त्यक्त्वा भिक्षति काकिणीं ॥ ३६.३८१ ॥
mudhā saṃbhāṣate yastu praviśya harimandiraṃ . sa nidhiṃ puratassiddhaṃ tyaktvā bhikṣati kākiṇīṃ .. 36.381 ..
यस्तु संभाषते व्यर्थं देवालयमुपाश्रितः । सिद्धमन्नं परित्यज्य भिक्षामटति दुर्जनः ॥ ३६.३८२ ॥
yastu saṃbhāṣate vyarthaṃ devālayamupāśritaḥ . siddhamannaṃ parityajya bhikṣāmaṭati durjanaḥ .. 36.382 ..
यन्मुहूर्तं क्षणं वापि परमात्मान चिन्त्यते । सा हानिस्तन्ममहच्छिद्रं सा भ्रान्तिस्सा तु विक्रिया ॥ ३६.३८३ ॥
yanmuhūrtaṃ kṣaṇaṃ vāpi paramātmāna cintyate . sā hānistanmamahacchidraṃ sā bhrāntissā tu vikriyā .. 36.383 ..
दस्युभिर्मुषितेनेव दग्धेनेव दवाग्निना । व्याधिभिःपीडितेनेव चाकृष्टेनेव मृत्युना ॥ ३६.३८४ ॥
dasyubhirmuṣiteneva dagdheneva davāgninā . vyādhibhiḥpīḍiteneva cākṛṣṭeneva mṛtyunā .. 36.384 ..
भीतेनेवोत्तमर्णेन धर्षितेनेव राजभिः । मग्नेनेव महासिंधौ हतेनेव च वात्यया ॥ ३६.३८५ ॥
bhītenevottamarṇena dharṣiteneva rājabhiḥ . magneneva mahāsiṃdhau hateneva ca vātyayā .. 36.385 ..
संपिष्टेनेव पाषाणैराक्रन्देद्यस्स मुच्यते । सन्त्यनेका प्रदेशाश्च समयाश्च विशेषतः ॥ ३६.३८६ ॥
saṃpiṣṭeneva pāṣāṇairākrandedyassa mucyate . santyanekā pradeśāśca samayāśca viśeṣataḥ .. 36.386 ..
लोकयात्राविनिष्पत्त्यै देहयात्रोपयोगिनः । तस्माद्देवगृहं गत्वा नरो नान्यपरो भवेथ् ॥ ३६.३८७ ॥
lokayātrāviniṣpattyai dehayātropayoginaḥ . tasmāddevagṛhaṃ gatvā naro nānyaparo bhaveth .. 36.387 ..
यत्प्रसंगे हरेर्नाम तन्ममहत्त्वं च नाप्यते । स सर्वोऽपि मुधा प्रोक्तोमिथ्येत्येके वदन्तितं ॥ ३६.३८८ ॥
yatprasaṃge harernāma tanmamahattvaṃ ca nāpyate . sa sarvo'pi mudhā proktomithyetyeke vadantitaṃ .. 36.388 ..
न हि देवस्य पुरतः क्वचिदप्यनृतं वदेथ् । सत्यस्वरूपी भगवान्सत्यं तस्मैन गूहयेथ् ॥ ३६.३८९ ॥
na hi devasya purataḥ kvacidapyanṛtaṃ vadeth . satyasvarūpī bhagavānsatyaṃ tasmaina gūhayeth .. 36.389 ..
सत्यमेव परं ब्रह्म सत्यमेव परं तपः । सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतं ॥ ३६.३९० ॥
satyameva paraṃ brahma satyameva paraṃ tapaḥ . satyameva paro yajñassatyameva paraṃ śrutaṃ .. 36.390 ..
सत्यं देवेषु जागर्ति सत्यं धर्मतरोः फलं । तपोयज्ञश्च पुण्यं च देवर्षिपितृपूजनं ॥ ३६.३९१ ॥
satyaṃ deveṣu jāgarti satyaṃ dharmataroḥ phalaṃ . tapoyajñaśca puṇyaṃ ca devarṣipitṛpūjanaṃ .. 36.391 ..
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितं । सत्यं यज्ञन्तथा वेदास्सत्या देवी सरस्वती ॥ ३६.३९२ ॥
ādyo vidhiśca vidyā ca sarvaṃ satye pratiṣṭhitaṃ . satyaṃ yajñantathā vedāssatyā devī sarasvatī .. 36.392 ..
व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च । सत्येन वायुरावाति सत्येनार्ऽकः प्रकाशते ॥ ३६.३९३ ॥
vratacaryā tathā satyamoṅkārassatyameva ca . satyena vāyurāvāti satyenār'kaḥ prakāśate .. 36.393 ..
दहत्यग्निश्च सत्येन यायात्सत्येन सद्गतिं । पर्जन्यो धरणीभागे सत्येनापः प्रवर्षति ॥ ३६.३९४ ॥
dahatyagniśca satyena yāyātsatyena sadgatiṃ . parjanyo dharaṇībhāge satyenāpaḥ pravarṣati .. 36.394 ..
स्वाध्यायस्सर्ववेदानां सर्वतीर्थावगाहनं । सत्यं तु वदतो लोके तुलितं स्यान्न संशयः ॥ ३६.३९५ ॥
svādhyāyassarvavedānāṃ sarvatīrthāvagāhanaṃ . satyaṃ tu vadato loke tulitaṃ syānna saṃśayaḥ .. 36.395 ..
अश्वमेधसहस्रं च सत्यं च तुलया कृतं । अश्वमेधसहस्रात्तु भारस्सत्ये विशिष्यते ॥ ३६.३९६ ॥
aśvamedhasahasraṃ ca satyaṃ ca tulayā kṛtaṃ . aśvamedhasahasrāttu bhārassatye viśiṣyate .. 36.396 ..
सत्येन देवाः प्रीणन्ति पितरो ब्राह्मणास्तथा । सत्यमाहुःपरं धर्मं सत्यमाहुः परं पदं ॥ ३६.३९७ ॥
satyena devāḥ prīṇanti pitaro brāhmaṇāstathā . satyamāhuḥparaṃ dharmaṃ satyamāhuḥ paraṃ padaṃ .. 36.397 ..
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं न लोभयेथ् । ये सत्यनिरतास्सत्यशपथास्सत्यविक्रमाः ॥ ३६.३९८ ॥
satyamāhuḥ paraṃ brahma tasmātsatyaṃ na lobhayeth . ye satyaniratāssatyaśapathāssatyavikramāḥ .. 36.398 ..
महत्मानो मुनिश्रेष्ठास्ते परां सिद्धिमाप्नुवन् । दैवतैस्सह मोदन्ते स्वर्गे सत्यपरायणाः ॥ ३६.३९९ ॥
mahatmāno muniśreṣṭhāste parāṃ siddhimāpnuvan . daivataissaha modante svarge satyaparāyaṇāḥ .. 36.399 ..
अप्चरोगणसंकीर्णैर्विमानैस्संचरन्ति च । वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परं ॥ ३६.४०० ॥
apcarogaṇasaṃkīrṇairvimānaissaṃcaranti ca . vaktavyaṃ ca sadā satyaṃ na satyādvidyate paraṃ .. 36.400 ..
अगोधे विमले शुद्धे सत्यतीर्थे शुचिह्रदे । स्नातव्यं मनसा युक्तैस्तत्स्नानं परमं स्मृतं ॥ ३६.४०१ ॥
agodhe vimale śuddhe satyatīrthe śucihrade . snātavyaṃ manasā yuktaistatsnānaṃ paramaṃ smṛtaṃ .. 36.401 ..
देवार्थे वा परार्थे वा पुत्रार्थे वाऽऽत्मने तथा । येऽनृतं नाभिभाषन्ते ते स्वर्गं यान्तिमानवाः ॥ ३६.४०२ ॥
devārthe vā parārthe vā putrārthe vā''tmane tathā . ye'nṛtaṃ nābhibhāṣante te svargaṃ yāntimānavāḥ .. 36.402 ..
यस्सत्यवादी पुरुषो नानृतं परिभाषते । संप्राप्य विरजान्लोकानुषित्वा शाश्वतीस्समाः ॥ ३६.४०३ ॥
yassatyavādī puruṣo nānṛtaṃ paribhāṣate . saṃprāpya virajānlokānuṣitvā śāśvatīssamāḥ .. 36.403 ..
भगवद्भक्तिमुक्तानां जायते श्रीमतां कुले । साक्षिणस्सन्तिसर्वेते देवता भास्करादयः ॥ ३६.४०४ ॥
bhagavadbhaktimuktānāṃ jāyate śrīmatāṃ kule . sākṣiṇassantisarvete devatā bhāskarādayaḥ .. 36.404 ..
परीक्षन्ते च सर्वासु दशासु पुरुषं सदा । न वाच्यमनृतं तस्मात्प्राणैः कण्ठगतैरपि ॥ ३६.४०५ ॥
parīkṣante ca sarvāsu daśāsu puruṣaṃ sadā . na vācyamanṛtaṃ tasmātprāṇaiḥ kaṇṭhagatairapi .. 36.405 ..
येऽनृतं ब्रुवते मूढाश्शपथानि च कुर्वते । देवागारे विशेषेण ते प्रणश्यन्ति सान्वयं ॥ ३६.४०६ ॥
ye'nṛtaṃ bruvate mūḍhāśśapathāni ca kurvate . devāgāre viśeṣeṇa te praṇaśyanti sānvayaṃ .. 36.406 ..
पुनर्जन्मशतं यान्ति कीटडयोनिष्वनेकशः । गीतवादित्रनृत्तादीन्पुण्याख्यानकथाश्च ये ॥ ३६.४०७ ॥
punarjanmaśataṃ yānti kīṭaḍayoniṣvanekaśaḥ . gītavāditranṛttādīnpuṇyākhyānakathāśca ye .. 36.407 ..
लोपयन्त्यथ पारुष्यैर्मन्दिरे मधुविद्विषः । ते यान्ति नरकं पापा जायन्ते नीचयोनिषु ॥ ३६.४०८ ॥
lopayantyatha pāruṣyairmandire madhuvidviṣaḥ . te yānti narakaṃ pāpā jāyante nīcayoniṣu .. 36.408 ..
तथा तेऽपि दुरात्मानो गार्दभीं योनिमाप्नुयुः । तथान्ते क्रूरा नव जन्मानि पञ्च च ॥ ३६.४०९ ॥
tathā te'pi durātmāno gārdabhīṃ yonimāpnuyuḥ . tathānte krūrā nava janmāni pañca ca .. 36.409 ..
अनिबद्धप्रलापान्ये कुर्वते देवमन्दिरे । तेऽपि तित्तिरितां भूत्वा जायन्ते जन्मपञ्चकं ॥ ३६.४१० ॥
anibaddhapralāpānye kurvate devamandire . te'pi tittiritāṃ bhūtvā jāyante janmapañcakaṃ .. 36.410 ..
देवभाषां परित्यज्य देशभाषासु यो नरः । स्तुवीत देवतागेहे देवस्याग्रे विशेषतः ॥ ३६.४११ ॥
devabhāṣāṃ parityajya deśabhāṣāsu yo naraḥ . stuvīta devatāgehe devasyāgre viśeṣataḥ .. 36.411 ..
तस्य दोषोमहानाशु नैव पूजाफलं भवेथ् । असाराणि तु शास्त्राणि भूयांसि पृथिवीतले ॥ ३६.४१२ ॥
tasya doṣomahānāśu naiva pūjāphalaṃ bhaveth . asārāṇi tu śāstrāṇi bhūyāṃsi pṛthivītale .. 36.412 ..
यत्र देवस्य महात्म्यकथनं न प्रपञ्च्यते । तेषु शास्त्रेषु ये जाताश्शास्त्रार्थाश्च विशेषतः ॥ ३६.४१३ ॥
yatra devasya mahātmyakathanaṃ na prapañcyate . teṣu śāstreṣu ye jātāśśāstrārthāśca viśeṣataḥ .. 36.413 ..
वादाश्च प्रतिवादाश्च संस्कारास्सर्व एव हि । चित्रशिल्पा न संदेहो नरस्तेन न मुच्यते ॥ ३६.४१४ ॥
vādāśca prativādāśca saṃskārāssarva eva hi . citraśilpā na saṃdeho narastena na mucyate .. 36.414 ..
सा विद्या या हरिं स्तौति सा क्रिया यत्तदर्चनं । या न्या यदन्यदखिलं दुष्टोदर्का हि जीविका ॥ ३६.४१५ ॥
sā vidyā yā hariṃ stauti sā kriyā yattadarcanaṃ . yā nyā yadanyadakhilaṃ duṣṭodarkā hi jīvikā .. 36.415 ..
न हि देवगृहं गत्वा शास्त्रार्थैर्नी रसैर्नरः । मुहूर्तं क्षपयेत्कालं तद्देवस्य विमानना ॥ ३६.४१६ ॥
na hi devagṛhaṃ gatvā śāstrārthairnī rasairnaraḥ . muhūrtaṃ kṣapayetkālaṃ taddevasya vimānanā .. 36.416 ..
विशालं वाङ्मयं सर्वं सृष्ट्वा स्रष्टा हरिः प्रभुः । तदन्तस्संप्रविश्यैव वाच्यवाचकभेदतः ॥ ३६.४१७ ॥
viśālaṃ vāṅmayaṃ sarvaṃ sṛṣṭvā sraṣṭā hariḥ prabhuḥ . tadantassaṃpraviśyaiva vācyavācakabhedataḥ .. 36.417 ..
विज्ञानाय मनुष्याणां विज्ञानघनविग्रहः । सदोपकुरुते यस्मात्सर्वे भक्तवराः सदा ॥ ३६.४१८ ॥
vijñānāya manuṣyāṇāṃ vijñānaghanavigrahaḥ . sadopakurute yasmātsarve bhaktavarāḥ sadā .. 36.418 ..
सर्वा वाचो विमुच्यान्याश्चिन्तयानाश्च सादरं । तन्महत्त्वकथागन्धदरिद्रं वाचनं तथा ॥ ३६.४१९ ॥
sarvā vāco vimucyānyāścintayānāśca sādaraṃ . tanmahattvakathāgandhadaridraṃ vācanaṃ tathā .. 36.419 ..
पाठनं लेखनाद्यं च नैव कुर्याद्गृहे हरेः । स भवेदक्षरद्रोङी यस्तु कुर्याद्व्यतिक्रमं ॥ ३६.४२० ॥
pāṭhanaṃ lekhanādyaṃ ca naiva kuryādgṛhe hareḥ . sa bhavedakṣaradroṅī yastu kuryādvyatikramaṃ .. 36.420 ..
द्रुह्येत्स वाङ्मयायापि तस्माद्युक्ततरो भवेथ् । यस्तु देवगृहं गत्वा रोदिति प्रणयाद्यथा ॥ ३६.४२१ ॥
druhyetsa vāṅmayāyāpi tasmādyuktataro bhaveth . yastu devagṛhaṃ gatvā roditi praṇayādyathā .. 36.421 ..
दुःखितः स्तौति वा देवं तत्स्यान्मानसिकं मलं । निर्वाणपरमं स्थानं म्लानेन मनसा तु यः ॥ ३६.४२२ ॥
duḥkhitaḥ stauti vā devaṃ tatsyānmānasikaṃ malaṃ . nirvāṇaparamaṃ sthānaṃ mlānena manasā tu yaḥ .. 36.422 ..
सेवते स न जानाति तद्विष्णोः परमं पदं । नारी वा पुरुषो वापि गत्वा देवगृहं क्वचिथ् ॥ ३६.४२३ ॥
sevate sa na jānāti tadviṣṇoḥ paramaṃ padaṃ . nārī vā puruṣo vāpi gatvā devagṛhaṃ kvacith .. 36.423 ..
न रोदेत्पातयेन्नाश्रु नैवान्यं रोदयेदपि । यावन्त्यश्रूणि रुदतां पतेयुर्देवमन्दिरे ॥ ३६.४२४ ॥
na rodetpātayennāśru naivānyaṃ rodayedapi . yāvantyaśrūṇi rudatāṃ pateyurdevamandire .. 36.424 ..
तावन्त्यब्दसहस्राणि ते वसन्ति यमालये । अनुभूय पुनस्तत्र यातनास्तीव्रचोदनाः ॥ ३६.४२५ ॥
tāvantyabdasahasrāṇi te vasanti yamālaye . anubhūya punastatra yātanāstīvracodanāḥ .. 36.425 ..
प्राप्य तित्तिरितां कालं वसिष्यन्ति चिरं भुवि । नैवात्र हिंसां कुर्वीत प्राणिनां दुःखदां क्वचिथ् ॥ ३६.४२६ ॥
prāpya tittiritāṃ kālaṃ vasiṣyanti ciraṃ bhuvi . naivātra hiṃsāṃ kurvīta prāṇināṃ duḥkhadāṃ kvacith .. 36.426 ..
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियनिग्रहः । तपोऽथ गुरुशुश्रूषा धर्मद्वाराष्षडीरिताः ॥ ३६.४२७ ॥
ahiṃsā vaidikaṃ karma dhyānamindriyanigrahaḥ . tapo'tha guruśuśrūṣā dharmadvārāṣṣaḍīritāḥ .. 36.427 ..
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेथ् । त्रीदण्डं सर्वभूतेषु निधाय पुरुषश्शुचिः ॥ ३६.४२८ ॥
ahiṃsāpāśrayaṃ dharmaṃ dānto vidvānsamācareth . trīdaṇḍaṃ sarvabhūteṣu nidhāya puruṣaśśuciḥ .. 36.428 ..
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नु ते । अहिंसकानि भूतानि दण्डेन विनिहन्तियः ॥ ३६.४२९ ॥
kāmakrodhau ca saṃyamya tataḥ siddhimavāpnu te . ahiṃsakāni bhūtāni daṇḍena vinihantiyaḥ .. 36.429 ..
आत्मनस्सुखमन्विच्छन्स प्रेत्य न सुखी भवेथ् । आत्मोपमस्तु भूतेषु यो वैभवति पूरुषः ॥ ३६.४३० ॥
ātmanassukhamanvicchansa pretya na sukhī bhaveth . ātmopamastu bhūteṣu yo vaibhavati pūruṣaḥ .. 36.430 ..
त्यक्तदण्डो जितक्रोधस्स प्रेत्य सुखमेधते । सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ॥ ३६.४३१ ॥
tyaktadaṇḍo jitakrodhassa pretya sukhamedhate . sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ .. 36.431 ..
मुह्यन्ति मार्गे देवाश्च ह्यपदस्य पदैषिणः । न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ॥ ३६.४३२ ॥
muhyanti mārge devāśca hyapadasya padaiṣiṇaḥ . na tatparasya saṃdadhyātpratikūlaṃ yadātmanaḥ .. 36.432 ..
एष सांग्राहिको धर्मःकामादन्यः प्रवर्तते । प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ॥ ३६.४३३ ॥
eṣa sāṃgrāhiko dharmaḥkāmādanyaḥ pravartate . prakhyāpane ca dāne ca sukhaduḥkhe priyāpriye .. 36.433 ..
आत्मौवम्येन पुरुषः प्रमाणमधिगच्छति । ऋषयो ब्राह्मणा देवाः प्रशंसन्ति विशेषतः ॥ ३६.४३४ ॥
ātmauvamyena puruṣaḥ pramāṇamadhigacchati . ṛṣayo brāhmaṇā devāḥ praśaṃsanti viśeṣataḥ .. 36.434 ..
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्णनाथ् । कर्मणा न नरः कुर्वन्हिंसां जातु विचक्षणः, ॥ ३६.४३५ ॥
ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarṇanāth . karmaṇā na naraḥ kurvanhiṃsāṃ jātu vicakṣaṇaḥ, .. 36.435 ..
वाचा च मनसा चैव ततो दुःखात्प्रमुच्यते । चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ॥ ३६.४३६ ॥
vācā ca manasā caiva tato duḥkhātpramucyate . caturvidheyaṃ nirdiṣṭā hyahiṃsā brahmavādibhiḥ .. 36.436 ..
एकैकतोऽपि विभ्रष्टा न भवेन्नात्र संशयः । यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ॥ ३६.४३७ ॥
ekaikato'pi vibhraṣṭā na bhavennātra saṃśayaḥ . yathā sarvaścatuṣpādvai tribhiḥ pādairna tiṣṭhati .. 36.437 ..
तथैवेयं विशेषेण कारणैः प्रोच्यते त्रिभिः । यथा नागपदेऽन्यानि पदानि पदगामिनां ॥ ३६.४३८ ॥
tathaiveyaṃ viśeṣeṇa kāraṇaiḥ procyate tribhiḥ . yathā nāgapade'nyāni padāni padagāmināṃ .. 36.438 ..
सर्वाण्येवापिधीयन्ते पदजातानि कैञ्जरे । एवं लोकेष्वहिंसा तु निर्दिष्टाधर्मतः पुरा ॥ ३६.४३९ ॥
sarvāṇyevāpidhīyante padajātāni kaiñjare . evaṃ lokeṣvahiṃsā tu nirdiṣṭādharmataḥ purā .. 36.439 ..
न ह्यतस्सदृशं किञ्चिदिहलोके परत्र च । यत्सर्वेष्विह भूतेषु दयाहिंसात्मिका तु या ॥ ३६.४४० ॥
na hyatassadṛśaṃ kiñcidihaloke paratra ca . yatsarveṣviha bhūteṣu dayāhiṃsātmikā tu yā .. 36.440 ..
न भयं विद्यते जातु नरस्येह दयावतः । दयावतामिमे लोकाः परत्रापि तपस्विनां ॥ ३६.४४१ ॥
na bhayaṃ vidyate jātu narasyeha dayāvataḥ . dayāvatāmime lokāḥ paratrāpi tapasvināṃ .. 36.441 ..
अभयं सर्वभूतेभ्यो यो ददाति दयापरः । अभयं सर्वभूतानि ददतीति जगौ श्रुतिः ॥ ३६.४४२ ॥
abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ . abhayaṃ sarvabhūtāni dadatīti jagau śrutiḥ .. 36.442 ..
क्षतं च पतितं चैव स्खलितं क्लिन्नमाहतं । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ ३६.४४३ ॥
kṣataṃ ca patitaṃ caiva skhalitaṃ klinnamāhataṃ . sarvabhūtāni rakṣanti sameṣu viṣameṣu ca .. 36.443 ..
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥ ३६.४४४ ॥
nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ . mucyate bhayakāleṣu mokṣayedyo bhaye parān .. 36.444 ..
प्राणदानात्परं दानं न भूतं न भविष्यति । न ह्यात्मनः प्रियकरं किं चिदस्तीह निश्चितं ॥ ३६.४४५ ॥
prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati . na hyātmanaḥ priyakaraṃ kiṃ cidastīha niścitaṃ .. 36.445 ..
अनिष्टं सर्वभूतानां मरणं नाम कथ्यते । मृत्युकाले हि भूतानां सद्यो जायेत वेपथुः ॥ ३६.४४६ ॥
aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma kathyate . mṛtyukāle hi bhūtānāṃ sadyo jāyeta vepathuḥ .. 36.446 ..
व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे । जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ ३६.४४७ ॥
vyādhijanmajarāduḥkhairnityaṃ saṃsārasāgare . jantavaḥ parivartante maraṇādudvijanti ca .. 36.447 ..
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥ ३६.४४८ ॥
garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ . mūtrasvedapurīṣāṇāṃ paruṣairbhṛśadāruṇaiḥ .. 36.448 ..
जाताश्चाप्यवशास्तत्र छिद्यमानाः पुनः पुनः । हन्यमानाश्च दृश्यन्ते विवशा घातुका नराः ॥ ३६.४४९ ॥
jātāścāpyavaśāstatra chidyamānāḥ punaḥ punaḥ . hanyamānāśca dṛśyante vivaśā ghātukā narāḥ .. 36.449 ..
कुंभीपाकेच पच्यन्तेतां तां योनिमुपागताः । आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनः पुनः ॥ ३६.४५० ॥
kuṃbhīpākeca pacyantetāṃ tāṃ yonimupāgatāḥ . ākramya māryamāṇāśca trāsyantyanye punaḥ punaḥ .. 36.450 ..
नात्मनोऽस्ति प्रियतमः पृथिवीमनुसृत्य ह । तस्मात्राणेषु सर्वेषु दयावानात्मवान्भवेथ् ॥ ३६.४५१ ॥
nātmano'sti priyatamaḥ pṛthivīmanusṛtya ha . tasmātrāṇeṣu sarveṣu dayāvānātmavānbhaveth .. 36.451 ..
येन येन शरीरण यद्यत्कर्मकरोति यः । तेन तेन शरीरण तत्तत्फलमुपाश्नुते ॥ ३६.४५२ ॥
yena yena śarīraṇa yadyatkarmakaroti yaḥ . tena tena śarīraṇa tattatphalamupāśnute .. 36.452 ..
अहिंसा परमो धर्मस्तथाहिंसा परो दमः । अहिंसा परमं दानमहिंसा परमं तपः ॥ ३६.४५३ ॥
ahiṃsā paramo dharmastathāhiṃsā paro damaḥ . ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ .. 36.453 ..
अहिंसा परमो यज्ञस्तथाहिंसा परं फलं । अहिंसा परमं मित्रमहिंसा परमं सुखं ॥ ३६.४५४ ॥
ahiṃsā paramo yajñastathāhiṃsā paraṃ phalaṃ . ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukhaṃ .. 36.454 ..
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतं । सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३६.४५५ ॥
sarvayajñeṣu vā dānaṃ sarvatīrtheṣu vā plutaṃ . sarvadānaphalaṃ vāpi naitattulyamahiṃsayā .. 36.455 ..
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो जयते सदा । अहिंस्रस्सर्वभूतानां यथा माता यथा पिता ॥ ३६.४५६ ॥
ahiṃsrasya tapo'kṣayyamahiṃsro jayate sadā . ahiṃsrassarvabhūtānāṃ yathā mātā yathā pitā .. 36.456 ..
तस्मादहिंस्रस्सततमुपवास व्रतं चरेथ् । फलमङ्गिरसाप्रोक्तमुपवासस्य विस्तराथ् ॥ ३६.४५७ ॥
tasmādahiṃsrassatatamupavāsa vrataṃ careth . phalamaṅgirasāproktamupavāsasya vistarāth .. 36.457 ..
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । धान्यान्यपि न हिंसेत यस्स भूयादहिंसकः ॥ ३६.४५८ ॥
trirātraṃ pañcarātraṃ vā saptarātramathāpi vā . dhānyānyapi na hiṃseta yassa bhūyādahiṃsakaḥ .. 36.458 ..
नाश्नाति यावतो जीवस्तावत्पुण्येन यज्यते । आहारस्य वियोगेन शरीरं परितप्यते ॥ ३६.४५९ ॥
nāśnāti yāvato jīvastāvatpuṇyena yajyate . āhārasya viyogena śarīraṃ paritapyate .. 36.459 ..
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु । तिष्ठन्ति स्ववशे तस्य नृपाणामिव किङ्कराः ॥ ३६.४६० ॥
tapyamāne śarīre tu śarīre cendriyāṇi tu . tiṣṭhanti svavaśe tasya nṛpāṇāmiva kiṅkarāḥ .. 36.460 ..
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः । इन्द्रियाणां निरोधेन दानेन च दमेन च ॥ ३६.४६१ ॥
niruṇaddhīndriyāṇyeva sa sukhī sa vicakṣaṇaḥ . indriyāṇāṃ nirodhena dānena ca damena ca .. 36.461 ..
नरस्सर्वमवाप्नोति मनसा यद्यदिच्छति । एवं मूलमहिंसाया उपवासः प्रकीर्तितः ॥ ३६.४६२ ॥
narassarvamavāpnoti manasā yadyadicchati . evaṃ mūlamahiṃsāyā upavāsaḥ prakīrtitaḥ .. 36.462 ..
कामान्यान्यान्नरो भक्त्या मनसेच्छति माधवाथ् । व्रतोपवासनात्प्रीतस्तान्प्रयच्छत्यसौ हरिः ॥ ३६.४६३ ॥
kāmānyānyānnaro bhaktyā manasecchati mādhavāth . vratopavāsanātprītastānprayacchatyasau hariḥ .. 36.463 ..
मासे मासे तथैकस्मिन्नेकस्मिन्नियतं चरेथ् ॥ ३६.४६४ ॥
māse māse tathaikasminnekasminniyataṃ careth .. 36.464 ..
उपवासव्रतमिदं तस्यानन्तं फलं भवेथ् । एकादश्यां निराहारस्संपूज्य हरिमव्ययं ॥ ३६.४६५ ॥
upavāsavratamidaṃ tasyānantaṃ phalaṃ bhaveth . ekādaśyāṃ nirāhārassaṃpūjya harimavyayaṃ .. 36.465 ..
तत्पादसलिलं तद्वत्तुलसीं च तदर्पितामा । पीत्वा च भक्षयित्वा च उपवासव्रतं चरेथ् ॥ ३६.४६६ ॥
tatpādasalilaṃ tadvattulasīṃ ca tadarpitāmā . pītvā ca bhakṣayitvā ca upavāsavrataṃ careth .. 36.466 ..
उपवासदिने यस्तु तीर्धं श्रीतुलसीयुतं । न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेथ् ॥ ३६.४६७ ॥
upavāsadine yastu tīrdhaṃ śrītulasīyutaṃ . na prāśnīyādvimūḍhātmā rauravaṃ narakaṃ vrajeth .. 36.467 ..
न हि देवगृहं गत्वा विवदेत नरः क्वचिथ् । न तत्स्थानं विवादस्य तस्मात्तं दूरत स्त्यजेथ् ॥ ३६.४६८ ॥
na hi devagṛhaṃ gatvā vivadeta naraḥ kvacith . na tatsthānaṃ vivādasya tasmāttaṃ dūrata styajeth .. 36.468 ..
मनोऽनवस्थितं यस्य स नालं पूजितं हरिं । यस्यैव निर्मलं चित्तं सोर्ऽहस्सर्वेषु कर्मसु ॥ ३६.४६९ ॥
mano'navasthitaṃ yasya sa nālaṃ pūjitaṃ hariṃ . yasyaiva nirmalaṃ cittaṃ sor'hassarveṣu karmasu .. 36.469 ..
रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितः कायः केशवाराधने त्रयं ॥ ३६.४७० ॥
rāgādyapetaṃ hṛdayaṃ vāgaduṣṭānṛtādinā . hiṃsādirahitaḥ kāyaḥ keśavārādhane trayaṃ .. 36.470 ..
रागादिदूषिते चित्तं नास्पदं कुरुते हरिः । न बध्नाति पदं हंसः कदाचित्कर्दमांभसि ॥ ३६.४७१ ॥
rāgādidūṣite cittaṃ nāspadaṃ kurute hariḥ . na badhnāti padaṃ haṃsaḥ kadācitkardamāṃbhasi .. 36.471 ..
न योग्या माधवं स्तोतुं वाग्दुष्टा चानृतादिना । तमसो नाशनायालं मेघच्छन्नोन चन्द्रयाः ॥ ३६.४७२ ॥
na yogyā mādhavaṃ stotuṃ vāgduṣṭā cānṛtādinā . tamaso nāśanāyālaṃ meghacchannona candrayāḥ .. 36.472 ..
हिंसादिदूषितः कायः प्रभवेन्नार्चने हरेः । जनचित्तप्रसादाय यथा काशस्तमोवृतः ॥ ३६.४७३ ॥
hiṃsādidūṣitaḥ kāyaḥ prabhavennārcane hareḥ . janacittaprasādāya yathā kāśastamovṛtaḥ .. 36.473 ..
मनोदोषविहीनानां न दोषस्स्यात्कथं च न । अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा ॥ ३६.४७४ ॥
manodoṣavihīnānāṃ na doṣassyātkathaṃ ca na . anyathāliṅgyate kāntā snehena duhitānyathā .. 36.474 ..
यतेश्च कामुकानां च योषिद्रूबेऽन्यथा मतिः । अशिक्षयैव मनसः प्रायो लोकश्च वञ्च्यते ॥ ३६.४७५ ॥
yateśca kāmukānāṃ ca yoṣidrūbe'nyathā matiḥ . aśikṣayaiva manasaḥ prāyo lokaśca vañcyate .. 36.475 ..
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा । विशुद्धैः करणैस्तस्माद्व्रजेद्देवगृहं नरः ॥ ३६.४७६ ॥
lāletyudvijate loko vaktrāsava iti spṛhā . viśuddhaiḥ karaṇaistasmādvrajeddevagṛhaṃ naraḥ .. 36.476 ..
विवादः क्रोधजो यस्मात्तस्मात्तं परिवर्जयेथ् । क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ॥ ३६.४७७ ॥
vivādaḥ krodhajo yasmāttasmāttaṃ parivarjayeth . kruddhaḥ pāpaṃ na kuryātkaḥ kruddho hanyādgurūnapi .. 36.477 ..
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेथ् । साधुसज्जनसन्तापः साधूनां च विमानना ॥ ३६.४७८ ॥
kruddhaḥ paruṣayā vācā narassādhūnadhikṣipeth . sādhusajjanasantāpaḥ sādhūnāṃ ca vimānanā .. 36.478 ..
दहत्यासप्तमं तस्य कुलं नात्र विचारणा । वाच्यावाच्यं प्रकुपितो न विचानाति कर्हि चिथ् ॥ ३६.४७९ ॥
dahatyāsaptamaṃ tasya kulaṃ nātra vicāraṇā . vācyāvācyaṃ prakupito na vicānāti karhi cith .. 36.479 ..
नाकार्यमस्ते क्रुद्धस्य नावाच्यं विद्यते क्वचिथ् । यस्समुत्पतितं क्रोधं क्षमया तु निरस्यति ॥ ३६.४८० ॥
nākāryamaste kruddhasya nāvācyaṃ vidyate kvacith . yassamutpatitaṃ krodhaṃ kṣamayā tu nirasyati .. 36.480 ..
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते । ते मान्याःपुरुषश्रेष्ठाः क्षमया क्रोधमुद्धितं ॥ ३६.४८१ ॥
yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate . te mānyāḥpuruṣaśreṣṭhāḥ kṣamayā krodhamuddhitaṃ .. 36.481 ..
निर्वापयन्ते ये नित्यं दीप्तमग्निमिवांभसा । परापवादं न ब्रूयान्नाप्रियं च कदा चन ॥ ३६.४८२ ॥
nirvāpayante ye nityaṃ dīptamagnimivāṃbhasā . parāpavādaṃ na brūyānnāpriyaṃ ca kadā cana .. 36.482 ..
न मन्युः कश्चिदुत्पाद्यो महतां देवसन्निधौ । स्वयं दत्तावधानस्तु देवकार्ये विशेषतः ॥ ३६.४८३ ॥
na manyuḥ kaścidutpādyo mahatāṃ devasannidhau . svayaṃ dattāvadhānastu devakārye viśeṣataḥ .. 36.483 ..
मन्येत भगवत्सर्गे स्वात्मानं चाप्यकिञ्चनं । स एव भगवान्देवस्सर्वज्ञः सर्वशक्तियुक् ॥ ३६.४८४ ॥
manyeta bhagavatsarge svātmānaṃ cāpyakiñcanaṃ . sa eva bhagavāndevassarvajñaḥ sarvaśaktiyuk .. 36.484 ..
सर्वेशस्सर्ववित्सर्वोनिग्रहानुग्रहे रतः । तस्मान्नान्यस्य जात्वस्ति शक्तिः क्रोधप्रसादयोः ॥ ३६.४८५ ॥
sarveśassarvavitsarvonigrahānugrahe rataḥ . tasmānnānyasya jātvasti śaktiḥ krodhaprasādayoḥ .. 36.485 ..
इति संचिन्त्य भूयोऽपि सर्वेष्वपि च जन्तुषु । भगवत्सन्निधौ स्थित्वा आनृशंस्यं प्रयोजयेथ् ॥ ३६.४८६ ॥
iti saṃcintya bhūyo'pi sarveṣvapi ca jantuṣu . bhagavatsannidhau sthitvā ānṛśaṃsyaṃ prayojayeth .. 36.486 ..
यद्यद्भावि भवद्भूतं विद्यात्तत्तस्य चेष्ठितं । यद्यहङ्कारमाश्रित्य स्वातन्त्षमदमोहितः ॥ ३६.४८७ ॥
yadyadbhāvi bhavadbhūtaṃ vidyāttattasya ceṣṭhitaṃ . yadyahaṅkāramāśritya svātantṣamadamohitaḥ .. 36.487 ..
निग्रहेऽनुग्रहे वापि शक्तिं स्वस्यावबोधयेथ् । स याति नरकं घोरं न दैवं तस्य मृष्यति ॥ ३६.४८८ ॥
nigrahe'nugrahe vāpi śaktiṃ svasyāvabodhayeth . sa yāti narakaṃ ghoraṃ na daivaṃ tasya mṛṣyati .. 36.488 ..
तथा स्त्रीणां विशेषण त्याज्या स्यादतिसंगतिः । देवतामन्दिरं प्राप्य कालेष्वन्येषु वा तथा ॥ ३६.४८९ ॥
tathā strīṇāṃ viśeṣaṇa tyājyā syādatisaṃgatiḥ . devatāmandiraṃ prāpya kāleṣvanyeṣu vā tathā .. 36.489 ..
आयुर्यशस्तपोहानिः पुंसां स्त्रीष्वतिसंगिनां । पुरुषेष्वतिसक्तानां तुल्या सा योषितामपि ॥ ३६.४९० ॥
āyuryaśastapohāniḥ puṃsāṃ strīṣvatisaṃgināṃ . puruṣeṣvatisaktānāṃ tulyā sā yoṣitāmapi .. 36.490 ..
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु स तिष्ठन्ति स दोषः स्त्रीषु गर्हितः ॥ ३६.४९१ ॥
kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ . maryādāsu sa tiṣṭhanti sa doṣaḥ strīṣu garhitaḥ .. 36.491 ..
न स्त्रीभ्यः परमन्यद्वै पापीयस्तरमस्ति वै । स्त्रियो हि मूलं दोषाणां सर्वेषां नात्र संशयः ॥ ३६.४९२ ॥
na strībhyaḥ paramanyadvai pāpīyastaramasti vai . striyo hi mūlaṃ doṣāṇāṃ sarveṣāṃ nātra saṃśayaḥ .. 36.492 ..
समाज्ञातानृद्धिमतः प्रतिरूपान्व शेस्थितान् । पतीनन्तरमासाद्य नालं नार्यः परीक्षितुं ॥ ३६.४९३ ॥
samājñātānṛddhimataḥ pratirūpānva śesthitān . patīnantaramāsādya nālaṃ nāryaḥ parīkṣituṃ .. 36.493 ..
असद्धर्मस्त्वयं स्त्रीणां प्रायेण हि भवेद्भुवि । पापीयसो नरान्यद्वै त्यक्तलज्जा भजन्तिताः ॥ ३६.४९४ ॥
asaddharmastvayaṃ strīṇāṃ prāyeṇa hi bhavedbhuvi . pāpīyaso narānyadvai tyaktalajjā bhajantitāḥ .. 36.494 ..
स्त्रीयं हि यः प्रार्थयते सन्निकर्षं च गच्छतिर् । इषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ ३६.४९५ ॥
strīyaṃ hi yaḥ prārthayate sannikarṣaṃ ca gacchatir . iṣacca kurute sevāṃ tamevecchanti yoṣitaḥ .. 36.495 ..
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रीयस्तिष्ठन्ति भर्तृषु ॥ ३६.४९६ ॥
anarthitvānmanuṣyāṇāṃ bhayātparijanasya ca . maryādāyāmamaryādāḥ strīyastiṣṭhanti bhartṛṣu .. 36.496 ..
नासां कश्चिदगम्योऽस्तिनासां वयसि संस्थितिः । रूपवन्तं विरूपं वा पुमानित्येव भुञ्जते ॥ ३६.४९७ ॥
nāsāṃ kaścidagamyo'stināsāṃ vayasi saṃsthitiḥ . rūpavantaṃ virūpaṃ vā pumānityeva bhuñjate .. 36.497 ..
न भयान्नाप्यनुक्रोश्नान्नार्ऽथहेतोः कथं च न । न ज्ञातिकुलसंबन्धात्त्स्रियस्तिष्ठन्ति भर्तृषु ॥ ३६.४९८ ॥
na bhayānnāpyanukrośnānnār'thahetoḥ kathaṃ ca na . na jñātikulasaṃbandhāttsriyastiṣṭhanti bhartṛṣu .. 36.498 ..
यौवने वर्तमानानां मृष्टाभरणवाससां । नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रीयः ॥ ३६.४९९ ॥
yauvane vartamānānāṃ mṛṣṭābharaṇavāsasāṃ . nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastrīyaḥ .. 36.499 ..
याश्च शस्वद्बहुमता रक्ष्यन्ते दयिताःस्त्रीयः । अपि ताः संप्रसज्जन्ते कुब्जान्धजूवामनैः ॥ ३६.५०० ॥
yāśca śasvadbahumatā rakṣyante dayitāḥstrīyaḥ . api tāḥ saṃprasajjante kubjāndhajūvāmanaiḥ .. 36.500 ..
पङ्गुष्वन्येषु कुष्ठेषु ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्छिदिहोद्यते ॥ ३६.५०१ ॥
paṅguṣvanyeṣu kuṣṭheṣu ye cānye kutsitā narāḥ . strīṇāmagamyo loke'sminnāsti kaśchidihodyate .. 36.501 ..
यदि पुंसां गतिस्तत्र कथं चिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्तेन हि तिष्ठन्ति भर्तृषु ॥ ३६.५०२ ॥
yadi puṃsāṃ gatistatra kathaṃ cinnopapadyate . apyanyonyaṃ pravartantena hi tiṣṭhanti bhartṛṣu .. 36.502 ..
दुष्ठाचाराः पापरता असत्या मायया वृताः । अदृष्टबुद्धिबहुलाः प्रायेणेत्यवधार्यते ॥ ३६.५०३ ॥
duṣṭhācārāḥ pāparatā asatyā māyayā vṛtāḥ . adṛṣṭabuddhibahulāḥ prāyeṇetyavadhāryate .. 36.503 ..
अलाभात्पुरुषाणां हि भयात्परिजनस्य च । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ ३६.५०४ ॥
alābhātpuruṣāṇāṃ hi bhayātparijanasya ca . vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ .. 36.504 ..
चलस्वभावा दुस्सेव्या दुर्ग्राह्या भावतस्तथा । प्राजस्य पुरुषस्येव यथा भावास्तथा स्त्रीयः ॥ ३६.५०५ ॥
calasvabhāvā dussevyā durgrāhyā bhāvatastathā . prājasya puruṣasyeva yathā bhāvāstathā strīyaḥ .. 36.505 ..
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ॥ ३६.५०६ ॥
nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ . nāntakassarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ .. 36.506 ..
रहस्यमिदमन्यच्च विज्ञेयं सर्वयोषितां । दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ ३६.५०७ ॥
rahasyamidamanyacca vijñeyaṃ sarvayoṣitāṃ . dṛṣṭvaiva puruṣaṃ hyanyaṃ yoniḥ praklidyate striyāḥ .. 36.507 ..
कामानामपि दातारं कर्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥ ३६.५०८ ॥
kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ . rakṣitāraṃ na mṛṣyanti svabhartāramasatstriyaḥ .. 36.508 ..
न कामभोगान्विपुलान्नालङ्कारार्थ संचयान् । तथैव बहुमन्यन्ते यथा रत्यामनुग्रहं ॥ ३६.५०९ ॥
na kāmabhogānvipulānnālaṅkārārtha saṃcayān . tathaiva bahumanyante yathā ratyāmanugrahaṃ .. 36.509 ..
अन्तकः शमनो मृत्युः पातालं बडबामुखं । क्षुरधारा विषः सर्पो वह्निरित्येकतः स्त्रियः ॥ ३६.५१० ॥
antakaḥ śamano mṛtyuḥ pātālaṃ baḍabāmukhaṃ . kṣuradhārā viṣaḥ sarpo vahnirityekataḥ striyaḥ .. 36.510 ..
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ ३६.५११ ॥
etā hi svīyamāyābhirvañcayantīha mānavān . na cāsāṃ mucyate kaścitpuruṣo hastamāgataḥ .. 36.511 ..
गावो नवतृणानीव गृह्णन्त्येता नवं नवं । शंबरस्य च या माया या माया नमुचेरपि ॥ ३६.५१२ ॥
gāvo navatṛṇānīva gṛhṇantyetā navaṃ navaṃ . śaṃbarasya ca yā māyā yā māyā namucerapi .. 36.512 ..
बलेः कुंभीनसेश्चैव तास्सर्वायोषितो विदुः । हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ॥ ३६.५१३ ॥
baleḥ kuṃbhīnaseścaiva tāssarvāyoṣito viduḥ . hasantaṃ prahasantyetā rudantaṃ prarudanti ca .. 36.513 ..
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः । यदि जिह्मा सहस्रं स्याज्जीवेच्च शरदां शतं ॥ ३६.५१४ ॥
apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ . yadi jihmā sahasraṃ syājjīvecca śaradāṃ śataṃ .. 36.514 ..
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेथ् । उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥ ३६.५१५ ॥
ananyakarmā strīdoṣānanuktvā nidhanaṃ vrajeth . uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ .. 36.515 ..
स्त्रीबुद्ध्या न विशिष्येत सुरक्ष्या न भवन्तिताः । अनृतं सत्यमित्याहुस्सत्यं चापि तथानृतं ॥ ३६.५१६ ॥
strībuddhyā na viśiṣyeta surakṣyā na bhavantitāḥ . anṛtaṃ satyamityāhussatyaṃ cāpi tathānṛtaṃ .. 36.516 ..
इति यास्ताः कथं रक्ष्याः पुरुषैर्दुर्भराः स्त्रियः । संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ॥ ३६.५१७ ॥
iti yāstāḥ kathaṃ rakṣyāḥ puruṣairdurbharāḥ striyaḥ . saṃpūjyamānāḥ puruṣairvikurvanti mano nṛṣu .. 36.517 ..
अपास्ताश्च तथा सद्यो विकुर्वन्ति मनः स्त्रियः । न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ॥ ३६.५१८ ॥
apāstāśca tathā sadyo vikurvanti manaḥ striyaḥ . na ca strīṇāṃ kriyāḥ kāściditi dharmo vyavasthitaḥ .. 36.518 ..
निरिन्द्रिया ह्यशास्त्राश्च स्त्रीयोऽनृतमिति श्रुतिः । शय्यासनमलङ्कारमन्न पानमनार्यतां ॥ ३६.५१९ ॥
nirindriyā hyaśāstrāśca strīyo'nṛtamiti śrutiḥ . śayyāsanamalaṅkāramanna pānamanāryatāṃ .. 36.519 ..
दुर्वागर्भवं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः । न तासां रक्षणं शक्यं कर्तुं पुंसां कथं चन ॥ ३६.५२० ॥
durvāgarbhavaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ . na tāsāṃ rakṣaṇaṃ śakyaṃ kartuṃ puṃsāṃ kathaṃ cana .. 36.520 ..
अपि विश्वकृता चैव कुतस्तु पुरुषैरिह । वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ॥ ३६.५२१ ॥
api viśvakṛtā caiva kutastu puruṣairiha . vācā ca vadhabandhairvā kleśairvā vividhaistathā .. 36.521 ..
न शक्या रक्षितां नार्यस्ता हि नित्यमसंयताः । अविद्वांसमलंलोके विद्वांसमपि वा पुनः ॥ ३६.५२२ ॥
na śakyā rakṣitāṃ nāryastā hi nityamasaṃyatāḥ . avidvāṃsamalaṃloke vidvāṃsamapi vā punaḥ .. 36.522 ..
प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगं । नातः परं हि नारीणां विद्यते च कदा चन ॥ ३६.५२३ ॥
pramadāhyutpathaṃ netuṃ kāmakrodhavaśānugaṃ . nātaḥ paraṃ hi nārīṇāṃ vidyate ca kadā cana .. 36.523 ..
यथा पुरुष संसर्गः परमेतत्फलं विदुः । आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ॥ ३६.५२४ ॥
yathā puruṣa saṃsargaḥ parametatphalaṃ viduḥ . ātmacchandena vartante nāryo manmathacoditāḥ .. 36.524 ..
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः । नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशान्तथा ॥ ३६.५२५ ॥
na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ . nānilo'gnirna varuṇo na cānye tridaśāntathā .. 36.525 ..
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः । सहस्रेकिल नारीणां प्राप्येतैका कदा चन ॥ ३६.५२६ ॥
priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ . sahasrekila nārīṇāṃ prāpyetaikā kadā cana .. 36.526 ..
तथा शतसहस्रेषु यदि काचित्पतिव्रता । नैता जानन्ति पितरं न कुलं न च मातरं ॥ ३६.५२७ ॥
tathā śatasahasreṣu yadi kācitpativratā . naitā jānanti pitaraṃ na kulaṃ na ca mātaraṃ .. 36.527 ..
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् । लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ॥ ३६.५२८ ॥
na bhrātṝnna ca bhartāraṃ na ca putrānna devarān . līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ .. 36.528 ..
स्त्रीष्वायाससमेतस्य ये पुंसश्शक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥ ३६.५२९ ॥
strīṣvāyāsasametasya ye puṃsaśśakrabindavaḥ . na te sukhāya mantavyāḥ svedajā iva bindavaḥ .. 36.529 ..
कृमिभिस्तुद्यमानस्य कुष्ठिनः पामनस्य वा । कण्डूयनाग्नितापाभ्यां यत्सुखं स्त्रीषु तद्विदुः ॥ ३६.५३० ॥
kṛmibhistudyamānasya kuṣṭhinaḥ pāmanasya vā . kaṇḍūyanāgnitāpābhyāṃ yatsukhaṃ strīṣu tadviduḥ .. 36.530 ..
यादृशं विद्यते सौख्यं कण्डूपूयविनिर्गमे । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३१ ॥
yādṛśaṃ vidyate saukhyaṃ kaṇḍūpūyavinirgame . tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate .. 36.531 ..
ग्रन्थेस्तु वेदना यद्वत्स्फुटितस्य निवर्तने । तद्वत्स्त्रीष्वपि विज्ञेयं न सौख्यं परमार्थतः ॥ ३६.५३२ ॥
granthestu vedanā yadvatsphuṭitasya nivartane . tadvatstrīṣvapi vijñeyaṃ na saukhyaṃ paramārthataḥ .. 36.532 ..
वर्चोमूत्रविसर्गात्तु सुखं भवति यादृशं । तादृशं स्त्रीषु विज्ञेयं नाधिकं तासु विद्यते ॥ ३६.५३३ ॥
varcomūtravisargāttu sukhaṃ bhavati yādṛśaṃ . tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate .. 36.533 ..
न चाणुमात्रमप्येवे सुखमस्ति विचारतः । तथा देवोत्सवादीनां सेवा तासां निषिध्यते ॥ ३६.५३४ ॥
na cāṇumātramapyeve sukhamasti vicārataḥ . tathā devotsavādīnāṃ sevā tāsāṃ niṣidhyate .. 36.534 ..
न हि स्वतन्त्रतो योषिज्जातु गच्छेत्स्थलान्तरं । न हि निर्मिमते वृद्धा लीलया देवमन्दिरान् ॥ ३६.५३५ ॥
na hi svatantrato yoṣijjātu gacchetsthalāntaraṃ . na hi nirmimate vṛddhā līlayā devamandirān .. 36.535 ..
कामुकानां विलासार्थं तस्माद्युक्ततरो भवेथ् । अनुगच्छेत्पिता भ्राता भर्ता पुत्रोऽथ वा यदि ॥ ३६.५३६ ॥
kāmukānāṃ vilāsārthaṃ tasmādyuktataro bhaveth . anugacchetpitā bhrātā bhartā putro'tha vā yadi .. 36.536 ..
तदा देवगृहं यायान्नान्यथा जातु कामिनी । ध्यायतो विषयान्पुंसस्संगस्तेषूपजायते ॥ ३६.५३७ ॥
tadā devagṛhaṃ yāyānnānyathā jātu kāminī . dhyāyato viṣayānpuṃsassaṃgasteṣūpajāyate .. 36.537 ..
संगात्संजायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः ॥ ३६.५३८ ॥
saṃgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate . krodhādbhavati sammohassammohātsmṛtivibhramaḥ .. 36.538 ..
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । बलवानिन्द्रियग्रामो विद्वांसमपिकर्षति ॥ ३६.५३९ ॥
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati . balavānindriyagrāmo vidvāṃsamapikarṣati .. 36.539 ..
तस्मात्स्त्रीया भवेद्विद्वान्नातिसक्तः कथं चन । तस्मात्स्त्रीषु न कर्तव्यः प्रसंगो देवताकृहे ॥ ३६.५४० ॥
tasmātstrīyā bhavedvidvānnātisaktaḥ kathaṃ cana . tasmātstrīṣu na kartavyaḥ prasaṃgo devatākṛhe .. 36.540 ..
तथैव परदारेभ्यो मनः प्रहिणुयान्न च । परदारा न गन्तव्या नरैरृद्धिमभीप्सुभिः ॥ ३६.५४१ ॥
tathaiva paradārebhyo manaḥ prahiṇuyānna ca . paradārā na gantavyā narairṛddhimabhīpsubhiḥ .. 36.541 ..
न हीदृशमनायुष्यं लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारनिषेवनं ॥ ३६.५४२ ॥
na hīdṛśamanāyuṣyaṃ loke kiṃ cana vidyate . yādṛśaṃ puruṣasyeha paradāraniṣevanaṃ .. 36.542 ..
तादृशं विद्यते किञ्चि दनायुष्यं नृणामिह । यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ॥ ३६.५४३ ॥
tādṛśaṃ vidyate kiñci danāyuṣyaṃ nṛṇāmiha . yāvanto romakūpāḥ syuḥ strīṇāṃ gātreṣu nirmitāḥ .. 36.543 ..
तावद्वर्षसहस्राणि नरकं पर्युपासते । अतिसंगं त्यजेत्तस्माद्योषितां देवमन्दिरे ॥ ३६.५४४ ॥
tāvadvarṣasahasrāṇi narakaṃ paryupāsate . atisaṃgaṃ tyajettasmādyoṣitāṃ devamandire .. 36.544 ..
यैरसभ्यः पदैरर्थः पदेनैकेन वा तथा । गम्यते कथनं तादृगश्लीलं परिवर्जयेथ् ॥ ३६.५४५ ॥
yairasabhyaḥ padairarthaḥ padenaikena vā tathā . gamyate kathanaṃ tādṛgaślīlaṃ parivarjayeth .. 36.545 ..
अश्लीलकथनाच्चैव भवेदुद्वेजनं नृणां । भक्तानां भगवद्गेहे भवेच्चित्तमथाविलं ॥ ३६.५४६ ॥
aślīlakathanāccaiva bhavedudvejanaṃ nṛṇāṃ . bhaktānāṃ bhagavadgehe bhaveccittamathāvilaṃ .. 36.546 ..
निवर्तेत मनस्तत्र निविष्टं परमात्मनि । तस्मादश्लीलमाभाष्ट नरः पापपरो भवेथ् ॥ ३६.५४७ ॥
nivarteta manastatra niviṣṭaṃ paramātmani . tasmādaślīlamābhāṣṭa naraḥ pāpaparo bhaveth .. 36.547 ..
स तु चण्डालतां प्राप्य जायते जन्मनां शतं । अर्तोन प्रविशेद्गेहं देवस्य परमात्मनः ॥ ३६.५४८ ॥
sa tu caṇḍālatāṃ prāpya jāyate janmanāṃ śataṃ . artona praviśedgehaṃ devasya paramātmanaḥ .. 36.548 ..
वायुभूते शरीरेऽस्मिन्वायुसंचारकर्मणि । मलवायुविसर्गस्तु देवगेहे विशेषतः ॥ ३६.५४९ ॥
vāyubhūte śarīre'sminvāyusaṃcārakarmaṇi . malavāyuvisargastu devagehe viśeṣataḥ .. 36.549 ..
पातयेत्पुरुषं सत्यमपि वेदान्तपारगं । तस्मादपानगन्धस्य विसर्गं नैव चाचरेथ् ॥ ३६.५५० ॥
pātayetpuruṣaṃ satyamapi vedāntapāragaṃ . tasmādapānagandhasya visargaṃ naiva cācareth .. 36.550 ..
अथ वायुनिरोधेतु व्याधिकोपो भविष्यति । तस्माद्वायुविसर्गं तु कुर्यादेवाविचारयन् ॥ ३६.५५१ ॥
atha vāyunirodhetu vyādhikopo bhaviṣyati . tasmādvāyuvisargaṃ tu kuryādevāvicārayan .. 36.551 ..
इति देवगृहं गन्तुं व्याधितो नैव चार्हति । तथा कुष्ठी विशेषेण पापरोगार्दितास्समे ॥ ३६.५५२ ॥
iti devagṛhaṃ gantuṃ vyādhito naiva cārhati . tathā kuṣṭhī viśeṣeṇa pāparogārditāssame .. 36.552 ..
उद्वीक्षितुं च देवेशं मन्दिरे मधुसूदनं । अर्चितुं सेवितुं चापि दातुं द्रव्यचयं तथा ॥ ३६.५५३ ॥
udvīkṣituṃ ca deveśaṃ mandire madhusūdanaṃ . arcituṃ sevituṃ cāpi dātuṃ dravyacayaṃ tathā .. 36.553 ..
नार्हन्तियस्मात्तत्सक्तं पापं सांक्रामिकं भवेथ् । यद्यन्यथा भवेत्सद्यस्स पापी संप्रजायते ॥ ३६.५५४ ॥
nārhantiyasmāttatsaktaṃ pāpaṃ sāṃkrāmikaṃ bhaveth . yadyanyathā bhavetsadyassa pāpī saṃprajāyate .. 36.554 ..
जन्मानि नव पञ्चापि जायते मलभुक्कृमिः । यदा विशेद्गृहं विष्णोस्सेवार्धं मधुविद्विषः ॥ ३६.५५५ ॥
janmāni nava pañcāpi jāyate malabhukkṛmiḥ . yadā viśedgṛhaṃ viṣṇossevārdhaṃ madhuvidviṣaḥ .. 36.555 ..
कृत्वोपवीतवत्सम्यगुत्तरीयं मनोहरं । सेवेत देवदेवशमुपवीतः सदा शुचिः ॥ ३६.५५६ ॥
kṛtvopavītavatsamyaguttarīyaṃ manoharaṃ . seveta devadevaśamupavītaḥ sadā śuciḥ .. 36.556 ..
कञ्चुकेनावृताङ्गस्तु न गच्छेद्धरिमन्दिरं । नैवाभिवादनं कुर्यान्नाभिवाद्यः स उच्चते ॥ ३६.५५७ ॥
kañcukenāvṛtāṅgastu na gaccheddharimandiraṃ . naivābhivādanaṃ kuryānnābhivādyaḥ sa uccate .. 36.557 ..
उष्णीषी न च सेवेत नैव पाणौ धृतायुधः । वस्त्रेणाच्छाद्य देहन्तुकम्बलेनेतरेण वा ॥ ३६.५५८ ॥
uṣṇīṣī na ca seveta naiva pāṇau dhṛtāyudhaḥ . vastreṇācchādya dehantukambalenetareṇa vā .. 36.558 ..
योगच्छेद्वैष्णवं धाम यो वापि प्रणमेद्धरिं । श्वित्री संजायते मूढो नवजन्मानि पञ्च च ॥ ३६.५५९ ॥
yogacchedvaiṣṇavaṃ dhāma yo vāpi praṇameddhariṃ . śvitrī saṃjāyate mūḍho navajanmāni pañca ca .. 36.559 ..
क्ष्ॐआदिभिर्वा संवीतो यो नरःप्रणमेद्धरिं । चण्डालयोनितां याति नव जन्मानि पञ्च च ॥ ३६.५६० ॥
kṣ_oṃādibhirvā saṃvīto yo naraḥpraṇameddhariṃ . caṇḍālayonitāṃ yāti nava janmāni pañca ca .. 36.560 ..
न जातु त्वमितब्रूयादापन्नोपि महत्तरं । त्वङ्कारो वा वधो वेति विद्वत्सु न निशिष्यते ॥ ३६.५६१ ॥
na jātu tvamitabrūyādāpannopi mahattaraṃ . tvaṅkāro vā vadho veti vidvatsu na niśiṣyate .. 36.561 ..
परनिन्दा परस्यैव पुंसो निन्दा भविष्यति । परनिन्दा च शास्त्रस्य परस्य तु विनिन्दनं ॥ ३६.५६२ ॥
paranindā parasyaiva puṃso nindā bhaviṣyati . paranindā ca śāstrasya parasya tu vinindanaṃ .. 36.562 ..
परनिन्दा भवेत्क्रोधात्क्रोधात्सद्यो विनश्यति । निन्दया वै परेषां तु निन्दितास्ते पुनस्स्मृताः ॥ ३६.५६३ ॥
paranindā bhavetkrodhātkrodhātsadyo vinaśyati . nindayā vai pareṣāṃ tu ninditāste punassmṛtāḥ .. 36.563 ..
तस्मान्निदां परेषां तुदेवाग्रे परिवर्जयेथ् । तथा परस्तुतिं चैव विधिना संत्यजेन्नरः ॥ ३६.५६४ ॥
tasmānnidāṃ pareṣāṃ tudevāgre parivarjayeth . tathā parastutiṃ caiva vidhinā saṃtyajennaraḥ .. 36.564 ..
परः परात्मा पुरुषः पुराणः प्रोच्यते तु यः । तदग्रेऽन्यस्य देवस्य न स्तुतिं स्तावयेन्नरः ॥ ३६.५६५ ॥
paraḥ parātmā puruṣaḥ purāṇaḥ procyate tu yaḥ . tadagre'nyasya devasya na stutiṃ stāvayennaraḥ .. 36.565 ..
यस्तु सर्वेश्वरादन्यमधिकं तस्य चाग्रतः । पूजयेद्यदि मन्येत पूजार्हं वास नश्यति ॥ ३६.५६६ ॥
yastu sarveśvarādanyamadhikaṃ tasya cāgrataḥ . pūjayedyadi manyeta pūjārhaṃ vāsa naśyati .. 36.566 ..
सर्वं जगच्च तस्यैव स्वरूपं परमात्मनः । तथापि तत्तद्रूषेण तारतम्यजुषा पुनः ॥ ३६.५६७ ॥
sarvaṃ jagacca tasyaiva svarūpaṃ paramātmanaḥ . tathāpi tattadrūṣeṇa tāratamyajuṣā punaḥ .. 36.567 ..
पूज्यते भगवान्भक्तैस्तत्र शास्त्रोदिता गतिः । तस्माद्देवेश्वरादन्यद्यत्किञ्चित्थ्साणु जङ्गमं ॥ ३६.५६८ ॥
pūjyate bhagavānbhaktaistatra śāstroditā gatiḥ . tasmāddeveśvarādanyadyatkiñcitthsāṇu jaṅgamaṃ .. 36.568 ..
पूजार्हं विद्यते वस्तु तद्धामनि विशेषतः । तस्मात्पूजां स्तुतिं चान्यामितरेषामसंशयं ॥ ३६.५६९ ॥
pūjārhaṃ vidyate vastu taddhāmani viśeṣataḥ . tasmātpūjāṃ stutiṃ cānyāmitareṣāmasaṃśayaṃ .. 36.569 ..
त्यजेद्देवगृहे यस्तु सुखं मन्येत जीवितुं । शक्तौ सत्यां विशेषेण यस्तुलोभादिना नरः ॥ ३६.५७० ॥
tyajeddevagṛhe yastu sukhaṃ manyeta jīvituṃ . śaktau satyāṃ viśeṣeṇa yastulobhādinā naraḥ .. 36.570 ..
गौणैरर्चयते विष्णमुपचारैरुदीरितैः । न तस्य विद्यते पुण्यं स तूच्छास्त्रं व्रवर्तते ॥ ३६.५७१ ॥
gauṇairarcayate viṣṇamupacārairudīritaiḥ . na tasya vidyate puṇyaṃ sa tūcchāstraṃ vravartate .. 36.571 ..
यावता कीर्त्यतेशास्त्रे फलमाढ्यदरिद्रयोः । तत्तच्छक्त्यर्पितैरेव यथार्हं च धनादिकैः ॥ ३६.५७२ ॥
yāvatā kīrtyateśāstre phalamāḍhyadaridrayoḥ . tattacchaktyarpitaireva yathārhaṃ ca dhanādikaiḥ .. 36.572 ..
यथा तुष्यतिदेवेशो मुक्ताहारेण भूभुजां । तथैव तुलसीदाम्ना दुर्विधस्यापि तुष्यति ॥ ३६.५७३ ॥
yathā tuṣyatideveśo muktāhāreṇa bhūbhujāṃ . tathaiva tulasīdāmnā durvidhasyāpi tuṣyati .. 36.573 ..
तस्मात्कुर्वीत यत्नेन शक्तिलोभं न जातु चिथ् । अन्यथा यदि कुर्वाणः फलं नैव प्रपद्यते ॥ ३६.५७४ ॥
tasmātkurvīta yatnena śaktilobhaṃ na jātu cith . anyathā yadi kurvāṇaḥ phalaṃ naiva prapadyate .. 36.574 ..
प्रेत्य मार्जारतां प्राप्य जायते जन्मपञ्चकं । विषं प्राश्नाति सम्मूढो यस्स्वस्मै पचते नरः ॥ ३६.५७५ ॥
pretya mārjāratāṃ prāpya jāyate janmapañcakaṃ . viṣaṃ prāśnāti sammūḍho yassvasmai pacate naraḥ .. 36.575 ..
योऽद्यादन्नं कणं वापि यद्विष्णोरनिवेदितं । स भवेद्ब्रह्महाभूयः स भुङ्क्तेपूयशोणितं ॥ ३६.५७६ ॥
yo'dyādannaṃ kaṇaṃ vāpi yadviṣṇoraniveditaṃ . sa bhavedbrahmahābhūyaḥ sa bhuṅktepūyaśoṇitaṃ .. 36.576 ..
यत्पिबेच्च यदश्नीयात्यच्चजिघ्रेच्च धारयेथ् । अनुलिंपेच्च यत्तत्तन्निवेद्याग्रे मधुद्विषे ॥ ३६.५७७ ॥
yatpibecca yadaśnīyātyaccajighrecca dhārayeth . anuliṃpecca yattattannivedyāgre madhudviṣe .. 36.577 ..
तन्निवेदितशेषं तु भुञ्जीयाद्वोपयोजयेथ् । विष्णोर्निवेदितं यस्तु न भुङ्क्ते मनुजाधमः ॥ ३६.५७८ ॥
tanniveditaśeṣaṃ tu bhuñjīyādvopayojayeth . viṣṇorniveditaṃ yastu na bhuṅkte manujādhamaḥ .. 36.578 ..
कल्पकोटिशतेनापि निष्कृतिर्नास्य विद्यते । निवेदितं तु यद्विष्णोर्भक्तेभ्यस्तस्य दापनाथ् ॥ ३६.५७९ ॥
kalpakoṭiśatenāpi niṣkṛtirnāsya vidyate . niveditaṃ tu yadviṣṇorbhaktebhyastasya dāpanāth .. 36.579 ..
प्रीयत्भगवान्देवस्तत्परस्तु भवेन्नरः । निवेदितं यदि ब्रूयादुच्छिष्टमिति मन्दधीः ॥ ३६.५८० ॥
prīyatbhagavāndevastatparastu bhavennaraḥ . niveditaṃ yadi brūyāducchiṣṭamiti mandadhīḥ .. 36.580 ..
स तु दुर्गतिमासाद्य विन्दते यमयातनाः । विभूतिं समुपाश्रित्य यस्यानन्तस्य शाश्वतं ॥ ३६.५८१ ॥
sa tu durgatimāsādya vindate yamayātanāḥ . vibhūtiṃ samupāśritya yasyānantasya śāśvataṃ .. 36.581 ..
समृद्धा धरणी सेयं सशैलवनकानना । या च भूयांसि लोकेऽस्मिन्नुत्पादयति सन्ततं ॥ ३६.५८२ ॥
samṛddhā dharaṇī seyaṃ saśailavanakānanā . yā ca bhūyāṃsi loke'sminnutpādayati santataṃ .. 36.582 ..
ओषधीर्निखिला स्तद्वत्पुष्पाणि च फलानि च । तस्यानृण्यस्यहेतोर्वैय तेत विधिना नरः ॥ ३६.५८३ ॥
oṣadhīrnikhilā stadvatpuṣpāṇi ca phalāni ca . tasyānṛṇyasyahetorvaiya teta vidhinā naraḥ .. 36.583 ..
यस्तु नार्ऽपयते विष्णोस्तत्तत्कालोद्भवानि तु । सस्यानि चौषधीस्तद्वत्फलानि कुसुमानि च ॥ ३६.५८४ ॥
yastu nār'payate viṣṇostattatkālodbhavāni tu . sasyāni cauṣadhīstadvatphalāni kusumāni ca .. 36.584 ..
संभृतानि यथाशक्ति सभवेद्ब्रह्मह्नरः । नवानि काले जातानि सस्यादीनि विशेषतः ॥ ३६.५८५ ॥
saṃbhṛtāni yathāśakti sabhavedbrahmahnaraḥ . navāni kāle jātāni sasyādīni viśeṣataḥ .. 36.585 ..
ध्यायन्ति देवदेवेशमभिगन्तुं यतन्ति च । कदर्थयन्तोये मूढास्तेषामभ्यर्थनं परं ॥ ३६.५८६ ॥
dhyāyanti devadeveśamabhigantuṃ yatanti ca . kadarthayantoye mūḍhāsteṣāmabhyarthanaṃ paraṃ .. 36.586 ..
औदासीन्येन तिष्ठन्ति स्वयं वाप्युपयुञ्जते । तेयान्तिनरकान्घोरान्कृतघ्ना यान्तियान्बहून् ॥ ३६.५८७ ॥
audāsīnyena tiṣṭhanti svayaṃ vāpyupayuñjate . teyāntinarakānghorānkṛtaghnā yāntiyānbahūn .. 36.587 ..
शपन्त्यौषधयस्सर्वास्तस्माद्भक्त्या विशेषतः । नवं सस्यं फलं पुष्पं दधिक्षीरं घृतं मधु ॥ ३६.५८८ ॥
śapantyauṣadhayassarvāstasmādbhaktyā viśeṣataḥ . navaṃ sasyaṃ phalaṃ puṣpaṃ dadhikṣīraṃ ghṛtaṃ madhu .. 36.588 ..
यदर्हमर्पणे सर्वमग्रे तस्मै समर्पयेथ् । लोभान्मोहादथाज्ञानाद्य उच्छिष्टं निवेदयेथ् ॥ ३६.५८९ ॥
yadarhamarpaṇe sarvamagre tasmai samarpayeth . lobhānmohādathājñānādya ucchiṣṭaṃ nivedayeth .. 36.589 ..
देवेशाय विशेषेण स भवेत्पातकी नरः । उच्छिष्ट मन्यदेवस्य यो देवाय निवेदयेथ् ॥ ३६.५९० ॥
deveśāya viśeṣeṇa sa bhavetpātakī naraḥ . ucchiṣṭa manyadevasya yo devāya nivedayeth .. 36.590 ..
सोऽपि चण्डालतां प्राप्य नश्येदेव न संशयः । निवेदितं तु देवस्य य उच्छिष्टेन योजयेथ् ॥ ३६.५९१ ॥
so'pi caṇḍālatāṃ prāpya naśyedeva na saṃśayaḥ . niveditaṃ tu devasya ya ucchiṣṭena yojayeth .. 36.591 ..
देवानामित रेषां वा मनुष्याणामथापि वा । स पापी जन्मसाहस्रं श्वानयोनिषु जायते ॥ ३६.५९२ ॥
devānāmita reṣāṃ vā manuṣyāṇāmathāpi vā . sa pāpī janmasāhasraṃ śvānayoniṣu jāyate .. 36.592 ..
न हि देवगृहं गत्वा पृष्टी कृत्यासनं चरेथ् । देवाभिमुख एव स्याद्भक्तस्सर्वात्मनानरः ॥ ३६.५९३ ॥
na hi devagṛhaṃ gatvā pṛṣṭī kṛtyāsanaṃ careth . devābhimukha eva syādbhaktassarvātmanānaraḥ .. 36.593 ..
न पृष्ठं दर्शयेज्जातु देवाग्रे हितचिन्तकः । पार्श्वतस्तु चरन्नेव निवर्तेतालयं प्रति ॥ ३६.५९४ ॥
na pṛṣṭhaṃ darśayejjātu devāgre hitacintakaḥ . pārśvatastu caranneva nivartetālayaṃ prati .. 36.594 ..
नैवान्यं प्रणमेज्जातु प्रविश्य हरिमन्दिरं । स हि सर्वेश्वर श्शेषी यस्तत्रास्ते रमाधवः ॥ ३६.५९५ ॥
naivānyaṃ praṇamejjātu praviśya harimandiraṃ . sa hi sarveśvara śśeṣī yastatrāste ramādhavaḥ .. 36.595 ..
पूजार्हश्च प्रणामार्हः पूजार्हस्तत्र नेतरः । यस्तथा प्रणमेन्मूढस्स याति नरकायुतं ॥ ३६.५९६ ॥
pūjārhaśca praṇāmārhaḥ pūjārhastatra netaraḥ . yastathā praṇamenmūḍhassa yāti narakāyutaṃ .. 36.596 ..
चण्डालयोनिमासाद्य भजते यातना मुहुः । यस्तु देवगृहं प्राप्तान्वैष्णवान्भगवत्प्रियान् ॥ ३६.५९७ ॥
caṇḍālayonimāsādya bhajate yātanā muhuḥ . yastu devagṛhaṃ prāptānvaiṣṇavānbhagavatpriyān .. 36.597 ..
आचार्यमृत्विजश्चाथ पूजकान्परिचारकान् । नार्ऽचयेन्मौनमास्थाय स विनश्यति सान्वयः ॥ ३६.५९८ ॥
ācāryamṛtvijaścātha pūjakānparicārakān . nār'cayenmaunamāsthāya sa vinaśyati sānvayaḥ .. 36.598 ..
यदिष्टं याजकेभ्यस्स्यात्पूरणायेव तस्यतु । भक्ताः परिचरेयुश्च विशेषाद्ग्रामवासिनः ॥ ३६.५९९ ॥
yadiṣṭaṃ yājakebhyassyātpūraṇāyeva tasyatu . bhaktāḥ paricareyuśca viśeṣādgrāmavāsinaḥ .. 36.599 ..
अन्यथा चेन्मदोषस्सर्वेषां च विपचद्भवेथ् । अत्मानं यो विशेषेणस्तौत्यहङ्कार भाविदः ॥ ३६.६०० ॥
anyathā cenmadoṣassarveṣāṃ ca vipacadbhaveth . atmānaṃ yo viśeṣeṇastautyahaṅkāra bhāvidaḥ .. 36.600 ..
अनादृत्य गुरून्दैवमनिबद्धं च संपदेथ् । अवलीप्तोन जानाति दोषमात्मनि संगतं ॥ ३६.६०१ ॥
anādṛtya gurūndaivamanibaddhaṃ ca saṃpadeth . avalīptona jānāti doṣamātmani saṃgataṃ .. 36.601 ..
कुलविद्यातपस्सम्पत्प्रमुखैर्गर्विते नरः । न सुखं न च सौभाग्यं येनात्मान्तूयते स्वयं ॥ ३६.६०२ ॥
kulavidyātapassampatpramukhairgarvite naraḥ . na sukhaṃ na ca saubhāgyaṃ yenātmāntūyate svayaṃ .. 36.602 ..
तस्मादात्मस्तुतिं कृत्वा नरः पतति निश्चयं । ततो जन्मशतं प्राप्य मृगयोनौ विशेषतः ॥ ३६.६०३ ॥
tasmādātmastutiṃ kṛtvā naraḥ patati niścayaṃ . tato janmaśataṃ prāpya mṛgayonau viśeṣataḥ .. 36.603 ..
जायते म्रियतेऽभीक्ष्णं तस्य पापं महद्भवेथ् । यस्देवगृहं गत्वा वाञ्छत्यपचितिं जनः ॥ ३६.६०४ ॥
jāyate mriyate'bhīkṣṇaṃ tasya pāpaṃ mahadbhaveth . yasdevagṛhaṃ gatvā vāñchatyapacitiṃ janaḥ .. 36.604 ..
स तु तित्तिरितां याति नवजन्मानि पञ्च च । देवेशस्यतु सेवार्थं वर्णानामानुपूर्व्यशः ॥ ३६.६०५ ॥
sa tu tittiritāṃ yāti navajanmāni pañca ca . deveśasyatu sevārthaṃ varṇānāmānupūrvyaśaḥ .. 36.605 ..
अधिकारः समाख्यातस्तत्क्रमं न विमानयेथ् । विशन्ति गर्भगेहेतु ये वैखानससूत्रिणः ॥ ३६.६०६ ॥
adhikāraḥ samākhyātastatkramaṃ na vimānayeth . viśanti garbhagehetu ye vaikhānasasūtriṇaḥ .. 36.606 ..
गर्भागारे प्रवेष्टव्यो न ह्यवैखानसः क्वचिथ् । अन्तराले तथा येषां स्थानं तत्तु प्रवक्ष्यते ॥ ३६.६०७ ॥
garbhāgāre praveṣṭavyo na hyavaikhānasaḥ kvacith . antarāle tathā yeṣāṃ sthānaṃ tattu pravakṣyate .. 36.607 ..
अन्ये द्विजाश्च तिष्ठन्ति यथा स्यादाश्रमक्रमः । ते द्विजास्तत्स्त्रीयश्चापि सेवन्ते तत्र संगताः ॥ ३६.६०८ ॥
anye dvijāśca tiṣṭhanti yathā syādāśramakramaḥ . te dvijāstatstrīyaścāpi sevante tatra saṃgatāḥ .. 36.608 ..
क्षत्रजाता विशेषण स्थित्वा चैवार्ऽधमण्डपे । देवेशमभिसेवन्ते तदीया याश्च योषितः ॥ ३६.६०९ ॥
kṣatrajātā viśeṣaṇa sthitvā caivār'dhamaṇḍape . deveśamabhisevante tadīyā yāśca yoṣitaḥ .. 36.609 ..
संगताश्शूद्रजाताश्च प्रतिलोमभवाश्चये । महामण्डपमास्थाय सेवन्ते पुरुषोत्तमं ॥ ३६.६१० ॥
saṃgatāśśūdrajātāśca pratilomabhavāścaye . mahāmaṇḍapamāsthāya sevante puruṣottamaṃ .. 36.610 ..
अनुलोमभुवश्चैवये चान्ये म्लेच्छजातयः । गोपुराद्बाह्यतः स्थित्वा सेवन्ते मन्दिरं हरेः ॥ ३६.६११ ॥
anulomabhuvaścaivaye cānye mlecchajātayaḥ . gopurādbāhyataḥ sthitvā sevante mandiraṃ hareḥ .. 36.611 ..
तारतम्यमिदं ज्ञात्वा सेवेत सततं हरिं । देवतानिन्दनं कुर्याद्यस्स पापीन मुच्यते ॥ ३६.६१२ ॥
tāratamyamidaṃ jñātvā seveta satataṃ hariṃ . devatānindanaṃ kuryādyassa pāpīna mucyate .. 36.612 ..
अन्यदेवसमं यस्तु मन्यते पुरुषोत्तमं । चण्डालयोनितामेति नव जन्मानि पञ्च च ॥ ३६.६१३ ॥
anyadevasamaṃ yastu manyate puruṣottamaṃ . caṇḍālayonitāmeti nava janmāni pañca ca .. 36.613 ..
अपह्नुत्य पुनर्देवां स्तद्द्रव्यादि हरेत्तु यः । स भवेद्देवहा सत्यं जायते श्वादियोनिषु, ॥ ३६.६१४ ॥
apahnutya punardevāṃ staddravyādi harettu yaḥ . sa bhaveddevahā satyaṃ jāyate śvādiyoniṣu, .. 36.614 ..
तिरस्कृत्य तथा देवान्भगवच्छास्त्रमेव च । कर्माणि स्वेच्छया कुर्यात्सोऽपि स्याद्देवहा नरः ॥ ३६.६१५ ॥
tiraskṛtya tathā devānbhagavacchāstrameva ca . karmāṇi svecchayā kuryātso'pi syāddevahā naraḥ .. 36.615 ..
कथायां कथ्यमानायां देवस्य मधुविद्विषः । अनादृत्य च ये यान्ति ते नराः पापकारिणः ॥ ३६.६१६ ॥
kathāyāṃ kathyamānāyāṃ devasya madhuvidviṣaḥ . anādṛtya ca ye yānti te narāḥ pāpakāriṇaḥ .. 36.616 ..
तोयहीनेऽतिरौद्रे च वने वै शून्यवृक्षतां । जायन्ते सप्तजन्मानि ततश्चण्डालतां ययुः ॥ ३६.६१७ ॥
toyahīne'tiraudre ca vane vai śūnyavṛkṣatāṃ . jāyante saptajanmāni tataścaṇḍālatāṃ yayuḥ .. 36.617 ..
देवेषु गोषु विप्रेषु देवागारेषु चैव हि । वहेन्नैवाधिपत्यं यन्नासावृद्धिमवाप्नुयाथ् ॥ ३६.६१८ ॥
deveṣu goṣu vipreṣu devāgāreṣu caiva hi . vahennaivādhipatyaṃ yannāsāvṛddhimavāpnuyāth .. 36.618 ..
दोषाश्च बहुला स्तस्मिन्नाधिपत्ये स्मृता बुधैः । कामतोऽकामतश्चापि सर्वं तस्य विचेष्टितं ॥ ३६.६१९ ॥
doṣāśca bahulā stasminnādhipatye smṛtā budhaiḥ . kāmato'kāmataścāpi sarvaṃ tasya viceṣṭitaṃ .. 36.619 ..
पापायैव भवेत्तस्माद्भूतिकामस्तु तं त्यजेथ् । सेवार्थिनां सकाशात्तु बलात्कारेण यः प्रभुः ॥ ३६.६२० ॥
pāpāyaiva bhavettasmādbhūtikāmastu taṃ tyajeth . sevārthināṃ sakāśāttu balātkāreṇa yaḥ prabhuḥ .. 36.620 ..
गृह्णीयात्तुकरं सद्यः पतेत्स सह तेन च । देवस्य सन्निधौ भक्तैर्भक्त्यायत्तु समर्प्यते ॥ ३६.६२१ ॥
gṛhṇīyāttukaraṃ sadyaḥ patetsa saha tena ca . devasya sannidhau bhaktairbhaktyāyattu samarpyate .. 36.621 ..
पत्रं फलं वा मूलं वा स्वर्णं वासांसि चेतरथ् । दायाद्यमर्चकानां तु यो मोहादपनिह्नुते ॥ ३६.६२२ ॥
patraṃ phalaṃ vā mūlaṃ vā svarṇaṃ vāsāṃsi cetarath . dāyādyamarcakānāṃ tu yo mohādapanihnute .. 36.622 ..
स्वयं वाप्युपयुञ्जीत स पापी नरकं व्रजेथ् । विश्राणयन्ति हरये यद्भक्ता भक्तिभाविताः ॥ ३६.६२३ ॥
svayaṃ vāpyupayuñjīta sa pāpī narakaṃ vrajeth . viśrāṇayanti haraye yadbhaktā bhaktibhāvitāḥ .. 36.623 ..
तन्नाम्ना पूजकानेव जानन्ति फलभागिनः । स्थिरजङ्गमयोः पूजा यतस्सम्पादिता भवेथ् ॥ ३६.६२४ ॥
tannāmnā pūjakāneva jānanti phalabhāginaḥ . sthirajaṅgamayoḥ pūjā yatassampāditā bhaveth .. 36.624 ..
तस्माद्भगवतो नाम्ना दत्तं यद्देवमन्दिरे । विहायाभरणादीनि वासांस्यन्यत्परिच्छदं ॥ ३६.६२५ ॥
tasmādbhagavato nāmnā dattaṃ yaddevamandire . vihāyābharaṇādīni vāsāṃsyanyatparicchadaṃ .. 36.625 ..
देवालङ्कारयोग्यानि मूल्यवन्ति विशेषतः । अर्चका एव गृह्णीयुः प्रतिबध्नीत नेतरः ॥ ३६.६२६ ॥
devālaṅkārayogyāni mūlyavanti viśeṣataḥ . arcakā eva gṛhṇīyuḥ pratibadhnīta netaraḥ .. 36.626 ..
यस्त्वधीकारगर्वेण देवागारमुपाश्रितः । अकाले सेवितुं चेच्छेत्सोऽपि यास्यति दुर्गतिं ॥ ३६.६२७ ॥
yastvadhīkāragarveṇa devāgāramupāśritaḥ . akāle sevituṃ cecchetso'pi yāsyati durgatiṃ .. 36.627 ..
अथ वा सेवितुं चेच्छेत्कारणेनापि केन चिथ् । उक्तेष्वेव तु कालेषु सेवेत मतिमान्नरः ॥ ३६.६२८ ॥
atha vā sevituṃ cecchetkāraṇenāpi kena cith . ukteṣveva tu kāleṣu seveta matimānnaraḥ .. 36.628 ..
अन्त्यार्चनावसाने यत्कवाटो बध्यते ततः । पुनरुद्घाटनं यावत्प्रत्यूषे च भविष्यति ॥ ३६.६२९ ॥
antyārcanāvasāne yatkavāṭo badhyate tataḥ . punarudghāṭanaṃ yāvatpratyūṣe ca bhaviṣyati .. 36.629 ..
तावन्नैव हरिं सेवेदकालस्स विशेषतः । प्रत्यूषाद्यन्त्यकालान्तपूजनेऽपि तु मन्त्रतः ॥ ३६.६३० ॥
tāvannaiva hariṃ sevedakālassa viśeṣataḥ . pratyūṣādyantyakālāntapūjane'pi tu mantrataḥ .. 36.630 ..
तत्तत्काले कवाटस्य बन्धने विहितेऽपि च । न तदा तावती हानिरवबद्धेऽप्यमन्त्रकं ॥ ३६.६३१ ॥
tattatkāle kavāṭasya bandhane vihite'pi ca . na tadā tāvatī hāniravabaddhe'pyamantrakaṃ .. 36.631 ..
अथार्ऽचनार्हकालेपि भक्तानां सेवनाय तु । अकाला बहवः प्रोक्तास्तथा यवसिकोदिता ॥ ३६.६३२ ॥
athār'canārhakālepi bhaktānāṃ sevanāya tu . akālā bahavaḥ proktāstathā yavasikoditā .. 36.632 ..
तस्मादकालसेवां तु विधिना परिवर्जयेथ् । विषयाक्रान्तचित्तानां विष्ण्वर्चनमकुर्वतां ॥ ३६.६३३ ॥
tasmādakālasevāṃ tu vidhinā parivarjayeth . viṣayākrāntacittānāṃ viṣṇvarcanamakurvatāṃ .. 36.633 ..
कर्मभूमौ नृणां जन्म कर्मापि विभलं ध्रुवं । यो गुरौ मानुषं भावं शिलाभावं च दैवते ॥ ३६.६३४ ॥
karmabhūmau nṛṇāṃ janma karmāpi vibhalaṃ dhruvaṃ . yo gurau mānuṣaṃ bhāvaṃ śilābhāvaṃ ca daivate .. 36.634 ..
मन्त्रेषु जीविकाभावं हिंसाभावं मखेषु च । पूजकेषु च पूजायां नीरसं भावमेति सः ॥ ३६.६३५ ॥
mantreṣu jīvikābhāvaṃ hiṃsābhāvaṃ makheṣu ca . pūjakeṣu ca pūjāyāṃ nīrasaṃ bhāvameti saḥ .. 36.635 ..
सर्वधा निन्दितव्यो हि जीवितं तस्य निष्फलं । क्षमामन्त्रः
sarvadhā ninditavyo hi jīvitaṃ tasya niṣphalaṃ . kṣamāmantraḥ
क्षमामन्त्रः
अथ वक्ष्ये विशेषण क्षमामन्त्रविधिं परं ॥ ३६.६३६ ॥
atha vakṣye viśeṣaṇa kṣamāmantravidhiṃ paraṃ .. 36.636 ..
अपचारेषु सर्वेषु यं जप्त्वा मुच्यते नरः । अपराधः कृतो येन जानता स्ववशेन सः ॥ ३६.६३७ ॥
apacāreṣu sarveṣu yaṃ japtvā mucyate naraḥ . aparādhaḥ kṛto yena jānatā svavaśena saḥ .. 36.637 ..
क्षमामन्त्रसहस्रस्य जापेनापि न मुच्यते । क्षमामन्त्रस्त्वशेषाघध्वंसनक्षम उच्यते ॥ ३६.६३८ ॥
kṣamāmantrasahasrasya jāpenāpi na mucyate . kṣamāmantrastvaśeṣāghadhvaṃsanakṣama ucyate .. 36.638 ..
नारायण नमस्तेऽस्तु नमो भक्तपरायण । नमो नमो नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ॥ ३६.६३९ ॥
nārāyaṇa namaste'stu namo bhaktaparāyaṇa . namo namo namaste'stu namaste'stu namo namaḥ .. 36.639 ..
अज्ञानादर्थलोभाद्वा रागाद्द्वेषात्प्रमादतः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४० ॥
ajñānādarthalobhādvā rāgāddveṣātpramādataḥ . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.640 ..
संध्ययोश्च दिवा रात्रौ जाग्रत्स्वप्नसुषुप्तिषु । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४१ ॥
saṃdhyayośca divā rātrau jāgratsvapnasuṣuptiṣu . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.641 ..
कायेन मनसा वाचा सर्वैर्वापि समुच्चितैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४२ ॥
kāyena manasā vācā sarvairvāpi samuccitaiḥ . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.642 ..
तिष्ठता प्रजता चैव शय्यासनगतेन च । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४३ ॥
tiṣṭhatā prajatā caiva śayyāsanagatena ca . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.643 ..
स्नास्यता जपता वापि यजता जुह्वता मया । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४४ ॥
snāsyatā japatā vāpi yajatā juhvatā mayā . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.644 ..
भुजता ध्यायता नूनं विषयानुपसेवता । अपराधाः कृता ये तान्क्षमस्व पुरुषोत्तम ॥ ३६.६४५ ॥
bhujatā dhyāyatā nūnaṃ viṣayānupasevatā . aparādhāḥ kṛtā ye tānkṣamasva puruṣottama .. 36.645 ..
मया वा मज्जनैर्वापि मम बन्धुभिरेववा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४६ ॥
mayā vā majjanairvāpi mama bandhubhirevavā . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.646 ..
राज्ञा वा तदमात्यैर्वा राजभृत्यैरथापिवा । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४७ ॥
rājñā vā tadamātyairvā rājabhṛtyairathāpivā . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.647 ..
आचार्येणार्ऽचकेनापि भक्तैर्वापरिचारकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४८ ॥
ācāryeṇār'cakenāpi bhaktairvāparicārakaiḥ . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.648 ..
गायकैर्नर्तकैर्वाथ वादित्राणां च वादकैः । अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम ॥ ३६.६४९ ॥
gāyakairnartakairvātha vāditrāṇāṃ ca vādakaiḥ . aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama .. 36.649 ..
प्रणवादिविसर्गान्तं क्रियासु विधिपूर्वकं । अमन्त्रमर्चने दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५० ॥
praṇavādivisargāntaṃ kriyāsu vidhipūrvakaṃ . amantramarcane doṣaṃ kṣamasva puruṣottama .. 36.650 ..
उद्धानाच्छयना न्तन्तु क्रियासु विविधासु च । श्रद्धालोपकृतं दोषं क्षमस्व पुरुषोत्तम ॥ ३६.६५१ ॥
uddhānācchayanā ntantu kriyāsu vividhāsu ca . śraddhālopakṛtaṃ doṣaṃ kṣamasva puruṣottama .. 36.651 ..
कश्शक्नोत्यर्चितुं देवं त्वामनाद्यन्तमव्ययं । तस्मादज्ञानचरितं क्षमस्व पुरुषोत्तम ॥ ३६.६५२ ॥
kaśśaknotyarcituṃ devaṃ tvāmanādyantamavyayaṃ . tasmādajñānacaritaṃ kṣamasva puruṣottama .. 36.652 ..
प्रार्थये देवदेवं त्वां प्रसीद भगवन्मयि । प्रसीदतु रं मह्यं तव वक्षःस्थलालया ॥ ३६.६५३ ॥
prārthaye devadevaṃ tvāṃ prasīda bhagavanmayi . prasīdatu raṃ mahyaṃ tava vakṣaḥsthalālayā .. 36.653 ..
इशाना जगतो देवी माता नित्यानपायिनी । प्रसीदन्तु सुराः सर्वे प्रसादाद्युवयोर्मयि ॥ ३६.६५४ ॥
iśānā jagato devī mātā nityānapāyinī . prasīdantu surāḥ sarve prasādādyuvayormayi .. 36.654 ..
स्वस्त्यस्तु कृपयास्माकं युवयोः सुप्रसन्नयोः । उपचारापदेशेन कृतानहरहर्मया ॥ ३६.६५५ ॥
svastyastu kṛpayāsmākaṃ yuvayoḥ suprasannayoḥ . upacārāpadeśena kṛtānaharaharmayā .. 36.655 ..
अपचारानिमान्त्सर्वान्क्षमस्व पुरुषोत्तम । इति विज्ञापयेद्भूयो भक्तिसाध्वसभावितः ॥ ३६.६५६ ॥
apacārānimāntsarvānkṣamasva puruṣottama . iti vijñāpayedbhūyo bhaktisādhvasabhāvitaḥ .. 36.656 ..
तदर्थनात्परं प्रीतः प्रसीदति खगध्वजः । क्षमामन्त्रमिमं देयान्न चाशुश्रूषवे क्वचिथ् ॥ ३६.६५७ ॥
tadarthanātparaṃ prītaḥ prasīdati khagadhvajaḥ . kṣamāmantramimaṃ deyānna cāśuśrūṣave kvacith .. 36.657 ..
गुह्याद्गुह्यतमो गोप्यस्सर्वदा गुरुभिः सदा
guhyādguhyatamo gopyassarvadā gurubhiḥ sadā
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सिहितायां प्रकीर्णाधिकारे षट्त्रिंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sihitāyāṃ prakīrṇādhikāre ṣaṭtriṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In