| |
|

This overlay will guide you through the buttons:

अथ त्रयोदशोऽध्यायः.
अथ त्रयोदशः अध्यायः।
atha trayodaśaḥ adhyāyaḥ.
नवषट्पञ्चमूर्तिविधानम् अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पञ्चमूर्तिकं । विष्णुं च पुरुषं सत्यमच्युतं चाविरुद्धकं ॥ १३.१ ॥
नव-षष्-पञ्च-मूर्ति-विधानम् अतस् ऊर्ध्वम् प्रवक्ष्यामि नव-षष्-पञ्च-मूर्तिकम् । विष्णुम् च पुरुषम् सत्यम् अच्युतम् च अविरुद्धकम् ॥ १३।१ ॥
nava-ṣaṣ-pañca-mūrti-vidhānam atas ūrdhvam pravakṣyāmi nava-ṣaṣ-pañca-mūrtikam . viṣṇum ca puruṣam satyam acyutam ca aviruddhakam .. 13.1 ..
नरनारायणाभ्यां तु वाराहं नारसिंहकं । एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि ॥ १३.२ ॥
नर-नारायणाभ्याम् तु वाराहम् नारसिंहकम् । एवम् तु नवमूर्तिः तु स्थापयित्वा यधाविधि ॥ १३।२ ॥
nara-nārāyaṇābhyām tu vārāham nārasiṃhakam . evam tu navamūrtiḥ tu sthāpayitvā yadhāvidhi .. 13.2 ..
विष्ण्वादिपञ्चमूर्तीस्तु अदिमूर्तिन्तथाक्रमाथ् । स्थापयेत्तत्क्रमेणैव षण्मूर्तिकमिहोच्यते ॥ १३.३ ॥
विष्णु-आदि-पञ्च-मूर्तीः तु । स्थापयेत् तत् क्रमेण एव षष्-मूर्तिकम् इह उच्यते ॥ १३।३ ॥
viṣṇu-ādi-pañca-mūrtīḥ tu . sthāpayet tat krameṇa eva ṣaṣ-mūrtikam iha ucyate .. 13.3 ..
विष्ण्वादीनां तु पञ्चानां स्थापनं पञ्चमूर्तिकं । दशावतारकल्पः मत्स्यः कूर्मोवराहश्च नारसिंहोऽथ वामनः ॥ १३.४ ॥
विष्णु-आदीनाम् तु पञ्चानाम् स्थापनम् पञ्च-मूर्तिकम् । दश-अवतार-कल्पः मत्स्यः कूर्मः वराहः च नारसिंहः अथ वामनः ॥ १३।४ ॥
viṣṇu-ādīnām tu pañcānām sthāpanam pañca-mūrtikam . daśa-avatāra-kalpaḥ matsyaḥ kūrmaḥ varāhaḥ ca nārasiṃhaḥ atha vāmanaḥ .. 13.4 ..
रामो रामश्च रामश्च कृष्णः कर्किरिमे दश । सर्गकाले तु भगवान्सृष्ट्वा विखनसं गुरुं ॥ १३.५ ॥
रामः रामः च रामः च कृष्णः कर्किः इमे दश । सर्ग-काले तु भगवान् सृष्ट्वा विखनसम् गुरुम् ॥ १३।५ ॥
rāmaḥ rāmaḥ ca rāmaḥ ca kṛṣṇaḥ karkiḥ ime daśa . sarga-kāle tu bhagavān sṛṣṭvā vikhanasam gurum .. 13.5 ..
वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान् । पुरा मध्वादयः काले संभूय भुवि राक्षसाः ॥ १३.६ ॥
वेदान् उपादिशत् तस्मै लोक-संरक्षण-क्षमान् । पुरा मधु-आदयः काले संभूय भुवि राक्षसाः ॥ १३।६ ॥
vedān upādiśat tasmai loka-saṃrakṣaṇa-kṣamān . purā madhu-ādayaḥ kāle saṃbhūya bhuvi rākṣasāḥ .. 13.6 ..
अपाहरंस्तु तान्वेदान्बलात्कृत्व विधिं मुहुः । तदा तु सोमकं हन्तुं राक्षसं रणविक्रमं ॥ १३.७ ॥
अपाहरन् तु तान् वेदान् बलात् कृत्वा विधिम् मुहुर् । तदा तु सोमकम् हन्तुम् राक्षसम् रण-विक्रमम् ॥ १३।७ ॥
apāharan tu tān vedān balāt kṛtvā vidhim muhur . tadā tu somakam hantum rākṣasam raṇa-vikramam .. 13.7 ..
अन्तर्हितमकूपारे मात्स्यं भावं गतो हरिः । हत्वा तु सोमङ्कं पश्चाद्वेदानब्जभुवे ददौ ॥ १३.८ ॥
अन्तर्हितम् अकूपारे मात्स्यम् भावम् गतः हरिः । हत्वा तु सोमङ्कम् पश्चात् वेदान् अब्जभुवे ददौ ॥ १३।८ ॥
antarhitam akūpāre mātsyam bhāvam gataḥ hariḥ . hatvā tu somaṅkam paścāt vedān abjabhuve dadau .. 13.8 ..
ग्रामादिषु च सर्वत्र मध्यमे पश्चिमेऽपिवा । हस्तिपृष्ठविमाने तु कुंभाकारविमानके ॥ १३.९ ॥
ग्राम-आदिषु च सर्वत्र मध्यमे पश्चिमे अपि वा । हस्ति-पृष्ठ-विमाने तु कुंभ-आकार-विमानके ॥ १३।९ ॥
grāma-ādiṣu ca sarvatra madhyame paścime api vā . hasti-pṛṣṭha-vimāne tu kuṃbha-ākāra-vimānake .. 13.9 ..
द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतं । अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजं ॥ १३.१० ॥
द्वि-तालेन उत्तमम् कुर्यात् मानम् एतत् उदाहृतम् । अवतारस्य सर्वस्य कौतुकम् स्यात् शतुर्भुजम् ॥ १३।१० ॥
dvi-tālena uttamam kuryāt mānam etat udāhṛtam . avatārasya sarvasya kautukam syāt śaturbhujam .. 13.10 ..
विशेषमत्र वक्ष्यामि प्रधानेऽब्जावले क्रमाथ् । हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेथ् ॥ १३.११ ॥
विशेषम् अत्र वक्ष्यामि प्रधाने अब्जावले । हौत्र-प्रशंसनम् कृत्वा देवता-वाहनम् चरेथ् ॥ १३।११ ॥
viśeṣam atra vakṣyāmi pradhāne abjāvale . hautra-praśaṃsanam kṛtvā devatā-vāhanam careth .. 13.11 ..
मत्स्यं च जलजं चेति भद्रं क्रीडात्मकंऽतथा । एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेथ् ॥ १३.१२ ॥
मत्स्यम् च जलजम् च इति भद्रम् । एवमादिभिः आवाह्य च अन्यत् पूर्ववत् आचरेथ् ॥ १३।१२ ॥
matsyam ca jalajam ca iti bhadram . evamādibhiḥ āvāhya ca anyat pūrvavat ācareth .. 13.12 ..
यस्स्वयं सृष्टऽमित्युक्त्वा शतमष्टोत्तरं यजेथ् । यथोक्तेनैव मार्गेण संस्थाप्य विधिनार्ऽचयेथ् ॥ १३.१३ ॥
यः स्वयम् सृष्टम् इति उक्त्वा शतम् अष्ट-उत्तरम् यजेथ् । यथा उक्तेन एव मार्गेण संस्थाप्य विधिना ॥ १३।१३ ॥
yaḥ svayam sṛṣṭam iti uktvā śatam aṣṭa-uttaram yajeth . yathā uktena eva mārgeṇa saṃsthāpya vidhinā .. 13.13 ..
कूर्मः देवासुरार्थं मृते कृतयुगे हरिः । कच्छपस्समभूद्धर्तुं मन्धरं तं महाचलं ॥ १३.१४ ॥
कूर्मः देव-असुर-अर्थम् मृते कृत-युगे हरिः । कच्छपः समभूत् हर्तुम् मन्धरम् तम् महा-अचलम् ॥ १३।१४ ॥
kūrmaḥ deva-asura-artham mṛte kṛta-yuge hariḥ . kacchapaḥ samabhūt hartum mandharam tam mahā-acalam .. 13.14 ..
ग्रामादौ वास्तुमध्ये च पर्वताग्रे विशेषतः । नन्द्यावर्तविमाने वा फेलाकारविमानके ॥ १३.१५ ॥
ग्राम-आदौ वास्तु-मध्ये च पर्वत-अग्रे विशेषतः । नन्द्यावर्त-विमाने वा फेलाकार-विमानके ॥ १३।१५ ॥
grāma-ādau vāstu-madhye ca parvata-agre viśeṣataḥ . nandyāvarta-vimāne vā phelākāra-vimānake .. 13.15 ..
एकतालेन मानेन कूर्मरूपं विधीयते । कूर्मरूपं ध्रुवं कुर्यात्कौतुकं तु चतुर्भुजं ॥ १३.१६ ॥
एक-तालेन मानेन कूर्म-रूपम् विधीयते । कूर्म-रूपम् ध्रुवम् कुर्यात् कौतुकम् तु चतुर्-भुजम् ॥ १३।१६ ॥
eka-tālena mānena kūrma-rūpam vidhīyate . kūrma-rūpam dhruvam kuryāt kautukam tu catur-bhujam .. 13.16 ..
प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः । हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते ॥ १३.१७ ॥
प्रतिष्ठाम् पूर्ववत् कुर्यात् गार्हपत्ये विशेषतः । हौत्रम् अत्र प्रशंसन्ति मूर्तिम् अस्त्रम् अथ उच्यते ॥ १३।१७ ॥
pratiṣṭhām pūrvavat kuryāt gārhapatye viśeṣataḥ . hautram atra praśaṃsanti mūrtim astram atha ucyate .. 13.17 ..
अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्ऽ । अकूपारं जलं कूर्मं कच्छपंऽत्विति के च न ॥ १३.१८ ॥
अकूपारम् कूर्म-रूपम् विष्णुम् च वसुधा-धरम् । अकूपारम् जलम् कूर्मम् कच्छपम् अतु इति के च न ॥ १३।१८ ॥
akūpāram kūrma-rūpam viṣṇum ca vasudhā-dharam . akūpāram jalam kūrmam kacchapam atu iti ke ca na .. 13.18 ..
समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेथ् । रायामीशऽस्समुच्चार्य शतमष्टाधिकं यजेथ् ॥ १३.१९ ॥
समावाह्य तु तैः एव निरुप्य आज्य-आहुतीः यजेथ् । शतम् अष्ट-अधिकम् ॥ १३।१९ ॥
samāvāhya tu taiḥ eva nirupya ājya-āhutīḥ yajeth . śatam aṣṭa-adhikam .. 13.19 ..
उक्तवत्थ्सापयेद्विद्वान्विधिना सम्यगर्चयेथ् । मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते ॥ १३.२० ॥
उक्तवत्-थ्सापयेत् विद्वान् विधिना सम्यक् अर्चयेथ् । मत्स्य-कूर्मौ द्विधा प्रोक्तौ किम् चित्-भेदम् प्रचक्षते ॥ १३।२० ॥
uktavat-thsāpayet vidvān vidhinā samyak arcayeth . matsya-kūrmau dvidhā proktau kim cit-bhedam pracakṣate .. 13.20 ..
द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः ।
द्वि-भुजौ केचिद् इच्छन्ति केचिद् इष्ट-भुजौ बुधाः ।
dvi-bhujau kecid icchanti kecid iṣṭa-bhujau budhāḥ .
वराहः
देवमानुषतिर्यञ्च स्थावरा जङ्गमास्तथा ॥ १३.२१ ॥
देव-मानुष-तिर्यञ्च स्थावराः जङ्गमाः तथा ॥ १३।२१ ॥
deva-mānuṣa-tiryañca sthāvarāḥ jaṅgamāḥ tathā .. 13.21 ..
पुरासृष्टा यथा सर्वे चत्वारो भुवि जन्तवः । जरायुजाण्डजोद्भिज्जन्वेदजाश्चेति जातितः ॥ १३.२२ ॥
पुरा सृष्टाः यथा सर्वे चत्वारः भुवि जन्तवः । जरायु-ज-अण्ड-ज-उद्भिद्-जन्-वेद-जाः च इति जातितः ॥ १३।२२ ॥
purā sṛṣṭāḥ yathā sarve catvāraḥ bhuvi jantavaḥ . jarāyu-ja-aṇḍa-ja-udbhid-jan-veda-jāḥ ca iti jātitaḥ .. 13.22 ..
एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः । रसातलमगाद्धृत्वा चराचरधरां महीं ॥ १३.२३ ॥
एवम् प्रवर्तमाने तु हिरण्याक्षः महा-बलः । रसातलम् अगात् हृत्वा चराचर-धराम् महीम् ॥ १३।२३ ॥
evam pravartamāne tu hiraṇyākṣaḥ mahā-balaḥ . rasātalam agāt hṛtvā carācara-dharām mahīm .. 13.23 ..
महावराहवपुषा तां तदोद्धृतवान्हरिः । वराहस्त्रिविधः प्रोक्तो देवस्याविष्कृतौ पुनः ॥ १३.२४ ॥
महावराह-वपुषा ताम् तदा उद्धृतवान् हरिः । वराहः त्रिविधः प्रोक्तः देवस्य आविष्कृतौ पुनर् ॥ १३।२४ ॥
mahāvarāha-vapuṣā tām tadā uddhṛtavān hariḥ . varāhaḥ trividhaḥ proktaḥ devasya āviṣkṛtau punar .. 13.24 ..
क्रमादादिवराहश्च वराहः प्रलयात्मकः । यज्ञवाराह इत्येवं त्रिविधिस्संप्रकीर्तितः ॥ १३.२५ ॥
क्रमात् आदिवराहः च वराहः प्रलय-आत्मकः । यज्ञवाराहः इति एवम् त्रि-विधिः संप्रकीर्तितः ॥ १३।२५ ॥
kramāt ādivarāhaḥ ca varāhaḥ pralaya-ātmakaḥ . yajñavārāhaḥ iti evam tri-vidhiḥ saṃprakīrtitaḥ .. 13.25 ..
विमाने पर्वताकारे श्रीप्रतिष्ठितके तथा । दशतालेन मानेन देवं सूकरमाचरेथ् ॥ १३.२६ ॥
विमाने पर्वत-आकारे श्रीप्रतिष्ठितके तथा । दश-तालेन मानेन देवम् सूकरम् आचरेथ् ॥ १३।२६ ॥
vimāne parvata-ākāre śrīpratiṣṭhitake tathā . daśa-tālena mānena devam sūkaram ācareth .. 13.26 ..
चतुबान्हुसमायुक्तं शङ्खचक्रधरं परं । वामपादं समाकुञ्च्य महीमुद्धृत्य सादरं ॥ १३.२७ ॥
चतुबान्हु-समायुक्तम् शङ्ख-चक्र-धरम् परम् । वाम-पादम् समाकुञ्च्य महीम् उद्धृत्य स आदरम् ॥ १३।२७ ॥
catubānhu-samāyuktam śaṅkha-cakra-dharam param . vāma-pādam samākuñcya mahīm uddhṛtya sa ādaram .. 13.27 ..
दक्षिणं चण्डितं कुर्यान्महीमूरौ समाचरेथ् । महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः ॥ १३.२८ ॥
दक्षिणम् चण्डितम् कुर्यात् महीम् ऊरौ । महीम् च श्याम-वर्णाम् तु कुर्यात् च एव विधानतः ॥ १३।२८ ॥
dakṣiṇam caṇḍitam kuryāt mahīm ūrau . mahīm ca śyāma-varṇām tu kuryāt ca eva vidhānataḥ .. 13.28 ..
एवमादिवराहन्तु कारयेल्लक्षणान्वितं । अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः ॥ १३.२९ ॥
एवमादि-वराहम् तु कारयेत् लक्षण-अन्वितम् । अवान्तरम् अनुप्राप्य यदा तु प्रलयम् हरिः ॥ १३।२९ ॥
evamādi-varāham tu kārayet lakṣaṇa-anvitam . avāntaram anuprāpya yadā tu pralayam hariḥ .. 13.29 ..
तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः । ततः प्रलयवाराहं पुराभूतं च कारयेथ् ॥ १३.३० ॥
तत् तोयम् उपसंहर्तुम् वराहम् रूपम् आस्थितः । ततस् प्रलयवाराहम् पुराभूतम् च कारयेथ् ॥ १३।३० ॥
tat toyam upasaṃhartum varāham rūpam āsthitaḥ . tatas pralayavārāham purābhūtam ca kārayeth .. 13.30 ..
शङ्खचक्रधरं स्ॐयं पीतांबरधरं हरिं । दक्षिणं चाभयं हस्तं वामं कट्यवलंबितम्, ॥ १३.३१ ॥
शङ्ख-चक्र-धरम् पीत-अंबर-धरम् हरिम् । दक्षिणम् च अभयम् हस्तम् वामम् कटि-अवलंबितम्, ॥ १३।३१ ॥
śaṅkha-cakra-dharam pīta-aṃbara-dharam harim . dakṣiṇam ca abhayam hastam vāmam kaṭi-avalaṃbitam, .. 13.31 ..
महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा । सुखासनक्रमेणैव चासीनां वा स्वलङ्कृतां ॥ १३.३२ ॥
महीम् तु दक्षिणे कुर्यात् स श्याम-निभाम् तथा । सुख-आसन-क्रमेण एव च आसीनाम् वा सु अलङ्कृताम् ॥ १३।३२ ॥
mahīm tu dakṣiṇe kuryāt sa śyāma-nibhām tathā . sukha-āsana-krameṇa eva ca āsīnām vā su alaṅkṛtām .. 13.32 ..
एवं प्रलयवाराहं कारयेत्तु विचक्षणः । हिरण्याक्षःपुरा रक्षो बलवान्बलिनां वरः ॥ १३.३३ ॥
एवम् प्रलयवाराहम् कारयेत् तु विचक्षणः । हिरण्याक्षः पुरा रक्षः बलवान् बलिनाम् वरः ॥ १३।३३ ॥
evam pralayavārāham kārayet tu vicakṣaṇaḥ . hiraṇyākṣaḥ purā rakṣaḥ balavān balinām varaḥ .. 13.33 ..
वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽवृधथ् । अवातरत्तदा विष्णुवन्रसूकरमूर्तिमान् ॥ १३.३४ ॥
वरेण गर्वात् दुर्बुद्धिः यज्ञ-विद्वेषकः अवृधथ् । अवातरत् तदा विष्णु-वन्र-सूकर-मूर्तिमान् ॥ १३।३४ ॥
vareṇa garvāt durbuddhiḥ yajña-vidveṣakaḥ avṛdhath . avātarat tadā viṣṇu-vanra-sūkara-mūrtimān .. 13.34 ..
हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयथ् । तस्माद्यज्ञवराहं तु तञ्च कुर्याद्विधानतः ॥ १३.३५ ॥
हत्वा स दैत्यम् स बलम् पश्चात् यज्ञात् न्यवर्तयथ् । तस्मात् यज्ञवराहम् तु तञ्च कुर्यात् विधानतः ॥ १३।३५ ॥
hatvā sa daityam sa balam paścāt yajñāt nyavartayath . tasmāt yajñavarāham tu tañca kuryāt vidhānataḥ .. 13.35 ..
श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा । सुखासने समासीनं कुर्याल्लक्षणसंयुतं ॥ १३.३६ ॥
श्वेतम् यज्ञवराहम् तु श्री-भूमिभ्याम् सह एव वा । सुख-आसने समासीनम् कुर्यात् लक्षण-संयुतम् ॥ १३।३६ ॥
śvetam yajñavarāham tu śrī-bhūmibhyām saha eva vā . sukha-āsane samāsīnam kuryāt lakṣaṇa-saṃyutam .. 13.36 ..
त्रयाणां च वराहाणां स्थापने भेद उच्यते । पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः ॥ १३.३७ ॥
त्रयाणाम् च वराहाणाम् स्थापने भेदः उच्यते । पूर्व-उक्तेन क्रमेण एव सर्वम् कृत्वा विशेषतः ॥ १३।३७ ॥
trayāṇām ca varāhāṇām sthāpane bhedaḥ ucyate . pūrva-uktena krameṇa eva sarvam kṛtvā viśeṣataḥ .. 13.37 ..
सभ्याग्निकुण्डे रात्रौतु हौत्रशंसनमाचरेथ् । वराहं वरदं विष्णुमुर्वीसंधारणं तथा ॥ १३.३८ ॥
सभ्य-अग्निकुण्डे रात्रौ तु हौत्र-शंसनम् आचरेथ् । वराहम् वर-दम् विष्णुम् उर्वी-संधारणम् तथा ॥ १३।३८ ॥
sabhya-agnikuṇḍe rātrau tu hautra-śaṃsanam ācareth . varāham vara-dam viṣṇum urvī-saṃdhāraṇam tathā .. 13.38 ..
वज्रदंष्ट्रऽमिति प्रोच्य देवमादिवराहकं । महीं तां पृथुलामुर्वीऽमिति देवीं महीं क्रमाथ् ॥ १३.३९ ॥
वज्रदंष्ट्रम् इति प्रोच्य देवम् आदिवराहकम् । महीम् ताम् पृथुलाम् उर्वी इति देवीम् महीम् ॥ १३।३९ ॥
vajradaṃṣṭram iti procya devam ādivarāhakam . mahīm tām pṛthulām urvī iti devīm mahīm .. 13.39 ..
आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेथ् । वाराहं प्रलयहरं भूतेशं विष्णुमेव च ॥ १३.४० ॥
आवाहयेत् यथान्यायम् समाचरेथ् । वाराहम् प्रलय-हरम् भूतेशम् विष्णुम् एव च ॥ १३।४० ॥
āvāhayet yathānyāyam samācareth . vārāham pralaya-haram bhūteśam viṣṇum eva ca .. 13.40 ..
जगत्त्रयात्मकंऽ चोक्त्वा वराहं प्रलयात्मकं । वराहं देवरूपं च यज्ञेशं यज्ञवर्धकं ॥ १३.४१ ॥
जगत्त्रय-आत्मकम् च उक्त्वा वराहम् प्रलय-आत्मकम् । वराहम् देव-रूपम् च यज्ञेशम् यज्ञ-वर्धकम् ॥ १३।४१ ॥
jagattraya-ātmakam ca uktvā varāham pralaya-ātmakam . varāham deva-rūpam ca yajñeśam yajña-vardhakam .. 13.41 ..
विष्णुंऽ चेति तथा देवं यज्ञवाराहमाह्वयेथ् । आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः ॥ १३.४२ ॥
विष्णुम् च इति तथा देवम् यज्ञवाराहम् आह्वयेथ् । आवाहन-आदि-सर्वत्र पूर्ववत् कारयेत् बुधः ॥ १३।४२ ॥
viṣṇum ca iti tathā devam yajñavārāham āhvayeth . āvāhana-ādi-sarvatra pūrvavat kārayet budhaḥ .. 13.42 ..
क्ष्मामेकाऽमिति मन्त्रेण यजेदष्टोत्तरं शतं । हरेरुक्तविधानेन सर्वं पूर्ववदाचरेथ् ॥ १३.४३ ॥
क्ष्माम् एका इति मन्त्रेण यजेत् अष्ट-उत्तरम् शतम् । हरेः उक्त-विधानेन सर्वम् पूर्ववत् आचरेथ् ॥ १३।४३ ॥
kṣmām ekā iti mantreṇa yajet aṣṭa-uttaram śatam . hareḥ ukta-vidhānena sarvam pūrvavat ācareth .. 13.43 ..
नारसिंहः
हिरण्यकशिपुर्नाम दैत्यानां प्रबलोऽभवथ् । वरेण गर्वाद्दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ १३.४४ ॥
हिरण्यकशिपुः नाम दैत्यानाम् प्रबलः अभवथ् । वरेण गर्वात् दैत्य-इन्द्रः हिरण्यकशिपुः तदा ॥ १३।४४ ॥
hiraṇyakaśipuḥ nāma daityānām prabalaḥ abhavath . vareṇa garvāt daitya-indraḥ hiraṇyakaśipuḥ tadā .. 13.44 ..
देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः । दिवा वा यदि वा रात्रौ वधो मे न भवेदिति ॥ १३.४५ ॥
देवैः मृगैः मनुष्यैः वा जीविभिः वा अपि अजीविभिः । दिवा वा यदि वा रात्रौ वधः मे न भवेत् इति ॥ १३।४५ ॥
devaiḥ mṛgaiḥ manuṣyaiḥ vā jīvibhiḥ vā api ajīvibhiḥ . divā vā yadi vā rātrau vadhaḥ me na bhavet iti .. 13.45 ..
लोकानुद्वेजयमास तदा तं दैत्यसत्तमं । हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥ १३.४६ ॥
लोकान् उद्वेजयमास तदा तम् दैत्य-सत्तमम् । हन्तु-कामः कृत-उद्योगः चिन्तयित्वा हरिः प्रभुः ॥ १३।४६ ॥
lokān udvejayamāsa tadā tam daitya-sattamam . hantu-kāmaḥ kṛta-udyogaḥ cintayitvā hariḥ prabhuḥ .. 13.46 ..
तत्पालितपुराद्बाह्ये महापर्वतमस्तके । रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः ॥ १३.४७ ॥
तद्-पालित-पुरात् बाह्ये महा-पर्वत-मस्तके । रक्षसा पीडितैः देवैः प्रार्थितः करुणा-निधिः ॥ १३।४७ ॥
tad-pālita-purāt bāhye mahā-parvata-mastake . rakṣasā pīḍitaiḥ devaiḥ prārthitaḥ karuṇā-nidhiḥ .. 13.47 ..
नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च । संध्याकालेऽवधीत्तन्तु भुवङ्गे स नखायथः ॥ १३.४८ ॥
नरसिंह-वपुः भूत्वा दिवा रात्रिम् व्यपोह्य च । संध्या-काले अवधीत् तन्तु भुवङ्गे स नखायथः ॥ १३।४८ ॥
narasiṃha-vapuḥ bhūtvā divā rātrim vyapohya ca . saṃdhyā-kāle avadhīt tantu bhuvaṅge sa nakhāyathaḥ .. 13.48 ..
बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः । एवं दैत्यवधं कृत्वा पर्वतेऽन्तरभूत्हरिः ॥ १३.४९ ॥
बाह्यम् आभ्यस्तरम् हित्वा जीव-अजीवैः नखैः शुभैः । एवम् दैत्य-वधम् कृत्वा पर्वते अन्तरभूत् हरिः ॥ १३।४९ ॥
bāhyam ābhyastaram hitvā jīva-ajīvaiḥ nakhaiḥ śubhaiḥ . evam daitya-vadham kṛtvā parvate antarabhūt hariḥ .. 13.49 ..
ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये । पर्वताकृतिके वापि श्रीप्रतिष्ठितकेऽपिवा ॥ १३.५० ॥
ततस् तम् अर्चयेत् भक्त्या विजय-अर्थम् विवृद्धये । पर्वत-आकृतिके वा अपि श्री-प्रतिष्ठितके अपि वा ॥ १३।५० ॥
tatas tam arcayet bhaktyā vijaya-artham vivṛddhaye . parvata-ākṛtike vā api śrī-pratiṣṭhitake api vā .. 13.50 ..
दशतालेन मानेन नरसिंहं प्रकल्पयेथ् । गिरिजं स्थूणजं चैव सुदर्शननृसिंहकं ॥ १३.५१ ॥
दश-तालेन मानेन नरसिंहम् । गिरिजम् स्थूणजम् च एव सुदर्शन-नृसिंहकम् ॥ १३।५१ ॥
daśa-tālena mānena narasiṃham . girijam sthūṇajam ca eva sudarśana-nṛsiṃhakam .. 13.51 ..
तथा लक्ष्मीनृसिंहं च पातालनरसिंहकं । तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः ॥ १३.५२ ॥
तथा लक्ष्मी-नृसिंहम् च पाताल-नरसिंहकम् । तथा पुच्छ-नृसिंहम् च नृसिंहम् षड्विधम् विदुः ॥ १३।५२ ॥
tathā lakṣmī-nṛsiṃham ca pātāla-narasiṃhakam . tathā puccha-nṛsiṃham ca nṛsiṃham ṣaḍvidham viduḥ .. 13.52 ..
सिंहासने समासीनं सर्वाभरण भूषितं । नारसिंहं चतुर्बाहुं शङ्खचक्रधरं परं ॥ १३.५३ ॥
सिंहासने समासीनम् सर्व-आभरण-भूषितम् । नारसिंहम् चतुर्-बाहुम् शङ्ख-चक्र-धरम् परम् ॥ १३।५३ ॥
siṃhāsane samāsīnam sarva-ābharaṇa-bhūṣitam . nārasiṃham catur-bāhum śaṅkha-cakra-dharam param .. 13.53 ..
पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितं । प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च ॥ १३.५४ ॥
पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितम् । प्रसार्य हस्तौ द्वौ जान्वोः तयोः ऊर्ध्वे निधाय च ॥ १३।५४ ॥
pādau dvau ca samākuñcya nyasya siṃhāsane sthitam . prasārya hastau dvau jānvoḥ tayoḥ ūrdhve nidhāya ca .. 13.54 ..
वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा । श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभां ॥ १३.५५ ॥
वस्त्रेण च ऊरू बद्ध्वा एवम् आसीनम् गिरिजम् तथा । श्रियम् कनक-वर्ण-आभाम् मेदिनीम् श्याम-सन्निभाम् ॥ १३।५५ ॥
vastreṇa ca ūrū baddhvā evam āsīnam girijam tathā . śriyam kanaka-varṇa-ābhām medinīm śyāma-sannibhām .. 13.55 ..
ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमाथ् । वाहनं सामवेदं च प्रमुखे संप्रकल्पयेथ् ॥ १३.५६ ॥
ब्रह्म-ईशौ वन्दमानौ तु दक्षिण-उत्तरयोः । वाहनम् सामवेदम् च प्रमुखे संप्रकल्पयेथ् ॥ १३।५६ ॥
brahma-īśau vandamānau tu dakṣiṇa-uttarayoḥ . vāhanam sāmavedam ca pramukhe saṃprakalpayeth .. 13.56 ..
साम श्यामनिभं कुर्यात्सर्वाभरणभूषितं । भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः ॥ १३.५७ ॥
साम श्याम-निभम् कुर्यात् सर्व-आभरण-भूषितम् । भूमीशः शैषिक-स्थानम् आश्रितः ॥ १३।५७ ॥
sāma śyāma-nibham kuryāt sarva-ābharaṇa-bhūṣitam . bhūmīśaḥ śaiṣika-sthānam āśritaḥ .. 13.57 ..
कारयेदुक्तवर्णन्तं सर्वाभरणभूषितं । स्थूणजं संप्रवक्ष्यामि स्थूणादाविर्बभौ हरिः ॥ १३.५८ ॥
कारयेत् उक्त-वर्णन्तम् सर्व-आभरण-भूषितम् । स्थूणजम् संप्रवक्ष्यामि स्थूणात् आविस् बभौ हरिः ॥ १३।५८ ॥
kārayet ukta-varṇantam sarva-ābharaṇa-bhūṣitam . sthūṇajam saṃpravakṣyāmi sthūṇāt āvis babhau hariḥ .. 13.58 ..
वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । चतुर्भुजधरं देवं शङ्खचक्रेच कारयेथ् ॥ १३.५९ ॥
वाम-पादम् समाकुञ्च्य दक्षिणम् संप्रसार्य च । चतुर्-भुज-धरम् देवम् शङ्ख-चक्र-इच ॥ १३।५९ ॥
vāma-pādam samākuñcya dakṣiṇam saṃprasārya ca . catur-bhuja-dharam devam śaṅkha-cakra-ica .. 13.59 ..
हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा । वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेथ् ॥ १३.६० ॥
हस्तम् तु दक्षिणम् पूर्वम् कुर्यात् दान-करम् तधा । वाम-हस्तम् प्रबद्ध्य एव ऊरौ च तु ॥ १३।६० ॥
hastam tu dakṣiṇam pūrvam kuryāt dāna-karam tadhā . vāma-hastam prabaddhya eva ūrau ca tu .. 13.60 ..
सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकं । शङ्खकुन्देन्दुधवलं सर्वाभरणभूषेतं ॥ १३.६१ ॥
सटा-कन्धर-संयुक्तम् तीक्ष्ण-दंष्ट्रम् भयानकम् । शङ्ख-कुन्द-इन्दु-धवलम् सर्व-आभरण-भूषेतम् ॥ १३।६१ ॥
saṭā-kandhara-saṃyuktam tīkṣṇa-daṃṣṭram bhayānakam . śaṅkha-kunda-indu-dhavalam sarva-ābharaṇa-bhūṣetam .. 13.61 ..
सुदर्शननृसिंहस्य लक्षणं संप्रवक्ष्यते । सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलं ॥ १३.६२ ॥
सुदर्शन-नृसिंहस्य लक्षणम् संप्रवक्ष्यते । सूर्य-कोटि-प्रतीकाशम् चक्रम् विमलम् उज्ज्वलम् ॥ १३।६२ ॥
sudarśana-nṛsiṃhasya lakṣaṇam saṃpravakṣyate . sūrya-koṭi-pratīkāśam cakram vimalam ujjvalam .. 13.62 ..
बृहद्भानुपुरद्वन्द्वं चक्रमध्ये प्रकल्पयेथ् । चक्रमध्ये समासीनं नृसिंहमरुणप्रभं ॥ १३.६३ ॥
बृहद्भानु-पुर-द्वन्द्वम् चक्र-मध्ये । चक्र-मध्ये समासीनम् नृसिंहम् अरुण-प्रभम् ॥ १३।६३ ॥
bṛhadbhānu-pura-dvandvam cakra-madhye . cakra-madhye samāsīnam nṛsiṃham aruṇa-prabham .. 13.63 ..
अत्यन्तभीषणाकारं भक्तानामभयप्रदं । चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेथ् ॥ १३.६४ ॥
अत्यन्त-भीषण-आकारम् भक्तानाम् अभय-प्रदम् । चक्रायुधम् चतुर्बाहुम् देवदेवम् प्रकल्पयेथ् ॥ १३।६४ ॥
atyanta-bhīṣaṇa-ākāram bhaktānām abhaya-pradam . cakrāyudham caturbāhum devadevam prakalpayeth .. 13.64 ..
वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः । वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ १३.६५ ॥
वक्ष्ये लक्ष्मी-ऋसिंहस्य लक्षणम् मुनि-सत्तमाः । वाम-पादम् समाकुञ्च्य दक्षिणम् संप्रसार्य च ॥ १३।६५ ॥
vakṣye lakṣmī-ṛsiṃhasya lakṣaṇam muni-sattamāḥ . vāma-pādam samākuñcya dakṣiṇam saṃprasārya ca .. 13.65 ..
वामोरौ श्रियमासीनां प्रांजलीकृतवास्तकां । वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनं ॥ १३.६६ ॥
वाम-ऊरौ श्रियम् आसीनाम् प्रांजलीकृत-वास्तकाम् । वाम-हस्तेन देह्यः च कुर्वन्तम् उपगूहनम् ॥ १३।६६ ॥
vāma-ūrau śriyam āsīnām prāṃjalīkṛta-vāstakām . vāma-hastena dehyaḥ ca kurvantam upagūhanam .. 13.66 ..
दक्षिणं त्वभयं कुर्यात्पराभ्यां शङ्कचक्रके । पातालनारसिंहाख्यमासीनं पूर्ववत्तथा ॥ १३.६७ ॥
दक्षिणम् तु अभयम् कुर्यात् पराभ्याम् शङ्क-चक्रके । पाताल-नारसिंह-आख्यम् आसीनम् पूर्ववत् तथा ॥ १३।६७ ॥
dakṣiṇam tu abhayam kuryāt parābhyām śaṅka-cakrake . pātāla-nārasiṃha-ākhyam āsīnam pūrvavat tathā .. 13.67 ..
फणैस्तु पञ्चभिस्सम्यक्छन्नमूर्धानमेव च । दक्षिणादक्षिणं हस्तं वरदं कटीकं तथा ॥ १३.६८ ॥
फणैः तु पञ्चभिः सम्यक् छन्न-मूर्धानम् एव च । दक्षिणा-दक्षिणम् हस्तम् वर-दम् कटीकम् तथा ॥ १३।६८ ॥
phaṇaiḥ tu pañcabhiḥ samyak channa-mūrdhānam eva ca . dakṣiṇā-dakṣiṇam hastam vara-dam kaṭīkam tathā .. 13.68 ..
वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेथ् । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ॥ १३.६९ ॥
वक्ष्ये पुच्छनृसिंहः तु पुच्छ-युक्तम् तु । अभयम् दक्षिणम् हस्तम् वामम् ऊरु-प्रतिष्ठितम् ॥ १३।६९ ॥
vakṣye pucchanṛsiṃhaḥ tu puccha-yuktam tu . abhayam dakṣiṇam hastam vāmam ūru-pratiṣṭhitam .. 13.69 ..
दक्षिणं पादमाकुञ्च्य सर्वाभरणभूषितं । नारसिंहमिदं कृत्वास्थापनारंभमाचरेथ् ॥ १३.७० ॥
दक्षिणम् पादम् आकुञ्च्य सर्व-आभरण-भूषितम् । नारसिंहम् इदम् कृत्वा आस्थापन-आरंभम् आचरेथ् ॥ १३।७० ॥
dakṣiṇam pādam ākuñcya sarva-ābharaṇa-bhūṣitam . nārasiṃham idam kṛtvā āsthāpana-āraṃbham ācareth .. 13.70 ..
तत्रचाहवनीयाग्नौ हौत्रशंसनमाचरेथ् । नारसिंहं तपोनाथं महाविष्णुं महाबलं ॥ १३.७१ ॥
तत्र च आहवनीय-अग्नौ हौत्र-शंसनम् आचरेथ् । नारसिंहम् तपः-नाथम् महाविष्णुम् महाबलम् ॥ १३।७१ ॥
tatra ca āhavanīya-agnau hautra-śaṃsanam ācareth . nārasiṃham tapaḥ-nātham mahāviṣṇum mahābalam .. 13.71 ..
भक्तवत्सलऽ मित्युक्त्वा नरसिंहं समाह्वयेथ् । तपोनिधिंऽ समुच्चार्य शतमष्टाधिकं यजेथ् ॥ १३.७२ ॥
भक्त-वत्सल इति उक्त्वा नरसिंहम् समाह्वयेथ् । तपः-निधिम् समुच्चार्य शतम् अष्ट-अधिकम् यजेथ् ॥ १३।७२ ॥
bhakta-vatsala iti uktvā narasiṃham samāhvayeth . tapaḥ-nidhim samuccārya śatam aṣṭa-adhikam yajeth .. 13.72 ..
स्नापनं चोत्सवं चैव हरेरिव विधानतः ॥ १३.७३ ॥
स्नापनम् च उत्सवम् च एव हरेः इव विधानतः ॥ १३।७३ ॥
snāpanam ca utsavam ca eva hareḥ iva vidhānataḥ .. 13.73 ..
इति श्रीवैखानसेभगवच्छास्त्रे भृगुप्रोक्तायां संहितायांप्रकीर्णाधिकारे त्रयोदशोऽध्यायः.
इति श्री-वैखानसे भगवच्छास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे त्रयोदशः अध्यायः।
iti śrī-vaikhānase bhagavacchāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre trayodaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In